नादबिन्दूपनिषत् ऋग्वेदीया

[[नादबिन्दूपनिषत् ऋग्वेदीया Source: EB]]

[

॥ नादबिन्दूपनिषत् ॥

ऋग्वेदीया योगोपनिषत् ।

वैराजात्मोपासनया स

J

ण्जातङ्य़ानवह्निना ।

दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥

ॐ वाण्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्टितम् ।

आविरावीर्म एधि । वेदस्य मा आणीस्थः ।श्रुतं मे मा

प्रहासीः ।

अनेनाधीतेनाहोरात्रान्सन्दधामि ।

ऋतं वदिष्यामि । सत्यं वदिष्यामि ।

तन्मामवतु । तद्वक्तारमवतु ।

अवतु मामवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः ।

मकारं पुच्च्हमित्याहुरर्धमात्रा तु मस्तकम् ॥ १॥

पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते ।

धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः ॥ २॥

भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि ।

सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥ ३॥

जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः ।

भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ४॥

सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः ।

एवमेतां समारूढो हंसयोगविचक्षणः ॥ ५॥

न भिद्यते कर्मचारैः पापकोटिशतैरपि ।

आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा ॥ ६॥

भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा ।

परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥ ७॥

कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः ।

एष ओण्कार आख्यातो धारणाभिर्निबोधत ॥ ८॥

घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा ।

पतण्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥ ९॥

J

ण्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते ।

सप्तमी वैष्णवी नाम अष्टमी शाण्करीति च ॥ १०॥

नवमी महती नाम धृतिस्तु दशमी मता ।

एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥ ११॥

प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते ।

भरते वर्षराजासौ सार्वभौमः प्रजायते ॥ १२॥

द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् ।

विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका ॥ १३॥

J

ण्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते ।

उषितः सह देवत्वं सोमलोके महीयते ॥ १४॥

षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् ।

अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ १५॥

नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् ।

एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ १६॥

ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् ।

सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ १७॥

अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ।

अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् ॥ १८॥

तद्युक्तस्तन्मयो जन्तुः शनैर्मु

J

ण्चेत्कलेवरम् ।

संस्थितो योगचारेण सर्वसण्गविवर्जितः ॥ १९॥

ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः ।

तेनैव ब्रह्मभावेन परमानन्दमश्नुते ॥ २०॥

आत्मानं सततं ङ्य़ात्वा कालं नय महामते ।

प्रारब्धमखिलं भु

J

ण्जन्नोद्वेगं कर्तुमर्हसि ॥ २१॥

उत्पन्ने तत्त्वविङ्य़ाने प्रारब्धं नैव मु

J

ण्चति ।

तत्त्वङ्य़ानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥ २२॥

देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः ।

कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥ २३॥

तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ।

स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ॥ २४॥

अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः ।

उपादानं प्रप

J

ण्चस्य मृद्भाण्डस्येव पश्यति ॥ २५॥

अङ्य़ानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ।

यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥ २६॥

तद्वत्सत्यमविङ्य़ाय जगत्पश्यति मूढधीः ।

रज्जुखण्डे परिङ्य़ाते सर्परूपं न तिष्ठति ॥ २७॥

अधिष्ठाने तथा ङ्य़ाते प्रप

J

ण्चे शून्यतां गते ।

देहस्यापि प्रप

J

ण्चत्वात्प्रारब्धावस्थितिः कृतः ॥ २८॥

अङ्य़ानजनबोधार्थं प्रारब्धमिति चोच्यते ।

ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥ २९॥

ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः ।

स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥ ३०॥

सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् ।

शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा ॥ ३१॥

अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् ।

पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् ॥ ३२॥

श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् ।

वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥ ३३॥

आदौ जलधिमूतभेरीनिर्झरसम्भवः ।

मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा ॥ ३४॥

अन्ते तु किण्किणीवंशवीणाभ्रमरनिःस्वनः ।

इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥ ३५॥

महति श्रूयमाणे तु महाभेर्यादिकध्वनौ ।

तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् ॥ ३६॥

घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने ।

रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ३७॥

यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।

तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते ॥ ३८॥

विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः ।

एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ ३९॥

उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी ।

उन्मनीकारकं सद्यो नादमेवावधारयेत् ॥ ४०॥

सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः ।

नादमेवानुसंदध्यान्नादे चित्तं विलीयते ॥ ४१॥

मकरन्दं पिबन्भृण्गो गन्धान्नापेक्षते तथा ।

नादासक्तं सदा चित्तं विषयं न हि काण्क्षति ॥ ४२॥

बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः ।

नादग्रहणतश्चित्तमन्तरण्गभुजण्गमः ॥ ४३॥

विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति ।

मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ॥ ४४॥

नियामनसमर्थोऽयं निनादो निशिताण्कुशः ।

नादोऽन्तरण्गसारण्गबन्धने वागुरायते ॥ ४५॥

अन्तरण्गसमुद्रस्य रोधे वेलायतेऽपि च ।

ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥ ४६॥

मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।

तावदाकाशसण्कल्पो यावच्च्हब्दः प्रवतते ॥ ४७॥

निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते ।

नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी ॥ ४८॥

सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् ।

सदा नादानुसन्धानात्संक्षीणा वासना भवेत् ॥ ४९॥

निर

J

ण्जने विलीयेते मनोवायू न संशयः ।

नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५०॥

सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके ।

सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥ ५१॥

मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ।

शण्खदुन्दुभिनादं च न श्रुणोति कदाचन ॥ ५२॥

काष्ठवज्ङ्य़ायते देह उन्मन्यावस्थया ध्रुवम् ।

न जानाति स शीतोष्णं न दुःखं न सुखं तथा ॥ ५३॥

न मानं नावमानं च संत्यक्त्वा तु समाधिना ।

अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥ ५४॥

जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥ ५५॥

दृष्टिः स्थिरा यस्य विना सदृश्यम्

वायुः स्थिरो यस्य विना प्रयत्नम् ।

चित्तं स्थिरं यस्य विनावलम्बम्

स ब्रह्मतारान्तरनादरूपः ॥ ५६॥

इत्युपनिषत् ॥

ॐ वाण्मे मनसीति शान्तिः ॥

इति नादबिन्दूपनिषत्समाप्ता ॥


]