शाट्यायनीयोपनिषत्

[[शाट्यायनीयोपनिषत् Source: EB]]

[

शाट्यायनीयोपनिषत्

शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति ।

यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १॥

समासक्तं सदा चित्तं जन्तोर्विषयगोचरे ।

यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २॥

वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३॥

नावेदविन्मनुते तं बृहन्तं

नाब्रह्मवित्परमं प्रैति धाम ।

विष्णुक्रान्तं वासुदेवं विजान

न्विप्रो विप्रत्वं गच्च्हते तत्त्वदर्शी ॥ ४॥

अथाह यत्परमं ब्रह्म सनातनं

ये श्रोत्रिया अकामहता अधीयुः ।

शान्तो दान्त उपरतिस्तितिक्षुहु

र्योऽनूचानो ह्यभिजज्ञौ समानः ॥ ५॥

त्यक्तेषणो ह्यनृणस्तं विदित्वा

मौनी वसेदाश्रमे यत्र कुत्र ।

अथाश्रमं चरमं संप्रविश्य

यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६॥

त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् ।

शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥ ७॥

पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः ।

न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८॥

विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च ।

तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९॥

त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।

निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ १०॥

अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस

इत्येते परिव्राजकाश्चतुर्विधा भवन्ति । सर्व एते विष्णुलिङ्गिनः

शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म

भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो

नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति । तदेतदृचाभ्युक्तम् ।

कुटीचको बहूदकश्चापि हंसः

परमहंस इव वृत्त्या च भिन्नाः ।

सर्व एते विष्णुलिङ्गं दधाना

वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् ।

पञ्चयज्ञा वेदशिरःप्रविष्टाः

क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् ।

त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः

संन्यस्तपुष्पा रसमेवाश्नुवानाः ।

विष्णुक्रीडा विष्णुरतयो विमुक्ता

विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११॥

त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा ।

उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥ १२॥

दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा ।

गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३॥

योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः ।

अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥ १४॥

नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः ।

ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५॥

ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ।

ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १६॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।

ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७॥

अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति

तथा भवन्ति । कामक्रोधलोभमोहदम्भदर्पासूया

ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती

च वर्जयित्वा वृक्ष इव तिष्ठासेत् । च्हिद्यमानो न

ब्रूयात् । तदैवं विद्वांस इहैवामृता भवन्ति ।

तदेतदृचाभ्युक्तम् ।

बन्धुपुत्रमनुमोदयित्वा

नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।

प्राचीमुदीचिं वा निर्वर्तयंश्चरेत

पात्री दण्डी युगमात्रावलोकी ।

शिखी मुण्डी चोपवीती कुटुम्बी

यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥ १८॥

अयाचितं याचितं वोत भैक्षं

मृद्दार्वलाबूफलपर्णपात्रम् ।

क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण

माच्च्हादनं स्यादहतं वा विमुक्तः ॥ १९॥

ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं

नाधो नाक्षं जातु शिखां न वापयेत् ।

चतुरो मासान्ध्रुवशीलतः स्या

त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः ।

अन्यानथाष्टौ पुनरुत्थितेऽस्मि

न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥ २०॥

देवाग्न्यगारे तरुमूले गुहायां

वसेदसङ्गोऽलक्षितशीलवृत्तः ।

अनिन्धनो ज्योतिरिवोपशान्तो

न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१॥

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।

किमिच्च्हन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ २२॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।

नानुध्यायाद्बहूञ्च्हब्दान्वाचो विग्लापनं हि तत् ॥ २३॥

बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।

ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २५॥

अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं

यो विजहाति स वीरहा भवति । स ब्रह्महा भवति । स भ्रूणहा

भवति । स महापातकी भवति । य इमां वैष्णवीं निष्ठां

परित्यज्यति । स स्तेनो भवति । स गुरुतल्पगो भवति । स मित्रध्रुग्भवति ।

स कृतघ्नो भवति । स सर्वस्माल्लोकात्प्रच्युतो भवति ।

तदेतदृचाभ्युक्तम् ।

स्तेनः सुरापो गुरुतल्पगामी

मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् ।

व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं

त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥ २६॥

त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा

यः स्वाश्रमं सेवतेऽनाश्रमं वा ।

प्रत्यपत्तिं भजते वातिमूढो

नैषां गतिः कल्पकोट्यापि दृष्टा ॥ २७॥

त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् ।

मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८॥

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।

तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९॥

अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं

निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति ।

स पुण्यश्लोको भवति । स लोकज्ञो भवति । स वेदान्तज्ञो भवति ।

स ब्रह्मज्ञो भवति । स सर्वज्ञो भवति । स स्वराड् भवति ।

स परं ब्रह्म भगवन्तमाप्नोति । स पितॄन्सम्बन्धिनो

बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति । तदेतदृचाभ्युक्तम् ।

शतं कुलानां प्रथमं बभूव

तथा पराणां त्रिशतं समग्रम् ।

एते भवन्ति सुकृतस्य लोके

येषं कुले संन्यसतीह विद्वान् ॥ ३०॥

त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् ।

उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥ ३१॥

संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।

तारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२॥

अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं

निष्ठां नासमाप्य प्रब्रूयात् । नानूचानाय

नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय

नाप्रयतमानसायेति ह स्माहुः । तदेतदृचाभ्युक्तम् ।

विद्या ह वै ब्राह्मणमाजगाम

गोपाय मां शेवधिष्टेऽहमस्मि ।

असूयकायानृजवे शठाय

मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३॥

यमेव विद्याश्रुतमप्रमत्तं

मेधाविनं ब्रह्मचर्योपपन्नम् ।

अस्मा इमामुपसन्नाय सम्यक्

परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४॥

अध्यापिता ये गुरुं नाद्रियन्ते

विप्रा वाचा मनसा कर्मणा वा ।

यथैव तेन न गुरुर्भोजनीय

स्तथैव चानं न भुनक्ति श्रुतं तत् ॥ ३५॥

गुरुरेव परो धर्मो गुरुरेव परा गतिः ।

एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति ।

तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३६॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।

स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥ ३७॥

इत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति शाट्यायनीयोपनिषत्समाप्ता ॥

]