मुद्गलोपनिषत्

[[मुद्गलोपनिषत् Source: EB]]

[

मुद्गलोपनिषत्

श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् ।

पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥

ॐ वाङ् मे मनसि प्रतिष्ठिता

मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥

वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते

नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥

ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः

पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।

सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।

अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥ १॥

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।

द्वितीयया चास्य विष्णोः कालतो व्याप्तिरु

c

यते ॥ २॥

विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।

एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ ३॥

एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।

त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥ ४॥

तस्माद्विराडित्यनया पादनारायणाद्धरेः ।

प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥ ५॥

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।

सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥ ६॥

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ।

अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥ ७॥

तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।

वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ ८॥

यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः ।

य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥ ९॥ १॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं

विस्तरेण प्रतिपादितम् । वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य

पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं

पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् ।

द्वौ खण्डावुच्येते । योऽय मुक्तः स पुरुषो

नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं

विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया

सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं

वेषमाददे । तेन वेषेण भूम्यादिलोकं व्याप्यानन्त

योजनमत्यतिष्ठत् । पुरुषो नारायणो भूतं भव्यं

भविष्यच्चासीत् । स च सर्वस्मान्महिम्नो ज्यायान् ।

तस्मान्न कोऽपि ज्यायान् । महापुरुष आत्मानं

चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् । इतरेण

चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् । स च

पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् । स

समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् ।

सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।

ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं

दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं

ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं

ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्ग

स्पर्शात्कलेवरो वज्रं हीष्यते । ततः स्वकार्यान्सर्व

प्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति ।

ततः स्थावरजङ्गमात्मकं जगद्भविष्यति । एतेन

जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् ।

य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च

सर्वमायुरेति ॥ २॥

एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते ।

तमेतमग्निरित्यध्वर्यव उपासते । यजुरित्येष हीदं

सर्वं युनक्ति । सामेति च्हन्दोगाः । एतस्मिन्हीदं सर्वं

प्रतिष्ठितम् । विषमिति सर्पाः । सर्प इति सर्पविदः ।

ऊर्गिति देवाः । रयिरिति मनुष्याः । मायेत्यसुराः ।

स्वधेति पितरः । देवजन इति देवजनविदः । रूपमिति गन्धर्वाः ।

गन्धर्व इति अप्सरसः । तं यथायथोपासते तथैव भवति ।

तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति

भावयेत् । तद्रूपो भवति । य एवं वेद ॥ ३॥

तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं

पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि

सर्वविलक्षणं भवति । तापत्रयं त्वाध्यात्मिकाधिभौति

काधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय

भोक्तृभोगभोग्यमिति त्रिविधम् । त्वङ्मांसशोणितास्थि

स्नायुमज्जाः षट्कोशाः । कामक्रोधलोभमोहमद

मात्सर्यमित्यरिषड्वर्गः । अन्नमयप्राणमयमनोमय

विज्ञानमयानन्दमया इति पञ्चकोशाः ।

प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः ।

अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः ।

कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमाः ।

एतद्योगेन परमपुरुषो जीवो भवति नान्यः ।

य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो

भवति । स आदित्यपूतो भवति । अरोगी भवति । श्रीमांश्च भवति ।

पुत्रपौत्रादिभिः समृद्धो भवति । विद्वांश्च भवति ।

महापातकात्पूतो भवति । सुरापानात्पूतो भवति ।

अगम्यागमनात्पूतो भवति । मातृगमनात्पूतो भवति ।

दुहितृस्नुषाभिगमनात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति ।

वेदिजन्महानात्पूतो भवति । गुरोरशुश्रूषणात्पूतो भवति ।

अयाज्ययाजनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति ।

उग्रप्रतिग्रहात्पूतो भवति । परदारगमनात्पूतो भवति ।

कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति । सर्वेभ्यः

पापेभ्यो मुक्तो भवति । इह जन्मनि पुरुषो भवति तस्मादेत

त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि

गुह्यतरं नादीक्षितायोपदिशेत् ।

नानूचानाय । नायज्ञशीलाय । नावैष्णवाय ।

नायोगिने । न बहुभाषिणे । नाप्रियवादिने ।

नासंवत्सरवेदिने । नातुष्टाय । नानधीतवेदायोपदिशेत् ।

गुरुरप्येवंविच्च्हुचौ देशे पुण्यनक्षत्रे

प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय

शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् ।

न बहुशो वदेत् । यातयामो भवति । असकृत्कर्णमुपदिशेत् ।

एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो

भवतीत्युपनिषत् ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित

माविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा

प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि

सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु

मामवतु वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति मुद्गलोपनिषत्समाप्ता ॥


]