मैत्रेय्युपनिषत्

[[मैत्रेय्युपनिषत् Source: EB]]

[

मैत्रेय्युपनिषत् ।

प्रथमोऽध्यायः।

श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।

तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम् ।

अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरो

दनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते

य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं

पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः

शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र

परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहु

स्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्नि

रिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्च्हा

कायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति

राजानमब्रवीत्स तस्मै नमस्कृत्योवाच

भगवन्नाहमात्मवित्त्वं तत्त्वविच्च्हृणुमो वयं

स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा

पृच्च्ह प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति

शाकायन्यस्य चरणावभिमृश्यमानो

राजेमां गाथां जगाद ॥ १॥

अथ किमएतैर्मान्यनां शोषणं महार्णवानां

शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं

वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं

सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं

कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं

दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक

इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥ २॥

भगवञ्शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं

निरय एव मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं

मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्त

कफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः

परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं

नो गतिरिति ॥ ३॥

अथ भगवाञ्च्हकायन्यः सुप्रीतोऽब्रवीद्राजानं

महाराज बृहद्रथेक्ष्वाकुर्वंशध्वजशीर्षात्मज्ञः

कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं

खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच ॥

शब्दस्पर्शमया येऽर्था अनर्था इव ते स्थिताः ।

येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ १॥

तपसा प्राप्यते सत्त्वं सत्त्वात्संप्राप्यते मनः ।

मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥ २॥

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।

तथा वृत्तिक्षयच्चित्तं स्वयोनावुपशाम्यति ॥ ३॥

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।

इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ ४॥

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ५॥

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।

प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ ६॥

समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ।

यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ७॥

हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।

साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ८॥

अगोचरं मनोवाचामवधूतादिसंप्लवम् ।

सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ ९॥

अहेयमनुपादेयमसामान्यविशेषणम् ।

ध्रुवं स्तिमितगंभीरं न तेजो न तमस्ततम् ।

निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १०॥

नित्यः शुद्धो बुद्धमुक्तस्वभावः

सत्यः सूक्ष्मः संविभुश्चाद्वितीयः ।

आनन्दाब्धिर्यः परः सोऽह

मस्मि प्रत्यग्धातुर्नात्र संशीतिरस्ति ॥ ११॥

आनन्दमन्तर्निजमाश्रयं त

माशापिशाचीमवमनयन्तम् ।

आलोकयन्तं जगदिन्द्रजाल

मापत्कथं मां प्रविशेदसङ्गम् ॥ १२॥

वर्णाश्रमाचारयुता विमूढाः

कर्मानुसारेण फलं लभन्ते ।

वर्णादिधर्मं हि परित्यजन्तः

स्वानन्दतृप्ताः पुरुषा भवन्ति ॥ १३॥

वर्णाश्रमं सावयवं स्वरूप

माद्यन्तयुक्तं ह्यतिकृच्च्ह्रमात्रम् ।

पुत्रादिदेहेष्वभिमानशून्यं

भूत्वा वसेत्सौख्यतमे ह्यनन्त इति ॥ १४॥

इति प्रथमोऽध्यायः ॥ १॥


अथ

द्वितीयोऽध्यायः।

अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच

भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति ॥

स होवाच महादेवः ॥

देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ।

त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥ १॥

अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः।

स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ २॥

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।

वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।

इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ३॥

जातं मृतमिदं देहं मातापितृमलात्मकम् ।

सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥ ४॥

धातुबद्धं महारोगं पापमन्दिरमध्रुवम् ।

विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते ॥ ५॥

नवद्वारमलस्रावं सदा काले स्वभावजम् ।

दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते ॥ ६॥

मातृसूतकसम्बन्धं सूतके सह जायते ।

मृतसूतकजं देहं स्पृष्ट्वा स्नानं विधीयते ॥ ७॥

अहंममेति विण्मूत्रलेपगन्धादिमोचनम् ।

शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ८॥

चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् ।

ज्ञानवैराग्यमृत्तोयैः क्षालनाच्च्हौचमुच्यते ॥ ९॥

अद्वैतभावनाभैक्षमभक्ष्यं द्वैतभावनम् ।

गुरुशास्त्रोक्तभावेन भिक्षोर्भैक्षं विधीयते ॥ १०॥

विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।

कारागारविनिर्मुक्तचोरवद्दूरतो वसेत् ॥ ११॥

अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् ।

आशापत्नी त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ १२॥

मृता मोहमयी माता जातो बोधमयः सुतः ।

सूतकद्वयसंप्राप्तौ कथं सन्ध्यामुपास्महे ॥ १३॥

हृदाकाशे चिदादित्यः सदा भासति भासति ।

नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे ॥ १४॥

एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् ।

एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥ १५॥

असंशयवतां मुक्तिः संशयाविष्टचेतसाम् ।

न मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥ १६॥

कर्मत्यागान्न संन्यासो न प्रेषोच्चारणेन तु ।

सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥ १७॥

वमनाहारवद्यस्य भाति सर्वेषणादिषु ।

तस्याधिकारः संन्यासे त्यक्तदेहाभिमानिनः ॥ १८॥

यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।

तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ १९॥

द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।

संन्यसेद्दुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥ २०॥

उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ।

अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥ २१॥

अनुभुतिं विना मूढो वृथा ब्रह्मणि मोदते ।

प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ॥ २२॥

न त्यजेच्चेद्यतिर्मुक्तो यो माधुकरमातरम् ।

वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥ २३॥

धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च ।

ते सर्वे ज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥ २४॥

यन्मायया मोहितचेतसो मा

मात्मानमापूर्णमलब्धवन्तः ।

परं विदग्दोधरपूरणाय

भ्रमन्ति काका इव सूरयोऽपि ॥ २५॥

पाषाणलोहमणिमृण्मयविग्रहेषु

पूजा पुनर्जननभोगकरी मुमुक्षोः ।

तस्माद्यतिः स्वहृदयार्चनमेव कुर्या

द्बाह्यार्चनं परिहरेदपुनर्भवाय ॥ २६॥

अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।

अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ॥२७॥

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।

भावनामखिलं त्यक्त्वा यच्च्हिष्टं तन्मयो भव ॥ २८॥

द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।

दर्शनप्रथमाभासमात्मानं केवलं भज ॥ २९॥

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।

जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ३०॥

इति द्वितीयोऽध्यायः ॥ २॥


अथ तृतीयोऽध्यायः।

अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् ।

सर्वलोकगुरुश्चामि सर्वलोकेऽस्मि सोऽस्म्यहम् ॥ १॥

अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमोऽस्म्यहम् ।

अहमस्मि सोमोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २॥

विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् ।

शुभोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ३॥

मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ।

द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ॥ ४॥

भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् ।

शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ५॥

तुल्यातुल्यविहीनोऽस्मि नित्यः शुद्धः सदाशिवः ।

सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् ॥ ६॥

एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्यावाहनं न च ।

सदसद्भेदहीनोऽस्मि सङ्कल्प्स्रहितोस्म्यहम् ॥ ७॥

नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः ।

नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥ ८॥

आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ।

बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम् ॥ ९॥

चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः ।

सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ॥ १०॥

अकारोकाररूपोऽस्मि मकरोऽस्मि सनातनः ।

धातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥ ११॥

सर्वपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः ।

सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः ॥ १२॥

लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् ।

मातृमानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३॥

न जगत्सर्वद्रष्टास्मि नेत्रादिरहितोस्म्यहम् ।

प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ॥ १४॥

सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् ।

सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ॥ १५॥

मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्यहम् ।

नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ १६॥

यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् ।

हृदयग्रन्थिहीनोऽस्मि हृदयाम्भोजमध्यगः ॥ १७॥

षड्विकारविहीनोऽस्मि षट्कोषरहितोऽस्म्यहम् ।

अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥ १८॥

देशकालविमुक्तोऽस्मि दिगम्बरसुखोऽस्म्यहम् ।

नास्ति नास्ति विमुक्तोऽस्मि नकारहितोऽस्म्यहम् ॥ १९॥

अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् ।

प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ २०॥

सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम् ।

कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥ २१॥

कायिकादिविमुक्तोऽस्मि निर्गुणः केवलोऽस्म्यहम् ।

मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहम् सदा ॥ २२॥

सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा ।

गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ॥ २३॥

सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः ।

एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥ २४॥

यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥

इति तृतीयोऽध्यायः ॥ ३॥

———————–

ॐ आप्यान्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्र

मथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरो

दनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य

उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति मैत्रेय्युपनिषत्समाप्ता ॥


]