केनोपनिषत्

[[केनोपनिषत् Source: EB]]

[

॥ अथ केनोपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।

सर्वं ब्रह्मौपनिषदं

माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म

निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।

तदात्मनि निरते य

उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

\\

मेद्स्किप्

\\

ह्रुले

\\

मेद्स्किप्

ॐ केनेषितं पतति प्रेषितं मनः

केन प्राणः प्रथमः प्रैति युक्तः ।

केनेषितां वाचमिमां वदन्ति

चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्

वाचो ह वाचं स उ प्राणस्य प्राणः ।

चक्षुषश्चक्षुरतिमुच्य धीराः

प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।

न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥

अन्यदेव तद्विदितादथो अविदितादधि ।

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥

॥ इति केनोपनिषदि प्रथमः खण्डः ॥

———— ————

द्वितीयखण्डः।

यदि मन्यसे सुवेदेति दहरमेवापि

नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।

यदस्य त्वं यदस्य देवेष्वथ नु

मीमांस्येमेव ते मन्ये विदितम् ॥ १॥

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।

यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।

अविङ्य़ातं विजानतां विङ्य़ातमविजानताम् ॥ ३॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।

आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥

इह चेदवेदीदथ सत्यमस्ति

न चेदिहावेदीन्महती विनष्टिः ।

भूतेषु भूतेषु विचित्य धीराः

प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥

** ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥**

———— ——— ———- ——–

द्वितीयखण्डः।

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो

विजये देवा अमहीयन्त ॥ १॥

त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।

तद्धैषां विजङ्य़ौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत

किमिदं यक्षमिति ॥ २॥

तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि

किमिदं यक्षमिति तथेति ॥ ३॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा

अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥

तस्मि

{\\

म्+

}

स्त्वयि किं वीर्यमित्यपीद

{\\

म्+

}

सर्वं

दहेयं यदिदं पृथिव्यामिति ॥ ५॥

तस्मै तृणं निदधावेतद्दहेति ।

तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव

निववृते नैतदशकं विङ्य़ातुं यदेतद्यक्षमिति ॥ ६॥

अथ वायुमब्रुवन्वायवेतद्विजानीहि

किमेतद्यक्षमिति तथेति ॥ ७॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा

अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं

सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥

तस्मै तृणं निदधावेतदादत्स्वेति

तदुपप्रेयाय सर्वजवेन तन्न शशाकादतुं स तत एव

निववृते नैतदशकं विङ्य़ातुं यदेतद्यक्षमिति ॥ १०॥

अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति

तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां

हैमवतीं तांहोवाच किमेतद्यक्षमिति ॥ १२॥

॥ इति केनोपनिषदि तृतीयः खण्डः ॥


चतुर्थः खण्डः।

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति

ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते

ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥

तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स

ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३

##Exत्र A’कार् इस् उसेद् इन् थे सेन्से ओफ़् cओम्परिसोन्##

इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥

अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन

चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि

हैन{\\\\\\\\म्+} सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त

उपनिषदमब्रूमेति ॥ ७॥

तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि

सत्यमायतनम् ॥ ८॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे

लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥

** ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥**

———– ———- ——- ———-

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।

सर्वं ब्रह्मौपनिषदं

माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म

निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।

तदात्मनि निरते य

उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः

॥ इति केनोपनिषत् ॥

]