माण्डुक्योपनिषत्

[[माण्डुक्योपनिषत् Source: EB]]

[

॥ अथ माण्डुक्योपनिषत् ॥

ॐ इत्येतदक्षरमिदम् सर्वं तस्योपव्याख्यानं

भूतं भवद् भविष्यदिति सर्वमोङ्कार एव

यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥

सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्

॥ २॥

जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूल

भुग्वैश्वानरः प्रथमः पादः ॥ ३॥

स्वप्नस्थानोऽन्तः प्रज्ञाः सप्ताङ्ग एकोनविंशतिमुखः

प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं

पश्यति तत्

सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन

एवानन्दमयो

ह्यानन्दभुक् चेतो मुखः प्राज्ञस्तृतीयः पादः ॥ ५॥

एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य

प्रभवाप्ययौ हि भूतानाम् ॥ ६॥

नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं

न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं

अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं

शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥

७॥

सोऽयमात्माध्यक्षरमोङ्करोऽधिमात्रं पादा मात्रा मात्राश्च पादा

अकार उकारो मकार इति ॥ ८॥

जागरितस्थानो वैश्वानरोऽकारः प्रथमा

मात्राऽऽप्तेरादिमत्त्वाद्

वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद

॥ ९॥

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्

उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति

नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा

मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत

एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥

॥ इति माण्डुक्योपनिषत् समाप्ता ॥



]