प्राणाग्निहोत्रोपनिषत्

[[प्राणाग्निहोत्रोपनिषत् Source: EB]]

[

प्राणाग्निहोत्रोपनिषत् ।

शरीरयज्ञसंशुद्धचित्तसंजातबोधतः ।

मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं

करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमः खण्डः।

हरिः ॐ ॥

अथातः सर्वोपनिषत्सारं संसारज्ञानातीत

मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः । यस्मिन्नेव

पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन

संसारविमुक्तिर्भवतीति । स्वेन विधिनान्नं भूमौ निक्षिप्य

या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्या

मनुमन्त्रयते । या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।

बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ १॥

याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।

बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ २॥

जीवला नघारिषां माते बध्नामोषधिम् ।

यातयायु रुपाहरादप रक्षांसि चातयात् ॥ ३॥

अन्नपतेऽन्नस्य नो वेह्यनमीवस्य शुष्मिणः ।

प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ ४॥

यदन्नमग्निर्बहुधा विराद्धि

रुद्रैः प्रजग्धं यदि वा पिशाचैः ।

सर्वं तदीशानो अभयं कृणोतु

शिवमीशानाय स्वाहा ॥ ५॥

अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।

त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्तवं विष्णुस्त्वं वषट्कार

आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः ।

आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।

पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ।

यदुच्च्हिष्टमभोज्यं यद्वा दुश्चरितं मम ।

सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ।

अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि ।

प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा ।

समानाय स्वाहा । इति कनिष्ठिकाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोति ।

अनामिकयापाने । मध्यमया व्याने । सर्वाभिरुदाने । प्रदेशिन्या समाने ।

तूष्णीमेकामेकऋषौ जुहोति । द्वे आहवनीये ।

एकां दक्षिणाग्नौ । एकां गार्हपत्ये । एकां सर्वप्रायश्चित्तीये ॥

अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् ।

स ते प्राणा वाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् ।

प्राणो अग्निः परमात्मा पञ्चवायुभिरावृतः ।

अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥ १॥

इति प्रथमः खण्डः ॥ १॥


द्वितीयः खण्डः।

विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते

जायमानम् । विश्वं त्वाहुतथः सर्वा यत्र

ब्रह्माऽमृतोऽसि । महानवोऽयं पुरुषो

योऽङ्गुष्ठाग्रे प्रतिष्ठितः । तमद्भिः परिषिञ्चामि

सोऽस्यान्ते अमृताय च । अनावित्येष बाह्यात्मा

ध्यायेताग्निहोत्रं जोहोमीति । सर्वेषामेव सूनुर्भवति ।

अस्य यज्ञपरिवृता आहुतीर्होमयति । स्वशरीरे यज्ञं

परिवर्तयामीति । चत्वारोऽग्नयस्ते किंभागधेयाः ।

तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मि

परिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति । यस्मादुक्तो

दर्शनाग्निर्नाम चतुराकृतिराहवनीयो भूत्वा मुखे तिष्ठति ।

शारीरोग्निर्नाम जराप्रणुदा हविरवस्कन्दति । अर्धचन्द्राकृति

र्दक्षिणाग्निर्भूत्वा हृदये तिष्ठति तत्र कोष्ठाग्निरिति ।

कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग्व्यष्ट्यां

श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति ।

प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्रो हिमांशुप्रभाभिः

प्रजननकर्मा ॥

इति द्वितीयः खण्डः ॥ २॥


तृतीयः खण्डः

अस्य शरीरयज्ञस्य यूपरशनाशोभितस्य

को यजमानः । का पत्नी । के ऋत्विजः । के सदस्याः ।

कानि यज्ञपात्राणि । कानि हवींषि । का वेदिः ।

कोत्तरवेदिः । को द्रोणकलशः । को रथः । कः पशुः ।

कोऽध्वर्युः । को होता । को ब्राह्मणाच्च्हंसी ।

कः प्रतिप्रस्थाता । कः प्रस्तोता । को मैत्रावरुणः ।

क उद्गाता । का धारापोता । के दर्भाः । कः स्रुवः ।

काज्यस्थाली । कावाघारौ । कावाज्यभागौ । केऽत्र

याजाः । के अनुयाजाः । केडा । कः सूक्तवाकः ।

कः शंयोर्वाकः । का हिंसा । के पत्नीसंयाजाः ।

को यूपः । का रशना । का इष्टयः । का दक्षिणा ।

किमवभृतमिति ॥

इति तृतीयः खण्डः ॥ ३॥

————————-

अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः ।

बुद्धिः पत्नी । वेदा महर्त्विजः । अहङ्कारोऽध्वर्युः । चित्तं

होता । प्राणो ब्राह्मणच्च्हंसी । अपानः प्रतिप्रस्थाता ।

व्यानः प्रस्तोता । उदान उद्गाता । समानो मैत्रवरुणः ।

शरीरं वेदिः । नासिकोत्तरवेदिः । मूर्धा द्रोणकलशः ।

पादो रथः । दक्षिणहस्तः स्रुवः । सव्यहस्त आज्यस्थाली ।

श्रोत्रे आघारौ । चक्षुषी आज्यभागौ । ग्रीवा धारापोता ।

तन्मात्राणि सदस्याः । महाभूतानि प्रयाजाः । भूतानि

गुणा अनुयाजाः । जिह्वेडा । दन्तोष्ठौ सूक्तवाकः । तालुः

शंयोर्वाकः । स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः ।

ओङ्कारो यूपः । आशा रशना । मनो रथः । कामः पशुः ।

केशा दर्भाः । बुद्धीन्द्रियाणि यज्ञपात्राणि । कर्मेन्द्रियाणि

हवींषि । अहिंसा इष्टयः । त्यागो दक्षिणा । अवभृतं

मरणात् । सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः ।

वाराणस्यां मृतो वापि इदं वा ब्रह्म यः पठेत् । एकेन

जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं च

प्राप्नुयादित्युपनिषत् ॥ ३॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ तत्सत् ॥

इति प्राणाग्निहोत्रोपनिषत्समाप्ता ॥


]