तेजोबिन्दूपनिषत्

[[तेजोबिन्दूपनिषत् Source: EB]]

[

तेजोबिन्दूपनिषत् ।

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।

तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् ।

आणवं शाम्भवं शान्तं स्थूलं सूक्श्मं परं च यत् ॥ १॥

दुःखाढ्यं च दुराराध्यं दुष्प्रेक्श्यं मुक्तमव्ययम् ।

दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २॥

यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः ।

निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३॥

अगम्यागमकर्ता यो गम्याऽगमयमानसः ।

मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥ ४॥

परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः ।

सोमरूपकला सूक्श्मा विष्णोस्तत्परमं पदम् ॥ ५॥

त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् ।

निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६॥

उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् ।

स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् ॥ ७॥

अनानानन्दनातीतं दुष्प्रेक्श्यं मुक्तिमव्ययम् ।

चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८॥

तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् ।

अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९॥

अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् ।

न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १०॥

सर्वं च न परं शून्यं न परं नापरात्परम् ।

अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११॥

मुनीनां संप्रयुक्तं च न देवा न परं विदुः ।

लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२॥

शीतोष्णे क्शुत्पिपासे च सङ्कल्पकविकल्पकम् ।

न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥ १३॥

न भयं न सुखं दुःखं तथा मानावमानयोः ।

एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥ १४॥

यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।

आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १५॥

प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।

आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६॥

सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः ।

यमोऽऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७॥

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।

नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १८॥

त्यागो हि महता पूज्यः सद्यो मोक्शप्रदायकः ॥ १९॥

यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ।

यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ २०॥

वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते ।

प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१॥

इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् ।

गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२॥

आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।

येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३॥

कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः ।

कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४॥

सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।

आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५॥

सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् ।

यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥

यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् ।

मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥ २७॥

अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते ।

नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्शवत् ॥ २८॥

दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।

सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९॥

द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।

दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ३०॥

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।

निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ३१॥

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः ।

ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२॥

ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ।

अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३॥

विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् ।

प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥ ३४॥

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।

मनसा धारणं चैव धारणा सा परा मता ॥ ३५॥

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।

ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६॥

निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।

वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७॥

इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।

लक्श्यो यावत्क्शणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥ ३८॥

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।

तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९॥

समाधौ क्रियमाणे तु विघ्नान्याअयान्ति वै बलात् ।

अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ ४०॥

लयस्तमश्च विक्शेपस्तेजः स्वेदश्च शून्यता ।

एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥ ४१॥

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।

ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२॥

ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् ।

वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३॥

ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये ।

ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ ४४॥

येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः ।

ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५॥

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।

तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६॥

निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।

यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ ४७॥

कारणं यस्य वै कार्यं कारणं तस्य जायते ।

कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥ ४८॥

अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।

उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ ४९॥

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् ।

दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥ ५०॥

विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥

इति प्रथमोऽध्यायः ॥ १॥


द्वितीयोऽध्यायः।

अथ ह कुमारः शिवं पप्रच्च्हाऽखण्डैकरस

चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः ।

अखण्डैकरसं दृश्यमखण्डैकरसं जगत् ।

अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥ १॥

अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।

अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २॥

अखण्डैकरसा भूमिरखण्डैकरसं वियत् ।

अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३॥

अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् ।

अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४॥

अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः ।

अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥ ५॥

अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः ।

अखण्डैकरसं लक्श्यमखण्डैकरसं महः ॥ ६॥

अखण्डैकरसो देह अखण्डैकरसं मनः ।

अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७॥

अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ।

अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८॥

अखण्डैकरसं किञ्चिदखण्डैकरसं परम् ।

अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९॥

अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि ।

अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ १०॥

अखण्डैकरसं स्थूलं सूक्श्मं चाखण्डरूपकम् ।

अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥ ११॥

अखण्डैकरसं गुह्यमखण्डैकरसादिकम् ।

अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२॥

अखण्डैकरसा माता अखण्डैकररसः पिता ।

अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥ १३॥

अखण्डैकरसं सूत्रमखण्डैकरसो विराट् ।

अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४॥

अखण्डैकरसं चान्तरखण्डैकरसं बहिः ।

अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५॥

अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् ।

अखण्डैकरसं गोप्यमखण्डैकरसशशशी ॥ १६॥

अखण्डैकरसास्तारा अखण्डैकरसो रविः ।

अखण्डैकरसं क्शेत्रमखण्डैकरसा क्शमा ॥ १७॥

अखण्डैकरस शान्त अखण्डैकरसोऽगुणः ।

अखण्डैकरसः साक्शी अखण्डैकरसः सुहृत् ॥ १८॥

अखण्डैकरसो बन्धुरखण्डैकरसः सखा ।

अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ १९॥

अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः ।

अखण्डैकरसं तारमखण्डैकरसो जपः ॥ २०॥

अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।

अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥ २१॥

अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् ।

अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २२॥

अखण्डैकरसो होम अखण्डैकरसो जपः ।

अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥ २३॥

अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् ।

चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४॥

भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि ।

इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥ २५॥

आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः ।

सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥ २६॥

आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।

यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥ २७॥

अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।

भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥ २८॥

द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि ।

ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥ २९॥

संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि ।

असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३०॥

आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् ।

दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१॥

सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि ।

लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥ ३२॥

अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् ।

पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३॥

चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् ।

चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥ ३४॥

चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् ।

चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५॥

चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् ।

चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६॥

चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु ।

चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥ ३७॥

चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि ।

यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥ ३८॥

यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ।

यच्च यावच्च भूतादि यच्च यावच्च लक्श्यते ॥ ३९॥

यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि ।

चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्शकम् ॥ ४०॥

चिन्मात्रान्नास्ति लक्श्यं च सर्वं चिन्मात्रमेव हि ।

अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१॥

शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् ।

इत्येकरूपतया यो वा जानात्यहं त्विति ॥ ४२॥

सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३॥

इति द्वितीयोऽध्यायः ॥ २॥


तृतीयोध्यायः ।

कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्च्ह ।

स होवाच परः शिवः ।

परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।

केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १॥

केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् ।

केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २॥

केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् ।

सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३॥

केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः ।

सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४॥

केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।

केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५॥

निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः ।

सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६॥

सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः ।

अपरिच्च्हिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥ ७॥

सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् ।

अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८॥

आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।

आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥ ९॥

आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् ।

आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥ १०॥

नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः ।

नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥ १॥

नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।

रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२॥

भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा ।

सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥ १३॥

देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा ।

चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४॥

सर्वदृश्यविहीनोऽहं दृग्

रूपोऽस्म्यहमेव हि ।

सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५॥

अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि ।

अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६॥

अहमेव महानात्मा ह्यहमेव परात्परः ।

अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥ १७॥

अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः ।

अहं कालत्रयातीत अहं वेदैरुपासितः ॥ १८॥

अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः ।

मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥ १९॥

मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु ।

अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २०॥

निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा ।

केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१॥

स्वयमेव स्वयं भामि स्वयमेव सदात्मकः ।

स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२॥

स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे ।

स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥ २३॥

स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये ।

स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४॥

स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे ।

स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥ २५॥

चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् ।

आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥ २६॥

सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् ।

नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥ २७॥

अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् ।

आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८॥

एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् ।

आकाशादपि सूक्श्मोऽहमाद्यन्ताभाववानहम् ॥ २९॥

सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् ।

सत्तामात्रस्वरूपोऽहं शुद्धमोक्शस्वरूपवान् ॥ ३०॥

सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् ।

विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्शणः ॥ ३१॥

ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन ।

तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥ ३२॥

त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन ।

चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥ ३३॥

अतिभावस्वरूपोऽहमहमेव सुखात्मकः ।

साक्शिवस्तुविहीनत्वात्साक्शित्वं नास्ति मे सदा ॥ ३४॥

केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः ।

अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५॥

नामरूपविमुक्तोऽहमहमानन्दविग्रहः ।

इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६॥

बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः ।

आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७॥

वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् ।

सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८॥

सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् ।

एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥ ३९॥

सर्वशून्यस्वरूपोऽहं सकलागमगोचरः ।

मुक्तोऽहं मोक्शरूपोऽहं निर्वाणसुखरूपवान् ॥४०॥

सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।

तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१॥

सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः ।

अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२॥

ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् ।

चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥ ४३॥

न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् ।

निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४॥

न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् ।

न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥ ४५॥

न तापत्रयरूपोऽहं नेषणात्रयवानहम् ।

श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥ ४६॥

सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् ।

स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥ ४७॥

असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् ।

अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥ ४८॥

देहत्रयमसद्विद्धि कालत्रयमसत्सदा ।

गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९॥

श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा ।

शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥ ५०॥

मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा ।

सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥ ५१॥

गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः ।

यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२॥

यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा ।

यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३॥

सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति ।

दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४॥

कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् ।

दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥ ५५॥

पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् ।

लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥ ५६॥

शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा ।

रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७॥

गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् ।

असदेव सदा सर्वमसदेव भवोद्भवम् ॥ ५८॥

असदेव गुणं सर्वं सन्मात्रमहमेव हि ।

स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९॥

अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥ ६०॥

अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥ ६१॥

अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२॥

अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥ ६३॥

अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४॥

अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥ ६५॥

अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्शणात् ।

अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६॥

अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥ ६७॥

अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥ ६८॥

अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥ ६९॥

अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः ।

अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्च्हति ॥ ७०॥

अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः ।

अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥ ७१॥

अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् ।

अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्शयिष्यति ॥ ७२॥

अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्च्हति ।

सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥ ७३॥

सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् ।

सद्यो मोक्शमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४॥

इति तृतीयोध्यायः ॥ ३॥

चतुर्थोऽध्यायः ।

कुमारः परमेश्वरं पप्रच्च्ह जीवन्मुक्तविदेहमुक्तयोः

स्थितिमनुब्रूहीति । स होवाच परः शिवः ।

चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।

आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १॥

देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।

ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥ २॥

आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् ।

यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।

परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३॥

यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।

चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥ ४॥

सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः ।

आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥ ५॥

शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः ।

नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥ ६

किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ।

न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥ ७॥

न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् ।

न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥ ८॥

न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् ।

न मे दोषो न मे लिङ्गं न मे चक्शुर्न मे मनः ॥ ९॥

न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः ।

न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १०॥

न मे तुरीयमिति यः स जीवन्मुक्त उच्यते ।

इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥ ११॥

न मे कालो न मे देशो न मे वस्तु न मे मतिः ।

न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥ १२॥

न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् ।

न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥ १३॥

न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् ।

ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥ १४॥

न मे मोक्शो न मे द्वैतं न मे वेदो न मे विधिः ।

न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५॥

न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः ।

न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६॥

न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् ।

न मे वह्निर्न मे गोत्रं न मे लक्श्यं न मे भवः ॥ १७॥

न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः ।

न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्शुधा ॥ १८॥

न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः ।

न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥ १९॥

न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।

न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥ २०॥

न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि ।

न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१॥

न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् ।

न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥ २२॥

न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्शयः ।

अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥ २३॥

न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि ।

न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४॥

न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् ।

न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥ २५॥

न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् ।

न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥ २६॥

न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः ।

न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७॥

न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।

न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥ २८॥

न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।

अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९॥

चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ।

ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥ ३०॥

स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः ।

स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥ ३१॥

स्वात्मानन्दं स्वयं भोक्श्येत्स जीवन्मुक्त उच्यते ।

स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ॥ ३२॥

ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।

स्वच्च्हरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३॥

सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः ।

एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४॥

अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः ।

लक्श्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥ ३५॥

आनन्दात्मा प्रियो ह्यात्मा मोक्शात्मा बन्धवर्जितः ।

ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६॥

चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥३७॥

निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् ।

आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८॥

सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।

अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥ ३९॥

किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ ।

तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ४०॥

परमात्मा गुणातीतः सर्वात्मा भूतभावनः ।

कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१॥

किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते ।

अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥ ४२॥

शून्यात्मा सूक्श्मरूपात्मा विश्वात्मा विश्वहीनकः ।

देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः ॥ ४३॥

सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।

सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४॥

केवलः परमात्माहं केवलो ज्ञानविग्रहः ।

सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥ ४५॥

जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति ।

इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥ ४६॥

इति निश्चयशून्यो यो वैदेही मुक्त एव सः ।

चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥ ४७॥

अपरिच्च्हिन्नरूपात्मा अणुस्थूलादिवर्जितः ।

तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥ ४८॥

नामरूपविहीनात्मा परसंवित्सुखात्मकः ।

तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥ ४९॥

योगात्मा योगयुक्तात्मा बन्धमोक्शविवर्जितः ।

गुणागुणविहीनात्मा देशकालादिवर्जितः ॥ ५०॥

साक्श्यसाक्शित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन ।

यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१॥

स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः ।

वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥ ५२॥

अतीतातीतभावो यो वैदेही मुक्त एव सः ।

चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥ ५३॥

सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः ।

तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥ ५४॥

ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः ।

परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥ ५५॥

परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।

ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६॥

ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् ।

ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७॥

ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ।

ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८॥

ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः ।

ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥ ५९॥

ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः ।

ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥ ६०॥

ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः ।

आत्मरूपमिद।म् सर्वमात्मनोऽन्यन्न कञ्चन ॥ ६१॥

सर्वमात्माहमात्मास्मि परमात्मा परात्मकः ।

नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२॥

पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः ।

सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३॥

निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः ।

शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥ ६४॥

जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः ।

मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५॥

बन्धमोक्शस्वरूपात्मा बन्धमोक्शविवर्जितः ।

द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६॥

सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः ।

मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७॥

सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः ।

निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥ ६८॥

आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः ।

कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९॥

अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः ।

नित्यप्रत्यक्शरूपात्मा नित्यप्रत्यक्शनिर्णयः ॥ ७०॥

अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः ।

विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥ ७१॥

नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः ।

शमादिषट्कशून्यात्मा मुमुक्शुत्वादिवर्जितः ॥ ७२॥

स्थूलदेहविहीनात्मा सूक्श्मदेहविवर्जितः ।

कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३॥

अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।

मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४॥

आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः ।

निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५॥

दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः ।

सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६॥

प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः ।

तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७॥

ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।

अवस्थात्रयहीनात्मा अक्शरात्मा चिदात्मकः ॥ ७८॥

आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः ।

भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥ ७९॥

आत्मानमेव वीक्शस्व आत्मानं बोधय स्वकम् ।

स्वमात्मानं स्वयं भुङ्क्श्व स्वस्थो भव षडानन ॥ ८०॥

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर ।

आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥

इति चतुर्थोऽध्यायः ॥ ४॥


पञ्चमोऽध्यायः।

निदाघो नाम वै मुनिः पप्रच्च्ह ऋभुं

भगवन्तमात्मानात्मविवेकमनुब्रूहीति ।

स होवाच ऋभुः ।

सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः ।

सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १॥

सर्वसङ्कल्परहितः सर्वनादमयः शिवः ।

सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २॥

सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः ।

सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ ३॥

सर्वनादकलातीत एष आत्माहमव्ययः ।

आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥ ४॥

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः ।

महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५॥

तच्च्हब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।

क्शराक्शरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६॥

अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः ।

सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७॥

आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।

सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ ८॥

स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः ।

यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ ९॥

यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः ।

नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १०॥

नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा ।

सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्शराक्शरम् ॥ ११॥

गुणं वा विगुणं वापि सम आत्मा न संशयः ।

यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १२॥

गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः ।

यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३॥

यत्र कालमकालं वा निश्चयः संशयो न हि ।

यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥ १४॥

द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् ।

अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १५॥

अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु ।

सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥ १६॥

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु ।

देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७॥

जीवत्रयगुणाभावात्तापत्रयविवर्जनात् ।

लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् ॥ १८॥

चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च ।

पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९॥

मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् ।

धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २०॥

अक्शरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि ।

एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१॥

सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च संभवेत् ।

असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२॥

शुभं यद्यशुभं विद्धि अशुभाच्च्हुभमिष्यते ।

भयं यद्यभवं विद्धि अभयाद्भयमापतेत् ॥ २३॥

बन्धत्वमपि चेन्मोक्शो बन्धाभावे क्व मोक्शता ।

मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २४॥

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।

इदं यदि तदेवास्ति तदभादिदं न च ॥ २५॥

अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन ।

कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ २६॥

द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च ।

दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥ २७॥

अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च ।

पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ २८॥

तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ।

नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥ २९॥

परंब्रह्माहमस्मीति स्मरणस्य मनो न हि ।

ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥ ३०॥

चिन्मात्रं केवल।म् चाहं नास्त्यनात्म्येति निश्चिनु ।

इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥ ३१॥

चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा ।

न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥ ३२॥

मायाकार्यादिकं नास्ति माया नास्ति भयं नहि ।

कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥ ३३॥

समाधिद्वितयं नास्ति मातृमानादि नास्ति हि ।

अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥ ३४॥

अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न ।

न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५॥

न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् ।

न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥ ३६॥

न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् ।

नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥ ३७॥

बन्धमोक्शादिकं नास्ति सद्वाऽसद्वा सुखादि वा ।

जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८॥

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि ।

चिदित्येवेति नास्त्येव चिदहंभाषणं न हि ॥ ३९॥

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् ।

वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥ ४०॥

बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ।

योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥ ४१॥

अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ।

भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥ ४२॥

वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः ।

लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३॥

बन्धो मोक्शः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।

गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ४४॥

वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् ।

मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५॥

बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् ।

शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्श्यते ॥ ४६॥

श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ।

नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ ४७॥

इदमित्येव निर्दिष्टमयमित्येव कल्प्यते ।

त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च ॥ ४८॥

यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः ।

सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९॥

सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु ।

मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५०॥

मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ।

रक्शको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥ ५१॥

संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ।

स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥ ५२॥

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ।

अन्तःकरणसद्भाव अविद्याश्च संभवः ॥ ५३॥

अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ।

सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४॥

दृश्यते जगति यद्यद्यद्यज्जगति वीक्श्यते ।

वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥ ५५॥

येन केनाक्शरेणोक्तं येन केन विनिश्चितम् ।

येन केनापि गदितं येन केनापि मोदितम् ॥ ५६॥

येन केनापि यद्दत्तं येन केनापि यत्कृतम् ।

यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७॥

यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ।

त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥ ५८॥

त्वमेवाकाशरूपोऽसि साक्शिहीनोऽसि सर्वदा ।

त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥ ५९॥

कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।

सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥ ६०॥

सत्योऽसि सिद्धोऽसि सनातनोऽसि

मुक्तोऽसि मोक्शोऽसि मुदामृतोऽसि ।

देवोऽसि शान्तोऽसि निरामयोऽसि

ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१॥

समोऽसि सच्चापि सनातनोऽसि

सत्यादिवाक्यैः प्रतिबोधितोऽसि ।

सर्वाङ्गहीनोऽसि सदा स्थितोऽसि

ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ ६२॥

सर्वप्रपञ्चभ्रमवर्जितोऽसि

सर्वेषु भूतेषु च भासितोऽसि ।

सर्वत्र सङ्कल्पविवर्जितोऽसि

सर्वागमान्तार्थविभावितोऽसि ॥ ६३॥

सर्वत्र सन्तोषसुखासनोऽसि

सर्वत्र गत्यादिविवर्जितोऽसि ।

सर्वत्र लक्श्यादिविवर्जितोऽसि

ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६४॥

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।

आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥ ६५॥

आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः ।

चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६॥

सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्शसि ।

सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६७॥

अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि ।

सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ ६८॥

सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि ।

नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९॥

ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः ।

अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ७०॥

लक्श्यलक्शणहीनोऽसि निर्विकारो निरामयः ।

सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१॥

ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि ।

स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२॥

स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः ।

शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७३॥

स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि ।

स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ ७४॥

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।

दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ७५॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६॥

नाशो जन्म च सत्यं च पुण्यपापजयादिकम् ।

रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥ ७७॥

गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् ।

भूतं भव्यं वर्तमानं लक्श्यं लक्शणमद्वयम् ॥ ७८॥

शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् ।

यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९॥

आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः ।

इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥ ८०॥

चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।

सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१॥

सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् ।

विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ॥ ८२॥

बन्धमोक्शविभागं च ज्ञानविज्ञानरूपकम् ।

बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥ ८३॥

सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् ।

अनेकजीवसद्भावमेकजीवादिनिर्णयम् ॥ ८४॥

यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् ।

बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥ ८५॥

यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् ।

यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥ ८६॥

यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः ।

शिवः क्शरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥ ८७॥

ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् ।

यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८॥

सर्वोपनिषदां भावं सर्वं शशविषाणवत् ।

देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥ ८९॥

देहोऽहमिति सङ्कल्पो महत्संसार उच्यते ।

देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते ॥ ९०॥

देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते ।

देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् ॥ ९१॥

देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते ।

देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः ॥ ९२॥

देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते ।

देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥ ९३॥

देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते ।

देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४॥

देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि ।

देहोऽहमिति यज्ज्ञानं परिच्च्हिन्नमितीरितम् ॥ ९५॥

देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।

देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥ ९६॥

यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् ।

कामं क्रोधं बन्धनं सर्वदुःखं

विश्वं दोषं कालनानास्वरूपम् ।

यत्किञ्चेदं सर्वसङ्कल्पजालं

तत्किञ्चेदं मानसं सोम विद्धि ॥ ९७॥

मन एव जगत्सर्वं मन एव महारिपुः ।

मन एव हि संसारो मन एव जगत्त्रयम् ॥ ९८॥

मन एव महद्दुःखं मन एव जरादिकम् ।

मन एव हि कालश्च मन एव मलं तथा ॥ ९९॥

मन एव हि सङ्कल्पो मन एव हि जीवकः ।

मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ १००॥

मन एव महद्बन्धं मनोऽन्तःकरणं च तत् ।

मन एव हि भूमिश्च मन एव हि तोयकम् ॥ १०१॥

मन एव हि तेजश्च मन एव मरुन्महान् ।

मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२॥

स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः ।

जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥ १०३॥

दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।

दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ १०४॥

सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु ।

नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥ १०५॥

इति पञ्चमोऽध्यायः ॥ ५॥

ऋभुः ॥

सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।

सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥ १॥

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।

सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २॥

सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।

मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३॥

न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् ।

न वाक्यं न पदं वेदं नाक्शरं न जडं क्वचित् ॥ ४॥

न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् ।

न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५॥

न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।

न दन्तोष्ठौ ललाटं च निश्वासोच्च्ह्वास एव च ॥ ६॥

न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् ।

न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥ ७॥

न हस्तपादचलनं न शास्त्रं न च शासनम् ।

न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ८॥

तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।

नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९॥

न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः ।

न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥ १०॥

त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा ।

न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ११॥

न सर्वं न भयं द्वैतं न वृक्शतृणपर्वताः ।

न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्शत्रकम् ॥ १२॥

न पक्शी न मृगो नाङ्गी न लोभो मोह एव च ।

न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ १३॥

न स्त्रीशूद्रबिडालादि भक्श्यभोज्यादिकं च यत् ।

न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥ १४॥

न लौकिको न लोको वा न व्यापारो न मूढता ।

न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥ १५॥

न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा ।

न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ १६॥

न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः ।

न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७॥

न वारपक्शमासादि वत्सरं न च चञ्चलम् ।

न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥ १८॥

न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः ।

न यमो यमलोको वा न लोका लोकपालकाः ॥ १९॥

न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् ।

नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २०॥

न स्थिरं क्शणिकं नाशं न गतिर्न च धावनम् ।

न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥ २१॥

न पदार्था न पूजार्हं नाभिषेको न चार्चनम् ।

न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ २२॥

न स्तोत्रं न नमस्कारो न प्रदक्शिणमण्वपि ।

न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३॥

न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।

न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ २४॥

न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः ।

न दुःसहं दुरालापं न किरातो न कैतवम् ॥ २५॥

न पक्शपातं न पक्शं वा न विभूषणतस्करौ ।

न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६॥

नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता ।

न पूर्णं न परिच्च्हिन्नं न काशी न व्रतं तपः ॥ २७॥

न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।

न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥ २८॥

न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।

न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ २९॥

सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि ।

सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥ ३०॥

ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा ।

तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१॥

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।

ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥ ३२॥

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।

ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥ ३३॥

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।

ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४॥

इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।

कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३५॥

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।

दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥ ३६॥

लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।

पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७॥

जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।

सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८॥

स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।

सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥ ३९॥

नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।

अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ४०॥

अणुमाअत्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।

अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१॥

ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।

आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥ ४२॥

चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् ।

अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३॥

अहमेव गुणातीत अहमेव परात्परः ।

अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥ ४४॥

अहमेवाखिलाधार अहमेव सुखात्सुखम् ।

आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥ ४५॥

आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।

आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६॥

आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।

ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ४७॥

ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् ।

ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ४८॥

ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् ।

ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९॥

ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि ।

ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ ५०॥

ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः ।

ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥ ५१॥

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन ।

यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ५२॥

यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ।

कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥५३॥

लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ।

कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥ ५४॥

यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् ।

असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५॥

असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ।

असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६॥

असत्यं षड्विकारादि असत्यमरिवर्गकम् ।

असत्यं षड्

ऋतुश्चैव असत्यं षड्

रसस्तथा ॥ ५७॥

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।

आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥ ५८॥

सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः ।

अहमेव परानन्द अहमेव परात्परः ॥ ५९॥

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः ।

सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥ ६०॥

अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् ।

त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१॥

चिदाकारं चिदाकाशं चिदेव परमं सुखम् ।

आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२॥

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।

कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥ ६३॥

अहमेव हरिः साक्शादहमेव सदाशिवः ।

शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४॥

अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् ।

सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५॥

सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् ।

सर्वान्तर्यामिरूपोऽहं सर्वसाक्शित्वलक्शणः ॥ ६६॥

परमात्मा परं ज्योतिः परं धाम परा गतिः ।

सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥ ६७॥

योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः ।

सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८॥

तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः ।

चिदक्श्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः ॥ ६९॥

अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् ।

शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥ ७०॥

सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् ।

सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥ ७१॥

नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ।

अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥ ७२॥

मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका ।

वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥ ७३॥

शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् ।

मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४॥

नरशृङ्गेण नष्टश्चेत्कश्

c

इदस्त्विदमेव हि ।

गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥ ७५॥

गगने नीलिमासत्ये जगत्सत्यं भविष्यति ।

शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥ ७६॥

रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः ।

जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७॥

विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः ।

रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥ ७८॥

सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् ।

चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥ ७९॥

मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् ।

तक्रं क्शीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥ ८०॥

गोस्तनादुद्भवं क्शीरं पुनरारोपणे जगत् ।

भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥ ८१॥

कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।

नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥ ८२॥

तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् ।

अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥ ८३॥

ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् ।

ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥ ८४॥

महच्च्हैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् ।

मेरुरागत्य पद्माक्शे स्थितश्चेदस्त्विदं जगत् ॥ ८५॥

निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् ।

मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६॥

अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् ।

तृणानलश्च नित्यश्चेत्क्शणिकं तज्जगद्भवेत् ॥ ८७॥

स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः ।

नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥ ८८॥

क्शुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् ।

जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९॥

नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् ।

निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥ ९०॥

सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् ।

वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥ ९१॥

काको वा हंसवद्गच्च्हेज्जगद्भवतु निश्चलम् ।

महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥ ९२॥

महाखरो गजगतिं गतश्चेज्जगदस्तु तत् ।

सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥ ९३॥

चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् ।

भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥ ९४॥

दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् ।

शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५॥

ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा ।

श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥ ९६॥

शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् ।

भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७॥

शुद्धाकाशे वने जाते चलिते तु तदा जगत् ।

केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ९८॥

अजकुक्शौ जगन्नास्ति ह्यात्मकुक्शौ जगन्नहि ।

सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ९९॥

मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् ।

देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १००॥

हृदयग्रन्थिरस्तित्वे च्हिद्यते ब्रह्मचक्रकम् ।

संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥ १०१॥

अनात्मरूपचोरश्चेदात्मरत्नस्य रक्शणम् ।

नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२॥

एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् ।

ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥ १०३॥

अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज ।

सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥ १०४॥

न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् ।

न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५॥

लक्शणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् ।

सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥ १०६॥

अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् ।

सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥ १०७॥

शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् ।

नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८॥

गुरुभक्तिविशुद्धान्तःकरणाय महात्मने ।

सम्यक्

परीक्श्य दातव्यं मासं षाण्मासवत्सरम् ॥ १०९॥

सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् ।

तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥ ११०॥

सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् ।

ब्रह्मैव भवति स्वयमित्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

इति तेजोबिन्दूपनिषत्समाप्ता ॥


]