महोपनिषत्

[[महोपनिषत् Source: EB]]

[

महोपनिषत् ।

प्रथमोऽढ्यायः

यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् ।

परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम

स्त्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण

आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न

नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमते । तस्य

ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते । तस्मिन्पुरुषाश्चतुर्दश

जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशं तेजः ।

द्वादशोऽहङ्कारः । त्रयोदशकः प्राणः । चतुर्दश आत्मा ।

पञ्चदशी बुद्धिः । भूतानि पञ्च तन्मात्राणि । पञ्च महाभूतानि ।

स एकः पञ्चविंशतिः पुरुषः । तत्पुरुषं पुरुषो निवेश्य नास्य

प्रधानसंवत्सरा जायन्ते । संवत्सरादधिजायन्ते । अथ पुनरेव

नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तःस्थस्य

ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते । बिभ्रच्च्ह्रियं यशः

सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय

ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि च्हन्दांसि तान्यङ्गे

समाश्रितानि । तस्मादीशानो महादेवो महादेवः । अथ पुनरेव

नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तःस्थस्य

ललाटात्स्वेदोऽपपत् । ता इमाः प्रतता आपः । ततस्तेजो हिरण्मयमन्डलम् ।

तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्याय्त् । पूर्वाभिमुखो भूत्वा

भूरिति व्याहृतिर्गायत्रं च्हन्द ऋग्वेदोऽग्निर्देवता । पश्चिमाभिमुखो

भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं च्हन्दो यजुर्वेदो वायुर्देवता ।

उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं च्हन्दः सामवेदः सूर्यो

देवता । दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ

च्हन्दोऽथर्ववेदाः सोमो देवता ।

सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् ।

विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।

विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।

पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।

पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् ।

हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च ।

तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम् ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।

तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता ।

स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ॥

इति प्रथमोध्यायः ॥ १॥


द्वितीयोऽध्यायः।

शुको नाम महातेजाः स्वरूपानन्दतत्परः ।

जातमात्रेण मुनिराड् यत्सत्यं तदवाप्तवान् ॥ १॥

तेनासौ स्वविवेकेन स्वयमेव महामनाः ।

प्रविचार्य चिरं साधु स्वात्मनिश्चयमाप्तवान् ॥ २॥

अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः ।

चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥ ३॥

चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः ।

उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् ॥ ४॥

आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।

न किंचिद्यदनिर्देश्यं वस्तु सत्तेति किंचन ॥ ५॥

चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्च्हिलोपमः ।

स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत् ॥ ६॥

तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् ।

जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः ॥ ७॥

सर्वगः सर्वसम्बन्धो गत्यभावान्न गच्च्हति ।

नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च ॥ ८॥

विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् ।

सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः ॥ ९॥

जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः ।

यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः ॥ १०॥

निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ।

अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः ॥ ११॥

स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवाञ्च्हुकः ।

स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ॥ १२॥

इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ ।

केवलं विररामास्य चेतो विषयचापलम् ।

भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥ १३॥

एकदा सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः ।

पप्रच्च्ह पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥ १४॥

संसाराडम्बरमिदं कथमभ्युत्थितं मुने ।

कथं च प्रशमं याति किं यत्कस्य कदा वद ॥ १५॥

एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे ।

यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १६॥

अज्ञासिषं पूर्वमेवमहमित्यथ तत्पितुः ।

स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते ॥ १७॥

व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम् ।

प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः ॥ १८॥

जनको नाम भूपालो विद्यते मिथिलापुरे ।

यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥ १९॥

पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम् ।

विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥ २०॥

आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने ।

द्वारि व्याससुतो राजञ्च्हुकोऽत्र स्थितवानिति ॥ २१॥

जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया ।

उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥ २२॥

ततः प्रवेशयामास जनकः शुकमङ्गणे ।

तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥ २३॥

ततः प्रवेशयामास जनकोऽन्तःपुराजिरे ।

राजा न दृश्यते तावदिति सप्तदिनानि तम् ॥ २४॥

तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः ।

जनको लालयामास शुकं शशिनिभाननम् ॥ २५॥

ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः ।

नाजह्वुर्मन्दपवनो बद्धपीठमिवाचलम् ॥ २६॥

केवलं सुसमः स्वच्च्हो मौनी मुदितमानसः ।

संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः ॥ २७॥

परिज्ञातस्वभावं तं शुकं स जनको नृपः ।

आनीय मुदितात्मानमवलोक्य ननाम ह ॥ २८॥

निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः ।

किमीप्सितं तवेत्याह कृतस्वागत आह तम् ॥ २९॥

संसाराडम्बरमिदं कथमभ्युत्थितं गुरो ।

कथं प्रशममायाति यथावत्कथयाशु मे ॥३०॥

यथावदखिलं प्रोक्तं जनकेन महात्मना ।

तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया ॥ ३१॥

स्वयमेव मया पूर्वमभिज्ञातं विशेषतः ।

एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् ॥ ३२॥

भवताप्येष एवार्थः कथितो वाग्विदां वर ।

एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते ॥ ३३॥

मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् ।

क्षीयते दग्धसंसारो निःसार इति निश्चितः ॥ ३४॥

तत्किमेतन्महाभाग सत्यं ब्रूहि ममाचलम् ।

त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत् ॥ ३५॥

श्रुणु तावदिदानीं त्वं कथ्यमानमिदं मया ।

श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरान्तरम् ॥ ३६॥

यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् ॥ ३७॥

दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।

संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ३८॥

अशेषेण परित्यागो वासनायां य उत्तमः ।

मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः ॥ ३९॥

ये शुद्धवासना भूयो न जन्मानर्थभागिनः ।

ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ ४०॥

पदार्थभावनादार्ढ्यं बन्ध इत्यभिधीयते ।

वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते ॥ ४१॥

तपः प्रभृतिना यस्मै हेतुनैव विना पुनः ।

भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते ॥ ४२॥

आपतत्सु यथाकालं सुखदुःखेष्वनारतः ।

न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते ॥ ४३॥

हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।

न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥ ४४॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।

तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ।

सुषुप्तिवद्यश्चरति स जीवन्मुक्त उच्यते ॥ ४६॥

अध्यात्मरतिरासीनः पूर्णः पावनमानसः ।

प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्च्हति ।

यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥ ४७॥

संवेद्येन हृदाकाशे मनागपि न लिप्यते ।

यस्यासावजडा संवित्स जीवन्मुक्त उच्यते ॥ ४८॥

रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ।

यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते ॥ ४९॥

मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः ।

यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते ॥ ५०॥

सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः ।

निरिच्च्हो वर्तते कार्ये स जीवन्मुक्त उच्यते ॥ ५१॥

येन धर्ममधर्मं च मनोमननमीहितम् ।

सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते ॥ ५२॥

यावती दृश्यकलना सकलेयं विलोक्यते ।

सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते ॥ ५३॥

कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च ।

सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५४॥

जरामरणमापच्च राज्यं दारिद्र्यमेव च ।

रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५५॥

धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी ।

धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते ॥ ५६॥

उद्वेगानन्दरहितः समया स्वच्च्हया धिया ।

न शोचते न चोदेति स जीवन्मुक्त उच्यते ॥ ५७॥

सर्वेच्च्हाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः ।

धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥ ५८॥

जन्मस्थितिविनाशेषु सोदयास्तमयेषु च ।

सममेव मनो यस्य स जीवन्मुक्त उच्यते ॥ ५९॥

न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति ।

भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते ॥ ६०॥

शान्तसंसारकलनः कलावानपि निष्कलः ।

यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ ६१॥

यः समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः ।

परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ६२॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।

विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ६३॥

विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।

न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥ ६४॥

ततः स्तिमितगंभीरं न तेजो न तमस्ततम् ।

अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ॥ ६५॥

न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् ।

न च भूतपदार्थौघसदनन्ततया स्थितम् ॥ ६६॥

किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः ।

न सन्नासन्न सदसन्न भावो भावनं न च ॥ ६७॥

चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् ।

अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥ ६८॥

द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् ।

नातः परतरं किंचिन्निश्चयोऽस्त्यपरो मुने ॥ ६९॥

स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ।

स्वसंकल्पवशाद्बद्धो निःसंकल्पाद्विमुच्यते ॥ ७०॥

तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः ।

भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह ॥ ७१॥

प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा ।

स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥ ७२॥

अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः ।

शुक पश्यन्न पश्येस्त्वं साक्षी संपूर्णकेवलः ॥ ७३॥

विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि ।

वीतशोकभयायासो निरीहश्च्हिन्नसंशयः ॥ ७४॥

जगाम शिखरं मेरोः समाध्यर्थमखण्डितम् ॥ ७५॥

तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ।

देशे स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥ ७६॥

व्यपगतकलनाकलङ्कशुद्धः

स्वयममलात्मनि पावने पदेऽसौ ।

सलिलकण इवांबुधौ महात्मा

विगलितवासनमेकतां जगाम ॥ ७७॥

इति महोपनिषत् । इति द्वितीयोऽध्यायः ॥ २॥


तृतीयोऽध्यायः।

निदाघो नाम मुनिराट् प्राप्तविद्यश्च बालकः ।

विहृतस्तीर्थयात्रार्थं पित्रानुज्ञातवान्स्वयम् ॥ १॥

सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः ।

स्वोदन्तं कथयामास ऋभुं नत्वा महायशाः ॥ २॥

सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्रभावतः ।

प्रादुर्भूतोमनसि मे विचारः सोऽयमीदृशः ॥ ३॥

जायते म्रियते लोको म्रियते जननाय च ।

अस्थिरः सर्व एवेमे सचराचरचेष्टिताः ।

सर्वापदां पदं पापा भावा विभवभूमयः ॥ ४॥

अयःशलाकासदृशाः परस्परमसङ्गिनः ।

शुष्यन्ते केवला भावा मनःकल्पनयानया ॥ ५॥

भावेष्वरतिरायाता पथिकस्य मरुष्विव ।

शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा ॥ ६॥

चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।

संप्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ ७॥

इयमस्मि स्थितोदारा संसारे परिपेलवा ।

श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा ॥ ८॥

आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।

उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् ॥ ९॥

विषयाशी विषासङ्गपरिजर्जरचेतसाम् ।

अप्रौढात्मविवेकानामायुरायासकारणम् ॥ १०॥

युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।

ग्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ११॥

प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते ।

पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १२॥

तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।

स जीवति मनो यस्य मननेनोपजीवति ॥ १३॥

जातास्त एव जगति जन्तवः साधुजीविताः ।

ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १४॥

भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।

अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १५॥

अहंकारवशादापदहंकाराद्दुराधयः ।

अहंकारवशादीहा नाहंकारात्परो रिपुः ॥ १६॥

अहंकारवशाद्यद्यन्मया भुक्तं चराचरम् ।

तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता ॥ १७॥

इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।

मनो दूरतरं याति ग्रामे कौलेयको यथा ॥ १८॥

क्रूरेण जडतां याता तृष्णाभार्यानुगामिना ।

वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा ॥ १९॥

अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।

अपि वह्न्यशनाद्ब्रह्मन्विषमश्चित्तनिग्रहः ॥ २०॥

चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।

तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २१॥

यां यामहं मुनिश्रेष्ठ संश्रयामि गुणश्रियम् ।

तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ २२॥

पदं करोत्यलङ्घ्येऽपि तृप्ता विफलमीहते ।

चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥ २३॥

क्षणमायाति पातालं क्षणं याति नभस्थलम् ।

क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ २४॥

सर्वसंसारदुःखानां तृष्णैका दीर्घदुःखदा ।

अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥ २५॥

तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि स द्विज ।

स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम् ॥ २६॥

नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः ॥ २७॥

कलेवरमहंकारगृहस्थस्य महागृहम् ।

लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरो मम ॥ २८॥

पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गणम् ।

चित्तभृत्यजनाकीर्णं नेष्टं देहगृहं मम ॥ २९॥

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।

दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ३०॥

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने ।

नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३१॥

तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।

स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ३२॥

शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।

जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥ ३३॥

स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा ।

बलात्कामपिशाचेन विवशः परिभूयते ॥ ३४॥

दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।

हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ३५॥

दैन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा ।

सर्वापदामेकसखी हृदि दाहप्रदायिनी ॥ ३६॥

क्वचिद्वा विद्यते यैषा संसारे सुखभावना ।

आयुः स्तम्बमिवासाद्य कालस्तामपि कृन्तति ॥ ३७॥

तृणं पांसुं महेन्द्रं च सुवर्णं मेरुसर्षपम् ।

आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः ।

कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम् ॥ ३८॥

मांसपाञ्चालिकायास्तु यन्त्रलोलेअङ्गपञ्जरे ।

स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोभनम् ॥ ३९॥

त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने ।

समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ४०॥

मेरुशृङ्गतटोल्लासिगङ्गाचलरयोपमा ।

दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता ॥ ४१॥

श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।

श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ४२॥

केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।

दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ४३॥

ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।

स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ ४४॥

कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः ।

नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ४५॥

जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।

पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ ४६॥

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।

दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ ४७॥

यस्य स्त्री तस्य भोगेच्च्हा निःस्त्रीकस्य क्व भोगभूः ।

स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ४८॥

दिशोऽपि न हि दृश्यन्ते देशोऽप्यन्योपदेशकृत् ।

शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि ॥ ४९॥

शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः ।

सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः ॥ ५०॥

परमेष्ठ्यपि निष्ठावान्हीयते हरिरप्यजः ।

भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः ॥ ५१॥

ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।

नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ ५२॥

आपदः क्षणमायान्ति क्षणमायान्ति संपदः ।

क्षणं जन्माथ मरणं सर्वं नश्वरमेव तत् ॥ ५३॥

अशूरेण हताः शूरा एकेनापि शतं हतम् ।

विषं विषयवैषम्यं न विषं विषमुच्यते ॥ ५४॥

जन्मान्तरघ्ना विषया एकजन्महरं विषम् ।

इति मे दोषदावाग्निदग्धे संप्रति चेतसि ॥ ५५॥

स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि ।

अतो मां बोधयाशु त्वं तत्त्वज्ञानेन वै गुरो ॥ ५६॥

नो चेन्मौनं समास्थाय निर्मानो गतमत्सरः ।

भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः ॥ ५७॥

इति महोपनिषत् । इति तृतीयोऽध्यायः ॥ ३॥


चतुर्थोऽध्यायः।

निदाघ तव नास्तन्यज्ज्ञेयं ज्ञानवतां वर ।

प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ।

चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥ १॥

मोक्षद्वारे द्वारपालश्चत्वारः परिकीर्तिताः ।

शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ २॥

एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् ।

एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं गताः ॥ ३॥

शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः ।

आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ ४॥

स्वानुभूतेश्च शास्त्रस्य गुरोश्चेवैकवाक्यता ।

यस्याभ्यासेन तेनात्म सततं चावलोक्यते ॥ ५॥

संकल्पाशानुसन्धानवर्जनं चेत्प्रतिक्षणम् ।

करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ॥ ६॥

चेतसो यदकर्तृत्वं तत्समाधानमीरितम् ।

तदेव केवलीभावं साशुभा निर्वृतिः परा ॥ ७॥

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।

यथा तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः ॥ ८॥

सर्वं प्रशान्तमजमेकमनादिमध्य

माभास्वरं स्वदनमात्रमचैत्यचिह्नम् ।

सर्वं प्रशान्तमिति शब्दमयी च दृष्टि

र्बाधार्थमेव हि मुधैव तदोमितीदम् ॥ १०॥

नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् ।

आत्मैकत्वं विदित्वा त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥ ११॥

तत्त्वावबोध एवासौ वासनातृणपावकः ।

प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः ॥ १२॥

निरिच्च्हे संस्थिते रत्ने यथा लोकः प्रवर्तते ।

सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः ॥ १३॥

अतश्चात्मनि कर्तृत्वमकर्तृत्वं च वै मुने ।

निरिच्च्हत्वादकर्तासौ कर्ता संनिधिमात्रतः ॥ १४॥

ते द्वे ब्रह्मणि विन्देति कर्तृताकर्तृते मुने ।

यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव ॥ १५॥

तस्मान्नित्यमकर्ताहमिति भावनयेद्धया ।

परमामृतनाम्नी सा समतैवावशिष्यते ॥ १६॥

निदाघ शृणु सत्त्वस्था जाता भुवि महागुणाः ।

ते नित्यमेवाभ्युदिता मुदिताः स्व इवेन्दवः ॥ १७॥

नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा ।

नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि ॥ १८॥

आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः ।

समाः समरसाः सौम्य सततं साधुवृत्तयः ॥ १९॥

अब्धिवद्धतमर्याद भवति विशदाशयाः ।

नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥ २०॥

कोऽहं कथमिदं चेति संसारमलमाततम् ।

प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना ॥ २१॥

नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् ।

द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया ॥ २२॥

शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम् ।

भूतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् ॥ २३॥

उपादेयानुपतनं हेयैकान्तविसर्जनम् ।

यदेतन्मनसो रूपं तद्बाह्यं विद्धि नेतरत् ॥ २४॥

गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने ।

ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥ २५॥

यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना

दाहो हिमसेचनमिवाङ्गारवर्तनं चन्दनचर्चेव

निरवधिनाराचविकिरपातो निदाघविनोदनधारा

गृहशीकरवर्षणमिव स्वशिरच्च्हेदः सुखनिद्रेव

मूकीकरणमाननमुद्रेव बाधिर्यं महानुपचय इवेदं

नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ॥

गुरुवाक्यसमुद्भूतस्वानुभूत्यादिशुद्धया ।

यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥ २६॥

विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् ।

तथा विज्ञानविध्वस्तं जगन्नास्तीति भावय ॥ २७॥

न धनान्य्पकुर्वन्ति न मित्राणि न बान्धवाः ।

न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः ।

केवलं तन्मनोमात्रमयेनासाद्यते पदम् ॥ २८॥

यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।

शान्तचेतःसु तत्सर्वं तमोऽर्केष्विव नश्यति ॥ २९॥

मातरीव परं यान्ति विषमाणि मृदूनि च ।

विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ३०॥

न रसायनपानेन न लक्ष्म्यालिङ्गितेन च ।

न तथा सुखमाप्नोति शमेनान्तर्यथा जनः ॥ ३१॥

श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् ।

न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ ३२॥

तुषारकरबिंबाच्च्हं मनो यस्य निराकुलम् ।

मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ३३॥

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।

बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ३४॥

सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः ।

आत्मारामा महात्मानस्ते महापदमागताः ॥ ३५॥

अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः ।

अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते ॥ ३६॥

नाभिनन्दत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथेप्सितम् ।

यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते ॥ ३७॥

रमते धीर्यताप्राप्ते साध्वीवाऽन्तःपुराजिरे ।

सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥ ३८॥

यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् ।

यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम् ।

तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ॥ ३९॥

तुर्यविश्रान्तियुक्तस्य निवृत्तस्य भवार्णवात् ।

जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः ॥ ४०॥

नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।

निर्मन्दर इवाम्बोधिः स तिष्ठति यथास्थितः ॥ ४१॥

सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् ।

भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् ॥ ४२॥

एवमात्मा यथा यत्र समुल्लासमुपागतः ।

तिष्ठत्याशु तथा तत्र तद्रूपश्च विराजते ॥ ४३॥

यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् ।

तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ ४४॥

ऋतमात्मा परंब्रह्म सत्यमित्यादिका बुधैः ।

कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥ ४५॥

यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् ।

न हेमकटकात्तद्वज्जगच्च्हब्दार्थता परा ॥ ४६॥

तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते ।

द्रष्टुदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते ॥ ४७॥

द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते ।

जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥ ४८॥

मनसैवेन्द्रजालश्रीर्जगति प्रवितन्यते ।

यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥ ४९॥

ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा ।

मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ ५०॥

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।

यदर्थं प्रतिभानं तन्मन इत्यभिधीयते ॥ ५१॥

संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते ।

यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ ५२॥

संकल्पमनसी भिन्ने न कदाचन केनचित् ।

संकल्पजाते गलिते स्वरूपमवशिष्यते ॥ ५३॥

अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे ।

स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥ ५४॥

महाप्रलयसंपत्तौ ह्यसत्तां समुपागते ।

अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ ५५॥

अस्त्यनस्तमितो भास्वानजो देवो निरामयः ।

सर्वदा सर्वकृत्सर्वः परमात्मेत्युदाहृतः ॥ ५६॥

यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते ।

यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥ ५७॥

चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।

द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने ॥ ५८॥

देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।

निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥ ५९॥

तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत् ।

सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः ॥ ६०॥

उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी ।

आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥ ६१॥

दृश्यासंभवबोधेन रागद्वेषादितानवे ।

रतिर्बलोदिता यासौ समाधिरभिधीयते ॥ ६२॥

दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् ।

तदेव केवलीभावं ततोऽन्यत्सकलं मृषा ॥ ६३॥

मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे ।

मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे ॥ ६४॥

पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना ।

निदाघ विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् ॥ ६५॥

चित्तमेव हि संसारो रोगादिक्लेशदूषितम् ।

तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ६६॥

मनसा भाव्यमानो हि देहतां याति देहकः ।

देहवासनया मुक्तो देहधर्मैर्न लिप्यते ॥ ६७॥

कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।

मनोविलाससंसार इति मे निश्चिता मतिः ॥ ६८॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।

नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ ६९॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।

विदित्वा स्वात्मनो रूपं न बिभेति कदाचन ॥ ७०॥

परात्परं यन्महतो महान्तं

स्वरूपतेजोमयशाश्वतं शिवम् ।

कविं पुराणं पुरुषं सनातनं

सर्वेश्वरं सर्वदेवैरुपास्यम् ॥ ७१॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।

द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ।

ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥ ७२॥

जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ।

ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।

जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ७३॥

त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः ।

लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥ ७४॥

तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः ।

कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ ७५॥

अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् ।

स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥ ७६॥

दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।

दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ७७॥

उत्पन्नशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः ।

योगिनः सहजावस्था स्वयमेवोपजायते ॥ ७८॥

यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।

विजानाति तदा तस्य भयं स्यान्नत्र संशयः ॥ ७९॥

सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते ।

अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्दह्वत् ॥ ८०॥

प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् ।

एवं ब्रह्मपरिज्ञानादेव मर्त्याऽमृतो भवेत् ॥ ८१॥

भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८२॥

अनात्मतां परित्यज्य निर्विकारौ जगत्स्थितौ ।

एकनिष्ठतयान्तस्थः संविन्मात्रपरो भव ॥ ८३॥

मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।

जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥ ८४॥

लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।

शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ८५॥

अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ।

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥ ८६॥

सर्वशक्तेर्महेशस्य विलासो हि मनो जगत् ।

संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् ॥ ८७॥

मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते ।

यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ॥ ८८॥

स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।

यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८९॥

स्वपौरुषेकसाध्येन स्वेप्सितत्यागरूपिणा ।

मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥ ९०॥

असंकल्पनशस्त्रेण च्हिन्नं चित्तमिदं यदा ।

सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥ ९१॥

भव भावनया मुक्तो मुक्तः परमया धिया ।

धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् ॥ ९२॥

परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् ।

ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया ॥ ९३॥

मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः ॥ ९४॥

अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ।

तदभावनमात्रेण दात्रेणेव विलीयते ॥ ९५॥

च्हिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ।

वातेन कल्पकेनैव तथान्तर्धूयते मनः ॥ ९६॥

कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।

तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ९७॥

असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे ।

असंकल्पातिसाम्राज्ये तिष्ठवष्टब्धतत्पदः ॥ ९८॥

न हि चञ्चलताहीनं मनः क्वचन दृश्यते ।

चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥ ९९॥

एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्वसंस्थिता ।

तां विद्धि मानसीं शक्तिं जगदाडंबरात्मिकाम् ॥ १००॥

यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते ।

तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते ॥ १०१॥

तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका ।

वासनापरनाम्नीं तां विचारेण विनाशय ॥ १०२॥

पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः ।

योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥ १०३॥

अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा ।

विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव ॥ १०४॥

मन एव समर्थं हि मनसो दृढनिग्रहे ।

अराजकः समर्थः स्याद्राज्ञो निग्रहकर्मणि ॥ १०५॥

तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् ।

आवर्तैरूह्यमानानां दूरं स्वमन एव नौः ॥ १०६॥

मनसैव मनश्च्हित्त्वा पाशं परमबन्धनम् ।

भवादुत्तारयात्मानं नासावन्येन तार्यते ॥ १०७॥

या योदेति मनोनाम्नी वासना वासितान्तरा ।

तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥ १०८॥

भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।

भावाभावौ ततस्त्यक्त्या निर्विकल्पः सुखी भव ॥ १०९॥

एष एव मनोनाशस्त्वविद्यानाश एव च ।

यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥ ११०॥

अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः ॥ १११॥

अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते ।

नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः ॥ ११२॥

तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।

आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिषु ॥ ११३॥

अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।

स्वयमात्मावलोकेच्च्हाअ मोहसंक्षयकारिणी ॥ ११४॥

अस्याः परं प्रपश्यन्ताः स्वात्मनाशः प्रजायते ।

दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते ॥ ११५॥

इच्च्हामात्रमविद्येयं तन्नाशो मोक्ष उच्यते ।

स चासंकल्पमात्रेण सिद्धो भवति वै मुने ॥ ११६॥

मनागपि मनोव्योम्नि वासनारजनी क्षये ।

कालिका तनुतामेति चिदादित्याप्रकाशनात् ॥ ११७॥

चैतान्युपातरहितं सामान्येन च सर्वगम् ।

यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ ११८॥

सर्वं च खल्विदं ब्रह्म नित्यचिद्घनमक्षतम् ।

कल्पनान्या मनोनाम्नी विद्यते न हि काचन ॥ ११९॥

न जायते न म्रियत्ते किंचिदत्र जगत्त्रये ।

न च भावविकाराणां सत्ता क्वचन विद्यते ॥ १२०॥

केवलं केवलाभासं सर्वसामान्यमक्षतम् ।

चैत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १२१॥

तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।

शान्ते शमसमाभोगे निर्विकारे चिदात्मनि ॥ १२२॥

यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति ।

चिच्चैत्यं स्वयमम्लानं माननान्मन उच्यते ।

अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ॥ १२३॥

नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः ।

सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥ १२४॥

कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् ।

इति भावानुरूपेण व्यवहारेण बध्यते ॥ १२५॥

नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः ।

इति भावानुरूपेण व्यवहारेण मुच्यते ॥ १२६॥

नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् ।

इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ १२७॥

कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ।

परं पौरुषमाश्रित्य यत्नात्परमया धिया ।

भोगेच्च्हां दूरतस्त्यक्त्वा निर्विकल्पः सुखी भव ॥ १२८॥

मम पुत्रो मम धनमहं सोऽयमिदं मम ।

इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ १२९॥

मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् ।

अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ १३०॥

कस्तवायं जडो मूको देहो मांसमयोऽशुचिः ।

यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ १३१॥

अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।

तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना ॥ १३२॥

अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।

अविद्यमान या विद्या तया विश्वं खिलीकृतम् ॥ १३३॥

इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रयम् ॥

इत्युपनिषत् ॥ इति चतुर्थोऽध्यायः ॥ ४॥


अथ पञ्चमोऽध्यायः।

ऋभुः ॥ अथापरं प्रवक्ष्यामि शृणु तात यथायथम् ।

अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ॥ १॥

पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः ।

स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ॥ २॥

शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।

रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥ ३॥

यः स्वरूपपरिभ्रंशश्चेत्वार्थे चिति मज्जनम् ।

एतस्मादपरो मोहो न भूतो न भविष्यति ॥ ४॥

अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः ।

सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते ॥ ५॥

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।

जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ६॥

अहन्तांशे क्षते शान्ते भेदनिष्पन्दचित्तता ।

अजडा या प्रचलति तत्स्वरूपमितीरितम् ॥ ७॥

बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ।

जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् ॥ ८॥

इति सप्तविधो मोहः पुनरेष परस्परम् ।

श्लिष्टो भवत्यनेकाग्र्यं श्रुणु लक्षणमस्य तु ॥ ९॥

प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः ।

भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ॥ १०॥

बीजरूपस्थितं जाग्रद्बीजजाग्रत्तदुच्यते ।

एषा ज्ञप्तेर्नवावस्था त्वजाग्रत्संस्थितिं श्रुणु ॥ ११॥

नवप्रसूतस्य परादयं चाहमिदं मम ।

इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ॥ १२॥

अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ।

पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् ॥ १३॥

अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ।

यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते ॥ १४॥

द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ।

अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥ १५॥

अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि ।

परामर्षः प्रबुद्धस्य स स्वप्न इति कथ्यते ॥ १६॥

चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः ।

चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥ १७॥

स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् ।

षडवस्था परित्यागो जडा जीवस्य या स्थितिः ॥ १८॥

भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः ।

जगत्तस्यामवस्थायामन्तस्तमसि लीयते ॥ १९॥

सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज ।

एकैका शतसंख्यात्र नानाविभवरूपिणी ॥ २०॥

इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।

नानया ज्ञातया भूयो मोहपङ्के निमज्जति ॥ २१॥

वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।

मम त्वभिमता नूनमिमा एव शुभप्रदाः ॥ २२॥

अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् ।

मुक्तिस्तु ज्ञेयमित्युक्ता भूमिकासप्तकात्परम् ॥ २३॥

ज्ञानभूमिः शुभेच्च्हाख्या प्रथमा समुदाहृता ।

विचारणा द्वितीया तु तृतीया तनुमानसी ॥ २४॥

सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।

पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ २५॥

आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति ।

एतासां भूमिकानां त्वमिदं निर्वचनं श्रुणु ॥ २६॥

स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः ।

वैराग्यपूर्वमिच्च्हेति शुभेच्च्हेत्युच्यते बुधैः ॥ २७॥

शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् ।

सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ २८॥

विचारणाशुभेच्च्हाभ्यामिन्द्रियार्थेषु रक्तता ।

यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ २९॥

भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् ।

सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ३०॥

दशाचतुष्टयाभ्यासादसंसर्गकला तु या ।

रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥ ३१॥

भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।

आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ३२॥

परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् ।

पदार्थभावना नाम षष्ठी भवति भूमिका ॥ ३३॥

भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्बनात् ।

यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ३४॥

एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते ।

विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ ३५॥

ये निदाघ महाभागाः साप्तमीं भूमिमाश्रिताः ।

आत्मारामा महात्मानस्ते महत्पदमागताः ॥ ३६॥

जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते ।

प्रकृतेनाथ कार्येण किंचित्कुर्वन्ति वा न वा ॥ ३७॥

पार्श्वस्थबोधिताः सन्तः पूर्वाचरक्रमागतम् ।

आचारमाचरत्येव सुप्तबुद्धवदुत्थिताः ॥ ३८॥

भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।

प्राप्य ज्ञानदशामेतां पशुम्लेच्च्हादयोऽपि ये ॥ ३९॥

सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ।

ज्ञप्तिर्हि ग्रन्थिविच्च्हेदस्तस्मिन्सति विमुक्तता ॥ ४०॥

मृगतृष्णाम्बुबुद्ध्य्यादिशान्तिमात्रात्मकस्त्वसौ ।

ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् ॥ ४१॥

ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः ।

मनःप्रशमनोपायो योग इत्यभिधीयते ॥ ४२॥

सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः ।

एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् ॥ ४३॥

त्वत्ताहन्तात्मता यत्र परता नास्ति काचन ।

न क्वचिद्भावकलना न भावाभाव गोचरा ॥ ४४॥

सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम् ।

अनामयमनाभासमनामकमकारणम् ॥ ४५॥

न सन्नसन्न मध्यान्तं न सर्वं सर्वमेव च ।

मनोवचोभिरग्राह्यं पूर्णात्पूर्णं सुखात्सुखम् ॥ ४६॥

असंवेदनमाशान्तमात्मवेदनमाततम् ।

सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥ ४७॥

संबन्धे द्रष्टृदृश्यानां मध्ये दृष्टिर्हि यद्वपुः ।

द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥ ४८॥

देशाद्देशं गते चित्ते मध्ये यच्चेतसो वओउः ।

अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥ ४९॥

अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।

अचेतनं चाजडं च तन्मयो भव सर्वदा ॥ ५०॥

जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।

अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा ।

चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ॥ ५१॥

पूर्वं मनः समुदितं परमात्मतत्त्वा

त्तेनाततं जगदिदं सविकल्पजालम् ।

शून्येन शून्यमपि विप्र यथाम्बरेण

नीलत्वमुल्लसति चारुतराभिधानम् ॥ ५२॥

संकल्पसंक्षयद्गलिते तु चित्ते

संसारमोहमिहिका गलिता भवन्ति ।

स्वच्च्हं विभाति शरदीव खमागतायां

चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥ ५३॥

अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।

अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् ॥ ५४॥

साक्षिभूते समे स्वच्च्हे निर्विकल्पे चिदात्मनि ।

निरिच्च्हं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥ ५५॥

एकं ब्रह्म चिदाकाशं सर्वात्मकमखण्डितम् ।

इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये ॥ ५६॥

रेखोपरेखावलिता यथैका पीवरी शिला ।

तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् ॥ ५७॥

द्वितीयकारणाभावादनुत्पन्नमिदं जगत् ।

ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् ॥ ५८॥

विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन ।

पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् ॥ ५९॥

निरस्तकल्पनाजालमचित्तत्वं परं पदम् ।

त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः ॥ ६०॥

महाधियः शान्तधियो ये याता विमनस्कताम् ।

जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ॥ ६१॥

मननं त्यजतो नित्यं किंचित्परिणतं मनः ।

दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः ॥ ६२॥

द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः ।

विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥ ६३॥

सुप्तस्य धनसंमोहमये संसारवर्त्मनि ।

अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि ॥ ६४॥

संसारवासनाजाले खगजाल इवाधुना ।

त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ॥ ६५॥

कातकं फलमासाद्य यथा वारि प्रसीदति ।

तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥ ६६॥

नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।

विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव ॥ ६७॥

शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।

परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥ ६८॥

नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् ।

इत्थं सदस्तोर्मध्याद्यः पश्यति स पश्यति ॥ ६९॥

अयत्नोपतेष्वक्षिदृग्दृश्येषु यथा मनः ।

नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ७०॥

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।

विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् ॥ ७१॥

अशङ्कितापि संप्राप्ता ग्रामयात्रा यथाध्वगैः ।

प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते ॥ ७२॥

मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः ।

तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ॥ ७३॥

बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।

परैरबद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते ॥ ७४॥

हस्तं हतेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।

अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ॥ ७५॥

मनसो विजयान्नान्या गतिरस्ति भवार्णवे ।

महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ॥ ७६॥

आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ।

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ॥ ७७॥

पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।

तावन्निशीव वेताला वसन्ति हृदि वासनाः ।

एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ७८॥

भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् ।

सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥ ७९॥

लालनात्स्निग्धललना पालानात्पालकः पिता ।

सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः ॥ ८०॥

स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः ।

प्रयच्च्हति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥ ८१॥

सुहृष्टः सुदृढः स्वच्च्हः सुक्रान्तः सुप्रबोधितः ।

स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः ॥ ८२॥

एनं मनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् ।

विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव ॥ ८३॥

विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।

इन्द्रियारीनलं च्हित्त्वा तीर्णो भव भवार्णवात् ॥ ८४॥

आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।

अनास्थामात्रमभितः सुखानामालयं विदुः ॥ ८५॥

वासनातन्तुबद्धोऽयं लोको विपरिवर्तते ।

सा प्रसिद्धातिदुःखाय सुखायोच्च्हेदमागता ॥ ८६॥

धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।

तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ८७॥

परमं पौरुषं यत्नमास्थादाय सृद्यमम् ।

यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ॥ ८८॥

अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।

नान्यदस्तीति संवित्त्या परमा सा ह्यहङ्कृतिः ॥ ८९॥

सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः ।

इति या संविदो ब्रह्मन्द्वितीयाहङ्कृतिः शुभा ॥ ९०॥

मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥ ९१॥

पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ।

अहंकारस्तृतीयोऽसौ लैकिकस्तुच्च्ह एव सः ॥ ९२॥

जीव एव दुरात्मासौ कन्दः संसारदुस्तरोः ।

अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥ ९३॥

अनया दुरहंकृत्या भावात्संत्यक्तया चिरम् ।

शिष्टाहंकारवाञ्जन्तुः शमवान्याति मुक्तताम् ॥ ९४॥

प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ ।

तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥ ९५॥

अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।

स तिष्ठति तथात्युच्चैः परमेवाधिरोहति ॥ ९६॥

भोगेच्च्हामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते ।

मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ॥ ९७॥

ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला ।

नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।

न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥ ९८॥

यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते ।

तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥ ९९॥

सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता ।

सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा ॥ १००॥

आकाशशतभागाण्च्हा ज्ञेषु निष्कलरूपिणी ।

सकलामलसंसारस्वरूपैकात्मदर्शिनी ॥ १०१॥

नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति ।

न च याति न चायाति न च नेह न चेह चित् ॥ १०२॥

सैषा चियमलाकारा निर्विकल्पा निरास्पदा ॥ १०३॥

आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।

पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥ १०४॥

अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।

महानरकजालेषु स तेन विनियोजितः ॥ १०५॥

प्रबुद्धबुद्धेः प्रक्षीणभोगेच्च्हस्य निराशिषः ।

नास्त्यविद्यामलमिति प्राज्ञस्तूपदिशेद्गुरुः ॥ १०६॥

सति दीप इवालोकः सत्यर्क इव वासरः ।

सति पुष्प इवामोदश्चिति सत्यं जगत्तथा ॥ १०७॥

प्रतिभासत एवेदं न जगत्परमार्थतः ।

ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये ॥ १०८॥

यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् ।

अविद्ययैवोत्तमया स्वार्थनाशोद्यमार्थया ॥ १०९॥

विद्या संप्राप्यते ब्रह्मन्सर्वदोषापहारिणी ।

शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् ॥ ११०॥

शमं विषं विषेणैति रिपुणा हन्यते रिपुः ।

ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ॥ १११॥

न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति ।

नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया ॥ ११२॥

सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा ।

भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् ॥ ११३॥

मुने नासाद्यते तद्धि पदमक्षयमुच्यते ।

कुतो जातेयमिति ते द्विज मास्तु विचारणा ॥ ११४॥

इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।

अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् ॥ ११५॥

यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।

तदस्या रोगशालाया यत्नं कुरु चिकित्सने ॥ ११६॥

यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।

स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्च्हैश्चिदर्णवः ॥ ११७॥

एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम् ।

किंचित्क्षुभितरूपा सा चिच्च्हक्तिश्चिन्मयार्णवे॥ ११८॥

तन्मयैव स्फुरत्यच्च्हा तत्रैवोर्मिरिवार्णवे ।

आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः ॥ ११९॥

तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् ।

क्षणं स्फुरति सा देवी सर्वशक्तितया तथा ॥ १२०॥

देशकालक्रियाशक्तिर्न यस्याः संप्रकर्षणे ।

स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता ॥ १२१॥

रूपं परिमितेनासौ भावयत्यविभाविता ।

यदैवं भावितं रूपं तया परमकान्तया ॥ १२२॥

तदैवैनामनुगता नामसंख्यादिका दृशः ।

विकल्पकलिताकारं देशकालक्रियास्पदम् ॥ १२३॥

चितो रूपमिदं ब्रह्मन्क्षेत्रज्ञ इति कथ्यते ।

वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः ॥ १२४॥

अहङ्कारो विनिर्णेता कलङ्की बुद्धिरुच्यते ।

बुद्धिः संकल्पिताकारा प्रयाति मननास्पदम् ॥ १२५॥

मनो घनविकल्पं तु गच्च्हतीन्द्रियतां शनैः ।

पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ॥ १२६॥

एवं जीवो हि संकल्पवासनारज्जुवेष्टितः ।

दुःखजालपरीतात्मा क्रमादायाति नीचताम् ॥ १२७॥

इति शक्तिमयं चेतो घनाहंकारतां गतम् ।

कोशकारक्रिमिरिव स्वेच्च्हया याति बन्धनम् ॥ १२८॥

स्वयं कल्पित तन्मात्राजालभ्यन्तरवर्ति च ।

परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥ १२९॥

क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया ।

क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥ १३०॥

क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।

क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् ॥ १३१॥

क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् ।

प्रोक्तं क्वचिदविद्येति क्वचिदिच्च्हेति संमतम् ॥ १३२॥

इअमं संसारमखिलमाशापाशविधायकम् ।

दधदन्तःफलैर्हीनं वटधाना वटं यथा ॥ १३३॥

चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।

कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम् ॥ १३४॥

समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् ।

एवं जीवाश्रिता भावा भवभावनयाहिताः ॥ १३५॥

ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः ।

संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥ १३६॥

उत्पत्स्यन्तेऽपि चैवान्ये कणौघा इव निर्झरात् ।

केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ॥ १३७॥

केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः ।

केचित्किन्नरगन्धर्वविद्याधरमहोरगाः ॥ १३८॥

केचिदर्केन्दुवरुणास्त्र्यक्षाधोक्षजपद्मजाः ।

केचिद्ब्रह्मणभूपालवैश्यशूद्रगणाः स्थिताः ॥ १३९॥

केचित्तृणौषधीवृक्षफलमूलपतङ्गकाः ।

केचित्कदम्बजम्बीरसालतालतमालकाः ॥ १४०॥

केचिन्महेन्द्रमलयसह्यमन्दरमेरवः ।

केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः ॥ १४१॥

केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः ।

विहायस्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च ॥ १४२॥

कन्तुका इव हस्तेन मृत्युनाऽविरतं हताः ।

भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ॥ १४३॥

पतन्ति केचिदबुधाः संप्राप्यापि विवेकताम् ।

दिक्कालाद्यनवच्च्हिन्नमात्मतत्त्वं स्वशक्तितः ॥ १४४॥

लीलयैव यदादत्ते दिक्कालकलितं वपुः ।

तदेव जीवपर्यायवासनावेशतः परम् ॥ १४५॥

मनः संपद्यते लोलं कलनाकलनोन्मुखम् ।

कलयन्ती मनःशक्तिरादौ भावयति क्षणात् ॥ १४६॥

आकाशभावनामच्च्हां शब्दबीजरसोन्मुखीम् ।

ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः ॥ १४७॥

भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।

ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥ १४८॥

शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः ।

रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् ॥ १४९॥

मनस्ताद्दृग्गुणगतं रसतन्मात्रवेदनम् ।

क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् ॥ १५०॥

ततस्तादृग्गुणगतं मनो भावयति क्षणात् ।

गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् ॥ १५१॥

अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् ।

वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ॥ १५२॥

अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् ।

तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ॥ १५३॥

तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः ।

स्थूलतामेति पाकेन मनो बिल्वफलं यथा ॥ १५४॥

मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ।

संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः ॥ १५५॥

ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा ।

पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम् ॥ १५६॥

कालेन स्फुटतामेत्य भवत्यमलविग्रहम् ।

बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ॥ १५७॥

स एव भगवान्ब्रह्मा सर्वलोकपितामहः ।

अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥ १५८॥

चिन्तामभ्येत्य भगवांस्त्रिकालामलदर्शनः ।

एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणी ॥ १५९॥

अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति ।

इति चिन्तितवान्ब्रह्मा सद्यो जातामलात्मदृक् ॥ १६०॥

अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।

स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमात् ॥ १६१॥

लीलया कल्पयामास चित्राः संकल्पतः प्रजाः ।

नानाचारसमारम्भा गन्धर्वनगरं यथा ॥ १६२॥

तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ।

अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥ १६३॥

विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः ।

तावत्स्थितिरियं प्रोक्ता तन्नाशे नाशमाप्नुयात् ॥ १६४॥

न जायते न म्रियते क्वचित्किंचित्कदाचन ।

परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते ॥ १६५॥

कोशमाशाभुजङ्गानां संसाराडंबरं त्यज ।

असदेतदिति ज्ञात्वा मातृभावं निवेशय ॥ १६६॥

गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा ।

अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥ १६७॥

धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता ।

वृद्धायां मोहमायायां कः समाश्वासवानिह ॥ १६८॥

यैरेव जायते रागो मूर्खस्याधिकतां गतैः ।

तैरेव भागैः प्राज्ञस्य विराग उपजायते ॥ १६९॥

अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः ।

नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥ १७०॥

अनागतानां भोगानामवाञ्च्हनमकृत्रिमम् ।

आगतानां च संभोग इति पण्डितलक्षणम् ॥ १७१॥

शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलंब्य च ।

सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥ १७२॥

यस्य चेच्च्हा तथानिच्च्हा ज्ञस्य कर्मणि तिष्ठतः ।

न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥ १७३॥

यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज ।

तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् ॥ १७४॥

उच्चैःपदाय परया प्रज्ञया वासनागणात् ।

पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु ॥ १७५॥

संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।

ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे ॥ १७६॥

न त्यजन्ति न वाञ्च्हन्ति व्यवहारं जगद्गतम् ।

सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥ १७७॥

अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।

चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः ॥ १७८॥

लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।

याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् ॥ १७९॥

भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिवात्मनः ।

संकल्पतामिवायाति बीजमङ्कुरतामिव ॥ १८०॥

संकल्पनं हि संकल्पः स्वयमेव प्रजायते ।

वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् ॥ १८१॥

मा संकल्पय संकल्पं मा भावं भावय स्थितौ ।

संकल्पनाशने यत्तो न भूयोऽननुगच्च्हति ॥ १८२॥

भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् ।

संकल्पेनैव संकल्पं मनसैव मनो मुने ॥ १८३॥

च्हित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् ।

यथैवेदं नभः शून्यं जगच्च्हून्यं तथैव हि ॥ १८४॥

तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।

नश्यति क्रियया विप्र पुरुषस्य तथा मलम् ॥ १८५॥

जीवस्य तण्डुलस्येव मलं सहजमप्यलम् ।

नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् ॥ १८६॥

इति महोपनिषत् ॥

इति पञ्चमोऽध्यायः ॥ ५॥


अथ षष्ठोऽध्यायः।

अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् ।

योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ ॥ १॥

सर्वत्राहमकर्तेति दृढभावनयानया ।

परमामृतनाम्नी सा समतैवावशिष्यते ॥ २॥

खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया ।

स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥ ३॥

समता सर्वभावेषु यासौ सत्यपरा स्थितिः ।

तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ ४॥

अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ।

सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ ५॥

शेषस्थिरो समाधानो येन त्यजसि तत्त्यज ।

चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् ॥ ६॥

वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।

समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ ७॥

हृदयात्संपरित्यज्य सर्ववासनपङ्क्तयः ।

यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ ८॥

दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश ।

युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ॥ ९॥

सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च ।

इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ १०॥

न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।

किमन्यदभिवाञ्च्हामि सर्वं सच्चिन्मयं ततम् ॥ ११॥

समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् ।

अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ ॥ १२॥

तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः ।

न शोकोऽस्ति न मोहोऽस्ति न जरास्ति न जन्म वा ॥ १३॥

यदस्तीह तदेवास्ति विज्वरो भव सर्वदा ।

यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्च्हनात् ॥ १४॥

त्यागादानपरित्यागी विज्वरो भव सर्वदा ।

यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ॥ १५॥

विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ।

विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ॥ १६॥

द्रष्टुर्दृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।

यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे ॥ १७॥

द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।

दर्शनप्रत्ययाभासमात्मानं समुपास्महे ॥ १८॥

द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।

प्रकाशनं प्रकाशानामात्मानं समुपास्महे ॥ १९॥

सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।

ते रत्नमभिवाञ्च्हन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ २०॥

उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः ।

हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ २१॥

संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे ।

सर्वमेवापवित्रं तद्दृष्टं संसृतिविभ्रमम् ॥ २२॥

अज्ञानोपहतो बाल्ये यौवने वनिताहतः ।

शेषे कलत्रचिन्तार्तः किं करोति नराधमः ॥ २३॥

सतोऽसत्ता स्थिता मूर्ध्नि रम्याणां मूर्ध्न्यरम्यता ।

सुखानां मूर्ध्निदुःखानि किमेकं संश्रयाम्यहम् ॥ २४॥

येषां निमेषणामेषौ जगतः प्रलयोदयौ ।

तादृशाः पुरुषा यान्ति मादृशां गणनैव का ॥ २५॥

संसार एव दुःखानां सीमान्त इति कथ्यते ।

तन्मध्ये पतिते देहे सुखमासाद्यते कथम् ॥ २६॥

प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः ।

मनो नाम निहन्म्येनं मनसास्मि चिरं हृतः ॥ २७॥

मा खेदं भज हेयेषु नोपादेयपरो भव ।

हेयादेयादृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव ॥ २८॥

निराशता निर्भयता नित्यता समता ज्ञता ।

निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥ २९॥

धृर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता ।

हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥ ३०॥

गृहीततृष्णाशबरीवासनाजालमाततम् ।

संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥ ३१॥

अनया तीक्ष्णया तात च्हिन्धि बुद्धिशलाकया ।

वात्ययेवाम्बुदं जालं च्हित्त्वा तिष्ठ तते पदे ॥ ३२॥

मनसैव मनश्च्हित्त्वा कुठारेणेव पादपम् ।

पदं पावनमासाद्य सद्य एव स्थिरो भव ॥ ३३॥

तिष्ठन्गच्च्हन्त्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।

असदेवेदमित्यन्तं निश्चित्यास्तां परित्यज ॥ ३४॥

दृश्यमाश्रयसीदं चेत्तत्सच्चितोऽसि बन्धवान् ।

दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् ॥ ३५॥

नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः ।

आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ॥ ३६॥

दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव ।

स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् ॥ ३७॥

स्वदनं केवलं ध्यायन्परमात्ममयो भव ।

अवलम्ब्य निरालम्बं मध्येमध्ये स्थिरो भव ॥ ३८॥

रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केनचित् ।

तस्मान्निदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् ॥ ३९॥

एतामहंभावमयीपपुण्यां

च्हित्त्वानहंभाव शलाकयैव ॥

स्वभावजां भव्यभवन्तभूमौ

भव प्रशान्ताखिलभूतभीतिः ॥ ४०॥

अहमेषां पदार्थानामेते च मम जीवितम् ।

नाहमेभिर्विना किंचिन्न मयैते विना किल ॥ ४१॥

इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह ।

नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥ ४२॥

अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाम् ।

यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः ॥ ४३॥

सर्वं समतया बुद्ध्या यः कृत्वा वासनाक्षयम् ।

जहाति निर्ममो देहं नेयोऽसौ वासनाक्षयः ॥ ४४॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।

तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५॥

निर्मूलं कलनां त्यक्त्वा वासनां यः शमं गतः ।

ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् ॥ ४६॥

द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ ।

आपतत्सु यथाकालं सुखदुःखेष्वनारतौ ।

संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनीश्वर ॥ ४७॥

ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ।

सुषुप्तवद्यश्चरति स जीवन्मुक्त उच्यते ॥ ४८॥

हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।

न हृष्यति ग्लायति यः परामर्शविवर्जितः ॥ ४९॥

बाह्यार्थवासनोद्भूता तृष्णा बद्धेति कथ्यते ।

सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते ॥ ५०॥

इदमस्तु ममेत्यन्तमिच्च्हां प्रार्थनयान्विताम् ।

तां तीक्ष्णां शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् ॥ ५१॥

तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा ।

संत्यज्य परमोदारं पदमेति महामनाः ॥ ५२॥

बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि ।

त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥ ५३॥

जायते निश्चयः साधो पुरुषस्य चतुर्विधः ॥ ५४॥

आपादमस्तकमहं मातापितृविनिर्मितः ।

इत्येको निश्चयो ब्रह्मन्बन्धायासविलोकनात् ॥ ५५॥

अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।

इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥ ५६॥

जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः ।

तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम ॥ ५७॥

अहं जगद्वा सकलं शून्यं व्योम समं सदा ।

एवमेष चतुर्थोऽपि निश्चयो मोक्षसिद्धिदः ॥ ५८॥

एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया ।

शुद्धतृष्णास्त्रयः स्वच्च्हा जीवन्मुक्ता विलासिनः ॥ ५९॥

सर्वं चाप्यहमेवेति निश्चयो यो महामते ।

तमादाय विषादाय न भूयो जायते मतिः ॥ ६०॥

शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि ।

शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते ॥ ६१॥

द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया ।

परमात्ममयीशक्तिरद्वैतैव विजृम्भते ॥ ६२॥

सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः ।

नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥ ६३॥

प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् ।

ईहितानीहितैर्मुक्तो न शोचति न काङ्क्षति ॥ ६४॥

सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।

आशयज्ञश्च भूतानां संसारे नावसीदति ॥ ६५॥

पूर्वां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।

जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥ ६६॥

अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः ।

बहिःसर्वसमाचारो लोके विहर विज्वरः ॥ ६७॥

बहिःकृत्रिमसंरंभो हृदि संरम्भवर्जितः ।

कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः ॥ ६८॥

त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः ।

अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः ॥ ६९॥

उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।

अन्तःसङ्गपरित्यागी बहिःसंभारवानिव ।

अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः ॥ ७०॥

अयं बन्धुरयं नेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७१॥

भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।

प्रशान्तकलनारभ्यं नीरागं पदमाश्रय ॥ ७२॥

एषा ब्राह्मी स्थितिः स्वच्च्हा निष्कामा विगतामया ।

आदाय विहरन्नेवं संकटेषु न मुह्यति ॥ ७३॥

वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि ।

यत्संकल्पहरार्थं तत्स्वयमेवोन्नयेन्मनः ॥ ७४॥

वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् ।

आशया रक्ततामेति शरदीव सरोऽमलम् ॥ ७५॥

तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः ।

दिवसेदिवसे कुर्वन्प्राज्ञ कस्मान्न लज्जते ॥ ७६॥

चिच्चैत्यकलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते ।

चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः ॥ ७७॥

एतन्निश्चयमादाय विलोकय धियेद्धया ।

स्वयमेवात्मनात्मानमानन्दं पदमाप्स्यसि ॥ ७८॥

चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः ।

दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् ॥ ७९॥

नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः ॥ ८०॥

चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूपकम् ।

संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् ॥ ८१॥

संशान्तसर्वसंकल्पः प्रशान्तसकलेषणः ।

निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर ॥ ८२॥ इति ।

य इमां महोपनिषदं ब्राह्मणो नित्यमधीते ।

अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति ।

सोऽग्निपूतो भवति । स वायुपूतो भवति । स सोमपूतो भवति ।

स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वर्देवैर्ज्ञातो भवति ।

स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्देवैरनुध्यातो भवति ।

स सर्वक्रतुभिरिष्टवान्भवति । गायत्र्याः षष्टिसहस्राणि

जप्तानि फलानि भवन्ति । इतिहासपुराणानां शतसहस्राणि जप्तानि

फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति ।

आचक्षुषः पङ्क्तिं पुनाति । आसप्तमान्पुरुषयुगान्पुनाति ।

इत्याह भगवान् हिरण्यगर्भः । जप्येनामृतत्त्वं च

गच्च्हतीत्युपनिषत् । ॥ इति षष्ठोऽध्यायः ॥ ६॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो

बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं

ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम

स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति महोपनिषत्समाप्ता॥


]