पैङ्गलोपनिषत्

[[पैङ्गलोपनिषत् Source: EB]]

[

॥ पैङ्गलोपनिषत् ॥

** प्रथमोऽध्यायः।**

शुक्ल

_

यजुर्वेदीय सामान्य उपनिषत् ॥

पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।

परितः कलये रामं परमाक्षरवैभवम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ ह पैङ्ङलो याङ्य़वल्क्यमुपसमेत्य

द्वादशवर्शशुश्रूषापूर्वकं

परमरहस्यकैवल्यमनुब्रूहीति पप्रच्च्ह । स होवाच

याङ्य़्नवल्क्यः सदेव सोम्येदमग्र आसीत् ।

तन्नित्यमुक्तमविक्रियं सत्यङ्य़ानानन्दं परिपूर्णं

सनातनमेकमेवाद्वितीयं ब्रह्म ।

तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ

जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी

गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं

यत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य

सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् । तत्प्रतिबिम्बितं

यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायः सर्वङ्य़ः

सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति ।

स्वस्मिन्विलीनं सकलं जगदाविर्भावयति ।

प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः

प्राणिकर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं

सङ्कोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो

रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्रतिबिम्बितं

यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी

स्पष्टास्पष्टवपुर्भवति ।

हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा

स्थूलशक्तिरासीत् । तत्प्रतिबिम्बितं

यत्तद्विराटचैतन्यमासीत् । स तदभिमानी स्पष्टवपुः

सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति ।

तस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः

। अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि

त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय

सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत ।

सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय

पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा

संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि

तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् । स

पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा

भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् । स तेषां

तुर्यभागेन कर्मेन्द्रियाण्यसृजत् । स तेषां सत्त्वांशं

चतुर्धा कृत्वा भागत्रयसमष्टितः

पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां

सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित

इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत्

| तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् |

तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् ।

हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि

तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि

चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि

समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा

जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशो

मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो

जीवत्वमगमत् ।

शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् ।

जाग्रत्स्वप्नसुषुप्तिमूर्च्च्हामरणधर्मयुक्तो

घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन

परिभ्रमतीति ॥

इति प्रथमोऽध्यायः ॥ १॥

—————————

अथ द्वितीयोऽध्यायः।

अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां

सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति । स

होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं

जीवेश्वरस्वरूपं विविच्य कथयामीति

सावधानेनैकाग्रतया श्रूयताम् । ईशः

पञ्चीकृतमहाभूतलेशानादाय

व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् ।

कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः ।

रक्तमूत्रलालास्वेदादिकमवंशाः ।

क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः ।

प्रचारणोत्तारणश्वासादिका वाय्वंशाः । कामक्रोधादयो

व्योमांशाः । एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं

बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं

भवति ॥

अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः

प्राणमसृजत् । प्राणापानव्यानोदानसमानाः प्राणवृत्तयः

| नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः |

हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि ।

आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् ।

वाक्पाणिपादपायूपास्थास्तद्वृत्तयः ।

वचनादानगमनविसर्गानन्दास्तद्विषयाः ॥

एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत्

| अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः |

सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः ।

गलवदननाभिहृदयभ्रूमध्यं स्थानम् ।

भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् ।

श्रोत्रत्वक्चक्षुर्जिव्हाघ्राणास्तद्वृत्तयः ।

शब्दस्पर्शरूपरसगन्धास्तद्विषयाः ।

दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो

विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः ॥

अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च

कोशाः । अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं

प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः ।

तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादिपञ्चकं

प्राणमयकोशः । ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः ।

एतत्कोशत्रयं लिङ्गशरीरम् ।

स्वरूपाज्ञानमानन्दमयकोशः । तत्कारणशरीरम् ॥

अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं

प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं

कामकर्मतमांस्यष्टपुरम् ॥

इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय

विश्वत्वमगमत् । विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको

जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम

भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं

प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् । तैजसः

प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति ।

ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं

प्रविश्य प्राज्ञत्वमगमत् । प्राज्ञोविच्च्हिन्नः पारमार्थिकः

सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति ।

अव्यक्तलेशाज्ञानाच्च्हादितपारमार्थिकजीवस्य

तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः

नेतरयोर्व्यावहारिकप्रातिभासिकयोः ।

अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति

। स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो

जातो मृत इव स्थितो भवति । अथ

जाग्रत्स्वप्नसुषुप्तिमूर्च्च्हामरणाद्यवस्थाः पञ्च भवन्ति

तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः

शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति ।

तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य

कृषिश्रवणाद्यखिलक्रियाकर्ता भवति । तत्तत्फलभुक् च

भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स

सार्वभौमवद्व्यवहाराच्च्ह्रान्त अन्तर्भवनं प्रवेष्टुं

मार्गमाश्रित्य तिष्ठति । करणोपरमे

जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं

स्वप्नावस्था भवति । तत्र विश्व एव

जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य

वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं

स्वयं भुङ्क्ते ॥

चित्तैककरणा सुषुप्त्यवस्था भवति ।

भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा

गच्च्हति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य

श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥

अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ्

आतैः कम्पन्निव मृततुल्या मूर्च्च्हा भवति ।

जाग्रत्स्वप्नसुषुप्तिमूर्च्च्हावस्थानामन्या

ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी

मरणावस्था भवति । कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि

तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित

अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं

गच्च्हति । प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं

नैव गच्च्हति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते

नृणां मोक्षेच्च्हा जायते । तदा सद्गुरुमाश्रित्य

चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति । अविचारकृतो

बन्धो विचारान्मोक्षो भवति । तस्मात्सदा विचारयेत् ।

अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते ।

तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो

जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत इति ॥

इति द्वितीयोऽध्यायः ॥ २॥


अथ तृतीयोऽध्यायः।

अथ हैनं पैङ्गलः प्रपच्च्ह याज्ञवल्क्यं

महावाक्यविवरणमनुब्रूहीति । स होवाच

याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं

ब्रह्मास्मीत्यनुसन्धानं कुर्यात् । तत्र पारोक्ष्यशबलः

सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो

जगद्योनिस्तत्पदवाच्यो भवति । स

एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो

भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं

प्रत्यगभिन्नं ब्रह्म । तत्त्वमसीत्यहं ब्रह्मास्मीति

वाक्यार्थविचारः श्रवणं भवति । एकान्तेन

श्रवणार्थानुसन्धानं मननं भवति ।

श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया

चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने विहाय

निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति ।

तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति ।

ताः स्मरणादनुमीयन्ते । इहानादिसंसारे सञ्चिताः

कर्मकोटयोऽनेनैव विलयं यान्ति ।

ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति । ततो

योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले

निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे

समूलोन्मूलिते प्राक्परोक्षमपि

करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं

प्रसूयते । तदा जीवन्मुक्तो भवति ॥

ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं

सोऽकामयत । ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च

कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि

प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं

चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य

भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे

चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं

पुरुषे क्रमेण विलीयते । विराद्ड्ढिरण्यगर्भेश्वरा

उपाधिविलयात्परमात्मनि लीयन्ते ।

पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः

कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य

सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं

कूटस्थे प्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः

स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते । अण्डं ज्ञानाग्निना

दग्धं कारणैः सह परमात्मनि लीनं भवति । ततो ब्राह्मणः

समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् । ततो

मेघापायेंऽशुमानिवात्माविर्भवति । ध्यात्वा

मध्यस्थमात्मानं कलशान्तरदीपवत् ।

अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥ १॥

प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् ।

ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥ २॥

जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ।

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।

विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३॥

अशब्दमस्पर्शमरूपमव्ययं

तथा रसं नित्यमगन्धवच्च यत् ।

अनाद्यनन्तं महतः परं ध्रुवं

तदेव शिष्यत्यमलं निरामयम् ॥ ४॥ इति ॥

इति

तृतीयोऽध्यायः ॥ ३॥


अथ हैनं पैङ्गलः प्रपच्च्ह याज्ञवल्क्यं ज्ञानिनः किं

कर्म का च स्थितिरिति । स होवाच याज्ञवल्क्यः ।

अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति ।

ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति ।

आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु

सारथिं विद्धि मनः प्रग्रहमेव च ॥ १॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि

विमानानि हृदयानि मनीषिणः ॥ २॥

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणः

साक्षाद्धृदये सुप्रतिष्ठितः ॥ ३॥

प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति ।

चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः ॥ ४॥

तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम् ।

प्राणानवकीर्य याति कैवल्यम् ॥

तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत् । पुंसः

प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥ ५॥

नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया । न

कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे ॥ ६॥

दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा ।

ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया ॥ ७॥

यावच्चोपाधिपर्यन्तं तावच्च्हुश्रूषयेद्गुरुम् ।

गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥ ८॥

शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः

सोऽहमस्मीति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि

संस्थिते देहे लब्धशान्तिपदं गते तदा

प्रभामनोबुद्धिशून्यं भवति । अमृतेन तृप्तस्य पयसा किं

प्रयोजनम् । एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं

भवति । ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति

तदस्ति चेन्न स तत्त्वविद्भवति । दूरस्थोऽपि न दूरस्थः

पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति ।

हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् । अहमेव

परं सर्वमिति पश्येत्परं सुखम् ॥ ९॥

यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।

अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः ॥ १०॥

देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति

तदा विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् । ततः

पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् ।

यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः

॥ ११॥

आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा ।

स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति

चान्तरात्मा ॥ १२॥

यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना । यथा

सर्वगतं व्योम तत्रतत्र लयं गतः ॥ १३॥

घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्च्हति

निरालम्बं ज्ञानालोकं समन्ततः ॥ १४॥

तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्य ध्यानयोगस्य

कलां नार्हति षोडशीम् ॥ १५॥

इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्च्हति । । अपि

वर्षसहस्रायुः शास्त्रान्तं नाधिगच्च्हति ॥ १६॥

विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम् । विहाय

शास्त्रजालानि यत्सत्यं तदुपासताम् ॥ १७॥

अनन्तकर्मशौचं च जपो यज्ञस्तथैव च ।

तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति ॥ १८॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे

बन्धमोक्षाय न ममेति ममेति च ॥ १९॥

ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । मनसो ह्युन्मनी भावे

द्वैतं नैवोपलभ्यते ॥ २०॥

यदा यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्रयत्र मनो

याति तत्रतत्र परं पदम् ॥ २१॥

तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ।

हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् ॥ २२॥

नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते । य

एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो

भवति । स आदित्यपूतो भवति । स ब्रह्मपूतो भवति । स

विष्णुपूतो भवति । स रुद्रपूतो भवति । स सर्वेषु

तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वधीतो भवति ।

स सर्ववेदव्रतचर्यासु चरितो भवति । तेनेतिहासपुराणानां

रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।

प्रणवानामयुतं जप्तं भवति । दश

पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स

महान्भवति ।

ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्य

ः पूतो भवति । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः

। दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः

समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत्

ॐ पूर्णामद इति शान्तिः ॥

इति पैङ्गलोपनिष्त्समाप्ता ॥

]