पुरुषबोधिनी श्रुतिः

[[पुरुषबोधिनी श्रुतिः Source: EB]]

[

अथ पुरुषबोधिनी श्रुतिः।

प्रथमः प्रपाठकः।

ओमथ सुषुप्तौ रामः सुबोधमाधाय इव किं मे देवि क्वासौ कृष्णः,

योऽयं मम भ्रातेति । तस्य कान्तिच्छाये ब्रूहीति ।

सा वैष्णव्युवाच—

राम ! शृणु । भूर्भुवः स्वर्महः जनस्तपः सत्यमतलं वितलं सुतलं रसातलं तलातलं महातलं पातालमेव पञ्चाशत्कोटियोजनबहुलं स्वर्णाण्डं ब्रह्माण्डमिति । अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यस्थलं वैकुण्ठम् ।

स पृच्छति—

कथं शून्यमण्डले निरालम्बनम् ।

साप्युक्ता—

पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्तरोमकूपेषु अनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि । तस्य मस्तकोपरि सहस्राश्रमिता फणानि । फणोपरि रुद्रलोकं शिववैकुण्ठमिति दशकोटियोजनविस्तीर्णं रुद्रलोकम् । तदुपरि विष्णुलोकं,

सप्तकोटियोजनविस्तीर्णं विष्णुलोकम् । त्रदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णं,

तदुपरि गोकुलाख्यं मथुरामण्डलं सुधामयसमुद्रेणावेष्टितमिति ।

तत्राष्टदलकेशरमध्ये मणिमयसप्तावरणकं किं रूपं स्थानं,

किं पद्मं किं यन्त्रः किं सेवकाः किमावरणाः इत्युक्ते साप्युक्ता—

गोकुलाख्ये मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्ममध्ये कल्पतरोर्मूले अष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूरपिच्छशिरो वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति ।

द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गादिका शक्तिरिति पश्चिमे सम्मुखे ललिता,

वायव्ये श्यामला,

उत्तरे श्रीमति,

ऐशन्यां हरिप्रिया,

पूर्वे विशाखा,

चाग्नौ श्रद्धा,

याम्यां पद्मा नैरृत्यां भद्रा । षोडशदलाग्रे चन्द्रावली,

तद्वामे चित्ररेखा,

तत्पार्श्वे श्रीशशिरेखा,

तत्पार्श्वे कृष्णप्रिया,

तत्पार्श्वे कृष्णवल्लभा,

तत्पार्श्वे चन्द्रावती,

तत्पार्श्वे मनोहरा,

तत्पार्श्वे योगानन्दा,

तत्पार्श्वे परानन्दा,

तत्पार्श्वे प्रेमानन्दा चित्रकरा,

तत्पार्श्वे मदनसुन्दरी नन्दा,

तत्पार्श्वे सत्यानन्दा,

तत्पार्श्वे चन्द्रा,

तत्पार्श्वे किशोरीवल्लभा,

करुणा,

कुशला एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति वेदवचनं भवतीति वेदवचनं भवति ।

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं प्राप्नोति नान्येनेति नान्येनेति ।

इत्यथर्वणीयपुरुषबोधिन्यां प्रथमः प्रपाठकः ॥१॥


द्वितीयः प्रपाठकः

साप्युक्ता—

तस्य बाह्ये शतदलपत्रेषु योगपीठेषु रामक्रीडानुरक्ता गोप्यस्तिष्ठन्ति । *** । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र समाकीऋणः । तत्र प्रथमावरणे पश्चिमे संमुखे स्वर्णमण्डपे गोपकन्या । द्वितीये श्रीदामादिः । तृतीये किङ्किण्यादिः । चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर्मूले उषासहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालम् । एतद्बाह्ये राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति,

ईश्वरस्य दर्शनयोग्यं भवति । तत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसमीपयोग्यो भवति । राधाकृष्णयोरेकासने एकबुद्धिरेकं मन एकं ज्ञानमेक आत्मा एकपद्मैकाकृतिरेकं ब्रह्मतयासनं हेममुरलीं वादयन्हेमस्वरूपामनुरागसंवलितां कल्पतरोर्मूले सुरभिविद्यामरक्षितविमलाश्रुरिव परमा सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणातीतस्नेहभावरहिता । अतएव द्वयोर्न भेदः कालमायागुणातीतं स्यात।

तदेव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्रीवृन्दावनमध्ये ऋग्यजुःसामस्वरूपं रूपात्मको मकारः । यजुरात्मक उकारः । श्रीरामरसात्मकोऽपि अकारः । श्रीकृष्णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः परब्रह्मसच्चिदानन्दराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्सच्चिदानन्दामृतं कथ्यते । एतल्लक्षणं यत्प्रणवं ब्रह्मविष्णुं शिवात्मकं स्वेच्छाख्यज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं सत्त्वरजस्तमःस्वरूपं सत्यत्रेताद्वापरानुगीतं तुरीयं गोकुलमथुराद्वारकाणां तुरीयमेव तद्दिव्यं वृन्दावनमिति पुरैवोक्तं सर्वसम्प्रदायानुगतं त्रयम् ।

इत्यथर्वणीयपुरुषबोधिन्यां द्वितीयः प्रपाठकः ॥२॥


तृतीयः प्रपाठकः।

अथानन्तरम्—

भद्रश्रीलोहभाण्डीरमहातालखदिरकाः ।

बहुलाकुमुदाकाम्यं मधुवृन्दावनानि च ॥

द्वादशवनानि । कालिन्द्याः पश्चिमे सप्तवनानि पूर्वे पञ्चवनानि । उत्तरे तु गुह्यमस्तीति । महावनं गोकुलाख्यं मथुरा मधुवनमिति । खदिरवनं भाण्डीरवनं नन्दीश्वरवनं नन्दनानन्दखण्डेव वनं पलाशाशोकवनं केतद्रुमभद्रवनशेषशायिक्रीडावन उत्सववनान्येतेषु चतुरश्चतुर्विंश वनानि नानालीलया नित्यस्थलानि कृष्णः क्रीडति ।

तस्य वसन्तऋतुसेवितं नन्दाद्युपवनयुक्तम् । तत्र दुःखं नास्ति,

सुखं नास्ति,

जरा नास्ति,

मरणं नास्ति,

क्रोधं नास्ति । तत्र पुर्णानन्दमयः श्रीकैशोरः कृष्णः शिखण्डदललम्बितत्रियुग्मगुञ्जावतंसमणिमयकिरीटीशिरो गोरोचनातिलकः कर्णयोर्मकरकुण्डले वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणः केयूरं कट्यां किङ्किणीपीताम्बरधरो गम्भीरनाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्मस्तदंशांशेन कोटिमहाविष्णुरिति । एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीरिति ।

तस्य आद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्ना अनेकलावण्यसुन्दरी । एवं भूतस्य सिद्धिमहिम्ना सुखसिन्धुरशोनोत्पन्न इति मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं प्राप्नोतीति नान्येनेति नान्येनेति वेदवचनं भवतीति वेदवचनं भवतीति वेदवचनं भवतीति ।

इत्यथर्वणीयपुरुषबोधिन्यां तृतीयः प्रपाठकः ॥३॥


]