कौलोपनिषत्

[[कौलोपनिषत् Source: EB]]

[

कौलोपनिषत्।

॥ श्रीः ॥

कौलोपनिषत् ।

शन्नः कौलिकः शन्नो वारुणी शन्नः शुद्धिः शन्नोऽअग्निश्शन्नः

सर्वं समभवत् ।

नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो नमोऽग्नये नमो वायवे नमो गुरुभ्यः ।

त्वमेव प्रत्यक्शं सैवासि ।

त्वामेव प्रत्यक्शं तां वदिष्यामि ।

ऋतं वदिष्यामि ।

सत्यं वदिष्यामि ।

तन्मामवतु ।

तद्वक्तारमवतु ।

अवतु माम् ।

अवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ।

अथातो धर्म्मजिज्ञासा ।

ज्ञानं बुद्धिश्च ।

ज्ञानं मोक्शैककारणम् ।

मोक्शस्सर्वात्मतासिद्धिः ।

पञ्च विषयाः प्रपञ्चः ।

तेषां ज्ञानस्वरूपाः ।

योगो मोक्शः ।

अधर्म्मकारणाज्ञानमेव ज्ञानम् ।

प्रपञ्च ईश्वरः ।

अनित्यं नित्यम् ।

अज्ञानं ज्ञानम् ।

अधर्म्म एव धर्म्मः ।

एष मोक्शः ।

पञ्च बन्धा ज्ञानस्वरूपाः ।

पिण्डाज्जननम् ।

तत्रैव मोक्शः ।

एतज्ज्ञानम् ।

सर्वेन्द्रियाणां नयनं प्रधानम् ।

धर्म्मविरुद्धाः कार्य्याः ।

धर्म्मविहिता न कार्य्याः ।

सर्वं शाम्भवीरूपम् ।

आम्नाया न विद्यन्ते ।

गुरुरेकः ।

सर्वैक्यताबुद्धिमन्ते ।

आमन्त्रसिद्धेः ।

मदादिस्त्याज्यः ।

प्राकट्यं न कुर्य्यात् ।

न कुर्य्यात्पशुसम्भाषणम् ।

अन्यायो न्यायः ।

न गणयेत्कमपि ।

आत्मरहस्यं न वदेत् ।

शिष्याय वदेत् ।

अन्तः शाक्तः ।

बहिः शैवः ।

लोके वैष्णवः ।

अयमेवाचारः ।

आत्मज्ञानान्मोक्शः ।

लोकान्न निन्द्यात् ।

इत्यध्यात्मम् ।

व्रतं न चरेत् ।

न तिष्ठेन्नियमेन ।

नियमान्न मोक्शः ।

कौलप्रतिष्ठां न कुर्य्यात् ।

सर्वसमो भवेत् ।

स मुक्तो भवति ।

पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः ।

आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी ।

यश्चाचारविहीनोऽपि यो वा पूजां न कुर्वते ।

यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने ।

शन्नः कौलिकः ।

ॐ शान्तिः शान्तिः शान्तिः ।

॥ कौलोपनिषत्समाप्ता ॥


]