निर्वाणोपनिषत् ॥ (ऋग्वेदीय संन्यासोपनिषत्)

[[निर्वाणोपनिषत् ॥ (ऋग्वेदीय संन्यासोपनिषत्) Source: EB]]

[

॥ अथ

निर्वाणोपनिषत् ॥

ऋग्वेदीया संन्यासोपनिषत् ।

निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।

त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥

ॐ वाण्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म एधि । वेदस्य मा आणीस्थः ।

श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि ।

ऋतं वदिष्यामि । सत्यं वदिष्यामि ।

तन्मामवतु । तद्वक्तारमवतु ।

अवतु मामवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ निर्वाणोपनिषदं व्याख्यास्यामः ।

परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिण्गाः ।

मन्मथ क्षेत्रपालाः । गगनसिद्धान्तः अमृतकल्लोलनदी ।

अक्षयं निर

J

ण्जनम् । निःसंशय ऋषिः ।

निर्वाणोदेवता । निष्कुलप्रवृत्तिः । निष्केवलङ्य़ानम् ।

ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा ।

वियोगोपदेशः । दीक्षासन्तोषपानं च ।

द्वादशावदित्यावलोकनम् । विवेकरक्षा ।

करुणैव केलिः । आनन्दमाला ।

एकान्तगुहायां मुक्तासनसुखगोष्टी । अकल्पितभिक्षाशी ।

हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ।

धैर्यकन्था । उदासीन कौपीनम् । विचारदण्डः ।

ब्रह्मावलोकयोगपट्टः ।श्रियां पादुका । परेच्च्हाचरणम् ।

कुण्डलिनीबन्धः । परापवादमुक्तो जीवन्मुक्तः ।

शिवयोगनिद्रा च । खेचरीमुद्रा च । परमानन्दी ।

निर्गतगुणत्रयम् । विवेकलभ्यं मनोवागगोचरम् ।

अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।

तथा देहादिसण्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानलक्ष्यम् ।

अण्कुशो मार्गः । शून्यं न सण्केतः ।

परमेश्वरसत्ता । सत्यसिद्धयोगो मठः ।

अमरपदं तत्स्वरूपम् ।

आदिब्रह्मस्वसंवित् । अजपा गायत्री । विकारदण्डो ध्येयः ।

मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् ।

आनन्द भिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः ।

एकान्तस्थानम् । आनन्दमठम् । उन्मन्यवस्था ।

शारदा चेष्टा । उन्मनी गतिः । निर्मलगात्रम् ।

निरालम्बपीठम् । अमृतकल्लोलानन्दक्रिया ।

पाण्डरगगनम् । महासिद्धान्तः ।

शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता ।

परावरसंयोगः । तारकोपदेशाः । अद्वैतसदानन्दो देवता ।

नियमः स्वातरिन्द्रियनिग्रहः ।

भयमोहशोकक्रोधत्यागस्त्यागः । अनियामकत्वनिर्मलशक्तिः ।

स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रप

J

ण्चच्च्हेदनम् ।

तथा पत्राक्षाक्षिकमण्डलुः ।

भवाभावदहनम् । बिभ्रत्याकाशाधारम् ।

शिवं तुरीयं यङ्य़ोपवीतम् । तन्मया शिखा ।

चिन्मयं चोत्सृष्टिदण्डम् । सन्तताक्षिकमण्डलुम् ।

कर्मनिर्मूलनं कन्था । मायाममताहण्कारदहनम् ।

स्प्रशाने अनाहताण्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् ।

भ्रान्तिहरणम् । कामादिवृत्तिदहनम् । काठिन्यदृढकौपीनम् । चीराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् ।

स्वेच्च्हाचारस्वस्वभावो मोक्षः परं ब्रह्म ।

प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् ।

ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् ।

अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् ।

एतन्निर्वाणदर्शनम् ।

शिष्यं पुत्रं विना न देयमित्युपनिषत् ।

ॐ वाण्मे मनसीति शान्तिः ॥

इति निर्वाणोपनिषत्समाप्ता ।


]