[[कैवल्योपनिषद् Source: EB]]
[
कैवल्योपनिषद्
[ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।]
ॐ
अथ प्रथमः खण्डः।
अथाश्वलायनो भगवन्तं परमेष्ठिनं उपसमेत्योवाच ।
अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढां ।
यथाचिरात्[ययाचिरात्] सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् । ।१ । ।
तस्मै स होवाच पितामहश्च श्रद्धा-भक्ति-ध्यान-योगादवैहि ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वं आनशुः । ।२ । ।
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ।
वेदान्त-विज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ।३ । ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः [परामृतात्] परिमुच्यन्ति सर्वे ।
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः । ।४ । ।
अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विषदं [विशदं] विशोकं । ।५ । ।
अचिन्त्यं अव्यक्तं अनन्तरूपं शिवं प्रशान्तं अमृतं ब्रह्मयोनिं ।
तं आदिमध्यान्तविहीनं एकं विभुं चिदानन्दं अरूपं अद्भुतं । ।६ । ।
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् । ।७ । ।
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः । ।८ । ।
स एव सर्वं यद्भूतं यच्च भव्यं सनातनं ।
ज्ञात्वा तं मृत्युं अत्येति नान्यः पन्था विमुक्तये । ।९ । ।
सर्वभूतस्थं आत्मानं सर्वभूतानि चात्मनि ।
संपश्यन्ब्रह्म परमं याति नान्येन हेतुना । ।१० । ।
आत्मानं अरणिं कृत्वा प्रणवं चोत्तरारणिं ।
ज्ञाननिर्मथनाभ्यासात्पापं [पाशं] दहति पण्डितः । ।११ । ।
स एव मायापरिमोहितात्मा शरीरं आस्थाय करोति सर्वं ।
स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिं एति । ।१२ । ।
स्वप्न [स्वप्ने] स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपं एति । ।१३ । ।
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रं । ।१४ । ।
धारमानन्दं अखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च । ।१४* । ।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । ।१५ । ।
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वं एव त्वं एव तत् । ।१६ । ।
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहं इति ज्ञात्वा सर्वबन्धैः प्रमुच्यते । ।१७ । ।
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदा शिवः । ।१८ । ।
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितं ।
मयि सर्वंल्लयं याति तद्ब्रह्माद्वयं अस्म्यहं । ।१९ । ।
[इति] प्रथमः खण्डः ॥
_____________________________________________________________
अणोरणियानहं एव तद्वन्महानहं विश्वं अहं विचित्रं ।
पुरातनोऽहं पुरुषोऽहं ईशो हिरण्मयोऽहं शिवरूपं अस्मि । ।२० । ।
अपाणिपादोऽहं अचिन्त्यशक्तिः पश्याम्यचक्षुः स शृण्ॐयकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहं । ।२१ । ।
वेदैरनेकैरहं एव वेद्यो वेदान्तकृद्वेदविदेव चाहं ।
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति । ।२२ । ।
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ।
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलं अद्वितीयं । ।२३ । ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपं । ।२३* । ।
यः शतरूद्रीयं अधीते सोऽग्निपूतो भवति स वायुपूतो भवति
,
स आत्मपूतो भवति स सुरापानात्पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात्पूतो भवति स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तं आश्रितो भवत्याश्रमी सर्वदा सकृद्वा जपेत् ।
अनेन ज्ञानं आप्नोति संसारार्णवनाशनं ।
तस्मादेवं विदित्वैनं कैवल्यं पदं [फलम्] अश्नुते ।
कैवल्यं पदं [फलम्] अश्नुते । ।२४ । ।
इत्यथर्ववेदे कैवल्योपनिषत्समाप्ता । ।
ॐ तत्सत् ॥
—————————————–
]