कुण्डिकोपनिषत्

[[कुण्डिकोपनिषत् Source: EB]]

[

कुण्डिकोपनिषत् ।

कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः ।

यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं

ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां

मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं

मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि

सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ

ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः ।

वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी ॥ १॥

दारमाहृत्य सदृशमग्निमाधाय शक्तितः ।

ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् ॥ २॥

संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्य च ।

संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥ ३॥

वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः ।

स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥ ४॥

सह तेनैव पुरुषः कथं संन्यस्त उच्यते ।

सनामधेयो यस्मिंस्तु कथं संन्यस्त उच्यते ॥ ५॥

तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम् ।

अग्निवर्णं विनिष्क्रम्य वानप्रस्थं प्रपद्यते ॥ ६॥

लोकवद्भार्ययासक्तो वनं गच्च्हति संयतः ।

संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥ ७॥

किंवा दुःखमनुस्मृत्य भोगांस्त्यजति चोच्च्ह्रितान् ।

गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च ॥ ८॥

गुह्यं प्रवेष्टुमिच्च्हामि परं पदमनामयमिति ।

संन्यस्याग्निमपुनरावर्तनं यन्मृत्युर्जायमावहमिति ॥

अथाध्यात्ममन्त्राञ्जपेत् । दीक्षामुपेयात्काषायवासाः ।

कक्षोपस्थलोमानि वर्जयेत् । ऊर्ध्वबाहुर्विमुक्तमार्गो भवति ।

अनिकेतश्चरेभिक्षाशी । निदिध्यासनं दध्यात् । पवित्रं

धारयेज्जन्तुसंरक्षणार्थम् । तदपि श्लोका भवन्ति ।

कुण्डिकां चमकं शिक्यं त्रिविष्टपमुपानहौ ।

शीतोपघातिनीं कन्यां कौपीनाच्च्हादनं तथा ॥ ९॥

पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।

अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥ १०॥

नदीपुलिनशायी स्याद्देवागारेषु बाह्यतः ।

नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥ ११॥

स्नानं पानं तथा शौचमद्भिः पूताभिराचिरेत् ।

स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् ॥ १२॥

भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् ।

एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥ १३॥

विश्वाय मनुसंयोगं मनसा भावयेत्सुधीः ।

आकाशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भ्यः पृथिवी ।

एषां भूतानां ब्रह्म प्रपद्ये । अजरममरमक्षरमव्ययं प्रपद्ये ।

मय्यखण्डसुखांभोधौ बहुधा विश्ववीचयः ।

उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ १४॥

न मे देहेन संबन्धो मेघेनेव विहायसः ।

अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तिषु ॥ १५॥

आकाशवत्कल्पविदूरगोह

मादित्यवद्भास्यविलक्षणोऽहम् ।

अहार्यवन्नित्यविनिश्चलोऽह

मम्बोधिवत्पारविवर्जितोऽहम् ॥ १६॥

नारायणोऽहं नरकान्तकोऽहं

पुरान्तकोऽहं पुरुषोऽहमीशः ।

अखण्डबोधोऽहमशेषसाक्षी

निरीश्वरोऽहं निरहं च निर्ममः ॥ १७॥

तदभ्यासेन प्राणापानौ संयम्य तत्र श्लोका भवन्ति ॥

वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् ।

संदश्य शनकैर्जिह्वां यवमात्रे विनिर्गताम् ॥ १८॥

माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा भुवि ।

श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् ॥ १९॥

अथ शैवपदं यत्र तद्ब्रह्म ब्रह्म तत्परम् ।

तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्मनाम् ॥ २०॥

संभूतैर्वायुसंश्रावैर्हृदयं तप उच्यते ।

ऊर्ध्वं प्रपद्यते देहाद्भित्त्वा मूर्धानमव्ययम् ॥ २१॥

स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् ।

भूयस्ते न निवर्तन्ते परावरविदो जनाः ॥ २२॥

न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् ।

अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ २३॥

जले वापि स्थले वापि लुठत्वेष जडात्मकः ।

नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ २४॥

निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः ।

निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ २५॥

सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।

केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥ २६॥

स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् ।

स्वानन्दमनुभुञ्जानो निर्विकल्पो भवाम्यहम् ॥ २७॥

गच्च्हंस्तिष्ठन्नुपविशञ्च्हयानो वान्यथापि वा ।

यथेच्च्हया वसेद्विद्वानात्मारामः सदा मुनिः ॥ २८॥ इत्युपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं

ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां

मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं

मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि

सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ तत्सत् ॥

इति कुण्डिकोपनिषत्समाप्ता ॥


]