[[माण्डुक्योपनिषत् व्याख्यासहिता Source: EB]]
[
अथ माण्डुक्योपनिषत् ।
अमरदासविरचितमणिप्रभाव्याख्यासमलङ्कृता ।
यद्वाचकत्वादोंशब्दः स्तूयते वेदमस्तकैः ।
तं वन्दे परमात्मानं कृष्णनामामृतं परम् ॥
श्रीगुरूणां पदद्वन्द्वं प्रणम्याद्वन्द्वतास्पदम् ।
माण्डूक्योपनिषद्व्याख्या क्रियते पदगामिनी ॥
ओंकारस्य ब्रह्मवाचकत्वात्वाक्यवाचकयोरभेदस्य लोकप्रसिद्धत्वाद्ब्रह्मनामधेयमोंकारं ब्रह्मदृष्ट्या तावदाह—
ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत्त्रिकालातीतं तदप्योंकार एव ॥१॥
ब्रह्मबुद्ध्या दृष्टः सन्द्रष्ट्è
नवतीत्योमिति शब्द ओंकारानुकरणार्थः । तथा च ओमित्येततोमित्याकारकमक्षरं वर्णात्मकमिदं विविक्तप्रतीतिगोचरं चराचरात्मकं जगत्सर्वं निखिलमस्तीति शेषः । तस्य उक्तस्य सच्चिदानन्द्कोंकारस्य उपव्याख्यानमुप ब्रह्मधीहेतुत्वाद्ब्रह्मसामीप्येन विस्पष्टमा आसमन्तात्ख्यानं विवरणं क्रियते इति शेषः । भूतमतीतकालिकं वस्तु,
भवत्वर्तमानकालिकं,
भविष्यदनागतकालिकम् । इति एवंभूतं सर्वं निखिलवस्तुजातमोंकार एव प्रणव एव,
न त्वन्यत। भूतादिकालिकानां नामाभिन्नत्वान्नाम्नां चोंकाराभेदस्य श्रुत्यन्तरसिद्धत्वात्भूतादिकालिकानां नामद्वारोंकारत्वमिति भावः । यच्चान्यतुक्ताद्भिन्नं यत्कार्यगम्यं त्रिकालातीतमुक्तकालत्रयसम्बन्धशून्यं कालस्यापि कारणमव्याकृतसूत्रात्मकं,
तदपि उक्तलक्षणमपि ओंकार एव । ओंकारवाच्यत्वात्प्रणवात्मकमेवेत्यर्थः ॥१॥
एवमोंकारवाच्यस्य भूतादिकालिकस्य सर्वस्य वाचकेन ओंकारेणाभेदमुक्त्वा इदानीमोंकाराभिन्नस्य सर्वस्य ब्रह्मकार्यत्वाद्ब्रह्माभेदमाह—
सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म ।
सोऽयमात्मा चतुष्पात॥२॥
हि निश्चितं सर्वं निखिलमेततुक्तलक्षणमोंकारमात्रं प्रपञ्चजातं ब्रह्म सत्यज्ञानानन्तलक्षणस्वरूपमित्यर्थः । जडवस्तुन एव ब्रह्मात्मत्वमुक्तम्,
न तु चेतनस्येति शङ्कानिवृत्त्यर्थमाह—
अयमात्मेति । अयमस्मत्प्रत्ययगोचरश्चेतनत्वं पदार्थः । ब्रह्म सत्यादिलक्षणं तत्पदार्थः । स कार्यकारणभावं विना ब्रह्मतादात्म्यापन्नः अयमात्मा उक्तलक्षणस्त्वंपदार्थः चतुष्पात्,
चत्वारः पादा यस्य स चतुष्पात। विश्वादीनां त्रयाणां विलापनेन तुरीयं प्रतिपद्यतेऽनेनेति करणव्युत्पत्त्या पादशब्दो विश्वादिपरः,
कर्मव्युत्पत्त्या तु तुरीयपर इति भावः ॥२॥
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥
जागरितस्थानो जागरितं स्थानमभिमानविषयभूतं यस्य स तथा । बहिःप्रज्ञः बहिः स्वात्मव्यतिरिक्तशब्दादिविषयेषु प्रज्ञा बुद्धिवृत्तिरूपा यस्य स बहिःप्रज्ञः । सप्ताङ्गः सप्त सङ्ख्याकानि द्युसूर्यवाय्वाकाशरविपृथिव्याहवनीयाख्यानि अङ्गानि मूर्धचक्षुःप्राणदेहमध्यबस्तिपादमुखस्थानीयानि यस्य स सप्ताङ्गः । एकोनविंशतिमुखः ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकमन्तःकरणचतुष्कमित्येकोनविंशतिसङ्ख्याकानि मुखानि विषयोपलब्धिद्वाराणि यस्य स एकोनविंशतिमुखः । स्थूलभुग्स्थूलान्शब्दादिविषयानुक्तैकोनविंशतिमुखैर्भुङ्क्त इति स्थूलभुक।
वैश्वानरो विश्वान्सर्वान्नरान्भोक्तृत्वेन व्यवस्थितान्प्रति धर्माधर्मकर्मानुसारेण सुखदुःखादिकर्मफलप्रापणाद्वैश्वानर इत्युच्यते । यद्वा,
विश्वे नरा अस्येति विश्वानरः,
प्रज्ञादिभ्यश्च इति सूत्रेण स्वार्थिकोऽण्,
सर्वपिण्डात्मानन्यत्वात। यद्वा,
विश्वश्चासौ नरश्चेति विश्वानरः,
उक्तसूत्रेण पूर्वपदस्य दीर्घता । विश्वानर एव वैश्वानरः,
राक्षसवायसादिवत्प्रज्ञादिभ्यश्चेति सूत्रेण स्वार्थे तद्धितः । यद्वा,
विश्वेषां नरशब्दवाच्यानां चतुर्विधस्थूलदेहानामधिष्ठातायं वैश्वानरः ।
प्रथमः पादः उक्तात्मनः प्रथमांशः । न च विश्वस्य तैजसादुत्पत्तेस्तैजसस्यैव प्राथम्यं युक्तम् । कारणापेक्षया कार्यस्य पश्चाद्भावित्वनियमादिति वाच्यम् । बलापनापेक्षयात्र प्राथम्यस्योक्तत्वात्,
न तु सृष्ट्यपेक्षाया । व्यष्टिसमष्ट्योरेकत्वविवक्षणं तु युगपदुभयविलापनेन अद्वैतप्रतिपत्त्यर्थमित्यभिप्रायः ॥३॥
इदानीं द्वितीयपादमाह—
स्वप्नस्थानोऽन्तःप्रज्ञाः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥४॥
स्वप्नस्थानः स्वप्नः जागरितवासनाजन्यः स्थानं यस्य स तथा । अन्तःप्रज्ञः अन्तर्हृदि मानसविषयेषु प्रज्ञा बुद्धिर्यस्य स तथा । सप्ताङ्गः एकोनविंशतिमुख इति पदद्वयं पूर्ववद्व्याख्येयम् । प्रविविक्तभुक्प्रविविक्तं स्थूला सूक्ष्मं वासनामयं भुङ्क्ते इति तथा । तैजसः तेजसि वासनामयप्रज्ञायामाश्रयत्वेन वर्तमानः । द्वितीयः पादः जागरितानन्तर्भावित्वादात्मनो द्वितीयोऽंशः ॥४॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥५॥
यत्र यस्मिन्काले स्थाने वा सुप्त उपरतकरणग्रामः सन्कञ्चन कमपि कामं पुणय्पापहेतुभूतं पुत्रदारादिविषयजातं न कामयते न वाञ्छति,
कञ्चन कमपि स्वप्नं शुभाशुभजागरितवासनाजन्यं पदार्थं न पश्यति नावलोकयति,
तदुक्तकामाकामनस्वप्नादर्शनरूपं सुषुप्तं गाढनिद्रानिमित्तकमवस्थाविशेषम् । सुषुप्तस्थानः सुषुप्तं श्रुत्या स्वयमेवोक्तं स्थानं यस्य स सुषुप्तस्थानः । एकीभूतः निखिलजगद्बीजस्यावरणात्मकाज्ञास्यानुपरमादनेकोऽप्यन्तःकरणादिविक्षेपाभावादेकतां प्राप्तः प्रज्ञानघन एव जाग्रत्स्वप्नज्ञानानां कारणरूपेण घन एकपिण्डीभावो यस्मिन्स प्रज्ञानघनः । एवकारान्न जात्यन्तरं प्रज्ञानव्यतिर्क्तमस्तीत्यर्थः । आनन्दमयो स्वरूपसुखाभिव्यक्तिप्रतिबन्धकदुःखाभावादानन्दप्रायः । हि यस्मादानन्दमयः,
तस्मातानन्दभुकानन्दं विक्षेपास्याभावादात्मसुखं भुङ्क्तेऽज्ञानवृत्तिभिरनुभवतीत्यानन्दभुक। यथा लोके निरायासस्थितः सुखी आनन्दभुगुच्यते,
तद्वत। चेतोमुखः चेतः स्वप्नजागरितं तत्प्रति कारणत्वेन मुखं द्वारभूतो यः स चेतोमुखः । नहि स्वप्नजागरितयोः सुषुप्तद्वारं विना सम्भवोऽस्ति,
तयोस्तत्कार्यत्वात। अतः सुषुप्ताभिमानी प्राज्ञश्चेतोमुख इत्युच्यते । यद्वा,
आत्मचैतन्यरूपं चेतो मुखं स्वप्नजागरितागमनं प्रति द्वारभूतमस्येति चेतोमुखः । नहि चैतन्यमन्तरेण कापि चेष्टा सिद्ध्यतीति भावः । प्राज्ञः प्रकृष्टे स्वयंप्रकाशानन्दात्मनि ज्ञा ज्ञप्तिरज्ञानवृत्त्यात्मको बोधो यस्य सः प्रज्ञः । प्रज्ञ एव प्राज्ञः । स्वार्थे तद्धितः । तृतीयः पादः जागरितस्वप्नानन्तरभावित्वादात्मनस्तृतीयोऽंशः ॥५॥
सर्वस्य कारणत्वादुक्तं प्राज्ञमेव स्तौति—
एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥
एष प्राज्ञः सर्वेश्वरः सर्वस्य नियन्ता । एष प्राज्ञः सर्वज्ञः सर्वं जानातीति सर्वज्ञः । एष प्राज्ञः अन्तर्यामी अन्तरनुप्रविश्य सर्वभूतयमयिता । एष प्राज्ञः सर्वस्य योनिः चेतनाचेतनात्मकनिखिलजगतः कारणम् । उक्तसर्वकारणत्वे हेतुमाह—
प्रभवेति । हि यस्मात्भूतानां चेतनाचेतऽनां प्रभवाप्ययौ उत्पत्तिविनाशौ इतो भवत इति शेषः ॥६॥
चतुर्थपादमाह—
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥७॥
नान्तःप्रज्ञं स्वप्नावस्थायां मनोविरचितविषयज्ञानशून्यम् । न बहिष्प्रज्ञं जागैर्ते इन्द्रियजन्यविषयज्ञानरहितम् । नोभयतःप्रज्ञं जागरितस्वप्नयोः सन्ध्यवस्थावबोधरहितम् । न प्रज्ञानघनं सुषुप्तायां जाग्रत्स्वनज्ञानानां कारणरूपेण घनीभावानाश्रयम् । न प्रज्ञं युगपत्सर्वविषयज्ञातृत्वशून्य्य्यम् । नाप्रज्ञं न ज्ञानाभावरूपम् । अदृष्टं ज्ञानेन्द्रियाविषयभूतम् । अव्यवहार्यमर्थक्रियारहितम् । अग्राह्यं कर्मेन्द्रियैरगम्यम् । अलक्षणमलिङ्गमननुमेयमिति यावत। अचिन्त्यमन्तःकरणवृत्त्यविषयभूतम् । अव्यपदेश्यं शब्दशक्त्यविषयभूतम् । एकात्मप्रत्ययसारं जाग्रदाद्यवस्थासु एक एवात्मेत्याकारकः प्रत्ययो ऽव्यभिचारिज्ञानमेव सारं प्रमाणं यस्मिन्तत्तथा । यद्वा,
एक आत्मप्रत्यय एव सारं प्रमाणं यस्याभिगमे तत्तुरीयमेकात्मप्रत्ययसारम्,
आत्मेत्येवोपासीत इति श्रुतेः । प्रपञ्चोपशमं प्रपञ्चस्य कार्यकारणरूपस्य उपशमोऽभावो यस्मिंस्तत्तथा । शान्तमविक्रियम् । शिवमानन्दस्वरूपम् । अद्वैतं भेदशून्यम् । चतुर्थं तुरीयं पादं मन्यन्ते सङ्ख्याविषयत्वाभावेऽपि पूर्वोक्तपादत्रयापेक्षया चतुर्थमिति कल्पयन्ते शास्त्रविदः । स वस्तुतः अतुरीयरूपोऽप्यविद्यया चतुर्थपादत्वेन कल्पितः आत्मा अस्मत्प्रत्ययविषयः स तुरीयरूपः विज्ञेयः मुमुक्षुभिः साक्षात्कर्तव्यः इत्यर्थः ॥७॥
एवं तत्त्वज्ञानसमर्थानामुत्तममध्यमाधिकारिणां त्रिभिः पादैरात्मन्यध्यारोपितस्य प्रपञ्चस्य चतुर्थपादेन अपवादाद्विज्ञेयमात्मतत्त्वमुक्तम् । इदानीं तु येऽधर्माधिकारिणोऽसम्भावनादिदोषादुपदेशप्रमाणाभ्यामुपस्थापितमप्यात्मतत्त्वं न जानन्ति,
तेषामनुकम्पया आरोपदृष्टिमेवावष्टभ्य आत्मोंकारयोरभेददृष्टिं विधत्ते—
सोऽयमात्माध्यक्षरमोंकरोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥८॥
सः चतुर्थपादत्वेन कल्पितोऽयमात्मा अस्मत्प्रत्ययगोचरः अध्यक्षरमक्षरं वाचकं प्रकरणमधिकृत्य वर्तते इत्यध्यक्षरमक्षराभिन्न इत्यर्थः । किं तदक्षरमित्यत आह—
ओंकर इति । ओंकारस्वरूप एवेत्यर्थः । आत्मोंकारयोरभेदे हेतुमधिमात्रत्वसाम्यमाह—
अधीति । अधिमात्रं मात्रा अकाराद्याश्चतस्रो अधि वर्तते इत्यधिमात्रमित्यर्थः ।
ननु ओंकारस्यैवाधिमात्रत्वं नात्मनः,
तस्य पादशो विभक्तत्वादित्याशङ्क्य मात्राणां पादानां च अभेदमाह—
पादा इति । पादाः विश्वतैजसप्राज्ञतुरीयाख्याश्चत्वारः । मात्राः अकारोकारमकारार्धमात्ररूपाः । उक्ताभेदं दृढीकर्तुं व्यतिहारेण निर्दिशति—
मात्राश्च इति । मात्राश्च पादाः,
चकार एवार्थकः । मात्रा अकाराद्याः पादाः विश्वादिपादस्वरूपा एवेत्यर्थः । अर्धमात्रायांस्तुरीयपादत्वात्तुरीयस्य च पूर्वपादत्रयादत्यन्तविलक्षणत्वादेवार्धमात्रं त्यक्त्वा शेषमात्रा विभजते—
अकार इति । अकार उकारो मकार इति इत्याकारिका मात्राः सन्तीत्यर्थः ॥८॥
अकारादिमात्राणां पादरूपताविभागमाह—
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति,
ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥९॥
जागरितं स्थानं यस्य स जागरितस्थानः । वैश्वानरः विश्वश्चासौ नरश्चेति विश्वानरः,
विश्वानर एव वैश्वानरः,
वायसादिवत। अकारः अकारसंज्ञकः । प्रथमा मात्रा ओंकारस्याद्यमात्रारूपमित्यर्थः । अकारवैश्वानरयोरभेदहेतुं तयोः साम्यमाह—
आप्तेरिति । आप्तेर्व्याप्तेः,
अकारो वै सर्वा वागिति श्रुतेः,
अकारस्य व्यापकत्वं वैश्वानरस्यापि । सप्ताङ्गत्वेन व्यापकत्वं पूर्वोक्तमिति हेत्वर्थः । हेत्वन्तरमाह—
आदीति । आदिमत्त्वाद्वा । वाशब्दः पक्षान्तरे,
अकार उकाराद्यपेक्षयादिमान्,
वैश्वानरस्तु तैजसाद्यपेक्षयादिमान। तस्य भाव आदिमत्त्वं,
तस्मादादिमत्त्वसाम्यादित्यर्थः । यद्वा,
ऽइई इत्येवमाद्यपेक्षया अकारस्यादिमत्त्वं ज्ञेयम् । विश्वाकारयोरैक्यज्ञावतः सादृश्यविकल्पात्फलभेदमाह—
आप्नोतीति । यः पुरुषः एवमुक्तप्रकारेण विश्वाकारयोरैक्यं वेद जानाति,
स ह प्रसिद्धान्वै निश्चयेन सर्वानखिलान्कामान्काम्यमानान्पुत्रदारादिपदार्थानाप्नोति प्राप्नोति । आदिश्च महतां मध्ये प्रथमो भवति इत्यर्थः ॥९॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षातुभयत्वाद्वोत्कर्षति,
ह वै ज्ञानसन्ततिं समानश्च भवति,
नास्याब्रह्मवित्कुले भवति य एवं वेद ॥१०॥
स्वप्नस्थानस्तैजसः पूर्वं चतुर्थमन्त्रेषु उक्त तैजसो द्वितीयपादः उकारो द्वितीया मात्रा उकारसंज्ञकद्वितीयमात्रास्वरूप एव । उकारतैजसयोरैक्ये हेतुमाह—
उत्कर्षादिति । उत्कर्षातुकारस्याकारादूर्ध्वपाठेनोत्कर्षः । तैजसस्य तु विश्वात्सूक्ष्मत्वेनोत्कर्षः । तस्मादकारतैजसयोरुत्कर्षसाम्यादित्यर्थः । उभयत्वाद्वा,
वा इति पक्षान्तरे विश्वाकाराभ्यां तैजसोकारयोर्द्वितीयत्वात। तैजसोकारयोरैक्यज्ञानवतः फलमाह—
य इति । यः पुरुषः एवमुक्तप्रकारेण तैजसोकारयोरैक्यं वेद जानाति,
ह वै प्रसिद्धः स ज्ञानसन्ततिं शिष्यप्रशिष्यादिद्वारा ज्ञानस्य सन्तानमुत्कर्षति वर्धयति,
समानश्च शत्रुमित्रयोस्तुल्यश्च भवति इति स्पष्टम् । प्रत्येकं हेतुफलमुक्त्वा हेतुद्वयसमुच्चयज्ञानफलमाह—
अस्येति । अस्य उत्कर्षोभयत्वाभ्यां तैजसोकारयोरेकत्वविदः कुले शिष्यप्रशिष्यादिरूपान्वये अब्रह्मविद्ब्रह्मज्ञानरहितो न भवति इति योजना ॥१०॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति,
ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥११॥
सुषुप्तस्थानः प्राज्ञस्तृतीयपादत्वेन यः पूर्वोक्तः स मकारस्तृतीया मात्रा,
ओंकारस्य तृतीयमात्रारूप इत्यर्थः । प्राज्ञमकारयोरैक्ये सामान्यं हेतुमाह—
मितेरिति । मितेः यथा यवाः प्रवेशनिर्गमनाभ्यां प्रस्थपरिमितपात्रेण मीयन्ते,
तथा विश्वतैजसावपि लयोत्पत्तिभ्यां प्राज्ञेन मीयेते,
एवमोंकारसमाप्तौ अकारोकारौ मकारे प्रविष्टाविव भवतः । पुनरोंकारोच्चारणे कृते सति मकारान्निर्गताविव च लक्ष्येते । एवमिति हेतोरुभयत्र तुल्यत्वात। अपीतेर्वा,
वाशब्दः पूर्ववत्पक्षान्तरे । अपीतिर्नाम स्व्वस्मिन्नेकीभावः । ओंकारस्योच्चारणेऽकारोकारौ अन्तिमाक्षरे मकारे एकीभूताविव लक्ष्येते,
तथा विश्वतैजसावपि सुषुप्तकाले प्राज्ञे एकीभूतौ भवतः । सामान्यद्वयद्वारेण प्राज्ञमकारयोरेकत्वज्ञानवतः फलभेदमाह—
मिनोति इति । यः पुरुषः एवमुक्तप्रकारेण सामान्यद्वयद्वारेण उक्तं प्राज्ञमकारयोरैक्यं वेद जानाति,
स इदं विविधप्रत्ययगम्यं सर्वं निखिलं जगत्ह इति प्रसिद्धेन वै इति निश्चयेन मिनोति जगतो मायामयत्वात्मकयार्थत्वरूपं जानाति । अपीतिश्च,
अप्येति लीयते जगदस्मिन्निति व्युत्पत्त्या जगत्कारणात्मा च भवति इत्यर्थः । अङ्गभूतोक्तोपासनत्रयस्य विभागेन फलोक्तिस्तु प्रणवब्रह्मणोरभेदध्यानरूपप्रधानोपासनस्य स्तुत्यर्थमित्यभिप्रायः ॥११॥
अङ्गोपासनमुक्त्वा प्रधानोपासनमाह—
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥१२॥
अमात्रः अकारादिमात्राहीन ओंकारः प्रणवः चतुर्थस्तुरीय आत्मैवेति विज्ञेय इति शेषेणान्वयः । अमात्रपदेनोंकारोऽत्रोक्तः,
न त्वर्धमात्रा,
तेनोंकारार्धमात्रयोरभेदोऽवगम्यते । उक्तात्मानं विशिनष्टि—
अव्यवहार्यः अर्थक्रियाशून्यः,
प्रपञ्चोपशमः प्रपञ्चस्यओपशमो लयो यस्मिन्स तथा,
जगल्लयाधारभूत इति यावत। शिवः परमानन्दस्वरूपः । अद्वैतः अद्वयो भेदरहितः ।
एवमुक्तप्रकारेण ओंकार आत्मैव सर्वद्वैतकल्पनाधिष्ठानत्वेन वर्तमान एव य उपासकः एवं पूर्वप्रकारेण ओंकारात्मनोस्तादात्म्यं वेद जानाति,
स आत्मना ओंकारेणालम्बनेन आत्मानं पारमार्थिकं ब्रह्मात्मस्वरूपं संविशति सम्यक्प्राप्नोतीत्यर्थः । पदाभ्यास उपनिषत्समाप्त्यर्थम् । उत्तमाधिकारी ओंकारद्वारा ब्रह्मविदोंकारमालम्बनं नापेक्षते । मन्दमध्यमाधिकारिणां तु मात्रापादसाम्यविदां यथावदुपास्यमान ओंकारो ब्रह्मप्रतिपत्तये आलम्बनो भवति । उपासकानामोंकारालम्बनप्राप्तिद्वारा ब्रह्मप्रतिपत्तिर्भवति । तत्त्वनिश्चयसमर्थानां त्वोंकारालम्बनं विना ब्रह्मप्रतिपत्तिर्भवतीति भेदः ॥१२॥
॥ इति माण्डुक्योपनिषत्समाप्ता ॥
॥ इति माण्डुक्योपनिषद्व्याख्या उपनिषन्मणिप्रभा समाप्ता ॥
]