सूर्योपनिषत्

[[सूर्योपनिषत् Source: EB]]

[

सूर्योपनिषत् ।

अथर्ववेदीय सामान्योपनिषत् ।

सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् ।

सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं

पश्येमाक्षभिर्यजत्राः ।

स्थिरैरण्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ अथ सूर्याथर्वाण्गिरसं व्याख्यास्यामः ।

ब्रह्मा ऋषिः । गायत्री च्हन्दः । आदित्यो देवता ।

हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखा शक्तिः ।

वियदादिसर्गसंयुक्तं कीलकम् ।

चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः ।

षट्स्वरारूढेन बीजेन षडण्गं रक्ताम्बुजसंस्थितम् ।

सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं

पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं

श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः ।

ॐ भूर्भुवःसुवः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य

धीमहि । धियो यो नः प्रचोदयात् ।

सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि

भूतानि जायन्ते ।

सूर्याद्यङ्य़ः पर्जन्योऽन्नमात्मा नमस्त आदित्य ।

त्वमेव प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि ।

त्वमेव प्रत्यक्षं विष्णुरसि ।

त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि ।

त्वमेव प्रत्यक्षं यजुरसि ।

त्वमेव प्रत्यक्षं सामासि । त्वमेव प्रत्यक्षमथर्वासि ।

त्वमेव सर्वं च्हन्दोऽसि ।

आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो

जायन्ते । आदित्याज्ज्योतिर्जायते ।

आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते ।

आदित्याद्वेदा जायन्ते ।

आदित्यो वा एष एतन्मण्डलं तपति । असावादित्यो ब्रह्म ।

आदित्योऽन्तःकरणमनोबुद्धिचित्ताहण्काराः । आदित्यो वै

व्यानः समानोदानोऽपानः प्राणः ।

आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । आदित्यो वै

वाक्पाणिपादपायूपस्थाः ।

आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै

वचनादानागमनविसर्गानन्दाः ।

आनन्दमयो ङ्य़ानमयो विङ्य़ानानमय आदित्यः । नमो मित्राय

भानवे मृत्योर्मा पाहि ।

भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्भवन्ति भूतानि

सूर्येण पालितानि तु ।

सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । चक्षुर्नो

देवः सविता चक्षुर्न उत पर्वतः ।

चक्षुर्धाता दधातु नः । आदित्याय विद्महे सहस्रकिरणाय

धीमहि । तन्नः सूर्यः प्रचोदयात् ।

सविता पश्चात्तात्सविता

पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।

सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ।

ॐइत्येकाक्षरं ब्रह्म । घृणिरिति द्वे अक्षरे । सूर्य

इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि ।

एतस्यैव सूर्यस्याष्टाक्षरो मनुः । यः सदाहरहर्जपति स

वै ब्राह्मणो भवति स वै ब्राह्मणो भवति ।

सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते ।

अलक्ष्मीर्नश्यति । अभक्ष्यभक्षणात्पूतो भवति ।

अगम्यागमनात्पूतो भवति । पतितसम्भाषणात्पूतो भवति ।

असत्सम्भाषणात्पूतो भवति ।

मध्याह्ने सूराभिमुखः पठेत् ।

सद्योत्पन्नप

J

ण्चमहापातकात्प्रमुच्यते ।

सैषां सावित्रीं विद्यां न कि

J

ण्चिदपि न

कस्मैचित्प्रशंसयेत् ।

य एतां महाभागः प्रातः पठति स भाग्यवा

J

ण्जायते ।

पशून्विन्दति । वेदार्थं लभते ।

त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्तादित्ये

जपति स महामृत्युं तरति य एवं वेद ॥

इत्युपनिषत् ॥

हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ॥

इति सूर्योपनिषत्समाप्ता ॥

]