सरस्वतीरहस्योपनिषत्

[[सरस्वतीरहस्योपनिषत् Source: EB]]

[

सरस्वतीरहस्योपनिषत्

प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।

अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता

मनो मे वाचि प्रतिष्ठितम् ॥

आविरावीर्म एधि वेदस्य म आणीस्थः

शृतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि

ऋतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु

अवतु मामवतु वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्च्हुः

केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया

तत्त्वं जानासि भगवन्वद ॥ १॥

सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया ।

स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ २॥

ऋषयः ऊचुः ।

कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।

महासरस्वती येन तुष्टा भगवती वद ॥ ३॥

स होवाचाश्वलायनः ।

अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।

अहमाश्वलायन ऋषिः । अनुष्टुप् च्हन्दः ।

श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति

शक्तिः ।

ॐ प्रणो देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे । श्रद्धा

मेधा

प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥

नीहारहारघनसारसुधाकराभां

कल्याणदां कनकचम्पकदामभूषाम् ।

उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं

वाणीं नमामि मनसा वचसा विभूत्यै ॥ १॥

ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।

गायत्री च्हन्दः । श्रीसरस्वती देवता । प्रणवेन

बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥

या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।

नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥ १॥

ॐ प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती ।

धीनामवित्र्यवतु ॥ १॥

आ नो दिव इति मन्त्रस्य अत्रिरृषिः । त्रिष्टुप् च्हन्दः ।

सरस्वती देवता । ह्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे

विनियोगः ।

मन्त्रेण न्यासः ॥

या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते ।

अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥

ह्रीं आ नो दिवो बृहतः पर्वतादा

सरस्वती यजतागं तु यज्ञम् ।

हवं देवी जुजुषाणा घृता

c

शग्मां नो वाचमुषती श्रुणोतु ॥ २॥

पावका न इति मन्त्रस्य । मधुच्च्हन्द ऋषिः ।

गायत्री च्हन्दः । सरस्वती देवता ।

श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः ।

मन्त्रेण न्यासः ॥

या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।

अनादिनिधनानन्ता सा मां पातु सरस्वती ॥

श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती ।

यज्ञं वष्टु धिया वसुः ॥ ३॥

चोदयत्रीति मन्त्रस्य मधुच्च्हन्द ऋषिः ।

गायत्री च्हन्दः । सरस्वती देवता ।

ब्लूमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ॥

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।

प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥

ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।

यज्ञं दधे सरस्वती ॥ ४॥

महो अर्ण इति मन्त्रस्य । मधुच्च्हन्द ऋषिः ।

गायत्री च्हन्दः । सरस्वती देवता । सौरिति बीजशक्तिः

कीलकम् । मन्त्रेण न्यासः ।

अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्च्हति ।

रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः ।

ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।

सौः महो अर्णः सरस्वती प्रचेतयति केतुना ।

धियो विश्वा विराजति ॥ ५॥

चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः ।

त्रिष्टुप् च्हन्दः । सरस्वती देवता । ऐमिति बीजशक्तिः

कीलकम् । मन्त्रेण न्यासः ।

या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।

व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥

ऐं चत्वारि वाक् परिमिता पदानि

तानि विदुर्ब्राह्मणा ये मनीषिणः ।

गुहा त्रीणि निहिता नेङ्गयन्ति

तुरीयं वाचो मनुष्या वदन्ति ॥ ६॥

यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः ।

त्रिष्टुप् च्हन्दः । सरस्वती देवता ।

क्लीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता ।

निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥

क्लीं यद्वाग्वदन्त्यविचेतनानि

राष्ट्री देवानां निषसाद मन्द्रा ।

चतस्र ऊर्जं दुदुहे पयांसि

क्व स्विदस्याः परमं जगाम ॥ ७॥

देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः ।

त्रिष्टुप् च्हन्दः । सरस्वती देवता ।

सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।

सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥

सौः देवीं वाचमजनयन्त

देवास्ता विश्वरूपाः पशवो वदन्ति ।

सा नो मन्द्रेषमूर्जं दुहाना

धेनुर्वागस्मानुपसुष्टुतैतु ॥८॥

उत त्व इति मन्त्रस्य बृहस्पतिरृशिः ।

त्रिष्टुप्च्हन्दः । सरस्वती देवता ।

समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।

योगी याति परं स्थानं सा मां पातु सरस्वती ॥

सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः

शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं १ विसस्रे

जायेव पत्य उशती सुवासाः ॥ ९॥

अम्बितम इति मन्त्रस्य गृत्समद ऋषिः ।

अनुष्टुप् च्हन्दः । सरस्वती देवता ।

ऐमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

नामरूपात्मकं सर्वं यस्यामावेश्य तं पुनः ।

ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥

ऐं अम्बितमे नदीतमे देवितमे सरस्वती ।

अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ १०॥

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।

मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १॥

नमस्ते शारदे देवि काश्मीरपुरवासिनी ।

त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ २॥

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।

मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३॥

कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।

महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।

भक्तजिह्वाग्रसद्ना शमादिगुणदायिनी ॥ ५॥

नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।

भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ६।

यः कवित्वं निरातङ्कं भक्तिमुक्ती च वाञ्च्हति ।

सोऽभ्यैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।

भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ ८॥

ततः प्रवर्तते वाणी स्वेच्च्हया ललिताक्षरा ।

गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥ ९॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।

इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ १०॥

आत्मविद्या मया लब्धा ब्रह्मणैव सनातनी ।

ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११॥

प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः ।

सत्यमाभाति चिच्च्हाया दर्पणे प्रतिबिम्बवत् ॥ १२॥

तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।

प्रकृत्यवच्च्हिन्नतया पुरुषत्वं पुनश्च ते ॥ १३॥

शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः ।

सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४॥

सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि ।

वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥ १५॥

सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि ।

जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥ १६॥

यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।

शक्तिद्वयं हि मायया विक्षेपावृत्तिरूपकम् ॥ १७॥

विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ।

अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८॥

आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ।

साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥ १९॥

चितिच्च्हाया समावेशाज्जीवः स्याद्व्यावहारिकः ।

अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ २०॥

आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ।

तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१॥

या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते ।

अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥ २२॥

भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् ।

अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३॥

आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ।

अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ॥ २४॥

समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः ।

सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥ २५॥

दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा ।

कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥ २६॥

ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ।

असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥ २७॥

अस्मीतिशब्दविद्धोऽयं समाधिः सविकल्पकः ।

स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥ २८॥

निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ।

हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९॥

समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः ।

स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३०॥

एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ।

देहाभिमाने गलिते विज्ञाते परमात्मनि ।

यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१॥

भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२॥

मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि ।

इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥ ३३॥

ॐ वाङ्मे मनसि प्रतिष्ठिता ।

मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म एधि । वेदस्य म आणीस्थः ।

शृतं मे मा प्रहासीः ।

अनेनाधीतेनाहोरात्रान्सन्दधामि ।

ऋतं वदिष्यामि । सत्यं वदिष्यामि ।

तन्मामवतु । तद्वक्तारमवतु ।

अवतु मामवतु वक्तारमवतु वक्तारम् ॥

॥ इति सरस्वतीरहस्योपनिषत्समाप्ता ॥


]