त्रिशिखिब्राह्मणोपनिषत्

[[त्रिशिखिब्राह्मणोपनिषत् Source: EB]]

[

त्रिशिखिब्राह्मणोपनिषत् ।

योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् ।

प्रतियोगिविनिर्मुक्तं परंब्रह्म भवाम्यहम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच ।

भगवन् किं देहः किं प्राणः किं कारण किमात्मा स

होवाच सर्वमिदं शिव एव विजानीहि । किंतु नित्यः शुद्धो

निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं

दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते ।

तद्भासकं किमिति चेदुच्यते । सच्च्हब्दवाच्य

मविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् ।

महतोऽहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि ।

पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि ।

पञ्चमहाभूतेभ्योऽखिलं जगत् ॥

तदखिलं किमिति । भूतविकारविभागादिरिति । एकस्मिन्पिण्डे

कथं भूतविकारविभाग इति । तत्तत्कार्यकारणभेदरूपे

णांशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश

भेदविभागा भवन्ति । अथाकाशोऽन्तःकरणमनोबुद्धि

चिताहङ्कारः । वायुः समानोदानव्यानापानप्राणाः ।

वह्निः श्रोत्रत्वक्चक्शुर्जिह्वाघ्राणानि । आपः शब्दस्पर्श

रूपरसगन्धाः । पृथिवी वाक्पाणिपादपायूपस्थाः ।

ज्ञानसङ्कल्पनिश्चयानुसन्धानाभिमाना आकाश

कार्यान्तःकरणविषयाः । समीकरणोन्ननयनग्रहण

श्रवणोच्च्ह्वासा वायुकार्यप्राणादिविषयाः ।

शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रिय

विषया अबाश्रिताः । वचनादानगमनविसर्गानन्दाः

पृथिवीकार्यकर्मेन्द्रियविषयाः । कर्मज्ञानेन्द्रिय

विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः ।

मनोबुद्ध्योश्चित्ताहङ्कारौ चान्तर्भूतौ ।

अवकाशविधूतदर्शनपिण्डीईकरणधारणाः सूक्श्मतमा

जैवतन्मात्रविषयाः । एवं द्वादशाङ्गानि

आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि । अत्र

निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्र

प्रजापतियमा इत्यक्शाधिदेवतारूपैर्द्वादश

नाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं

तदेव ज्ञातेति । अथ व्योमानिलानलजलान्नानां

पञ्चीकरणमिति । ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा

शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति ।

मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो

वायौ तिष्ठति वायुस्तिष्ठति । बुद्धिरुदानयोगेन

चक्शुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ

तिष्ठत्यग्निस्तिष्ठति । चित्तमपानयोगेन जिह्वाद्वारा

रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति ।

अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो

गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति

य एवं वेद । अत्रैते श्लोका भवन्ति ।

पृथग्भूते षोडश कलाः स्वार्थभागान्परान्क्रमात् ।

अन्तःकरणव्यानाक्शिरसपायुनभःक्रमात् ॥ १॥

मुख्यात्पूर्वोत्तरैर्भागैर्भूतेभूते चतुश्चतुः ।

पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थिताः ॥ २॥

मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः ।

एवमंशो ह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा ॥ ३॥

तस्मादन्योन्यमाश्रित्य ह्योतं प्रोतमनुक्रमात् ।

पञ्चभूतमयी भूमिः सा चेतनसमन्विता ॥ ४॥

तत ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः ।

रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ५॥

केचित्तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् ।

तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थिताः ॥ ६॥

अस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् ।

सत्त्वान्तर्वर्तिनो देवाः कर्त्रहङ्कारचेतनाः ॥ ७॥

अस्य बीजं तमःपिण्डं मोहरूपं जडं घनम् ।

वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत् ॥ ८॥

प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे ।

अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते ॥ ९॥

सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते ।

सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् ॥ १०॥

सर्वदेशेष्वनुस्यूतश्चतूरूपः शिवात्मकः ।

यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः ॥ ११॥

तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे ।

यथा कोशस्तथा जीवो यथा जीवस्तथा शिवः ॥ १२॥

सविकारस्तथा जीवो निर्विकारस्तथा शिवः ।

कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः ॥ १३॥

यथा रसाशये फेनं मथनादेव जायते ।

मनो निर्मथनादेव विकल्पा बहवस्तथा ॥ १४॥

कर्मणा वर्तते कर्मी तत्त्यागाच्च्हान्तिमाप्नुयात् ।

अयने दक्शिणे प्राप्ते प्रपञ्चाभिमुखं गतः ॥ १५॥

अहङ्काराभिमानेन जीवः स्याद्धि सदाशिवः ।

स चाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते ॥ १६॥

नानायोनिशतं गत्वा शेतेऽसौ वासनावशात् ।

विमोक्शात्संचरत्येव मत्स्यः कूलद्वयं यथा ॥ १७॥

ततः कालवशादेव ह्यात्मज्ञानविवेकतः ।

उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरं क्रमात् ॥ १८॥

मूर्ध्न्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् ।

योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ १९॥

योगज्ञानपरो नित्यं स योगी न प्रणश्यति ।

विकारस्थं शिवं पश्येद्विकारश्च शिवेन तु ॥ २०॥

योगप्रकाशकं योगैर्ध्यायेच्चानन्य भावनः ।

योगज्ञाने न विद्येते तस्य भावो न सिद्ध्यति ॥ २१॥

तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् ।

योगी निशितधारेण क्शुरेणैव निकृन्तयेत् ॥ २२॥

शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्गसाधनैः ।

ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः ॥ २३॥

क्रियायोगमथेदानीं श्रुणु ब्राह्मणसत्तम ।

अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित् ॥ २४॥

यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते ।

कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु ॥ २५॥

बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ।

यत्त चित्तस्य सततमर्थे श्रेयसि बन्धनम् ॥ २६॥

ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः ।

यस्योक्तलक्शणे योगे द्विविधेऽप्यव्ययं मनः ॥ २७॥

स याति परमं श्रेयो मोक्शलक्शणमञ्जसा ।

देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः ॥ २८॥

अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः ।

सर्ववस्तुन्युदासीनभावमासनमुत्तमम् ॥ २९॥

जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः ।

चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम ॥ ३०॥

चित्तस्य निश्चलीभावो धारणा धारणं विदुः ।

सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते ॥ ३१॥

ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते ।

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ ३२॥

क्शमा धृतिर्मिताहारः शौचं चेति यमादश ।

तपःसन्तुष्टिरास्तिक्यं दानमाराधनं हरेः ॥ ३३॥

वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ इति ।

आसनानि तदङ्गानि स्वस्तिकादीनि वै द्विज ॥ ३४॥

वर्ण्यन्ते स्वस्तिकं पादतलयोरुभयोरपि ।

पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् ॥ ३५॥

सव्ये दक्शिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।

दक्शिणेऽपि तथा सव्यं गोमुखं गोर्मुखं यथा ॥ ३६॥

एक।म् चरणमन्यस्मिन्नूरावारोप्य निश्चलः ।

आस्ते यदिदमेनोघ्नं वीरासनमुदीरितम् ॥ ३७॥

गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।

योगासनं भवेदेतदिति योगविदो विदुः ॥ ३८॥

ऊर्वोरुपरिवै धत्ते यदा पादतले उभे ।

पद्मासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ ३९॥

पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः ।

व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं भवेत् ॥ ४०॥

पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ ।

निवेश्य भूमावातिष्ठेद्व्योमस्थः कुक्कुटासनः ॥ ४१॥

कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य कन्धरम् ।

शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ ४२॥

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।

धनुराकर्षकाकृष्टं धनुरासनमीरितम् ॥ ४३॥

सीवनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु ।

प्रसार्य जानुनोर्हस्तावासनं सिंहरूपकम् ॥ ४४॥

गुल्फौ च वृषणस्याधः सीवन्युभयपार्श्वयोः ।

निवेश्य पादौ हस्ताभ्यां बध्वा भद्रासनं भवेत् ॥ ४५॥

सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेण तु ।

निपीड्यासनमेतच्च मुक्तासनमुदीरितम् ॥ ४६॥

अवष्टभ्य धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः ।

कूर्परौ नाभिपार्श्वे तु स्थापयित्वा मयूरवत् ॥ ४७॥

समुन्नतशिरःपादं मयूरासनमिष्यते ।

वामोरुमूले दक्शाङ्घ्रिं जान्वोर्वेष्टितपाणिना ॥ ४८॥

वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् ।

योनिं वामेन संपीड्य मेढ्रादुपरि दक्शिणम् ॥ ४९॥

ऋजुकायः समासीनः सिद्धासनमुदीरितम् ।

प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् ॥ ५०॥

जानूपरि ललाटं तु पश्चिमं तानमुच्यते ।

येनकेन प्रकारेण सुखं धार्यं च जायते ॥ ५१॥

तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् ।

आसनं विजितं येन जितं तेन जगत्त्रयम् ॥ ५२॥

यमैश्च नियमैश्चैव आसनैश्च सुसंयतः ।

नाडीशुद्धिं च कृत्वादौ प्राणायामं समाचरेत् ॥ ५३॥

देहमानं स्वाङ्गुलिभिः षण्णवत्यङ्गुलायतम् ।

प्राणः शरीरादधिको द्वादशाङ्गुलमानतः ॥ ५४॥

देहस्थमनिलं देहसमुद्भूतेन वह्निना ।

न्यूनं समं वा योगेन कुर्वन्ब्रह्मविदिष्यते ॥ ५५॥

देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ।

त्रिकोणं द्विपदामन्यच्चतुरस्रं चतुष्पदम् ॥ ५६॥

वृत्तं विहङ्गमानां तु षडस्रं सर्पजन्मनाम् ।

अष्टास्रं स्वेदजानां तु तस्मिन्दीपवदुज्ज्वलम् ।

कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् ।

चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ॥ ५७॥

अण्डाकृति तिरश्चां च द्विजानां च चतुष्पदाम् ।

तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिप्यते ॥ ५८॥

तत्र चक्रं द्वादशारं तेषु विष्ण्वादिमूर्तयः ।

अहं तत्र स्थितश्चक्रं भ्रामयामि स्वमायया ॥ ५९॥

अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम ।

तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका ॥ ६०॥

प्राणाधिरूढश्चरति जीवस्तेन विना नहि ।

तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः ॥ ६१॥

अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता ।

यथावद्वायुसारं च ज्वलनादि च नित्यशः ॥ ६२

परितः कन्दपार्श्वे तु निरुध्येव सदा स्थिता ।

मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा ॥ ६३॥

योगकालेन मरुता साग्निना बोधिता सती ।

स्फुरिता हृदयाकाशे नागरूपा महोज्ज्वला ॥ ६४॥

अपनाद्द्वयङ्गुलादूर्ध्वमधो मेढ्रस्य तावता ।

देहमध्यं मनुष्याणां हृन्मध्यं तु चतुष्पदाम् ॥ ६५॥

इतरेषां तुन्दमध्ये प्राणापानसमायुताः ।

चतुष्प्रकारद्व्ययुते देहमध्ये सुषुम्नया ॥ ६६॥

कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता ।

पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी ॥ ६७॥

ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् ।

वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्तिपद्धतिः ॥ ६८॥

इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते ।

इडा समुत्थिता कन्दाद्वामनासापुटावधि ॥ ६९॥

पिङ्गला चोत्थिता तस्माद्दक्शनासापुटावधि ।

गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते ॥ ७०॥

पुरतः पृष्ठतस्तस्य वामेतरदृशौ प्रति ।

पूषा यशस्विनी नाड्यौ तस्मादेव समुत्थिते ॥ ७१॥

सव्येतरश्रुत्यवधि पायुमूलादलम्बुअसा ।

अधोगता शुभा नाडी मेढ्रान्तावधिरायता ॥ ७२॥

पादाङ्गुष्ठावधिः कन्दादधोयाता च कौशिकी ।

दशप्रकारभूतास्ताः कथिताः कन्दसम्भवाः ॥ ७३॥

तन्मूला बहवो नाड्यः स्थूलसूक्श्माश्च नाडिकाः ।

द्वासप्ततिसहस्राणि स्थूलाः सूक्श्माश्च नाडयः ॥ ७४॥

संख्यातुं न शक्यन्ते स्थूलमूलाः पृथग्विधाः ।

यथाश्वत्थदले सूक्श्माः स्थूलाश्च विततास्तथा ॥ ७५॥

प्राणापानौ समानश्च उदानो व्यान एव च ।

नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ७६॥

चरन्ति दशनाडीषु दश प्राणादिवायवः ।

प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् ॥ ७७॥

प्राण एवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः ।

आस्यनासिकयोर्मध्यं हृदयं नाभिमण्डलम् ॥ ७८॥

पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम ।

अपानश्चरति ब्रह्मन्गुदमेढ्रोरुजानुषु ॥ ७९॥

समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः ।

उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ॥ ८०॥

व्यानः श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च ।

नागादिवायवः पञ्च त्वगस्थादिषु संस्थिताः ॥ ८१॥

तुन्दस्थजलमन्नं च रसादीनि समीकृतम् ।

तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् ॥ ८२॥

इत्यादिचेष्टनं प्राणः करोति च पृथक्स्थितम् ।

अपानवायुर्मूत्रादेः करोति च विसर्जनम् ॥ ८३॥

प्राणापानादिचेष्टादि क्रियते व्यानवायुना ।

उज्जीर्यते शरीरस्थमुदानेन नभस्वता ॥ ८४॥

पोषणादिशरीरस्य समानः कुरुते सदा ।

उद्गारादिक्रियो नागः कूर्मोऽक्शादिनिमीलनः ॥ ८५॥

कृकरः क्शुतयोः कर्ता दत्तो निद्रादिकर्मकृत् ।

मृतगात्रस्य शोभादेर्धनञ्जय उदाहृतः ॥ ८६॥

नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च ।

चेष्टाश्च विविधास्तेषां ज्ञात्वैव निजसत्तम ॥ ८७॥

शुद्धौ यतेत नाडीनां पूर्वोक्तज्ञानसंयुतः ।

विविक्तदेशमासाद्य सर्वसंबन्धवर्जितः ॥ ८८॥

योगाङ्गद्रव्यसंपूर्णं तत्र दारुमये शुभे ।

आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः ॥ ८९॥

तावदासनमुत्सेधे तावद्द्वयसमायते ।

उपविश्यासनं सम्यक्स्वस्तिकादि यथारुचि ॥ ९०॥

बध्वा प्रागासनं विप्रो ऋजुकायः समाहितः ।

नासाग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् ॥ ९१॥

रसनां तालुनि न्यस्य स्वस्थचित्तो निरामयः ।

आकुञ्चितशिरः किंचिन्निबध्नन्योगमुद्रया ॥ ९२॥

हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् ।

रेचनं पूरणं वायोः शोधनं रेचनं तथा ॥ ९३॥

चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते ।

हस्तेन दक्शिणेनैव पीडयेन्नासिकापुटम् ॥ ९४॥

शनैः शनैरथ बहिः प्रक्शिपेत्पिङ्गलानिलम् ।

इडया वायुमापूर्य ब्रह्मन्षोडशमात्रया ॥ ९५॥

पूरितं कुम्भयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ।

द्वात्रिंशन्मात्रया सम्यग्रेचयेत्पिङ्गलानिलम् ॥ ९६॥

एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु ।

संपूर्णकुम्भवद्देहं कुम्भयेन्मातरिश्वना ॥ ९७॥

पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना ।

एवं कृते सति ब्रह्मंश्चरन्ति दश वायवः ॥ ९८॥

हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम् ।

तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् ॥ ९९॥

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् ।

शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ १००॥

एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते ।

संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः ॥ १०१॥

योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः ।

अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान्भवेत् ॥ १०२॥

अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् ।

प्रस्वेदजननं यस्य प्राणायामस्तु सोऽधमः ॥ १०३॥

कंपनं वपुषो यस्य प्राणायामेषु मध्यमः ।

उत्थानं वपुषो यस्य स उत्तम उदाहृतः ॥ १०४॥

अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः ।

पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः ॥ १०५॥

अल्पमूत्रोऽल्पविष्ठश्च लघुदेहो मिताशनः ।

पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् ॥ १०६॥

रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः ।

करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् ॥ १०७॥

नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् ।

धारयेन्मनसा प्राणान्सन्ध्याकालेषु वा सदा ॥ १०८॥

सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः ।

कुक्शिरोगविनाशः स्यान्नाभिकन्देषु धारणात् ॥ १०९॥

नासाग्रे धारणाद्दीर्घमायुः स्याद्देहलाघवम् ।

ब्राह्मे मुहूर्ते संप्राप्ते वायुमाकृष्य जिह्वया ॥ ११०॥

पिबतस्त्रिषु मासेषु वाक्सिद्धिर्महती भवेत् ।

अभ्यासतश्च षण्मासान्महारोगविनाशनम् ॥ १११॥

यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते ।

धारणादेव मरुतस्तत्तदारोग्यमश्नुते ॥ ११२॥

मनसो धारणादेव पवनो धारितो भवेत् ।

मनसः स्थापने हेतुरुच्यते द्विजपुङ्गव ॥ ११३॥

करणानि समाहृत्य विषयेभ्यः समाहितः ।

अपानमूर्ध्वमाकृष्येदुदरोपरि धारयेत् ॥ ११४॥

बन्धन्कराभ्यां श्रोत्रादिकरणानि यथातथम् ।

युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं मनः ॥ ११५॥

मनोवशात्प्राणवायुः स्ववशे स्थाप्यते सदा ।

नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते ॥ ११६॥

तिस्रश्च नाडिकास्तासु स यावन्तं चरत्ययम् ।

शङ्खिनीविवरे याम्ये प्राणः प्राणभृतां सताम् ॥ ११७॥

तावन्तं च पुनः कालं सौम्ये चरति सन्ततम् ।

इत्थं क्रमेण चरता वायुना वायुजिन्नरः ॥ ११८॥

अहश्च रात्रिं पक्शं च मासमृत्वयनादिकम् ।

अन्तर्मुखो विजानीयात्कालभेदं समाहितः ॥ ११९॥

अङ्गुष्ठादिस्वावयवस्फुरणादशनेरपि ।

अरिष्टैर्जीवितस्यापि जानीयात्क्शयमात्मनः ॥१२०॥

ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः ।

पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य न श्रुतिः ॥ १२१॥

तस्य संवत्सरादूर्ध्वं जीवितस्य क्शयो भवेत् ।

मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति ॥ १२२॥

षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत् ।

कूर्परे स्फुरणं यस्य तस्य त्रैमासिकी स्थितिः ॥ १२३॥

कुक्शिमेहनपार्श्वे च स्फुरणानुपलम्भने ।

मासावधिर्जीवितस्य तदर्धस्य तु दर्शने ॥ १२४॥

आश्रिते जठरद्वारे दिनानि दश जीवितम् ।

ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम् ॥ १२५॥

जिह्वाग्रादर्शने त्रीणि दिनानि स्थितिरात्मनः ।

ज्वालाया दर्शने मृत्युर्द्विदिने भवति ध्रुवम् ॥ १२६॥

एवमादीन्यरिष्टानि दृष्टायुःक्शयकारणम् ।

निःश्रेयसाय युञ्जीत जपध्यानपरायणः ॥ १२७॥

मनसा परमात्मानं ध्यात्वा तद्रूपतामियात् ।

यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् ॥ १२८॥

स्थानात्स्थानं समाकृष्य प्रत्याहारः स उच्यते ।

पादाङ्गुष्ठं तथा गुल्फं जङ्गामध्यं तथैव च ॥ १२९॥

मध्यमूर्वोश्च मूलं पायुर्हृदयमेव च ।

मेहनं देहमध्यं च नाभिं च गलकूर्परम् ॥ १३०॥

तालुमूलं च मूलं च घ्राणस्याक्श्णोश्च मण्डलम् ।

भ्रुवोर्मध्ये ललाटं च मूलमूर्ध्वं च जानुनी ॥ १३१॥

मूलं च करयोर्मूलं महान्त्येतानि वै द्विज ।

पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु ॥ १३२॥

मनसो धारणं यत्यद्युक्तस्य च यमादिभिः ।

धारणा सा च संसारसागरोत्तरकारणम् ॥ १३३॥

आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते ।

पित्तला चतुरस्रा च वसुधा वज्रलाञ्च्हिता ॥ १३४॥

स्मर्तव्या पञ्चघटिकास्तत्रारोप्यप्रभञ्जनम् ।

आजानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ १३५॥

अर्धचन्द्रसमाकारं श्वेतमर्जुनलाञ्च्हितम् ।

स्मर्तव्यमम्भःश्वसनमारोप्य दशनाडिकाः ॥ १३६॥

आदेहमध्यकट्यन्तमग्निस्थानमुदाहृतम् ।

तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दशपञ्च च ॥ १३७॥

स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम् ।

नाभेरुपरि नासान्तं वायुस्थानं तु तत्र वै ॥ १३८॥

वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः ।

स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् ॥ १३९॥

घटिकाविंशतिस्तस्माद्

घ्राणाद्ब्रह्मबिलावधि ।

व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम् ॥ १४०॥

व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् ।

पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनम् ॥ १४१॥

अनिरुद्धं हरिं योगी यतेत भवमुक्तये ।

अबंशे पूरयेद्योगी नारायणमुदग्रधीः ॥ १४२॥

प्रद्युम्नमग्नौ वाय्वंशे संकर्षणमतः परम् ।

व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् ॥ १४३॥

अचिरादेव तत्प्राप्तिर्युञ्जानस्य न संशयः ।

बध्वा योगासनं पूर्वं हृद्देशे हृदयाञ्जलिः ॥ १४४॥

नासाग्रन्यस्तनयनो जिह्वां कृत्वा च तालुनि ।

दन्तैर्दन्तानसंस्पृश्य ऊर्ध्वकायः समाहितः ॥ १४५॥

संयमेच्चेन्द्रियग्राममात्मबुद्ध्या विशुद्धया ।

चिन्तनं वासुदेवस्य परस्य परमात्मनः ॥ १४६॥

स्वरूपव्याप्तरूपस्य ध्यानं कैवल्यसिद्धिदम् ।

याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः ॥ १४७॥

सप्तजन्मार्जितं पापं तस्य नश्यति योगिनः ।

नाभिकन्दात्समारभ्य यावद्धृदयगोचरम् ॥ १४८॥

जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् ।

सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् ॥ १४९॥

तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्शयेत् ।

जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् ॥ १५०॥

तत्रात्मायं तुरीयस्य तुर्यान्ते विष्णुरुच्यते ।

ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले ॥ १५१॥

सूर्यकोटिद्युतिरथं नित्योदितमधोक्शजम् ।

हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् ॥ १५२॥

अनेकाकारखचितमनेकवदनान्वितम् ।

अनेकभुजसंयुक्तमनेकायुधमण्डितम् ॥ १५३॥

ननावर्णधरं देवं शातमुग्रमुदायुधम् ।

अनेकनयानाकीर्णं सूर्यकोटिसमप्रभम् ॥ १५४॥

ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति ।

हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥ १५५॥

कदम्बगोलकाकारं तुर्यातीतं परात्परम् ।

अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् ॥ १५६॥

निवातदीपसदृशमकृत्रिममणिप्रभम् ।

ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता ॥ १५७॥

विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेव हि ।

स्थवीयः सूक्श्ममन्यद्वा पश्यन्हृदयपङ्कजे ॥ १५८॥

ध्यायतो योगिनो यस्तु साक्शादेव प्रकाशते ।

अणिमादिफलं चैव सुखेनैवोपजायते ॥ १५९॥

जीवात्मनः परस्यापि यद्येवमुभयोरपि ।

अहमेव परंब्रह्म ब्रह्माहमिति संस्थितिः ॥ १६०॥

समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः ।

ब्रह्म सम्पद्यते योगी न भूयः संसृतिं व्रजेत् ॥ १६१॥

एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा ।

यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति ॥ १६२॥

ग्राह्याभावे मनः प्राणो निश्चयज्ञानसंयुतः ।

शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् ॥ १६३॥

मोहजालकसंघातो विश्वं पश्यति स्वप्नवत् ।

सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः ॥ १६४॥

निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुत इत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥


]