क्शुरिकोपनिषत्

[[क्शुरिकोपनिषत् Source: EB]]

[

क्शुरिकोपनिषत्

कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् ।

क्शुरिकोपनिषद्योगभासुरं राममाश्रये ॥

ॐ सहनाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ क्शुरिकां सम्प्रवक्श्यामि धारणां योगसिद्धये ।

यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ १॥

वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ।

निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २॥

कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ।

मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३॥

पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च ।

उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् ॥ ४॥

प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः ।

भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥ ५॥

स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः ।

द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६॥

द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ।

वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥ ७॥

तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ॥

अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः ॥ ८॥

अतिसूक्श्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् ।

तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥ ९॥

ततो रक्तोत्पलाभासं पुरुषायतनं महत्

दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥ १०॥

तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः ।

मनसस्तु क्शुरं गृह्य सुतीक्श्णं बुद्धिनिर्मलम् ॥ ११॥

पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् ।

मनोद्वारेण तीक्श्णेन योगमाश्रित्य नित्यशः ॥ १२॥

इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् ।

तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३॥

ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।

चतुरभ्यासयोगेन च्हिन्देदनभिशङ्कितः ॥१४॥

ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् ।

एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ १५॥

सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ।

इडा तिष्ठति वामेन पिङ्गला दक्शिणेन च ॥ १६॥

तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ।

द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥ १७॥

च्हिद्यते ध्यानयोगेन सुषुम्नैका न च्हिद्यते ।

योगनिर्मलधारेण क्शुरेणानलवर्चसा ॥ १८॥

च्हिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ।

जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् ॥ १९॥

एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् ।

तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २०॥

तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।

निःसङ्गतत्त्वयोगज्ञो निरपेक्शः शनैः शनैः ॥ २१॥

पाशं च्हित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् ।

च्हिन्नपाशस्तथा जीवः संसारं तरते सदा ॥ २२॥

यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् ।

तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३॥

प्राणायामसुतीक्श्णेन मात्राधारेण योगवित् ।

वैराग्योपलघृष्टेन च्हित्त्वा तं तु न बध्यते ॥ २४॥

अमृतत्वं समाप्नोति यदा कामात्स मुच्यते ।

सर्वेषणाविनिर्मुक्तश्च्हित्त्वा तं तु न बध्यत इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

]