[[श्वेताश्वरोपनिषद् Source: EB]]
[
श्वेताश्वरोपनिषद्
ॐ ब्रह्मवादिनो वदन्ति ।
प्रथमोऽध्यायः।
किंकारणं ब्रह्म कुतः स्म जाता जीवामः केन क्व च संप्रतिष्ठाः ।
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थां । । श्वेताश्वतरोपनिषद् १.१ । ।
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुषेति चिन्त्यं ।
संयोग एषां न त्वात्मभावादात्मा ह्यनीशः सुखदुःखहेतोः । । श्वेताश्वतरोपनिषद् १.२ । ।
ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढां ।
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः । । श्वेताश्वतरोपनिषद् १.३ । ।
तं एकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहं । । श्वेताश्वतरोपनिषद् १.४ । ।
पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलां ।
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वां अधीमः । । श्वेताश्वतरोपनिषद् १.५ । ।
सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ।
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वं एति । । श्वेताश्वतरोपनिषद् १.६ । ।
उद्गीतं एतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च ।
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः । । श्वेताश्वतरोपनिषद् १.७ । ।
संयुक्तं एतत्क्षरं अक्षरं च व्यक्ताव्यक्तं भरते विश्वं ईशः ।
अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः । । श्वेताश्वतरोपनिषद् १.८ । ।
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्मं एतथ् । । श्वेताश्वतरोपनिषद् १.९ । ।
क्षरं प्रधानं अमृताक्षरं हरः क्षरात्मानावीशते देव एकः ।
तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः । । श्वेताश्वतरोपनिषद् १.१० । ।
ज्ञात्वा देवं सर्वपाशापहानिः क्षीनैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः । । श्वेताश्वतरोपनिषद् १.११ । ।
एतज्ज्ञेयं नित्यं एवात्मसंस्थं नातः परं वेदितव्यं हि किंचिथ् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मं एतथ् । । श्वेताश्वतरोपनिषद् १.१२ । ।
वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः ।
स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे । । श्वेताश्वतरोपनिषद् १.१३ । ।
स्वदेहं अरणिं कृत्वा प्रणवं चोत्तरारणिं ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवथ् । । श्वेताश्वतरोपनिषद् १.१४ । ।
तिलेषु तैलं दधनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः ।
एवं आत्मा आत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति । । श्वेताश्वतरोपनिषद् १.१५ । ।
सर्वव्यापिनं आत्मानं क्षीरे सर्पिरिवार्पितं ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परं । । श्वेताश्वतरोपनिषद् १.१६ । ।
__________________________________________________________________
द्वितीयोऽध्यायः।
युञ्जानः प्रथमं मनस्तत्वाय सविता धियः ।
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरथ् । । श्वेताश्वतरोपनिषद् २.१ । ।
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
सुवर्गेयाय शक्त्या । । श्वेताश्वतरोपनिषद् २.२ । ।
युक्त्वाय मनसा देवान्सुवर्यतो धिया दिवं ।
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् । । श्वेताश्वतरोपनिषद् २.३ | |
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः । । श्वेताश्वतरोपनिषद् २.४ । ।
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः ।
शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिवियानि तस्थुः । । श्वेताश्वतरोपनिषद् २.५ । ।
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।
सोमो यत्रातिरिच्यते तत्र संजायते मनः । । श्वेताश्वतरोपनिषद् २.६ । ।
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यं ।
तत्र योनिं कृणवसे नहि ते पूर्तं अक्षिपथ् । । श्वेताश्वतरोपनिषद् २.७ । ।
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य ।
ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि । । श्वेताश्वतरोपनिषद् २.८ । ।
प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीने प्राणे नासिकयोच्छ्वसीत ।
दुष्टाश्वयुक्तं इव वाहं एनं विद्वान्मनो धारयेताप्रमत्तः । । श्वेताश्वतरोपनिषद् २.९ । ।
समे शुचौ शर्करावह्निवालुका- विवर्जिते शब्दजलाश्रयादिभिः ।
मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेथ् । । श्वेताश्वतरोपनिषद् २.१० । ।
नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकाशशीनां ।
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे । । श्वेताश्वतरोपनिषद् २.११ । ।
पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरं । । श्वेताश्वतरोपनिषद् २.१२ । ।
लघुत्वं आरोग्यं अलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च ।
गन्धः शुभो मूत्रपुरीषं अल्पं योगप्रवृत्तिं प्रथमां वदन्ति । । श्वेताश्वतरोपनिषद् २.१३ । ।
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तं ।
तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः । । श्वेताश्वतरोपनिषद् २.१४ । ।
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येथ् ।
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः । । श्वेताश्वतरोपनिषद् २.१५ । ।
एष ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमानः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । । श्वेताश्वतरोपनिषद् २.१६ । ।
यो देवो अग्नौ यो अप्सु यो विश्वं भुवनं आविवेश ।
य ओषधीषु यो वनस्पतीषु तस्मै देवाय नमो नमः । । श्वेताश्वतरोपनिषद् २.१७ | |
__________________________________________________________________
तृतीयोऽध्यायः।
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः ।
य एवैक उद्भवे संभवे च य एतद्विदुरमृतास्ते भवन्ति । । श्वेताश्वतरोपनिषद् ३.१ । ।
एको हि रुद्रो न द्वितीयाय तस्थे य इमांल्लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः । । श्वेताश्वतरोपनिषद् ३.२ । ।
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पाथ् ।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः । । श्वेताश्वतरोपनिषद् ३.३ । ।
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु । । श्वेताश्वतरोपनिषद् ३.४ । ।
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तनुवा शंतमया गिरिशन्ताभिचाकशीहि । । श्वेताश्वतरोपनिषद् ३.५ । ।
यां इषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगथ् । । श्वेताश्वतरोपनिषद् ३.६ | |
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढं ।
विश्वस्यैकं परिवेष्टितारं ईशं तं ज्ञात्वामृता भवन्ति । । श्वेताश्वतरोपनिषद् ३.७ । ।
वेदाहं एतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्ताथ् ।
तं एव विदित्वाति मृत्युं एति नान्यः पन्था विद्यतेऽयनाय । । श्वेताश्वतरोपनिषद् ३.८ । ।
यस्मात्परं नापरं अस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति किंचिथ् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वं । । श्वेताश्वतरोपनिषद् ३.९ । ।
ततो यदुत्तरतरं यदरूपं अनामयं ।
य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखं एवापियन्ति । । श्वेताश्वतरोपनिषद् ३.१० । ।
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः । । श्वेताश्वतरोपनिषद् ३.११ । ।
महान्प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः ।
सुनिर्मलां इमां प्राप्तिं ईशानो ज्योतिरव्ययः । । श्वेताश्वतरोपनिषद् ३.१२ । ।
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः ।
हृदा मनीषा मनसाभिक्ल्प्तो य एतद्विदुरमृतास्ते भवन्ति । । श्वेताश्वतरोपनिषद् ३.१३ । ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाथ् ।
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलं । । श्वेताश्वतरोपनिषद् ३.१४ । ।
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति । । श्वेताश्वतरोपनिषद् ३.१५ । ।
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखं ।
सर्वतःश्रुतिमल्लोके सर्वं आवृत्य तिष्ठति । । श्वेताश्वतरोपनिषद् ३.१६ | |
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं ।
सर्वस्य प्रभुं ईशानं सर्वस्य शरणं सुहृथ् । । श्वेताश्वतरोपनिषद् ३.१७ । ।
नवद्वारे पुरे देही हंसो लेलायते बहिः ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च । । श्वेताश्वतरोपनिषद् ३.१८ । ।
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तं आहुरग्र्यं पुरुषं महान्तं । । श्वेताश्वतरोपनिषद् ३.१९ । ।
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तं अक्रतुं पश्यति वीतशोको धातुप्रसादान्महिमानं ईशं । । श्वेताश्वतरोपनिषद् ३.२० । ।
वेदाहं एतं अजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वाथ् ।
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यं । । श्वेताश्वतरोपनिषद् ३.२१ । ।
__________________________________________________________________
चतुर्थोऽध्यायः।
य एकोऽवर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति ।
वि चैति चान्ते विश्वं आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु । । श्वेताश्वतरोपनिषद् ४.१ । ।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः । । श्वेताश्वतरोपनिषद् ४.२ । ।
त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः । । श्वेताश्वतरोपनिषद् ४.३ । ।
नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः ।
अनादिमांस्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा । । श्वेताश्वतरोपनिषद् ४.४ । ।
अजां एकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगां अजोऽन्यः । । श्वेताश्वतरोपनिषद् ४.५ । ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । । श्वेताश्वतरोपनिषद् ४.६ । ।
समाने वृक्षे पुरुषो निमग्नो अनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यं ईशं अस्य महिमानं इति वीतशोकः । । श्वेताश्वतरोपनिषद् ४.७ । ।
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेधुः ।
यस्तन्न वेद किं ऋचा करिष्यति य इत्तद्विदुस्त इमे समासते । । श्वेताश्वतरोपनिषद् ४.८ । ।
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।
अस्मान्मायी सृजते विश्वं एतत्तस्मिंश्चान्यो मायया संनिरुद्धः । । श्वेताश्वतरोपनिषद् ४.९ । ।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं ।
तस्यावयवभूतैस्तु व्याप्तं सर्वं इदं जगथ् । । श्वेताश्वतरोपनिषद् ४.१० । ।
यो योनिं-योनिं अधितिष्ठत्येको यस्मिन्निदं सं च वि चैति सर्वं ।
तं ईशानं वरदं देवं ईड्यं निचाय्येमां शान्तिं अत्यन्तं एति । । श्वेताश्वतरोपनिषद् ४.११ । ।
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु । । श्वेताश्वतरोपनिषद् ४.१२ । ।
यो देवानां अधिपो यस्मिंल्लोका अधिश्रिताः ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम । । श्वेताश्वतरोपनिषद् ४.१३ । ।
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारं अनेकरूपं ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिं अत्यन्तं एति । । श्वेताश्वतरोपनिषद् ४.१४ । ।
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः ।
यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तं एवं ज्ञात्वा मृत्युपाशांश्छिनत्ति । । श्वेताश्वतरोपनिषद् ४.१५ । ।
घृतात्परं मण्डं इवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढं ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः । । श्वेताश्वतरोपनिषद् ४.१६ । ।
एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः ।
हृदा मनीषा मनसाभिक्ल्प्तो य एतद्विदुरमृतास्ते भवन्ति । । श्वेताश्वतरोपनिषद् ४.१७ । ।
यदातमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी । । श्वेताश्वतरोपनिषद् ४.१८ । ।
नैनं ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभथ् ।
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः । । श्वेताश्वतरोपनिषद् ४.१९ । ।
न संदृशे तिष्ठति रूपं अस्य न चक्षुषा पश्यति कश्चनैनं ।
हृदा हृदिस्थं मनसा य एनं एवं विदुरमृतास्ते भवन्ति । । श्वेताश्वतरोपनिषद् ४.२० । ।
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।
रुद्र यत्दक्षिणं मुखं तेन मां पाहि नित्यं । । श्वेताश्वतरोपनिषद् ४.२१ | |
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदं इत्त्वा हवामहे । । श्वेताश्वतरोपनिषद् ४.२२ । ।
__________________________________________________________________
षष्ठोऽध्यायः।
स्वभावं एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः ।
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रं । । श्वेताश्वतरोपनिषद् ६.१ । ।
येनावृतं नित्यं इदं हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः ।
तेनेशितं कर्म विवर्तते ह पृथिव्याप्तेजोऽनिलखानि चिन्त्यं । । श्वेताश्वतरोपनिषद् ६.२ । ।
तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगं ।
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः । । श्वेताश्वतरोपनिषद् ६.३ । ।
आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः ।
तेषां अभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः । । श्वेताश्वतरोपनिषद् ६.४ । ।
आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः ।
तं विश्वरूपं भवभूतं ईड्यं देवं स्वचित्तस्थं उपास्य पूर्वं । । श्वेताश्वतरोपनिषद् ६.५ । ।
स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयं ।
धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थं अमृतं विश्वधाम । । श्वेताश्वतरोपनिषद् ६.६ । ।
तं ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशं ईड्यं । । श्वेताश्वतरोपनिषद् ६.७ । ।
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । । श्वेताश्वतरोपनिषद् ६.८ । ।
न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गं ।
स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः । । श्वेताश्वतरोपनिषद् ६.९ । ।
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।
देव एकः स्वं आवृणोति स नो दधाद्ब्रह्माप्ययं । । श्वेताश्वतरोपनिषद् ६.१० । ।
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च । । श्वेताश्वतरोपनिषद् ६.११ । ।
एको वशी निष्क्रियाणां बहूणां एकं बीजं बहुधा यः करोति ।
तं आत्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषां । । श्वेताश्वतरोपनिषद् ६.१२ । ।
नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् ।
तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः । । श्वेताश्वतरोपनिषद् ६.१३ । ।
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयं अग्निः ।
तं एव भान्तं अनुभाति सर्वं तस्य भासा सर्वं इदं विभाति । । श्वेताश्वतरोपनिषद् ६.१४ । ।
एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः ।
तं एव विदित्वाति मृत्युं एति नान्यः पन्था विद्यतेऽयनाय । । श्वेताश्वतरोपनिषद् ६.१५ । ।
स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः । । श्वेताश्वतरोपनिषद् ६.१६ । ।
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।
स ईशे अस्य जगतो नित्यं एव नान्यो हेतुर्विद्यत ईशनाय । । श्वेताश्वतरोपनिषद् ६.१७ । ।
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवं आत्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणं अहं प्रपद्ये । । श्वेताश्वतरोपनिषद् ६.१८ । ।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं ।
अमृतस्य परं सेतुं दग्धेन्धनं इवानलं । । श्वेताश्वतरोपनिषद् ६.१९ । ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवं अविज्ञाय दुःखस्यान्तो भविष्यति । । श्वेताश्वतरोपनिषद् ६.२० । ।
तपःप्रभावाद्देवप्रसादात्ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।
अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टं । । श्वेताश्वतरोपनिषद् ६.२१ । ।
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितं ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः । । श्वेताश्वतरोपनिषद् ६.२२ । ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मनः । । श्वेताश्वतरोपनिषद् ६.२३ । ।
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
]