श्रीदेव्युपनिषत्

[[श्रीदेव्युपनिषत् Source: EB]]

[

देवी उपनिषत्

॥ अथ देव्युपनिषत् ॥

अथर्ववेदीय शाक्तोपनिषत् ॥

श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।

त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरण्गैस्तुष्टुवा

{\\

म्+

}

सस्तनूभि

व्य।र्शेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दध्हातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि ।

साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं

जगच्च्हून्यं चाशून्यं च ।

अहमानन्दानानन्दाः विङ्य़ानाविङ्य़ाने अहम् । ब्रह्मा ब्रह्मणि

वेदितव्ये ।

इत्याहाथर्वणि श्रुतिः ॥ १॥

अहं प

J

ण्चभूतान्यभूतानि । अहमखिलं जगत् ।

वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् ।

अधश्चोर्ध्वं च तिर्यक्चाहम् ।

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं

मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी

अहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं

दधाम्यहम् ।

विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं

दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥ २॥

अहं राष्ट्री सण्गमनी वसूनामहं सुवे पितरमस्य

मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स

देवीपदमाप्नोति । ते देवा अब्रुवन् । नमो देव्यै महादेव्यै

सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म

ताम् ॥ ३॥

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु

जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये

सुतरां नाशयते तमः ॥ ४॥

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति

। सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु

॥ ५॥

कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।

सरस्वतीमदितिं दक्षदुहितरं नमामः

पावनां शिवाम् ॥ ६॥

महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि । तन्नो देवी

प्रचोदयात् ॥ ७॥

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा

अन्वजायन्त भद्रा अमृतबन्धवः ॥ ८॥

कामो योनिः कामकला वज्रपाणिर्गुहा हसा ।

मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च

पुनः कोशा विश्वमाता दिवि द्योम् ॥ ९॥

एषात्मशक्तिः । एषा विश्वमोहिनी

पाशाण्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।

य एवं वेद स शोकं तरति । नमस्ते अस्तु भगवति भवति

मातरस्मान्पातु सर्वतः ।

सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा

द्वादशादित्याः । सैषा विश्वेदेवाः

सोमपा असोमपाश्च । सैषा यातुधानु असुरा रक्षांसि

पिशाचयक्षाः सिद्धाः ।

सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः ।

सैषा ग्रहा नक्षत्रज्योतींषि

कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।

तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।

अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥

१०॥

वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं

देव्या बीजं सर्वार्थसाधकम् ॥ ११॥

एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति

परमानन्दमया ङ्य़ानाम्बुराशयः ॥ १२॥

वाण्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो

वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः ॥ १३॥

नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे

नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ १४॥

हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।

पाशाण्कुशधरां सौम्यां वरदाभयहस्तकाम् ।

त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ १५॥

नमामि त्वामहं देवीं महाभयविनाशिनीम् ।

महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६॥

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽङ्य़ेया ।

यस्या अन्तो न विद्यते तस्मादुच्यते अनन्ता ।

यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या

जननं नोपलभ्यते तस्मादुच्यतेऽजा ।

एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी

तस्मादुच्यते नैका ऽत एवोच्यतेऽङ्य़ेयानन्तालक्ष्याजैका

नैकेति ।

मन्त्राणां मातृका देवी शब्दानां ङ्य़ानरूपिणी ।

ङ्य़ानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ १७॥

यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।

[

दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते ॥ १८॥

प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥

]

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।

नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ १९॥

इदमथर्वशीर्षं योऽधीते

J

ण्चाथर्वशीर्षजपफलमवाप्नोति ।

इदमथर्वशीर्षं ङ्य़ात्वा योऽर्चां स्थापयति ।

शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति ।

शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ २०॥

दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि

तरति महादेव्याः प्रसादतः ॥ २१॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

तत्सायं प्रातः प्रयु

J

ण्जानः पापोऽपापो भवति । निशीथे

तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति ।

नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।

प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।

भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति

। य एवं वेदेत्युपनिषत् ॥ २२॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरण्गैस्तुष्टुवा

{\\

म्+

}

सस्तनूभि

र्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

** ॥ इति श्रीदेव्युपनिषत्समाप्ता ॥**

]