शुकरहस्योपनिषत्

[[शुकरहस्योपनिषत् Source: EB]]

[

शुकरहस्योपनिषत् ।

प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् ।

विकलेवरकैवल्यं त्रिपाद्राममहं भजे ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो

ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रच्च्हुर्भगवन्नस्माकं

रहस्योपनिषदं ब्रूहीति । सोऽब्रवीत् ।

पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः ।

प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥ १॥

श्रीवेदव्यास उवाच ।

देवदेव महाप्राज्ञ पाशच्च्हेददृढव्रत ।

शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ २॥

ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः ।

ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ३॥

ईश्वर उवाच ।

मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते ।

विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ४॥

श्रीवेदव्यास उवाच ।

यथा तथा वा भवतु ह्युपनायनकर्मणि ।

उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ५॥

सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर ।

तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ६॥

तच्च्हृत्वा व्यासवचनं सर्वदेवर्षिसंसदि ।

उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥ ७॥

कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् ।

तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्च्हिवम् ॥ ८॥

श्रीशुक उवाच ।

देवादिदेव सर्वज्ञ सच्चिदानन्द लक्षण ।

उमारमण भूतेश प्रसीद करुणानिधे ॥ ९॥

उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् ।

तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १०॥

श्रोतुमिच्च्हामि तत्त्वेन षडङ्गानि यथाक्रमम् ।

वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥ ११॥

श्रीसदाशिव उवाच ।

साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने ।

प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १२॥

रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते ।

यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १३॥

अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः ।

सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥ १४॥

चतुर्णामपि वेदानां यथोपनिषदः शिरः ।

इयं रहस्योपनिषत्तथोपनिषदां शिरः ॥ १५॥

रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता ।

तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥ १६॥

वाक्यार्थस्य विचारेण यदाप्नोति शरच्च्हतम् ।

एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १७॥

ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः ।

अव्यक्तगायत्री च्हन्दः । परमहंसो देवता ।

हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।

मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः ।

सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः ।

नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा ।

नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् ।

यो वै भूमा अनामिकाभ्यां हुम् ।

यो वै भूमादिपतिः कनिष्ठिकाभ्यां वौषट् ।

एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ॥

सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः ।

नित्यानन्दो ब्रह्म शिरसे स्वाहा ।

नित्यानन्दमयं ब्रह्म शिखायै वषट् ।

यो वै भूमा कवचाय हुम् ।

यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् ।

एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् ।

भूर्भुवःसुवरोमिति दिग्बन्धः ।

ध्यानम् ।

नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं

विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ॥

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं

भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १॥

अथ महावाक्यानि चत्वारि । यथा ।

ॐ प्रज्ञानं ब्रह्म ॥ १॥

ॐ अहं ब्रह्मास्मि ॥ २॥

ॐ तत्त्वमसि ॥ ३॥

ॐ अयमात्मा ब्रह्म ॥ ४॥

तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति

ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥

तत्पदमहाम्न्त्रस्य । परमहंसः ऋषिः ।

अव्यक्तगायत्री च्हन्दः । परमहंसो देवता ।

हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।

मम सायुज्यमुक्त्यर्थे जपे विनियोगः ।

तत्पुरुषाय अङ्गुष्ठाभ्यां नमः ।

ईशानाय तर्जनीभ्यां स्वाहा ।

अघोराय मध्यमाभ्यां वषट्

सद्योजाताय अनामिकाभ्यां हुम् ।

वामदेवाय कनिष्ठिकाभ्यां वौषट् ।

तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो

नमः करतलकरपृष्ठाभ्यां फट् ।

एवं हृदयादिन्यासः ।

भूर्भुवःसुवरोमिति दिग्बन्धः ॥

ध्यानम् ।

ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं

शुद्धं बुद्धं मुक्तमप्यव्ययं च ।

सत्यं ज्ञानं सच्चिदानन्दरूपं

ध्यायेदेवं तन्महोभ्राजमानम् ॥

त्वंपद महामन्त्रस्य विष्णुरृषिः ।

गायत्री च्हन्दः । परमात्मा देवता ।

ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् ।

मम मुक्त्यर्थे जपे विनियोगः ।

वासुदेवाय अङ्गुष्ठाभ्यां नमः ।

सङ्कर्षणाय तर्जनीभ्यां स्वाहा ।

प्रद्युम्नाय मध्यमाभ्यां वषट् ।

अनिरुद्धाय अनामिकाभ्यां हुम् ।

वासुदेवाय कनिष्ठिकाभ्यां वौषट् ।

वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः

करतलकरपृष्ठाभ्यां फट् ।

एवं हृदयादिन्यासः ।

भूर्भुवःसुवरोमिति दिग्बन्धः ॥

ध्यानम् ॥

जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् ।

चित्ताहङ्कारयन्तारं जीवाख्यं त्वंपदं भजे ।

असिपदमहामन्त्रस्य मन ऋषिः ।

गायत्री च्हन्दः । अर्धनारीश्वरो देवता ।

अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः ।

परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः ।

पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः ।

अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा ।

तेजोद्व्यणुकाय मध्यमाभ्यां वषट् ।

वायुद्व्यणुकाय अनामिकाभ्यं हुम् ।

आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् ।

पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः

करतलकरपृष्ठाभ्यां फट् ।

भूर्भुवःसुवरोमिति दिग्बन्धः ॥

ध्यानम् ॥

जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः ।

ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥

एवं महावाक्यषडङ्गान्युक्तानि ॥

अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥

येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।

स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥

चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु ।

चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २॥

परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि ।

बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३॥

स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।

अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ४॥

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।

सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ५॥

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् ।

एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६॥

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ।

अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ॥ ७॥

दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते ।

ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ८॥

अनात्मदृष्टेरविवेकनिद्रा

महं मम स्वप्नगतिं गतोऽहम् ।

स्वरूपसूर्येऽभ्युदिते स्फुटोक्ते

र्गुरोर्महावाक्यपदैः प्रबुद्धः ॥ ९॥

वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे

वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः ।

वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखा

नन्दब्रह्मतदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥ १०॥

त्वमिति तदिति कार्ये कारणे सत्युपाधौ

द्वितयमितरथैकं सच्चिदानन्दरूपम् ।

उभयवचनहेतु देशकालौ च हित्वा

जगति भवति सोयं देवदत्तो यथैकः ॥ ११॥

कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।

कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ १२॥

श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् ।

निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ १३॥

अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् ।

ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥ १४॥

महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः ।

केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा

,,

१५॥

ईश्वर उवाच ।

एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्च्हुक ।

मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ १६॥

ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् ।

जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ १७॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।

तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८॥

उपदिष्टः शिवेनेति जगत्तन्मयतां गतः ।

उत्थाय प्रणिपत्येशं त्यक्ताशेषरिग्रहः ॥ १९॥

परब्रह्मपयोराशौ प्लवन्निव ययौ तदा ।

प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ २०॥

अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः ।

प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ २१॥

तच्च्हृत्वा सकलाकारं व्यासः सत्यवतीसुतः ।

पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ २२॥

यो रहस्योपनिषदमधीते गुर्वनुग्रहात् ।

सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते

साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनाधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति शुकरहस्योपनिषत्समाप्ता ॥


]