जाबाल्युपनिषत्

[[जाबाल्युपनिषत् Source: EB]]

[

जाबाल्युपनिषत्

जाबाल्युपनिषद्वेद्यपदतत्त्वस्वरूपकम् ।

पारमैश्वर्यविभवं रामचन्द्रपदं भजे ॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्शुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं

ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा

ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु

तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ हैनं भगवन्तं जाबालिं पैप्पलादिः

पप्रच्च्ह भगवन्मे ब्रूहि परमतत्त्वरहस्यम् । किं

तत्त्वं को जीवः कः पशुः क ईशः को मोक्शोपाय इति ।

स तं होवाच साधु पृष्टं सर्वं निवेदयामि

यथाज्ञातमिति । पुनः स तमुवाच कुतस्त्वया ज्ञातमिति ।

पुनः स तमुवाच षडाननादिति । पुनः स तमुवाच

तेनाथ कुतो ज्ञातमिति । पुनः स तमुवाच तेनेशानादिति ।

पुनः स तमुवाच कथं तस्मात्तेन ज्ञातमिति । पुनः स

तमुवाच तदु[पासनादिति । पुनः स तमुवाच भगवन्कृपया

मे सरहस्यं सर्वं निवेदयेति । स तेन पृष्टः सर्वं

निवेदयामास तत्त्वम् । पशुपतिरहङ्काराविष्टः

संसारी जीवः स एव पशुः । सर्वज्ञः पञ्चकृत्यसंपन्नः

सर्वेश्वर ईशः पशुपतिः । के पशव इति पुनः स तमुवाच जीवाः

पशव उक्ताः । तत्पतित्वात्पशुपतिः । स पुनस्तं होवाच कथं

जीवाः पशव इति । कथं तत्पतिरिति । स तमुवाच यथा तृणाशिनो

विवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः

सकलदुःखसहाः स्वस्वामिबध्यमाना गवादयः पशवः ।

यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः । तज्ज्ञानं

केनोपायेन जायते । पुनः स तमुवाच विभूतिधारणादेव ।

तत्प्रकारः कथमिति । कुत्रकुत्र धार्यम् । पुनः स तमुवाच

सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति

भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य जलेन

संसृज्य त्र्यायुपमिति शिरोललाटवक्शःस्कन्धेष्विति

तिसृभिस्त्र्यायुपैस्त्रियम्बकैस्तिस्रो रेखाः प्रकुर्वीत ।

व्रतमेतच्च्हाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं

भवति । तत्समाचरेन्मुमुक्शुर्न पुनर्भवाय । अथ

सनत्कुमारः प्रमाणं पृच्च्हति । त्रिपुण्ड्रधारणस्य

त्रिधः रेखा आललाटादाचक्शुषोराभ्रुवोर्मध्यतश्च ।

यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः

स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो

देवतेति । यास्य द्वितीया रेखा सा दक्शिणाग्निरुकारः

सत्वमन्तरिक्शमन्तरात्मा चेच्च्हाशक्तिर्यजुर्वेदो

माध्यन्दिनसवनं विष्णुर्देवो देवतेति । यास्य तृतीया रेखा

साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः

सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रं भस्मना

करोति । यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स

महापातकोपपातकेभ्यः पूतो भवति । स सर्वान्देवान्ध्यातो

भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सकलरुद्रमन्त्रजापी

भवति । न स पुनरावर्तते न स पुनरावर्तते ॥ इति । ॐ सत्यमित्युपनिषत् ॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्शुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं

ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा

ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु

तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति श्रीजाबाल्युपनिषत्समाप्ता ॥

]