रामकृष्णपरमहंसोपनिषद्

[[रामकृष्णपरमहंसोपनिषद् Source: EB]]

[

श्रीरामकृष्णपरमहंसोपनिषद्

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथ श्रीरामकृष्ण परमहंसोपनिषदं

व्याख्यास्यामः ।

सैषाऽपरोक्षानुभवरूढा साधनप्रधाना च ॥ १॥

निर्गुणं निराकारं च परं ब्रह्म ।

तदेव भक्तजनानां शीतल भक्तेः प्रभावात्

सगुणः साकारः परमेश्वरो भवति हिममिव

जलात् शैत्यात् ।

स एव परमेश्वरो निखिलजगदंतर्यामी च ॥ २॥

रामकृष्णशिवविष्णुगा।

c

डल्लेत्यादि

विविधनामभिर्निर्दिष्टं परंतत्त्वमपि स एव ।

स एव लक्ष्मीदुर्गाकालीसरस्वतीत्यादि

देवीनामभिरपि निर्दिश्यते ॥ ३॥

व्यवहारदशायां यत्र पुरुषोऽङ्य़ो द्वैतमिव

पश्यति तदा काल्यादि देव्यः परस्यैव ब्रह्मणः

शक्तय इति मन्तव्यम् । दाहिकशक्तिर्यथाग्नेः ।

वस्तुतस्तु तयोरत्यंतमभेदः एव ॥४॥

परमेश्वरदर्शनमेव मानव जीवनस्य चरमोद्देशः ।

तथैव मुक्तेः साध्यत्वात् ।

परमेश्वरस्तु द्रष्टुं स्प्रष्टुं च शक्यः ।

तेन सहालापोऽपि साध्यः ।

सर्वे धर्माः समानास्तमेव गमयंति च ॥ ५॥

अपि तु मायाजवनिकाच्च्हन्नः स सुखेन द्रष्टुं

न लभ्यः ।

कामकांचन कामनैव माया ।

तदपगमे सः स्वयमेवाविर्भवति मेघापायेंऽशुमानिव ।

ङ्य़ानमिश्रित भक्तिश्च मायानाशोपायः ।

स एव सर्वमित्यतो दीनदरिद्ररोग्यङ्य़ादीनां

नारायणदृष्ट्या सेवाऽप्यद्यतनकालेऽ

अनुत्तमोपायश्चित्तशुद्धिद्वारा तं

साक्षात्कर्तुम् ॥ ६॥

कथंचित्तं ङ्य़ात्वा दृष्ट्वा स्पृष्ट्वा

भवबन्धनाद्विमुक्ता भवत ।

विमुक्ता भवतेत्युपनिषत् ॥ ७॥

ॐ शान्तिः शान्तिः शान्तिः ॥


]