शिवोपनिषद्

[[शिवोपनिषद् Source: EB]]

[

शिवोपनिषद्

कैलासशिखरासीनमशेषामरपूजितम् ।

कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् ॥ ११॥

संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः ।

सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १२॥

ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ।

ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात् ॥ १३॥

एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता ।

मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १४॥

महादेव उवाच

पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः ।

देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १५॥

आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह ।

तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥ १६॥

ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः ।

सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १७॥

सारादपि महासारं शिवोपनिषदं परम् ।

अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥ १८॥

शिवः शिव इमे शान्त नाम चाद्यं मुहुर्मुहुः ।

उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १९॥

अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः ।

यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ ११०॥

गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च ।

भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १११॥

पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् ।

पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ ११२॥

सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः ।

मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥ ११३॥

षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे ।

सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ ११४॥

यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः ।

तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ ११५॥

पशुपाशपरः शान्तः परमज्ञानदेशिकः ।

शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ ११६॥

एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् ।

विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ ११७॥

सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् ।

बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ ११८॥

द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः ।

एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ ११९॥

नामसंकीर्तणादेव शिवस्याशेषपातकैः ।

यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः ॥ १२०॥

यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् ।

एकाक्षरं वा सततं स याति परमं पदम् ॥ १२१॥

मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् ।

अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् ॥ १२२॥

विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः ।

आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १२३॥

हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् ।

हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १२४॥

पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् ।

अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ॥ १२५॥

कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् ।

पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १२६॥

धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः ।

प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ॥ १२७॥

इति दिव्योपचारैश्च संपूज्य परमं शिवम् ।

जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १२८॥

ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः ।

मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १२९॥

तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम् ।

शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् ॥ १३०॥

ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् ।

भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १३१॥

तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः ।

सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १३२॥

स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् ।

ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १३३॥

विद्या संकीर्तनीया हि येषां कर्म न विद्यते ।

ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् ॥ १३४॥

शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् ।

विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १३५॥

शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः ।

क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १३६॥

कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः ।

लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १३७॥

॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥

\\

ह्रुले

अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् ।

गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २१॥

यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।

लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २२॥

भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।

तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥ २३॥

भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।

पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥ २४॥

अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।

ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २५॥

एत एव त्रयो लोका एत एव त्रयो गुणाः ।

एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २६॥

नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।

विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥ २७॥

गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।

गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥ २८॥

प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।

भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २९॥

मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् ।

गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥ २१०॥

गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् ।

गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २११॥

जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।

प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २१२॥

मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।

प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥ २१३॥

प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् ।

प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥ २१४॥

नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।

प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥ २१५॥

पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् ।

प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥ २१६॥

स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् ।

तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥ २१७॥

स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् ।

कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥ २१८॥

शमीन्धनकुशस्थानमायुधानां च नैरृतम् ।

सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥ २१९॥

श्रीमदायतनं शम्भोर्योगिनां विजने वने ।

शिवस्यायतने यावत्समेताः परमाणवः ॥ २२०॥

मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।

महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २२१॥

कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् ।

लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २२२॥

पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् ।

पालाशोदुम्बराश्वत्थ पृषदाज्यतिलैर्यवैः ॥ २२३॥

अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् ।

शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २२४॥

एवं मध्ये ऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।

अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २२५॥

प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् ।

महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥ २२६॥

गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् ।

यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥ २२७॥

दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् ।

सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥ २२८॥

कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् ।

रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २२९॥

एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु ।

कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २३०॥

कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।

विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।

तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् ॥ २३१॥

॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥

\\

ह्रुले

अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः ।

शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् ॥ ३१॥

गृहस्येशानदिग्भागे कार्यमुत्तरतो ऽपि वा ।

खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३२॥

शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः ।

दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् ॥ ३३॥

हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् ।

चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् ॥ ३४॥

गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् ।

उदगर्वाक्च्छ्रितां(

?)

किंचिच्चतुःशीर्षकसंयुताम् ॥ ३५॥

त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम् ।

तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३६॥

शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः ।

मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् ॥ ३७॥

शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः ।

स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् ॥ ३८॥

षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च ।

गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् ॥ ३९॥

त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने ।

सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् ॥ ३१०॥

सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् ।

आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३११॥

वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् ।

तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥ ३१२॥

निर्दोषं सुलभं चैव पूजयेत्सततं बुधः ।

यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३१३॥

तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।

प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः ।

तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३१४॥

॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥

\\

ह्रुले

अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् ।

पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४१॥

तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् ।

पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४२॥

द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् ।

तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४३॥

दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् ।

सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् ॥ ४४॥

द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् ।

अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४५॥

गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् ।

धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४६॥

आग्नेयभागात्परितः कार्या जालगवाक्षकाः ।

ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४७॥

शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः ।

चतुरश्रवेदि(का) श्रीमन्मेखलात्रयभूषितम् ॥ ४८॥

कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् ।

शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् ॥ ४९॥

जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् ।

बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥ ४१०॥

ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् ।

चतुःप्रेगीवकोपेतम्(

?)

एकप्रेगीवकेन वा(

?)

॥ ४११॥

सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् ।

शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥ ४१२॥

बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा ।

तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४१३॥

कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः ।

द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४१४॥

अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना ।

दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४१५॥

रुद्रमातृगणानां च दिक्पतीनां च सर्वदा ।

सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥ ४१६॥

वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका ।

वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥ ४१७॥

अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे ।

व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४१८॥

प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् ।

पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥ ४१९॥

मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् ।

भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४२०॥

शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् ।

शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥ ४२१॥

ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः ।

धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४२२॥

गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः ।

अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् ॥ ४२३॥

इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् ।

अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४२४॥

कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः ।

कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् ॥ ४२५॥

नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः ।

हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४२६॥

ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः ।

इच्छया क्रीडते तावद्यावदाभूतसंप्लवम् ॥ ४२७॥

ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् ।

दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥ ४२८॥

ततः संपृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् ।

तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् ॥ ४२९॥

अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते ।

पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४३०॥

सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् ।

ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४३१॥

इत्येतदखिलं कार्यं फलमुक्तं समासतः ।

उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥ ४३२॥

सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् ।

कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम् ॥ ४३३॥

यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता ।

तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४३४॥

एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् ।

वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् ॥ ४३५॥

यावत्केसरसंख्यानं कुसुमस्यानले हुतम् ।

तावद्युगसहस्राणि शिवलोके महीयते ॥ ४३६॥

नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् ।

यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् ॥ ४३७॥

यत्पुष्पधूपभष्यान्न दधिक्षीरघृतादिभिः ।

पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् ॥ ४३८॥

हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः ।

पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् ॥ ४३९॥

पलाशाअङ्कुरजारिष्ट पालाल्यः(

?)

समिधः शुभाः ।

पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात् ॥ ४४०॥

पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् ।

तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४४१॥

तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः ।

कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४४२॥

शमीसमित्फलं देयमब्दानपि च लक्षकम् ।

शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४४३॥

तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता(

?)

यावती भवेत् ।

तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४४४॥

यावत्सुरौषधीरज्ञस्(

?)

तिलतुल्यफलं स्मृतम् ।

इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् ॥ ४४५॥

लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः ।

दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४४६॥

पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् ।

क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् ॥ ४४७॥

असमिद्धे सधूमे च होमकर्म निरर्थकम् ।

अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४४८॥

न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् ।

शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् ॥ ४४९॥

एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् ।

तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान् ॥ ४५०॥

स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च ।

याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४५१॥

एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः ।

सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४५२॥

अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः ।

आभूतसंप्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान् ॥ ४५३॥

ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम् ।

प्रसादादीश्वरस्यैव मुच्यते भवसागरात् ॥ ४५४॥

शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति ।

सो ऽपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् ॥ ४५५॥

शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ।

ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४५६॥

शिवयज्ञमहावेद्या जायते ये न सन्ति वा ।

ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४५७॥

पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् ।

होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४५८॥

सर्षपेङ्गुडिकाशाम्र करञ्जमधुकाक्षजम् ।

प्रियङ्गुबिल्वपैप्पल्य नालिकेरसमुद्भवम्(

?)

॥ ४५९॥

इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् ।

दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः ॥ ४६०॥

अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा ।

तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४६१॥

परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् ।

इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४६२॥

गोमयानामभावेन महत्यम्भसि होमयेत् ।

अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४६३॥

विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः ।

छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥ ४६४॥

स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे ।

अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४६५॥

आपत्काले ऽपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् ।

स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् ॥ ४६६॥

प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः ।

बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४६७॥

॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥

\\

ह्रुले

अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् ।

सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् ॥ ५१॥

अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् ।

भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् ॥ ५२॥

यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् ।

रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५३॥

यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम्(

?)

अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५४॥

आहारमर्धभुक्तं च कीटकेशादिदूषितम् ।

तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५५॥

आरण्यं गोमयकृतं करीषं वा प्रशस्यते ।

शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५६॥

स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना ।

गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५७॥

सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम्(दुःखोपार्) ।

शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् ॥ ५८॥

भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा ।

मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५९॥

पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् ।

शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् ॥ ५१०॥

जातिकारुकवाक्काय स्थानदुष्टं च पञ्चमम् ।

पापघ्नं शांकरं रक्षा पवित्रं योगदं गुणाः(

?)

॥ ५११॥

शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च ।

भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् ॥ ५१२॥

भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् ।

जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् ॥ ५१३॥

अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् ।

नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५१४॥

स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् ।

असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् ॥ ५१५॥

त्रिकालं वारुणस्नानादनारोग्यं प्रजायते ।

आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् ॥ ५१६॥

संध्यात्रये ऽर्धरात्रे च भुक्त्वा चान्नविरेचने ।

शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५१७॥

भस्मास्तृते महीभागे समे जन्तुविवर्जिते ।

ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५१८॥

एकरात्रोषितस्यापि या गतिर्भस्मशायिनः ।

न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५१९॥

गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः ।

यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् ॥ ५२०॥

शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् ।

हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५२१॥

गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा ।

शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् ॥ ५२२॥

संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च ।

यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५२३॥

शिवभस्मनि यावन्तः समेताः परमाणवः ।

तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५२४॥

एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः ।

मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५२५॥

तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् ।

ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् ॥ ५२६॥

भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्(

?)

अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५२७॥

भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ।

ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ॥ ५२८॥

इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् ।

त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् ॥ ५२९॥

भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने ।

कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५३०॥

आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् ।

मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् ॥ ५३१ ॥

आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् ।

अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५३२॥

मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् ।

ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम् ॥ ५३३॥

गवां खुरपुटोत्खात पवनोद्धूतरेणुना ।

कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५३४॥

व्यभ्रे ऽर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः ।

आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् ॥ ५३५॥

उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् ।

अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५३६॥

पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च ।

तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५३७॥

न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः ।

पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५३८॥

आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत ।

क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५३९॥

यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् ।

यैव योगाभियुक्तानां गतिः सैव क्षमावताम् ॥ ५४०॥

ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः ।

निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् ॥ ५४१॥

मेध्यामेध्यरसं यद्वदपि वत्स विना करैः ।

नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५४२॥

एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् ।

अशुद्धभावः स्नातो ऽपि पूजयन्नाप्नुयात्फलम् ॥ ५४३॥

जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः ।

ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् ॥ ५४४॥

अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् ।

तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५४५॥

यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते ।

तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्(

?)

॥ ५४६॥

मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते ।

करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् ॥ ५४७॥

वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम् ।

शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् ॥ ५४८॥

देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा ।

उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५४९॥

प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा ।

तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५५०॥

सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा ।

प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५५१॥

पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् ।

उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् ॥ ५५२॥

॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥

\\

ह्रुले

अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।

यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥ ६१॥

यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् ।

शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६२॥

यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् ।

गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६३॥

श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।

वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥ ६४॥

कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् ।

वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६५॥

एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् ।

वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६६॥

एकं वटफलं पक्वं यः शिवाय निवेदयेत् ।

वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६७॥

यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् ।

शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६८॥

यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् ।

तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६९॥

द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् ।

भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६१०॥

यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् ।

तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६११॥

द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।

तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६१२॥

यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।

अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६१३॥

बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।

जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६१४॥

पनसं नारिकेलं वा शिवाय विनिवेदयेत् ।

वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६१५॥

पुरुषं च प्रियालं च मधूककुसुमानि च ।

जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६१६॥

निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।

दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६१७॥

क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् ।

वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६१८॥

वालुकात्रपुसादीनि यः फलानि निवेदयेत् ।

शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥ ६१९॥

दशवर्षसहस्राणि रुद्रलोके महीयते ।

बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६२०॥

दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।

एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६२१॥

निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् ।

एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६२२॥

पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।

गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥ ६२३॥

निवेदयीत शर्वाय तस्य पुण्यफलं शृणु ।

यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥ ६२४॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।

यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥ ६२५॥

गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु ।

इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६२६॥

साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् ।

निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६२७॥

वर्षकोटिं महाभोगैः शिवलोके महीयते ।

निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा ॥ ६२८॥

रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।

गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥ ६२९॥

अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।

खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥ ६३०॥

खण्डात्सहस्रगुणितं शर्कराया निवेदने ।

मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥ ६३१॥

कल्पकोटिं नरः साग्रं शिवलोके महीयते ।

परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥ ६३२॥

मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् ।

अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥ ६३३॥

तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।

पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६३४॥

निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु ।

कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६३५॥

पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।

दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥ ६३६॥

सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ।

महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६३७॥

तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।

यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥ ६३८॥

तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।

न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥ ६३९॥

किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।

न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥ ६४०॥

पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् ।

सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥ ६४१॥

अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् ।

तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६४२॥

तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।

यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥ ६४३॥

नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् ।

यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६४४॥

तावद्वर्षसहस्राणि सुरलोके महीयते ।

पलाशकदलीपद्म पत्त्राणि च विशेषतः ॥ ६४५॥

दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् ।

यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥ ६४६॥

तावदब्दायुतानां स लोके भोगानवाप्नुयात् ।

यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥ ६४७॥

तावन्ति वर्षलक्षाणि शिवलोके महीयते ।

यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥ ६४८॥

ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु ।

यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥ ६४९॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।

जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥ ६५०॥

इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् ।

फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६५१॥

कामिकेन विमानेन क्रीडते स शिवे पुरे ।

त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६५२॥

वर्षकोटिं महाभोगैः शिवलोके महीयते ।

पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥ ६५३॥

वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।

यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥ ६५४॥

मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।

मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६५५॥

प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।

माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसंपुटान् ॥ ६५६॥

दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते ।

तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥ ६५७॥

वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् ।

पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥ ६५८॥

मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् ।

यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥ ६५९॥

दद्यादाधारपात्राणि शिवलोके स गच्छति ।

वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥ ६६०॥

इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् ।

यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥ ६६१॥

वर्षकोटिं महाभागैः शिवलोके महीयते ।

यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥ ६६२॥

शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ६६३॥

स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः ।

विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥ ६६४॥

भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः ।

मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥ ६६५॥

गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् ।

यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥ ६६६॥

शिवायगुरवे वापि तस्य पुण्यफलं शृणु ।

कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६६७॥

यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् ।

घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥ ६६८॥

कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ।

समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥ ६६९॥

तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः ।

कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥ ६७०॥

घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् ।

निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥ ६७१॥

द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् ।

अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥ ६७२॥

मरिचाढेन कुर्वीत(

?)

मारीचं नाम पर्वतम् ।

दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥ ६७३॥

दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् ।

पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥ ६७४॥

कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते ।

कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥ ६७५॥

ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् ।

सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥ ६७६॥

यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते ।

तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥ ६७७॥

कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् ।

दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥ ६७८॥

पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते ।

न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥ ६७९॥

कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् ।

उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥ ६८०॥

अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् ।

शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥ ६८१॥

यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः ।

तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६८२॥

मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् ।

आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥ ६८३॥

पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् ।

कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥ ६८४॥

कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः ।

पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥ ६८५॥

यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता ।

तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६८६॥

दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् ।

वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥ ६८७॥

गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् ।

निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥ ६८८॥

हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् ।

निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥ ६८९॥

वज्रेन्द्रनीलवैडूर्य पद्मरागं समौक्तिकम् ।

कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥ ६९०॥

यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः ।

क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥ ६९१॥

कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः ।

समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥ ६९२॥

तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः ।

आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ६९३॥

यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः ।

सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥ ६९४॥

जन्मकोटिसहस्राणि जन्मकोटिशतानि च ।

राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥ ६९५॥

एतदेव फलं ज्ञेयं मकुटाभरणादिषु ।

रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥ ६९६॥

दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् ।

शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ ६९७॥

इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः ।

मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ ६९८॥

मसूरमात्रमपि यः पद्मरागं सुशोभनम् ।

निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥ ६९९॥

निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् ।

भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ ६१००॥

कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् ।

शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥ ६१०१॥

हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् ।

निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ ६१०२॥

क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे ।

मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ ६१०३॥

यथा यथा महारत्नं शोभनं च यथा यथा ।

तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥ ६१०४॥

भूमिभागे स(

?)

विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् ।

अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥ ६१०५॥

तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् ।

अनेकशिखराकीर्णमशेषामरसंयुतम् ॥ ६१०६॥

बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् ।

चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥ ६१०७॥

चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः ।

चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥ ६१०८॥

मेरुप्रासादमित्येवं हेमरत्नविभूषितम् ।

यः कारयेद्वनोपेतं सो ऽनन्तफलमाप्नुयात् ॥ ६१०९॥

भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते ।

शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥ ६११०॥

कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः ।

कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥ ६१११॥

आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः ।

यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥ ६११२॥

न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः ।

सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥ ६११३॥

यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्(

?)

तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥ ६११४॥

शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् ।

वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥ ६११५॥

शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् ।

ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥ ६११६॥

त्रिशूलसव्यहस्तां च वरदाभयदायिकां ।

सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥ ६११७॥

पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् ।

विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥ ६११८॥

सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् ।

अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥ ६११९॥

कुर्यादसंभवे हेम्नस्तारेण विमलेन च ।

आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥ ६१२०॥

अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् ।

कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥ ६१२१॥

एकां सपरिवारां वा पार्वतीं गणसंयुताम् ।

प्रतीहारसमोपेतां(

?)

कुर्यादेवाविकल्पतः ॥ ६१२२॥

पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् ।

चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥ ६१२३॥

पृथक्पृथगनेकानि कारयित्वा मुखानि तु ।

सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥ ६१२४॥

नानाभरणयुक्तानि हेमरौप्यकृतानि च ।

शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥ ६१२५॥

उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् ।

कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥ ६१२६॥

मातुः पितुः सहोपायैर्(

?)

दशभिर्दशभिः कुलैः ।

कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥ ६१२७॥

अयुतेन विमानानां सर्वकामयुतेन च ।

भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥ ६१२८॥

मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् ।

अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥ ६१२९॥

कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे ।

सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥ ६१३०॥

धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे ।

क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥ ६१३१॥

एषामेकतमं पुण्यं कृत्वा पापविवर्जितः ।

शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥ ६१३२॥

रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः ।

सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥ ६१३३॥

रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् ।

यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥ ६१३४॥

पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् ।

कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥ ६१३५॥

पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् ।

चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥ ६१३६॥

लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् ।

बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥ ६१३७॥

कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् ।

पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥ ६१३८॥

महारथविमाने ऽस्मिन्स्थापयेद्गणसंयुतम् ।

ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥ ६१३९॥

मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् ।

पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥ ६१४०॥

चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् ।

दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥ ६१४१॥

नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः ।

महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥ ६१४२॥

भ्रामयेद्राजमार्गेण चतुर्थे ऽहनि तद्रथम् ।

ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥ ६१४३॥

अवधार्य जगद्धात्री प्रतिमामवतारयेत् ।

महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा ॥ ६१४४॥

वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम्(

?)

वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥ ६१४५॥

सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् ।

मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥ ६१४६॥

कटे ऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः ।

उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥ ६१४७॥

वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् ।

नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥ ६१४८॥

रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् ।

अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥ ६१४९॥

कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः ।

आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥ ६१५०॥

कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् ।

तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥ ६१५१॥

विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् ।

रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥ ६१५२॥

महापूजाविशेषैश्च कौतूहलसमन्वितम् ।

वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥ ६१५३॥

तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः ।

ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥ ६१५४॥

महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् ।

ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥ ६१५५॥

शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च ।

शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥ ६१५६॥

राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् ।

धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥ ६१५७॥

कालवर्षी तु पर्जन्यः सस्यसंपत्तिरुत्तमा ।

सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥ ६१५८॥

दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः ।

बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥ ६१५९॥

एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् ।

अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥ ६१६०॥

शिवमालां समादाय सदासीपरिचारिकः ।

फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥ ६१६१॥

पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः ।

अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥ ६१६२॥

ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः ।

प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥ ६१६३॥

तोयं यथा घटीसंस्थमजस्रं क्षरते तथा ।

क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥ ६१६४॥

यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् ।

तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥ ६१६५॥

कलत्रपुत्रमित्राणि पिता माता च बान्धवाः ।

तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥ ६१६६॥

नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा ।

यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति ॥ ६१६७॥

तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् ।

समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥ ६१६८॥

उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् ।

तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥ ६१६९॥

इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् ।

ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥ ६१७०॥

येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी ।

प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥ ६१७१॥

ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः ।

गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥ ६१७२॥

दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च ।

तर्पयेच्चानतान्(

?)

भक्त्या वादित्रध्वजवाहकान् ॥ ६१७३॥

एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे ।

शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥ ६१७४॥

समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।

शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥ ६१७५॥

तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः ।

कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥ ६१७६॥

रथस्य यात्रां यः कुर्यादित्येवमुपशोभया ।

भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥ ६१७७॥

अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः ।

कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥ ६१७८॥

सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः ।

महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥ ६१७९॥

इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे ।

ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥ ६१८०॥

शिवस्य रथयात्रायामुपवासपरः क्षमी ।

पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥ ६१८१॥

अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः ।

महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते" ॥ ६१८२॥

ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः ।

धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥ ६१८३॥

गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया ।

संपर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥ ६१८४॥

शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः ।

प्रसङ्गात्कौतुकाद्वापि ते ऽपि यान्ति शिवं पुरम् ॥ ६१८५॥

नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च ।

कुर्वीत रथयात्रायां रमते च विभूषिता ॥ ६१८६॥

ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः ।

क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥ ६१८७॥

महता ज्ञानसङ्घेन तस्माच्छिवरथेन च ।

पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥ ६१८८॥

श्रीपर्वते महाकाले वाराणस्यां महालये ।

जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥ ६१८९॥

गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे ।

भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥ ६१९०॥

एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः ।

जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥ ६१९१॥

प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् ।

श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥ ६१९२॥

प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् ।

श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् ॥ ६१९३॥

व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते ।

पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥ ६१९४॥

तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः ।

कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥ ६१९५॥

तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् ।

क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥ ६१९६॥

संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः ।

पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥ ६१९७॥

अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः ।

तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥ ६१९८॥

दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् ।

मोदते स शिवे लोके युगकोटिशतं नरः ॥ ६१९९॥

आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् ।

अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥ ६२००॥

यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च ।

तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६२०१॥

मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः ।

रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥ ६२०२॥

गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः ।

सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥ ६२०३॥

निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः ।

संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥ ६२०४॥

दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः ।

कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥ ६२०५॥

अपि योजनमात्राय शिबिकां परिकल्पयेत् ।

गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥ ६२०६॥

विमानानां सहस्रेण सर्वकामयुतेन च ।

कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६२०७॥

छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् ।

बालक्रीडनकानेतानित्याद्यानपरानपि ॥ ६२०८॥

निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् ।

भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥ ६२०९॥

मुसलोलूखलाद्यानि गृहोपकरणानि च ।

दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥ ६२१०॥

प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः ।

अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥ ६२११॥

खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् ।

दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥ ६२१२॥

प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् ।

कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥ ६२१३॥

सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः ।

कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥ ६२१४॥

यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् ।

भोजयीत यथाशक्त्या शिवलोके महीयते ॥ ६२१५॥

यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने ।

स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥ ६२१६॥

यः समुद्धरते मार्गे मात्रोपकरणासनम् ।

शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥ ६२१७॥

कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे ।

तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥ ६२१८॥

अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः ।

कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥ ६२१९॥

अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् ।

दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥ ६२२०॥

पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् ।

तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥ ६२२१॥

नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् ।

राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥ ६२२२॥

यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् ।

शिवभक्तो ऽस्य महतः परमं फलमाप्नुयात् ॥ ६२२३॥

शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् ।

गवां लक्षप्रदानस्य संपूर्णं फलमाप्नुयात् ॥ ६२२४॥

प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् ।

दूर्वां च बालवत्सानां(

?)

तस्य पुण्यफलं शृणु ॥ ६२२५॥

यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् ।

तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥ ६२२६॥

विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् ।

आभूतस्संप्लवं यावच्छिवलोके महीयते ॥ ६२२७॥

दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः ।

त्रिः पृथ्वीं रत्नसंपूर्णां यद्दत्त्वा तत्फलं लभेत् ॥ ६२२८॥

विनयव्रतदानानि यानि सिद्धानि लोकतः ।

तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥ ६२२९॥

निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च ।

प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥ ६२३०॥

पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये ।

सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥ ६२३१॥

नासिकाशोधनं दद्यात्संदंशं शिवयोगिने ।

वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६२३२॥

नखच्छेदनकं दत्त्वा शिवलोके महीयते ।

वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६२३३॥

दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने ।

भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥ ६२३४॥

कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने ।

वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६२३५॥

दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् ।

वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥ ६२३६॥

निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् ।

वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥ ६२३७॥

दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् ।

वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६२३८॥

दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् ।

पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६२३९॥

शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः ।

क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥ ६२४०॥

शिवाश्रमोपभोगाय लोहोपकरणं महत् ।

यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥ ६२४१॥

यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् ।

तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥ ६२४२॥

शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति ।

धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥ ६२४३॥

एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् ।

वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥ ६२४४॥

यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् ।

शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६२४५॥

यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः ।

वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥ ६२४६॥

नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् ।

शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६२४७ ॥

यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।

नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६२४८॥

देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः ।

न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥ ६२४९॥

ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् ।

शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६२५०॥

यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।

नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६२५१॥

स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु ।

यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥ ६२५२॥

पले पले वर्षकोटिं मोदते स शिवे पुरे ।

यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥ ६२५३॥

तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् ।

दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥ ६२५४॥

यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् ।

यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥ ६२५५॥

स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् ।

यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥ ६२५६॥

प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।

तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥ ६२५७॥

तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।

श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥ ६२५८॥

चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु ।

यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥ ६२५९॥

तावद्युगानि संभोगैः शिवलोके महीयते ।

शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥ ६२६०॥

प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।

दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥ ६२६१॥

कल्पकोट्ययुतं साग्रं शिवलोके महीयते ।

शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥ ६२६२॥

निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् ।

स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥ ६२६३॥

शैलजानां तदर्धेन पात्राणां च तदर्धकम् ।

तालखर्जूरपात्राणां वंशजानां निवेदने ॥ ६२६४॥

अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् ।

वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥ ६२६५॥

नानापर्णपुटाणां च साराणां वा फलार्धकम् ।

यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥ ६२६६॥

स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने ।

ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥ ६२६७॥

भोजने भोजनाधारं गुरवे तत्फलं शृणु ।

यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥ ६२६८॥

तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।

लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥ ६२६९॥

दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् ।

यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥ ६२७०॥

वंशजं दारुजं वापि तस्य पुण्यफलं शृणु ।

दिव्यस्त्रीभोगसंपन्नो विमाने महति स्थितः ॥ ६२७१॥

चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे ।

भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् ॥ ६२७२॥

दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः ।

संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥ ६२७३॥

कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु ।

तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥ ६२७४॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।

सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥ ६२७५॥

यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा ।

एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥ ६२७६॥

शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु ।

यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥ ६२७७॥

तावच्चतुर्युगं देही शिवलोके महीयते ।

यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥ ६२७८ ॥

तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् ।

यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥ ६२७९॥

स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति ।

कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥ ६२८०॥

अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(

?)

अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥ ६२८१॥

आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् ।

शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥ ६२८२॥

तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् ।

अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥ ६२८३॥

शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः ।

सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् ।

दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥ ६२८४॥

॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥

\\

ह्रुले

अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः ।

सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥ ७१॥

शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति ।

गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥ ७२॥

नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः ।

अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥ ७३॥

शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् ।

शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥ ७४॥

गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् ।

कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥ ७५॥

न विविक्तमनाचान्तम्(

?)

चङ्क्रमन्तं तथाकुलम् ।

समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥ ७६॥

व्याख्याने तत्समाप्तौ च संप्रश्ने स्नानभोजने ।

भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥ ७७॥

ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् ।

सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥ ७८॥

पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् ।

शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥ ७९॥

शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् ।

प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥ ७१०॥

पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् ।

आवार्य पदसंप्राप्तौ पवित्रे चोपविग्रहे ॥ ७११॥

उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् ।

पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥ ७१२॥

हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् ।

पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥ ७१३॥

हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः ।

न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥ ७१४॥

प्रतिवाते ऽनुवाते वा न तिष्ठेद्गुरुणा सह ।

असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥ ७१५॥

अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः ।

न शयनो न चासीनः संभास्येद्गुरुणा सह ॥ ७१६॥

दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् ।

अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥ ७१७॥

न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् ।

न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥ ७१८॥

न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः ।

उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥ ७१९॥

गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ ।

पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥ ७२०॥

यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः ।

पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥ ७२१॥

न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् ।

समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥ ७२२॥

स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् ।

गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥ ७२३॥

अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् ।

नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥ ७२४॥

गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् ।

कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥ ७२५॥

मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् ।

पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥ ७२६॥

भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः ।

आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥ ७२७॥

गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् ।

कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥ ७२८॥

पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् ।

गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥ ७२९॥

यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः ।

अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥ ७३०॥

नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् ।

आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥ ७३१॥

पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् ।

क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥ ७३२॥

अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् ।

गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥ ७३३॥

प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् ।

नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥ ७३४॥

स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् ।

तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥ ७३५॥

गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् ।

अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥ ७३६॥

न गुरोरप्रियं कुर्यात्पीडितस्तारितो ऽपि वा ।

नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥ ७३७॥

गुरुरेव पिता माता गुरुरेव परः शिवः ।

यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥ ७३८॥

आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः ।

तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥ ७३९॥

यज्ञस्तपांसि नियमात्तानि वै विविधानि च ।

गुरुवाक्ये तु सर्वाणि संपद्यन्ते न संशयः ॥ ७४०॥

अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् ।

शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥ ७४१॥

इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् ।

सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ७४२॥

स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् ।

दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥ ७४३॥

रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् ।

अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥ ७४४॥

गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः ।

यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥ ७४५॥

धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते ।

प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥ ७४६॥

न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः ।

कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥ ७४७॥

पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् ।

पात्रास्तरितपादश्च(

?)

नित्यं भुञ्जीत वाग्यतः ॥ ७४८॥

न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते ।

शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥ ७४९॥

न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च ।

न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥ ७५०॥

केशास्थीनि कपालानि कार्पासास्थितुषाणि च ।

अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥ ७५१॥

न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् ।

न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥ ७५२॥

एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् ।

न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥ ७५३॥

न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा ।

न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम् ॥ ७५४॥

मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः ।

न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥ ७५५॥

सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया ।

देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः(

?)

॥ ७५६॥

न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् ।

न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥ ७५७॥

न पाणिपादवाक्चक्षुः श्रोत्रशिश्नगुदोदरैः ।

चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ७५८॥

न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति ।

लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥ ७५९॥

न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् ।

न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥ ७६०॥

नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् ।

न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥ ७६१॥

शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् ।

ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥ ७६२॥

कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः ।

शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद्गुरुः ॥ ७६३॥

नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् ।

हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥ ७६४॥

न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते ।

न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥ ७६५॥

देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि ।

प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुमुद्धरेत् ॥ ७६६॥

वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् ।

तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥ ७६७॥

देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु ।

नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥ ७६८॥

न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् ।

न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥ ७६९॥

तृणकाष्ठादिगहने जन्तुभिश्च समाकुले ।

स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥ ७७०॥

अग्निं युगपदानीय धारयेत प्रयत्नतः ।

ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥ ७७१॥

शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् ।

शिवो ऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥ ७७२॥

भोगान्ददाति विपुलान्लिङ्गे संपूजितः शिवः ।

अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥ ७७३॥

मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् ।

गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥ ७७४॥

सर्वपर्वसु यत्नेन ह्येषु संपूजयेच्छिवम् ।

कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥ ७७५॥

नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते ।

संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥ ७७६॥

अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् ।

भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥ ७७७॥

पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु ।

दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥ ७७८॥

प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः ।

एवं कृते विशेषेण प्रसीदति महेश्वरः ॥ ७७९॥

छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् ।

इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् ॥ ७८०॥

अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् ।

कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥ ७८१॥

ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् ।

स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥ ७८२॥

द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् ।

नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥ ७८३॥

नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् ।

सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥ ७८४॥

न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः ।

दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥ ७८५॥

नाधार्मिकनृपाक्रान्ते न दंशमशकावृते ।

नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥ ७८६॥

नासनं शयनं पानं नमस्काराभिवादनम् ।

सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥ ७८७॥

आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि ।

वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥ ७८८॥

यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् ।

शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥ ७८९॥

उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् ।

आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥ ७९०॥

पालाशमासनं शय्यां पादुके दन्तधावनम् ।

वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥ ७९१॥

संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् ।

स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥ ७९२॥

यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः ।

क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥ ७९३॥

यावत्तत्पत्त्रकुसुम कन्दमूलफलानि च ।

तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ७९४॥

कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने ।

क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥ ७९५॥

नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति ।

करोति च परित्राणं तस्य पुण्यफलं शृणु ॥ ७९६॥

कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः ।

मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥ ७९७॥

तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः ।

स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ७९८॥

गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः ।

मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥ ७९९॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।

अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥ ७१००॥

अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः ।

अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥ ७१०१॥

दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः ।

योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥ ७१०२॥

न विन्दति नरो योगं पुत्रदारादिसंगतः ।

निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥ ७१०३॥

मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः ।

बालैर्बद्धस्तु लोको ऽयं मुसलेनाभिहन्यते ॥ ७१०४॥

इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना ।

मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥ ७१०५॥

संपर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः ।

स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥ ७१०६॥

कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः ।

तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥ ७१०७॥

येनैतद्योजितं गर्भे येन चैव विवर्धितम् ।

तेनैव निर्गतं भूयः कर्मणा स्वेन पाल्यते ॥ ७१०८॥

न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् ।

यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥ ७१०९॥

येन यत्र कृतं कर्म स तत्रैव प्रजायते ।

पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥ ७११०॥

न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च ।

करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥ ७१११॥

कर्मदायादसंबन्धादुपकारः परस्परम् ।

दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥ ७११२॥

ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ।

ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥ ७११३॥

द्वयं देवत्वमोक्षाय ममेति न ममेति च ।

ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ ७११४॥

द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।

ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥ ७११५॥

तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः ।

विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥ ७११६॥

ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् ।

कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥ ७११७॥

न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् ।

दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥ ७११८॥

सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि ।

तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥ ७११९॥

स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् ।

याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥ ७१२०॥

यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् ।

कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥ ७१२१॥

यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः ।

सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥ ७१२२॥

अनेकदोषदुष्टस्य देहस्यैको महान्गुणह् ।

यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥ ७१२३॥

मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् ।

वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥ ७१२४॥

न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः ।

सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥ ७१२५॥

तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् ।

यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥ ७१२६॥

तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् ।

संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥ ७१२७॥

विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते ।

स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥ ७१२८॥

ये ऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु ।

विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥ ७१२९॥

विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् ।

न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥ ७१३०॥

इति नामामृतं दिव्यं महाकालादवाप्तवान् ।

विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः(

?)

सुनिश्चितम् ॥ ७१३१॥

प्रज्ञामथा विनिर्मथ्य(

?)

शिवज्ञानमहोदधिम् ।

ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥ ७१३२॥

शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे ।

यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥ ७१३३॥

त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् ।

तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥ ७१३४॥

नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः ।

चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥ ७१३५॥

एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः ।

सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥ ७१३६॥

तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः ।

व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥ ७१३७॥

ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् ।

ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥ ७१३८॥

ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने ।

ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥ ७१३९॥

शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् ।

ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ ७१४०॥

॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥

॥ इति शिवोपनिषत्समाप्ता ॥

]