[[गोपालतापनीयोपनिषत् अथर्ववेदीया व्याख्यासहिता Source: EB]]
[
॥ श्रीराधासर्वेश्वरो जयति ॥
श्रीमते भगवन्निम्बार्कमहामुनीन्द्राय नमः
श्रीनिम्बार्कमतानुयायिश्रीवेदशास्त्रसम्पन्न
रणछोरशरणदेवाचार्येण निर्मित
तत्त्वप्रकाशिकाव्याख्यासंवलिता अथर्ववेदीय
गोपालतापनी-उपनिषद् ॥
भूमिका
एवं विदांकुर्वन्तु—
तत्रभवन्तोऽनादिवैदिकसत्सम्प्रदायनिपुणाः सुमेधसो विद्वांसः ! यत्येनेह भूतले मुकुन्दसेवोपायिकं मानुषं शरीरमासाद्य सर्वात्मना आत्मात्मीयं पुरुषोत्तमाय रमामानसहंसाय सर्वेश्वराय श्रीकृष्णाय गुरुणा समर्प्य भगवद्भावापत्तिर्नासादिता तस्य मानुषं जन्म न केवलं निरर्थकम्,
अपि तु महदपराधभाजनमेव । तदुक्तं श्रुतिस्मृतिषु—
यो वा गार्ग्यात्मानमविदित्वा य इह प्रेति स कृपणः
मानुष्यं प्राप्य लोकेऽस्मिन्मूको वा वधिरोऽपि वा ।
नापक्रामति संसारात्स खलु ब्रह्महा भवेत॥
मामप्राप्यैव कौन्तेय ततो यात्यधमां गतिम् ॥
अतो मानुषं कलेवरमुपलभ्यावश्यमेव भगवत्प्राप्त्यर्थं यतितव्यम् । किं च,
मन्दमतीनां मुमुक्षूणामनायासेन भगवत्प्राप्तिस्तदेव भवेत्,
यदा स्वासाधारणकरुणापरवशतया भगवतानुगृह्येत,
इत्यवलम्ब्य स्वप्राप्त्युपायं प्रागेवोपदर्शितम् । तथा हि,
सृष्टिप्रारम्भकाले हंसरूपेणावतीर्य वेधसो मानसान्सनकादीन्पञ्चपदीं ब्रह्मविद्यामुपदिश्य सम्प्रदायः स्थापितः । तैः श्रीनारदाय,
तेन च श्रीनिम्बार्काचार्याय दत्ता । एवमासृष्टिर्भगवतः सकाशात्पञ्चपदीब्रह्मविद्या श्रीनिम्बार्कसम्प्रदाये परम्परया प्राप्ता । सम्प्रदायानुयायिभिरवश्यमेव परम्परागत एव मन्त्रो ग्राह्यः,
यतः सम्प्रदायविहीनानां मन्त्राणामानर्थक्यमुपपादितं शास्त्रेषु—
सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः ॥ इत्यादिना ।
अस्याः पञ्चपदीब्रह्मविद्याया अष्टदशाक्षरगोपालमन्त्रस्य मूलमथर्ववेदीयपिप्पलादशाखान्तर्गता श्रीगोपालतापिन्युपनिषदेव । अद्यापि अस्या उपनिषदः कापि साम्प्रदायिकी टीका न कुत्रापि प्रकाशिता । इत्यालोच्य वृन्दावनवास्तव्येन पण्डितश्रीनन्दलालदासेन विरक्तवैष्णवेन त्रयन्तार्थप्रतिष्ठापकसत्सम्प्रदायप्रवर्तकाचार्यश्रीनिम्बार्कपथानुवर्तिश्रीस्वभूरामदेवाचार्यानुयायिश्रीरणछोरशरणदेवनिर्मिता श्रीगोपालतापिन्युपनिषदः प्रकाशिका टीका श्रीगिरिधारिमन्दिरस्थपुस्तकालयाल्लब्धप्रतिना मुद्राप्य प्राकाश्यं नीता । अतो धन्यवादार्हा एते महानुभावाः ।
एतेषां सम्प्रदायाचार्यनिष्ठामवेक्ष्यान्यैरपि अमुद्रिता ग्रन्थराशिः प्रकाशनीया इत्याशास्महे ।
ग्रन्थस्यास्य संशोधनादिकं सर्वं कार्यं श्रीरामेश्वरशरणब्रह्मचारिणा सम्पादितमतो धन्यवादार्होऽयम् ।
शीशकाद्यक्षरसंयोजकदोषेण भ्रमप्रमादादिना वा यदि कापि त्रुटिः पथिकायते,
सा भवद्भिर्मार्जनीया इति सविनयं प्रार्थये ।
भवदीय—
पण्डितः लाडिलीशरणब्रह्मचारी
काव्यतीर्थः
वृन्दावनम्
अक्षयतृतीया,
विक्रम १९९४.
गोपालतापनीउपनिषद्
अथ प्रथमोऽध्यायः ।
बुद्धेः साक्षी परं ब्रह्म वासुदेवो नराकृतिः ।
सच्चिदानन्दरूपः श्रीकृष्णो मे रमतां हृदि ॥
श्रीहंसं श्रीकुमारांश्च वन्दे देवर्षिपुङ्गवम् ।
श्रीनिम्बादित्यमुख्यांश्च सम्प्रदायप्रवर्तकान॥
यो मे पञ्चपदीविद्यामादिदेश विमुक्तिदाम् ।
श्रीमन्मुकुन्ददेवस्तं वन्देऽहं शिरसा गुरुम् ॥
श्रीमन्सुन्दरभट्टेन भास्यमस्याः सुविस्तृतम् ।
सङ्क्षेपेणेह सद्भावो यथा भाष्यं प्रकाश्यते ॥
अथार्थर्ववेदीयपिप्पलादादिशाखास्थितेयं तापिनी श्रुतिः परमकारुणिकतया सर्वानर्थनिवर्तिकां श्रीगोपालविद्यामुद्दीपयन्ती सर्वं वेदान्तवेद्यं सर्वोत्तमत्वेन श्रीकृष्णं प्रतिपादयन्ती च तमेव स्वप्रतिपाद्यं सदाचारबोधनाय प्रणमति—
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
कृष्णाय नमः इति सम्बन्धः । कृष्णशब्दो द्विविधः—
सखण्डार्थोऽखण्डार्थश्चेति । सखण्डार्थोऽपि द्विविधः—
व्याकरणव्युत्पन्नः,
ऋषिव्युत्पन्नश्चेति । तत्राद्ये चतुर्थ्यन्तं चतुष्पादमिदं वाक्यम् । कृकृष्णापदानि तत्र डुकृञ्करणे,
कृष्विलेखने इत्यनयोः क्विप्प्रत्यये संज्ञान्पूर्वकत्वान्न तुक। कृशब्दस्य तन्त्रपाठत्वाल्लोपे,
कृष्शब्दो व्युत्पन्नः । स च कर्तृसंहर्तृवाचकः । वस्तुलाभकरो णस्तु इति वचनात। मोक्षलाभकरो णशब्दः । अव्रक्षणे इत्यस्माद्धातोः क्विप्प्रत्यययोगेन अकारस्यावशेषात्रक्षकत्वसिद्धिः । एवं च जगत्कर्तृत्वसंहर्तृत्वमोक्षदातृत्वरक्षकत्वं च कृष्णस्य सिद्धम् । यतो वा इमानि भूतानि जायन्ति [तै.उ. ३.१.१],
संसारबन्धस्थितिमोक्षहेतुः [श्वे.उ. ६.१६] इत्यादिश्रुत्यन्तरात। अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १५.१५],
बन्धको भव पाशेन भवपाशाच्च मोचकः इत्यादिस्मृतिभ्यश्च ।
आर्षव्युत्पत्तिपक्षे च—
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ इति ।
सत्यं ज्ञानमनन्तं ब्रह्म [तै.उ. २.१.३] इत्यादिश्रुत्युक्तद्वितीयलक्षणसिद्धिः ।
अखण्डार्थमाह—
सच्चिदानन्दरूपायेति । एवं च जन्माद्यस्य यतः इति सूत्रोक्तं जगज्जन्मादिकारणत्वं श्रीकृष्णे समन्वितम् । तेन च स्वसमानाधिकरणसार्वज्ञ्यकारुण्यवात्सल्यादिगुणशक्त्यादयोऽप्याक्षिप्ताः ।
स्वभक्तक्लेशनाशकत्वं कृष्णशब्दार्थमाह—
अक्लिष्टेति । स्वभक्ताविद्यास्मितारागद्वेषाभिनिवेशलक्षणपञ्चक्लेशरहितान्कर्तुं शीलाय । यद्वा,
नायासेन सर्वकर्त्रे इत्यचिन्त्यशक्तिमत्त्वं सूचितम् । तच्च भारते श्रीमद्भागवतादौ च प्रसिद्धम् । अर्जुनरथस्थितेनैव स्वशरीरे तत्क्षणात्सर्वस्यार्जुनाय दर्शितत्वात। मातुरुत्सङ्गस्थितेनैव स्वमुखे स्वसहितस्य सर्वस्य मात्रे दर्शितत्वाच्च ।
तत्र तत्र प्रमाणमाह—
वेदान्तवेद्यायेति । सर्ववेदशिरोम्भागोपनिषद्भिर्वेद्याय—
तं त्वौपनिषदं पुरुषं पृच्छामि [बृ.आ.उ. ३.९.२६] इत्यादिश्रुत्यन्तरात। नमामः सर्ववचसां प्रतिष्ठा तव शाश्वती,
वेदैश्च सर्वैरहमेव वेद्यः [गीता १५.१५] इत्यादिस्मृतिभ्यश्च ।
गुरवे—
ब्रह्मादीनां स्वस्वरूपगुणशक्तियाथात्म्यप्रतिपादकतयोपदेष्टृत्वेन हितकर्त्रे ।
बुद्धिसाक्षिणे—
ज्ञानप्रदाय,
बुद्ध्याद्यधिष्ठातृतया वेदोक्तनिजस्वरूपगुणादियाथात्म्यानुभवस्थैर्यकारयित्रे इत्यर्थः ।
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः । [गो.ता.उ. १.२२] इत्यादिवक्ष्यमाणत्वात।
किं च,
वक्ष्यमाणगोविन्दपदार्थोऽपि कृष्णपदेनात्र सूचितः । तथा हि—
पापानि विषयान्वाकर्षन्तीति कृषो धेनव इन्द्रियाणि वा कृषां नो नेता कृष्णस्तस्मै गवां चैवानुगमनं सर्वपापप्रणाशनमिति पराशरस्मृतौ । विषयाकर्षणात्तेषामिन्द्रियत्वमुदाहृतमिति बृहत्संहितायाम् । नश्च नेता समाख्यातः इत्यनेकार्थः । गोपीजनपदार्थस्य स्वाहा पदार्थस्य च तच्छक्तितया शक्तिमति तस्मिन्नेवान्तर्भावः । तथा च जगज्जन्मादिहेतुर्मोक्षदाता सच्चिदानन्दरूपः सार्वज्ञ्यवात्सल्याद्यनन्तासङ्ख्येयस्वाभाविकयावदात्मवृत्तिगुणशक्त्यादिपूर्णो गोविन्दो भगवान। कृष्णाय देवकीनन्दनाय इति वक्ष्यमाणः,
ब्रह्मण्यो देवकीपुत्रः इति च सामोपनिषदादिषु प्रसिद्धः । श्रीकृष्णो मामङ्गीकरोत्वित्यभिप्रायेण तस्मै कायवाङ्मनोभिः स्वात्मानं समर्पयामीति निष्कर्षार्थः ।
अस्या उपनिषच्छब्दवाच्यत्वाद्विषयप्रयोजनादिकमपि सूचितम् । परं ब्रह्म श्रीकृष्णाख्यमुप समीपं नितरां सादयति गमयतीति संसारहेत्वविद्यादिकं वात्यन्तमवसादयतीति व्युत्पत्त्या गोपालविद्योपनिषद। तत्प्रतिपादकत्वो ग्रन्थोऽप्युपनिषदित्युच्यते ।
तथा हि—
मुमुक्षुरत्राधिकारी,
उक्तलक्षणः श्रीकृष्णोऽत्र विषयः । श्रीकृष्णभावापत्तिः प्रयोजनम् । प्रतिपाद्यप्रतिपादकभावः सम्बन्धः । इत्यनुबन्धचतुष्टयं बोध्यम् ॥१॥
उक्तार्थमेव प्रश्नोत्तराभ्यां विशदयन्ती श्रुतिराख्यायिकामारचयति—
ओं मुनयो ह वै ब्रह्माणमूचुः । कः परमो देवः ?
कुतो मृत्युर्बिभेति ?
कस्य विज्ञानेनाखिलं विज्ञातं भवति ?
केनेदं विश्वं संसरति ?
इति ॥२॥
ओमित्याख्यायिकारम्भे मङ्गलार्थं तस्य मन्त्रादिमयसर्ववाचां प्रभवस्थानत्वात। मुनयः—
श्रीकृष्णतत्त्वमननशीलाः सनकादयः । ह वईत्यव्ययं स्मरणे । ब्रह्माणम्—
स्वपितरं प्रत्यूचुः पप्रच्छुः । परमः—
सर्वोत्कृष्टः समाभ्यधिकशून्यः । देवः—
सर्वाराध्यपदार्थः को भवति ?
कुतः कस्माच्च मृत्युर्बिभेति त्रस्यति,
को मृत्युनिवारकतया मोक्ष इत्यर्थः । कस्य विज्ञानेनाखिलं सकलं जगत्विज्ञातं संभाति प्रकाशते । किं जगदुपादानमित्यर्थः । केन विश्वं केन प्रेरितमिदं विश्वं संसरति स्वस्वकार्ये प्रवर्तते । को विश्वप्रेरक इत्यर्थः ॥२॥
एवं पृष्टो ब्रह्मा प्रश्नचतुष्टयस्य क्रमेणोत्तरमाह—
तदु होवाच ब्राह्मणः । श्रीकृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेन
तज्ज्ञातं भवति । स्वाहयेदं संसरतीति ॥३॥
तदु हेति तत्तान्प्रति । उ अपि,
ह स्फुटम् । ब्राह्मणो वेदार्थतत्त्वज्ञो ब्रह्मा उवाच उत्तरं दत्तवान। तदाह—
कृष्णेति । कृषेर्णे नक्,
अतसी पुष्पश्यामो वै प्रसिद्धः । परमं दैवतं स्वार्थे तद्धितः,
परमो देव इत्यर्थः । कृष्णस्तु भगवान्स्वयमिति श्रीमद्भागवतात। कृष्णः स्वयं समभवत्परमः पुमान्यः इति ब्रह्मसंहितातः । मत्तः परतरं नान्यत्[गीता ७.७] इति श्रीमुखोक्तेः । परं ब्रह्म परं धाम पवित्रं परमं भवानित्यर्जुनोक्तेश्च । गवा ध्रुवा स्मृताख्यज्ञानेन प्रपत्त्या वा वेद्य उपलभ्यो गोविन्दस्तस्माद्मृत्युर्बिभेति ।
भीषास्माद्वातः पवते भीषोदेति सूर्यः ।
भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः ॥ [तै.उ. २.८.१] इत्यादिश्रुतेः ।
ज्ञानादिना प्राप्तः स एव मृत्युर्निवारकः । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते [गीता ७.१४] इति श्रीमुखोक्तेः ।
गोपीजनेति—
गोपायन्तीति गोप्यः । समस्तजगत्पालनशक्तयस्तासां जनः समूहस्तस्य वल्लभः स्वामी,
पालनस्योत्पादनपूर्वकत्वादुत्पादनपालनसंहरणशक्तिस्वामिनस्तस्य ज्ञानेन तदखिलं विश्वं ज्ञातं भवति । यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात्[छा.उ. ६.१.४] इत्यादिश्रुत्यन्तरात। यद्वा,
गोपीजनो व्रजयुवतिसमूहस्तस्य वल्लभः । प्रेष्ठो रमणो नराकृति परं ब्रह्म तस्य विज्ञानेन सर्वं ज्ञातं भवतीति ।
स्वाहयेति । स्वाहाशब्देन तस्य अघटनाघटनपटीयसी सङ्कल्परूपशक्तिस्तया इदं सर्वं संसरतीति । तथा च स एव स्वशक्तिद्वारा सर्वप्रेरक इत्यर्थः ॥३॥
एवं सामान्यतः श्रुत्वा कृष्णादिपदानां,
विशेषतो निरुक्तिद्वारा तदर्थबुभूत्सया पुनः पप्रच्छुरित्याह—
तदु होचुः—
कः कृष्णो गोविन्दश्च कोऽसाविति
गोपीजनवल्लभः कः का स्वाहेति ॥४॥
तत्ते मुनयः । उ किल ह स्फुटं ब्रह्माणमूचुः पप्रच्छुरित्यादि स्पष्टार्थः ॥४॥
प्रागुक्तार्थमेवार्थान्तरेण दर्शयन्नाह—
तानुवाच ब्राह्मणः—
पापकर्षको गोभूमिवेदविदितो विदिता
गोपीजनाविद्याकलाप्रेरकस्तन्माया चेति ।
सकलं परं ब्रह्मैव तत॥५॥
शरणागतानां भक्तानां स्वप्राप्तिप्रतिबन्धकानि पापानि कर्षयतीति पापकर्षकः । यः सर्वपापविनाशी स एव कृष्णशब्दाभिधेयः । परमो देवः सर्वाराध्य इत्यर्थः ।
यत्र यत्र स्थितो वापि कृष्ण कृष्णेति कीर्तनात।
सर्वपापविशुद्धात्मा स याति परमां गतिम् ॥ इति पाद्मे ।
प्रायश्चित्तान्यशेषाणि तपः कर्मात्मिकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ इति वैष्णवे ।
कृष्ण कृष्ण कृष्ण इत्यन्तकाले जल्पन्जन्तुर्जीवितं यो जहाति,
आद्यः शब्दः कल्पते,
तस्य मुक्त्यै व्रीडानम्नौ तिष्ठतो द्वावृणस्थौ इत्यादिस्मृतेश्च ।
गोविन्दपदार्थमाह—
गोभूमीति । गोषु सुरभिषु पालकतया गवि सूर्ये तत्प्रकाशकत्वेन तदन्तरात्मत्वेन च,
गवि भूमौ तदाधारशक्त्यात्मना गोषु वेदेषु तत्प्रतिपाद्यतया विदितः ख्यातः । तान्विदिता लब्धा वेत्ता च गोविन्द इत्यर्थः । य आदित्ये तिष्ठन्यः पृथिवां तिष्ठन्[बृ.आ.उ. ३.७.९] इत्यादिश्रुत्यन्तरात।
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ [गीता १५.१२]
इत्यादिस्मृतिभ्यश्च । एवं तमुपासीनां संसारभयं न भवति,
गोविन्दत एव मृत्युर्बिभेतीति ।
गोपी प्रकृतिः,
तस्या जातो जनो महदादिपृथिव्यन्तयोस्तरविद्याकलानां कर्मशक्तीनां प्रेरकस्तदन्तर्यामीति यावत। यद्वा,
गोपीजनरूपा या आ सम्यक्विद्याकलाज्ञानैकरसमूर्तयस्तासां प्रेरकः स्वलीलासु प्रवर्तक इति वल्लभपदार्थो दर्शितः,
तस्य ज्ञानेन सर्वमिदं ज्ञातं भवतीत्युक्तम् ।
तन्मायेति । मीयते कार्यमनयेति माया ज्ञानं सङ्कल्पो वा । माया च वयुनं ज्ञानमिति निर्घण्टुकोशात। माया दम्भे कृपायां च इति विश्वप्रकाशात। माया स्यात्शाम्बरीबुद्धयोः इति त्रिकाण्डशेषाच्च । नानार्थो मायाशब्दस्तथा च तस्य माया सङ्कल्परूपशक्तिः । स्वाहाशब्देन मायोक्ता स्वाहयेदं संसरतीति । परास्य शक्तिर्विविधैव श्रूयते [श्वे.उ. ६.८] इति श्रुतेः । न च मायाशब्दस्य प्रधाने प्रसिद्धत्वात्,
तदेव ग्राह्यमिति वाच्यम् । तेन नित्यमुक्तादिषु काले च प्रवर्तकत्वासम्भवात।
एवं यथाप्रश्नमर्थान्निरूप्य स्वसिद्धान्तमाह—
सकलमिति । तत्पूर्वोक्तं सकलमर्थचतुष्टयं श्रीकृष्णाख्यं परं ब्रह्मैव गोविन्दपदेन कृष्णस्यैव विशेषणात। गोपीजनपदार्थस्य स्वाहापदार्थस्य च तच्छक्तितया शक्तितद्वतोरभेदात। तेन तयोः स्वाभाविकभेदाभेदसम्बन्ध एव ब्रह्मणोऽभिमतः ॥५॥
एतद्ध्यानादेः फलमाह—
यो ध्यायति रसयति भजति सोऽमृतो भवति सोऽमृतो भवतीति ॥६॥
एतद्यो ध्यायतीति पाठान्तरम् । य उक्तमन्त्रप्रतिपाद्यं ध्यायति रसयति मन्त्रात्मकं जपति,
भजति मन्त्रदेवतां पूजयति,
सोऽमृतो मुक्तो भवति,
तद्भावापत्तिरूपमोक्षं लभते । द्विरुक्तिः प्रकरणसमाप्त्यर्था ॥६॥
ध्यानादेर्ध्येयादिज्ञानपूर्वकत्वात्पृच्छन्ति स्मेत्याह—
ते होचुः—
किं तद्रूपं ?
किं रसनं ?
कथं वाहो तद्भजनं ?
तत्सर्वं विविदिषतामाख्याहीति ॥७॥
किं कीदृशं रूपं तस्य ध्येयत्वेनाभिप्रेतं ?
कीदृशं रसनं जपनं?
कथं केन प्रकारेण वा । अहो हे ब्रह्मन्! तस्य भजनं तत्सर्वं वेत्तुमिच्छतां कथयेत्यर्थः ॥७॥
तदु होवाच हैरण्यः—
गोपवेशमभ्राभं
तरुणं कल्पद्रुमाश्रितम् ॥८॥
तद्विति । तत्तेषु प्रश्नेषु हैरण्यो ब्रह्मा ध्येयरूपं ह स्फुटमुवाच । गोपवेशं गोपालकवेशम् । अभ्राभं सजलजलदश्यामम् । तरुणं किशोरम् । कल्पद्रुमाश्रितं कल्पद्रुमाधः कनकस्थल्यां रत्नसिंहासनस्याष्टपत्रकमलोपविष्टमित्यर्थः ॥८॥
मन्त्रसम्मतिव्याजेन रूपं विशदयति स्मेत्याह—
तदिह श्लोका भवन्ति ॥९॥
तत्तत्रेहोक्तरूपनिरूपणे श्लोकाः मन्त्रा अपि सन्ति ॥९॥
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
द्वियालङ्करणोपेतं रत्नपङ्कजमध्यगम् ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥१०॥ इति ।
सत। विकसितं पुण्डरीकं पद्मं तद्वन्नयनं यस्य तम् । मेघश्यामैवाभा यस्य तम् । विद्युतः प्रभवतीति वैद्युतं तत्तेजस्तद्वदम्बरं यस्य तम् । द्विभुजमित्यष्टादशाक्षरे द्विभुजस्य ध्येयत्वं सूचितम् । ज्ञानमुद्रा मौनमुद्रा । अवचनेनैव प्रोवाच इति श्रुतेः । तया युक्तं,
वेणुवादनतत्परत्वात। आपादलम्बिनी नानापुष्पपल्लवोद्भवा माला विद्यते यस्य तम् । ईश्वरं भावादिनियन्तारं गोपैः श्रीदामादिभिर्गोपिभिः श्रीराधादिभिर्गोभिः कपिलादिभिरावीतं परिवृतम् । कल्पवृक्षतलाश्रयम् । दिव्यैः अप्राकृतैर्भूषणैरुपेतं सिंहासनोपरिरत्नमयाष्टदलकमलमध्यस्थितं कालिन्द्या जलस्य कल्लोलानां तरङ्गानां सम्बन्धिना वायुना सेवितमेवं विधं श्रीकृष्णं चेतसा चिन्तयन्ध्यायन्संसारान्मुक्तो भवति । इतिशब्दो ध्यानसमाप्त्यर्थः ॥१०॥
किं रसनमित्यस्योत्तरमाह—
तस्य पुना रसनम् ॥११॥
तस्य श्रीकृष्णस्य पुनर्ध्यानानन्तरं रसनं पञ्चपदमन्त्रजाप उच्यते इति शेषः ॥११॥
जलभूमीन्दुसम्पातकामादिकृष्णायेत्येकं पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभायेति तुरीयम् । स्वाहेति पञ्चममिति पञ्चपदीं जपन्पञ्चाङ्गं द्यावाभूमीसूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म सम्पद्यते ब्रह्म सम्पद्यत इति ॥१२॥
॥ इति श्रीगोपालतापिन्युपनिषदि प्रथमोऽध्यायः ॥
जलशब्देन तद्वाची ककारः । भूमिशब्देन तद्बीजं लकारः । कृतसम्बन्धि दीर्घ ईकारोऽग्निः । इन्दुशब्देन तदाकारोऽनुस्वारः । एतेषां सम्पातेन सम्पर्केण जातं यत्कामबीजं तदादि कृष्णायेत्येकं पदं,
गोपीजनेत्यत्र लुप्तविभक्त्या पदत्वम् । उक्तजापस्य फलमाह—
पञ्चपदीमिति । यत्तदोर्नित्यसम्बन्धादुत्तरत्र तच्छब्दाद्यच्छब्दो लभ्यः । एवं च पञ्चपदीं जपन्नरः ये द्यावाद्याः पञ्चतद्रूपतया तत्प्रकाशकतया यन्मन्त्ररूपं,
पञ्चाङ्गं ब्रह्म तत्सम्पद्यते । मन्त्रतद्देवतयोरभेदात। परंब्रह्मस्वरूपं श्रीकृष्णं सम्यक्प्राप्नोतीत्यर्थः । द्विरुक्तिः प्रथमोपनिषत्समाप्त्यर्था ॥१२॥
इति श्रीनिम्बार्कमतानुयायि श्रीरणछोरशरणदेवविरचिता
प्रकाशिका टीका संवलिता श्रीगोपालतापिन्युपनिषदि प्रथमोऽध्यायः॥
अथ द्वितीयोऽध्यायः।
उक्तरसने मन्त्रसम्भवादुवाच—
तदेष श्लोकः—
क्लीमित्येतदादावादाय कृष्णाय
गोविन्दाय गोपीजनवल्लभायेति ।
बृहद्भानव्या सकृदुच्चरेद्योऽसौ
गतिस्तस्यास्ति मङ्क्षु नान्या गतिः स्यात॥ इति ॥१॥
क्लिमित्येतदादावुच्चार्य बृहद्भानव्या स्वाहया सह तत्तत्पदं क्रमेण यः सकृदुच्चरेज्जपेत्तस्य गतिः पूर्वोक्ता श्रीकृष्णप्राप्तिर्मङ्क्षु शीघ्रमेव भवति । अन्या गतिर्न स्यात। इतिशब्दो मन्त्रसमाप्त्यर्थः ॥१॥
भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ॥२॥
अस्य श्रीकृष्णस्य भक्तिः सर्वेन्द्रियैः सेवनमेव भजनमुच्यते ।
भज इत्येष वै धातुः सेवायां परिकीर्तितः ।
तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी ।
भजनं भक्तिरित्याहुर्वाङ्मनःकायकर्मभिः ॥ इति लिङ्गपुराणात।
तद्विशिनष्टि—
तदिहेति । निरास एव नैरास्यम् । इहामुत्रोपाधेर्नैरास्येन लोकद्वयकामनायाः परित्यागेन । अमुष्मिन्श्रीकृष्णे । मनसः कल्पनं मन इत्युपलक्षणं सर्वेन्द्रियाणां तत्र प्रवणीकरणं भजनमित्यर्थः ।
सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् ।
हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥ इति श्रीनारदपञ्चरात्रात।
एतदेव च नैष्कर्म्यम् । स्वार्थे ष्यञ् । भजनमेव कर्मप्रतिद्वन्द्विज्ञानमित्यर्थः ॥२॥
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदैजत्सुरेताः ॥१५॥
तं कृष्णं सच्चिदानन्दरूपम् । विप्रा वैदिकाः । बहुधा द्रव्ययज्ञादिभिः । यजन्ति पूजयन्ति । तमेव गोविन्दं गोभूमिवेदविदितं सन्तं बधुधा स्निग्धकण्ठादिभिर्विप्रादयः सर्वे आराधयन्ति सेवन्ते । यद्वा,
तमेव गोविन्दं गोकुलनायकं सन्तं गोकुलवासिवत्प्रीतियुक्ता बहुधाराधयन्ति । स एव पालनशक्तिसमूहप्रेरकः सन्भुवनानि दध्रे पालयति स्म । स एव च एकोऽहं बहु स्यामित्यादिश्रुत्युक्तसङ्क्लपरूपशक्तिं स्वाहाशब्दवाच्यां श्रितः सन्जगद्व्यक्तनामरूपमैजयत्सर्गकालेऽक्षोभयत। यतः सुरेताः महावीर्यः कृष्णादिपदानां बीजमन्त्रविवरणरूपत्वादत्र बीजानुक्तिः ।
बीजे यथा स्थितो वृक्षः शाखापल्लवसंयुतः ।
तथैव सर्वशास्त्रार्थो मन्त्रबीजे व्यवस्थितः ॥ इत्यादिवचनात॥३॥
अथैकस्यैव तस्य भक्तानामाराधनाय सौकर्यार्थं मन्त्रात्मकशब्दरूपेण पञ्चधाविर्भावे दृष्टान्तमाह—
वायुर्यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्चरूपो बभूव ।
कृष्णस्तथैकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति ॥४॥ इति ।
यथा भुवनं प्रविष्ट एक एव वायुः जन्ये जन्ये देहे देहे पञ्चभिः प्राणादिनामभिः रूप्यत इति पञ्चरूपो बभूव,
तथैकोऽप्यसौ कृष्णः शब्देन तत्तन्नाम्ना पञ्चभिर्नामभिः पद्यते ज्ञायते यः स इत्यर्थः । इतिशब्दो समाप्त्यर्थः ॥४॥
आराधयन्तीति पूर्वोक्तौ तदाराधनपरिपाटीमपृच्छन्नित्याह—
ते होचुः—
उपासनमेतस्य परमात्मनो
गोविन्दस्याखिलाधारिणो ब्रूहीति ॥५॥
उपासनमित्यधिकरणे ल्युट। अखिलाधारिणः सर्वाश्रयस्य । अन्यत्स्फुटमेव ॥५॥
तदाराधनाधिष्ठानं पत्ररूपपीठं तावदुपदिशति स्मेत्याह—
तानुवाच—
यत्तस्य पीठं हैरण्याष्टपलाशाम्बुजं तदान्तरालिकेऽनलास्रयुगं तदन्तराद्यार्णाखिलबीजं कृष्णाय नम इति बीजाढ्यं सब्रह्माणमाधाय,
अनङ्गगायत्रीं यथावद्व्यालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तीन्द्रादिवसुदेवादिपार्थादिनिध्यादिवीतं यजेत॥६॥
यत्तस्य पीठं तत्तान्प्रत्युक्तवानित्यन्वयः । एवमत्र ज्ञेयम्—
स्वगृहे गोमयजलेन पृथ्वीमुपलिप्य तत्र प्रक्षालितपीठं संस्थाप्य सौवर्णाष्टदलकमलं स्थापयेत। गन्धयतचन्दनपङ्केन वा लिखेत। तस्य कमलस्य अन्तरालिके अन्तरालभवप्रदेशे कर्णिकायाम् । अनलास्रयुगं त्रिकोणद्वयं सम्पुटितं लिखेत। तस्य षट्कोणस्य अन्तरा मध्ये आद्यार्णरूपमखिलस्य कार्यस्य बीजं कामबीजं साध्यनामकर्म, “
अमूकस्य अमुकं कर्म सिद्ध्यतु”
इत्येवं लिखेदिति शेषः ।
कर्णिकायां लिखेद्वह्निपुटितं मण्डलद्वयम् ।
तस्य मध्ये लिखेद्बीजं साध्याख्यं कर्मसंयुतम् ॥ इति सनत्कुमारसंहितोक्तेः ।
कृष्णाय नमः इति कामबीजेन आढ्यं युक्तम् । षडस्रं सन्धिषु षडक्षरं लिखेत्,
षडस्रं सन्धिषु [क्र.दी. ७.२७] इति क्रमदीपिकोक्तेः । सब्रह्माणमिति मन्त्रतद्द्रष्ट्रोरभेदाद्ब्रह्म मन्त्रं पूर्वलिखितम् । कर्णिकास्थं कामबीजमष्टादशार्णमन्त्रेण सहितं वेष्टितम् । आधाय सम्पाद्येत्यर्थः । ततः शिष्टैर्मनोवर्णैस्तं कां वेष्टयेत्सुधीरिति तस्यामेवोक्तेः । षट्कोणस्य पूर्वनैरृतिवायव्यकोणेषु श्रीमिति बीजं लिखेत। आग्नेयपश्चिमेशानकोणेषु ह्रीमिति बीजं लिखेत।
श्रियं षट्कोणकोणेष्वैन्द्रनैरृतवायुषु ।
आलिख्य विलिखेन्मायां वह्निवारुणशूलिषु ॥ इति संहितोक्तेः ।
अनङ्गगायत्री इति । कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयातिति कामगायत्रीमष्टदलस्य केशरेषु यथावत्त्रिशः त्रिशः व्यालिखेदित्यर्थः नमः कामदेवाय सर्वजनप्रियाय सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु कुरु स्वाहा इत्यित्यष्टाचत्वरिंशदक्षरं मालामन्त्रमेकैकस्मिन्दले षट्षडक्षरं क्रमेण लिखेदिति बोध्यम् । अष्टदलोपरि वृतं कृत्वा मातृकाक्षरैर्वेष्टयेदिति च बोध्यम् ।
अक्षरैः कामगायत्र्या वेष्टयेत्केशरे सुधीः ।
काममालामनोर्वर्णैर्दलेष्वष्टसु मन्त्रवित॥
लिखेद्गुहाननैर्भक्तैर्मान्त्रिकांस्तद्बहिर्लिखेत॥ इति संहितोक्तेः ।
भूमण्डलमिति । भूगृहं चतुरस्रं लिखेत्,
तस्य दिक्सू श्रीबीजं कोणेषु मायाबीजं च लिखेत। भूबिम्बं च लिखेद्वाद्ये श्रीमाये दिग्विदिक्ष्वपीति क्रमदीपिकोक्तेः ।
शूलवेष्टितं कृत्वेति भूगृहं कोणसंलग्नाष्टवज्रालङ्कृतं कृत्वेत्यर्थः । भूगृहं चतुरस्रं स्यादष्टवज्रयुतं मुने इति संहितोक्तेश्च । अस्यैव धारणयन्त्रत्वात्साध्यादिलेखनमप्यादावसूचयत। अत एव तस्यामेव धारणाविधानं तत्फलं चोक्तम्—
हुत्वा सहस्रमाज्येन यन्त्रे सम्पातपूर्वकम् ।
मार्जयित्वायुतं जप्त्वा धारयेद्यन्त्रमुत्तमम् ।
त्रैलोक्यैश्वर्यमाप्नोति देवैरपि सुपूजितः ॥ इत्यादिना ।
इदं तु केवलधारणार्थयन्त्राभिप्रायेणोक्तम् । यदा पुनः पूजार्थं यन्त्रं क्रियते,
तदा तु पूर्वं पीठस्योत्तरभागे वायव्यादीशपर्यन्तं गौरवी पङ्क्तिः पूज्या । प्रयोगस्तु—
ओं गुरुभ्यो नमः,
परमगुरुभ्यो नमः,
परात्परगुरुभ्यो नमः,
परमेष्ठिगुरुभ्यो नमः इति दक्षिणे गणेशं च सम्पूज्य,
ततः कर्णिकायामाधारशक्तिप्रकृतिकमठशेषक्षमाक्षीरसिन्धुश्वेतद्वीपरत्नमण्डपकल्पवृक्षेति नवकं सम्पूज्य,
ततोऽग्न्यादिकोणेषु पीठपादेषु धर्मज्ञानवैराग्यैश्वर्याणि पूर्वादिचतुर्दिक्षु पीठगात्रेष्वधर्माज्ञानावैराग्यानैश्वर्याणि सम्पूजयेत। प्रयोगस्तु—
आधारशक्तये नमः इत्यादिः । धर्माय नमः इत्यादिश्च ।
ततः कर्णिकायां शेषपद्मं प्रणवांशयुक्तानि सूर्यसोमाग्निमण्डलानि सबिन्दुस्वीयस्वीयप्रथमाक्षरसहितानि सत्वरजस्तमांसि सबिन्दुस्वीयस्वीयप्रथमाक्षरबीजमात्मचतुष्टयं च सम्पूजयेत। प्रयोगस्तु—
अनन्ताय नमः,
पमाय नमः,
अं द्वादशकलाव्याप्तसूर्यमण्डलात्मना नमः,
ओं षोडशकलाव्याप्तचन्द्रमण्डलात्मना नमः,
मं दशकलाव्याप्तवह्निमण्डलात्मना नमः,
सं सत्त्वाय नमः,
रं रजसे नमः,
तं तमसे नमः,
आमात्मना नमः,
अमन्तरात्मना नमः,
पं परमात्मना नमः,
ह्रीं ज्ञानात्मना नमः इति ।
ततः प्राणाद्यष्टपत्रेषु विमलायै नमः,
उत्क्रर्शिण्यै नमः,
ज्ञानायै नमः,
क्रियायै नमः,
योगायै नमः,
प्रक्यै नमः,
सत्यायै नमः,
ईशानायै नमः । कर्णिकायामनुग्रहायै नमः इत्येवं नवशक्तींश्च सम्पूज्य पद्मोपरि ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नमः इति पीठमन्त्रं विन्यसेत।
ततः शालग्रामादिप्रतिमां सुवर्णादिपात्रे संस्थाप्य स्वहृदयस्थं श्रीकृष्णं ध्यात्वा पुष्पाञ्जलौ सुषुम्णा मार्गेणानीयावाहनमुद्रया शालग्रामादौ सन्निधीकृत्य आवाहनादिमुद्रामहामुद्रां च प्रदर्श्य देवाङ्गे षडङ्गन्यासं कृत्वासनं दत्त्वा स्वागतमित्युदीर्य अर्घ्यपाद्याचमनीयमधुपर्काचमनानि दत्त्वा सङ्खोदकेन स्नापयित्वा वस्त्रेण सम्प्रोक्ष्य पीठे स्थापयेत।
ततो वस्त्रभूषणाणि यथास्थानं विनियोज्य गन्धपुष्पैर्देवस्य शिरो ललाटादिस्थानेषु मन्त्राक्षरन्यासषट्पञ्चाङ्गं न्यासक्रमेण मन्त्रवर्णान्सम्पूज्य किऋईतकुण्डलवेणुमालाश्रीवत्सकौस्तुभचक्रशङ्खादींश्च सम्पूज्य पुष्पाञ्जलिं च कृत्वा दत्त्वावरणानि पूजयित्वा धूपादीन्कुर्यात।
आवरणान्याह—
अङ्गेत्यादिना । अङ्गादिभिरावरणैः वीतं वेष्टितं यजेदित्यर्थः । तत्र प्रथमावरणं—
अङ्गेति । षट्कोणस्याग्नेयादिचतुःकोणेषु क्रमेण हृदयशिरःशिखाकवचानि,
अग्रभागे नेत्रं पूर्वादिदिक्षु चास्रमित्यङ्गानि पूजयेत।
द्वितीयं वासुदेवादीति । पूर्वादिदलेषु यथाक्रमं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धान्पूजयेत। आग्नेयादिचतुःकोणेषु क्रमेण शान्तिश्रीसरस्वतीरतीश्च पूजयेत। क्रमदीपिकायां तु—
आग्नेयादिकोणदलमूलेषु वासुदेवादयः पूर्वादिदिग्दलमूलेषु शान्त्यादयः पूज्या इत्युक्तम् ।
तृतीयं रुक्मिण्यादीति । रुक्मिण्यादयो याः स्वस्य श्रीकृष्णस्य शक्तयः रुक्मिणीसत्यभामा जाम्बवतीनाग्नजितीमित्रविन्दाकालिन्दीलक्ष्मणासुशीलास्ताः पूर्वादिपत्रेषु क्रमेण पूजयेत।
चतुर्थपञ्चमाद्यावरणम्—
इन्द्रादिवसुदेवादिपार्थादीति । अत्र वसुदेवाद्यावरणं चतुर्थं ज्ञेयम् । पूर्वे वसुदेवाय पीतवर्णाय । आग्नेये देवक्यै श्यामलायै । दक्षिणे नन्दाय कर्पूरगौराय । नैरृत्ये यशोदायै कुङ्कुमगौर्यै । पश्चिमे बलदेवाय शङ्खकुन्देन्दुधवलाय । वायव्ये सुभद्रायै कलापश्यामायै । उत्तरे गोपेभ्यः । ईशाने गोपीभ्यः ।
पञ्चमं तु पार्थादि । अर्जुनणिशठोद्धवदारुकविश्वक्सेनसात्यकिगरुडनारदपर्वताः इति पूर्वादिक्रमेणार्च्याः ।
षष्ठं निध्यादि । पूर्वे इन्द्रनिधये नमः,
आग्नेये नीलनिधये नमः,
एवं कुन्दमकरानङ्गकच्छपशङ्खपद्माः क्रमेण ।
सप्तममिन्द्रादि । पूर्वे इन्द्राय पीतवर्णाय,
एवमग्रे रक्तवर्णाय यमाय,
नीलोत्पलवर्णाय रक्षाधिपतये,
कृष्णवर्णाय वरुणाय,
शुक्लवर्णाय वायवे,
धूम्रवर्णाय कुबेराय,
नीलवर्णाय ईशानाय,
श्वेतवर्णाय पूर्वेशानयोर्मध्ये ब्रह्मणे गोरोचनावर्णाय नैरृत्यपश्चिमयोर्मध्ये शेषनागाय श्वेतवर्णाय ।
अष्टमं त्वेवं पूर्वादितः वज्राय पीतवर्णाय,
शक्तये शुक्लवर्णाय,
दण्डाय नीलवर्णाय,
खड्गाय श्वेतवर्णाय,
पाशाय विद्युद्वर्णाय,
ध्वजायै रक्तवर्णायै,
गदायै नीलवर्णायै,
त्रिशूलाय शुक्लवर्णायेति ।
अत्रेन्द्रादिवज्राद्यावरणद्वयं स्वस्वदिक्ष्वेव पूजनीयम्,
अन्यत्र कल्पितपूर्वादिदिक्ष्विति ज्ञेयम् । तदुक्तमागमान्तरे—
देवाग्रे स्वस्य वाप्यग्रे प्राची प्रोक्ता च देशिकैः ।
प्राची प्राच्येव विज्ञेया त्यक्ता वै देवतार्चनम् ॥ इति ॥६॥
एवमर्चयतः फलमाह—
सन्ध्यासु प्रतिपत्तिभिरुपचारैस्
तेनास्याखिलं भवत्यखिलं भवतीति ॥७॥
इति गोपालतापिन्युपनिषदि द्वितीयोऽध्यायः
त्रिकालसन्ध्यासु प्रतिपत्तिभिः ध्यानैः प्रतिपतिभिरीति पाठे सुलभैस्तुलसीपुष्पादिभिरुपचारैः पञ्चषोडशोपचारादिभिर्यथाशक्ति पूजयेदिति शेषः । तेन पूजनेन अस्य साधकस्य अखिलं वाञ्छितं भवति ॥७॥
इति श्रीनिम्बार्कमतानुयायि श्रीरणछोरशरणदेवविरचिता
प्रकाशिका टीका संवलिता श्रीगोपालतापिन्युपनिषदि द्वितीयोऽध्यायः ॥
अथ तृतीयोऽध्यायः ।
अथोक्तोपासने मन्त्रसम्मतिं दर्शयति स्म—
तदिह श्लोका भवन्ति ।
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठस्थं येऽनुयजन्ति धीरास्
तेषां सिद्धिः शाश्वतं नेतरेषाम् ॥१॥
तत्तस्मिन्पृष्टे,
इह उक्तोपासने श्लोकाः मन्त्राः सन्ति । यः कृष्णः एको मुख्यः साम्यातिशयशून्यः स्वयं भगवत्त्वात्,
कृष्णस्तु भगवान्स्वयमित्युक्तेः,
वशी सर्वेषां प्रकृतिकालकर्मब्रह्मादीनां वशयिता,
यतः सर्वगः सर्वज्ञाता सर्वव्यापकः,
सर्वप्राप्यश्चेत्यर्थः । अत एव ईड्यः सर्वस्तुत्यः । यश्चैकोऽपि सनेकत्वमजहदेव बहुधा बहुरूपेण विभाति प्रकाशते,
तं कृष्णं पीठस्थमुक्तपीठे विराजमानं ये धीराः धीमन्त एकाग्रमनसः अनुयजन्ति पूजयन्ति,
भजन्तीति पाठे सेवन्ते,
तेषामेव शाश्वतमव्यभिचारिसुखं भवति,
नान्येषाम् ॥१॥
मन्त्रान्तरेण सर्वफलदत्वं मोक्षदत्वं चाह—
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥२॥
यो बहुत्तमनन्तानां नित्यानां शाश्वतानां चेतनानां जीवानामेको नित्यश्चेतनः तैरुपासितः सन्कामान्विदधाति वाञ्छितानि निष्पादयति । तं पीठगमुक्तयोगपीठस्थितं ये धीरा अनुभजन्ति निरन्तरं सेवन्ते,
तेषामेव सिद्धिः मोक्षरूपा शाश्वती अनपायिनी,
न त्वितरेषां तद्भक्तिशून्यानाम् । नित्यानामित्यनेनौपाधिकाविद्यकभेदवादो निरस्तः । चेतनानामित्यनेन नैयायिकपक्षो बहुत्तमित्यनेनैकजीववादादिपक्षश्च निरस्तो बोध्यः ॥२॥
उक्तयन्त्रपूजाफलं दर्शयन्मन्त्रान्तरमाह—
एतद्विष्णोः परमं पदं ये
नित्ययुक्ताः संयजन्ते न कामान।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदैव ॥३॥
एतत्पूर्वोक्तं यन्तात्मकं विष्णोः पदं ये नित्ययुक्ता नित्योद्युक्ताः सन्तः संयजन्ते सम्यक्प्रीत्याराधयन्ति,
नन्वन्यान्कामान्वाञ्छन्ति,
तेषामसौ गोपरूपोपवेशः श्रीकृष्णः आत्मनः स्वस्य पदं नित्यधाम श्रीगोलोकाख्यं स्वरूपं वा,
तदैव संयजतोत्तरसमय एव प्रयत्नात्प्रकाशयेत्प्रत्यक्षं दर्शयेत॥३॥
तत्र तत्प्राप्तौ तत्कृपैव हेतुरिति दर्शयन्तच्छरणागतिं विदधाति स्मेत्याह—
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥४॥
यः कृष्णः पूर्वं प्रथमसृष्टिकाले ब्रह्माणं चतुर्मुखं विदधाति उत्पादयति,
यो वै य एव कृष्णः तस्मै तदर्थं विद्याः वेदान्प्रलयाम्भोधिजले मत्स्यादिरूपेण गोपायति स्म उपदिदेश वा,
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै । इति श्रुत्यन्तरैक्यार्थात।
तं ह किल देवं विश्वसर्गादिना व्रजसुन्दरीभिःसह वृन्दावननिकुञ्जेषु वा क्रीडकम् । आत्मनां बुद्धेः ज्ञानस्य प्रकाशकम् । मुमुक्षुर्वै किल शरणमनुव्रजेत्गच्छेत॥४॥
उक्तमनोः प्रणवसम्पुटितया जापे फलमाह—
ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥५॥
ओंकारेणान्तरितं सम्पुटितं तं पूर्वोक्तं गोविन्दस्य पञ्चपदं मन्त्रं ये जपन्ति,
तेषां सम्बन्धि असौ गोविन्दः आत्मनः रूपं मूर्तिं दर्शयेत। तस्माद्धेतोः मुमुक्षुः नित्यशान्त्यै मुक्त्यै तं मन्त्रमभ्यसेतसकृज्जपेत॥५॥
तस्यैव सर्वगोपालमन्त्रबीजत्वमाह—
एतस्मादन्ये पञ्चपदादभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूतिकामैर्यथावत॥६॥
एतस्मादेव पञ्चपदादन्ये दशाक्षराद्या गोविन्दस्य मनवो मानवानां नानावासनावासितानां जीवानामर्थाय अभूवन्सनकादीनां मनसि प्रादुर्बभूवुः । श्रीसनकादिभ्यः श्रीहंसनारायणोऽष्टादशाक्षरं मन्त्रमुपदिष्टवान। मच्छिष्यैः सनकादिभिः इति श्रीमद्भागवते तेनैवोक्तेः । ततस्तेषामन्ये स्फुरिता बभूवुस्तेऽपीन्द्राद्यैरैश्वर्यकामैः अभ्यस्यन्ते यथावत्यथाविधि आवर्त्यन्ते । सनकादिभिश्च श्रीनारदायोपदिष्टः—
अधीहि भगवः इत्युपक्रम्य,
तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः इत्यन्तं छान्दोग्यश्रुतेः ।
सनत्कुमारं योगीन्द्रं सिद्धाश्रमनिवासिनम् ।
ब्रह्मनिष्ठं मुनिं शान्तं प्रसन्नादित्यवर्चसम् ॥
विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ ब्रह्मर्षिः सर्वकालविभागवित॥
इत्यादिना प्रार्थापूर्वकमुपसन्नश्रीनारदपृष्ठेन श्रीसनत्कुमारेण—
साधु पृष्ठं त्वया ब्रह्मनित्याद्युक्ता,
अष्टादशाक्षरं मन्त्रं शृणु वक्ष्यामि नारद ।
समाहितमना भूत्वा दुर्लभं भुवनत्रयम् ॥
इत्यादिना सनत्कुमारसंहितायामुक्तेश्च ।
श्रीनारदेन तु श्रीसुदर्शनावताराय श्रीनिम्बार्कायोपदिष्टः—
नारायणमुखाम्भोदान्मन्त्रस्त्वष्टदशाक्षरः ।
आविर्भूतः कुमारैस्तु गृहीत्वा नारदाय च ॥
उपदिष्टः स्वशिष्याय निम्बार्काय च तेन तु ।
एवं परम्पराप्राप्तो मन्त्रस्त्वष्टदशाक्षरः ॥ इति विष्णुयामलोक्तेः ।
एवं च श्रीसनत्कुमारश्रीनारदश्रीनिम्बार्कद्वाराष्टादशाक्षरमन्त्रस्य लोके प्रवृत्तिरिति बोध्यम् । किं च,
श्रीनिम्बार्कस्यैवाद्याचार्यतया सम्प्रदायप्रवर्तकत्वेन श्रीसुदर्शनावतारत्वेन च सर्वस्यात्यादरणीयतया श्रीव्यासोऽपि तन्मतानुकूलमेव शारीरकमीमांसायां महावाक्यार्थं चिदचितोर्ब्रह्मणा सह स्वाभाविकभेदाभेदसम्बन्धघटकैः,
उभयव्यपदेशात्त्वहिकुण्डलवत्,
प्रकाशाश्रयाद्वा तेजस्व्तातित्यादिसूत्रैः स्वयं प्रणीतवान। श्रीनिम्बार्कोऽपि शारीरकमीमांसां वाक्यार्थरूपवेदान्तपारिजातसौरभादिग्रन्थरचनया सङ्गृहीतवान। अत एवार्वाचीनेष्वपि ग्रन्थकर्तृषु श्रीनिम्बार्कसम्प्रदाय एव विख्यातः,
तथा हि—
तिथिनिर्णये भट्टोजीदीक्षितेनोक्तं जन्माष्टमीप्रसङ्गे अत्र क्वचित्—
उदयव्यापिनी ग्राह्या कुले तिथिरुपोषणे ।
निम्बार्को भगवान्येषां वाञ्छितार्थप्रदायकः ॥ इति ।
(
व्रतहेमाद्रौ) निम्बसप्तमी व्रते भविष्यवचनान्निम्बादित्यसम्प्रदायिनामौदयिकी एव ग्राह्या इति निर्णयसिन्धुकृताप्येतद्वचनस्य जन्माष्टमीनिर्णये धृतत्वाच्चेति दिक॥६॥
तदभ्यासे हेतुमाह—
यदेतस्य स्वरूपार्थं वाचा वेदयेति ॥७॥
यद्यतो हेतोस्ते दशार्णाद्या मन्त्रा एतस्य श्रीकृष्णस्य स्वरूपमेवार्थं सर्वपुरुषार्थसाधकं वाचा वेदयन्ति ज्ञापयन्ति ॥७॥
ते पप्रच्छुः—
॥८॥
ते मुनयः पप्रच्छुः पञ्चपदमन्त्रस्वरूपमिति शेषः ॥८॥
तदु होवाच ब्रह्मसवनं चरतो मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव ॥९॥
तदु हेति तदपि ह किल ब्रह्मोवाच तदाह—
ब्राह्मणः सवनं कालं प्रथमपरार्धं चरतो अनुवर्तमानस्य मे ध्यातः स्तुतः परार्धान्ते स गोपालोऽबुध्यत तथा भूतं मां ज्ञातवान। ततश्चस मे पुरस्तादग्रे आविः प्रकटो बभूव ॥९॥
ततः प्रणतो मयाऽनुकूलेन हृदा मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः पुनः सिसृक्षतो मे प्रादुरभूत॥१०॥
ततश्च,
मया नमस्कृतः सननुकूलेन सानुग्रहेण हृदा मनसा मह्यमष्टादशाक्षरं मन्त्रं स्वस्य रूपं स्वरूपं स्वरूपभूतं सृष्टये दत्त्वान्तर्हितः,
पुनः सृष्टिं कर्तुमिच्छतो मे पुरतः प्रादुरभूत्प्रकटो जातः ॥१०॥
तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयन॥११॥
किं कुर्वन्?
तेषु एवाष्टदशसु मन्त्राक्षरेषु भविष्यतो जगतो रूपं प्रकाशयन॥११॥
तदिह कादापो लात्पृथिवी । ईतोऽग्निः । बिन्दोरिन्दुः ।
तत्सम्पातादर्क इति क्लींकारादसृजम् ॥१२॥
तदिहेति । तत्तस्मिन्जगद्रूपे प्रदर्शिते सतीह पञ्चपादमन्त्रे स्थितात्कात्ककारादापो जलानि,
लकारात्भूमिरीकारादग्निरनुस्वाराच्चन्द्रः । तेषां ककारादीनां सम्पातात्समुदायात्क्लींकारात्सप्रसिद्दोऽर्क इति पञ्चपादार्थान्क्लींकारादहमसृजम् ॥१२॥
कृष्णादाकाशं खाद्वायुरित्युत्तरात्सुरभिर्विद्याः प्रादुरकार्षम् । तदुत्तरात्स्त्रीपुंसादि चेदं सकलमिति सकलमिति ॥१३॥
कृष्णेति कृष्णायेति प्रथमपदादाकाशमिति पदार्थमसृजम् । खात्शब्दराशिवेदितुर्गोविन्दायेति पदाद्वायुरिति । उत्तरात्गोपीजनवल्लभायेति पदद्वयात्सुरभिः कामधेनुः,
विद्याः चतुर्दशेति प्रादुरकार्षं प्रकटितवानस्मि । तदुत्तरात्स्वाहापदात्स्त्रीपुरुषक्लीबं स्थावरं जङ्गमं चेदं सकलं प्रादुरकार्षम् । अवादीनां परमात्मसृष्टत्वेऽपि व्यष्टिसृष्टये तेषां परिणामविशेषप्रापकतया स्वसृष्टत्वोक्तिः । अभ्यासस्तृतीयोपनिषद्समाप्तिद्योतकः ॥१३॥
इति श्रीनिम्बार्कमतानुयायि श्रीरणछोरशरणदेवविरचित
प्रकाशिकाटीकासंवलितायां श्रीगोपालतापिन्युपनिषदि तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः
तस्यादिज्ञानप्रदत्वमप्याह—
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेद,
इत्योंकारान्तरालिकं मनुमावर्तयेत्सङ्गरहितोऽभ्यानयेत॥१॥
एतस्यैव पञ्चपदमन्त्रस्यैव तन्मयत्वेनोक्तस्य गोपालस्य वा यजनेन पूजनेन चन्द्रध्वजो नाम राजर्षिश्चन्द्रमौलिमहेश्वरो वा गतमोहं यथा स्यात्तथा आत्मानं स्वरूपं त्वंपदार्थं वेद ज्ञातवान। इति हेतोरिदानीन्तनोऽपि प्रणवसम्पुटितं मनुमष्टादशाक्षरं सङ्गरहितः सनावर्तयेत। तेनावर्तनेन अभि प्रत्यक्षं परमात्मनमानयेत्प्राप्नुयादित्यर्थः ॥१॥
अथ प्राप्नुयात्तस्य स्थानमाह—
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥२॥
विष्णोः व्यापकस्य श्रीकृष्णस्य तत्प्रसिद्धं गोलोकाख्यं परमं सर्वोत्कृष्टं पदं स्थानम् । पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः । सूरयः नित्यमुक्तादयः सदा पश्यन्ति । कीदृशं ?
दिवि व्योम्नि चक्षुः सूर्यः इव तद्वत्प्रकाशमानं,
सूर्यस्य चक्षुष्ट्वं तु नमः सवित्रे जगदेकचक्षुषे इत्यादौ प्रसिद्धम् । आततं विस्तृतमपरिमितमित्यर्थः ॥२॥
तस्मादेनं नित्यमभ्यसेन्नित्यमभ्यसेदिति ॥३॥
तस्मादिति विष्णुपदप्राप्तिहेतुत्वातेनं मन्त्रं नित्यमभ्यसेत। द्विरुक्तिश्चतुर्थोपनिषत्समाप्त्यर्था ॥३॥
इति श्रीनिम्बार्कमतानुयायि श्रीरणछोरशरणदेवविरचित
प्रकाशिकाटीकासंवलितायां श्रीगोपालतापिन्युपनिषदि चतुर्थोऽध्यायः ॥
अथ पञ्चमोऽध्यायः
पूर्वकादिभ्यो वादिसृष्टिरुक्तार्थपञ्चपदेभ्यो विश्वसृष्टिं निरूपयति मन्त्रान्तरेण—
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योम इति वैष्णवपञ्चव्याहृतिमयं मन्त्रं कृष्णावभासं कैवल्यसृत्यै सततमावर्तयेदिति ॥१॥
तत्र मन्त्र एके मुनयः यस्येत्यादिस्पष्टार्थकमुपसंहतीतीति । वैष्णव्यः पञ्चव्याहृतयः पञ्चपदानि तन्मयं कृष्णावभासकं कृष्णप्रकाशकं कैवल्यसृत्यै मुक्तिप्राप्तये ॥१॥
तदत्र गाथा ।
यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत।
चन्द्रध्वजोऽगमद्विष्णुः परमं पदमव्ययम् ॥२॥
तदत्रेति तत्तस्मिन्मन्त्रे अत्र उक्तसृष्टौ गाथाः श्लोकाः सन्ति । यस्येत्यादयः सुगमार्थाः ॥२॥
परमं पदमव्ययमित्युक्तं पदं विशिनष्टि स्म—
ततो विशुद्धं विमलं
विशोकमशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥३॥
ततः उक्तप्रभावाद्धेतोः विशुद्धं विशुद्धसत्त्वं चिद्घनमिति यावत्,
विमलमविद्यामलशून्यं,
अत एव विशोकं मनस्तापशून्यं,
अशेषैर्लोभादिभिः निरस्तः सङ्गो यस्य तम् । लोभादिभिर्निरस्तः सङ्गो यस्य तत्लोभादिरहितमित्यर्थः । तादृशं यत्तत्पदं गोलोकाख्यं तदेव पञ्चपदं पञ्चपदाख्यमन्त्रमयत्वात्तदेव च स प्रसिद्धो वासुदेवः,
तस्य वासुदेवात्मकत्वेन तद्व्याप्यत्वेन तच्छक्तित्वेन च तदभिन्नत्वात। तदेवाह—
न यतिति यतो वासुदेवातन्यति भिन्नं किमपि चेतनाचेतनात्मकं वस्तु नास्ति,
सर्वस्य तदायत्तस्थितिप्रवृत्तिकत्वादिना तदनतिरिक्तत्वात। एवं च चिदचिदात्मकविश्ववृत्यणुत्वस्थूलत्वविकारित्वादिनिरूपितस्वाभाविकभेदाश्रयत्वे सति तद्वृत्तिस्वायत्तस्थितिप्रवृत्तिकत्वादिनिरूपितस्वाभाविकाभेदाश्रयो वासुदेव इति सिद्धान्तः । विस्तरस्तु सूत्रवृत्तौ कृतस्तत्र द्रष्टव्यः ॥३॥
अथान्ते स्वधेययं तानुपदिशति स्म—
तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि ॥४॥
तमेकं मुख्यं गोविन्दं सच्चिदानन्दविग्रहं नराकृति पञ्चपदं पञ्चपदमन्त्राभिन्नं ं वृन्दावने ये सुरभूरुहाह्कल्पवृक्षास्तेषां तले आसीनं सततं समरुद्गणः सदेवगणोऽहं मरुत्पुंसिसुरदेवा ते इति श्रीधरः । परमया स्तुत्या तोषयामि ॥४॥
स्तुतिमाह—
ओं नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥५॥
विश्वरूपाय विश्वोत्पादकाय । विश्वस्य स्थित्यन्तयोर्हेतवे । विश्वेश्वराय नियन्त्रे । अत एव विश्वाय विश्वस्य तदुपादेयतया तन्नियम्यतया च तदभिन्नत्वात॥५॥
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमम् ॥६॥
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥७॥
कमलायाः लक्ष्म्याः कमलानां गोपीनां वा पतिस्तस्मै । गोपीनां पतिरेव इति गौतमीयात॥७॥
बर्हापीडाभिरामाय रामयाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमः ॥८॥
बर्हाणां शिखिपिच्छानां,
आपीडेन शेखरेण अभिरामाय सुन्दराय रामय अंशेन बलदेवरूपाय रमणीयाय वा । अकुण्ठा अप्रतिहता मेधा बुद्धिर्यस्य तस्मै,
सर्वज्ञायेति यावत। रमायाः लक्ष्म्याः रमाणां रमणीयानां व्रजसुन्दरीणां वा मानसं मन एव मानसं सरः,
तत्र हंसाय ॥८॥
कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥९॥
वृषभध्वजेन शिवेन वन्द्याय स्तुत्याय । पार्थस्य अर्जुनस्य सारथये ॥९॥
वेणुवादनशीलाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥१०॥
लोलकुण्डलवल्गवे इति पाठे ताभ्यां मनोहराय ॥१०॥
वल्लवीनयनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥११॥
वल्लवीनां नयनान्येवाम्भोजानि तेषां दर्पण इव विग्रहे प्रतिबिम्बितानां माला विद्यते यस्य तस्मै वल्लवीनयनाम्भोजमालिने । वदनाम्भोजेत्यपि पाठान्तरम् । प्रणतानां पालायेति भक्तपक्षपातित्वम् ॥११॥
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावार्तासुहारिणे ॥१२॥
नम इति । पापं प्रणशयतीति तस्मै ।
कृष्णेति मङ्गलं नाम यस्य वाचा प्रवर्तते ।
भस्मीभवन्ति तस्याशु महापातककोटयः ॥ इति स्मृतेः ॥१२॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥१३॥
निष्कलायेति । कलाः पञ्चभूतानि तद्रहिताय भौतिकशरीरशून्याय । यद्वा,
प्रश्नोपनिषद्पठितप्राणादिनामान्तषोडशकलारहिताय । यद्वा,
निष्कं वक्षोऽलङ्करणं लातीति तस्मै ।
निष्कमस्त्री साष्टहेमशते दीनारकर्षयोः ।
वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥ इति मेदिनी ।
विमोहाय विगतमोहाय । शुद्धाय पवित्राय । पवित्राणां हि गोविन्दः पवित्रं परमुच्यते इति स्मृतेः । अशुद्धानामशुद्धिहेतूनां भक्तेषु कामक्रोधादीनां दैत्यत्वासुरादीनां वा वैरिणे नाशकाय,
अद्वितीयाय समाभ्यधिकशून्यायातो महते सर्वज्यायसे सर्वपूज्याय वा ॥१३॥
प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥१४॥
आधिः ईप्सिताप्राप्तौ मानसी व्यथा । व्याधिः दैहिकी सैव । भुजङ्गस्तेन दष्टम् । मामुद्धर आध्यादिकयुक्तजन्ममरणात्मकसंसारमहासर्पादुद्धृत्य स्वसमीपं प्रापयेति भावः ॥१४॥
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥१५॥
स्पष्टार्थः ॥१५॥
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥१६॥
हे केशव ब्रह्मरुद्रजनकः ।
क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशव नामवान॥ इति हरिवंशे ।
हे केशिदमन्निति वा । हे जनार्दन दुष्टजननाशक श्रेयोऽर्थिजनयाच्येति वा ॥१६॥
अथ स्वभक्तिं पुत्रान्शिक्षयति स्म—
अथ हैवं स्तुतिभिराराधयामि यथा,
यूयं तथा पञ्चपादं जपन्तः,
श्रीकृष्णं ध्यायन्तः,
संसृतिं तरिष्यथेति होवाच हैरण्यः ॥
यथा एवं पूर्वोक्ताभिः स्तुतिभिरहमाराधयामि तथा यूयं सनकादयः । श्रीहंसोक्तं पञ्चपदमष्टादशाक्षरं मन्त्रं जपन्तः श्रीकृष्णं मन्त्रं देवतां ध्यायन्तः संसृतिं संसारं तरिष्यथ । हैरण्यो ह स्फुटं तान्प्रत्युवाचेत्यर्थः ॥१७॥
श्रुतिवाक्यमाह—
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः
स यात्यनायासतः केवलं तत्पदं तत॥१८॥
यः कोऽपि गुर्वाश्रितः सनमुं मन्त्रमावर्तयेत्निरन्तरं जपेत्,
स अनायासतः अश्रमेण केवलं शुद्धं तत्प्रसिद्धं गोलोकाख्यम् । तत्पदं तस्य पदं स्थानम् ।
ता वां वास्तून्युश्मसि गमध्यै
यत्र गावो भूरि शृङ्गा अयासः ।
अत्राह तदुरुगायस्य कृष्णः
परमं पदमवभाति भूरि ॥
इति यजुर्वेदीयमाध्यन्दिनशाखाप्रसिद्धम् । याति प्राप्नोति ॥१८॥
पदं विशिनष्टि—
अनेजदेकं मनसो जवीयो
नैतद्देवा आप्नुवन्पूर्वमर्षद॥१९॥ इति ।
एजृ कम्पने । अकम्पमानमेकं सर्वलोकमुख्यम् । एते निरपास्तात लोकस्य परमात्मनः इति स्मरणात। मनोजवीयः अशुद्धमनसोऽगोचरः । देवाः ब्रह्मादयोऽपि एतन्नाप्नुवन्भगवत्कृपां विना प्राप्तुं ज्ञातुं वा न शक्नुवन्ति स्म ।
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
उपर्युपरि तस्यापि गतिस्तत्र तपोमयी ॥
न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥
इति श्रीकृष्णं प्रति महेन्द्रोक्तेः । यतस्तेभ्यः पूर्वं पुराणमेव अर्षत्प्राप्तम् । ऋषी गतौ तुदादिः लङाडभावश्छान्दसः । नहि पुराणं वस्त्वर्वाचीनैः सम्यक्ज्ञायते इति भावः । यद्वा,
अनेजदित्यादिकं धामवतो विशेषणम् ।
यस्य पदं तत्कीदृशमित्यत आह—
अनेजत्निष्कम्पम् । एकं प्रधानतमम् । प्रधानं शास्त्रविदुषामिति रुद्रस्मृतेः । स्वानधीनस्वसमानद्वितीयशून्यं वा परमसाम्यापन्नानां मुक्तानामपि परब्रह्माधीनत्वात। न तत्समश्चाभ्यधिकश्च दृश्यते इति श्रुतेः । न त्वत्समोऽस्त्यधिकः कुतोऽन्यः इति स्मृतेश्च । वेगवतो मनसो जवीयो वेगवत्तरम् ।
ननु निष्कम्पं वेगवत्तरं चेति विरुद्धमिति चेत्,
विभुत्वाद्वस्तुतो नैजति,
तत एव मनसोऽप्यगोचरदेशे सर्वदा वर्तमानतया मनसो जवीय इत्युपचर्यत इति गृहाण ।
किं च,
देवा ब्रह्मादयोऽपि एतत्परं ब्रह्मनाप्नुवनेतावन्तं कालं न लेभिरे,
यतः पूर्वं प्रागर्षद्सर्वान्प्राप्नुवत।
ननु पूर्वमेव प्राप्तं,
नाप्नुवन्निति च विरुद्धमिति चेत्,
विभुत्वेन प्राप्तमपि कर्मसङ्कुचितज्ञानैर्जीवैर्गुरूपदेशमन्तरा स्वबुद्ध्या नाप्यते इति गृहाण । तथा हि छान्दोग्ये,
तद्यथा—
हिरण्य निधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेव मेवेमाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दत्यनृते न प्रत्यूढाः इति ॥१९॥
अतः सर्वोत्कृष्टत्वात्श्रीकृष्ण एव यजनीयो ध्येयो रसनीयो भजनीयश्चेत्युपसंहरति स्म—
तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेत्तं भजेदिति ओं तत्सदिति ॥२०॥
इति गोपालतापिन्युपनिषदि पूर्वे भागे पञ्चमोऽध्यायः
यत एवं तस्य महिमा तस्मात्कीदृशमित्याह—
ओं तत्सदिति । ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति स्मृतेः । ओंकारादिनामत्र यो वाच्यमित्यर्थः । इति शब्दपूर्वतापिनीसमाप्त्यर्थः ॥२०॥
इति श्रीगोपालतापिन्याः कृष्णतत्त्वप्रकाशिका व्याख्या पूर्वभागस्य सम्पूर्तिमगमन्मिता
इति श्रीनिम्बार्कमतानुयायि श्रीरणछोरशरणदेवविरचित
प्रकाशिकाटीकासंवलितायां श्रीगोपालतापिन्युपनिषदि पञ्चमोऽध्यायः ॥
गोपालतापनीयोपनिषद्
पूर्वतापनी
(
१)
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
विश्वेश्वरःः परमकरुणिकतया सगुणोपासनक्रमेण अधिकारिजनानामनर्थनिवृत्तये सच्चिदानन्दस्वरूपश्रीकृष्णात्मावप्तये च श्रीगोपालविद्यामुद्दीपयन्ती तापनी श्रुतिः श्रोत्è
णामविघ्नविद्यासिद्धये सदाचारबोधनाय विषयसौलभ्यप्रकाशनेन तत्प्रवृत्तिसिद्धये च प्रतिपाद्यपरमदैवतप्रणतिलक्षणं मङ्गलं प्रकाशयति सच्चिदानन्दरूपायेति । कृष्णाय नमः इति सम्बन्धः कृष्शब्दः सच्चिद्वाचकः । णशब्दश्चानन्दवाचक इत्यभिप्रेत्य कृष्णशब्दार्थमाह सदिति । सच्चिदानन्द एव स्वरूपं यस्य सः । तस्मै क्लेशकर्षकत्वं कृष्णशब्दार्थमाह अक्लिष्टेति । अक्लिष्टमविद्यास्मितारागद्वेषाभिनिवेशलक्षणक्लेशपञ्चकरहितं भक्तजनं करोति तच्छीलाय । तत्सद्भावे प्रमाणमाह वेदान्तवेद्याय लक्षणावृत्त्या प्रकाश्याय इत्यर्थः । तं त्वौपनिषदं पुरुषं पृच्छामीति वेदैश्च सर्वैरहमेव वेद्य इति श्रुतेः स्मृतेश्च । नमस्यतौपयिकं रूपमाह विशेषणद्वयेन । गुरवे सर्वहितोपदेष्ट्रे बुद्धेः सर्वेन्द्रियप्राणमनोधिया साक्षिणे । एतेन ज्ञानदातृत्वेन प्राधान्यं सूचितम् । वेदान्तवेद्याय इति विषयः सूचितः । उपनिषच्छब्दवाच्यत्वादपि तापन्या विषयप्रयोजनादिकं सूचितम् । तथा हि ये इमां गोपालविद्यामुपयान्ति मुमुक्षस्तेषामियं गोपालविद्या गर्भजन्मजरारोगाद्यनर्थव्रातं शातयति तथा कृष्णाख्यं संसारविनिवर्तकं परं ब्रह्म गमयति । संसारहेत्वविद्यादिकं च अत्यन्तमवसादयति विनाशयतीति व्युत्पत्त्या गोपालविद्या उपनिषदुच्यते । तद्द्हेतुत्वाच्च ग्रन्थो=पि उपनिषदित्युच्यते । आयुर्वै घृतमित्यादिवत। अत्र मुमुक्षुरधिकारी कृष्णाख्यं संसारविनिवर्तकं सच्चिदानन्दस्वरूपं विषयः आत्यन्तिकी संसारनिवृत्तिः कृष्णस्वरूपावाप्तिश्च प्रयोजनम् ।
ब्रह्मोपनिषद्योगीः
श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥
इह खलु अथर्वणवेदप्रविभक्तेयं गोपालतापिन्युपनिषत्सविशेषब्रह्मसाम्राज्यप्रकटनव्यग्रा निष्प्रतियोगिकनिर्विशेषब्रह्ममात्रपर्यवसन्ना विजयते । अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते । मौनिमण्डलब्रह्मणोः गोपीमण्डलदुर्वाससोः ब्रह्मनारायणयोश्च प्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुल्यार्था । विद्यादौ मङ्गलं कुर्वन्त्याख्यायिकामवतारयति –
सच्चिदानन्देति । अनृतजडदुःखप्रपञ्चग्रासः सच्चिदानन्दः । स एव कृषिशब्दवाच्यस्वातिरिक्तप्रपञ्चजातं मुष्णाति स्वावशेषतया ग्रसतीति कृष्णः । स्वभक्तजनमक्लिष्टमाविद्यकदुःखविरलं करोतीति । अक्लिष्टकारी । वेदान्ता उपनिषदः तत्प्रमाणसिद्धत्वाद्वेदान्तवेद्यः । सर्वप्राणिहितोपदेष्टृत्वाद्गुरुः । बुद्धिवृत्तिसहस्रभावाभावेक्षितृत्वात्सर्वप्रत्यगात्मतया बुद्धिसाक्षी । तस्मै उक्तविशेषणविशिष्टाय कृष्णाय नमः । नमःशब्दः कृष्णात्मनोरभेदद्योतकः । नमस्त्वैक्यं प्रवदेतिति श्रुतेः ॥१॥
प्रबोधानन्दःः
कन्दर्पकन्दकृष्णाय गोविन्दाय नमोऽस्तु ते ।
गोपीजनवल्लभाय स्वानुरक्तात्महारिणे ॥
श्रीगोपालतापनीयश्रुतेष्टीकां शुभावहाम् ।
कुर्वे श्रीकृष्णचैतन्यशक्त्या श्रीकृष्णवल्लभाम् ॥
श्रीमत्सञ्चितग्रन्थप्रतिपादनरहस्यमाविष्कृतं मयात्र परं देवकर्तृरूपेश्वरं श्रीकृष्णपूर्णतमसमस्तमहाशक्तिं निजपरमस्वरूपं श्रीकृष्णरहस्यप्रतिपादिकां तापिनीयोपनिषदाविर्भविष्यन्प्रणमति श्रुतिदेवी वा सप्रतिपाद्यश्रीकृष्णे स्वस्य विश्वस्य वा तदायत्ततां प्रार्थयति ।
प्रबोधानन्दजीवयोःः अथ—
क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ।
लकारात्पृथिवी जाता ककाराज्जलसम्भवः ॥
इत्यादिभिः [२.१५;
ःB
्V
१.३१] श्रीमता गौतमेन भगवता स्वीयतन्त्रस्य प्रमाणतया दर्शिता पूर्वतापनी । तदिह कादापो लात्पृथिवी ईतोऽग्निर्बिन्दुरिन्दुस्तत्सम्पातादर्क इति क्लींकारादसृजदित्यादिप्रतीकमयी गुर्जरादिदेशप्रसिद्धपराशरगोत्रादिब्राह्मणसम्प्रदायप्राप्ताथर्ववेदस्थपिप्पलादशाखादिपठिता श्रीगोपालतापन्याख्या श्रुतिरियम् । स्वप्रतिपाद्यं श्रीकृष्णमेव सर्ववेदान्तसम्मत्या सर्वोत्तमत्वेन प्रतिपादयन्ती नमस्करोति—
सच्चिदानन्दरूपायेति ।
कृष्णय नम इत्यन्वयः । कृष्णाय देवकीनन्दनायेति । ब्रह्मण्यो देवकीपुत्रः [छाऊ,
३.१७.६] इति च । यः सामोपनिषदादिषु,
यश्चकृष्णस्तु भगवान्स्वयं [भ्P
१.३.२८] इति श्रीभागवतादिषु प्रसिद्धस्तस्मा एव । कायेन मनसा चात्मानं समर्पयामीत्यर्थः । तदुपर्यन्यस्यासद्भावात। तथैव स्वरूपेण विशिनष्टि सच्चिदिति । सत्कालदेशाद्यपरिच्छिन्नम् । चित्स्वप्रकाशम् । आनन्दश्चातुल्यातिशयसुखम् । रूपं किं तद्रूपमित्यादि वक्ष्यमाणप्रश्नोत्तराभ्यां श्रीविग्रहाकारस्वरूपं यस्य तस्मै । शक्त्याधिक्येन विशिनष्टि—
अक्लिष्टकारिण इति । अनायासेन सर्वकर्तृत्वात। सर्वतोऽप्यचिन्त्यशक्तय इत्यर्थः । ब्रह्माणं प्रति तत्क्षणेनैव स्वान्तर्यामिससाम्ग्रिकानन्तब्रह्माण्डमण्डलाविर्भावनादेः । अघासुरादीनामपि महाज्ञानिदुर्लभमोक्षस्याशुप्रदानात। पूतनाया अपि तत्क्षणादेव महादुर्लभजननीसाम्यप्रापणात्—
ब्रह्मशिवादिभ्य इव स्थावरेभ्योऽपि वेणुवाद्यादिभिः सहसा पुलकादिमयमहाप्रेमप्रदानात। प्रतिक्षणमपि स्वस्यापि विस्मापनरूपेण सुष्ठुसर्वचमत्कारकरणात। श्रीशुकसीमपरमहंसश्रीविरिञ्चिलक्ष्मीसीमपरमभक्तगणस्पृहणीयसौभाग्यधरस्वभावसिद्धनिजपरिकरवृन्दबन्धुवरत्वाच्च । तत्र तत्र किं प्रमाणमित्याशङ्क्य प्रमाणविशेषप्रमेयत्वेन विशिनष्टि वेदान्तवेद्याय इति वेदान्तैः सर्ववेदसमन्वयसिद्धार्थैर्वेदशिरोभिर्वेद्याय । अत्र श्रीविग्रहस्य तादृशत्वं श्रीभागवतेन क्रमादुदाह्रियते—
योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुः [भ्P
१०.३.२६] न चान्तर्न बहिर्यस्य [भ्P
१०.९.१३] इत्यादिना । स त्वं कथं मम विभोऽक्षिपथं परात्मा [भ्P
१०.६४.२६] इत्यादिना । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भ्P
१०.१४.३२] इत्यादिना च । अक्लिष्टकारित्वस्य प्रमाणानि च तत्र प्रसिद्धाण्येव । वेदान्तवेद्यत्वं च यथा श्रीमद्गीतोपनिषत्सु वेदैश्च सर्वैरहमेव वेद्यः [ङीता १५.१५] इति । श्रीभागवते चमां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहं [भ्P
११.२१.४३] इति ।
ननु वेदान्तस्य तादृगर्थज्ञानं कुतः स्यात्?
तत्राह—
गुरव इति । तदर्थोपदेष्टृत्वेनाप्याविर्भाविने । तदनुभवेऽपि स एव हेतुरित्याह—
बुद्धिसाक्षिण इति । बुद्ध्यधिष्ठातृरूपेण तत्प्रतिपादितनिजरूपानुभवस्यापि कारयित्रे इत्यर्थः । तस्मात्स एव शरणत्वेनाश्रयणीय इति तात्पर्यम् । अत्र विनैव फलोद्देशं नमस्कारनिर्देशाच्छुद्धभक्त एवाधिकारी । कृष्णाख्यं तादृशवस्तु विषयः । शुद्धभक्तिरेव प्रयोजनम् । अथ ग्रन्थप्रज्योजनादीनां साध्यसाधनभावः सम्बन्ध इत्यभिप्रेतम् ॥१॥
ओ)०(ओ
(
२)
ओं. मुनयो ह वै ब्राह्मणमूचुः—
कः परमो देवः ?
कुतो मृत्युर्बिभेति ?
कस्य विज्ञानेनाखिलं विज्ञातं भाति ?
केनेदं विश्वं संसरतीति.
विश्वेश्वरःः ग्रन्थप्रयोजनादीनां च साध्यसाधनभावः सम्बन्ध इत्यभिप्रेत्य गोपालविद्यास्तुत्यर्थमाख्यायिकामारचयति—
मुनयो ह वै ब्रह्माणमिति । ह वै इत्यव्ययम् । ह वै स्मर्यते । मुनयः तत्त्वमननशीलाः सनकादयः ब्रह्माणं प्रति ऊचुः । किं ?
कः परमः सर्वोत्कृष्टो देवः । कुतः कस्माच्च मृत्युः बिभेति त्रस्यति । कस्य विज्ञानेन अखिलं सकलं जगत्भाति । केनेदं विश्वं संसरति प्रसरति उत्पद्यते ॥२॥
ब्रह्मोपनिषद्योगी ः एवं प्रत्यग्ब्रह्मैक्यलक्षणं मङ्गलं कृत्वा आख्यायिकां गोपालब्रह्मविद्यामवतारयति—
ओमिति । ओमोङ्कारार्थं ब्रह्म तदतिरिक्तं न किंचिदस्ति इति मननशीलाः मुनयः नारदादयः विदितब्रह्मतत्त्वा अपि स्वाज्ञलोकोद्धरणं कर्तव्यमिति मनीषया ब्राह्मणं ब्रह्माणं प्रत्येवमूचुः । किमिति?
कः परमो देव इति ॥२॥
सनातनः (हरिभक्तिविलासे)ः ह स्फुटं,
वै प्रसिद्धम् । ब्राह्मणं ब्रह्मवेत्तारं ब्रह्माणमित्यर्थः ॥
प्रबोधानन्दःः निजाभीष्टं तथैव प्रश्नोत्तराभ्यां दर्शयति—
ओं मुनय इति । ओमिति वागारम्भे मङ्गलार्थं,
तस्यैव भगवन्नाममन्त्रादिमयसर्ववाचां प्रभवस्थानत्वात। मुनयः प्रथमप्राप्तत्वात्सनकादयः । ह वै स्मरणे देव आराध्यः । देवत्वज्ञानार्थमेव तद्विशेषान्पृच्छन्ति कस्मादिति । मृत्युस्तत्परम्परा । अखिलं भाति अखण्डं प्रकाशते । संसरति स्वस्वकार्ये प्रवर्तते ॥२॥
श्रीजीवःः प्रश्नोत्तराभ्यां दर्शयति—
ओं मुनय इति । ओमिति वागारम्भे मङ्गलार्थम् । तस्यैव भगवन्नाममन्त्रादिमयसर्ववाचां प्रभवस्थानत्वात। मुनयः प्रथमप्राप्तत्वात्सनकादयः । ह वै स्मरणे । देव आराध्यः । देवत्वज्ञानार्थमेव तद्विशेषान्पृच्छन्ति कुत इति कस्मात। मृत्युस्तत्परम्परा । अखिलं भाति अखण्डं प्रकाशते । संसरति स्वस्वकार्ये प्रवर्तते ॥२॥
ओ)०(ओ
(
३)
तदु होवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेन तज्ज्ञानं भवति । स्वाहयेदं संसरतीति ।
विश्वेश्वरःः तदु हेति । तत्तत्र प्रश्नेषु ब्राह्मणः छान्दसत्वात्ब्रह्मा उ अपि तान्प्रति ह किल गोपालविद्ययैवोत्तरमुवाच । किं ?
श्रीकृष्णो वै प्रसिद्धं परमं दैवतम् । कृष्शब्दः सत्तावाचकः णकारश्च आनन्दवाचकः । तथा च सदानन्दः परमं दैवतमित्यर्थः । यद्वा,
भक्तपापकर्षणात्कृष्णः परमं दैवतमित्यर्थः ॥३॥
गोविन्दादिति । गवा ज्ञानेन वेद्य उपलभ्यः गोविन्दः । तस्मातुपलब्धातमृतस्वरूपावाप्तौ मृत्युर्बिभेति । भयेन तदाज्ञाकारी भवति इत्यर्थः । भीषास्माद्वातः पवते भीषोदेति सूर्यः (तैत्तरीय २.८) इत्यादि श्रुतेः ॥४॥
गोपीजनेति । इदं सकलं जगत्नामरूपाभ्यां गोपायति रक्षति । अथवा,
परं पुमांसं परब्रह्मस्वरूपं गोपायति संवृणोतीति व्युत्पत्त्या गोपी प्रकृतिर्माया तस्याः सकाशाज्जातः प्रपञ्चः गोपीजनः तस्य वल्लभः स्वामी ईश्वरः उत्पादनपालनसंहरणाधानमित्यधिष्ठानत्वात्तद्विज्ञानेन तदखिलं विं [विश्वं] विज्ञातं भवति । यथा एकेन मृत्पिण्डेन अखिलं मृण्मयं विज्ञातं भवति इति श्रुतिस्मृतीतिहासलोकेषु प्रसिद्धः ॥५॥
स्वाहयेति । सुष्ठु आह आहुतिक्रिया यया सा स्वाहा इति व्युत्पत्त्या स्वाहाशब्दवाच्यया मायया इदं जीवजातं संसरति संसारवद्भवति इत्यर्थः ॥६॥
ब्रह्मोपनिषद्योगीः नारदादिभिरेवं पृष्टो ब्रह्मा गोपालमन्त्रराजविद्यया उत्तरमाचष्टेतदु होवाच ब्राह्मण इति । किमिति ?
कृष्ण इति । स्वभक्तपटलस्वातिरिक्तास्तित्वविभ्रमकर्षणात्कृष्णो वै प्रसिद्धः परमं दैवतम् ।
तं देवतानां परमं च दैवतं (S
ःवेताश्वतर ५.७) इति श्रुतेः ।
कः परमो देवः ?
इति प्रश्नमपाकृत्य,
कुतो मृत्युर्बिभेति इति प्रश्नमपाकरोति—
गोविन्दादिति । गोभिर्गीर्भिः तत्त्वमस्यादिमहावाक्यततिभिः स्वातिरिक्ताविद्यापदतत्कार्यजातासम्भवप्रबोधसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति विन्दते उपलभ्यते इति गोविन्दः । तस्मात्गोविन्दात्स्वासक्तं मृतिं नयतीति मृत्युः स्वातिरिक्तास्तित्वविभ्रमः बिभेति । गोविन्दस्य निष्प्रतियोगिकाद्वितीयत्वं मृत्योः भीहेतुरित्यर्थः । भीषास्माद्वातः पवते (तैत्तरीय २.८) इत्यादि श्रुतेः ।
कस्य विज्ञानेन अखिलं विज्ञातं भवतीति प्रश्नोत्तरमाह—
गोपीति । स्वातिरिक्तास्तित्वभ्रमं नामरूपाभ्यां गोपायतीति गोपी । यद्वा,
स्वमात्रं ब्रह्म गोपायति आवृणोतीति गोपी माया । तदविद्यांशतो जनित्वा तद्विद्यांशतो नश्यतीति स्वातिरिक्तास्तित्वविभ्रमरूढमूलस्वातिरिक्तप्रपञ्चो गोपीजन इत्युच्यते । तद्भावाभावावभासकप्रत्यगभिन्नब्रह्मात्मना तल्लयाधिकरणतया भातीति गोपीजनवल्लभः परमात्मा स्वाधिष्ठेयप्रपञ्चविलयसापेक्षप्रसक्ताधिष्ठानत्वासम्भवप्रबोधसिद्धो निष्प्रतियोगिकस्वमात्रमिति तज्ज्ञानेन एतत्सर्वमाविद्यकं जगन्निष्प्रतियोगिकाभावरूपतया विज्ञातं भवति,
निष्प्रतियोगिकब्रह्ममात्रमवशिष्टं भवतीत्यर्थः । केनेदं विश्वं संसरतीति प्रश्नोत्तरं तु—
या च प्रागात्मनो मे मा तथान्ते च तिरस्कृता ।
ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः ॥
इति श्रुतिः (वराहोपनिषद्२.५१) निष्प्रतियोगिकभावरूपब्रह्ममात्रातिरेकेण कालत्रयेऽपि नास्त्येवेति यां सुष्ट्वाह सेयं स्वाहा माया तया इदं विश्वं जीवजातं संसरति संसारवत्भवतीत्यर्थः ॥२॥
सनातनः ः तद्ब्रह्म दैवतमिति पूर्वप्रक्रान्तं वा । पापकर्षन इति द्वितीयस्य पदार्थः । गौः स्वर्गः । गोभूमिवेदेषु विदितः । तेषां च वेदितेति तृतीयस्यार्थः । गोपीजनोऽविद्यायाः कलाः स्त्रीत्वातंशास्तत्प्रेरकः । यद्वा,
गोपीजना एव आ सम्यक्विद्या । प्राप्त्युपायत्वात। सैव कला शक्तिविशेषस्तस्याः प्रेरक इति चतुर्थस्य । तन्माया चेति पञ्चस्येति दिक।
प्रबोधानन्दःः तदेवं पृथग्विषयमिवाचरितानां प्रश्नानामुत्तराण्यपि क्रमेणैव तादृगेवाहेति वक्त्रमाह—
तदुहोवाचेति । तत्तान्प्रति उ अवधारणे ह स्फुटमिति । स्फुटमेवोवाचेत्यर्थः । स चात्र ब्रह्मा । तदुहोवाच हैरण्य इति हिरण्यगर्भत्वेन वक्षमाणात॥३॥
श्रीजीवःः तदेवं पृथग्विषयमिवाचरितानां प्रश्नानामुत्तराण्यपि क्रमेणैव तादृगेवाहेति वक्त्रमाह—
तदुहोवाचेति । तत्तान्प्रति । उ अवधारणे । ह स्फुटमिति । स्फुटमेवोवाचेत्यर्थः । ब्राह्मणो ब्रह्मविद्वेदार्थतत्त्वज्ञः परब्रह्मानुभवी च । स चात्र ब्रह्मा । तदुहोवाच हैरण्य इति हिरण्यगर्भत्वेन वक्ष्यमाणात॥३॥
ओ)०(ओ
(
४)
तदु होचुः । कः कृष्णः । गोविन्दश्च कोऽसाविति ।
गोपीजनवल्लभः कः । का स्वाहेति ॥
विश्वेश्वरःः एवं गूढार्थे ब्रह्मणा उक्ते तदर्थजिज्ञासवो मुनहः तत्तत्र उ ह पूर्वमूचुः इत्याह—
कः कृष्ण इति ॥७॥
ब्रह्मोपनिषद्योगीः एवं ब्रह्मोक्तार्थं निशम्य विशेषार्थबुभुत्सया मुनहः पृच्छन्तीत्याह—
तदु होचुरिति । तत्तदुक्तार्थ उ ह पूर्ववदूचुः । किमिति ?
कः कृष्ण इति ॥४॥
प्रबोधानन्दःः ततः कृष्णादीनां तत्तद्भावज्ञानार्थं पुनः प्रश्न इत्याह तदुहोचुरिति । श्र्तिर्मुनिप्रश्नानुसारतो ब्रह्मद्वारा श्रीकृष्णाष्टदशाक्षरमन्त्ररूपेण । श्रीकृष्णरहस्यं सर्वं वर्णयितुं मुनिप्रश्नानवतारयति । सर्वेषामेकमत्याश्चर्यरहस्यप्रश्नेऽपि सङ्कोचं न कृतवन्तः । तेन शङ्काभावात्स्पष्टमूचुः । भजनरसविशेषः कथं स्यादिति विचाररूपमननपरवशतया वा ब्राह्मण इति । ब्रह्मभावभावनयैवावस्थितमित्यर्थः । अत एव श्रीकृष्णाख्यं प्रतिपादयति परमो देवः श्रीकृष्णः तद्भजनं ब्रह्मानन्दसमूहरूपं व्याचष्टे ब्रह्मानन्दचमत्काराभेदात। मृत्युर्माया मृत्यूपलक्षितजीवसंसारहेतुभूता कुतो बिभेति प्रायशो भगवत्स्वरूपाणि वेदमर्यादानुसारीणि एव । ज्ञानप्रेमातिशयदर्शनेऽपीत्येवं प्रश्नः । ब्राह्मणेति,
अर्थविशेषलाभाय कृष्णरूपदेवो भगवान्कृष्ण एवेति । कृष्णो हि पूर्णसमस्तशक्तिमान। कृष्णः परमं परमपुरुषार्थसीमस्वरूपम् । कृष्णे एकान्तभक्तिमद्भ्योऽपि तन्मायैव बिभेति । कस्य ज्ञानेनाखिलं भातीत्यस्योत्तरमाह—
गोपीजनवल्लभज्ञानेन तत्सकलं भगवत्स्वरूपज्ञानं भवति । स कृष्णो गोपीजनवल्लभशब्दार्थतया ज्ञातश्चेद्भवति तदा तज्ज्ञानेन सर्वं ज्ञायत इति । ताः प्रेमशक्तयः । तत्समूहस्य वल्लभः प्रेमशक्त्यपरनाम्नी स्वा श्रीकृष्णभक्तिः हा इति स्वीया ॥४॥
श्रीजीवःः ततः कृष्णादीनां तत्तद्भावज्ञानार्थं पुनः प्रश्न इत्याह तदुहोचुरिति ॥७॥
ओ)०(ओ
(
५)
तानुवाच ब्राह्मणः । पापकर्षणो गोभूमिवेदविदितो विदिता गोपीजनविद्याकलाप्रेरकस् तन्माया चेति सकलं परं ब्रह्मैव तत॥
विश्वेश्वरःः प्रागुक्तार्थे ब्रह्मा प्राह इत्याह—
तानुवाच ब्राह्मण इति । ब्राह्मणः ब्रह्मा । तान्सनकादीन्प्रति उवाच । कृष्णस्वरूपमाह पापेति । पापकर्षकत्वात्प्रागुक्तरीत्या च सच्चिदानन्दरूपत्वात्पापकर्षकसच्चिदानन्द एव कृष्णः । अतः परमो देव इत्यर्थः । गोविन्दस्वरूपमाह गोभूमिवेदविदित इति । गवि भूमौ गोशब्दवाच्यात्वेदात्विदितः विदिता वेत्ता द्रष्टा गोविन्दः । अतस्तस्मादधिष्ठानतया ज्ञात्वा मृत्युः बिभेति इत्यर्थः । गोपीजनवल्लभस्वरूपमाह गोपीजनेति । गोपायन्तीति गोप्यः पालनशक्तयः तासां जनः समूहः तद्वाच्या अविद्याकलाः च तासां वल्लभः स्वामी प्रेरकः ईश्वरः इति व्युत्पत्त्या गोपीजनवल्लभस्येश्वरस्य सर्वाधिष्ठानस्य ज्ञानेन सर्वमारोपितत्वेन विदितं भवति इत्यर्थः । स्वाहास्वरूपमाह तन्मायेति । प्रागुक्तरीत्या तस्य ईश्वरस्य अधीना माया स्वाहा तया सर्वं संसरति इत्यर्थः ॥८॥
ब्रह्मोपनिषद्योगीः एवं मुनिभिः पृष्टः—
तानुवाच ब्राह्मण इति । किमिति ?
पापकर्षण इति । सच्चिदानन्दात्मना अनृतजडदुःखात्मकपापकर्षणात्पापकर्षणः कृष्णशब्दार्थः । गोविन्दशब्दार्थस्तु गोभूमिवेदविदित इति । गोभिः वेदैः विदितत्वात्गोविन्द इत्यर्थः । गोपीजनवल्लभशब्दार्थमाह—
गोपीति । गोपायन्तीति गोप्यः पालनशक्तयः तासां जनः समूहः । स्वातिरिक्तविद्या अविद्याकलाजातं पिबति ग्रसतीति गोपीजनविद्याकलापी,
विद्याकलापः अस्यास्तीति वा । प्रेरकः सर्वान्तर्यामित्वात। स्वाहास्वरूपमाहतन्माया चेति । तया हि स्वाज्ञलोकः संसरति । कलया सहितं सकलं शबलमीश्वराख्यं वस्तु स्वगतविशेषांशापाये परं ब्रह्मैव तत॥५॥
सनातनः ः तद्ब्रह्म दैवतमिति पूर्वप्रक्रान्तं वा । पापकर्षन इति द्वितीयस्य पदार्थः । गौः स्वर्गः । गोभूमिवेदेषु विदितः । तेषां च वेदितेति तृतीयस्यार्थः । गोपीजनोऽविद्यायाः कलाः स्त्रीत्वातंशास्तत्प्रेरकः । यद्वा,
गोपीजना एव आ सम्यक्विद्या । प्राप्त्युपायत्वात। सैव कला शक्तिविशेषस्तस्याः प्रेरक इति चतुर्थस्य । तन्माया चेति पञ्चस्येति दिक॥५॥
प्रबोधानन्दः ः तत्र क्रमेणोत्तरं दर्शयितुमाह—
तानुवाचेति । प्रायमत्रासुरापराधपर्यन्तं यस्तेषामपि सर्वापराधनाशनः स एव परमाराध्य इत्यर्थः । कर्षति सर्वापराधानिति कृष्णशब्दस्य निरुक्तिविशेषात। तत एवं भूतत्वेन । श्रीमद्भागवतादौ प्रसिद्धः । स एव तच्छब्दाभिधेय इति भावः । अत्र—
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः इत्याद्यनुसारेण केषांचिन्मते सच्चिदानन्दरूपता तु सच्चिदानन्दरूपायेत्यनेनोक्ता ।
अथ मोक्षशब्दस्य नानार्थत्वतां प्रत्ययभेदं चावलम्ब्याह—
गोभूमीति एकविशेषणं गौः प्रसिद्धपशुजातिविशेषः । गौर्भूमिश्च गौर्वेदश्चेति गावः तेषु विदितो विख्यात इति तान्विदितावेदिता लब्धेति च गोविन्द इत्यर्थः । अत्र पशुजातिविशेषणेन श्रीमन्नन्दगोकुलस्था एव गाव उच्यन्ते,
तत्रैव तस्य विख्यातेः । ताभिश्च श्रीमन्नन्दगोकुलमखण्डमेवाभिलक्ष्यते । तत्र विदित इति स्वैरक्रीडत्वेन प्रसिद्ध इत्यर्थः । मथुराद्वारकादिलीलायां दैत्यानां युद्धमरणादिरूपं धर्मं मर्यादीकृत्यैव मारणा अत्र तु पूतनादौ तदनुसरणात्तत्रापि महाभक्तवत्तत्र गतिदानात्स्वैर क्रीडत्वेनैव व्यक्तीभवतीति । तस्माद्गोविन्दादेव मृत्युरधिकं बिभेतीति भावः । तथैव हि भूमिषु सर्वभुवनेषु तथा वेदेषु विदित उद्घुष्यत इत्यर्थः । विदितेति पक्षे स एवार्थः । गोकुले स्वरूपेण भूमिवेदयोर्यशोद्वारा तस्य तथा प्राप्तत्वात।
गोपीजनेति गोपीजनरूपाः खलु गोपीजनवल्लभज्ञानेन तज्ज्ञातं भवतीति पूर्वोक्तात। अविद्यायाः कलाः सम्यग्विद्यायाः प्रेमभक्तिविशेषरूपाया मूर्तयः । तासां प्रेरकः स्वलीलासु प्रवर्तको रमण इत्यर्थः । राजविद्या राजगुह्यं [ङीता ९.२] इति श्रीमद्भगवद्गीताप्रकरणात।
आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितातः (५.३७) ।
स वो हि स्वामी भवति इत्युत्तरतापनीभ्यः । अत्रान्यत्र च तथा ध्यानोपदेशाच्च । अर्थान्तरे यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्न [ङ्टू २.२३] इत्युत्तरतापिनीवाक्यम् ।
ह्लादिनी सन्धिनी संवित्त्वय्येका गुणसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ [V
इP
१.९.४४४५] इति विष्णुपुरानवाक्यम् ।
ह्लादिन्या संविदाश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥ इति स्वामिसूक्तं [१.७.६] च विरुद्ध्यते ।
उक्तं च ताभिराश्लेषणे तस्यापि प्रकाशाधिक्यम् । तत्रातिशुशुभे ताभिर्भगवान्देवकीसुतः [भ्P
१०.३२.२] इति ।
तस्माद्गोविन्दत्वज्ञानेऽपि परमप्रेमात्मकतद्विशिष्टताज्ञानेनैव सुष्ठु तज्ज्ञानं भवतीति भावः । यत एवोक्तं श्रीमदुद्धवेनापि वाञ्छन्ति यद्भवभियो मुनयो वयं च [भ्P
१०.४७.५८] इति । नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः [भ्P
१०.४७.६०] इति च । अतो यद्ब्रह्मसंहितायाम्—
चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति श्रूयते ।
तदपि वैकुण्ठादिप्रसिद्धलक्ष्मीतोऽप्याधिक्या महालक्ष्मीत्वेन मन्तव्यम् ।
तन्माया चेति । स्वाहाशब्देन तन्मायोच्यत इत्यर्थः । माया चात्र योगमाया चिच्छक्तिरिति यावत। तत्कृपा वा ।
त्रिगुणात्मिकाथ ज्ञानं तथा चिच्छक्तिरेव च ।
मायाशब्देन भण्यन्ते शबदतत्त्वार्थवादिभिः ॥ इति शब्दमहोदधिपाठात।
माया वयुनं ज्ञानमिति निघण्टुः । माया दम्भे कृपायां च इति विश्वप्रकाशात। चिच्छक्तितः कृपायां च सर्वेषां सर्वप्रवृत्तिभूतायास्तस्य एव स्यादिति पूर्वप्रश्नोपयोग्युत्तरमायाति । को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्यात्[टैत्तरीय ऊपनिषद्२.७.१] इति । चक्षुषश्चक्षुः इति । यस्य भासा सर्वमिदं विभाति इति श्रुतेः [कठ्२.२.१५] । न च संसरति मायेत्यस्य वा । अन्यथार्थत्वमाशङ्क्य श्रीभगवति स्वात्मार्पणार्थस्वरूपत्वेन निर्वक्षमाणस्य तत्पदस्य संसारहेतुरूपार्थत्वविरोधात।
तदेवं प्रश्नानुसारेण पृथगिव तानर्थान्निरूप्य अपृथक्त्वमेव दर्शयति । सैव पर्यवसीय तस्य शब्देन क्षेत्रज्ञा इति चित्प्रकृतिः परा । तया अव्यक्त उद्भूतिमुखचेष्टितवर्णबन्धः । अत एव हि विश्वस्य लयः स्वाहा लयो भवेदिति भावः । तादात्म्योपपन्ना सैवोक्ता । सकलं परं ब्रह्मैव तदिति । तत्पूर्वोक्तचतुष्टयार्थकज्ञातं श्रीकृष्णाख्यं नराकृति परं ब्रह्मैव इत्यर्थः । श्रीकृष्णस्यैव विशेषणभेदेन गोविन्दादिव्यपदेशद्वयात्पञ्चमपदार्दस्य च तत्स्वरूपशक्तित्वेन तदभेदादिति भावः । अस्यैव ब्रह्मत्वमुत्तरतापन्यां दर्शयिष्यते । कथं वास्यावतारस्य ब्रह्मता भवतीत्यादौ । यथैव विष्णुपुराणे [४.११.२]
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णः कृष्णाख्यं परं ब्रह्म नराकृति ॥ इति ।
श्रीमद्भागवते च गूढं परं ब्रह्म मनुष्यलिङ्गं [भ्P
७.१०.४८] इति । तदमितं ब्रह्म द्वयं शिष्यते [भ्P
१०.१४.१८] इति । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भ्P
१०.१४.३२] इति । श्रीमद्भगवद्गीतासु च—
ब्रह्मणो हि प्रतिष्ठाहं [ङीता १४.२७] इति । तदेवं प्रशंसाद्वारापि स्थापयति ॥
श्रीजीवःः तत्र क्रमेणोत्तरं दर्शयितुमाह—
तानुवाचेति । पापमत्रासुरापराधपर्यन्तम् । यस्तेषामपि सर्वापराधनाशनः । स एव परमाराध्य इत्यर्थः । कर्षति सर्वापराधानिति कृष्णशब्दस्य निरुक्तिविशेषात। ततो य एवम्भूतत्वेन श्रीमद्भागवतादौ प्रसिद्धः । स एव तच्छब्दाभिधेय इति भावः । अत्र—
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः इत्याद्यनुसारेण केषांचिन्मता सच्चिदानन्दरूपार्थता तु सच्चिदानन्दरूपायेत्यनेनैवोक्ता ।
अथ गोशब्दस्य नानार्थतां प्रत्ययभेदं चावलम्ब्याह—
गौर्भूमीत्येकशेषेण । गौः प्रसिद्धः पशुजातिविशेषः । गौर्भूमिश्च गौर्वेदश्चेति गावस्तेषु विदितो विख्यात इति तान्विदिता वेदिता लब्धेति च गोविन्द इत्यर्थः । अत्र पशुजातिविशेषत्वेन श्रीमन्नन्दगोकुलस्था एव गाव उच्यन्ते,
तत्रैवैतस्य विख्यातेः । ताभिश्च श्रीमन्नन्दगोकुलमण्डलमेव लक्ष्यते । तत्र विदित इति स्वैरक्रीडत्वेन प्रसिद्ध इत्यर्थः । मथुराद्वारकादिलीलायां दैत्यानां युद्धमरणादिरूपं धर्मं मर्यादीकृत्यैव मारणात। तत्र तु पूतनादौ तदनुसरणात। तत्रापि महाभक्तवत्तत्रापि गतिदानात। स्वैरक्रीडत्वेनैव व्यक्तीभवतीति । तस्माद्गोविन्दत एव मृत्युरधिकं बिभेतीति भावः । तथैव हि भूमिषु सर्वभुवनेषु तथा वेदेषु विदित उद्घुष्यत इत्यर्थः । विदितेति पक्षेऽपि स एवार्थो गोकुले स्वरूपेण भूमिवेदयोर्यशोद्वारा तस्य तथा प्राप्तत्वात।
गोपीजन इति गोपीजनरूपाः खलु गोपीजनवल्लभज्ञानेन तज्ज्ञानं भवतीति पूर्वोक्तात। या आविद्यायाः कलाः सम्यग्विद्यायाः प्रेमभक्तिविशेषरूपाया मूर्तयः । तासां प्रेरकः स्वलीलासु प्रवर्तको रमण इत्यर्थः । राजविद्या राजगुह्यं [ङीता ९.२] इति श्रीमद्भगवद्गीताप्रकरणात।
आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितातः (५.३७) ।
स वो हि स्वामी भवति इत्युत्तरतापनीभ्यः । अत्रान्यत्र च तथा तथा ध्यानोपदेशाच्च । अर्थान्तरे यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्न [ङ्टू २.२३] इत्युत्तरतापिनीवाक्यम् ।
ह्लादिनी सन्धिनी संवित्त्वय्येका गुणसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ [V
इP
१.१२.६९] इति विष्णुपुरानवाक्यम् ।
ह्लादिन्या संविदाश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥ इति स्वाम्युक्तं [१.७.६] च विरुद्ध्यते ।
उक्तं च ताभिराश्लेषणं तस्यापि प्रकाशाधिक्यम् । तत्रातिशुशुभे ताभिर्भगवान्देवकीसुतः [भ्P
१०.३३.६] इति ।
तस्माद्गोविन्दत्वज्ञानेऽपि परमप्रेमात्मकतद्विशिष्टताज्ञानेनैव सुष्ठु तज्ज्ञानं भवतीति भावः । अत एवोक्तं श्रीमदुद्धवेनापि वाञ्छन्ति यद्भवभियो मुनयो वयं च [भ्P
१०.४७.५८] इति । नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः [भ्P
१०.४७.६०] इति च । अतो यद्ब्रह्मसंहितायाम्—
चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ इत्यादि श्रूयते ।
तदपि वैकुण्ठादिप्रसिद्धलक्ष्मीतोऽप्याधिक्यान्महालक्ष्मीत्वेन मन्तव्यम् । तन्माया चेति स्वाहाशब्देन तन्मायोच्यत इत्यर्थः । माया चात्र योगमाया चिच्छक्तिरिति यावत्,
तत्कृपा वा ।
स्वशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ।
तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ।
अतएव हि विश्वस्य लयः स्वाहार्णवे भवेत॥ इति गौतमीये (२.१६१७) ।
भगवत्तादात्म्यापन्ना सैवोक्ता ।
त्रिगुणात्मिकाथ ज्ञानं तथा चिच्छक्तिरेव च ।
मायाशब्देन भण्यन्ते शबदतत्त्वार्थवादिभिः ॥ इति शब्दमहोदधिपाठात।
माया वयुनं ज्ञानमिति निघण्टुः । माया दम्भे कृपायां च इति विश्वप्रकाशाच्च । सैव पर्यवसीयते । उभयथापि चिच्छक्तित्वे कृपात्वे च सर्वेषां सर्वप्रवृत्तिस्तत्स्वरूपभूतायां तस्यामेव स्यादिति पूर्वप्रश्नोपयोग्युत्तरमायातम् । को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्यात्[तैत्तरीय ऊपनिषद्२.७.१] इति । चक्षुषश्चक्षुः इति [कठ्केन १.२] । यस्य भासा सर्वमिदं विभाति इति श्रुतेः [कठ्२.२.१५] । न च संसरतीत्यस्य मायेत्यस्य चाअन्यथार्थत्वमाशङ्क्यम् । श्रीभगवति स्वात्मार्पणार्थरूपत्वेन निर्वक्ष्यमाणस्य तत्पदस्य संसारहेतुरूपार्थत्वविरोधात।
तदेवं प्रश्नानुसारेण पृथगिव तानर्थान्निरूप्यापृथक्त्वमेव दर्शयति । सकलं परं ब्रह्मैव तदिति । तत्पूर्वोक्तचतुष्टयार्थजातं श्रीकृष्णाख्यं नराकृति परं ब्रह्मैवेत्यर्थः । श्रीकृष्णस्यैव विशेषणभेदेन गोविन्दादिव्यपदेशद्वयात। पञ्चमपदार्थस्य च तत्स्वरूपशक्तित्वेन तदभेदादिति भावः । अस्यैव परमब्रह्मत्वमुत्तरतापन्यां दर्शयिष्यते । कथं वास्यावतारस्य ब्रह्मता भवति [२.२८] इत्यादौ । विष्णुपुराणे [४.११.२]
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णः कृष्णाख्यं परं ब्रह्म नराकृति ॥ इति ।
ब्रह्माण्डादौ—
नराकृति परं ब्रह्म इति । श्रीमद्भागवते च गूढं परं ब्रह्म मनुष्यलिङ्गं [भ्P
७.१०.४८] इति । तदमितं ब्रह्म द्वयं शिष्यते [भ्P
१०.१४.१८] इति । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भ्P
१०.१४.३२] इति । श्रीमद्भगवद्गीतासु च—
ब्रह्मणो हि प्रतिष्ठाहं [ङीता १४.२७] इति ॥८९॥
ओ)०(ओ
(
६)
यो ध्यायति रसति भजति सो ऽमृतो भवति सो ऽमृतो भवतीति.
विश्वेश्वरःः एतद्व्यानादेः फलमाह—
यो ध्यायतीति । योइ यः तद्रूपं ध्यायति तथा रसयति कामबीजेन पञ्चपदीं जपति भजति पूजयति सोऽमृतो भवति इत्यर्थः ॥६॥
ब्रह्मोपनिषद्योगीः तद्ध्यानादिफलमाह—
यो ध्यायतीति ॥५॥
सनातनः ः रसति आस्वादयति कीर्तनादिना ॥
प्रबोधानन्दः ः यो ध्यायतीति । एतद्यो ध्यायति इति तु पाठान्तरम् । एतत्कृष्णाख्यमेव । साधारणस्वाहाख्यशक्तिमत। यो ध्यायति । यः कश्चित्स एवाधिकारी । अमृतः परमानन्दघनमूर्तिर्भवति । रसति आस्वादपूर्वकं भजति सर्वोपाधिनैरास्येन ॥६॥
श्रीजीवः ः तदेवं प्रशंसाद्वारा स्थापयति—
यो ध्यायतीति । एतद्यो ध्यायति इति पाठान्तरम् । एतत्कृष्णाख्यमेवासाधारणशक्तिमद्यो ध्यायति,
यः कश्चित्स एवाधिकारी । अमृतः परमानन्दघनमूर्तिर्भवति । रसति आस्वादपूर्वकं भजति सर्वोपाधिनैरास्येन । आवृत्तिः प्रकरणसमाप्त्यर्था ॥१०॥
ओ)०(ओ
(
७)
ते होचुः । किं तद्रूपम् । किं रसनम् । कथं वाहो तद्भजनम् ।
तत्सर्वं विविदिषतामाख्याहीति ॥
विश्वेश्वरः ः ध्येयं पृच्छन्ति तथा रसनादिकं च पृच्छन्ति ते होचुरित्यादिना ॥७॥
ब्रह्मोपनिषद्योगीः ध्यानादिबुभुत्सया पुनस्ते पृच्छन्तीत्याह—
ते होचुरिति ॥६॥
प्रबोधानन्दःः तत्र ध्येयं रसनादिकं चापृच्छन्नित्याह—
ते होचुरिति । तद्रूपं ध्यानं श्रीकृष्णस्वरूपविशेषरूपमेव ध्येयत्वेनाधिगमितम् ॥७॥
श्रीजीवः ः अत्र ध्येयं रसनादिकं चापृच्छन्नित्याह—
तं होचुरिति । ध्येयत्वेनाधिगमितम् ॥७॥
ओ)०(ओ
(
८)
तदु होवाच हैरण्यः । गोपवेशमभ्राभं
तरुणं कल्पद्रुमाश्रितम् ।
विश्वेश्वरःः तत्र ध्येयरूपनिरूपणमवतारयति तदु होवाचेति । तत्तत्र प्रश्नेषु हैरण्यः हिरण्यगर्भस्यापत्यं हैरण्यः ब्रह्मा । धेयं रूपमुवाच इत्यर्थः । गोपवेशमिति । गोपायतीति गोपस्तस्य वेशो यस्य तं गोपवेशं पालकस्वरूपमपो बिभर्ति इत्यब्भ्रः समुद्रः तद्वदाभा यस्य तमब्भ्राभं समुद्रवद्गम्भीरमपारमित्यर्थः । तरुणं जरादिदोषरहितम् । कल्पद्रुमो वेदः सर्वपुरुषार्थहेतुत्वात्तमाश्रितं तत्प्रतिपाद्यमिति । तेनैव वा सर्वोपासनाकर्मप्रतिपादकेन तत्तत्कर्मफलसिद्धये आश्रितम् । ईश्वरायत्तं फलमत उपपत्तेः [V
एदान्तसूत्र ३.२.३८] इति न्यायात। लभते च ततः कामान्मयैव विहितान्हि तान्[ङीता ७.२२] इति स्मृतेश्च । यद्वा गोपः धेनुपालकः तस्य वेशः यस्य तम् । अब्भ्राभं सजलजलदनीलम् । तरुणं नवयौवनम् । कल्पवृक्षमूले सिंहासनस्थाम्बुजोपविष्टमित्यर्थः ॥१२॥
ब्रह्मोपनिषद्योगीः तत्र ध्येयस्वरूपमाह—
तदु होवाचेति । तत्तत्र प्रश्नत्रये हिरण्यगर्भस्य विष्णोरपत्यं हैरण्यो ब्रह्मा धेयरूपमुवाचेत्यर्थः । वेषमात्रेण गोपो न कृत्यत इति गोपवेषम् । अपो बिभर्तीत्यब्भ्रः समुद्रः तद्वदाभा यस्येति अभ्राभं समुद्रवद्गम्भीरमपारमित्यर्थः । कल्पद्रुमाश्रितं स्वेप्सितार्थदवेदान्तवेद्यशरणत्वात। स्वस्य कर्माध्यक्षत्वेन भक्तस्येप्सितार्थदत्वादित्यत्र—
सर्वभूतानतात्मा कर्माध्यक्षः इति श्रुतेः । फलमत उपपत्तेः [V
एदान्तसूत्र ३.२.३८] इति न्यायात। लभते च ततः कामान्मयैव विहितान्हि तान्[ङीता ७.२२] इति स्मृतेश्च ॥७॥
प्रबोधानन्दःः तत्र रूपमाह—
गोपवेशमिति । तरुणं किं शोरम् । अभ्राभं मेघवच्छ्यामम् ॥८॥
श्रीजीवःः तत्र रूपमाह—
गोपवेशमिति ॥११॥
ओ)०(ओ
(
९११)
तदिह श्लोका भवन्ति—
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रयम् ।
दिव्यालङ्करणोपेतं रत्नपङ्कजमध्यगम् ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयन्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ इति ।
विश्वेश्वरःः उक्तरूपध्यानं मन्त्रसम्मतिव्याजेन सविस्तरमाह—
तदिहेति । तत्तत्रेह उक्तरूपध्याने श्लोका मन्त्रा अपि भवन्ति । सत्पुण्डरीकनयनमिति । सत्निर्मलं पुण्डरीकं हृत्कमलं नयनं प्रापकं यस्य तम् । मेघा उपतप्तमनसि सच्चिदानन्दस्वरूपा आभा यस्य तम् । विशेषेण द्योतत इति विद्युत्विद्युदेव वैद्युतं तादृशमम्बरं स्वप्रकाशचिदाकाशमित्यर्थः । द्वौ हिरण्यगर्भविराडात्मानौ भुजौ मौक्तिकशिल्पहेतुभूतौ हस्तौ यस्य तं द्विभुजम् । ज्ञानमुद्रा तत्त्वमसि इति सच्चिदानन्दैकरसाकारा वृत्तिः तत्र आढ्यं प्रकाशमानम् । वने विविक्तप्रदेशे स्वभक्तेषु मालते प्रकाशते इति तं वनमालिनम् । ईश्वरं ब्रह्मादीनामपि नियन्तारम् ॥
आत्मानं गोपायतीति गोपो जीवः । गोपी माया । गावो वेदाश्च । तैरावीतं स्वामितया आश्रितम् । सुरद्रुमः वेदः तस्य तलं स्वरूपमाश्रितं तत्प्रतिपाद्यमित्यर्थः । दिव्यालङ्करणैः षड्विधैश्वर्यैरुपेतम् । तथा रत्नतुल्यमतिस्वच्छं यत्पङ्कजं हृदयकमलं तदन्तःस्थाकाशगतस्तम् ।
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्य च मोक्षस्य षण्णां भग इतीङ्गना ॥ इति ।
चे च षड्धर्मा यस्य सन्तीति भगवान।
कालिन्दी नाम निर्मलोपासना तस्या जलकल्लोला ननस्फुरणतरङ्गाः । तत्सङ्गी मारुतः निश्चलप्राणवायुश्चताभ्यां सेवितमाराधितम् ।
यद्वा,
भक्तानुग्रहार्थम्नाविष्कृतचिद्घनस्य यथाश्रुतमेवेदं ध्यानम् । सत्पुण्डरीकं वदति निर्मले नयने यस्य तम् । मेघाभं नीरदश्यामलम् । तडिदाभमम्बरं यस्य तं पीताम्बरम् । द्विभुजं देवकीप्रार्थनया अन्यभुजद्वयस्योपसंहृतत्वात। यद्वा,
अष्टादशाक्षरे द्विभुजो ध्येय इति सूचितम् । ज्ञानमुद्रा हृद्याश्रिततर्जन्यङ्गुष्ठयोगरूपा तया आध्यं युक्तम् । वनमाला नाम ननपुष्पपल्लवरचिता पादतलावलम्बिनो माला विद्यते यस्य तं वनमालिनम् । ईश्वरमुक्तार्थम् । गोपाः श्रीदामादयः । गोप्यो राधाद्याः । गावः कपिलाद्यास्ताभिरावीतं परिवृतम् । कल्पवृक्षाश्रयम् । दिव्यैः अलौकिकैः आभरणैः उपेतम् । सिंहासनोपरि रत्नमयसुवर्णकमलमध्यस्थितम् । यमुनाजलतरङ्गसम्बन्धिवायुना सेवितम् । एवंविधं श्रीकृष्णं चेतसा चिन्तयन्ध्यायन्नरः संसृतेः संसारात्मुक्तो भवति । इतिशब्दो ध्यानसमाप्त्यर्थः ॥१२॥
ब्रह्मोपनिषद्योगीः ब्राह्मणोक्तार्थं मन्त्रा अप्यनुवदन्तीत्याह तदिहेति ॥८॥ गोपायतीति गोपो जीवः । गोपी माया । गावो वेदाश्च । तैरावीतमाश्रितम् ॥९॥ इतिशब्दो ध्यानसमाप्त्यर्थः ॥१०॥
प्रबोधानन्दःः तत्तस्मिन्रूपे तत्तद्भक्तहृदि नानाविधं स्फुरति । इह ममापि यथा स्फुरति तत्सङ्ग्राहकाः श्लोका मन्त्राः ॥९॥ सत्पुण्डरीकमुत्कृष्टमारक्तं कमलं शुद्धसत्त्वमयं नयनं मेघाभं मेघ ईषदेव भाति यस्मात्मेघापेक्षया कृष्णे श्यामताया अतिचमत्कारात। वैद्युतं विद्युदुद्भवमिवाम्बरं यस्य । ज्ञानमुद्राढ्यमवचनेनैव प्रोवाच इति श्रुतेः । ज्ञाने या मुद्रा रीतिर्मौनरूपा तयाढ्यम् । रसविशेषेण वेणुवादेन रसाविष्टत्वात। मौनमुद्राढ्यमिति च पाठः ॥१०॥ गोपाः श्रीदामादयः । गोप्यो राधाद्याः । गावः कपिलाद्यास्ताभिरावीतम् ॥११॥
श्रीजीवःः श्लोका मन्त्राः । वैद्युतं विद्युद्भवमिवाम्बरं यस्य । ज्ञानमुद्राढ्यमवचनेनैव प्रोवाच इति श्रुतेः । ज्ञाने या मुद्रा रीतिर्मौनरूपा तयाढ्यम् । रसविशेषेण वेणुवादनरसाविष्टत्वात। मौनमुद्राढ्यमिति च पाठः क्वचिद्दृश्यत इति ॥१३॥ गोपाः श्रीदामादयः । गोप्यो राधाद्याः । गावः कपिलाद्यास्ताभिरावीतम् ॥१४॥ इति शब्दो ध्यानसमाप्त्यर्थः ॥१५॥
ओ)०(ओ
(
१२)
तस्य पुना रसनमिति । जलभूमीन्दुसम्पातकामादिकृष्णायेत्येकं पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभायेति तुरीयम् । स्वाहेति पञ्चममिति । पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म सम्पद्यते ब्रह्म सम्पद्यत इति ॥
विश्वेश्वरः ः द्वितीयप्रश्नोत्तरमाह—
तस्य पुना रसनमिति । तस्य कृष्णाख्यब्रह्मणः रसनं जलभूमीन्दुसम्पातकामादि यथा स्यात्तथा पञ्चपदजपनमिति शेषः । जलं ककारः । भूमिः लकारः । ईकारः अग्निः इन्दुः अनुस्वारः एतेषां सम्पातरूपं यत्कामबीजं ततादौ प्रथमं यथा स्यात्तथेत्यर्थः । तान्येव पञ्च पादानि विवृणोति कृष्णायेत्येकं पदमित्यादिना । उक्तरसनस्य फलमाह—
पञ्चपदीमिति । पञ्चपदीं जपन्पुरुषः पञ्चाङ्गं ब्रह्म नारायणात्मकं तद्रूपतया पञ्चाङ्गब्रह्मतादात्म्येन प्राप्नोतीति सम्बन्धः । इदं तु सकृज्जपफलम् । पञ्चाङ्गान्याह—
द्यावाभूमी तथा अग्निना सहितौ साग्नौ सूर्याचन्द्रमसौ । अभ्यासः प्रथमोपनिषत्समाप्त्यर्थः ॥१३॥
ब्रह्मोपनिषद्योगीः द्वितीयप्रश्नार्थमाह—
तस्येति । तस्य कृष्णाख्यब्रह्मणः रसने पञ्चपदजपनमिति । जलं ककारः । भूमिः लकारः । ईकारः इन्दुः अनुस्वारः तं सम्पातरूपं कामबीजं क्लीमिति बीजेन साकं कृष्णाय इत्यादि पञ्चपदं भवति ॥११॥
मन्त्रजपात्मकोक्तरसनस्य फलमाह—
पञ्चपदमिति । पञ्चपदं जपन्मुमुक्षुर्—
द्यावाभूम्यादिपञ्चाङ्गविशिष्टं वैराजरूपं तद्रूपतया सम्पद्यते ॥ आवृत्तिः प्रथमोपनिषत्समाप्त्यर्था ॥१२॥
प्रबोधानन्दःः द्वितीयप्रश्नस्योत्तरमाह—
तस्येति । तस्य रूपस्य पुनर्ध्यानानन्तरं यद्रसनमास्वादस्तदेव रसनमित्यर्थः । तेनाजहल्लक्षणया प्रेमापि गृह्यते । रस्यं पुना रसनमिति क्वचित्पाठे रस्यमास्वाद्यं यत्तदीयं प्रेम तदेव रसनमास्वादोऽपीत्यर्थः । एतदुक्तं भवति आस्वादः खलु श्रीभगवन्माधुर्यानुभवः । यस्माच्च प्रेम जायते । तच्च भगवत्सेवाभिलाषोल्लासमयमानसानुकूल्यातिशयः । सोऽयमास्वाद्यमाने श्रीभगवति स्वयमास्वाद्यविशेषतां प्राप्नोति । परमपुरुषार्थत्वेन स्फूर्तेः । तदेव तस्यास्वादत्वं कारणतादात्म्यापेक्षयेति ॥१२॥
अथ भजने निर्वक्तव्ये श्रीभगवत्सम्बन्धप्रतिपत्त्यर्थं महामन्त्रं पुनरुपदिशति जलेति । जलं ककारः तद्वाचित्वात। भूमिर्लकारः लकारबीजत्वात। तथा ई दीर्घईकारः । ईर्गमनं कामो वा कामादिकृतसन्धित्वात। इन्दुरनुस्वारः । तदाकारत्वात्तेषां सम्पातो मिलनं तेन जातं यत्कामबीजं तदादिकम् । कृष्णायेत्येकपदम् । पञ्चाङ्गानि हृदादीनि तत्तत्स्थानेऽन्यस्थानीयस्य तद्यथा स्यात्तथा जपन। तस्यां च पञ्चपद्यां श्रीभगवदात्मिका द्यावादिपञ्चाधिष्ठातृदेवता भावयनित्यर्थः । तद्रूपतया मन्त्ररूपतया ब्रह्म सम्पद्यते ।
यद्वा,
तच्छब्देन यच्छब्दो लभ्यते । ततश्च यौ द्यावाभूमी ऊर्ध्वाधः प्रदेशौ सर्वाश्रयौ । यौ च साग्नी सूर्याचन्द्रमसौ सर्वप्रकाशकौ तद्रूपतया तानि रूपयति प्रकाशयतीति । तद्रूपं तत्तया यत्पञ्चाङ्गं ब्रह्म तत्सम्पद्यते सम्यक्प्राप्नोति । अत्र प्रथमपदद्वयेन प्रथमपदद्वयस्याश्रयणीयतायाः प्रकाशनं व्यज्यते । अन्यत्त्रयेण अन्यत्र यस्य प्रकाशकतायास्तद्व्यज्यत इति गम्यते । तत्र च प्रथमपदस्य सर्वशक्तिप्रकाशकतन्मूलनामत्वेन सर्वोर्धतया द्यावायोगः । द्वितीयस्य भूमिप्रकाशकस्य न तादृशवैभवत्वाद्भूम्या योगः । तृतीयस्य सर्वतोऽप्युद्दीप्तभावत्वात्सूर्येण योगः । चतुर्थस्य तत्कान्तियोगेन सर्वाह्लादकत्वाच्चन्द्रमसा योगः । पञ्चमस्य तत्रार्पणार्थरूपस्य नित्यसम्बन्धादग्निना योग इति । उभयत्र पक्षे नराकृति परं ब्रह्म श्रीकृष्णं प्राप्नोतीत्यर्थः । श्रीमद्ब्रह्मणश्चन्द्रध्वजस्य च तथा वक्षमाणत्वात। आवृत्तिर्निर्धारणार्था प्रथमोपनिषत्समाप्त्यर्था ॥१३॥
श्रीजीवः ः द्वितीयप्रश्नस्योत्तरमाह—
तस्येति । तस्य रूपस्य पुनर्ध्यानानन्तरं यद्रसनमास्वादस्तदेव रसनमित्यर्थः । तेनाजहल्लक्षणया प्रेमापि गृह्यते । रस्यं पुना रसनमिति क्वचित्पाठे रस्यमास्वाद्यं यत्तदीयं प्रेम तदेव रसनमास्वादोऽपीत्यर्थः । एतदुक्तं भवति आस्वादः खलु श्रीभगवन्माधुर्यानुभवः । यस्माच्च प्रेम जायते । तच्च भगवत्यभिलाषोल्लासमयमानसानुकूल्यातिशयः । सोऽयमास्वाद्यमाने श्रीभगवति स्वयमास्वाद्यविशेषतां प्राप्नोति । परमपुरुषार्थत्वेन स्फूर्तेः । तदेवमपि तस्यास्वादत्वं कारणतादात्म्यापत्त्यपेक्षयेति ।
अथ भजने निर्वक्तव्ये श्रीभगवत्सम्बन्धप्रतिपत्त्यर्थं महामन्त्रं पुनरुपदिशति—
जलेति । जलं ककारः तद्वाचित्वात। भूमिर्लकारः लकारबीजत्वात। तथा ई दीर्घईकारः कृतसन्धित्वात। इन्दुरनुस्वारः तदाकारत्वात। तेषां सम्पातो मिलनम् । तेन जातं यत्कामबीजं तदादि कृष्णायेत्येकं पदमित्यर्थः । पञ्चाङ्गानि हृदयादीनि तत्तत्स्थाने न्यस्यानि यस्य तद्यथा स्यात्तथा जपन। तस्यां च पञ्चपद्यां भगवदात्मिका द्यावादिपञ्चाधिष्ठातृदेवता भावयनित्यर्थः । तद्रूपतया मन्त्रमयतया ब्रह्म सम्पद्यते ।
यद्वा,
तच्छब्देन यच्छब्दो लभ्यते । ततश्च ये द्यावाभूमी ऊर्ध्वाधःप्रदेशौ सर्वाश्रयौ यौ साग्नी सूर्याचन्द्रमसौ सर्वप्रकाशकौ तद्रूपतया तान्निरूपयति प्रकाशयतीति । तद्रूपं यत्तत्तया यत्पञ्चाङ्गं ब्रह्म तत्सम्पद्यते सम्यक्प्राप्नोति । अत्र प्रथमपदद्वयेन प्रथमपदद्वयस्याश्रयणीयतायाः प्रकाशनं व्यज्यते । अन्यत्रयेणान्यत्रयस्य प्रकाशकतायास्तद्व्यज्यत इति गम्यते । तत्र च प्रथमपदस्य सर्वशक्तिप्रकाशकतन्मूलनाममयत्वेन सर्वोर्ध्वतया द्यावायोगः । द्वितीयस्य भूमिप्रकाशमानतादृशवैभवत्वाद्भूम्या योगः । तृतीयस्य सर्वतोऽप्युद्दीप्तभावत्वात्सूर्येण योगः । चतुर्थस्य तत्कान्तियोगेन सर्वाह्लादकत्वाच्चन्द्रमसा योगः । पञ्चमस्य तत्रार्पणार्थरूपस्य नित्यसम्बन्धादग्निना योग इति । उभयपक्षे नराकृति परंब्रह्मस्वरूपं श्रीकृष्णं प्राप्नोतीत्यर्थः । श्रीमद्ब्रह्मणश्चन्द्रध्वजस्य च तथा वक्षमाणत्वात। आवृत्तिः प्रथमोपनिषत्समाप्त्यर्था ॥१६॥
ओ)०(ओ
(
१३)
तदेष श्लोकः ।
क्लीमित्येतदादावादाय कृष्णाय
गोविन्दाय गोपीजनवल्लभायेति ।
बृहद्भानव्यासकृदुच्चरेद्योऽ सौ
गतिस्तस्यास्ति मंक्षु नान्या गतिः स्यात॥ इति ।
विश्वेश्वरः ः उक्तरसने मन्त्रसंवादमाह—
तदेष इति । तत्तत्र उक्ते रसने एषः श्लोकः मन्त्रः वर्तते इति । क्लीमित्येतदादौ आदाय उच्चार्य । अथ कृष्णायेति वदेत। अथ गोविन्दाय इति च पुनः गोपीजनवल्लभाय बृहद्भानव्या स्वाहया इत्यर्थः । इति यः सकृदेकवारमप्युच्चरेत्तस्य मङ्क्षु शीघ्रं पञ्चाङ्गब्रह्मात्मरूपगतिः भवति । अन्या चन्द्रमण्डलरूपा गतिस्तस्य न स्यात। इतिशब्दो रसनसमाप्त्यर्थः ॥१४॥
ब्रह्मोपनिषद्योगी ः उक्तरसने मन्त्रसंवादमाह—
तदेष श्लोक इति । क्लीमित्येतदादावादाय ततः कृष्णायेत्यादिपदचतुष्टयम् । स्वाहयेत्यर्थे बृहद्भानव्य इति,
आहत्य पञ्चपदं यः सकृदुच्चरेत्तस्य मङ्क्षु शीघ्रं पञ्चाङ्गब्रह्मरूपा गतिः भवतीति सामान्यफलमेतत। मन्त्रोक्तार्थानुसन्धानपूर्वकं जपतः निर्विशेषब्रह्मभावापत्तिः मुख्यफलम् । न कदापि अन्या गतिः तस्य स्यात। इतिशब्दो रसनसमाप्त्यर्थः ॥१३॥
प्रबोधानन्दः ः अत्र मन्त्रसंवादपादमाह—
तदेष श्लोक इति । तदिति तस्मिन्पूर्वमुक्ते जपप्रभावे अत्याश्चर्ये । विशेषावधार्ये एष श्लोको भवतीत्यर्थः ॥१४॥
तदुदाहरति—
क्लीमित्येतदिति । आदौ आदाय उच्चार्य क्लीमित्युक्त्वा कृष्णायेति वदेत। अथ गोविन्दाय गोपीजनवल्लभायेति । अनन्तरं बृहद्भानव्यान्तिमपदरूपया सह । बृहद्भानुरग्निस्तयेयं बृहद्भानवी । बृहद्भानोः स्त्री स्वाहा तया सह । तत्तत्पदक्रमेण यः सकृदप्युच्चरेत्तस्य गतिः श्रीकृष्णाख्या शीघ्रमेव भवेत। अन्या गतिर्न भवेदित्यर्थः । तस्मादेतदेव श्रीगुरोः शिक्षणीयमिति भावः । इतिशब्दो मन्त्रसमाप्त्यर्थः ॥१५॥
श्रीजीवःः अत्र मन्त्रसंवादमाह—
तदेष श्लोक इति । बृहद्भानव्यान्तिमपदरूपया सह तत्तत्पदं क्रमेण यः सकृदुच्चरेत। तस्य गतिः पूर्वोक्ता श्रीकृष्णाख्या मङ्क्षु शीघ्रमेव भवेत्,
अन्या गतिर्न भवेदित्यर्थः । तस्मादेतदेव श्रीगुरोः शिक्षणीयमिति भावः । इतिशब्दो मन्त्रसमाप्त्यर्थः ॥१७॥
ओ)०(ओ
(
१४)
भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनामुष्मिन्
मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ॥
विश्वेश्वरः ः कथं चाहो तद्भजनमित्यस्योत्तरं वक्तुं भजनशब्दार्थमाह भक्तिरस्य भजनमिति । पर्यायेणार्थावगमासम्भवात्पुनर्भजनस्य लक्षणमाह तदिहामुत्रेति । इह अमुत्र उपाधेः ऐहिकपारलौकिकप्रयोजनस्य नैरास्येन निरसनमेव नैरास्यम् । तेन ऐहिकामुष्मिकफलकामनाराहित्येन एव अमुष्मिन्कृष्णाख्ये ब्रह्मणि मनसः कल्पनं प्रेम्णा तन्मयत्वं तदेव भजनमुक्तमित्यर्थः । एतत्भजनमेव नैष्कर्म्यं ज्ञानमित्यर्थः ॥१५॥
ब्रह्मोपनिषद्योगीः किमाहो तद्भजनमित्य्प्रश्नोत्तरमाह—
भक्तिरस्येति । दासोऽहं सोऽहमिति वा अनन्यभावापन्नेयं भक्तिः । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते इति स्मृतेः । भजनसाधनमाह—
तदिति । एवं भजनमेव नैष्कर्म्यं ज्ञानमित्यर्थः ॥१५॥
प्रबोधानन्दः ः कथं वाहो तद्भजनमित्यस्योत्तरं वक्तुं भजनशब्दस्यार्थमाह भक्तिरस्य भजनमिति । भक्तिशब्दवाच्यः प्रसिद्धोऽर्थ एव । अस्य श्रीकृष्णस्य भजनमुच्यत इत्यर्थः । तदेव विशदयति तदिहेति । लोकद्वयकामनानिरसनेन श्रीकृष्णे मनोऽर्पणमेवास्य भजनमित्यर्थः । मूलमन्त्रेऽपि चतुर्थ्यन्ततन्मूलनामानि अन्तिमद्व्यक्षरपदान्वयेन तस्यैवार्थस्य स्फुटत्वात। एतदर्थमेव मूलमन्त्रदर्शनपूर्वकमेतद्दर्शितमिति भावः । तदेवं वृक्षमूलस्थानीयस्य मनसोऽर्पणेन शाखास्थानीयतत्तदिन्द्रियार्पणस्यापि भजनत्वं विवक्षितम् ।
ननु,
अनादिजन्मकर्मश्रेण्यां सत्यां कथं तस्य मङ्क्षु सैव गतिः स्यात्तत्राह । एतदेव च नैष्कर्म्यं तद्धेतुरित्यर्थः । आवश्यकताकारणत्वादभेदनिर्देशः । यद्वा,
न च तस्माज्ज्ञानमित्यर्थः । निष्कर्मैव नैष्कर्म्यं स्वार्थे घञ् । कर्मज्ञानयोर्मिथः प्रतियोगित्वात। कर्मातिरिक्तं ज्ञानमुपलक्षितं भवतीति । ज्ञानत्वं च तस्य मनोवृत्तिविशेषतयाविर्भावादिति ॥१६॥
श्रीजीवःः कथं वाहो तद्भजनमित्यस्योत्तरं वक्तुं भजनशब्दस्यार्थमाह—
भक्तिरस्य भजनमिति । भक्तिशब्दवाच्यः प्रसिद्धोऽर्थ एव । अस्य श्रीकृष्णस्य भजनमुच्यत इत्यर्थः । तदेव विशदयति—
तदिहेति । लोकद्वयकामनानिरासेन श्रीकृष्णे मनोऽर्पणमेवास्य भजनमित्यर्थः । मूलमन्त्रेऽपि चतुर्थ्यन्ते तन्मूलनामानि अन्तिमद्व्यक्षरपदान्वयेन तस्यैवार्थस्य स्फुटत्वात। एतदर्थमेव मूलमन्त्रदर्शनपूर्वकमेतद्दर्शितमिति भावः । तदेवं वृक्षमूलस्थानीयस्य मनसोऽर्पणेन शाखास्थानीयतत्तदिन्द्रियार्पणस्यापि भजनत्वं विवक्षितम् ।
ननु,
अनादिजन्मजकर्मश्रेण्यां सत्यां कथं तस्य मङ्क्षु सैव गतिः स्यात्?
तत्राह—
एतदेव च नैष्कर्म्यं तद्धेतुरित्यर्थः । आवश्यकतत्कारणत्वादभेदनिर्देशः । यद्वा,
न च तस्माज्ज्ञानं नाम भिन्नमस्तीत्याह—
एतदिति । तद्भजनमेव च नैष्कर्म्यं ज्ञानमित्यर्थः । निष्कर्मैव नैष्कर्म्यं स्वार्थे घ्यञ् । कर्मज्ञानयोर्मिथः प्रतियोगित्वात। कर्मातिरिक्तं ज्ञानं ह्युपलक्षितं भवतीति । ज्ञानत्वं च तस्य मनोवृत्तिविशेषतयाविर्भावादिति ॥१८॥
ओ)०(ओ
(
१५)
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाऽऽराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदैजत्सुरेताः ॥
विश्वेश्वरः ः कृष्णं तमिति । तं कृष्णमानन्दात्मानं विप्राः सात्त्विका बहुधा द्रव्ययज्ञपाठयज्ञयोगयज्ञादिभिः यजन्ति । गोविन्दमिति । गोभूमिवेदविदितं सन्तं बहुधा श्रवणकीर्तनस्मरणपादसेवनार्चनवन्दनदास्यसख्यात्मनिवेदनादिभिः । विप्रादयः सर्वेऽपि आराधयन्ति सेवयन्ति । तस्यैव सेव्यत्वे हेतुः गोपीजनवल्लभ इति । गोप्यः पालनशक्तयः तासां जनः समुदायः तस्य वल्लभः स्वामी प्रेरकः सन्भुवनानि अनन्तकोटिब्रह्माण्डानि दध्रे । उपलक्षणमेतत। अपालयत्पालयति पालयिष्यति च ॥१६॥
एवं पालकत्वात्सेव्यत्वमुक्तम् । अथ जनकत्वादपि तदाह—
स्वाहाश्रित इति । स्वाहा माया तदाश्रितः तदधिष्ठाता सन्जगतव्यक्तनामरूपमेजयतचालयत्व्यक्तीभावायोन्मुखमकरोत्सृष्टिकाले । अत्र हेतुगर्भविशेषणमाह—
सुरेता इति । सुष्ठु शोभनं चिद्रूपं मायायां प्रतिबिम्बोन्मुखं रेतो यस्य सः सुरेताः । रूपं रूपं प्रतिरूपो बभूव इति श्रुतेः । मम योनिर्महद्ब्रह्म तस्मिन्गर्भे दधाम्यहमिति स्मृतेश्च ॥१७॥
ब्रह्मोपनिषद्योगीः भजनोपायमाह—
कृष्णमिति । यः सर्वात्मतया प्रसिद्धः तं कृष्णं विपश्चितो विप्रा बहुधा द्रव्ययज्ञादिज्ञानयज्ञान्ते यजन्ति गोविन्दं सन्तं बहुधा श्रवणादिभिः आराधयन्ति महामण्डूकादिकूर्मादिशेषात्मना । गोपीजनवल्लभो भुवनानि दध्रे । यद्वा,
सर्वारोपाधिकरणविश्वविराडोत्राद्यात्मना भुवनोपलक्षिताविद्यापदतत्कार्यानन्तकोटिब्रह्माण्डानि दध्रे धृतवानित्यर्थः । किं च,
स्वाहेति । स्वाहाशब्दवाच्यमायाश्रितः सन्जगत्स्वाविद्यापदमैजतचालयत्सृष्टिकाले मायायां सुष्ठु रेतो बीजं यस्य सोऽयं सुरेताः । इन्द्रो मायाभिः पुरुरूप ईयते,
रूपं रूपं प्रतिरूपो बभूव,
मम योनिर्महद्ब्रह्म तस्मिन्गर्भे दधाम्यहमिति श्रुतेः स्मृतेश्च ॥१५॥
सनातनः ः एजयति ऐजयत्चेष्टां कारयामास । गोपीजनवल्लभ एवेत्यर्थः । स्वरेताः स्वस्मादुद्भूतमित्यर्थः ।
प्रबोधानन्दः ः तदेवं मूलमन्त्रेण समुदितं भजनस्य निर्वचनं दर्शयित्वा तत्रैव मन्त्रनामत्रयस्य शक्तिचतुर्थीकस्योत्तरोत्तरवैशिष्ट्यं दर्शयितुमाह—
कृष्णं तं विप्रा इति । तत्र कृष्णं तं गोपालं श्रीयादवेन्द्ररूपं विवेकेन कृष्णत्वमात्रेणाविर्भूतं सन्तं विप्राः शास्त्रमार्गिणो यजन्ति । क्वचिद्विप्रा पूजयन्ति इत्यस्या भावे पूजनबलेन त एवोपतिष्ठते । अथ तमेव श्रीगोविन्दं गोकुलनायकतयाविर्भूतं सन्तं बहुधा श्रीगोकुलवासिवद्रागवैचित्र्या आराधयन्ति सेवन्ते । तदीयरागरुचय इति शेषः । स एव गोविन्दो गोपीजनवल्लभरूपेणाविर्भूतस्तु भुवनानि जगन्त्येव दध्रे । अनुगृह्णातीत्यर्थः । तादृशोपासकसम्बन्धपरम्परयापि तदनुग्रहप्राप्तेर्नात्र पूर्ववदाराधनापेक्षापीति भावः । तत्रैव स्वात्मार्पणमयस्वाहापदेनाश्रिताश्रयमाणश्चेत्कृष्णः । तमाश्रयमानो वा । जनस्तदा जगदपि एजयतेजयति । प्रेम्णा कम्पादिभावविवशं करोति । यतः सुरेताः आविर्भूतमहावीर्योऽसाविति । अत्र बीजानुवादस्तन्नामान्तर्भूतस्तदिति विवक्षया ॥१७॥
श्रीजीवःः तदेवं मूलमन्त्रेण समुदितं भजनस्य निर्वचनं दर्शयित्वा तत्रैव मन्त्रे नामत्रयस्य शक्तिचतुर्थीकस्योत्तरोत्तरं वैशिष्ट्यं दर्शयितुमाह—
कृष्णं तं विप्रा इति । तत्र कृष्णं तं गोपालयादवेन्द्राविवेकेन कृष्णत्वमात्रेणाविर्भूतं सन्तं विप्राः शास्त्रमार्गिणो यजन्ति पूजयन्ति । क्वचिद्विप्रा इत्यस्याभावे पूजनबलेन त एवोपतिष्ठन्ते । अथ तमेव गोविन्दं श्रीगोकुलनायकतयाविर्भूतं बहुधा श्रीगोकुलवासिवद्रागवृत्तिवैचित्र्या आराधयन्ति सेवन्ते । तदीयरागरुचय इति शेषः । स एव गोविन्दो गोपीजनवल्लभरूपेणाविर्भूतस्तु भुवनानि जगन्त्येव दध्रे अनुगृह्णातीत्यर्थः । तादृशत्वोपासकसम्बन्धपरम्परयापि तदनुग्रहप्राप्तेर्नात्र पूर्ववदाराधनापेक्षेति भावः । तत्रैव स्वात्मार्पणमयस्वाहापदेनाश्रित आश्रयमाणश्चेत्कृष्णः । तमाश्रयमानो वा जनस्तदा जगदपि एजयतेजयति । प्रेम्णा कम्पादिभावविवशं करोति । यतः सुरेताः आविर्भूतमहावीर्योऽसाविति । अत्र वीर्यानुवादस्तन्नामान्तर्भूतस्तमेव तदिति विवक्षया ॥१९॥
ओ)०(ओ
(
१६)
वायुर्यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्चरूपो बभूव
कृष्णस्तथैकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभातीति
विश्वेश्वरः ः भक्तानामाराधनसौकर्याय गोपालविद्यात्मकशब्दरूपेण भगवान्पञ्चधा भातीति सदृष्टान्तमाह वायुर्यथैक इति । यथा भुवनं ब्रह्माण्डं प्रविष्ट एक एव वायुः जन्ये जन्ये शरीरे शरीरे प्रतिशरीरं पञ्चरूपः प्राणापानव्यानादिरूपो बभूव । तथैव एकोऽपि असौ कृष्णः जगद्धितार्थं भुवनं प्रविष्टः शब्देन गोपालविद्यात्मकेन पञ्च पदानि यस्य सः पञ्चपदः विविधं भाति प्रकाशते इति शब्दो मन्त्रसमाप्त्यर्थः ॥१८॥
ब्रह्मोपनिषद्योगी ः स्वभक्तभजनाय भगवान्पञ्चपदात्मना भवतीति सदृष्टान्तमाह—
वायुरिति । यथा मुख्यप्राणात्मको वायुरेकोऽपि भुवनमविद्यापदप्रविभक्तब्रह्माण्डपटलं प्रविष्टः सन्जन्ये जन्ये प्रतिशरीरं प्राणापानभेदेन पञ्चरूपो बभूव । तथैवैकोऽप्यसौ कृष्णो जगद्धितार्थं गोपालविद्यात्मकशब्देन पञ्च पदानि यस्य पञ्चपदो विविधं भाति प्रकाशते । इति शब्दो मन्त्रपरिसमाप्त्यर्थः ॥१६॥
सनातनः ः अपघनं शरीरम् । जन्ये जन्ये प्रतिशरीरम् । पञ्चपदः अष्टादशाक्षरोऽयं मन्त्रः ।
प्रबोधानन्दः ः अथ तस्यैकस्य तत्तत्पदेनाविर्भाववैशिष्ट्यं दृष्टान्तेन स्पष्टयति वायुरिति । जन्ये जन्ये देहे देहे पञ्चभिः प्राणादिनामभिः रूप्यन्ते निरूप्यन्ते पञ्चरूपशब्देन तत्तन्नाम्ना पञ्चाभिर्विशेषैः पद्यते ज्ञायते यः स इत्यर्थः । इति शब्दो मन्त्रसमाप्त्यर्थः ॥१८॥
श्रीजीवःः अथ तस्यैकस्यापि तत्तत्पदेनाविर्भाववैशिष्ट्यं दृष्टान्तेन स्पष्टयति वायुरिति । जन्ये जन्ये देहे देहे पञ्चभिः प्राणादिनामभिः । रूप्यन्ते निरूप्यन्ते पञ्चरूपः । शब्देन तत्तन्नाम्ना पञ्चाभिर्विशेषैः पद्यते ज्ञायते च यः स पञ्चपद इत्यर्थः । इति शब्दो मन्त्रसमाप्त्यर्थः ॥२०॥
(
१७)
ते होचुः । उपासनमेतस्य परमात्मनो
गोविन्दस्याखिलाधारिणो ब्रूहीति ॥
विश्वेश्वरः ः गोविन्दं सन्तं बहुधाराधयन्तीत्युक्तं तत्राराधनात्मकमुपासनं पृच्छन्तीत्याह—
ते होचुरुपासनमेतस्येति । ते सनकादयः ह किल एतस्य परमात्मनः श्रीकृष्णस्य गोविन्दस्य अखिलाधारिणः उपासनमाराधनं ब्रूहि कथय इत्यर्थः ॥१९॥
ब्रह्मोपनिषद्योगी ः गोविन्दं सन्तं बहुधाराधयन्तीत्युक्तम् । तत्प्रकारं पृच्छन्तीत्याह—
त इति ॥१७॥
प्रबोधानन्दः ः तत्र शास्त्रैकगम्यत्वात्पूजापरिपाटीमपृच्छन्नित्याहते होचुरिति । परमात्मनः सर्वजीवजीवनरूपस्य अतएवाखिलाधारिणोऽखिलाश्रयस्येत्यर्थः ॥१९॥
श्रीजीवःः तत्र शास्त्रैकगम्यत्वात्पूजापरिपाटीमपृच्छन्नित्याहते होचुरिति । परमात्मनः सर्वजीवजीवनरूपस्य अतएवाखिलाश्रयस्येत्यर्थः । णिनिप्रत्ययात॥२१॥
ओ)०(ओ
(
१८)
तानुवाच । यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं तदन्तरालिके ऽनलास्रयुगं तदन्तराद्यर्णाखिलबीजं कृष्णाय नम इति बीजार्ढ्यं सब्रह्माणमाधाय,
अनङ्गगायत्रीं यथावद्व्यालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवरुक्मिण्यादिखशक्तीन्द्रादिवसुदेवादिपार्थादिनिध्यावीतं यजेत।
सन्ध्यासु प्रतिपत्तिभिरुपचारैस्तेनास्याखिलं भवत्यखिलं भवतीति ॥
विश्वेश्वरः ः तत्र यन्त्रात्मकं पीठं तावद्दर्शयति तत्राराधनाधिष्ठानभूतं पीठनिरूपणमवतारयति तानुवाचेति । यत्तस्य पीठं तत्तान्प्रति ब्रह्मा उवाच इत्यर्थः । स्वगृहे क्षालितं पीठं स्थापयित्वा हैरण्याष्टपलाशं सौवर्णाष्टदलमम्बुजं स्थापयेत। गन्धपूतेन चन्दनेन वा लिखेतित्यर्थः । तदन्तरालिके तस्य कमलस्य अन्तरालभवे प्रदेशे अनलास्रयुगं त्रिकोणद्वयं संलिखेदित्यर्थः । तदन्तराद्यार्णेति । तस्य षट्कोणस्य अन्तरा मध्ये आद्यार्णरूपमखिलकार्यस्य बीजं कामबीजं साध्यनाम कर्मनाम च लिखेदिति शेषः । तदुक्तं सनत्कुमारसंहितायाम्—
कर्णिकायां लिखेद्वह्निपुटितं मण्डलद्वयम् ।
तस्य मध्ये लिखेद्बीजं साध्याख्यं कर्मसंयुतम् ॥ इति ।
कृष्णाय नम इति बीजाद्यं बीजेन कामबीजेन आद्यं षडस्रं सन्धिषु षडक्षरं लिखेत। षडस्रं सन्धिषु इति क्रमदीपिकोक्तेः [७.२७] । सब्रह्माणमिति । पूर्वलिखितं कर्णिकास्थमनङ्गबीजं सब्रह्माणमष्टादशाक्षरमन्त्रोपेतमाधाय इत्यर्थः । मन्त्रतद्द्रष्ट्रोरभेदात्मन्त्रो ब्रह्मा । तदुक्तं संहितायाम्—
ततः शिष्टैर्मनोर्वर्णैस्तं कामं वेष्टयेत्सुधीः इति । षट्कोणस्य षट्कोणस्य पूर्वनैरृतिवायव्यकोणेषु श्रीमिति बीजं लिखेत। आग्नेयपश्चिमेशानकोणेषु ह्रीमिति बीजं लिखेदिति शेषः ।
श्रियं षट्कोणकोणेष्वैन्द्रनैरृतवायुषु ।
आलिख्य विलिखेन्मायां वह्निवारुणशूलिषु ॥ इति संहितोक्तेः ।
अनङ्गगायत्रीमिति । अष्टदलस्य सर्वजनसंमोहनकेशरेषु अनङ्गगायत्रीं कामगायत्रीं यथावत्त्रिशः त्रिशः व्यालिखेदित्यर्थः । कामदेवाय सर्वजनप्रियाय
सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्वजनस्य हृदयं मे वशं कुरु कुरु स्वाहा इत्यष्टाचत्वरिंशदक्षरं मालामन्त्रं प्रतिदलं षट्षटक्षरं क्रमेण लिखेदित्यवबोद्धव्यम् । अष्टदलस्योपरि वृत्तं कृत्वा मातृकाक्षरैर्वेष्टयेदित्यपि बोध्यम् ।
अक्षरैः कामगायत्र्या वेष्टयेत्केशरे सुधीः ।
काममालामनोर्वर्णैर्दलेष्वष्टसु मन्त्रवित॥
लिखेद्गुहाननैर्भक्तैर्मान्त्रिकांस्तद्बहिर्लिखेत॥ इति संहितोक्तेः ।
भूमण्डलं शूलवेष्टितं कृत्वेति । भूगृहं चतुरस्रं स्यादष्टवज्रयुतं मुने इति संहितोक्तेः । अस्यैव धारणायन्त्रत्वात्साध्यादिलेखनमप्यादावसूसुचत। अत एव धारणाविधानं तत्फलं च संहितायामुक्तम् ।
हुत्वा सहस्रमाज्येन यन्त्रे सम्पातपूर्वकम् ।
मार्जयित्वायुतं हुत्वा धारयेद्यन्त्रमुत्तमम् ।
त्रैलोक्यैश्वर्यमाप्नोति देवैरपि स पूजितः ॥ इत्यादिना ।
इदं तु केवलं धारणार्थं यदा यन्त्र क्रियते तदभिप्रायेणोक्तं यदा पुनः पूजार्थं यदा यन्त्रं क्रियते तदभिप्रायेणोक्तं यदा पुनः पूजार्थं यन्त्रं क्रियते,
तदा तु पूर्वं
मण्डुकादिपृथिव्यन्तं पूजयेत्कर्णिकोपरि ।
अग्न्यादिपीठपादेषु धर्मादींश्चतुरो यजेत॥
तारवर्णप्रभिन्नानि मण्डलानि क्रमात्ततः ।
सत्त्वं रजस्तम इति यजेदात्मचतुष्टयम् ॥
आत्मान्तरात्मा परमात्मा ज्ञानात्मेति ते क्रमात।
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति पञ्चमी ॥
प्रह्वी सत्या तथेशानानुग्रहा नवमी तु ताः ।
प्रागादष्टसु पत्रेषु कर्णिकायां यजेन्मुने ॥
ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगसंयोगपद्मपीठात्मने नमः इति पीठमन्त्रमयस्योपरि विन्यस्य—
ततः पीठं समभ्यर्च्य देवमावाह्य नारद ।
अर्घ्यादिधूपदीपादीनुपचारान्प्रकल्पयेत॥
अथावरणपूजां कुर्यात। तत्र प्रथमावरणमाह अङ्गेति । षट्कोणस्याग्नेयनैरृत्यवायव्येशानेषु हृदयशिरःशिखाकवचानि अग्रभागे नेत्रं पूर्वादिदिक्षु च अस्रमित्यङ्गानि पूजयेत। द्वितीयावरणमाह—
वासुदेवादीति । पूर्वपश्चिमयाम्योत्तरदलेषु यथाक्रमं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धान्पूजयेत। आग्नेयनैरृत्यवायव्येशानेषु यथाक्रमं शान्तिश्रीसरस्वतीरतीः पूजयेत। तृतीयावरणमाह—
रुक्मिण्यादि स्वशक्तयः कृष्णशक्तयः—
दलेषु रुक्मिणी सत्यभामा जाम्बवती तथा ।
नाग्नजिती मित्रविन्दा कालिन्दी च ततः परा ।
लक्ष्मणा च सुशीला च पूज्या हेमामितप्रभा ॥ इत्यर्थः ।
चतुर्थपञ्चमाद्यावरणमाह इन्द्रादिवसुदेवादिपार्थादीति । अत्र वसुदेवाद्यावरणमेव चतुर्थं बोध्यम् । पूर्वभागे वसुदेवाय पीतवर्णाय । आग्नेयकोणे देवक्यै श्यामलायै । दक्षिणभागे नन्दाय कर्पूरगौराय । नैरृत्यकोणे यशोदायै कुङ्कुमगौर्यै । पश्चिमे बलदेवाय शङ्खकुन्देन्दुधवलाय । वायव्ये कलापश्यामलायै सुभद्रायै । उत्तरकोणे गोपेभ्यः । ईशानकोणे गोपीभ्यः । पञ्चमं तु पार्थाद्यावरणम् । अर्जुनणिशठोद्धवदारुकविश्वक्सेनसात्यकिगरुडणारदपर्वतान्पूजयेत। आग्नेयदिशि नीलनिधये । याम्ये कुन्दाय नमः । नैरृत्यकोणे मकराय । पश्चिमे आनन्दाय । वायव्ये कच्छपाय । उत्तरे शङ्खायनिधये । ईशानकोणे पद्मनिधये ।
सप्तममिन्द्राद्यावरणम् । इन्द्राय पीतवर्णाय पूर्वदले । अग्नये रक्तवर्णाय । यमाय नीलोत्पलवर्णाय । रक्षोऽधिपतये कृष्णवर्णाय । वायवे धूम्रवर्णाय । वरुणाय शुक्लवर्णाय । कुबेराय नीलवर्णाय । ईशानाय श्वेतवर्णाय । पूर्वेशानयोर्मध्ये ब्रह्मणे गोरोचनावर्णाय । नैरृत्यपश्चिमयोर्मध्ये शेषनागाय श्वेतवर्णाय ।
पूर्वदले वज्राय पीतवर्णाय । शक्तये शुक्लवर्णाय । दण्डाय नीलवर्णाय । खड्गाय श्वेतवर्णाय । पाशाय विद्युद्वर्णाय । ध्वजाय रक्तवर्णाय । गदायै नीलायै । त्रिशूलाय शुक्लवर्णाय इत्यष्टमावरणम् ।
आवीतमिति । एतैः आवरणैः आवीतं परमेश्वरं यजेत्पूजयेत।
सन्ध्यासु त्रिकालसन्ध्यासु प्रतिपत्तिभिः ध्यानैः उपचारैः षोडशोपचारादिमहाराजोपचारैः पूजयेदित्यर्थः । तेनेति । तेन आराधनेन अस्य आराधकस्य अखिलं पुरुषार्थचतुष्टयं भवति । अभ्यासो द्वितीयोपनिषत्समाप्त्यर्थः ॥
ब्रह्मोपनिषद्योगी ः एवं नारदादिमुनिभिः पृष्टः तत्पूजादिपीठं प्रकटयति—
तानुवाचेति । तान्प्रति ब्रह्मा उवाच । किमिति?
यत्तस्य गृहे क्षालितं पीठं स्थापयित्वा हैरण्याष्टपलाशं सौवर्णाष्टदलमम्बुजं स्थापयेत। सुगन्धचन्दनेन लिखेत। तदन्तरालिके तस्य कमलस्यान्तरालिके अन्तरालप्रदेशे अनलास्रयुगं त्रिकोणद्वयं सम्पुटितं षट्कोणं लिखेदित्यर्थः । तदन्तरालाद्यर्णेति तस्य षट्कोणस्य अन्तराले मध्ये कामबीजं साधकनाम च लिखेदिति शेषः । तदुक्तं सनत्कुमारसंहितायाम्—
कर्णिकायां लिखेद्वह्निं पुटितं मङ्गलद्वयम् ।
तन्मध्ये विलिखेद्बीजं साध्याख्यं कर्मसंयुतम् ॥ इति ।
कृष्णाय नम इति बीजेन कामबीजेन चाढ्यं षडस्रसन्धिषु षडक्षरं लिखेत। षडस्रसन्धिषु इति क्रमदीपिकोक्तेः [७.२७] । सब्रह्माणमिति । पूर्वलिखितकर्णिकास्थमनङ्गबीजं सब्रह्माणं षट्कोणस्य पूर्वनैरृत्यवायव्यकोणेषु श्रीमिति बीजमष्टादशाक्षरमन्त्रोपेतमादायेत्यर्थः । मन्त्रद्रष्ट्रोरभेदात्मन्त्रो ब्रह्मा । तदुक्तं संहितायाम्—
ततः शिष्टार्णैः सकामं वेष्टयेत्विधिरिति षट्कोणस्य पूर्वनैरृत्यवायव्यकोणेषु श्रीमिति बीजं लिखेताग्नेयपश्चिमेशानकोणेषु ह्रीमिति बीजं लिखेदिति शेषः ।
श्रियं षट्कोणकोणेष्वैन्द्रनैरृतवायुषु ।
आलिख्य विलिखेन्मायां वह्निवारुणशूलिषु ॥ इति संहितोक्तेः ।
अनङ्गगायत्रीमिति । अष्टदलकेसरेषु दलं प्रति वर्णत्रयं विलिखेत। अनङ्गगायत्री तु—
कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयातिति । पुनस्तत्रैवाष्टदलेषु अष्टाचत्वारिंशदक्षरं काममालामन्त्रं प्रतिदलं षट्षडक्षरं क्रमेण विलिखेत। नमः कामदेवाय सर्वजनप्रियाय सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्वजनस्य हृदयं मे वशं कुरु स्वाहा इति । अष्टदलस्योपरि वृत्तं कृत्वा मातृकाक्षरैर्वेष्टयेत। तथा च संहितायाम्—
अक्षरैः कामगायत्र्या वेष्टयेत्केशरे सुधीः ।
काममालामनोर्वर्णैर्दलेष्वष्टसु मन्त्रवित॥
लिखेद्गुहाननैर्भक्तैर्मान्त्रिकांस्तद्बहिर्लिखेत॥ इति ।
आभूमण्डलं शूलवेष्टितं कृत्वेति । भूगृहं चतुरस्रं स्यादष्टवज्रयुतं मुने इति संहितोक्तेः । अस्यैव धारणायन्त्रत्वात्साध्यादिलेखनमप्यादावसूचयत। अत एव धारणाविधानं तत्फलं च संहितायामुक्तम् ।
हुत्वा सहस्रमाज्येन यन्त्रे सम्पातपूर्वकम् ।
मार्जयित्वायुतं जप्त्वा धारयेद्यन्त्रमुत्तमम् ।
त्रैलोक्यैश्वर्यमाप्नोति देवैरपि सुपूजितः ॥ इत्यादिना ।
यदा तु पूजार्थं यन्त्रं क्रियते तदा तु पूर्वं मण्डपादिपृथिव्यन्तं पूजयेत। कर्णिकोपरि—
अग्न्यादिपीठपादेषु धर्मादींश्चतुरो यजेत॥
तारवर्णप्रभिन्नानि मण्डलानि क्रमात्ततः ।
सत्त्वं रजस्तम इति यजेदात्मचतुष्टयम् ॥
आत्मान्तरात्मा परमात्मा ज्ञानात्मेति ते क्रमात।
विमलोत्कर्षिणी ज्ञानक्रियायोगेति पञ्चमी ॥
प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता ।
प्रागाद्यष्टसु पत्रेषु कर्णिकायां यजेन्मुने ॥
ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगपीठात्मने नमः इति पीठमन्त्रं पद्मस्योपरि विन्यस्य—
ततः पीठं समभ्यर्च्य देवमावाह्य नारद ।
अर्घ्यादिधूपदीपादीनुपचारान्प्रकल्पयेत॥ इति ।
अथावरणपूजां कुर्यात। तत्र प्रथमावृत्तिस्तु—
अग्नीशासुरवायव्यपुरःपृष्ठेषु क्लीं हृदयाय नम इत्यादिषडङ्गानि पूजयेत। एवमङ्गावरणं सम्पूज्य द्वितीयावरणं सम्पूजयेत। अष्टपत्रेषु पूर्वादिचतुर्दिक्षु वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धान्पूजयेत। आग्नेयादिचतुर्दिक्षु शान्तिश्रीसरस्वतीरतीः पूजयेत। तृतीयावृत्तिस्तु अष्टदले पूर्वादिक्रमेण रुक्मिण्यादिस्वशक्तीः पूजयेत। रुक्मिणी सत्यभामा जाम्बवती नाग्नजिती मित्रविन्दा कालिन्दी लक्ष्मणा सुशीला चेति श्रीकृष्णशक्तयः । चतुर्थपञ्चमाद्यावरणमाह इन्द्रादिवसुदेवादिपार्थादीति । अत्र वसुदेवाद्यावरणमेव चतुर्थं बोध्यम् । पूर्वदले ओं पीतवर्णाय वसुदेवाय नमः । आग्नेयदले यशोदायै कनकाभायै । दक्षिणदले नन्दाय कर्पूरगौरवर्णाय । नैरृत्यदले राधायै कुङ्कुमगौरवर्णायै । पश्चिमदले बलदेवाय शङ्खकुन्दधवलाय । वायव्यदले कलापश्यामायै सुभद्रायै । उत्तरदले गोपेभ्यः । ईशानदले गोपीभ्यः । पञ्चमपार्थाद्यावृत्तिस्तु अर्जुनणिशठोद्धवदारुकविश्वक्सेनसात्यकिगरुडणारदपर्वतान्पूजयेत। षष्ठनिध्याद्यावृत्तिस्तु—
पूर्वादिक्रमेण इन्द्रनिधये,
नीलनिधये,
मुकुन्दनिधये,
मकरनिधये,
पश्चिमे अनन्तनिधये कच्छपनिधये विद्यानिधये,
ईशाने पद्मपरमानन्दमोक्षनिधये नमः ।
सप्तमेन्द्रावृतिस्तु—
पूर्वादिक्रमेण इन्द्राद्यष्टदिक्पालेभ्यो नमः । पूर्वेशानमध्ये ब्रह्मणे,
निरृतिपश्चिममध्ये आदिशेषाय । अष्टमवज्राद्यावृतिस्तुपूर्वादिक्रमेण वज्राद्यायुधेभ्यः । एतैरङ्गावरणादिवज्रावरणान्तैः आवीतं भगवन्तं यजेत।
एवं देवं त्रिसन्ध्यासु षोडशोपचारैः पूजयेत। तेन आराधनेन अस्य पुरुषार्थचतुष्टयमखिलं भवति । आवृत्तिर्द्वितीयोपनिषत्समाप्त्यर्था ॥१८॥
प्रबोधानन्दजीवयोः ः तत्र यन्त्रात्मकं पीठं तावद्दर्शयति तानुवाचेति । यत्तस्य पीठं तत्तान्प्रति ब्रह्मा उवाचेत्यर्थः । तदिदं पटलप्रायलिखनेन व्याख्यायते । स्वगृहे क्षालितं पीठं स्थापयित्वा हैरण्याष्टपलाशं सौवर्णाष्टदलमम्बुजं स्थापयेत। गन्धपूतेन चन्दनेन वा लिखेत। तदन्तरालिके तस्य कमलस्यान्तरालभवप्रदेशे अनलास्रयुगं त्रिकोणद्वयं सम्पुटितं लिखेदित्यर्थः । तस्य षट्कोणस्यान्तरा मध्ये आद्यार्णरूपमखिलस्य स्वकार्यस्य बीजं कामबीजं साध्यं नाम कर्म च लिखेदिति शेषः । तदुक्तं सनत्कुमारसंहितायाम्—
कर्णिकायां लिखेद्वह्निपुटितं मण्डलद्वयम् ।
तस्य मध्ये लिखेद्बीजं साध्याख्यं कर्मसंयुतम् ॥ इति ।
कृष्णाय नम इति बीजेनाढ्यमिति षट्सु सन्धिषु षडक्षरं लिखेदित्यर्थः । षट्सन्धिषु इति क्रमदीपिकोक्तेः [७.२७] । सब्रह्माणमिति पूर्वलिखितकर्णिकास्थमनङ्गबीजं सब्रह्माणमष्टादशाक्षरमन्त्रोपेतमाधायेत्यर्थः । मन्त्रतद्द्रष्ट्रोरभेदान्मन्त्रो ब्रह्मा,
मन्त्रदेवतयोरभेदात। परब्रह्मरूप इति वा । तदुक्तं तस्यामेव संहितायाम्—
ततः शिष्टैर्मनोर्वर्णैस्तं कामं वेष्टयेत्सुधीः इति । षट्कोणस्य षट्कोणस्य पूर्वनैरृत्यवायव्यकोणेषु श्रीं बीजं लिखेत। आग्नेयपश्चिमेशानकोणेषु ह्रीं बीजं लिखेत। तदुक्तं तस्यामेव—
श्रियं षट्कोणकोणेष्वैन्द्रनैरृतवायुषु ।
आलिख्य विलिखेन्मायां वह्निवारुणशूलिषु ॥ इति संहितोक्तेः ।
अनङ्गगायत्रीमिति । अष्टदलस्य केशरेषु अनङ्गगायत्रीं यथावत्त्रिशस्त्रिशो विलिखेत। कामदेवाय विद्महे इति कामगायत्रीं तदष्टदलेष्विति । नमः सर्वजनप्रियाय
सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्वजनस्य हृदयं मम वशीकुरु वशीकुरु स्वाहा इत्यष्टचत्वरिंशदक्षरं मालामन्त्रं प्रतिदलं षट्षडक्षरं क्रमेणालिखेदित्येव बोद्धव्यम् । अष्टदलस्योपरि वृत्तं कृत्वा मातृकाक्षरैर्वेष्टयेदित्यपि बोद्धव्यम् । तदुक्तं तस्यामेव—
अक्षरैः कामगायत्र्या वेष्टयेत्केशरे सुधीः ।
काममालामनोर्वर्णैर्दलेष्वष्टसु मन्त्रवित॥
लिखेद्गुहाननैर्भक्तैर्मान्त्रिकांस्तद्बहिर्लिखेत॥ इति ।
अत्र गुहस्याननैः षड्भिरित्यर्थः । भक्तैर्विभक्तैर्वर्णैरित्यर्थः ।
भूमण्डलं शूलवेष्टितं कृत्वेति । भूगृहं चतुरस्रं स्यादष्टवज्रयुतं मुने इति तत्संहितोक्तेः । अस्यैव धारणयन्त्रत्वात्साध्यादिलिखनमप्यादावसूसुचत। अत एव धारणविधानं तत्फलं च तस्यामेवोक्तम् ।
हुत्वा सहस्रमाज्येन यन्त्रे सम्पातपूर्वकम् ।
मार्जयित्वायुतं हुत्वा धारयेद्यन्त्रमुत्तमम् ।
त्रैलोक्यैश्वर्यमाप्नोति देवैरपि सुपूजितः ॥ इत्यादिना ।
यदा पूजार्थं यन्त्रं क्रियते,
तदा तूक्तं तस्यामेव—
मण्डुकादिपृथिव्यन्तं पूजयेत्कर्णिकोपरि ।
अग्न्यादिपीठपादेषु धर्मादींश्चतुरो यजेत॥
तारवर्णप्रभिन्नानि मण्डलानि क्रमात्ततः ।
सत्त्वं रजस्तम इति यजेदात्मचतुष्टयम् ॥
आत्मान्तरात्मा परमात्मा ज्ञानात्मेति चतुःक्रमात।
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति पञ्चमी ॥
प्रह्वी सत्या तथेशानानुग्रहा नवमी तु ताः ।
प्रागाद्यष्टसु पत्रेषु कर्णिकायां यजेन्मुनिः ॥
ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयौगपद्यपीठात्मने नमः इति पद्मोपरिविन्यस्त्य्पीठमन्त्रमयस्योपरि विन्यस्योक्तसंहितानुसारेण ।
सब्रह्माणमोंकारसहितं यद्वा तानुवाच हैरण्य इत्यन्वयः । तस्य कृष्णस्य यत्पीठं यत्राबाह्योपास्य तदु होवाचेत्यर्थः । क्वचिद्धैरण्यमष्टेति पाठोऽस्ति । तत्र ज्योतिर्मयमम्बुजमित्यर्थः । उद्यद्विरोचन इत्युक्तेः । हैरण्यमित्यनेन पीतत्वप्राप्तेः । पीतारुणयोरीषद्भेदाज्ज्योतिर्मयत्वमात्रोक्तेः । अष्टौ पलाशानि पत्राणि यस्य । तदन्तरालिकं तस्य पद्मस्य मध्ये अन्तराले कर्णिकायां वर्तमानम् । अनलस्याग्नेर्यदस्त्रं त्रिकोणरूपमण्डलं तद्द्वयं तन्मध्ये आद्यमक्षरं बीजरूपं लिखेत। खिलैस्तन्मात्रन्यूनैरितरमन्त्राक्षरैर्वीतम् ।
यद्वा,
क्लीं बीजमादौ यस्य तत्कृष्णाय नमः इति सविसर्गपञ्चाक्षर्माधाय अस्रसन्धिषु श्री ह्रीं रमां भुवनेशां लिखेत। अमा श्रीर्न मीयते परिच्छिद्यते इति अमा । सब्रह्मणमिति । ब्रम श्रीकृष्ण एवाष्टदशाक्षररूपं विलिख्य अथानङ्गस्य कामदेवस्य मनुर्मालामन्त्रस्तत्सहितां कामगायत्रीं चाधाय दलाष्टके यथावद्व्यापय्य । स ब्रह्मा उवाचेति । व्यवहितान्वयो वा सब्रह्माणं सप्रणवसरस्वतीं मातृकां दलबाह्ये वेष्टयित्वा भूमण्डलं यथावत्शूलवेष्टितं कृत्वा । भूमण्डलस्य करणम् । तत्र श्रींह्रींबीजयोर्जनमेव ।
ततः पीठं समभ्यर्च्य देवमावाह्य नारद ।
अर्घ्यादिधूपदीपादीनुपचारान्प्रकल्पयेत॥ इति ज्ञेयम् ।
अथावरणपूजाम् । तत्र प्रथमावरणमाह अङ्गमिति । षट्कोणस्याग्नेयनैरृत्यवायव्येशानेषु हृदयशिरःशिखाकवचानि । अग्रभागे नेत्रं पूर्वादिदिक्षु चास्रमित्यङ्गानि पूजयेत।
द्वितीयावरणमाह—
वासुदेवादीति । पूर्वपश्चिमयाम्योत्तरदलेषु यथाक्रमं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धान्पूजयेत। आग्नेयनैरृत्यवायव्येशानेषु यथाक्रमं शान्तिश्रीसरस्वतीरतीः पूजयेत।
तृतीयावरणमाह—
या रुक्मिण्याद्याः स्वशक्तयः कृष्णशक्तयो दलेषु—
रुक्मिणी सत्यभामा च जाम्बवत्यपरा तथा ।
नाग्नजिती मित्रविन्दा कालिन्दी च ततः परा ।
लक्ष्मणा च सुशीला च पूज्या एता शुभप्रदा ॥ इत्य्प्रसिद्धास्ताः पूजयेत।
चतुर्थपञ्चमाद्यावरणमाह इन्द्रादीति । अत्र वसुदेवाद्यावरणमेव चतुर्थं ज्ञेयम् । पूर्वभागे वसुदेवाय पीतवर्णाय । अग्निकोणे देवक्यै श्यामलायै । दक्षिणभागे नन्दाय कर्पूरगौराय । नैरृत्यकोणे यशोदायै कुङ्कुमगौर्यै । पश्चिमे बलदेवाय शङ्खकुन्देन्दुधवलाय । वायव्ये कलायै श्यामलायै सुभद्रायै । उत्तरकोणे गोपेभ्यः । ईशानकोणे गोपीभ्यः ।
श्रीदेवकीयशोदयोर्वर्णविभागोऽयं सनत्कुमारसंहितानुसारेण अस्यास्तापन्याष्टीकाकारविशेषेण विश्वेश्वरभट्टेन लिखितः । यथोक्तं गौतमीयतन्त्रे च—
देवकी श्यामसुभगा सर्वाभरणशोभना ।
यशोदा हेमसङ्काशासितवस्त्रयुगावृता ॥
तदेवमेव शारदातिलककारकृता माधवभट्टेन क्रमदीपिकां व्याचक्षणेन क्रममपि त्यक्त्वा व्याख्याते । मातरौ यशोदादेवक्यौ,
कीदृश्यौ अरुणश्यामले इति । अतश्चात्र कुङ्कुमगौरतामयी ज्ञेया । केचित्तु क्रमदीपिकाक्रमानुसारेण वर्णविपर्ययं मन्यन्ते किन्तु भवेत्तदप्युपासकानुभवप्रामाण्येनेति । प्रस्तुतमनुसरामः ।
पञ्चमं तु पार्थाद्यावरणम् । अर्जुनणिशठोद्धवदारुकविष्वक्सेनसात्यकिगरुडणारदपर्वता इति क्रमेण षष्ठं निध्यावरणं पूर्वस्मिनिन्द्रनिधये । आग्नेये नीलनिधये । याम्ये कुन्दाय नमः । नैरृत्यकोणे मकराय । पश्चिमेऽनङ्गाय । वायव्ये कच्छपाय । उत्तरे शङ्खाय । ईशानकोणे पद्मनिधये ।
सप्तममिन्द्राद्यावरणम् । इन्द्राय पीतवर्णाय पूर्वदले । अग्नये रक्तवर्णाय । यमाय नीलोत्पलवर्णाय । रक्षोऽधिपतये कालवर्णाय । वायवे धूम्रवर्णाय । वरुणाय शुक्लवर्णाय । कुबेराय नीलवर्णाय । ईशानाय श्वेतवर्णाय । पूर्वेशानयोर्मध्ये ब्रह्मणे पलाशकुसुमाकाराय । नैरृत्यपश्चिमयोर्मध्ये शेषनागाय श्वेतवर्णाय ।
पूर्वदले एवं वज्राय पीतवर्णाय । शक्तये शुक्लवर्णाय । दण्डाय नीलवर्णाय । शङ्खाय श्वेतवर्णाय । पाशाय विद्युद्वर्णाय । ध्वजाय रक्तवर्णाय । गदायै नीलायै । त्रिशूलाय शुभ्राय इत्यष्टमावरणमिति ॥२०॥
सन्ध्यासु त्रिकालसन्ध्यासु प्रतिपत्तिभिर्ध्यानैः । उपचारैः षोडशोपचारादिमहाराजोपचारैः पूजयेदित्यर्थः । तेनाराधनेन अस्याराधकस्य अखिलं पुरुषार्थचतुष्टयं भवति ।
प्रबोधानन्द ओन्ल्यः त्रिकालसम्बन्धिध्यानपूजे चात्रोक्ते प्रतिपत्तिभिरुपचारैरिति पाठे बुद्ध्या सम्पादितैरित्यर्थः । यद्वा प्रतिपत्तिभिर्ध्यानैस्तद्दर्शनादिचित्तनैर्बाह्यैश्चोपचारैः प्रतिपद्यन्ते श्रीकृष्णं प्राप्नुवन्ति ,
ये उपचाराः प्रतिपत्तिभिर्विना तन्मयैः स्वेष्टप्रेमरसमययत्नेन चिन्तितैरित्यर्थः । प्रतिपत्तिर्ज्ञानं तद्रूपैरिति वा । तेन यजनेनास्य साधकस्य अखिलं श्रीकृष्णे महाप्रेमलक्षणा भक्तिः सर्वोत्तममशेषवाञ्छितं भवति । अकामितमपि कृष्णार्चनप्रभावेण सम्पद्यते । अन्यदल्पं वाञ्छितमपि वाञ्छातीतमतिदुर्लभमपि स्वयमेव भवतीत्यर्थः । द्विरुक्तिर्निश्चयार्थः । अभ्यासो द्वितीयोपनिषत्समाप्त्यर्थो वा ।
अखिलं फलं तत्प्रेमपर्यन्तः सर्व एव पुरुषार्थस्तद्वासनानुसारेण भवतीति । अतिपत्तिभिरिति पाठे अतिक्रम्य पत्तिः प्राप्तिर्येषां तैः द्विपान्तरोद्भवैरत्यन्तदुर्लभैरित्यर्थः । यद्वा,
अतिशयेन पत्तिः प्राप्तिर्यस्येति । सुलभैः पत्रपुष्पादिभिरित्यर्थः । मतिपत्तिभिरिति । मानसपूजायां सुलभैव सर्वम् । मानसैर्नानोपहारैः सर्वर्तौ समस्तफलपुष्पादिसम्पत्सदैव भवतीति मनोमयी अर्चापि श्रेष्ठा एव । मनोनैश्चल्ये सति स्वत एव भवतीति ॥२१॥
जीव ओन्ल्यः सन्ध्यासु त्रिकालसन्ध्यासु प्रतिपत्तिभिर्ध्यानैः । उपचारैः पञ्चोपचारादिमहाराजोपचारान्तैः पूजयेदित्यर्थः । तेनाराधनेनास्याराधकस्याखिलं पुरुषार्थचतुष्टयं भवति । अभ्यासो द्वितीयोपनिषत्समाप्त्यर्थः ।
अत्र यत्तस्येत्यादिषु पाठभेदं व्याख्याभेदं च केचित्कुर्वन्ति । यथा तस्य पद्मयान्तराले कर्णिकायां वर्तमानमनलास्रं तिर्यगूर्ध्वभावेन त्रिकोणं,
तदन्तस्तन्मध्येऽष्टादशाक्षरस्याद्यार्णं प्रथमाक्षरं कामबीजं यत्तेनाखिलैर्मन्त्रैर्न्यूनैरितरमन्त्राक्षरैर्वीतं वेष्टितं यथा स्यात्तथा कृष्णाय नम इति बीजाढ्यं षडक्षरमाधाय सब्रह्माणं ब्रह्मणा प्रणवेन सह वर्तमानामगामगीयमानामजपागायत्रीमाधाय अनङ्गमनुं कामबीजेन सह गायत्रीं कामगायत्रीं यथावत्व्यापय्य सर्वतो वेष्टयित्वा भूमण्डलं तद्बहिर्मण्डलं शूलवेष्टितं दिक्षु विदिक्षु च शूलेन व्याप्तं कृत्वा अङ्गैस्तदंशभूतैर्वासुदेवसङ्कर्षणादिभिः रुक्मिण्यादिभिश्च स्वशक्तिभिरिन्द्रादिभिश्च वसुदेवादिभिश्च पार्थादिभिश्च निधिभिश्चावीतमावृतं पूजयेत। सन्ध्यासु सन्ध्यासु त्रिसन्ध्यमित्यर्थः । अतिपत्तिभिरिति—
अतिक्रम्य पत्तिः प्राप्तिर्येषां तैर्दुर्लभैरित्यर्थः । यद्वा,
अतिशयेन पत्तिः प्राप्तिर्येषामिति सुलभैः पत्रपुष्पादिभिरपीत्यर्थ इति ॥२२॥
ओ)०(ओ
(
१९)
तदिह श्लोका भवन्ति—
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठगं येऽनुयजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥
विश्वेश्वरः ः उक्तोपासने मन्त्रसम्मतिमाह—
तदिहेति । तत्तस्मिन्दृष्टे इह उक्तोपासने श्लोका मन्त्रा अपि भवन्ति वर्तन्ते । एको वशी सर्वग इति । एकः सजातीयविजातीयस्वगतभेदरहितः । अत एव वशे सर्वमस्यास्तीति वशी । सर्वगः सर्वत्र देशतः कालतः वस्तुतश्चापरिच्छिन्नः । कृष्णः आनन्द अत एव ईद्यः ब्रह्मादीनामपि स्तुत्यः । पूर्वोक्तः एकोऽपि सन्यः कृष्णः जगत्पालनाय बहुधा पञ्चरूपः विभाति विविधं प्रकाशते वायुरिव प्राणादिभेदैः । तं पीठस्थमिति । तं पञ्चपदात्मकं प्रागुक्तं पीठस्थमनु लक्षीकृत्य ये धीराः एकाग्रचित्ताः भजन्ति तेषामेव शाश्वतं नित्यानन्दात्मकं सुखं न तु इतरेषां तद्भक्तिरहितानाम् । अचक्षुष्मतामिव रूपदर्शनम् ॥२१॥
ब्रह्मोपनिषद्योगी ः उक्तोपासनानुकूलमन्त्रा अपि भवन्तीत्याहतदिह श्लोका भवन्तीति ॥१९॥ यस्य वशे निखिलं वर्तते स वशी । शिष्टं कठवल्ल्यां व्याख्यातम् ॥२०॥
प्रबोधानन्दः ः तत्तस्मिन्तत्तत्साधकभूते एतन्मन्त्रोपासनफले इह मयापि सम्यगनुभूयमाने सविशेषतन्निरूपिका श्लोका भवन्ति । नित्यं सन्त्येव । न तु मया उच्यते । अपि तु अहमेव श्लोकरूपा इत्यर्थः । उक्तोपासने मन्त्रसंमतिमाह तदिहेति ॥२२॥
तत्र श्रीकृष्णमायाखिलान्सौख्यजातान्प्रच्यावयेदपि अदास्यसौख्यत्वात। श्रीकृष्णदत्तां त्वखिलां सुखर्द्धिं कालोऽपि न च्यावयितुं समर्थ इत्याह—
एक इति । एकः
स्वयंभगवत्त्वेनासमोर्ध्वत्वात। यथोक्तं श्रीभागवते स्वयं त्वसाम्यातिशयस्त्र्यधीशः [भ्P
३.२.२१] इति । अतो वशी सर्ववशयिता । यतः सर्वगः सर्वव्यापकः । स च कृष्णः कृष्णस्तु भगवान्स्वयं [भ्P
१.३.२८] इत्यादिषु यः प्रसिद्धः स एव । अतः स एवेड्यः सर्वस्तुत्यः । ननु,
श्रीकृष्णरूपेणापि बहव आविर्भावा दृश्यन्ते,
कथमेकत्वं ?
तत्राह—
एकोऽपि सन्निति । अचिन्त्यशक्तित्वात। तथोक्तं तत्रैव—
चित्रं बतैतदेकेन वपुषा युगपत्पृथक।
गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत॥ [भ्P
१०.६९.२] इति ।
धीराः शुकादिवद्विवेकिनः । तेषां शाश्वतं यत्सुखं तत्सुखमितरेषाम् । अन्येषां महानारायणाद्युपासकानामपि नेत्यर्थः । तथोक्तं तत्रैव—
यन्मर्त्यलीलौपायिकं स्वयोग
मायाबलं दर्शयिता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषणं भूषणाङ्गम् ॥ [भ्P
३.२.२२] इति ॥२३॥
श्रीजीवःः उक्तोपासने मन्त्रसम्मतिमाह—
तदिहेति । एकः स्वयंभगवत्त्वेन असमोर्ध्वत्वात। यथोक्तं श्रीभागवते स्वयं त्वसाम्यातिशयस्त्र्यधीशः [भ्P
३.२.२१] इति । अतो वशी सर्ववशयिता । यतः सर्वगः सर्वव्यापकः । स च कृष्णः कृष्णस्तु भगवान्स्वयं [भ्P
१.३.२८] इत्यादिषु प्रसिद्धो यः स एव । अतः स एवेड्यः सर्वस्तुत्यः । ननु,
श्रीकृष्णरूपेणापि बहव आविर्भावा दृश्यन्ते,
कथमेकत्वं ?
तत्राह—
एकोऽपि सन्निति । अचिन्त्यशक्तित्वात। यथोक्तं तत्रैव—
चित्रं बतैतदेकेन वपुषा युगपत्पृथक।
गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत॥ [भ्P
१०.६९.२] इति ।
धीराः—
श्रीशुकादिवद्विवेकिनः । तेषां शाश्वतं यत्सुखं तत्सुखमितरेषामन्येषां महानारायणाद्युपासकानामपि नेत्यर्थः । तथोक्तं तत्रैव—
यन्मर्त्यलीलौपायिकं स्वयोग
मायाबलं दर्शयिता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषणं भूषणाङ्गम् ॥ [भ्P
३.२.२२] इति ॥२३॥
ओ)०(ओ
(
२०)
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥
विश्वेश्वरः ः मन्त्रान्तरमाह नित्यो नित्यानामिति । नित्यानामिव मध्ये यो यो वस्तुगत्या नित्यः तथा चेतनानामिव बुद्ध्यादीनां मध्ये वस्तुतः चेतनः तथा यः एकः सन्पञ्चपदरूपेण बहूनां कामान्विदधाति । पीठगं ये अनुभजन्ति धीराः तेषां सिद्धिः शाश्वती अनपायिनी न तु इतरेषामिति पूर्ववत॥२२॥
ब्रह्मोपनिषद्योगी ः पूर्ववन्मन्त्रान्तरमाह नित्यो नित्यानामिति । नित्यानामिव मध्ये यो यो वस्तुगत्या नित्यः तथा चेतनानामिव बुद्ध्यादीनां मध्ये वस्तुतः चेतनः तथा यः एकः सन्पञ्चपदरूपेण बहूनां कामान्विदधाति । पीठगं ये अनुभजन्ति धीराः तेषां सिद्धिः शाश्वती अनपायिनी न तु इतरेषामिति पूर्ववत॥२१॥
प्रबोधानन्दः ः द्वितीयश्लोकेन पूर्वोक्तं सुष्ठु निरूपयन्नन्यदप्याहनित्यो नित्यानामित्यादि । तन्नित्यत्वेनैवान्येषां नित्यत्वमित्यर्थः । एवं चेतयित्è
णां जीवानां चेतयितृत्वमपि । तदुक्तं तत्रैव
सर्वेषामेव वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान्कृष्णः किमतद्वस्तु रूप्यताम् ॥ [भ्P
१०.१४.५७] इति ।
अतः कृष्णः नित्या ये केचन पदार्थास्तेषां मध्ये परमनित्याः ।
नन्वनुक्ता एवोपासकास्तथेति तेषां सङ्कीर्णत्वं स्यात्?
तत्राह—
एको बहूनामिति । एक एव फलदाता बहूनां कामनिष्ठान्विदधाति करोति । यो यत्किंचन कामं करोति स तत्कामितं तेन तुष्टात्श्रीकृष्णादेव लभते । एकोऽपि सन्निति । तदेव कामान्तत्प्रेममयान्तेषां या शाश्वती सिद्धिः स्यात्,
सा त्वितरेषां नेति पूर्ववत। तथा च व्याख्यातं विश्वेश्वरभट्टैः ये धीरा एकाग्रचित्ता भजन्ति तेषामेव शाश्वती नित्यानन्दात्मिका सिद्धिरियं,
न त्वितरेषां तद्भक्तिरहितानाम्,
अचक्षुष्मतामिव रूपदर्शनमिति ॥२४॥
श्रीजीवःः एवं नित्यो नित्यानामित्यादि । तन्नित्यत्वेनैवान्येषां नित्यत्वमित्यर्थः । एवं चेतयित्è
णां जीवानां चेतयितृत्वमपि । तदुक्तं तत्रैव
सर्वेषामेव वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान्कृष्णः किमतद्वस्तु रूप्यताम् ॥ [भ्P
१०.१४.५७] इति ।
नन्वनन्ता एवोपासकास्तस्येति तेषां सङ्कीर्णत्वं स्यात्?
तत्राह—
एको बहूनामिति । एकोऽपि सन्नितिवदेव कामान्तत्प्रेममयान्तेषां या शाश्वती सिद्धिः स्यात्,
त्वितरेषां नेति पूर्ववत। तथा च व्याख्यातं विश्वेश्वरभट्टैः ये धीराः एकाग्रचित्ताः भजन्ति तेषामेव शाश्वती नित्यानन्दात्मिका सिद्धिरियं,
न त्वितरेषां तद्भक्तिरहितानाम् । अचक्षुष्मतामिव रूपदर्शनमिति ॥२४॥
ओ)०(ओ
(
२१)
एतद्धि विष्णोः परमं पदं ये
नित्योद्युक्ताः संयजन्ते न कामान।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदैव ॥
विश्वेश्वरः ः मन्त्रान्तरमाह—
एतद्विष्णोरिति । ये साधकाः एतत्यन्त्रात्मकं विष्णोः पदं नित्ययुक्ताः सततं प्रयन्तवन्तः संयजन्ते सम्यगाराधयन्ति,
न तु कामान्कामयन्ते । तेषां साधकोत्तमानामसौ गोपालरूपः गोपवेषो वा प्रयत्नातात्मपदं स्वरूपं तदैव भवनाव्यवहितसमये प्रकाशयेत्प्रत्यक्षं दर्शयेत॥२३॥
ब्रह्मोपनिषद्योगी ः एतत्पूर्ववन्मन्त्रान्तरमाह—
एतदिति । ये साधकाः एतद्विष्णोः यन्त्रात्मकं परमं पदं नित्योद्युक्ताः सन्ततश्रद्धाभक्तिविशिष्टाः सन्तस्तं यजन्ते निष्कामधिया सम्यगाराधयन्ति न तु तस्मात्कामात्कामान्कामयन्ते तेषामसौ गोपरूपो हरिः स्वस्वरूपं प्रकाशयेदित्यर्थः ॥२१॥
प्रबोधानन्दः ः एतत्पूर्वं च रूपं संयजन्ते यथोक्तमुपासते,
न तु कामान्कामयन्ते इति शेषः । आत्मपदं स्वचरणसरोजमात्मना स्वेनाधिष्ठितं पूर्वोक्तपीठं वा । यद्वा,
आत्मा श्रीमूर्तिरेव पद्यते जायते यत्र । परमानन्दमहोदधिरूपमत्र च गोपरूपमात्मपदं प्रकाशयेत। सहजनन्दकुमारस्वरूपं तत्क्षणादेव दर्शयेत॥२५॥
श्रीजीवःः एतत्पूर्वोक्तं पीठरूपं संयजन्ते यथोक्तमुपासते,
न तु कामान्कामयन्ते इति शेषः । न कामादिति केषाञ्चित्पाठे ततोऽन्यत्र कामनाशून्यतयेत्यर्थः । आत्मपदं नित्यस्वस्थानम् ॥२५॥
ओ)०(ओ
(
२२)
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥
विश्वेश्वरः ः ननु तत्प्रकाशे सति किं स्यादित्याशङ्क्य मुमुक्षुशरण्योक्त्यैव तस्य मोक्षप्रदत्वमाह यो ब्रह्माणमिति । यः परमेश्वरः कृष्णः पूर्वं सृष्टिसमये ब्रह्माणं विदधाति रचयति यः कृष्णः तस्मै तदर्थं विद्याः वेदान्प्रलयपयोधिजले मत्स्यहयग्रीवादिरूपेण गोपायति तस्मै उपदिशति वा । तदेवं द्योतात्मकमात्मबुद्धिप्रकाशं स्वप्रकाशं मुमुक्षुः मोक्षार्थी शरणमनुव्रजेत॥२४॥
ब्रह्मोपनिषद्योगी ः स्वात्मपदप्रदर्शनतः किं स्यादित्यत्र तद्भावापत्तिः स्यादित्याह—
य इति । यः कृष्णः पूर्वं सृष्टिसमये ब्रह्माणं विदधाति यस्तस्मै वेदान्धारयति यः प्रलये विद्या वेदान्पयोधौ मत्स्याद्यवतारेण गोपायति पुनस्तस्मा उपदिशति तं ह देवमात्मबुद्धिप्रकाशं प्रत्यञ्चं मुमुक्षुः शरणं व्रजेत। तच्छरणतः स एव तं मोचयतीत्यत्र—
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [ङीता १८.६६] इति भगवद्वाक्यं मानम् ॥२२॥
सनातनः ः प्रेम्णैवात्मवृत्तेः प्रकाशो यस्य तम् । पाठान्तरं सुगमम् ।
प्रबोधानन्दः ः तत्र साधकतमत्वेन तत्कृपैवान्वेष्येति दर्शयंस्तस्य तद्रूपत्वेन नित्यावस्थायित्वमपि दर्शयति—
यो ब्रह्माणमिति । विद्या वक्ष्यमाणरीत्या अष्टादशार्णाद्या आत्मबुद्धिप्रकाशमात्मन एव सकाशाद्बुद्धेः सर्वस्यापि ज्ञानस्य प्रकाशो यस्य तं शास्त्रयोनिमित्यर्थः । यो ब्रह्माणं विदधाति सृजति तं प्रति यः कृष्णः विद्यां गापयति । वै निश्चये । अमुं श्रीकृष्णमेव शरणं व्रजेत॥२६॥
श्रीजीवःः तत्र साधकतमत्वेन तत्कृपैवान्वेष्यति दर्शयंस्तस्य तद्रूपत्वेन नित्यावस्थायित्वमपि दर्शयति—
यो ब्रह्माणमिति । विद्या वक्ष्यमाणरीत्या अष्टादशार्णाद्याः । आत्मबुद्धिप्रकाशमात्मन एव सकाशाद्बुद्धेः सर्वस्यापि ज्ञानस्य प्रकाशो यस्य तं शास्त्रयोनिमित्यर्थः ॥२६॥
ओ)०(ओ
(
२३)
ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥
विश्वेश्वरः ः पञ्चपदमन्त्रस्य मन्त्रान्तरमूलत्वं विवक्षुः प्रणवपुटितं पञ्चपदरसनफलमाह—
ओङ्कारेणान्तरितमिति । ओङ्कारेण अन्तरितं पुटितं गोविन्दस्य पञ्चपदमनुं मन्त्रं ये जपन्ति तेषामसौ गोविन्दः आत्मरूपं दर्शयेत। तस्मात्कारणात्मुमुक्षुः पुरुषः नित्यशान्त्यै संसारानर्थशान्त्यै गोविन्दमन्त्रमभ्यसेत्पुनः पुनर्जपेत॥२५॥
ब्रह्मोपनिषद्योगी ः प्रकृतपञ्चपदस्य प्रणवयोगतो रसनफलमाह—
ओमिति । गोविन्दस्य पञ्चपदमोङ्कारेण अन्तरितं सम्पुटितं कृत्वा ये जपन्ति तेषामसौ भगवान्स्वात्मरूपं दर्शयेत। यस्मादेवं तस्मात्मुमुक्षुर्नित्यशान्त्यै गोविन्दस्य पञ्चपदं मनुं नित्यमभ्यसेत्जपेदित्यर्थः ॥२३॥
सनातनः ः नित्यशान्त्यै नित्यायै अविनश्वरायै शान्त्यै सुखाय,
अबुध्यत प्रबोधं प्राप्तः ।
प्रबोधानन्दः ः तस्यैव मन्त्रस्य प्रणवसम्बन्धेन जपमात्रात्पूर्वोक्तसम्यग्यजनफलमभिव्यञ्जयति—
ओङ्कारेणान्तरितमिति । तेन सम्पुटितमित्यर्थः । तेषामिति तान्प्रतीत्युवाचेत्यर्थः । तस्मै वेति पाठे तेषां मध्ये यस्य कस्यचिन्न तु ब्रह्मादितुल्यस्यैवेति नियम इत्यर्थः । मुमुक्षुः सर्वमन्यत्परित्यक्तुमिच्छुः । अभ्यसेत्तन्मन्त्रमात्रं यत्नित्यशान्त्यै सर्वेऽपि द्रवरहितनित्यतादृग्सुखायेत्यर्थः । पञ्चपदमित्यनेनार्थानुसन्धानपूर्वकमिति ॥२७॥
श्रीजीवःः तस्यैव मन्त्रस्य प्रणवसम्बन्धेन जपमात्रात्पूर्वोक्तसम्यग्यजनफलमभिव्यञ्जयति—
ओङ्कारेणान्तरितमिति । तेन सम्पुटितमित्यर्थः । तेषामिति तान्प्रतीत्यर्थः । तस्यैवेति पाठे तेषां मध्ये यस्य कस्यचिन्न तु ब्रह्मादितुल्यस्यैवेति नियम इत्यर्थः । मुमुक्षुः सर्वमन्यत्परित्यक्तुमिच्छुः । अभ्यसेत्तन्मन्त्रमावर्तयेत। नित्यशान्त्यै सर्वोपद्रवरहितनित्यतादृशसुखायेत्यर्थः ॥२७॥
ओ)०(ओ
(
२४)
एतस्मादन्ये पञ्चपदादभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूतिकामैर्यथावत॥
विश्वेश्वरः ः एतस्मादन्ये मन्त्रा बभूवुरित्याह—
एतस्मात्पञ्चपदमन्त्रादन्ये दशाक्षराद्या गोविन्दस्य मनवः मानवानां सनकादीनां स्फुरिता बभूवुः । तेऽपि सङ्क्रन्दन्दाद्यैः सङ्क्रन्दन इन्द्रः सङ्क्रन्दनो निमिषः एकवीरः शतधा सेनामजयत्सादमिन्द्रः इति श्रुतेः । सङ्क्रन्दनो दुश्च्यवनः इत्यमरकोषाच्च । तत्प्रमुखैः भूतिकामैः यथावत्विध्युक्तप्रकारेण अभ्यस्यन्ते ॥२६॥
ब्रह्मोपनिषद्योगी ः एतस्मादन्ये मन्त्रा बभूवुरित्याह—
एतस्मादिति । एतस्माद्गोविन्दस्य पञ्चपदमन्त्रादन्ये दशाक्षराद्या मनवो मानवानां सनकादीनां स्फुरिता बभूवुः । सङ्क्रन्दनोऽनिमिषः एकवीरः शतं सेना अजयत्साकमिन्द्रः इति श्रुतिसिद्धसङ्क्रन्दनाद्यैरिन्द्रादिदेवैर्भूतिकामैः यथावतभ्यस्यन्ते । ते मन्त्रा अपि कृष्णपदप्रापका एवेत्यर्थः ॥२४॥
प्रबोधानन्दः ः तस्यैव मन्त्रस्य सर्वतन्मन्त्रबीजत्वमाह—
एतस्मादिति । मानवानां नानावासनजीवानां कृतेऽभूवन। सनकादिषु प्रादुर्भूताः । भूतिकामैरपीत्यन्वयः । तत्र सङ्क्रन्दनाद्यैर्भूतिकामैः । सनकाद्यैर्मुक्तिकामैः श्रीनारदाद्यैर्भक्तिकामैरिति मन्त्रानुसारेण ज्ञेयम् ॥२८॥
श्रीजीवःः तस्यैव मन्त्रस्य सर्वतन्मन्त्रबीजत्वमाह—
एतस्मादिति । मानवानां नानावासनजीवानां कृते अभूवन्सनकादिषु प्रादुर्भूताः । भूतिकामैरपीत्यन्वयः । तत्र सङ्क्रन्दनाद्यैर्भूतिकामैः सनकाद्यैर्मुक्तिकामैः श्रीनारदाद्यैर्भक्तिकामैरिति तन्त्रानुसारेण ज्ञेयम् ॥२८॥
ओ)०(ओ
(
२५)
यदेतस्य स्वरूपार्थं वाचा वेदयेति ते पप्रच्छुः ।
विश्वेश्वरःः अत्र हेतुमाह यदेतस्येति । यत्यस्मात्कारणात्ते मन्त्राः । एतस्य श्रीकृष्णस्य स्वरूपभूतमर्थं सर्वपुरुषार्थसाधकं वाचा वेदयन्ति । ते मुनयः पञ्चपदमन्त्रस्वरूपं जिज्ञासवः पप्रच्छुः ॥२७अ॥
ब्रह्मोपनिषद्योगीः पुनर्मुनयः पञ्चपदस्वरूपं पृच्छन्ति—
ते पप्रच्छुरिति ॥२५अ॥
प्रबोधानन्दः ः तत्र हेतुः यदेतस्येति । यत्यस्मात्कारणात। एते मन्त्राः श्रीकृष्णमन्त्रा अस्य श्रीकृष्णस्य स्वरूपमर्थं स्वरूप एव सर्वपुरुषार्थसाधकं यत्,
तद्वाचा वेदयन्ति प्रकाशयन्ति ॥२९॥ अथैव सत्यतर्क्यपरमनिरतिशयशक्तिमत्त्वं मन्त्रस्य श्रुत्वा विस्मितास्ते मुनयः पप्रच्छुः ॥३०॥
श्रीजीवःः तत्र हेतुः । यदेतस्य स्वरूपार्थं वाचा वेदयन्ति प्रकाशयन्तीति यद्यस्मात्कारणात्ते मन्त्राः । अस्य श्रीकृष्णस्य स्वरूपभूतमर्थं स्वरूपमेव सर्व पुरुषार्थसाधकं यद्वाचा वेदयन्ति प्रकाशयन्ति । ते पप्रच्छुरित्यत्र पञ्चपदस्वरूपमिति शेषः ॥२९॥
ओ)०(ओ
(
२६)
तदु होवाच । ब्रह्मसवनं चरतो मे ध्यातः स्तुतः
परमः परार्धान्ते सोऽबुध्यत ।
गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव ॥
विश्वेश्वरःः तदु हेति । तत्पञ्चपदस्वरूपमु अपि ह किल ब्रह्मा उवाच । किं ?
ब्रह्मसवनं ब्रह्मणः सवनं प्रथमपरार्धं वर्तमानस्य मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते रात्र्यन्ते स गोपवेशः अबुध्यत योगनिद्रातः उत्थितः । तथा मे पुरस्ताताविर्बभूव पुरुषः ॥२७ब॥
ब्रह्मोपनिषद्योगीः तैः पृष्टः तदु होवाच । परार्धान्ते रात्र्यन्ते । ब्रह्मणः सवनं समयं चरतो मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते रात्र्यन्ते स भगवानबुध्यत । कोऽयं मे मम उपदेषा पुरुषः पुरस्तादाविर्बभूव ॥२५ब॥
प्रबोधानन्दः ः तदु तदेव ह स्फुटं ब्रह्मा उवाच । यद्वा तत्पञ्चपदं च स्वरूपमपि ह किल । ब्रह्मसवनमिति किं ब्रह्मणः समयं प्रथमपरार्धं तमनु वर्तमानस्येति मे मया ध्यातः स्तुतः परमः परमेश्वरः परार्धान्ते स गोपालः अबुध्यत । तथाभूते मय्यवधानं कृतवान। यद्वा,
मयि कृपां करोत्विति ध्यातः स्तुतश्च । स च ध्यानेन स्तुत्या विषयीकृतश्च । परार्धान्ते समये मया गोपवेशोऽबुध्यत गोपाल एव सर्वोत्तमत्वेन हृद्यागतः । ततोऽनुरूपभावस्फूर्त्या पुरस्तादाविर्बभूव । अतो गोपालवेश एव पूर्वं मया अज्ञातः,
अष्टादशार्णपरमप्रतिपाद्ये रूपे सर्वोत्तमत्वे सर्वानन्दपरमसीमतया च पर्मोत्तमसुखसाम्राज्यस्य कारुण्यादिगुणानां परमोत्कर्षतया मे पुरस्तादाविर्बभूव ॥३१३२॥
जीवः ः तदु हेति ततों पञ्चपदस्य स्वरूपमपि ह किल ब्रह्मा उवाच । किं ?
ब्रह्मसवनम् । ब्रह्मणः समयं प्रथमपरार्धं तमनुवर्तमानस्येति मे ध्यातः स्तुतः परमः परमेश्वरः परार्धान्ते स श्रीगोपालोऽबुध्यत । तथाभूते मय्यवधानं कृतवान। ततश्च गोपवेश एव सन्मे पुरस्तादाविर्बभूव । केषांचित्पाठान्तरे तदिदं व्याख्येयं—
यत्ते मुनयः पप्रच्छुः—
तदु तदेव ब्राह्मणो ह स्फुटमुवाचेत्यन्वयः । यदिति किम्?
तदाह—
एतस्याष्टादशार्णस्य स्वरूपस्थितो योऽर्थस्तत्तद्वस्तूत्पादिका शक्तिश्तं वाचा निगदेनैवादेयति । कुमुवाच ?
तदाह—
अनवरतमिति शिष्टम् । अन्यत्समानम् ॥२९॥
ओ)०(ओ
(
२७)
ततः प्रणतो मयाऽनुकूलेन हृदा
मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः ।
पुनः सिसृक्षतो मे प्रादुरभूत।
तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयन।
तदिह ककारादापो लकारात्पृथिवी
ईतोऽग्निर्बिन्दोरिन्दुस्तत्सम्पातात्तदर्क इति क्लींकारादसृजम् ।
कृष्णायपदादाकाशं खाद्वायुरित्युत्तरात्सुरभिं
विद्यां प्रादुरकार्षम् । तदुत्तरात्स्त्रीपुंसादि
चेदं सकलमिदं सकलमिदमिति ॥
विश्वेश्वरःः ततः प्रणत इति । ततः तदनन्तरं मया अनुकूलेन तत्रानुरक्तेन हृदा मनसा प्रणतः नमस्कृतः । अथ मह्यमष्टादशार्णमन्त्रं स्वस्य स्वरूपभूतं सृष्ट्यर्थं दत्त्वा परमेश्वरः अन्तर्हितः । पुनः सिसृक्षत इति । अथ सिसृक्षतः सृष्टिं कर्तुमिच्छतो मे पुरस्तात्गोपवेषधरः प्रादुरभूत। किं कुर्वन्?
तेषु अष्टादशसु अक्षरेषु भविष्यज्जगत्प्रकाशयन्मनोगोचरं कुर्वन। तदिहेति तत्तस्मिन्जगद्रूपे प्रदर्शिते सति इह अष्टादशाक्षरमन्त्रे कात्ककारातापो जलम् । लकारात्पृथिवी भूमिः । ईकारातग्निः । बिन्दोः इन्दुः । अनुस्वारात्चन्द्रः । तत्सम्पातात्तेषां कामादीनां संश्लिष्टरूपात्क्लींकारात्तदर्क इति क्लींकारादसृजम् । कृष्णायेति पदाताकाशमिति पदार्थमसृजम् । खाद्वायुरिति खात्चिदाकाशात्शब्दराशिं वेदितुम् । गोविन्दायेति पदात्वायुरित्यसृजम् । उत्तरात्पदद्वयात्मकात्गोपीजनवल्लभायेति पदात्सुरभिः कामधेनुः विद्याः चतुर्दशेति प्रादुरकार्षम् । तदुत्तरात्स्वाहेति पदात्स्त्रीपुंसादि च स्त्रीपुरुषक्लीबं च सकलं स्थावरजङ्गमं प्रादुरकार्षम् । अभ्यासः तृतीयोपनिषत्समाप्त्यर्थः । इति पदं पञ्चपदस्य सृष्टिसमाप्त्यर्थः ॥२५॥
ब्रह्मोपनिषद्योगीः एवमाविर्भूय किं कृतवानित्यत आह—
तत इति । य एवं मत्पुरत आविर्बभूव स पुरुषः ततः तदनन्तरं मया अनुकूलेन हृदा प्रणतः सन्मह्यमष्टादशार्णं मन्त्रं स्वस्वरूपभूतं सृष्ट्यर्थं दत्त्वा अन्तर्हितोऽभवदित्यर्थः ॥२५च॥
ततः किमित्यत आह—
पुनरिति । पुनः विश्वं सिसृक्षतो मे प्रादुर्भूतेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकशयन्गोपवेषधरो भगवान्पुरस्तात्प्रादुरभूत। किं कुर्वन्नित्यत्र अष्टादशाक्षरेषु भविष्यज्जगत्प्रकाशयन्मनोगोचरं कुर्वन्तत्तत्र जगद्रूपे प्रकाशिते सति इह अष्टादशाक्षरेषु कात्ककारातापो जलम् । लकारात्पृथिवी । ईत ईकारातग्निः । बिन्दोः अनुस्वारातिन्दुः चन्द्रः । तेषां कादीनां सम्पातात्संश्लेषरूपात्क्लींकारात्प्रसिद्धः । अर्कः सूर्यः इत्येतान्पञ्च असृजम् । कृष्णायेति पदाताकाशमसृजम् । खाद्वायुरिति खात्चिदाकाशात्शब्दराशिः वेदः । गोविन्दायेति पदात्वायुरित्यसृजम् । उत्तरात्पदद्वयात्मकात्गोपीजनवल्लभायेति पदात्सुरभिः कामधेनुः विद्याः चतुर्दशेति प्रादुरकार्षम् । तदुत्तरात्स्वाहेति पदात्स्त्रीपुरुषक्लीबं च सकलं स्थावरजङ्गमं प्रादुरकार्षम् । अभ्यासः तृतीयोपनिषत्समाप्त्यर्थः । इतिशब्दः पञ्चपदार्थसृष्टिसमाप्त्यर्थः ॥२५॥
सनातनः ः पुनश्च स्तुतः सन्प्राकाशयद्भगवानेव । यद्वा णिप्रत्ययस्य अत्रानधिकार्थत्वं प्राकाशतेत्यर्थः । प्राकाशयमिति वा पाठः । कात्ककारात। आपो जलम् । लकारात्पृथिवी । ईकारादग्निः । बिन्दोः सकाशाच्चन्द्रः । तस्य नादादर्कः । यात्यकाराद्वायुरभूदिति शेषः । उत्तरात्गोविन्दायेत्यस्मात। सुरभिं गोजातिम् । तदुत्तरात्गोपीजनेत्यस्मात्विद्याश्चतुर्दश । तदुत्तरात्वल्लभेत्यादितः । वेदयित्वा विदित्वा । अन्याभ्यो वा विज्ञाप्य । ओंकारान्तरालकं प्रणवपुटितमित्यर्थः । अभित आनयत्साधयामास । यस्य पूर्वपदादित्यादि च कल्पान्तरे प्रकारान्तराभिप्रायेण । पूर्वमर्शत्परामर्शात। यद्वा,
पूर्वेषां मर्शात्विचारादपीति ॥
प्रबोधानन्दः ः ततश्च मया प्रणतो नमस्कृतः सननुकूलेन हृदा सानुग्रहेण स्वरूपं स्वस्वरूपभूतमिति सर्वेषामेवार्थानामुत्पादनशक्तित्वं प्रदर्शितम् । सृष्टये दत्त्वेति । तथापि तदुपोअयोगाणुसारेणैव यत्किञ्चित्फलमुदैतीति भावः ॥३३॥
पुनः सिसृक्षत इति तेष्वष्टादशस्वक्षरेषु भवैष्यज्जगत्प्रकाशयन्मम गोचरं कुर्वन॥३४॥
तदिहेति तत्रास्मिन्जगद्रूपे प्रकाशिते सति इह अष्टादशाक्षरमन्त्रे अहं कात्ककारात्तेषां सम्पातात्तेषां कादीनां संश्लिष्टरूपात्क्लींकारात्तदर्कः स प्रसिद्धोऽर्कः इति एतान्पञ्चासृजम् । मन्त्रस्य अक्षरेषु येषु यत्यथा दृष्ट्वा यदसृजत्तदाह तस्मिन्तत्राक्षरे स्थिते मयैव च साक्षाद्दष्टे जगति तन्मध्ये कातासमीचीना अपः असृजमासमन्तात्ककाराच्चारणप्रभावत एवेति । लकारात्पृथिवी जाता ईकारादग्निरुद्भूतः । बिन्दोश्चन्द्रमण्डलं संयोगादर्क इति सूर्यमण्डलमेतत्सर्वं क्लींकारादहमसृजम् ॥३५॥
श्रीजीवः ः ततश्च मया प्रणतो नमस्कृतः सन। अनुकूलेन हृदा सानुग्रहेण हृदा स्वरूपं स्वस्वरूपभूतमिति सर्वेषामेवार्थानामुत्पादनशक्तित्वं दर्शितम् । सृष्टये दत्त्वेति । तथापि तदुपोअयोगाणुसारेणैव यत्किञ्चित्फलमुदैतीति भावः ॥
पुनः सिसृक्षत इति तेष्वष्टादशाक्षरेषु भवैष्यज्जगत्प्रकाशयन्मम गोचरं कुर्वन॥
तदिहेति तत्तस्मिन्जगद्रूपे प्रकाशिते सति इहाष्टादशाक्षरमन्त्रे अहं कात्ककारात्तत्सम्पातात्तेषां कादीनां संश्लिष्टरूपात्क्लींकारात्तदर्कः प्रसिद्धोऽर्कः इत्येतान्पञ्चासृजम् । कृष्णायादि इति कृष्णायेति पदादाकाशमिति पदार्थम् । खाद्वायुरिति आकाशाच्छब्दराशिवेदितुर्गोविन्दायेति पदाद्वायुरिति पदार्थंम् । उत्तरात्पदद्वयात्मकात्गोपीजनवल्लभायेति पदात्सुरभिं कामधेनुं विद्याश्चतुर्दश प्रादुरकार्षम् । तदुत्तरात्स्वाहापदात्स्त्री पुमान्क्लीबं सकलं स्थावरं जङ्गमं च प्रादुरकार्षम् । अभ्यासस्तृतीयोपनिषत्समाप्त्यर्थः ॥
अत्र केषांचित्पाठान्तरे व्याख्या चेयम् । तथैवाह—
पुनः सिसृक्षा मे प्रादुरभूदिति । तेष्वक्षरेषु सूक्ष्मरूपेण जगदस्तीति श्रीगोपाल एव स्वमपि स्फोरयामासेत्यर्थः । तत्तस्मादिह जगति कात्ककारजपप्रभावात्पो जाता इति शेषः । एवं लादित्यादि । तत्सम्पर्कादीकारबिन्द्वोः संयोगजपप्रभावादित्यनेन प्रकारेण । किं च,
कृष्णादिति खाद्वायुरितीति वायुमित्यर्थः । उत्तराद्गोविन्दायेत्यस्मात्सुरभिं गोजातिं विद्याश्चतुर्दश । तदुत्तरात्गोपीजनेत्यादितः । इत्येतत्प्रभृतिकं सकलमिदं प्रादुरकार्षमित्यन्वय इति । अवादीनामीश्वरसृष्टचरत्वेऽपि स्वसृष्टत्वेनोक्तिर्व्यष्टिसृष्ट्यर्थं तेषामेवांशेन परिणामविशेषसम्पादनं यत्तदपेक्षयैवेति ज्ञेयम् । किन्तु कादाप इत्यनेन मूलतदादीनामपि तत्तच्चह्क्तय्वोत्पत्तिरिति ज्ञापितमिति ॥३०॥
ओ)०(ओ
(
२७)
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदेत्योंकारान्तरालिकं मनुमावर्तयेत्सङ्गरहितोऽभ्यानयत॥
विश्वेश्वरःः न केवलं सृष्टिसामर्थ्यप्रद एवायं मन्त्रोऽपि तु महेश्वरस्यात्मज्ञानप्रदोऽपीत्याह—
एतस्यैवेति । एतस्यैव पञ्चपदस्यैव यजनेन चन्द्रध्वजो नाम चन्द्रमौलिरीश्वरः गतमोहं यथा स्यात्तथा आत्मानं वेद बुबुधे इति कारणातिदानीन्तनः ओंकारान्तरालिकं प्रणवसम्पुटितं मनुमष्टादशाक्षरं सङ्गरहित आवर्तयेत। आवर्तनेन अप्रत्यक्षं परमात्मानमभ्यानयतानयदित्यर्थः ॥२९॥
ब्रह्मोपनिषद्योगी ः न केवलं सृष्टिसाधनभूतोऽयं मन्त्रः । किन्तु महेश्वरस्य आत्मज्ञानप्रदोऽपीत्याह—
एतस्येति । एतत्पञ्चपदयजनतो हि चन्द्रध्वजश्चन्द्रमौलिरीश्वरः विगलितस्वातिरिक्तमोहमात्मानं वेद बुबुधे इति कारणातिदानीन्तनोऽपि ओंकारालिकं प्रणवसम्पुटितमष्टादशाक्षरमनुं फलासङ्गरहितः सनावर्तयेत। तेन चावर्तनेन अभि प्रत्यक्षं परमात्मानमानदानयदित्यर्थः ॥२६॥
प्रबोधानन्दसरस्वतीः तदेवं स्वोपयोगानुसारेण फलोदयमुक्त्वा फलविशेषोदयमप्यन्यत्र दर्शयति एतस्यैवेति पूर्वमष्टादशाक्षरमन्त्रमयत्वेनोक्तस्य श्रीगोपालस्यैव यजनेन चन्द्रध्वजो नाम राजा गतमोहं यथा स्यात्तथात्मानं वेद बुबुधे ॥३७॥
इति तत्फलप्राप्तिहेतोरिदानीन्तनोऽपि ओंकारान्तरालिकं प्रणवसम्पुटितमष्टादशाक्षरं सङ्गेन स्फूर्त्यन्तरेण रहितः सनावर्तयेत। तेनावर्तनेन अभि प्रत्यक्षं श्रीगोपालमानयत। श्रीकृष्णमेव साक्षात्कृतवानित्यस्य यजनं तादृशजपश्चेत्युपासनावैशिष्ट्यात्फलस्य शीघ्रातिवैशिष्ट्यं दर्शितम् । अत्र केषांचिन्मते चन्द्रध्वजः शिवः आत्मानं संवेदयित्वानुभवयोग्यं कृत्वा ओंकारान्तरालिकं मनुमावर्तयत्चन्द्रध्वजः । ततश्च सङ्गरहितोऽभ्यानयदिति पूर्ववत॥३८॥
श्रीजीवःः तदेवं स्वोपयोगानुसारेण फलोदयमुक्त्वा फलविशेषोदयमप्यन्यत्र दर्शयति—
एतस्यैवेति । पूर्वमष्टादशाक्षरमन्त्रमयत्वेनोक्तस्य श्रीगोपालस्यैव यजनेन चन्द्रध्वजो नाम राजा गतमोहं यथा स्यात्तथात्मानं वेद बुबुधे । इति तत्फलप्राप्तिहेतोरिदानीन्तनोऽपि ओंकारान्तरालिकं प्रणवसम्पुटितमष्टादशाक्षरं संयोगेन स्फूर्त्यन्तरेण रहित आवर्तयेत। तेनावर्तनेनाभि प्रत्यक्षं श्रीगोपालमानयेदित्यर्थः । विश्वेश्वरस्तु चन्द्रध्वजो महादेव इति व्याचष्टे । अत्र केषांचित्पाठान्तरे व्याख्या चेयम्—
आत्मानं संवेदयित्वा तदनुभवयुक्तं कृत्वा ओंकारान्तरालिकं मनुमावर्तयच्चन्द्रध्वजः । ततश्च सङ्गरहितोऽभ्यानयदिति पूर्ववत॥३१॥
ओ)०(ओ
(
२८)
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
तस्मादेनं नित्यमभ्यसेन्नित्यमभ्यसेदिति ॥
विश्वेश्वरः ः परमात्मस्वरूपं विवृणोति तद्विष्णोरिति । तत्प्रसिद्धं विष्णोः पदं पदनीयस्वरूपं दिवि इति विद्योतनात्मके स्वरूपे सूरयः ज्ञानिनः सदा पश्यन्ति । कीदृशं पदं चक्षुः इव चष्टे इति चक्षुः प्रकाशमेवेत्यर्थः । पुनः कीदृशं पदमाततं व्यापकम् । उपसंहरति तस्मादिति । तस्मात्विष्णुप्राप्तिहेतुत्वातेनमष्टादशाक्षरं मन्त्रं नित्यमभ्यसेत। अभ्यासः चतुर्थोपनिषत्समाप्त्यर्थः ॥३०॥
ब्रह्मोपनिषद्योगी ः तत्स्वरूपं विशदयति—
तद्विष्णोरिति । यत्पदं सदा सूरयः स्वावशेषधिया पश्यन्ति तद्विष्णोः परमं पदं निष्प्रतियोगिकब्रह्ममात्रं व्याप्य सत्त्वे दिवीव स्वे महिम्नि चक्षुः प्रकाशमात्रमाततं व्यापकं भवति ॥३०॥
प्रबोधानन्दसरस्वतीः अत्राभ्यनयेत्तत्तस्य गोलोकाख्यमधिष्ठानमाह तद्विष्णोरिति । दिवि आकाशे विततं विसृतं चक्षुः सूर्यमिव नमः सवित्रे जगदेकचक्षुषे भूतप्रसूतिस्थित्युक्तेः ॥३९॥
इत्थं मन्त्रशक्तिकार्यमद्भुतं निरूप्य उपसंहरति—
तस्मादिति । यस्मादेतादृशप्रभावोऽयं मन्त्रः । तस्मादेनं मन्त्रं नित्यमभ्यसेत। आवर्तयेति । द्विरुक्तिरतिसादरे कर्तव्यतां द्योतयति ॥४०॥
श्रीजीवःः अत्र यत्राभ्यनयेत्तत्तस्य गोलोकाख्यमधिष्ठानमाह तद्विष्णोरिति । दिवि आकाशे आततं विस्तृतं चक्षुः सूर्यमिव नमः सवित्रे जगदेकचक्षुषे इत्युक्तेः । एवं मन्त्रम् ॥३२॥
ओ)०(ओ
(
२९)
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योम इति वैष्णवपञ्चव्याहृतिमयं मन्त्रं कृष्णावभासकं कैवल्यसृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥
विश्वेश्वरः ः अथ मन्त्रान्तरेण पञ्चपदेभ्यो जगत्सृष्टिं निरूपयति तदाहुरेके इति । तत्तत्र अष्टादशाक्षरे एके मुनयः आहुः । प्रथमपदात्भूमिः । द्वितीयपदात्जलम् । तृतीयपदात्तेजः । चतुर्थपदात्वायुः । चरमात्व्योम । इति वैष्णवं पञ्च व्याहृतयः पञ्चपदानि तन्मयं मन्त्रं कृष्णरूपप्रकाशकं कैवल्यस्य मोक्षस्य सृत्यै मार्गाय सततमावर्तयेतभ्यसेत॥३१॥
ब्रह्मोपनिषद्योगी ः अथ मन्त्रान्तरेण पञ्चपदेभ्यो जगत्सृष्टिं निरूपयति तदाहुरिति । तत्तत्र अष्टादशाक्षरेषु एके मुनय आहुः । यस्य पञ्चपदात्मकमनोः पञ्चपदात्पञ्चभूतसृष्टिः स्यात्तं वैष्णवं पञ्चव्याहृत्यात्मकपञ्चपादमयं कृष्णावभासकं मन्त्रं कैवल्यस्य सृत्यै सततमावर्तयेतभ्यसेत। आवृत्तिः पञ्चमोपनिषत्समाप्त्यर्थः ॥२९॥
प्रबोधानन्दसरस्वतीः नित्याभ्यासोऽस्य प्रभावा विश्वासिनं प्रति प्रतस्य विश्वासमुत्पाद्ये बुद्धिं प्रवेश्य सर्वसम्पादनार्थमिदानीमस्माद्विश्वोद्भवए मतान्तरमुपन्यस्यति तदिति । तत्तत्र सृष्टिविषये एके आहुः श्रुतिरेव भङ्ग्या पक्षद्वयमाह । भक्तानामपि तथा तथा अनुभवोऽस्तीत्यनुवादः सङ्गच्छते । यद्वा तत्तत्राष्टादशाक्षरे एके कदाचिदेव तदिति तन्मात्रज्ञानिनः ॥४१॥
यस्य प्रथमपदादिति । प्रथमपदद्वितीयपदादिभूजलादेरधिष्ठानं भूरादिपञ्चकृतं वैष्णवेति वैष्णवपञ्चव्याहृतयः पूर्वोक्तानि पञ्चपदानि तन्मयं तद्रूपमन्त्रं कृष्णावभासं तदाविर्भावकम् । कैवल्यसृत्यै कैवल्यरूपा या सृतिर्भक्तिरूपा भगवत्पद्धतिस्तस्यै,
तां साधयितुमित्यर्थः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः [भ्P
२.३.१२] इति श्रीभागवतात।
यद्वा,
पदाद्युच्चारणत एव भ्वादिसृष्टिसामर्थ्ये स्यादित्यपि ज्ञेयम् । विशेषज्ञानं पदपदार्थज्ञानं तु दुर्लभ एव । अतः सततमावर्तयेत। यतो व्याहृतिमयं व्याहृतिरूपं पदपञ्चकं पुनर्विशिनष्टि कृष्णावभासकं कृष्णस्वरूपं कृष्णवाचको विष्णुसंज्ञः पुरुषोत्तमाख्यो देवरूपः । कृष्णस्यावस्थाविशेषः पुरुषोत्तमश्चतुर्भुजः । अतः परमोत्कर्षोऽयं मन्त्रः ॥४२॥
श्रीजीवःः तदाहुरेक इति। तत्तत्राष्टादशाक्षरे एके कदाचिदेवमपि भवेदिति तन्मात्रज्ञानिनः । यस्य प्रथमपदादिति स्पष्टार्थम् । उपसंहरतीति वैष्णवेति वैष्णवपञ्चव्याहृतयः पूर्वोक्तानि पञ्चपदानि तन्मयं तद्रूपं मन्त्रं कृष्णावभासं तदाविर्भावकम् । कैवल्यसृत्यै कैवल्यरूपा या सृतिर्भक्तिरूपा भगवत्पद्धतिस्तस्यै,
तां साधयितुमित्यर्थः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः [भ्P
२.३.१२] इति श्रीभागवतात॥३३॥
ओ)०(ओ
(
३०३१)
तदत्र गाथाः ।
यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ।
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत।
चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥
विश्वेश्वरः ः नोथिन्ग्.
ब्रह्मोपनिषद्योगी ः पूर्वोपनिषदुक्तसृष्टौ गाथाः श्लोका भवन्तीत्याह—
तदत्र गाथा इति । इत्येते गाथा भवन्तीत्यर्थः ॥३०३१॥
प्रबोधानन्दसरस्वतीः तत्तस्मिन्मन्त्रशक्तिकार्ये जगतः सृष्ट्यादौ पदक्रमेणोक्तेः अत्रोक्तसृष्टौ गाथा ः श्लोका भवन्ति ॥४३॥
यस्य मन्त्रस्य पूर्वपदाद्भूमिरित्यादि तमेव केवलं सम्यगभ्यसेत्नान्यत। एकं केवलं मन्त्राभ्यासमात्रं कुर्यात। यस्य केवलसम्यगभ्यासमात्रेण चन्द्रध्वजो विष्णोः परमं पदमगात्तन्मन्त्रश्चायं पञ्चपदात्मकः । कृष्णसमप्रभावस्तस्मादभिन्नतयैव ज्ञातव्यमिति ॥४४॥
श्रीजीवःः तदत्रेति तत्तन्मन्त्रे अत्रोक्तसृष्टौ गाथाः श्लोका भवन्ति यस्येति स्पष्टम् ॥३४¬
३५॥
ओ)०(ओ
(
३२)
ततो विशुद्धं विमलं विशोकम्
अशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥
विश्वेश्वरः ः ततो विशुद्धमिति । ततः कारणात्विशुद्धत्वादिगुणोपेतं तत्प्रसिद्धं यत्पदं पदनीयस्वरूपं तत्पदं पदमेव पञ्चधा गुणितं पदं पञ्चपदमिति विग्रहः । विशुद्धं चिज्ज्योतिः । विमलमविद्यादिमलरहितम् । विशोकं मनस्तापरहितम् । अशेषा लोभादयस्तेषां निरस्तः सङ्गः यस्मिन्विशुद्धत्वादिगुणकं पदमेव । वासुदेवः वसत्यस्मिन्निति वासुः स चासौ देवश्चेति वासुदेवः । यतः वासुदेवातन्यत्किंचिन्नास्ति ॥३४॥
ब्रह्मोपनिषद्योगी ः पञ्चपदस्य जगद्धेतुत्वान्मुक्तिदायकत्वाद्वस्तुतो निष्प्रतियोगिकचिन्मात्रपर्यवसन्नत्वाच्च पञ्चपदात्मकोऽयं मनुः वासुदेव एवेत्याह—
तत इति । यत्तत्पदत्वेन चिन्मात्रमिति प्रसिद्धं तदेव पञ्चपदं स हि तदर्थरूपो वासुदेवः परमात्मा तदतिरिक्तं न किंचिदस्तीत्यर्थः ॥३२॥
प्रबोधानन्दसरस्वतीः तत इति ततस्तस्मात्विशुद्धं सत्त्वमयमतएव सुतरां विमलं रजस्तमःशून्यमत एव विशोकम् । अशेषा ये लोभादयस्तेषां निरस्तः संयोगस्तादृशं यत्पदं गोलोकाख्यं तदेव पञ्चपदं तदाख्यमन्त्रमयं तच्च सप्रसिद्धो वासुदेवस्तदात्मकमिति त्रयाणामेकोक्तिरेकमेव तत्त्वं त्रिधाविर्भूतमिति ज्ञापनाय । तस्य वासुदेवस्य वैभवमाह—
यतः सकाशादन्यत्किमपि नात्यन्तं भिन्नमस्ति यदन्तर्भूतमेव सर्वमित्यर्थः ॥४५॥
श्रीजीवःः ततो विशुद्धमिति विशुद्धं विशुद्धसत्त्वमयम् । अत एव सुतरां विमलं रजस्तमःशून्यमत एव विशोकम् । अशेषा ये लोभादयस्तेषां निरस्तः सङ्गो यस्मिन्तादृशं यत्तत्पदं श्रीगोलोकाख्यं तदेव पञ्चपदं तदाख्यं मन्त्रमयं तच्च प्रसिद्धो वासुदेवस्तदात्मकमित्यर्थः । इति त्रयाणामभेदोक्तिरेकमेव तत्त्वं त्रिधाविर्भूतमिति ज्ञापनाय । तस्य च वासुदेवस्य वैभवमाह—
यतः सकाशादन्यत्किमपि नात्यन्तभिन्नमस्ति तदन्तर्भूतमेव सर्वमित्यर्थः ॥४५॥
ओ)०(ओ
(
३३)
तमेकं गोविन्दं सच्चिदानन्दविग्रहं
पञ्चपदं वृन्दावनसुरभूरुहतलासीनं
सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि ॥
विश्वेश्वरः ः अतः पञ्चपदात्मकं वासुदेवमेवाहं स्तौमीत्याह तमेकमिति । तं विशुद्धपदात्मकमेकं सजातीयविजातीयस्वगतभेदरहितं सच्चिदानन्दपदात्मकस्वरूपं गोविन्दं पञ्चपदात्मकं वृन्दावने सुरभूरुहाः कल्पवृक्षास्तेषां तले आसीनं सततं निरन्तरं समरुद्गणः अहं ब्रह्मा परमया स्तुत्या तोषयामि ॥३५॥
ब्रह्मोपनिषद्योगी ः अतः पञ्चपदात्मकं वासुदेवं स्तौमीत्याह—
तमिति ॥३३॥
प्रबोधानन्दसरस्वतीः सर्वत्र स्वस्य ध्येयमुपदिशति तमेकमिति । तं मुक्तसर्वविधिं सर्वोत्कर्षमेकं केवलमन्यदशेषमन्तव्यं श्रीगोविन्दाख्यं सच्चिदानन्दलक्षणं यत्परं ब्रह्म तद्रूप एव विग्रहो यस्य । परब्रह्मैव श्रीकृष्णस्वरूपम् । पञ्चपदं तन्मन्त्रात्मकं श्रीवृन्दावनसुरभूरुहतले रत्नमण्डपमध्यग##
भूसिंहासने आसीनं सततं विस्तृतलीलासहितं समरुद्गणमेकान्तभक्तदेवगणसहितं प्रकृतानामेतेषां तत्राप्रवेशत। तत्रस्थैर्ब्रह्मवादिभिस्तेषां तत्सङ्गिनामभेदभावनया तथोक्तम् । परया परमोत्कर्षप्रतिपादिकया स्तुत्या तोषयामि सन्तुष्टं करोमि ॥४६॥
श्रीजीवःः सर्वान्ते स्वस्य ध्येयमुपदिशति—
तमेकमिति । पञ्चपदं तन्मन्त्रात्मकं सततं समरुद्गणोऽहमिति मनसैव ध्यात्वेति ज्ञेयम् । प्रकृतानामेषां तत्राप्रवेशत। तत्रस्थैर्ब्रह्मवादिभिस्तेषामभेदभावनया वा तथोक्तम्—
अत्र पूर्वे ये च साध्या विश्वदेवाः सनातनाः ।
ते ह नाकं महिमानः सचन्तः शुभदर्शनाः ॥
इति पुरुषसूक्तानुगतपाद्मोत्तरखण्डात्(२२७.७६) ॥३७॥
ओ)०(ओ
(
३४)
ओं नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥
विश्वेश्वरः ः वासुदेवस्तुतिमाह ओं नम इति द्वादशमन्त्रैः ॥३६४७॥
ब्रह्मोपनिषद्योगी ः कथं स्तोष्यसीत्यत आह—
ओमिति ॥३४४५॥
प्रबोधानन्दसरस्वतीः ओं नम इति स्तुतिरियमैश्वर्यविशेषान्माधुर्यविशेषां च व्यञ्जयन्ती सर्वानेवोपासकाननुगृह्णति । तत्र विश्वरूपायेत्यादिकं स्वमोहनतल्लीलायामपि दृष्टत्वादिति भावः ॥४७॥
श्रीजीवःः ओं नम इति स्तुतिरियमैश्वर्यविशेषान्माधुर्यविशेषांश्च व्यञ्जयन्ती सर्वानेवोपासकाननुगृह्णति । तत्र विश्वरूपायेत्यादिकं स्वमोहनतल्लीलायामपि दृष्टत्वादिति भावः ॥४७॥
ओ)०(ओ
(
३५)
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥
प्रबोधानन्दसरस्वतीः नमो विज्ञानेति । विज्ञायतेऽनेन सर्वमीदृशं रूपं यस्य विशिष्टज्ञानरूपम् ॥४८॥
श्रीजीवःः नमो विज्ञानेत्यादि स्पष्टम् ॥३९॥
ओ)०(ओ
(
३६)
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥
प्रबोधानन्दसरस्वतीः कमलानां गोपीरूपाणां पतये । श्रियः कान्ताः कान्तः परमपुरुषः इति ब्रह्मसंहितातः ॥४९॥
श्रीजीवःः कमलानां गोपीरूपाणां पतये । श्रियः कान्ताः कान्तः परमपुरुषः इति ब्रह्मसंहितातः । गोपीनां पतिरेव सः इति गौतमीये तदेतन्मन्त्रव्याख्यानाच्च ॥४०॥
ओ)०(ओ
(
३७)
बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमः ॥
प्रबोधानन्दसरस्वतीः बर्हालङ्कृतो विचित्रकुसुमादिक्ÿ
प्त आपीडो यस्य । स च स्वत एवाभिरामश्च तेन वा अभिरामः सुन्दरः । रामायेति रमयतीति मनोहररूपाय अंशेन रामरूपायेति । अकुण्ठा मेधा यस्य तस्मै । रमाः गोप्यः तासां मानसे सदावासी हंस इति ॥५०॥
श्रीजीवःः रामायेति अंशेन रामरूपायेत्यर्थः । रमयतीति मनोहररूपायेति वा ॥४१॥
ओ)०(ओ
(
३८)
कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥
प्रबोधानन्दसरस्वतीः कंसवंशविनाशायेति । कंससम्बन्धी यः कश्चन वंशस्तस्य विनाशो यस्मात। कंसेन ये ग्राहिता आसुरभावास्तैरन्यैर्ग्राहिता तैश्चान्ये इत्येवं कंसवंशो विगतो नाशो यस्मात्तस्मै । केशीचानूरौ घातितवान। वृषभध्वजवन्द्यायेति बाणयुद्धे शिवमोहनसूचना पार्थसारथित्वेन भारतयुद्धवत॥५१॥
श्रीजीवःः वृषभध्वजवन्द्यायेति बाणयुद्धे शिवमोहनसूचना पार्थसारथित्वेन भारतयुद्धवत॥४२॥
ओ)०(ओ
(
४०४१)
वेणुवादनशीलाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥
वल्लवीवदनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥
प्रबोधानन्दसरस्वतीः श्रीवृन्दावननागरयोरद्भुताद्भुतमहारसाम्भोधिसमुज्जृम्भणकरी वेणुरयं श्रीकृष्णसुखमशेषमास्वादयति श्रीकृष्णरूपगुणा गायन्तीं राधिकां प्रमोदयति । स्वमेव हि श्रीकृष्णवेणौ वाद्यं जायतेति वेणुवादनशीला यस्य लोलकुण्डलवल्गवे इति क्वचित्पाठः ॥५२॥
बल्लवीनयनान्येवाम्भोजानि तान्येव प्रतिसङ्क्रान्तत्वात्मालारूपानि विद्यन्ते यत्र तस्मै । वदनाम्भोजेति क्वचित्पाठः ॥५३॥
श्रीजीवःः लोलकुण्डलवल्गवे इति क्वचित्पाठः ॥४३॥
बल्लवीनयनान्येवाम्भोजानि तान्येव प्रतिसङ्क्रान्तत्वात्मालारूपानि विद्यन्ते यत्र तस्मै । वदनाम्भोजेति तु क्वचित्पाठः ॥४४॥
(
४१)
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावार्तासुहारिणे ॥
प्रबोधानन्दःः नमः पापप्रणाशायेति स्पष्टम् ॥५४॥
श्रीजीवःः नमः पापेति स्पष्टम् ॥४५॥
ओ)०(ओ
(
४२)
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥
प्रबोधानन्दःः निष्कलाय निर्मायाय विगतो मोहो यस्मात्तस्मै । अशुद्धीनां दैत्यत्वादीनां वैरिणे मर्दनाय । न द्वितीयः स्वयं भगवल्लक्षणः समरूपो यस्य तस्मै । अत एव महते । यद्वा निष्कलाय कलयति ग्राहयति स्वधर्मं कला उपाधिभूता माया सा निर्गता यस्मात्निःशेषेण कलयति वशीकरोति जनानिति कला चिद्रूपा स यस्मिन्तस्मै । यद्वा निष्कं पदकं कण्ठे लातीति तस्मै ॥५५॥
श्रीजीवःः निष्कलाय निर्मायाय विगतो मोहो यस्मात्तस्मै । अशुद्धीनां दैत्यत्वादीनां वैरिणे मर्दनाय । न द्वितीयः स्वयं भगवल्लक्षणसमरूपो यस्य तस्मै । अत एव महते ॥४६॥
(
४३)
प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥
प्रबोधानन्दःः आधिस्तदप्राप्तौ मानसीव्यथा,
व्याधिस्तत्र यासीद्व्यथा मामुद्धर उद्धृत्य निजचरणसमीपं कुरु इत्यर्थः ॥५६॥
श्रीजीवःः आधिस्तदप्राप्तौ मानसीव्यथा,
व्याधिस्तत्र बाह्यव्यथा । मामुद्धर उद्धृत्य निजचरणसमीपं कुर्वित्यर्थः ॥४७॥
(
४४)
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥
प्रबोधानन्दःः श्रीकृष्णेति श्रियः कृष्णः श्रियैव सर्वमुत्कर्षं प्राप्तः । श्रिया शोभया विश्वाकर्षकः । विभूतिसीमराजराजेश्वर रुक्मिणीकान्त,
जगति त्वमेकयोग्यो गुरुः परमज्ञानोत्कर्षात॥५७॥
श्रीजीवःः श्रीकृष्णेति स्पष्टम् ॥४८॥
(
४५)
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥
प्रबोधानन्दःः कश्च ईशश्च वशीक्रियत इति केशवः । कुटिलकुन्तलयुक्तो वा मा लक्ष्मीः तस्या धवः स्वामी ॥५७॥
श्रीजीवःः केशवेति स्पष्टम् ॥४८॥
ओ)०(ओ
(
४६)
अथैवं स्तुतिभिराराधयामि यथा
यूयं तथा पञ्चपादं जपन्तः
श्रीकृष्णं ध्यायन्तः संसृतिं
तरिष्यथेति होवाच यः ॥
विश्वेश्वरःः अथाहं स्तुतिभिराराधयामि भगवन्तं मन्त्रप्रवृत्तिसिद्ध्यर्थमित्याह—
अथैवमिति । अथ अस्मिन्तुष्टेऽपि एवं पूर्वोक्तिभिः स्तुतिभिः अहं परमेश्वरं यथा आराधयामि पञ्चपदं जपन्तः यूयं तथा तेन प्रकारेण श्रीकृष्णं ध्यायन्तः संसृतिं संसारसमुद्रं तरिष्यथ इति हिरण्यजः ब्रह्मा मुनीन्प्रति उवाच इत्यर्थः ॥४८॥
ब्रह्मोपनिषद्योगीः एवं हिरण्यगर्भजो ब्रह्मा मुनीन्प्रति उवाचेत्यर्थः ॥४६॥
प्रबोधानन्दःः उपसंहरति काण्डत्रयेण अथ हैवमिति । अत्र अमुं पञ्चपदमिति तरिष्यथ इति च होवाच हैरण्य इत्यस्यान्वयः । मध्यपातित्वात। केवलं शुद्धं तत्श्रीगोलोकाख्यं पदं पूर्वं तच्छ्रीगोपालाख्यं पदं पूर्वं परमया स्तुत्या तोषयानीयुक्त्वा ओं नम इत्यादिना माधव इत्यन्तेन स्तुतिरुक्ता । अथानन्तरमेतां स्तुतिं कृत्वा एवं स्तुतिभिरित्थं भूतादन्याभिरपि स्तुतिभिः । ह स्फुटम् । तमहमाराधयामि ।
यद्वा,
अथ एतत्स्तुत्या सन्तोषानन्तरभावविशेषोदयेन तादृशस्वरूपेण प्रेमरसे प्रविष्टः । तत्रैव वैदग्धीविशेषस्फूर्त्या श्रीकृष्णस्यानन्दचमत्कारविशेषार्थपूर्वकबहुभिः स्तुतिभिः सेवाविशेषमाराधनं करोमि यथाहं तथा यूयं पञ्चपदं जपन्तः । पञ्चपदं विवरणं हृदिस्थं कृत्वा स्तुतिसहितं यथा भवति तथा कृष्णं प्रकटमन्त्रार्थरूपं ध्यायन्तः तदाविष्टचित्तवृत्तिं कुर्वन्तः जपध्यानमात्रेण संसारं तरिष्यथ संस्काररूपं संसृतिहेतुमपि भवद्भिः श्रुतिपञ्चपदमहिम्ना स्वाभीष्टपदं प्राप्स्यथ स्तुत्यर्थज्ञानपूर्वकं मनो निरुद्ध्य जपः कृष्णध्यानं दुर्लभं तथापि यथा कथञ्चिदुच्चारणमात्रेणापि परमपुरुषार्थशिरोमणिभूतं स्वाभीष्टं लप्स्यथ इति ॥५९॥
श्रीजीवःः अथ हैवमित्यत्रामुं पञ्चपदमित्यत्र च—
इति होवाच हैरण्य इत्यस्यान्वयः मध्यपातित्वात॥५०॥
केवलं शुद्धं तत्श्रीगोलोकाख्यं पदं तस्य ब्रह्मस्वरूपं दर्शयति—
अनेजं निश्चलम् । मनसो जवीयः तच्छक्त्यगोचरम् । देवा ब्रह्मादयोऽपि न यदाप्लुवन्प्राप्तुं न शक्नुवन्ति । स्वयं तु कालतो देशतश्च पूर्वेषु मर्शत्मृशत्व्याप्तुं समर्थमित्यर्थः । तदुक्तं श्रीभागवते—
इति संचिन्त्य भगवान्महाकारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [भ्P
१०.२८.१५१६] इति ।
श्रीहरिवंशे च श्रीकृष्णं प्रति महेन्द्रेण—
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ःV
२.१९.३०३१] इति ।
इति शब्दः समाप्तौ ॥५१॥
ओ)०(ओ
(
४७)
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः
स यात्यनायासतः केवलं पदं तत।
अनेजदेकं मनसो जवीयो
नैतद्देवा आप्नुवन्पूर्वमर्शदिति ॥
विश्वेश्वरःः अथ दयावती श्रुतिरस्मान्प्रत्याह । अमुं वासुदेवात्मकं पञ्चपदं मन्त्रमावर्तयेत्स अनायासतः केवलं शुद्धं तत्वासुदेवाख्यं तत्प्रसिद्धं पदं याति । उक्तं पदं मन्त्रेण विशदयति । एजनं कम्पनं स्वावस्थानप्रच्युतिः तद्विवर्जितं सर्वदैव एकरूपमित्यर्थः । तथा सर्वभूतेष्वेकम् । मनसो जवीय इति । मनसोऽपिवेगवत्तरम् । एतत्पदं देवा द्योतनकरणाः चक्षुरादीन्द्रियाणि नाप्नुवन्न प्राप्नुवन्तः । चक्षुरादिप्रवृत्तेर्मनोव्यापारपूर्वकत्वात्मनसोऽपि जवीयः । न तच्चक्षुरादिगम्यमित्यर्थः । मनसोऽपि जवीयस्त्वे हेतुमाह—
पूर्वमर्शतिति । क्षणमात्रात्ब्रह्मलोकादिकं सङ्कल्पयतः मनसः अवभासकं साक्षि मनसोऽपि पूर्वं ब्रह्मलोकादिकं प्रति अर्शत्प्राप्तम् । व्योमवत्व्यापित्वातित्यर्थः । इतिशब्दो मन्त्रसमाप्त्यर्थः ॥४८॥
ब्रह्मोपनिषद्योगी ः अमुं पञ्चपदं वासुदेवात्मकं मन्त्रमावर्तयेत्यः पुमान्सोऽयमनायासतः केवलं वासुदेवाख्यं पदं याति ॥४७॥ यद्वासुदेवपदमुक्तं तदेव मन्त्रोऽप्यनुवदति—
अनेजदिति । अनेजत्व्योमवदचलं सर्वत्र एकं मनसोऽपि जवीयो वेगवत्तरं तदेतत्पदं देवाः चक्षुरादीन्द्रियाणि नाप्नुवन्चक्षुरादिव्यापारस्य मनोव्यापारपूर्वकत्वात। चक्षुराद्यपेक्षया मनो जविष्टं,
मनसोऽप्येतत्पदं जववत्तरं,
इत्यत्र हेतुः—
पूर्वमर्षतिति । वासुदेवपदस्य बाह्यान्तह्करणवृत्तिसहस्रभावाभावप्रकाशकतया तत्प्रवृत्तिनिवृत्तिनिमित्तत्वत। इतिशब्दो मन्त्रसमाप्त्यर्थः ॥४८॥
प्रबोधानन्दः ः हैरण्यो ब्रह्मा ह स्फुटमुवाच—
अमुमिति । अमुं पञ्चपदं मन्त्रमावर्तयेदिति । रसनासृगेव फलति केवलं,
माया अविद्या मीयते माया जञचिद्द्वैतमात्रदृष्टिरहितं शुद्धप्रेमरसमयं पदं याति प्राप्नोति अनायासतः श्रवणादिभक्तियुक्तः सन्निति बोद्धव्यम् । तस्य ब्रह्मस्वरूपत्वं दर्शयति अनेजयत्निश्चलं मनसो जवीयस्तच्छक्त्या गोचरः । देवा ब्रह्मादयोऽपि यदाप्नुवन्न प्राप्तुं शक्नुवन्ति । स्वयं तु कालतो देशतश्च पूर्वेषु मर्शत्व्याप्तुं समर्थ इत्यर्थः । तदुक्तं श्रीभागवते—
इति संचिन्त्य भगवान्महाकारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [भ्P
१०.२८.१५१६] इति ।
श्रीहरिवंशे च श्रीकृष्णं प्रति महेन्द्रेण—
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ःV
२.१९.३०३१] इति ॥६०॥
श्रीजीवः ः केवलं शुद्धं तत्श्रीगोलोकाख्यं पदं तस्य ब्रह्मस्वरूपं दर्शयति—
अनेजत्निश्चलं मनसो जवीयः । तच्छक्त्यगोचरम् । देवा ब्रह्मादयोऽपि न यदाप्नुवन्प्राप्तुं न शक्नुवन्ति । स्वयं तु कालतो देशतश्च पूर्वेषु मर्शत्मृशत्व्याप्तुं समर्थमित्यर्थः । तदुक्तं श्रीभागवते—
इति संचिन्त्य भगवान्महाकारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [भ्P
१०.२८.१५१६] इति ।
श्रीहरिवंशे च श्रीकृष्णं प्रति महेन्द्रेण—
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ःV
२.१९.३०३१] इति ॥६०॥
ओ)०(ओ
(
४८)
तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसयेत्
तं यजेत्तं भजेदिति ओं तत्सदिति ॥
विश्वेश्वरः ः अतः सर्वोत्कृष्टत्वात्ध्यानरसनभजनान्यस्यैव कर्तव्यानि इत्युपसंहरति । तस्मातविलुप्तचिदेकरसत्वात्कृष्ण एव परो देवः तं ध्यायेत्चिन्तयेत्तं रसयेत्तं जपेत्तं भजेत्प्रेमपूर्वकमाराधयेत। कीदृशमों तत्सत्शब्दत्रयप्रतिपाद्यमित्यर्थः । इति शब्दः पूर्वतापनीसमाप्त्यर्थः । तदुक्तं गीतायां भगवता—
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ॥५०॥
इति श्रीमद्विश्वेश्वरविरचितायां गोपालतापनीटीकायां गोपीनाथस्य ध्यानरसनभजननिरूपणं नाम पूर्वतापनीयोपनिषट्तीका समाप्ता ॥
ब्रह्मोपनिषद्योगीः यस्मादेतत्पदं निष्प्रतियोगिकचिन्मात्रपर्यवसन्नं भवति तस्मात्तत्पदाख्यः कृष्ण एव परमो देवः प्रकाशमात्रत्वात। तत्स्वरूपं ध्यायेत्सदा तन्मन्त्रं रसयेत्जपेत। तमेव भजेत्प्रेमपूर्वकमाराधयेत। किं तत्पदमित्यत्र ओं तत्सत्शब्दत्रयप्रतिपाद्यमित्यर्थः । इति शब्दः षष्ठोपनिषत्समाप्त्यर्थः । उपनिषच्छब्दः पूर्वतापिनीसमाप्त्यर्थः ॥५०॥
प्रबोधानन्दः ः अथ कः परमो देवः इत्यादिषु प्रश्नोत्तरतया प्रकृतमुपसंहरति तस्मादिति । कृष्ण एव परमो देवः परमपुरुषः परमेश्वरह। तदुपासनैव सर्वपुरुषार्थ इति । तथा चोक्तं श्रीभागवते—
यद्वाञ्छया श्रीर्ललनाचरत्तपो
विहाय कामान्सुचिरां धृतव्रता ॥ [भ्P
१०.१६.२६]
यान्ब्रह्मेशो रमादेवी
दध्युर्मूर्ध्नाघनुत्तये ॥
यस्मादेवं श्रीकृष्णमहिमा तस्मात्श्रीकृष्ण एवेति द्विरुक्तिर्निश्चयार्थः । ओमिति पूर्णब्रह्म ओंकारात्मकं तत्सत्तदेव सत्यम् ॥६१॥
इति श्रीगोपालतापन्याः पूर्वभागविवृत्तिः ॥
श्रीजीवःः यस्मादेवं श्रीकृष्णस्य महिमा । तस्मात्कृष्ण एवेति ॥५२॥
इति श्रीगोपालतापनीटीकायां श्रीसुखबोधिन्याह्पूर्वभागः समाप्तः ॥
ओ)०(ओ
तेx
त्सुसेदः [ई हवे नोत्रेप्रोदुचेद्त्रिविअलल्तेर्नतिवे रेअदिन्ग्स्,
नोरोनेस्थती फ़ीलरे ओब्विओउस्ल्य्w
रोन्ग्.] थे नुम्बेरिन्ग्स्य्स्तें फ़ोल्लोw
स्म्योw
नेदितोरिअल्देचिसिओनन्दिस्नोत्चोन्सिस्तेन्त्w
इथन्योने प्रिन्तेदेदितिओन्,
अल्लोफ़् w
हिछ्दिफ़्फ़ेरन्द्w
होसे नुम्बेर्सरे गिवेन्फ़ोल्लोw
इन्ग्थेइर्चोम्मेन्तरिएस्.
(
१) P
उरिदसेदितिओन्(P
द्). (फ़ोर्J
ईव ङोस्वामी चोम्मेन्तर्य्)
- P
द –
ंअनुस्च्रिप्त्हेल्द्ब्य्V
अनमलि लल्ङोस्w
अमि इन्V
रिन्दवन्.
- P
द्ब्–
ंअनुस्च्रिप्त्हेल्द्ब्य्B
्O
ऱी P
ऊन,
नो. १५/१८९१९५
- P
द्च्– P
उब्लिशेद्तेx
त्. (एद्.) ऱं णरयन्V
इद्यरत्न (B
ेर्हम्पोरेः ऋअधरमन्P
रेस्स्,
१८९९).
(
२) K
रिश्नदस्B
बजि, K
उसुमसरोवर. (K) (
फ़ोर्P
रबोधानन्द चोम्मेन्तर्य्)
(
३) S
इद्धन्ति ंअहरज्ऽसेदितिओन्(S
ं)
(
३) V
इश्w
एश्w
अरऽस्चोम्मेन्तर्य्.
(
४) B
्रह्मोपनिषद्योगि.
गोपालतापनीयोपनिषत्
उत्तरतापनीय
(
१)
एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः कृष्णः ।
विश्वेश्वरः ः पूर्वतापन्यां गोपीनाथस्य ध्यानरसनभजनैः सुनिष्पण्णचित्तस्य वासुदेव एव मोक्षदो नान्य इति दर्शयितुं तस्य कर्तुमकर्तुमन्यथाकर्तुमैश्वर्यप्रख्यापिकामाख्यायिकां बोधसौकर्यार्थमारचयति—
एकदा हीति । एकदा एकस्मिन्काले,
व्रजस्त्रियः गोपिकाः सकामाः शर्वरीं रात्रीं कृष्णं प्रति वक्ष्यमाणमर्थमूचिरे सन्निधौ उषित्वा । सर्वेश्वरमिति नृसिंहादिव्यावृत्त्यर्थमुक्तम् । गोपालमिति बलदेवव्यावृत्त्यर्थम् । कृष्णमिति । कृष्णं प्रति वक्ष्यमाणमर्थमूचिरे कृष्णः च ताः प्रति वक्ष्यमाणमर्थमुवाच इत्यर्थः ॥१॥
ब्रह्मोपनिषद्योगी ः पूर्वतापनीप्रकटितमन्त्रराजपञ्चपदध्यानरसनविशुद्धान्तरस्य निर्विशेषब्रह्माप्तिर्भवेदिति प्रकटयितुमुत्तरतापिनीमवतारयति । गोपीगणमुन्याद्याख्यायिका तु विद्यास्तुत्यर्था । आख्यायिकामवतारयति—
एकदा हीति । ताभिरेवमुक्तो भगवानाह—
उवाच ताः कृष्ण इति ॥१अ॥
श्रीजीवः (१);
प्रबोधानन्द (१)ः (P
) श्रीः ।
शान्तं मनो निगमसंयमनाय नित्यं
का वा कृता विविधयोगविधौ न वार्ता ।
श्रीमत्प्रबोधपदपङ्कजभावनेन
प्राप्तं परं पदमहो महिमा तदीयः ॥
वृन्दावन मधुवने बहुलावने च
भाण्डीरभद्रकुमुदे च महावने च ।
गोवर्धने च परिवर्धितचित्रमोदं
श्रीमत्प्रबोधमरविन्दमुखं स्मरामि ॥
श्रीगोपालो जयति । (B
ोथ्) पूर्वतापन्यां तस्मात्कृष्ण एव परो देव इत्युपसंहारतात्पर्येण महावाक्येन श्रीकृष्णस्य तादृशत्वं यदुक्तं तदेवोत्तरतापन्यां प्रकारान्तरेण विव्रियते । (पोन्ल्य्) ब्रह्ममुनिसंवादभङ्ग्योक्तिश्रुत्या । तथा,
श्रीकृष्णभक्तितद्भक्ततत्स्थानतन्मन्त्रादीनां चोत्कर्ष उक्तः । सम्प्रति अतिस्पष्टयन्ती ब्रह्मनारायणसंवादाभ्यामन्यानपि कांश्चन विशेषान्दर्शयितुं व्रजसुन्दरीदुर्वासःसंवादमवतारयति—(
बोथ्) एकदा हीति ।
सकामाः अनवच्छिन्नकृष्णसङ्गाभिलाषाः । उषित्वा श्रीकृष्णसंनिधौ रात्रिमनु क्रीडित्वेत्यर्थः । व्रजस्त्रियः कृष्णमूचिरे इति उवाच ताः कृष्ण इति यथोचितमग्रेऽनुवर्तनीयम् ॥१॥
ओ)०(ओ
(
२)
अनु कस्मै ब्राह्मणाय भक्ष्यं दातव्यं भवति ।
विश्वेश्वरः (१ब्)ः सामान्यत आख्यायिका सूचयित्वा विशेषतस्तां दर्शयिष्यनादौ स्त्रीणां वचनमाह—
अनु कस्मा इति । अनु कस्मै ब्राह्मणाय । कं ब्राह्मणमनु लक्षीकृत्य भक्ष्यं दातव्यं भवति येन मनःस्थिताः कालाः पूर्णा भवन्तीति शेषः ॥२अ॥
ब्रह्मोपनिषद्योगी (१ब्)ः सामान्यत आख्यायिका सूचिता । विशेषतस्तामेव विशदयनादौ स्त्रीणां वचनमाह—
अमुकस्मा इति ॥१ब॥
श्रीजीवः (२);
प्रबोधानन्दः (२)ः तत्र व्रजस्तीणां वाक्यमाह—
अनु कस्मा इति । अनु अनन्तरं यस्मै तद्दानेन सदा भवत्सङ्गावियोगः स्यात। तस्मै कस्मा इत्यर्थः ॥२॥
ओ)०(ओ
(
३)
दुर्वाससेति ।
विश्वेश्वरः (२ब्)ः कृष्णवचनमाह—
दुर्वाससे दातव्यमिति शेषः । छान्दसत्वात्सन्धिः ॥
ब्रह्मोपनिषद्योगी (१च्)ः कस्मा इत्यत्र दुर्वासस इति छान्दसः । दूर्वाससे दूर्वाशिन इत्यर्थः ॥
प्रबोधानन्दः (३);
श्रीजीवः (२ब्)ः अथ श्रीकृष्णवाक्यम् । दुर्वासस इति वक्तव्ये सन्धिश्च्छान्दसः । अयं भावः—
मया तस्मै भक्य्षदापनमिदमुपलक्षणमेव । किन्तु स एवासामभीष्टसिद्धिं बोधयिष्यति । यतो ब्रह्मनारायणादिसम्प्रदायेण प्राप्त मदीयतापनीश्रुतितत्त्वः । सम्प्रति मदाविर्भावमयव्रजसमीपवासेनोपसङ्क्रान्ततादृशस्नेहलेशः सर्वत्र निरपेक्षत्वेनासामपि प्रत्येतव्यकथाऽसाविति तद्द्वारैवोपदेशोऽभीष्ट इति ॥
ओ)०(ओ
(
४)
कथं यास्यामोऽ तीर्त्वा जलं यमुनाया यतः श्रेयो भवति ।
विश्वेश्वरः (३)ः पुनः स्त्रीणां वाक्यं कथमिति । यमुनायाः जलमक्षोभ्यमतीत्वा कथं तं मुनिं यास्यामः । यतः मुनेः सकाशात्श्रेयो भवति ॥
ब्रह्मोपनिषद्योगी (२अ)ः पुनः स्त्रीणां वाक्यं कथमिति । कथं वयं यमुनाजलमगाधां तीर्त्वा मुनिं यास्याम इति ॥
श्रीजीवः (३);
प्रबोधानन्दः (४)ः अथ तासां वाक्यं कथमिति । यमुनाया जलमिति योज्यम् । जलमिति तस्यां जलप्राच्य्र्यविवक्षया । अतीर्त्वेति स्वेषां दक्षिणतीरे तस्या उत्तरतीरे स्थितिरिति बोध्यते । यतस्तं विना पारगमनमशक्यम् । तरणोपायस्तु कोऽपि न दृश्यते अतस्तमेव कथयेत्याह । जलमात्रं तर्तुं न शक्यते । किं पुनर्महावर्ततरङ्गादिभीषणा सम्पूर्णयमुना इति भावः । अत्र यमुनां तीर्त्वा गमनेनास्माकं यतः श्रेयोऽभीष्टं भवति तदुपदिशेत्यर्थः ॥
ओ)०(ओ
(
५)
कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं वो दास्यति ।
विश्वेश्वरः (४अ)ः अथ श्रीकृष्णवाक्यं कृष्णेत्यादि । कृष्ण इति नाम यः स ब्रह्मचारीति वाक्यं यमुनामध्ये उक्त्वा व्रजन्तु । वः युष्माकं यमुना मार्गं दास्यति । कृष्णेति छान्दसत्वात्सन्धिः ॥
ब्रह्मोपनिषद्योगी (२ब्)ः तासां वाक्यमाकर्ण्य भगवानाह—
कृष्णेति । श्रीकृष्णोऽस्खलितब्रह्मचारीति सकृदुक्त्वा व्रजत । युष्माकं यमुना मार्गं दास्यति । कृष्णेति छान्दसः ॥
श्रीजीवः (४अ),
श्रीजीवः (५)ः अथ पुनः श्रीकृष्णवाक्यं कृष्णेति ब्रह्मचारीति । श्रीकृष्णेति ब्रह्मचारीति क्रमेणोक्त्वा स्थितानामित्यर्थः । कृष्णेति सन्धिश्छान्दसः । दास्यति यमुनेति शेषः । यद्वा,
कृष्णेति नामा यः स ब्रह्मचारीति वाक्यं यमुनायामुक्त्वा व्रजत । ततो वो युष्माकं मार्गं यमुना दास्यतीत्यर्थः ।
P
ओन्ल्यः यद्वा,
जलं स्तम्भयिष्यति मार्गं यथा भवति जलं पृथक्करिष्यति । एतच्च गोपीनां सन्देहनिरासेन अभीष्टसिद्ध्यर्थं व्याजेन प्रश्नबीजमुपन्यस्तम् । अत्र गोपीभिः श्रीकृष्णोऽपृष्टं नारायणसमेति श्रुत्वा ॥
ओ)०(ओ
(
६)
यं मां स्मृत्वाऽगाधा गाधा भवति । यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति । यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति ॥
विश्वेश्वरः ः कृष्णेत्युक्तिमात्रेण कथं यमुना मार्गं नो दास्यति कथं चानेकाङ्गनासम्भोगशीलो ब्रह्मचारी स्यादिति शङ्काव्युदस्तये स्वस्मृतिमहिमानमाह—
यं मां स्मृत्वा अगाधा तलस्पर्शरहितापि सर्वा सरित्गाधा भवति । यं मां स्मृत्वा अपूतः पूतो भवति । यं मां स्मृत्वा अव्रती व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति । यं मां स्मृत्वा अश्रोत्रियः श्रोत्रियो भवति इति । स्पष्टार्थमिदम् ॥४॥
ब्रह्मोपनिषद्योगी ः कृष्णेत्युक्तितः कथं यमुना मार्गं दास्यति । कथमनेकाङ्गनामदनलीलाशाली ब्रह्मचारी भवितुमर्हतीति शङ्कामुन्मूलयन्नाह—
यं मामिति । सर्वा सरित्सर्वाः सरितः ॥२च॥
जीवः (४ब्) प्रबोधानन्दः (६)ः कुतः ?
तत्राह—
यं मां स्मृत्वेत्यादि । यं मां स्मृत्वा स्थितस्य जनस्य अगाधा स्वप्रमाणेनातलस्पर्शापि यमुना गाधा तलस्पृश्या भवति । इदमपि यत्किञ्चिदेव,
यतोऽपूतो दैत्यादिरपि पूतो मुक्तो भवतीत्यर्थः । अव्रती व्रतमात्ररहितोऽपि सर्वव्रतफलं प्राप्नोतीत्यर्थः । सकामः सर्वकामयुक्तोऽपि निष्कामो भवति । मदेककामनया तत्तत्कामानां स्वयमेवापगमात। निष्कामः सकामो भवतीति पाठे निष्काम आत्मारामः सोऽपि सकामो मद्दिदृक्षादिकामो भवति । किं बहुना,
अश्रोत्रीयः श्रोत्रेन्द्रियरहितोऽपि । उपलक्षणं चैतत। सर्वेन्द्रियवृत्तिरहितोऽपि । स च द्विविधः—
आत्मारामोऽनभिव्यक्तेन्द्रियवृक्षादिश्च । स सोऽपि तल्लीलाश्रवणवेणुवाद्यादिप्रभावेन श्रोत्रादीन्द्रियमान्भवतीत्य् अर्थः । यथा श्रीभागवते—
परिनिष्ठितो ऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान॥ [भ्P
२.१.९] इति ।
गा गोपकैरनुवनं नयतोरुदार
वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ।
अस्पन्दनं गतिमतां पुलकैस्तरूणां
निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ [भ्P
१०.२१.१९] इति ॥
ओ)०(ओ
(
७)
श्रुत्वा तद्वाचं हि वै रौद्रं स्मृत्वा तद्वाक्येन
तीर्त्वा तत्सौर्यां हि गत्वाश्रमं पुण्यतमं हि
नत्वा मुनिं श्रेष्ठतमं हि वै रौद्रं चेति ।
विश्वेश्वरः (५)ः श्रुत्वा तद्वाचं हीति । ता गोप्यो हि निश्चितं वै स्मर्यते तस्य वाचं श्रुत्वा सामर्थ्यबोधकवाक्येन प्रोत्साहिताः गन्तव्यतया रौद्रं रुद्रांशं दुर्वाससं स्मृत्वा तद्वाक्येन कृष्णो ब्रह्मचारीत्येवंरूपेण वाक्येन तत्सौर्यां हि तामगाधामपि गाधाभूतं सौर्यां सूर्यतनयां यमुनां तीर्त्वा गत्वा आश्रमं पुण्यतमं हि नत्वा मुनिं दुर्वाससं कीदृशं ?
श्रेष्ठतमं वै प्रसिद्धं रौद्रमुक्तार्थम् । इतिशब्दो भोजनपूर्वपरिचरणसमाप्त्यर्थः ॥
ब्रह्मोपनिषद्योगी (३अ)ः यं मां स्मृत्वा अपूतः पूतो भवतीति श्रुत्वा तद्वाक्यम् । हि निश्चितं वै स्मर्यते । तास्तु गोप्यः श्रीकृष्णवाक्यं श्रुत्वा सामर्थ्यप्रकटनवाक्येन भीताः सत्यः रौद्रं रुद्रांशं दुर्वाससं स्मृत्वा कृष्णोऽस्खलितब्रह्मचारीति स्मरणमात्रेण अगाधामपि गाधीभूतं सूर्यजत्वात्सौर्यां यमुनां तीर्त्वा पुण्यतमं तदाश्रमं गत्वा श्रेष्ठतमं दुर्वाससं रौद्रं नत्वा । इतिशब्दो भोजनपूर्वचरणपरिसमाप्त्यर्थः ॥
श्रीजीवः (५) प्रबोधानन्दः (७)ः ततस्तासां तदनुरूपं चेष्टितमाह—
श्रुत्वा तद्वाचं हीति । हि निश्चये,
वै स्मरणे । तस्य वाचं श्रुत्वा सामर्थ्यबोधकवाक्येन प्रोत्साहं लब्ध्वा गन्तव्यतया आदौ रौद्रं रुद्रांशं दुर्वाससं स्मृत्वा,
तद्वाक्येन तेन वाक्येन कृष्णो ब्रह्मचारीत्येवं रूपेण तत्सौर्यां हि तामगाधामपि गाधीभूतां सौर्यां सूर्यतनयां तीर्त्वा,
हि प्रसिद्धं,
पुण्यतमाश्रमं गत्वा,
रौद्रं श्रेष्ठतमं मुनिं दुर्वाससं नत्वेति योज्यम् । पाठविपर्ययेऽसौ वास्ति । एवमुत्तरत्र च । इतीति अन्यदपि तदाराधनं कृत्वेत्यर्थः ॥
ओ)०(ओ
(
८)
दत्त्वास्मै ब्राह्मणाय क्षीरमयं घृतमयमिष्टतमं ह वै मिष्टतमम् । तुष्टः स त्वाभुक्त्वा हित्वाशिषं प्रयुज्यान्वाज्ञां त्वदात।
विश्वेश्वरः (६)ः दत्त्वा अस्मै ब्राह्मणाय दुर्वाससे क्षीरमयं पायसान्नमिष्टतमं हि वै हिततमं स्वादुतमं हि वै प्रसिद्धमीदृशान्नं दत्त्वा आराधयामासुरिति शेषः ॥
ब्रह्मोपनिषद्योगी (३ब्)ः अस्मै ब्राह्मणाय क्षीरमयमित्यादिविशेषणविशिष्टमन्नं दत्त्वा आराधयामासुः इत्यर्थः । सोऽयं मुनिः आभिः दत्तमन्नं भुक्त्वा स्वभुक्तावशेषमुच्छिष्ठभाग्भ्यो दत्त्वा तासामाशिषं कृत्वाथ गमनानुज्ञामदात्दत्त्वानित्यर्थः ॥
श्रीजीवः (६७अ) प्रबोधानन्दः (८९)ः तथास्मै ब्राह्मणाय क्षीरमयाद्यन्नं दत्त्वा तूष्णीं स्थिता इति शेषः । स तु आभुक्त्वा आ सामस्त्येनोपभुज्य । [P
] श्रीकृष्णप्रेयस्य एता मम महाभाग्येनैव स्वहस्तरन्धितविविधान्नं मह्यमानीतमिति विचारेण । तादृशोऽसौ ताः प्रतितुष्टः हित्वा [उभयौ] पात्रलीनं तदुच्छिष्टं परित्यज्य आशिषं प्रयोज्य ताभ्यो विस्तीर्य अन्वाज्ञां १०गृहं गन्तुम् अनुज्ञामदात। परमादरादिना न किञ्चिदुक्तवानित्यर्थः । [P
] यद्वा,
तुष्टः सन्भुङ्क्त्वा तत्रापि अहित्वा,
न किञ्चिदपि त्यक्त्वा । [उभयौ] आभुङ्क्त्वेति क्त्वा ल्यबभावश्छान्दसः ॥८॥
ओ)०(ओ
(
९)
कथं यास्यामोऽतीर्त्वा सौर्याम् ।
विश्वेश्वरः (७ब्)ः स तु आसां स्नेहेन मुक्त्वा उच्छिष्टमन्नं च हित्वा त्यक्त्वा उच्छिष्टभागिभ्यो दत्त्वा आशिषं प्रयोज्य दत्त्वा अनु पश्चाताज्ञां यमुनानुज्ञामदात। ताः ऊचुः कथं यास्यामोऽतीर्त्वा सौर्याम् ॥
ब्रह्मोपनिषद्योगी (४अ)ः तेनैवमाज्ञप्ताः तं प्रति ता ऊचुः किमिति । कथमिति ।
श्रीजीवः (७ब्) प्रबोधानन्दः (१०)ः अथ ता ऊचुरिति ज्ञेयम् । तासां वचनमेवाह—
कथं यास्यामोऽतीर्त्वा सौर्यामिति ॥
ओ)०(ओ
(
१०)
स होवाच मुनिः । दूर्वाशिनं मां स्मृत्वा वो दास्यतीति मार्गम् ।
विश्वेश्वरः (८)ः स होवाच मुनिः मां दूर्वाशिनं दूर्वाआभोजिनं दूर्वैव अशनमस्यास्ति तं निराहारं वा स्मृत्वा वः युष्माकं यमुना मार्गं दास्यति ॥
ब्रह्मोपनिषद्योगी (४ब्)ः तासां वाचमाकर्ण्य स होवाच मुनिः । किमिति । दूर्वाशिनं निराहारं वा स्मरत । ततो युष्माकं यमुना मार्गं दास्यति ॥
श्रीजीवः (८),
प्रबोधानन्दः (११)ः स होवाचेति । स दुर्वासा । ह स्फुटमुवाच । यथा दूर्वाशिनं दूर्वाभोजिनं दूरे अशनमस्यास्तीति वा दूर्वाशिनं निराहारं मां स्मृत्वा स्थितानां वो युष्माकं दास्यतीति मार्गं दास्यति विपर्ययेण योज्यम् ॥
ओ)०(ओ
(
११)
तासां मध्ये हि श्रेष्ठा गान्धर्वी ह्युवाच—
तं ह वै ताभिरेवं विचार्य ।
विश्वेश्वरः (९)ः तासां मध्ये हि श्रेष्ठा गान्धर्वी काचित्तं हि वै दुर्वाससमेवमुवाच—
किं कृत्वा ताभिरन्याभिः स्त्रीभिः समं विचार्य ॥
ब्रह्मोपनिषद्योगी (५)ः तासां मध्ये हि श्रेष्ठा गान्धर्वी काचित्तं हि वै मुनिमेवमुवाच । अन्याः स्त्रियस्तु तूष्णीमासुः । एवं विचार्य ॥
श्रीजीवः (९);
प्रबोधानन्दः (१३)ः तासां मध्ये श्रेष्ठा गान्धर्वी नाम काचित। तं मुनिं ह स्फुटमिति वक्ष्यमाणमुवाच । गान्धर्वा ह्युवाचेति हिशब्दान्तष्ठावन्तः क्वचित्पठः । किं कृत्वा ?
ताभिरन्याभिः स्वसखीभिः सममेवं विचार्य ॥
ओ)०(ओ
(
१२)
कथं कृष्णो ब्रह्मचारी । कथं दुर्वाशनो मुनिः ॥
विश्वेश्वरः (१०)ः किमुवाचेत्याह—
कथं कृष्णो ब्रह्मचारी कथं च मुनिर्दूर्वाशिनः एवमुवाचेति सम्बन्धः ॥
ब्रह्मोपनिषद्योगी (५ब्)ः कथमिति । भूतभौतिकान्तर्याम्यात्मनो विक्रियत्वात्कृष्ण ब्रह्मचारीत्यादि कथं युज्यते ॥
श्रीजीवः (१०);
प्रबोधानन्दः (१४)ः किं तद्विचार्योवाच ?
तत्राह—
कथं कृष्णो ब्रह्मचारी ?
कथं वा मुनिरयं दूर्वाशनः ?
इति । तत्र मुनिं दुर्वासिनं मां स्मृत्वेति । दुकारं ह्रस्वान्तं सकारं च दन्त्यादि पठित्वा केचिदेवं व्याचक्षते । दुर्वासिनं दुर्वाससमात्माराममित्यर्थः । एतदूर्ध्वं च कथं दुर्वासिनो मुनिरिति [J
] तेषां पाथश्च [बोथ्] तथा व्याख्यानं च युक्तम् । उभयत्रापि अकारान्त एव हि दुर्वासिनशब्दः । दुर्वाससो मुनित्वव्याघातश्च । सतोषबहुभोजनात्कृष्णस्यास्मत्सम्बन्धेन ब्रह्मचारित्व१४व्याहृतिवदितिवद् इति भावः ॥
ओ)०(ओ—
(
१३)
तां हि मुख्यां विधाय पूर्वमनु कृत्वा तूष्णीमासुः ॥
विश्वेश्वरः (११)ः अन्यास्तु किं चक्रुरित्याशङ्क्याह तां हीति । तां गान्धर्वीं मुख्यां विधाय मुख्यव्यापारयत्नीं कृत्वा अनु पश्चात्पूर्वं कृत्वा अग्रेसरीं विधाय अन्याः स्त्रियः तूष्णीमासुः अनुरक्तवत्यः तस्थुः ॥
ब्रह्मोपनिषद्योगी ः पूर्ववाक्ययोर्व्याख्या द्रष्टव्या ।
श्रीजीवः (११) ः अन्याः कथमासन्?
तत्राह—
तां हीति ॥
प्रबोधानन्दः (१५)ः अन्याश्च किं चक्रुः ?
इत्याशङ्क्याह—
तां हीति तां गान्धर्वीं मुख्यतमां विधाय । मुख्यां कृत्वानु पश्चात्पूर्वं कृत्वा अग्रेश्वरीं विधाय तूष्णीमासुः ॥
ओ)०(ओ
(
१४)
शब्दवानाकाशः । शब्दाकाशाभ्यां भिन्नः ।
तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठति । स ह्याकाशस्तं न वेद ।
स ह्यात्माऽहं कथं भोक्ता भवामि ॥
स्पर्शवान्वायुः । स्पर्शवायुभ्यां भिन्नः । तस्मिन्वायौ तिष्ठति ।
वायुर्न न वेद तं हि स ह्यात्माहं कथं भोक्ता भवामि ।
रूपवदिदं हि तेजः । रूपाग्निभ्यां भिन्नः । तस्मिन्नग्निस्तिष्ठति ।
अग्निर्न न वेद तं हि स ह्यात्माहं कथं भोक्ता भवामि ।
रसवत्य आपः । रसाब्भ्यो भिन्नः । तस्मिन्नापस्तिष्ठन्ति । अप्सु तिष्थाति । आपस्तं न विदुः । स ह्यात्माहं कथं भोक्ता भवामि ।
गन्धवतीयं भूमिः । गन्धभूमिभ्यां भिन्नः ।
तस्मिन्भूमिस्तिष्ठति । भूमौ तिष्थाति । भूमिस्तं न वेद ।
स ह्यात्माहं कथं भोक्ता भवामि ।
विश्वेश्वरः (१२१३)ः भूतभौतिकाद्यन्तर्यामिण आत्मनोऽक्रियत्वात्सर्वमिदं कृष्णो ब्रह्मचारीत्यादिकं युज्यत एव इत्यभिप्रेत्य भगवान्मुनिराह शब्दवानिति । शब्दगुणयुक्त आकाशो वर्तते । तदुभयभिन्नो विलक्षणः प्रत्यगात्मा तस्मिन्शब्दवत्याकाशे तिष्ठति । स हीति । शब्दवानप्याकाशस्तमन्तर्यामिनं न वेद । मय्यसौ तिष्ठतीति । स ह्यात्मेति स हि साक्षिभूत आत्मा अहं कथं भोक्ता भवामि । एवं वायुतेजोजलभूमिपर्याया व्याख्येयाः ॥
ब्रह्मोपनिषद्योगी (६)ः एवमाशङ्कां परिहरन्मुनिराह शब्दवानिति । शब्दगुणयुक्तोऽयमाकाशो वर्तते । तदुभयभिन्नो विलक्षणः प्रत्यगात्मा । तस्मिन्प्रतीचि सर्वारोपापवादाधारे आकाशस्तिष्ठति । अन्तर्याम्यात्मनायं प्रत्यगाकाशे तिष्ठति । स हीति । शब्दवाना काशस्स्वाधारं प्रत्यञ्चं स्वान्तर्यामिनं वा जातु न वेद । मया प्रतीचा साकं परमात्मैव तिष्ठति । स ह्य्प्रत्यगभिन्नपरमात्माहं कथं भोक्ता भवामि । एवं वाय्वादयो व्याख्येयाः ।
श्रीजीवः (१२१३)ः अथ स होवाचेति ज्ञेयम् । तद्वचनमेवाह शब्दवानिति । तत्र जीवभूतस्यात्मन इत्येतदभोक्तृत्वं स्थापयति । शब्दगुणयुक्त आकाशो नाम वर्तते । तदुभयभिन्नो विलक्षणः तस्मिन्देहस्थे शब्दवत्याकाशे तिष्ठति । यत्र य इति शेषः । स ह्याधार आकाशस्तमाधेयं न वेद । स ततोऽ पि विलक्षणस्तदवेद्य आत्माहं कथं भोक्ता भवामीति स्वस्य तदनावेशेन श्रोत्रेन्द्रियभोग निषिध्यःइ । (१३) एवं स्पर्शवानित्यादिषु व्याख्येयाः ।
प्रबोधानन्दः (१६१७)ः भूतभौतिकाद्यन्तर्यामिणोऽक्रियत्वात्कृष्णो ब्रह्मचारीत्यादिकं युज्यत इत्यभिप्रेत्य मुनिराह तत्र जीवभूतस्यात्मनस्तावदभोक्तृत्वं स्थापयति । शब्दगुणयुक्त आकाशो नाम वर्तते । तदुभयभिन्नो विलक्षणस्तस्मिन्देहस्थे शब्दवत्याकाशे तिष्ठति । स हीति । शब्दवानप्याकाशस्तमन्तर्यामिनं न वेद । मय्यसौ तिष्ठतीति । स हि साक्षिभूत आत्मा अहं समत्तोऽपि विलक्षणं स्वादनेन आत्मा अहं कथं भोक्ता भवामीति स्वस्यापि तदनावेशेन श्रोत्रेन्द्रियभोगो निषिद्धः कृतः ।
स्पर्शवानित्यादिषु वाय्वादयो व्याख्येयाः । अयं भावः । भोग्याः शब्दादयः । भोगोऽधिष्ठानम् । आधारमात्रं शरीरम् । करणं श्रोत्रादिः । भोगः साक्षात्कारः । स चानुभवरूपः । अनुभवश्च स्वप्रकाशात्मनः । न च कर्तृत्वं वात्मनः सम्भवति,
किन्तु स्वानुभवेन विषयीकरणमात्रम् । न चानुभवविषयता ज.दस्य सम्भवति,
सम्बन्धाभावात। सर्वज्ञानाध्यासादेवात्मनो नास्ति भोक्तृत्वमिति ।
ओ)०(ओ
(
१६)
इदं हि मनस्तेष्वेवेदं मनुते । तानिदं हि गृह्णाति ।
विश्वेश्वरः (१४१५)ः कथं तर्हि ते भोक्ताहं शब्दं शृणोमीत्यादिप्रत्यय इत्याशङ्क्य मनस एव तथा प्रतीतिरित्याह इदं हि मन इति । तेषु आकाशादिषु भूतेषु वर्तमानमिदं हि प्रसिद्धं मन एवं हि अहं भोक्ता इत्येव मनुते चित्सन्निधानात। अत्र हेतुमाह तानिति । हि यस्मात्तान्शब्दादीनिदं मन एव तत्तदिन्द्रियाधिष्ठातृभूतं गृह्णाति ।
ब्रह्मोपनिषद्योगी (११)ः किं भोक्ताहमिति मनुत इत्यत आह इदमिति । आकाशादिपञ्चभूतभौतिकेषु वर्तमानमिदं मन एव हि भोक्ताहमिति मनुते । मनसो जडत्वेऽपि चेतनसन्निधानान्मननादिशक्तिः । यस्माद्यदिदं मन एव तत्तदिन्द्रियाविष्टं सत्पूर्वं शब्दादीनि गृह्णाति ।
श्रीजीवः (१४१५);
प्रबोधानन्दः (१८)ः कथं तर्हि ते भोक्ताहं शब्दं शृणोमीत्यादिप्रत्यय इत्याशङ्क्य मनस एव तथा प्रतीतिरित्याह इदं हि मन इति । तेषु श्रोत्रादिष्विन्द्रियादिष्वधिष्ठितं सतेवं श्रोत्राद्यनुसारेणैव मनुते,
तत्तदात्म्यापन्नत्वाच्छब्दादीननुभवति । तस्मात्तानाकाशादीनिदं मन एव कर्तृ गृह्णाति ।
ओ)०(ओ
(
१६)
यत्र सर्वमात्मैवाभूत्तत्र वा कुत्र मनुते,
क्व वा गच्छतीति
स ह्यात्माहं कथं भोक्ता भवामि ।
विश्वेश्वरः (१६)ः एवं तर्हि तवाप्यस्ति । लोकवदन्तःकरणावच्छिन्नत्वादहं भोक्तेत्यध्यासः स्यादित्याशङ्क्य स्वस्मिन्नध्यासनिवृत्तिं दर्शयति यत्र सर्वमिति । यत्र आत्मज्ञानदशायां विदुषः सर्वं कार्यकारणजातमधिष्ठानतत्त्वज्ञानादात्मैवाभूत्रजतमिव शुक्तिः । तत्र चात्मज्ञानदशायां कुत्र धर्मणि केन करणेन को मन्ता मनुते एवं ज्ञानेन्द्रियान्तरपर्याया अप्यध्याहर्तव्याः । क्व वा दिशि केन करणेन को वा गच्छति एवं वागादिपर्याया अध्याहर्तव्याः । करणादीनामप्यात्मभूतत्वाज्ज्ञानिनः सर्वाध्यासनिवृत्तेर्नभोकृत्वाद्यध्यास इति भावः । स हीति । सः कार्यकरणसाक्षी निवृत्ताभिमानः आत्मा कथं भोक्ता भवामि ।
ब्रह्मोपनिषद्योगी (११ब्)ः तवान्तःकरणावच्छिन्नतया भोक्ताहमित्यध्यासः स्यादित्यत आह यत्र इति । यत्र यस्मिन्ब्रह्मणि कार्यकारणकलनासम्भवादेवं विदुषः सर्वमात्मैवाभूत्,
तत्र निष्प्रतियोगिकब्रह्ममात्रे तज्ज्ञानदशायां वा यत्र कुत्र वा धर्मिणि केन करणेन धर्मिणं मन्तारं मनुते । क्व वा अपि केन कारणेन को वा गच्छति । एवं वागादिपर्याया अप्यूह्याः । निष्प्रतियोगिकब्रह्ममात्रावगतेरध्यारोपापवादापह्नवपूर्वकत्वात्ज्ञानिनो भोकृत्वाध्यासः कुत इति भावः ।
श्रीजीवः (१६) प्रबोधानन्दः (१९)ः एवं तर्हि तवाप्यन्यलोकवदन्तःकरणावच्छिन्नत्वादहं भोक्तेत्यध्यासः स्यादित्याशङ्क्य स्वस्मिन्नध्यासनिवृत्तिं दर्शयति यत्र सर्वमिति । यत्रात्मज्ञानदशायां विदुषः सर्वं कार्यकारणजातमधिष्ठानतत्त्वज्ञानादात्मैवाभूत्,
रजतमिव शुक्तिः । तत्र वा तद्दशायां वा कुत्र धर्मणि केन करणेन को मन्ता मनुते,
एवं ज्ञानेन्द्रियान्तर पर्याया अप्याहर्तव्याः । क्व वा दिशि केन करणेन को वा गच्छतीत्येवं तु वागादि कर्मेन्द्रियपर्याया अप्याहर्तव्याः ।
[J
] ततो ज्ञानावस्थत्वान्मम नास्त्येव शरीरसम्बन्धेन भोक्तृत्वम् ।
[P
] करणादीनामप्यात्मभूतत्वाज्ज्ञानिनः सर्वाध्यासनिवृत्तेर्नभोकृत्वाद्यध्यास इति भावः । स हीति । स कार्यकरणसाक्षी आत्मैव ।
[B
ोथ्] तथापि निरवशेषं सानन्दं च यदिदं मम भोकृत्वं तत्श्रीभगवत्प्रियतमयुष्मत्सम्बन्धेनैव ।
[J
] हरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिः ।
अध्यगान्महदाख्यानं
नित्यं विष्णुजनप्रियः ॥ [भ्P
१.७.११] इतिवदिति भावः ।
ओ)०(ओ
(
१७)
अयं हि कृष्णो यो वो हि प्रेष्ठः शरीरद्वयकारणं भवति ।
विश्वेश्वरः (१७)ः अस्तु तव ज्ञानित्वादभोक्तृत्वं कृष्णोऽपि किं तथैवेत्याशङ्क्य तस्य तु सर्वाधिष्ठानभूतत्वान्न भोक्तृत्वमित्याह अयं हीति । यो वः प्रेष्ठोऽयं कृष्णो हि यस्मात्शरीरद्वयस्य कारणं ततो न भवतीति शेषः ।
ब्रह्मोपनिषद्योगी (१२)ः अस्तु तव ब्रह्मज्ञानित्वादभोक्तृत्वं किं कृष्णोऽपि तथेत्यत आह अयं हीति । कृष्णस्य सर्वप्रेमास्पदत्वेन व्यष्टिसमष्टिशरीरद्वयकारणतया चेश्वरत्वातयमपि न भोक्तेत्यर्थः ।
श्रीजीवः (१७);
प्रबोधानन्दः (२०)ः श्रीकृष्णस्य तु सर्वकारणत्वेन सर्वातिरिक्तशक्तित्वादेव न तावत्कार्यशक्तिपराभूततेत्याह अयं हि कृष्ण इति । अत्र कृष्णशब्दस्यान्यार्थतापरिहारार्थमयमिति । यो वो हि प्रेष्ठ इति चोक्तम् । शरीरद्वयकारणत्वं चोपलक्षणं सर्वस्य कार्यस्य,
एतदप्यापातबोधार्थम् । सर्वेषां निजाविर्भावादीनामपि कारणत्वात् ॥
ओ)०(ओ
(
१८)
द्वा सुपर्णौ भवतो ब्रह्मणोऽंशभूतस्तथेतरो भोक्ता भवति ।
अन्यो हि साक्षी भवतीति । वृक्षधर्मे तौ तिष्ठतः ।
अतो भोक्त्रभोक्तारौ । पूर्वो हि भोक्ता भवति
तथेतरोऽअभोक्ता कृष्णो भवतीति ।
विश्वेश्वरः (१८२०)ः एवमधिष्ठानत्वादभोकृत्वमित्युक्तम् । अथान्तर्यामित्वादपि तदाह द्वौ सुपर्णाविति । ब्रह्मणश्चिन्मात्रात्द्वौ सुपर्ण इव सहचरौ जीवेश्वरौ भवतो वर्तेते । तथाभूतयोस्तयोर्मध्ये इतरः अंशभूतो जीवो भोक्ता भवति । हि निश्चितम् । अन्य ईश्वरः साक्षी केवलमीक्षितैव भवतीत्यर्थः । (१९) तयोः सुपर्णत्वं कुत इत्याशङ्क्य वृक्षे वर्तमानत्वादित्याह वृक्षधर्मे ताविति । वृक्षस्य धर्मो व्रश्चनाख्यो यस्य तस्मिन्विनाशिनि संसाराख्ये अश्वत्थे तिष्ठतः । अत इति । अत ईश्वरानीश्वरत्वात्तौ भोक्ताभोक्ताराविति । (२०) एतद्विविनक्ति । पूर्वो हि भोक्ता भवति तथा इतरः कृष्ण ईश्वर इति कारणादभोक्ता भवति ।
ब्रह्मोपनिषद्योगी (१३)ः कृष्णस्य सर्वाधिष्ठानत्वेनाभोकृत्वमुक्तम् । इदानीमन्तर्यामितयाप्यभोकृत्वं स्यादित्याह तदाह द्वेति । ब्रह्मणश्चिन्मात्रात्द्वौ सुपर्णाविव सहचरौ जीवेश्वरौ भवतः । तन्मध्ये इतरः अहंसम्भूतो जीवो भोक्ता भवति । अन्यस्तु ईश्वरः साक्षी अभोक्ता भवति । इति शब्दो मन्त्रसमाप्त्यर्थः । तयोः सुपर्णत्वं कुत इत्यत्र व्रश्चनात्मको हि वृक्षधर्मः तत्र संसारे द्वौ तिष्ठतः । तयोरनीश्वरेश्वरत्वात्भोक्तृत्वाभोक्तृत्वे स्याताम् । तत्र पूर्वस्य भोक्तृत्वमपरस्य अभोकृत्वमिति सिद्धम् ।
श्रीजीवः (१८);
प्रबोधानन्दः (२१२४)ः तत्र समष्टिव्यष्टिरूपयोः शरीरयोर्मध्ये व्यष्टिविचारेऽपि समानस्थयोर् अपि मद्विधजीवतद्विधतदन्तर्यामिनोर्महदन्तरमित्याह द्वाविति । द्वाविति सहचरावित्यर्थः । सुपर्णाविति चेतनावित्यर्थः । २२भवत इत्यादितया तथैव वर्तेते । तत्र तयोरुभयोर्मध्ये ब्रह्मणः समष्टिजीवान्तर्यामिनो मण्डलस्थानीयस्य अंशभूतो रश्मिपरमाणुस्थानीय इतरो जीवो भोक्ता भवति । देहे भोक्तृत्वमविद्ययात्मनि मन्यते । अन्यः साक्षात्तदंशी त्वीश्वरः साक्षी केवलमीक्षितैव भवतीत्यर्थः । इतिशब्दो मन्त्रसमाप्त्यर्थः । तथा तथात्वं च ब्रह्मणः श्रुतेस्तु शब्दमूलत्वादिति न्यायेनाचिन्त्यशक्तिमयत्वात। अविद्याकल्पितत्वादित्येके । तत्तु न सम्भवतीति । ब्रह्मणि तदाश्रयत्वविषयत्वयोर्द्वयोरप्यसम्भवात। इत्यस्तु तावदियं महती वार्ता ।
श्रीकृष्णाभेदेनैव तदन्तर्यामिणस्तादृशत्वमिति वक्तुं पुनस्तदेवानुवदति वृक्षधर्म इति । वृक्षस्य धर्मो वृश्चनाख्यो धर्मो यस्मिन्तस्मिन्वृक्षधर्मे व्यष्टौ समष्टौ वा शरीरे तिष्ठतः ।
अत इति । यद्यपि वृक्षधर्मे तिष्ठतस्तथाप्यतः पूर्वोक्तादीश्वरत्वाभावेश्वरसद्भावहेतोरेव तौ भोक्ताभोक्तारौ भवतः ।
तदेव व्यनक्ति । पूर्वो भोक्ता भवति । तथेति तु शब्दार्थे । इतर ईश्वरः पुनरभोक्ता भवति । ननु भवतु तावदीश्वरस्याभोक्तृत्वं कृष्णस्य किमायातम् । तत्राह कृष्ण इति । कृष्ण एव २४तत्रांशेन तद्रूपेण वर्तमान इत्यर्थः । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगद्[गीता १०.४२] इति तदुक्तेः ।
ओ)०(ओ
(
१९)
यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्नः ।
विद्यामयो हि यः स कथं विषयी भवतीति ।
विश्वेश्वरः (२१)ः ईश्वरस्याभोकृत्वे अविद्यारहितत्वं हेतुमाह । यत्र ईश्वरे विद्याविद्याभ्यां भिन्नो घटादिवत्विषयः न भवतीत्यर्थः । विद्याविषयत्वाभावे हेतुमाह विद्यामयो हीति । विद्या नाम ब्रह्माकारा अन्तःकरणवृत्तिः तन्मयः तत्प्रकाशकः हि यः स कथं विषयी भवति । न हि घटादिप्रकाशक आलोको घटादिविषयः ।
ब्रह्मोपनिषद्योगी (१४)ः तयोर्भोक्ताभोक्तृत्वं हेतुमाह यत्रेति । यत्र ईश्वरे विद्याविद्याभ्यां भिन्ने विद्याविद्ये न विदामः । तत्र हेतुर्विद्यामय इति । विद्या नाम ब्रह्मातिरिक्तं न किञ्चिदस्तीति ब्रह्ममात्रवृत्तिः । तत्प्रकाशकत्वात्न तद्विषयो भवति । न हि घटाद्यवभासकः सविता भवति तथेत्यर्थः आलोको घटादिविषयः ।
श्रीजीवः (२१)ः प्रबोधानन्दः (२५)ः श्रीकृष्णे तु ततोऽप्यतिशयमाह यत्रेति । विद्याविद्ये मायावृत्तिरूपे ।
विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।
बद्दमोक्षकरी आद्ये मायया मे विनिर्मिते ॥ [भ्P
११.११.३]
इत्येकादशे तद्वचनात। ते यत्र यस्य समीपेऽपि । न विदामो न मन्यामहे । तदंशस्यान्तर्यामिन एव तदधिष्ठातृत्वात। यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता [V
इP
१.९.५२] इति विष्णुपुराणात। तदेवमाह विद्याविद्याभ्यां भिन्नः पृथग्भूय स्थित इत्यर्थः ।
त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ [भ्P
१.७.२३]
इति प्रथमे श्रीमदर्जुनवाक्यात। तथैव हेतुमाह विद्यामयः । विद्या तत्र महाविद्या चिच्छक्तिस्तत्प्राचुर्यवान। ततश्च स कथं विषयी भवतीति ।
ओ)०(ओ
(
२०)
यो ह वै कामेन कामान्कामयते स कामी भवति ।
यो ह वै त्वकामेन कामान्कामयते सोऽकामी भवति ।
विश्वेश्वरः (२२)ः एवमविद्यारहितत्वादभोक्तृत्वमुक्तमथाकामत्वादप्यभोक्तृत्वमाह यो हेति । यः ह वै किल कामेन इच्छया कामान्विषयान्कामयते सः कामी कामुको भवति । यो ह वै कृष्णः तु अकामेन अनिच्छया कामान्स्वीकरोति स तु अकामी लोके प्रसिद्धो भवति ।
ब्रह्मोपनिषद्योगी (१५)ः एवं विद्याविद्यारहितत्वादभोक्तृत्वमुक्तम् । अकामत्वादप्यभोक्तृत्वमाह यो हीति । यः काम्यकामिजीवेश्वरविलक्षणतया स्वातिरिक्तष.द्भावविकारास्पदशरीरोपलक्षिताविद्यापदतत्कार्यजातासम्भवनिष्प्रतियोगिकब्रह्ममात्रतया चावशिष्यते स वो युष्माकं सर्वेषां स्वामी भवति ।
श्रीजीवः (२२);
प्रबोधानन्दः (२६)ः नन्वस्य अस्मासु विषयित्वमेवानुभूयते तत्राह यो हेति । कामेन भोगाभिलाषेण कामान्विषयान्कामी विषयी अकामेन केवलेना नुकूल्यमयेन प्रेम्णा । तत्रैतदुक्तं भवति आत्मारामोऽप्यरीरमद्[भ्P
१०.२९.४२] इति,
प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना [भ्P
१०.३३.२१] इत्यादेः श्रीशुकवाक्यात। नाहं तु सख्यो भजतोऽपि जन्तून्भजाम्यमीषामनुवृत्तिवृत्तये [भ्P
१०.३२.२०] इति,
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ [भ्P
१०.४७.३४]
इत्यादेश्च तद्वचनादकामेनैव युष्मत्कामनात्तस्याविषयित्वमेव प्रेमलक्षणः सोऽयं च गुणः सर्वाश्रये परमभजनीयत्वेन सम्मते तस्मिन्नवश्यं मन्तव्यः । युष्माकं च तस्मिंस्तादृशत्वमेव दृश्यते ।
यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किं स्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां वः ॥ [भ्P
१०.३१.१९]
इति भागवतवचनात। ततो भवत्योऽपि न कामिन्य इति विषयसाधाराण्यं न वहन्ति । अत उभयेषां सम्बन्धः सोऽयं मुमुक्षुमुक्तभक्तानामपि सुखप्रद इति [J
] श्रीमदुद्धवोऽपि वक्ष्यति वाञ्छन्ति यद्भवभियो मुनयो वयं च [भ्P
१०.४७.५८],
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः [भ्P
१०.४७.६०] इति च [B
ोथ्] तस्मात्तस्मिन्युष्मासु च वयं विलक्षणत्वमेव लक्षयामह इति ॥
ओ)०(ओ
(
२१)
जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषु तिष्ठति । योऽसौ सर्वेषु वेदेषु तिष्ठति । योऽसौ सर्ववेदैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्य भूतानि विदधाति स वो हि स्वामी भवति ।
विश्वेश्वरः (२३)ः एवमकामित्वादभोकृत्वमुक्तम् । अथ षडूर्मिभावविकारशून्यत्वात्कृष्णशब्दार्थत्वादपि तदाह जन्मेति । जन्मजराभ्यां भिन्नः रहितः इत्यनेन ईसडूर्मिरहितत्वं जन्माख्यप्रथमविकाररहितत्वं च । स्थाणुः सर्वदा स्थिरः इत्यनेन किञ्चित्कालास्तित्वविपरिणामाभ्यां शून्यत्वं विनाशशून्यत्वं चोक्तं भवति । अच्छेद्योऽयमिति अपक्षयशून्यत्वमुक्तं वेदितव्यम् । कृष्सत्तायामिति धातुबलादयं कृष्णशब्दार्थ इति स्थाणुशब्देन सूचितम् । अथ गोविन्दशब्दार्थरूपत्वादप्यभोक्तृत्वमाह योऽसौ सौर्ये तिष्ठति इति । योऽसौ गोशब्दार्थभूते सूर्यमण्डले विद्यते तिष्ठति स गोविन्दः । स एवाधुना कामधेन्वनुग्रहार्थं धेनुषु विद्यते तिष्ठतीति गोविन्दशब्दार्थमाह योऽसौ गोषु तिष्ठतीति । लक्षणया गोशब्देन गोपाः ते च गा इन्द्रियाणि पालयतीति व्युत्पत्त्या गोपेषु विद्यते तिष्ठतीति । गोविन्दशब्दार्थमाह योऽसौ गोपेष्विति । स एव गोषु वेदेषु विद्यत इति । गोविन्दशब्दार्थमाह योऽसौ सर्वेषु वेदेष्विति । गोभिर्वेदैर्गीयत इत्गोविन्दशब्दार्थमाह योऽसौ सर्वैरिति । गोषु विनाशं गच्छत्सु स्थावरजङ्गमेष्वाविष्टः सन्भूतानि विदधाति इति गोविन्द इति गोविन्दशब्दार्थमाह योऽसौ सर्वेष्विति । य ईदृशः कृष्णो गोविन्दः सर्वस्वामी ततोऽसौ कथं भोक्ता इत्याशयेनाह स वो हीति । स कृष्णो गोविन्दो यत्वः स्वामी तस्मातभोक्तेत्यर्थः ।
ब्रह्मोपनिषद्योगी सी प्रेविओउस्.
श्रीजीवः (२३);
प्रबोधानन्दः (२७)ः लक्ष्मीनारायण इव भवतीभिर्नित्यमेव सम्बन्धः सोऽयमिति तद्वदेव स्वरूपशक्तिभिर्भवतीभिर्नित्यमेव पूर्णकामत्वात्कामित्वं वक्तुं न युज्यत इति वदंस्तदेव सपरिकरं स्थापयति जन्मजराभ्यामिति । तत्र जन्मेति प्रारभ्य स वो हि स्वामी भवतीत्यन्तेन षड्भावविकाररहित इत्यर्थः ।
एकस्त्वमात्मा पुरुषः पुराणः
सत्यं स्वयं ज्योतिरनन्त आद्यः ।
नित्योऽक्षरोऽजस्रसुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ [भ्P
१०.१४.२३]
इत्याद्युक्तेः । अत एव स्थाणुः स्वीयरूपगुणलीलाधामस्वव्यभिचारी । तदेव विवृणोति योऽसौ सौर्ये सूर्यमण्डले कामगायत्रीध्येयत्वेन प्रतिरूपतया तिष्ठति । यद्वा सौरी यमुना तस्या २६अदूरभवे देशे इत्यर्थे सङ्काशादित्वात्ण्यप्रत्यये सौर्येऽत्र कृष्णवनं भद्रवनमिति वक्ष्यमाणात। तस्यास्तीरविशेषद्वयरूपदेशोऽत्र विविक्षतः । सहस्रनाम्नि सुयामुन इत्यत्र यामुनशब्देन यथा तद्भाष्यकारैस्तद्व्रजवासिनो व्याख्याताः । तदेतत्पर्यन्तेन तस्य कृष्णत्वं व्यज्य गोविन्दत्वं व्यनक्ति । योऽसौ गोषु तिष्ठतीत्यादिना गोषु श्रीमन्नन्दगोकुलस्थासु,
गोपा अपि तत्स्थाः प्रसक्तत्वात।
वत्सैर्वत्सतरीभिश्च साकं क्रीडति केशवः ।
वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥
इति स्कान्दात। तदेवं गोभूमिवेदविदित इति पूर्वतापन्युक्तगोविन्दपदनिरुक्तेरन्तर्गतमर्थं प्रदर्श्य बहिरङ्गमपि प्रदर्शयति । सर्वेषु वेदेष्वित्यादित्रयेण तत्र तृतीयेण तु भूमिविदितत्वं व्याख्येयम् । अत्रावेशो द्विविधः—
अप्राकट्यसमये शक्त्या प्राकट्यसमये तु साक्षादेवेति । विदधातीत्यत्र तु करोति विशिष्टतया स्थापयतीत्यादिरर्थो यथायोगं योजनीयः । अथ तीर्तीयनामार्थं व्यञ्जयन्पूर्वोक्तं सिद्धान्तमेव दर्शयति । स वो हि स्वामी भवतीति यच्छब्दनिर्दिष्टानां तच्छब्द एव तात्पर्यात। हिशब्दोऽवधारणे । स च सर्वत्रान्वेति । स एव युष्माकमेव स्वामी वल्लभ एव भवत्येवेति दाम्पत्येन परस्पराव्यभिचारित्वं सम्मतम् । सम्प्रत्यन्य सम्बन्धस्तु मायिकस्वरूपेणैवेति भावः । यथोपलक्षितं [J
] रासकथनान्ते—
नासूयन्खलु कृष्णाय
मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान्
स्वान्स्वान्दारान्व्रजौकसः ॥ [भ्P
१०.३३.२७] इति ।
वियोगश्च कदाचित्कुत्र वेत्यभिप्रेतम् ।
मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।
दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ॥ [भ्P
१०.८२.४४]
इति ताः प्रति श्रीभागवते दृष्टं स्वयं श्रीकृष्णेनैवोक्तमिति ।
[P
(अफ़्तेर्यथोपलक्षितम्)] तस्मात्तस्य प्रेमैकनिष्ठत्वात। अव्यभिचारित्वात्तु वियोगे नास्तीति भावः ।
ओ)०(ओ
(
२२)
सा होवाच गान्धर्वी कथं वास्मासु जातोऽसौ गोपालः । कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः । को वास्य मन्त्रः । किं वास्य स्थानम् । कथं वा देवक्यां जातः । को वास्य ज्यायान्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्षात्प्रकृतिपरो योऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै ॥
विश्वेश्वरः (२४)ः एवं विदितवृत्तान्ता गान्धर्वी पृच्छतीत्याह सा होवाचेति । सा गान्धर्वी मुनिमुवाच किमित्याशङ्क्याह कथमिति । एवं विधः कृष्णो गोविन्दः अस्मासु गोपालः कथं वा जातः कथं वा हे मुने असौ कृष्णः त्वया ज्ञातः को वा अस्य मन्त्रः किं वास्य स्थानं कथं वा देवक्यां जातः अस्य ज्यायान्ज्येष्ठः रामः को वा किं रूपादिः भवति इत्यर्थः । कीदृशी पूजा अस्य गोपालस्य भवति साक्षात्प्रकृतिपरं मायेशः यः परमात्मा गोपालः कथं त्ववतीर्णईउ भूम्यां हि वै प्रसिद्धः ।
ब्रह्मोपनिषद्योगी (१६)ः एवं मुनिमुखाद्विदितभगवद्वृत्तान्ता गान्धर्वी पृच्छतीत्याह सा हि इति । एवमादि प्रश्नान्पृच्छति सेति ।
श्रीजीवः (२४);
प्रबोधानन्दः (२८३१)ः तदेतदभीष्टं श्रुत्वा सा पुनरप्यपृच्छदित्याह सा होवाचेति । प्रश्नास्तु स्पष्टा एव । देवक्यां जात इति तु प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः [भ्P
१०.८.१४] इति श्रीमन्नन्दं प्रति गर्गवाक्यश्रवणात। [P
] अयमस्य जीवनभूत आत्मा कथम्भूतावतीर्णः । हि यस्माद। वै निश्चये ।
ओ)०(ओ
(
२३)
स होवाच तां ह वै ।
एको ह वै पूर्वं नारायणो देवः ।
यस्मिन्लोका ओताश्च प्रोताश्च ।
तस्य हृत्पद्माज्जातोऽब्जयोनिस्तपित्वा तस्मै हि वरं ददौ ।
स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ।
विश्वेश्वरः (२४)ः स होवाच तां ह वै एको हीति । स मुनिः ह किल वै प्रसिद्धौ तां गान्धर्वीमुवाच । प्रश्नोत्तर्गर्भां कृष्णब्रह्मणः कथामवतारयितुं कृष्णस्वरूपमाह । एको ह किल पूर्वं सृष्टेरादौ नारायणो देव आसीतिति शेषः । नारायणत्वं तस्य कुत इत्यत आह यस्मिन्निति । यस्मिन्देवे लोकाः ओताः दीर्घतन्तुषु पटवत्प्रोतः तिर्यक्तन्तुषु पटवत्तस्य हृत्पद्माज्जातोऽजयोनिः तपित्वा स्थिताय तस्मै ब्रह्मणे नारायणः वरं ददौ । स इति सः ब्रह्मा कामप्रश्नमिच्छया प्रश्नमेव वरं वव्रे तं हास्मै ददौ ।
ब्रह्मोपनिषद्योगी (१८) न व्याख्यातम्.
श्रीजीवः (२६२७);
प्रबोधानन्दः (३२३५)ः [P
] अथ सर्वेषां प्रश्नानां क्रमानवेक्ष्य कस्यचित्काचिदुत्तरमुनिरुक्तवानित्याह श्रुतिः—
स होवाचेति । [B
ोथ्] स दुर्वासाः । ह स्फुटम् । तां गान्धर्वीम् । वै प्रसिद्धौ । [J
]ः एको हीहेति इह मायिके लोके आसीदिति शेषः । नारायणत्वमस्य कुतः । तत्राह यस्मिन्निति ।
[P
]ः कथं त्वया ज्ञातोऽसौ मुने कृष्ण इति प्रश्ने नारायणोपदेशात्ब्रह्मणा ज्ञातः,
तदुपदेशान्मया कृष्णो ज्ञातः । यच्चान्यत्कृष्णसम्बन्धितया पृष्टं तदपि ज्ञातमिति वक्तुं श्रीनारायणब्रह्मसंवादं प्रस्तौति । एको हीत्यादि पूर्वं जगत्सृष्टेः प्राक। एको हि वै नारायण आस इह इति पाठे मायिके लोके आसीदिति । क्वचित्सन्देहो न कर्तव्यः [B
ोथ्]
नाराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः ।
तस्य तान्ययनं पूर्वं तेन नारायणः स्मृतः ॥ इति वचनात।
[J
] नाभिपद्मादिति वक्तव्ये हृत्पद्मादित्युक्तः ।
[P
] यस्मिन्निति यस्मिन्समस्तभगवत्स्वरूपमुख्ये श्रीकृष्णे लोकाः सर्वे प्राकृताः अप्राकृताश्च निजनिजेशतत्परिचारादिसहिताः ओताः पट इव दीर्घीभूतास्तन्तवः प्रोता अवान्तरलोका दीर्घतन्तुषु तिर्यक्तन्तव इव कदाचिदव्यक्ततया तिष्ठन्ति । अब्जयोनिरपि नाभिपद्ममुद्भवोऽपि तस्य हृत्पद्माज्जात इति । तत्सङ्कल्पविशेषादेवोद्भूतादन्यथा कृष्णजिज्ञासाभिनिवेशः कथं स्यात।
[B
ोथ्] प्रथमं तेन हृदा सङ्क्ÿ
प्तः पश्चान्नाभिपद्मादाविर्भावित इति । तपित्वा तपः कृत्वा स्थिताय तस्मै । यद्वा तपित्वा स्वं प्रकाश्य तस्मै वरं ददौ । तं वरेण छन्दयामासेत्यर्थः ।
[P
] तपतीति तपः तद्वाक्याद्ब्रह्मा महाशर्यं तपः कृतवान्तत्कारतया च अन्तर्यामितया तस्य समाहृते हृदि स्फोरितवान।
[B
ोथ्] स ब्रह्मा च कामं स्वाभिलषितमेव प्रश्नं वरं वव्रे । ममाभिलषितस्य प्रश्नस्य कारणार्थमनुज्ञां देहि इति याचितवानित्यर्थः । [P
] यद्वा स ब्रह्मा यावान्प्रश्नमेव वव्रे । सर्वप्रकारेण सर्वतः परमोत्कृष्टवस्तुनः जिइज्ञासया एव तस्य तपः प्रवृत्तेः । कामतः स्वेच्छया यद्विनयो यावान्प्रश्नो मया क्रियते सर्वस्यैवोत्तरं देयमित्यर्थः ।
[B
ोथ्] ततस्तं वरं ह स्फुटमस्मै ददौ नारायण इति शेषः । [P
] परमेशेनानुगृहीततत्कालोदितपरमहर्षोद्रेकेनोत्फुल्लमना विविधसृष्टिरूपहृदि विचारपरम्परयाविष्टः सन्श्रीभगवत्प्रश्न एव तत्तदवतारलीलाजिज्ञासार्थं कृष्ण एव पूर्वं नारायण आसीत। स्वेच्छाविष्कृतविराड्रूपादिचतुराननद्वारेण तादृक्चराचरज्ञानार्थं प्रश्नः स्वयमेव कारित इति ।
ओ)०(ओ
(
२४)
स होवाचाब्जयोनिः ।
योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भवति ।
येन लोकास्तुष्टा देवास्तुष्टा भवन्ति ।
यं स्मृत्वा मुक्ता अस्मात्संसाराद्भवन्ति ।
कथं वास्यावतारस्य ब्रह्मता भवति ।
विश्वेश्वरः (२८)ः स हेति लब्धवरः अब्जयोनिः नारायणमुवाच योऽवताराणामिति । हे विश्वाश्रय तव अवताराणां मध्ये यः श्रेष्ठोऽवतारः सः को भवति । येनेति येन अवतारेण हेतुना लोकास्तुष्टाः देवास्तुष्टा भवन्ति । यं स्मृत्वा मुक्ता अस्मात्संसारात्भवन्ति । कथं वा अस्य श्रेष्ठस्य अवतारस्य ब्रह्मस्वरूपता भवति वर्तते ।
ब्रह्मोपनिषद्योगी (१८) न व्याख्यातम्.
श्रीजीवः (२८)ः स होवाचेत्याद्यनन्तरं योऽवताराणामिति । योऽवताराणां मध्ये श्रेष्ठो योऽवतारः सः को भवितेत्यर्थः । श्रेष्ठत्वे लिङ्गं येन लोका इति । तेषु च यस्य श्रेष्ठत्वं तस्य वा कथं ब्रह्मता सर्वबृहत्तमता स्वयं भगवत्तेत्यर्थः । अवतारत्वे सति सर्वबृहत्तमत्वाभावस्तदभावे च श्रेष्ठत्वाभावः स्यादिति ।
प्रबोधानन्दः (३६)ः स अब्जयोनिः ह स्फुटमुवाच प्रश्नं कृतवान। प्रश्नमेवाह योऽवताराणामिति । अवताराणां मध्ये यः श्रेष्ठः को भवितेत्यर्थः । श्रेष्ठत्वे लिङ्गं येन लोका इति । तेषु च यस्य श्रेष्ठत्वं तस्य वा कथं ब्रह्मता सर्वबृहत्तमता स्वयं भगवत्तेत्यर्थः । अवतारे सति सर्वबृहत्तमत्वाभावस्तदभावे च श्रेष्ठत्वाभावः स्यादिति । अथ च अवतारावतार्यादिभ्यः सर्वेभ्यो भगवत्स्वरूपेभ्यः सच्चिदानन्दसामान्यात्समस्तात्मभूतसर्वानुस्यूतसर्वात्मकविशुद्धसर्वप्रकारेण प्रशंस्यः स को भविता प्रकटो भविष्यति तमेव वदेति शेषः । येन स्मरणदर्शनश्रवःआदिविषयीभूतेन लोकाः प्राकृताप्राकृतलोकवासिनः सर्वेऽपि सहेश्वरास्तुष्टा भवन्ति नान्य एव । तत्रैव परमनिरतिशयसुखचमत्काराद्देवा भगवत्स्वरूपाणि च यन्नामरूपादिसम्बन्धभाजो जीवाः क्षुद्रा अपि अनाराधका अपि यं स्मृत्वैव अन्यदन्तरङ्गसाधनं विनापि ब्रह्मात्मसाक्षात्कारं विना अस्मादतिदुस्तरात्संसाराद्विमुक्ता भवन्ति । मुक्ताः सन्तो यं प्राप्नुवन्तीत्यर्थः । कथं वास्यावतारस्येति । अनापेक्षकमहत्त्वेन मुख्यं ब्रह्मत्वं भवति ।
ओ)०(ओ
(
२५)
स होवाच तं हि नारायणो देवः ।
सकाम्या मेरोः शृङ्गे यथा सप्तपूर्यो भवन्ति ।
तथा निष्काम्याः सकाम्याश्च भूगोलचक्रे सप्तपूर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्म गोपालपुरीति ॥
विश्वेश्वरः (२९)ः स होवाच तं हि नारायणो देवः । किम् । सकाम्याः कामफलेन सहिताः मेरोः शृङ्गे यथा सप्त पुर्यो भवन्ति । तथा निष्काम्या मोक्षदाः सकाम्याः कामफलदाः अधिकारितारताम्येन भूगोलचक्रे सप्तपूर्यः अयोध्यामथुरादयो भवन्ति । तासां पुरीणां मध्ये गोपालपुरी गोपालवेशस्य विष्णोराश्रयभूता पुरी यद्वा गवां चक्रेण पालिता गोपालपुरी मथुरा हि निश्चितं साक्षाद्ब्रह्म भवति ब्रह्मप्रकाशकत्वात।
ब्रह्मोपनिषद्योगी (१९)ः एवं ब्रह्मणा पृष्टः स होवाच । यथा मेरोः कामफलेन सहिताः सकाम्याः स्वर्गादयः सप्तपुर्यो भवन्ति । यमनिरृत्यधिष्ठितलोकावेकीकृत्येत्यर्थः । तथा अधिकारितारताम्येन निष्काम्याः सकाम्याश्च भूगोलचक्रे ।
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैते मोक्षदायिका ॥
इति सप्तपूर्यो भवन्ति । तन्मध्ये गोपालपुरी साक्षाद्ब्रह्मैव भवतीत्यर्थः ।
श्रीजीवः (२९);
प्रबोधानन्दः (३८)ः (J
) स होवाच तं हि नारायणो देव इति । अत्र कथं वास्मास्वित्यस्य गान्धर्वीप्रश्नस्योत्तरं योऽसौ गोषु तिष्ठति इत्यादिपूर्वोक्तेरेव सेत्स्यतीति पृथक्न दातव्यम् । नित्यमेवासौ भवतीभिः सह विहरति । सम्प्रति तु भवतीभिः सह क्रमेण प्रकटीभाव एव जन्म । भवयस्तु तत्र लीलावेशादेवानुसन्धातुं न शक्नुवन्तीत्यभिप्रायात। साक्षात्प्रकृतिपरो योऽयमात्मा गोपालः । स कथं भूम्यामित्यस्योत्तरं ब्रह्मप्रश्नानामुत्तरं दातव्यमिति स्थिते तेषु प्रथमं तावत्किं वास्य स्थानमित्यस्य च तस्याः प्रश्नोत्तरं स्वतःसिद्धं
[B
ोथ्] कैमुत्येन तु श्रीकृष्णस्य परब्र्ह्मत्वं व्यञ्जितम् । सर्वावतारश्रेष्ठत्वं तु ब्रह्माणं प्रति श्रीनारायणो दर्शितवानिति । तद्वाक्यमुदाहरति—[J
] सकाम्या इत्यारभ्य साक्षाद्ब्रह्म गोपालपुरी हीत्यन्तेन । [B
ोथ्] सकाम्या भोगमयाः । मेरोः शृङ्ग इत्यूर्ध्वलोकोपलक्षणम् । सर्वोपरिष्टात्परमवैकुण्ठ इत्यर्थः ।
या यथा भुवि वर्तन्ते पूर्यो भगवतः प्रियाः ।
तास्तथा सन्ति वैकुण्ठे तत्तल्लीलार्थमादृताः ॥
इति स्कान्दपाद्मोत्तरखण्डादौ त्वेतद्व्यक्तमेवास्ति । निष्काम्याः सकाम्याश्चेति मोक्षदा भोगदाश्चेत्यर्थः । भोगस्तत्र सार्ष्ट्यादिमय एव ज्ञेयः । उभयत्रापि सप्तपूर्यः
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती ज्ञेयाः सप्तैते मोक्षदायिका ॥ इति ।
विवक्षितमाह तासां मध्य इति । तासामपि मध्ये साक्षाद्ब्रह्म परमाश्रयस्वरूपैव गोपालपुरी । [P
] हि निश्चये । यद्वा निष्काम्या मोक्षदा सकाम्या कामफलदा । अधिकारितारतम्येन । हि निश्चितम् । गोपालपुरी मथुरा साक्षात्ब्रह्म भवति । ब्रह्मप्रकाशकत्वात। ब्रह्मभूतपदार्थान्तरव्यवधानात।
ओ)०(ओ
(
२६)
सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवति ।
यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठतीति चक्रेण रक्षिता हि वै मथुरा तस्माद्गोपालपुरी भवति ।
विश्वेश्वरः (३०)ः सकाम्या निष्काम्या देवानां सर्वेषां भूतानां च यथाभजनं भवति । यथा सरसि पद्मं तिष्ठति तथा भूम्यां गोपालपुरी तिष्ठति इति । गोपालपुरीत्यस्य व्युत्पत्तिं वदन्सर्वसिद्धसज्ज्ञां दर्शयति । चक्रेण रक्षिता हि मथुरा तस्माद्गोपालपुरी भवति ।
ब्रह्मोपनिषद्योगी (२०)ः किं च सकाम्येति ।
श्रीजीवः (३०)ः पुनः सकामेत्यतिशयार्थम् । तत्र भौमत्वदृष्टिं निवारयति यथा हीति । यस्मादेवं तस्मादेव गोपालपुरी भवती नराकृतिपरब्रह्मणः श्रीगोपालस्य पुरी साक्षाद्ब्रह्म तासामपि मध्ये स्वरूपेणैव गोपालपुरी परमाश्रयो भवितुं युज्यत इत्यर्थः ।
प्रबोधानन्दः (३९)ः पुनः सकामेत्यतिशयार्थं श्रीकृष्णस्यैव ब्रह्मत्वपरमाकाष्ठां कौमुत्येन वक्तुं तद्विहारधाम्नोऽन्यत्सर्वस्मादुत्कर्षसुखतश्चार्थतो वर्णयिष्यन्भूमिकां रचयति सकाम्या इति ये देवता ये यजन्ति ते तत्तत्स्थानं गत्वा भोगं कृत्वा पुनर्जायन्ते इत्याशयेनोक्तं मेरोः शृङ्गे यथा सप्तपुर्यो भवन्ति इति काम्यविषयाः रूक्चन्दनवनितास्तैः सह वर्तन्ते । मोक्षस्तत्र नास्ति । यथा अयोध्याद्याः सप्तपुर्यो भूगोले भवन्ति प्रकटीभूताः । वस्तुतो नित्यचिन्मया एव । न तु भूमिरूपामायया भूतसृष्टतया जातास्ता तु निष्काम्या निर्गताः । काम्या विषया याभ्यः अनित्यविषयभोगेति मत्वा नित्यसुखकामनया संश्रितानां तु तत्त्वज्ञानभक्तिजननेनावश्यं श्रीहरिनित्यकैङ्कर्यादिमोक्षश्चेति । अत्र सप्तपुरीणां ब्रह्मत्वेऽपि श्रीमथुराया विशेषमाह । गोपालाय नन्दगोपकुमारत्वेन श्रीकृष्णस्तावत्शुद्धसत्त्वमहाप्रेमशक्तिप्रधानसम्पूर्णतमसर्वशक्त्यालिङ्गितो ब्रह्मानन्दरसैकमहोदधेः श्रीकृष्णधाम सा निष्काम्या एव श्रीकृष्णैकात्मप्रेमभक्तिजननात। अत्र रागिविरक्तादिविशेषाधिकारो नोपलक्षते इत्याह सर्वेषां भूतानामिति । तादृशी शक्तिर्गोपालपुर्या वर्तते । यत्तृणमपि ब्रह्माणं करोति । [भत्त्युण्रमम्?]
अपि हरिभक्तिविवशं करोति निरङ्कुशतया सर्वस्य सर्वानुत्तमार्थानतिसुदुर्लभानपि अवाञ्छितानपि ददात्येवेति प्रकट एव दृश्यते ।
प्रबोधानन्दः (४०)ः तर्हि शब्दस्य रसादेश्चोपलब्धिस्वप्नमायागन्धर्वनगरभावनाभिनिवेशशुक्तिरजतविभ्रमादितुल्यत्वे भक्तानां सुखं वा न श्रीभगवच्चरणसरोजसेवाध्यानमननादिना तदभिनिवेशो न स्यादेव तत्राह यथेति. भौमत्वदृष्टिं निवारयति यथा सरसि पद्मं तिष्ठति तथैव भूम्यां मथुरा । किं च यथा सरस्युद्भूतस्य पद्मस्य तद्दोषगुणाग्रहणं प्रत्युत परमसौरभमधुमत्त्वादेर्विरुद्धधर्मस्यैव धारणं तथा मथुरापि भूदोषगुणौ न गृह्णाति । स्वेनासाधारणेन गुणेन प्रकाशते । तच्च श्रीकृष्णशक्तिप्रभावादतः श्रीकृष्णदर्शनादिना भ्रमरूपं नश्यति । तत्स्थानादेः प्राकृतदृष्टिः न तिष्ठत्येव । हि निश्चये । वै प्रसिद्धौ । यतः स एव कृष्णो गोपगोपवनिताभिर्निरन्तरं निरवद्यमखण्डसच्चिदानन्दस्वरूपतद्धान्नानुभूयते । तत्सुखस्यैवास्वादः पृथिव्यामेतावानेव विशेषः हि यस्मान्मथुरा गोपालस्य चक्रेण रक्षिता अग्निशस्त्रादिभ्यः । तस्माद्गोपालपुरी भवत। तदेवमुपासनानुसारेण तासामूर्ध्वाधस्तत्प्रतीयमानत्वेन उभयविधत्वं यथा गोपालस्य नानात्वमिति । यद्यपि भूसंसर्गेऽप्यस्या असंसक्तस्वभावादप्रच्युतिः शक्तिभिरतर्क्यत्वात्,
तथापि दोषसंसर्गः कदापि नास्ति । तद्दृष्टिभ्रममात्रम् । अत्र श्रीकृष्णप्राप्त्ययोग्याज्ञानं संसर्गाणां न भवत्येव योग्यानां स्यादेव (?)
। मथुरायां चापराधातिरिक्तमिथ्याभाषणादिजन्यपापं न जायत इति । जातमपि तदैव तत्रैव पुण्योत्पत्त्या नश्यति ॥४०॥
ओ)०(ओ
(
२७)
बृहद्बृहद्वनं मधोर्मधुवनं तालस्तालवनं काम्यं काम्यवनं बहुला बहुलावनं कुमुदं कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनं लोहवनं वृन्दाया वृन्दावनमेतैरावृता पुरी भवति ॥
विश्वेश्वरः (३१)ः सा च मथुरा द्वादशवनैरावृता भवतीत्याह बृहदिति । बृहत्बृहद्भूतमिति कारणात्बृहद्वनमेकम् । मधोः दैत्यस्य सम्बन्धि इति कारणान्मधुवनं द्वितीयम् । तालो वर्तत इति कारणात्तालवनं तृतीयम् । काम्यं कामदेवः वर्तते इति काम्यवनं चतुर्थम् । बहुलः वर्तते इति बहुलवनं पञ्चमम् । कुमुदं वर्तते इति कारणात्कुमुदवनं षष्ठम् । खदिरो वर्तत इति कारणात्खदिरवनं सप्तमम् । भद्रः वृक्षविशेषो वर्तत इति कारणात्भद्रवनमष्टमम् । भाण्डीर इति नाम बतो वर्तत इति कारणात्भण्डीरवनं नवमम् । श्रीः रमा तस्यास्तस्मिन्साधकानां शीघ्रमाविर्भावात्तद्वनं श्रीवनं दशमम् । लोहो नाम कश्चिदसुरः स तपसा यत्र सिद्धिं प्राप्तः तत्लोहवनमेकादशम् । वृन्दाया वनं वृन्दावनं द्वादशम् ।
ब्रह्मोपनिषद्योगी (२१)ः सेयं मथुरा द्वादशवनैरावृता भवतीत्याह बृहदिति । बृहन्महद्भूतलं बृहद्वनं प्रथमम् । मधोः दैत्यस्याश्रयं मधुवनं द्वितीयम् । यत्र तालो वर्तते तत्तालवनं तृतीयम् । यत्र काम्यं कामदो देवो वर्तत इति काम्यवनं चतुर्थम् । बहुला वर्तत इति बहुलवनं पञ्चमम् । कुमुदो वर्तत इति कुमुदवनं षष्ठम् । खदिरो वर्तत इति खदिरवनं सप्तमम् । भद्रो वृक्षविशेषो वर्तत इति कारणात्भद्रवनमष्टमम् । भाण्डीरबतो वर्तत इति भण्डीरवनं नवमम् । यत्र तप्यतः श्रीः प्रसीदति तत्श्रीवनं दशमम् । लोहनामकोऽसुरस्तपःसिद्धिं गतस्तत्लोहवनमेकादशम् । वृन्दाया वनं वृन्दावनं द्वादशम् । एतैरावृता इयं पुरी भवतीत्यर्थः ।
श्रीजीवः (३१);
प्रबोधानन्दः (४१)ः [J
] तदेवमुपासनानुसारेणैव तासामूर्ध्वाधस्तात्प्रतीयमानत्वेनोभयविधत्वम् । यथा श्रीगोपालस्य नानात्वमिति भावः । तस्मात्तदधिष्ठातुः श्रीगोपालस्य ब्रह्मणो हि प्रतिष्ठाहं [ङीता १४.२७] इति तद्वचनरीत्या परमब्रह्मत्वे सिद्धे तत्र स्थितस्याविर्भाव एवावतारत्वमिति च ज्ञेयम् ।
[B
ोथ्] एवं पुर्यास्तत्स्थानं निरूप्य तद्बहिःस्थितानां वनानामपि प्रतिपादयति बृहदित्यादिना । तत्र तेष्वेव गहनेष्वेवमित्यन्तेन । तत्र बृहदित्यादिकं स्पष्टयति ।
बृहत्त्वाद्विस्तीर्णत्वात्श्रीकृष्णगोकुललीलया प्रथमप्रवृत्त्या महत्त्वाद्वा बृहद्वनमित्यर्थः ।
मधोर्मधुनामदैत्यस्य कदाचित्तत्र कृतनिवासस्य वधलीलास्थानत्वात्मधुवनमित्यर्थः । केशीतीर्थवत्मधुवंशनिवासत्वाद्वा ।
तालस्तज्जातीयतदाधारत्वेन तल्लीलाविशेषस्थानत्वात्तालवनम् ।
काम्यः सर्वेषां कमनीयः कृष्णस्तत्र विहरतीति ३२बहुविधलीलास्थानं काम्यवनम् ।
बहुला श्रीहरेः पत्नीति स्कान्दात्तस्याः स्थानविशेषत्वेन वनमपि बहुला । तस्माद्बहुलावनमित्यर्थः । बहुलो ३३बहुलवनमिति पाठे बहुलास्मिन्नस्तीति बहुलः प्रदेशविशेषः स चासौ वनं चेति बहुलवनम् । ३५मिश्रकारणमितिवत्संज्ञायां पूर्वपदस्य दीर्घः । [P
]
तस्मिन्पुण्यवने राजन्बहुपुण्यफलानि च ।
तत्रैव रमते विष्णुर्लक्ष्म्या सार्धं सदैव हि ॥
इति स्कान्दमथुराखण्डात। लक्ष्मी श्रीकृष्णरूपमोहिता सती ब्रह्मभावाभिनिवेशेन गोपीस्वरूपं कृत्वा तत्र वने स्थिता इति ।
[B
ोथ्[ कुमुदं नित्यपुष्पिततज्जातिविशेषः । स च तल्लीलाविशेषकौतुकावहः । तद्योगात्तदेव कुमुदवनम् ।
एवं खदिरमिति । [P.
] खदिराख्यो वृक्षो बाहुल्येन यत्रास्ति तत्खदिरवनम् ।
[B
ोथ्] भद्रः श्रीबलभद्रः श्रीकृष्णसाहित्येन कृष्णवनं भद्रवनमिति वक्ष्यमाणत्वात्तस्य लीलाविशेषधारित्वात्तदभिन्नमेव भद्रवनमिति ।
भाण्डीरो नाम श्रीकृष्णलीलारसप्रवाहस्फीतो बटविशेषः । सोऽत्र वर्तते इति हेतोर्भाण्डीरवनम् ।
श्रीवनमिति स्पष्टत्वान्निरुक्तम् । श्रियो वनं श्रीवनमिति ।
लोहवनमिति लोहजङ्घस्य वनत्वात्मधुवनवदेव ।
वृन्दाया लीलाख्यमहाशक्तिप्रादुर्भावविशेषरूपायाः पाद्मकार्त्तिकमाहात्म्यप्रसिद्ध्यायाः सम्बन्धीति । सर्वश्रीकृष्णलीलास्पदत्वव्यक्त्या माहात्म्यविशेषो दर्शितः । अतो मधुरेण समापयेदिति न्यायेन सर्वान्त एवोपदिष्टम् । वनतीर्थभ्रमणविधानं च श्रीवाराहे तथैव दृश्यते । [J
] तत्र तेष्वेवेति तत्र मथुरामण्डले तेषु गहनेष्वेवमेव पुरीवत्ब्रह्मस्वरूपेण नित्यधामत्वमेव ज्ञेयमिति शेषः ।
[P
] वृन्दा श्रीराधाया ऐक्यमेकात्मभावं प्राप्ता तुलसीदामरूपेणापि वक्षःस्थिताया वृन्दाया वनम् । श्रीवृन्दावनस्थलीरूपापि हरिप्रेमास्पदीभूता जाता । पद्मपुराणीयमथुराखण्डे तु एवम् ।
ततो वृन्दावनं पुण्यं वृन्दादेवीसमाश्रितम् ।
हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥
वनं सुगहनं तत्र विशालं विस्तृतं बहु ।
मुनीनामाश्रमैः पुण्यारण्यवृन्दसमन्वितम् ।
वृन्दा नाम्नी हरेः पत्नी न्यवसद्द्हरिमन्दिरे ॥
तन्नामा तच्छिवारण्यं जातं वृन्दावनं शिवम् ।
सर्वदा त्वभजत्कृष्णं पद्मास्या पद्मलोचना ॥
अहो वृन्दावनं पुण्यं यत्र कृष्णः सदैव हि ।
सत्यादियुगकालेषु लक्ष्म्या सार्धं विनोदितम् ॥
तस्मिन्वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्सेवकसमाकीर्णे तत्रैव स्थीयते मया ॥
भुवि गोविन्दवैकुण्ठं तस्मिन्वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥
वृन्दावने महापद्मे यैर्दृष्टः पुरुषोत्तमः ।
गोविन्दस्य महीपाल ते कृतार्था महीतले ॥
तत्रैव द्वादशादित्या गोविन्दपदसेविताः ।
एकादशतया रुद्रास्तत्र तिष्ठन्ति सर्वदा ॥
वदन्ति गुणनामानि गोविन्दस्य तदानने ।
नृत्यन्ति विस्मृताशेषमैश्वर्यं प्रेमविह्वलाः ॥
अहो वृन्दावनं धन्यं यत्र विष्णुमहोत्सवान।
कुर्वन्ति सुरदेवाश्च गोविन्दस्मरणेषणाः ॥
मर्दितः कालीयो यत्र केशी यत्र निपातितः ।
पातिता बहवो दैत्या यस्मिन्वृन्दावने नृप ॥
यथा भक्तिः प्रियतमा यथा भक्तिपरा नराः ।
गोविन्दस्य प्रियतमं तथा वृन्दावनं भुवि ॥
वस्तैर्वत्सतरीभिश्च साकं क्रीडति माधवः ।
वृन्दावनान्तर्गतः सरामो बालकैर्वृतः ॥
गोवर्धनस्य भगवान्यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्रवृष्टिनिवारणात॥
तत्र जातं ब्रह्मकुण्डं ब्रह्मणा तोषितो हरिः ।
इन्द्रादिलोकपालानां जातानि च सरांसि हि ॥
यत्राभिषिक्तो भगवान्मघोना यदुवैरिणा ।
गोविन्दकुण्डं तज्जातं स्नानतात्रेण मुक्तिदम् ॥
तत्रैव चोर्वशीकुण्डं कुण्डमाप्सरसं परम् ।
राधयाराधितो विष्णुः राधाकुण्डं तु तद्वने ॥
अहो वृन्दावने रम्ये यत्र गोवर्धनो गिरिः ।
यत्र तीर्थान्यनेकानि विष्णुदेवकृतानि च ॥
गोवर्धनः स्वयः तत्र बुभुजेऽन्नं चतुर्विधम् ॥ इत्यादि ।
वृन्दा नाम्नी हरेः पत्नी पद्मा च राधया सह इति तादात्म्यभावा कदाचिद्राधा स्वयमुपचरन्ती वृन्दया सह कृष्णं रसयति । अतो वृन्दायाः पत्नीत्वम् । एतेन श्रीवृन्दावनवासमात्रेण कृतार्था भवन्ति । वृन्दा नाम विशुद्धमधुरं सर्वतः प्रशस्तं वृन्दमाश्रयत्वेन वर्तते यस्यास्तस्या वनं तदात्मकं तत्प्रकाशकम् ।
बृहद्वनादिवनवृन्दाधिष्ठातृनिजवृन्दं यस्या अस्तीति सा वृन्दा श्रीराधायाः सखीरूपा । श्रीकृष्णानुरागेन समस्तगोपसीमन्तिनीभ्यः प्रिया । तत्केलिस्थलं श्रीवृन्दावनगोपीवृन्दविहारोत्कृष्टं सोपकरणं तत्तत्समये तत्तल्लीलावृन्दं नित्यप्रकाशकरं भूयस्तरं स्वतोऽपि नृत्यादिकलाचमत्कारं च तस्या वनं वृन्दावनमिति च ॥
(
२८)
तत्र तेष्वेव गहनेष्वेवं देवा मनुष्या गन्धर्वा
नागाः किन्नरा गायन्तीति नृत्यन्तीति ।
विश्वेश्वरः (३२)ः तत्र तेष्वेवेति । तत्र मथुरासमीपे तेष्वेव द्वादशस्वप्येवंविधेषु प्रागुक्तप्रकारेषु गहनेषु देवा मनुष्या गन्धर्वा नागाः किन्नरा इति प्रसिद्धं गायन्ति प्रसिद्धं नृत्यन्तीति ।
ब्रह्मोपनिषद्योगी (२२)ः किन्तु तेषु वनेषु देवादयो वर्तन्त इत्याह तत्रेति । तत्र बृहद्वनादिद्वादशवनेषु ।
श्रीजीवः (३२);
प्रबोधानन्दः (४२)ः तत्र तेष्वेवेति । तत्र मथुरामण्डले तेषु गहनेषु [P
] वेदैरपि दुर्गमेषु मुनीश्वरैरपि वनस्य प्रभावेन श्रीकृष्णैकप्रेमघना मनुष्या निवसन्तीति बोद्धव्यम् । [J
] एवमेव पुरी तद्ब्रह्मस्वरूपेण नित्यधामत्वमेव ज्ञेयमिति शेषः । [B
ोथ्] देवा इति यत्र देवादयस्तत्परिकरा गायन्तीति गानं कुर्वन्ति नृत्यन्तीति नृत्यादिकं कुर्वन्ति । यथोक्तं बृहद्गौतमीये अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः । इति शब्दौ हि प्रकारार्थौ । [P
] प्रेमयोग्यानामेव तत्प्रवेशादि । तत्प्रेमवतां देवादीनामेव तत्रावास इति । एवं गन्धर्वादयः प्रेम्ना गायन्ति नृत्यन्ति च सङ्गीतरीत्या श्रीकृष्णसन्तोषार्थं गायन्ति नृत्यन्ति चेति । प्रेमानन्दरसोन्मादत्वात।
ओ)०(ओ
(
२९)
तत्र द्वादशादित्या एकादश रुद्रा अष्टौ वसवः सप्तमुनयो ब्रह्मा नारदश्च पञ्च विनायका वीरेश्वरो रुद्रेश्वरो अम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो भद्रेश्वर आद्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।
विश्वेश्वरः (३३)ः तत्र तेषु द्वादशस्वपि वनेषु द्वादशादित्या इति । वरुणः सूर्यो यमो वेदाङ्गो भानुरिन्द्रो रविः गभस्तिर्हिरण्यरेता दिवाकरो मित्रो विष्णुरिति द्वादशादित्यनामानि भवन्ति । एकादश रुद्रा इति ।
वीरभद्रश्च शम्भुश्च गिरिशश्च तृतीयकः ।
अजैकपादहिर्बुध्न्यः पिनाकी च तथापरः ॥
भुवनाधीश्वरश्चैव कपाली च दिशां पतिः ।
स्थाणुर्भव इति प्रोक्ता रुद्रा एकादश स्मृताः ॥
अष्टौ वसव इति ।
ध्रुवो धरश्च सोमश्च आपश्चैवानलोऽनिलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टावितीरितः ॥
सप्त मुनय इति ।
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
जामदाग्निर्वशिष्ठश्च सप्तैते मुनयः स्मृताः ॥
ब्रह्मा नारदश्च । पञ्च विनायका मोदः प्रमोद आमोदः सुमुखो दुर्मुखस्तथेति प्रोक्ताः । वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो भद्रेश्वर इति अष्टौ लिङ्गानि । तथान्यानि चतुर्विंशतिर्लिङ्गानि भवन्ति ।
ब्रह्मोपनिषद्योगी (२३)ः उक्तद्वादशवनेषु वरुणादिद्वादशादित्या वसन्ति । वरुणः सूर्यो यमो वेदाङ्गो भानुरिन्द्रो रविः गभस्तिर्हिरण्यरेता दिवाकरो मित्रो विष्णुरिति द्वादशादित्यनामानि भवन्ति ।
वीरभद्रश्च शम्भुश्च गिरिशश्च तृतीयकः ।
अजैकपादहिर्बुध्न्यः पिनाकी च तथापरः ॥
भुवनाधीश्वरश्चैव कपाली च दिशां पतिः ।
स्थाणुर्भव इति प्रोक्ता रुद्रा एकादश स्मृताः ॥ इत्येकादश रुद्राः ।
ध्रुवो धरश्च सोमश्च आपश्चैवानलोऽनिलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टावितीरितः ॥ इत्यष्ट वसवः ।
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
जामदाग्निर्वशिष्ठश्च सप्तैते मुनयः स्मृताः ॥ इति सप्त मुनयः ।
मोदः प्रमोद आमोदः सुमुखो दुर्मुखस्तथा इति पञ्च विनायकाः ।
विश्वेश्वरादिभद्रेश्वरान्तमष्टौ लिङ्गानि तथान्यानि च चतुर्विंशतिलिङ्गानि भवन्ति ।
श्रीजीवः (३३);
प्रबोधानन्दः (४३४४)ः अन्यांश्च कांश्चिद्गणयति तत्रेत्यादिना विनायका इत्यन्तेन । [P
] तत्र तेषु वनेषु द्वादशादित्यादयः सन्तीति बोद्धव्यम् । [B
ोथ्] अत्र लिङ्गरूपाणि रुद्राधिष्ठानानि नित्यान्येव वर्तन्ते इत्याह । वीरेश्वर इत्यादिना भवन्तीत्यन्तेन । तत्र च वीरेश्वर इत्यादिना अष्टौ गणयित्वा आद्यानीति इत्यादीनीत्यर्थः ॥
ओ)०(ओ
(
३१)
द्वे वने स्तः कृष्णवनं भद्रवनम् ।
तयोरन्तर्द्वादशवनानि पुण्यानि पुण्यतमानि ।
तेष्वेव देवास्तिष्ठन्ति सिद्धाः सिद्धिं प्राप्ताः ।
विश्वेश्वरः (३४)ः द्वे वने इति । द्वे वने स्तः वर्तेते । एकं कृष्णवनम् । द्वितीयं भद्रवनम् । तयोर्द्वयोर्वनयोरन्तर्मध्ये द्वादश वनानि भवन्ति । कानिचित्पुण्यानि कानिचित्पुण्यतमानि । तेषु समस्तेषु अपि सिद्धा जातिविशेषा देवास्तिष्ठन्ति । कीदृशाः सिद्धा देवाः सिद्धिं प्राप्ताः ।
ब्रह्मोपनिषद्योगी (२४)ः कृष्णादिवनान्तराले द्वादश वनानि सन्ति । तत्र कानिचित्पुण्यानि कानिचित्पुण्यतमानि । शिष्टं स्पष्टम् ।
श्रीजीवः (३४);
प्रबोधानन्दः (४५)ः पुनर्वनान्येव सामान्यविशेषत्वेन बोधयन्देवोपलक्षितपूर्वोक्तनित्यदेवादीनां स्थितिमनुवदन्साधनसिद्धानामपि तेषां तां कथयति द्वे वने इत्यादिना सिद्धिं प्राप्ता इत्यन्तेन । तयोरन्तरिति भद्रवनाश्चतुर्थानि चत्वारि भद्रश्रीलोहबृहच्छब्दाद्यसंज्ञानि । कृष्णवनान्तराण्यष्टौ । तेषु कानिचित्पुण्यानि कानिचित्पुण्यतमानि । देवा आदित्यादयः । सिद्धा नित्यसिद्धा गोपादिरूपाः श्रीकृष्णपरिकराः सिद्धिं प्राप्ताश्चान्ये साधकचरास्तदन्तःप्रविष्टाश्चन्द्रध्वजादयः । [P
] तत्रापि स्वेष्टदेवोपासनया वनस्थदेवता स्वाभाव्यात्कृष्णभक्तिवासनावन्तः शीघ्रमेव भवन्तीत्यर्थः ॥
ओ)०(ओ
(
३२)
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्यानिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः ।
विश्वेश्वरः (३५३६)ः अत्र हेतुं वदन्नेव श्रेष्ठावतारमाह तत्र हीति । हि यस्मात्तत्र तेषु रामस्य बलदेवस्य रामाख्या मूर्तिः प्रद्युम्नस्य प्रद्युम्नाख्या मूर्तिy\।
अनिरुद्धस्य अनिरुद्धाख्या मूर्तिः । कृष्णस्य कृष्णाख्या मूर्तिरस्तीत्यर्थः ।
ब्रह्मोपनिषद्योगी (२५२६अ)ः सिद्धादिसिद्धिप्रदत्वे हेतुमाह तत्र हीति । रामादे रामाद्याख्या मूर्तिरस्तीत्यर्थः ।
श्रीजीवः (३५);
प्रबोधानन्दः (४६)ः चतुर्व्यूहात्मकस्य श्रीभगवतोऽपि तत्र नित्यां स्थितिं दर्शयति तत्रेत्यादिना । कृष्णमूर्तिरित्यन्तेन । तत्रेति तस्यां पुर्यां तेषु वनेषु चेत्यर्थः । हि प्रसिद्धौ । राममूर्तिरिति रामाख्या या मूर्तिः सैव । न तु शेषाद्याख्येत्यर्थः । एवमुत्तरत्रापि स्थितिस्तेषां यथासम्भवं ज्ञेया । न तु सर्वेषां सर्वत्र श्रीमथुरादौ च चतुर्णामपि । श्रीवृन्दावनादौ चतुर्णामपि रामकृष्णयोरेव युक्तत्वात। [P
] किं च रामस्य रामाकारा मूर्तिः नारायणांशसङ्कर्षणाविष्टा । एवं प्रद्युम्नादेः कृष्णस्य च कृष्णाकारा मूर्तिरेवं द्वादश मूर्तयो वनेषु भवन्ति ।
ओ)०(ओ
(
३३)
वनेष्वेवं मथुरास्वेवं द्वादशमूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति । तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका यजन्ति । षष्ठीं वसवो यजन्ति । सप्तमीं ऋषयो यजन्ति । अष्टमीं गन्धर्वा यजन्ति । नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशमेति स्वपदं गता । द्वादशमेति भूम्यां हि तिष्ठति ॥
विश्वेश्वरः (३६३७)ः एवम्प्रकारास्तेष्वेव वनेषु तथा एवम्प्रकारा मथुरासु मथुराप्रदेशेषु द्वादशमूर्तयः । रौद्री ब्राह्मी देवी मानवी विघ्ननाशिनी काम्या आर्घी गान्धर्वी गौः अन्तर्धानस्था स्वपदङ्गता भूमिष्ठा ।
ब्रह्मोपनिषद्योगी (२६)ः कास्ता द्वादशमूर्तय इत्यत्र रौद्री ब्राह्मी दैवी मानवी विघ्ननाशिनी काम्या आर्घी गान्धर्वी गौः अन्तर्धानस्था स्वपदङ्गता भूमिष्ठा औदका चेति द्वादशमूर्तीनां नामानि भवन्ति । तासां प्रत्येकमुपासनमाह एकां हीति । ब्रह्मजाः सनकादयः । मरुतो मरुद्गणाः । अन्तर्धाने गुप्ता तिष्ठति एकादशमिति स्वपदानुगा विष्णुपदं गतेत्यर्थः । निर्विशेषत्वात। द्वादशधामे या प्रसिद्धा सा भूम्यां तिष्ठति ।
श्रीजीवः (३६३७);
प्रबोधानन्दः (४७)ः मल्लानामशनिरितिवद्रुद्रादीनां भावभेदेन तत्रैव द्वादशधा स्फुरन्तीत्याह वनेष्वेवमिति । एवंप्रकारेषु वनेषु तथा एवंप्रकारासु मथुरासु मथुराप्रदेशेषु द्वादशमूर्तयो भवन्ति । [P
] किं च एवं यथा वनेषु तथा मथुरासु मथुराप्रदेशेषु द्वादश वनमूर्तयो भवन्तीत्यर्थः ॥
ओ)०(ओ
(
३४)
तां हि ये यजन्ति ते मृत्युं तरन्ति मुक्तिं लभन्ते ।
गर्भजन्मजरामरणतापत्रयात्मकं दुःखं तरन्ति ॥
विश्वेश्वरः (३७)ः तत्पूजकानां फलातिशयमाह तां हीति । तां हि भूमिष्ठां मूर्तिं ये यजन्ति ते मृत्युमविद्याकामकर्माख्यं तरन्ति तद्विमुक्ता भवन्ति इत्यर्थः । मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकमाध्यात्मिकाधिदैविकाधिभौतिकतापत्रयोत्थं दुःखं तरन्ति दुःखहेतूनामविद्यादीनां निवृत्तत्वादित्यर्थः ।
ब्रह्मोपनिषद्योगी (२६ब्)ः तत्पूजकानां परमफलमाह तां हीति । दुःखहेतुस्वाज्ञानस्य निवृत्तत्वात।
श्रीजीवः (३८);
प्रबोधानन्दः (४९) ः तामिति तां भूमिष्ठां सर्वामेवेति वा मृत्युं तत्परम्परां तरन्ति । यतो मुक्तिमविद्याविमोकं लभन्ते तद्विमोकाच्३८ च गर्भादिदुःखं तरन्त्येवेति ॥
ओ)०(ओ
(
३५)
तदप्येते श्लोका भवन्ति ।
सम्प्राप्य मथुरां रम्यां सदा ब्रह्मादिसेविताम् ।
शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥
विश्वेश्वरः (३८)ः उक्तेर्यन्मन्त्रसम्मतिमाह—
तदपीति । तत्तत्र मथुरायाः कृष्णाश्रयत्वे ब्रह्मादिसेवितत्वे च एते श्लोका मन्त्रा ऐ भवन्ति इत्यर्थः । प्राप्य मथुरां पुरीं रम्यामिति । तां मथुरां पुरीं प्राप्य देवा मनुष्या गन्धर्वादयस्तिष्ठन्तीति शेषः । कीदृशीं ?
शङ्खचक्रगदाशार्ङ्गरक्षितां तथा मुषलादिभिः बलदेवाद्यायुधैः उपललितामित्यर्थः ।
ब्रह्मोपनिषद्योगी (२७२८)ः ब्रह्मणोक्तेऽर्थे मन्त्रा भवन्तीत्याहतदप्येते श्लोका भवन्तीति । मथुरापुरीं प्राप्य देवमनुष्यादयस्तिष्ठन्ति श्रीकृष्णबलदेवायुधैः गुप्तां यत्र बलरामादिभिः रुक्मिण्यादिस्वशक्तिभिश्च कृष्णो विजयते तामधिष्ठाय देवास्तिष्ठन्तीति सम्बन्धः । कृष्णावतारो ह्यवताराणां श्रेष्ठः । मथुरामस्य स्थानमित्युक्तं भवति ॥
श्रीजीवः (३९);
प्रबोधानन्दः (५०अ) ः उक्तेऽर्थे मन्त्रसम्मतिमाह—
तदपीति । [P
] एते श्लोका मन्त्राः । [B
ोथ्] प्राप्य मथुरां पुरीं रम्यामिति । मथुरां प्राप्य कृतार्था भवन्तीति ।
(
३६)
यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥
विश्वेश्वरः (३९)ः यत्रासाविति । त्रिभिः बलदेवादिभः शक्त्या रुक्मिण्या सहितः कृष्णो यत्र संस्थितः तां पुरीं प्राप्य देवादयस्तिष्ठन्तीति सम्बन्धः । इदमेव विवृणोति रामानिरुद्धप्रद्युम्नैरिति ॥
ब्रह्मोपनिषद्योगीः पूर्वश्लोकव्याख्या द्रष्टव्या.
श्रीजीवः (४०);
प्रबोधानन्दः (५०ब्) ः त्रिभिर्बलरामाधिभिः । शक्त्या च रुक्मिण्या उपलक्षणत्वात्समस्तयदुवृन्दैरशेषपट्टमहिषीभिश्च सह यत्र समाहितः सावधान एव सं सम्यक् तत्तल्लीलासौष्ठवेन स्थित इत्यर्थः । तावत्सुसमाहिततायां हेतुमाह—
विभुरिति । तदेवं रामस्य तद्व्यूहतां निर्दिश्य को वास्य ज्यायान्रामो भवतीति श्रीगान्धर्वीप्रश्नस्योत्तरं ददता प्रद्युम्नादयोऽपि तादृशत्वेन दर्शिताः । तदुपलक्षितायां देवक्यामपि तदाविर्भावशक्त्या प्रागयं वसुदेवस्य [भ्P
१०.८.१४] इत्याद्यनुसारेण चतुर्भुजतया प्रकटीभूत इत्यभिप्रायेण कथं वा देवक्यां जात इति तत्प्रश्नस्योत्तरं च लब्धं यथैव कथं वास्मासु जात इत्यस्य च तत्प्रश्नस्योत्तरं पुनः सूचितम् । तेष्वपि भवत्स्वपि नित्यं पुत्रादिरूपेणास्तीति तेषु चतुर्भुजतया भवत्सु च द्विभुजतयाविर्भाव एव जन्मेत्यभिप्रायात। तदेवं श्रीकृष्णावतारोऽवताराणां श्रेष्ठ इति ब्रह्मणो माथुरमण्डलं चास्य स्थानमिति श्रीगान्धर्व्या उत्तरमायातम् । [P
] मथुरां प्राप्य वैकुण्ठात्तत्र प्रकटीभूय संस्थितः । देवक्यां जन्म लब्ध्वेत्यर्थः । रम्यां पुरीं पुरीमात्रतोऽपि रम्यां,
सदा श्रीकृष्णाप्राकाट्यकालेऽपि ब्रह्मादिभिः सेविताम् । चक्राद्यस्त्राभिमानि देवताभिः सदा सेवितम् । त्रिभिः रामानिरुद्धप्रद्युम्नैः रुक्मिण्या च शक्त्या सहितो विभुः ॥
(
३७)
चतुःशब्दो भवेदेको ह्योंकारः समुदाहृतः ॥
विश्वेश्वरः (४१)ः तदेवं कृष्णावतारोऽवताराणां श्रेष्ठो मथुरा चास्य स्थानमित्युक्तं भवति । कथं वै अस्य ब्रह्मता भवतीत्यादेरुत्तरं वक्तुं प्रणवार्थमाह चतुरिति । चत्वारः शब्दाः रामानिरुद्धादयो वाचकाः यस्य चतुःशब्दः चतुर्व्यूहः । एक ईश्वरो भवेत्भवति । अत्र हेतुमाह ह्योंकारस्येति । हि यस्मात्कारणातोंकारस्य अकारौकारमकारार्धमात्रारूपैः अंशैः कृतः रामप्रद्युम्नानिरुद्धकृष्णाभिधेयो व्यूहसमुदाय इत्यर्थः ॥
ब्रह्मोपनिषद्योगी (२९)ः प्रणवार्थत्वादस्य ब्रह्मत्वं निरङ्कुशमित्याह—
चतुरिति । रामादिभेदेन चतुःशब्दः चतुर्व्यूहः एव ईश्वरो भवेत्भवति । तत्र हेतुमाह—
ओंकारस्येति । अकारादिमात्राचतुष्टयमोंकारार्थः । तन्मात्राचतुष्टयवाच्या रामादिचतुर्व्यूहा इति समुदायार्थः ॥
श्रीजीवः (४१);
प्रबोधानन्दः (५१) ः अथ कीदृशी पूजास्य गोपालस्य भवतीत्यस्मिन्श्रीगान्धर्वीप्रश्ने पूजोत्कर्षार्थं श्रीकृष्णं प्रति स्नेहविशेषसम्पादनाय स्वाभेदोपासनां श्रीनारायणवाक्येनैवोपदिशन्को वास्य मन्त्र इत्यस्य तत्प्रश्नोत्तरत्वेन प्रणवमेवोपदिशति—
चतुःशब्द इत्यादिना । [J
] विश्वसंस्थित इत्यन्तेन ग्रन्थेन ।
[P
] तदेवं श्रीकृष्णोऽवताराणां श्रेष्ठो मथुरा चास्य प्राकट्यस्थानमित्युक्तं भवति । कथं वास्य ब्रह्मता भवतीत्युक्तेरुत्तरं वक्तुं प्रणवार्थमाह ह्योंकारस्येति । हि यस्मात। ओंकारस्य अकारौकारमकारार्धमात्रारूपैरंशैः कृतो रामानिरुद्धप्रद्युम्नकृष्णाभिधेयो मूर्तिचतुष्टयव्यूहस् [B
ोथ्] तस्माद्बीजाद्वृक्ष इवाभिव्यक्तः । चतुःशब्दश्चतुःसङ्ख्याको वेद एक एव भवेत। तदर्थमात्रतात्पर्यो भवेदित्यर्थः । तस्मात्स एव महामन्त्र इति भावः । शब्दो ह्येको भवेदोंकार उदाहृत इति पाठे एक एव ओंकारो यः,
स एव शब्दः सर्वोऽपि वेदो भवेदित्यर्थः । तदीयशब्दार्थयोस्तदात्मकत्वात। तथापि तदेव तात्पर्यम् ॥
ओ)०(ओ
(
३८)
तस्मादेव परो रजसेति सोऽहमित्य्
अवधार्यात्मानं गोपालोऽहमिति भावयेत॥
विश्वेश्वरः (४२)ः यं च स्मृत्वा मुक्ता अस्मात्संसारादित्यस्योत्तरमाह—
तस्मादिति । तस्मात्प्रणवाभिधेयात्रजसः कामकर्मात्मकात्पर इत्येवंविधो यो देवः सोऽहमिति अवधार्य मनसा निश्चित्य आत्मानं गोपालोऽहमिति भावयेत। रजसेति सन्धिश्छान्दसः । आत्मस्वरूपगोपालात्माहमित्युपासीतेति वाक्यार्थः ॥
ब्रह्मोपनिषद्योगी (३०अ)ः यं स्मृत्वा मुक्ता अस्मात्संसारातित्यस्योत्तरमाह—
तस्मादिति । तस्मात्प्रणवाभिधेयत्वात्रजस इत्युपलक्षितगुणत्रयात्यः परः सोऽहमित्यवधार्य गोपालोऽहमिति भावयेत। रजसेति छान्दसः । विशिष्टोपास्तेः फलं दर्शयति—
स मोक्षमिति । आलाति
श्रीजीवः (४२);
प्रबोधानन्दः (५२) ः [J
] ओं नमो भगवते वासुदेवाय । [B
ोथ्] तस्मादेवं तस्मादेव हेतोः परो रजसेति । परो रजसो रजसः परमिति । अजपागायत्र्यर्थानुसारेण स गोपालोऽहमित्यवधार्य । सूर्यसत्तया रश्मिसत्तावत्तत्सत्तयैव मत्सत्ता इति निश्चित्य गोपालोऽहमिति भावयेत। मूलतृप्त्यैव हि पल्लवतृप्तिर्भवतीति यत्किंचित्स्वस्मिन्कर्तव्यं तत्तस्मिन्नेव कुर्यादित्यर्थः । जगद्व्यापारवर्जं [V
स्. ४.४.१७] इति न्यायेनात्यन्तसाम्यस्याभावात। तत्राजपाथो,
यथा—
असौ परोक्षः सर्वकारणभूतः ईश्वरः श्रीगोपालाख्यपरमावस्थो रजसो रजसोपलक्षितत्रिगुणप्रकृतितः परः । तथैव प्रतिपादितत्वात्स एव । अत एततपरोक्षतया भासमानं जीवाख्यं प्रत्यक्चैतन्यं कथमिदं तत्राह ओमिति । सन्धिश्छान्दसः । तस्यैव प्रणवाथत्वेन मूलस्वरूपत्वादित्यर्थः । दर्शयिष्यते प्रणवार्थपर्यवसानं श्रीगोपाल एव रोहिणीतनय राम इत्यादिना । तदेव पुनश्च तस्यावतारस्य ब्रह्मत्वं साधितम् ।
[P
] किं च,
ओंकारस्य एकः शब्दो हि एव भवेत्सर्वस्य शब्दस्य तदात्मकत्वात। ओंकारप्रभवा वेदा ओंकारप्रभवा सुराः उदाहृतश्च श्रुतिभिः ।
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतभवद्भविष्यदिति । सर्वमोंकार एव यच्चान्यत्त्रिकालातीतं तदप्योंकार एव सर्वमेतद्ब्रह्म सायमात्मा चतुष्पाद्[माण्डूक्य १] इत्यादि ।
तस्मादिति प्रकृतेः परः सच्चिदानन्दरसोऽद्वितीयः । चैतन्यरूपेण प्रतिपाद्यो यो ब्रह्म एवं ब्रह्म रूपेण प्रतिपाद्योऽद्वितीयश्चैतन्यरूपोऽर्थः । अहं तद्रूपेण स्थितः तदभेद इत्यवधार्य प्रकृतितत्कार्यं कालत्रयेऽपि नास्तीति निश्चित्य गोपालोऽहमिति भावयेत। अद्वितीयपरिपूर्णस्वप्रकाशसच्चिदानन्दैकरसं ब्रह्म तदेव ब्रह्मतद्रूपेणैवात्मानं भावयेदित्यर्थः ॥
(
३९)
स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति ।
स ब्रह्मविद्भवति ॥
विश्वेश्वरः (४१)ः विशिष्टोपास्तेः फलानि दर्शयति । स उपासकः मोक्षमविद्याकामकर्मवियोगमश्नुते स ब्रह्मत्वं सर्वबृहत्त्वमधिगच्छति । अत्र हेतुमाह—
स ब्रह्मविद्भवतीति ॥
ब्रह्मोपनिषद्योगी (३०ब्)ः विशिष्टोपास्तेः फलं दर्शयति—
स मोक्षमिति । आलाति आदत्ते स्वीकरोतीत्यर्थः । ओं तत्सत्सोऽहमित्यत्र ओंतच्छब्दाभ्यां यद्वाच्यं सत्परं ब्रह्म सोऽहमिति भावयेत। ओंतत्सत्पदवाच्यं लक्ष्यं वा परं सत्यमबाधितं ब्रह्म स एव गोपाल इत्यर्थः ॥
श्रीजीवः (४१);
प्रबोधानन्दः (५१) ः तदेतदुपासनस्य फलमाह—
स मोक्षमित्यादिना । स गोपालो भवतीत्यन्तेन । प्रथमं तावन्मोक्षमविद्याविमोकमश्नुते । ततश्च ब्रह्मत्वं शुद्धचिद्रूपत्वेन ब्रह्मसमानरूपत्वम् । ततश्च ब्रह्मवित। नराकृति परं ब्रह्मानुभवी भवति ॥
(
४०)
यो गोपान्जीवान्वै आत्मत्वेनासृष्टिपर्यन्तमालाति स गोपालो भवति ह्यों तद्यत्सोऽहम् । परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूपः सोऽहम् । ओं तद्गोपाल एव परं सत्यमबाधितम् । सोऽहमित्यात्मानमादाय मनसैक्यं कुर्यात। आत्मानं गोपालोऽहमिति भावयेत।
स एवाव्यक्तोऽनन्तो नित्यो गोपालः ॥
विश्वेश्वरः (४४)ः व्युत्पत्तिपूर्वकं गोपालकत्वं दर्शयति । गोपान्जीवानात्मत्वेन आसृष्टिपर्यन्तमालाति आदत्ते स्वीकरोति । पदार्थमुक्त्वा वाक्यार्थमाह स गोपालो भवतीति । गोपालत्वेन विशिष्टभावनामुक्त्वा कृष्णत्वेन तामाह ओं तद्यत्सोऽहमिति । ओंतत्शब्दाभ्यां वाच्यं यत्परं ब्रह्म सोऽहमित्यवधार्यात्मानं (फ़्रों ३८) इत्यनुवर्तनीयम् । ततः कृष्णात्मको नित्यानन्दैकरूपोऽहमिति भावयेदिति शेषः कृष्णात्मक इत्यस्यैव व्याख्यानं नित्यानन्दैकरूप इति । कृष्सत्तायामिति धात्वर्थान्तशब्दस्य चानन्दार्थत्वात्ब्रह्मात्मैक्यभावनापूर्वकं गोपालैक्यभावनामाह ओं तद्गोपाल एव परं सत्यमिति । ओंतच्छब्दवाच्यं परं सत्यमबाधितं ब्रह्म गोपाल एव स गोपालोऽहमिति आत्मानं मनसा आदाय ज्ञात्वा ऐक्यं कुर्यात। तदेव विवृणोति आत्मानं गोपालोऽहमिति भावयेतिति । गोपालात्मैक्यभावेन हेतुमाह स एवाव्यक्तोऽनन्तस्तं भावयेदित्यर्थः । मायायामतिव्याप्तिं वारयति अनन्त इति । देशतोऽनन्तत्वं मायायामपीत्यत आह नित्य इति । पुरुषार्थहेतुतामाह गोपाल इति ॥
ब्रह्मोपनिषद्योगी (३०ब्)ः आलाति आदत्ते स्वीकरोतीत्यर्थः । ओं तत्सत्सोऽहमित्यत्र ओंतच्छब्दाभ्यां यद्वाच्यं सत्परं ब्रह्म सोऽहमिति भावयेत। ओंतत्सत्पदवच्यं लक्ष्यं वा परं सत्यमबाधितं ब्रह्म स एव गोपाल इत्यर्थः ।
श्रीजीवः (४४);
प्रबोधानन्दः (५३ब्५८)ः ततश्च गोपान्जीवान् स्वानुजीविनो यश्चात्मत्वेन परमस्नेहादात्माभेदेन आसृष्टिपर्यन्तं सर्गप्रलयोपलक्षितं कालं सर्वमेव व्याप्य आलाति स्वीकरोति । गोपाल एव स भवति गोपवर्गवत्स्नेहादिना तदभिन्न इव तन्निकटे तिष्ठतीत्यर्थः ।
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ।
यथा श्रियाभियुकोऽहं तथा भक्तो मम प्रियः ॥ इति हि (२.४९) वक्ष्यते ।
लक्षणां विना तु परमतमपि नाभासते । सृष्टिः सर्गादिकः कालः । पर्यन्तः प्रलयादिकः । तयोर्द्वन्द्वैक्ये सृष्टिपर्यन्तं तदभिव्याप्य आसृष्टिपर्यन्तमिति गोपान्जीवान। वै इति क्वचित।
नन्वेवं चेत्श्रीकृष्णस्य को विशेषः । तत्राह—
स गोपालो भवति हीति । हि एव स श्रीकृष्णाख्य एव गोपालो भवति,
न त्वन्योऽपीत्यर्थः ।
अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् ।
अहं सुतो वामभवं पृश्निगर्भ इति स्मृतः ॥
इति [भ्P
१०.३.४१] श्रीदेवकीं प्रति तद्वाक्यात। तर्हि भवान्कः । तत्राह ओं तदिति । प्रणववाच्यं तत्यत्परं ब्रह्म सोऽहमित्यर्थः ।
ननु तत्किं परं ब्रह्म नाम नराकृतिपरब्रह्मणः कृष्णादन्यः ?
नेति । परब्रह्मशब्दाभिधेयो यः कृष्णस्तदात्मकस्तदनन्य एव । सोऽहम् । अत एव नित्यानन्दैकरूपोऽहमित्यर्थः । तथैवोपसंहरति ओं तदिति । तस्मादों तद्यत्सोऽहं परं ब्रह्मेत्यर्थः । गोपाल एव परं सत्यमबाधितमिति । तथापि तन्मूलत्वेन मम तद्रूपत्वमित्यर्थः । सोऽहमिति तथाप्यन्योऽपि स गोपालोऽहमित्यात्मानमादाय विभाव्य मनसा ऐक्यं कुर्यादैक्यभावनयोपसीतेत्यर्थः । तदेव व्यनक्ति आत्मानं गोपालोऽहमिति भावयेतिति । [P
] तदंशे तदेवेति बोद्धव्यम् ।
[B
ोथ्] पुनर्गोपालस्यैव स्वस्मादपि श्रेष्ठत्वं दर्शयति स एवाव्यक्त इति । न केनापि व्यज्यत इति स्वयं सिद्ध इत्यर्थः । [P
] यदुक्तमात्मना गोपालस्वरूपेण ऐक्यं कुर्यात। एकरूपत्वे एकरसत्वं प्रमाणतो निश्चितं कुर्यात। स एव गोपाल व्यक्तः कस्यापि चोपासकस्य व्यक्तः प्रकटः । तस्य शुद्धप्रेमरसमग्नस्यान्यदृष्ट्यसम्भवात। अतो गोपाल एवाव्यक्तः स एव च नित्यः । अखण्डचैतन्यानन्दस्वरूपो ब्रह्मस्वरूपत्वात। किन्तु स एवानन्तो गुणादिपरिच्छेदरहितः । यादवेन्द्ररूपेऽपि तदपेक्षया आनन्दशक्तिसौन्दर्यमाधुर्यादिचमत्कारस्य अन्यूनत्वाद्गोपाल एव ॥
(
४१)
मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।
शङ्खचक्रगदापद्मवनमालावृतस्तु वै ॥
विश्वेश्वरः (४४)ः को वास्यावतारस्याश्रयो नित्यमित्याशङ्क्य नारायणो ब्रह्माणं प्रत्याह मथुरायां स्थितिरिति । योऽहं शङ्खचक्रादिभिरावृतः तु वै प्रसिद्धं तस्य मे सर्वदा मथुरायां स्थितिर्भविष्यति इत्यर्थः ॥
ब्रह्मोपनिषद्योगी (३१)ः या पुरी गोपालाधिष्ठिता भवेत्तस्यां मथुरायां स्थितिः ॥
श्रीजीवः (४५);
प्रबोधानन्दः (५९)ः तदेवं श्रीगोपालस्य सर्वश्रेष्ठत्वमुक्त्वा१ पद्मनाभः स्वस्यापि तदनुगतिं दर्शयति—
मथुरायामिति । सर्वदा भविष्यतीति एतदुत्तरकालेऽपि सर्वदैव भविष्यतीत्यर्थः । तदावरणदेवतात्वेनेति शेषः । । पूर्वतापन्यां (२२) हि यन्त्रप्रसङ्गे वासुदेवादयोऽपि तदावरणत्वेन दर्शिताः—
वासुदेवादीत्यादिना । [P
] चतुर्भुजश्रीवासुदेवरूपेण निजायुधेन विराजितम् ॥
(
४२)
विश्वरूपं परं ज्योतिःस्वरूपं रूपवर्जितम् ।
हृदा मां संस्मरन्ब्रह्मन्मत्पदं याति निश्चितम् ॥४२॥
विश्वेश्वरः (४५)ः विश्वरूपमिति । विश्वरूपं परमुत्कृष्टं नित्यं ज्योतिःस्वरूपं स्वप्रकाशं चैतन्यात्मकं वस्तुतः रूपवर्जितं मां हृदा संस्मरन्पुरुषः निश्चितं मत्पदं याति ॥
ब्रह्मोपनिषद्योगी (३२)ः न व्याख्यातम् ।
श्रीजीवः (४६);
प्रबोधानन्दः (६०)ः तत्र स्वस्याप्युपासनामाह—
विश्वरूपमिति । विश्वं सर्वमेव रूपं यस्मिन। चित्स्वरूपमिति क्वचित्पाठः । परं ज्योतिः परमतेजःस्वरूपम् । अत एव स्वमसाधारणं रूपं यस्य तत। रूपवर्जितं प्राकृतरूपरहितम् । मत्पदं मत्स्थानम् ॥
(
४३)
मथुरामण्डले यस्तु जम्बुद्वीपे स्थितोऽपि वा ।
योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ॥४३॥
विश्वेश्वरः (४६)ः कीदृशी पूजासेयेत्यस्योत्तरमाह—
मथुरेति । मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा प्रतिमां शिलादिमयीं मां च ध्यानभावितं भुवि सम्यकर्चयेत्स मे मम प्रियतरो वल्लभो भवति ॥
ब्रह्मोपनिषद्योगी (३३)ः न व्याख्यातम् ।
श्रीजीवः (४७);
प्रबोधानन्दः (६१)ः उपासनायामपि प्रतिमोपासनायाः श्रेष्ठत्वं दर्शयति—
मथुरेति । जम्बूद्वीपमात्रेऽपि स्थितो योऽर्चयेत। किमुत मथुरामण्डलस्थित इत्यर्थः । प्रतिमां मां चेति प्रतिमारूपं मां चेत्यर्थः ॥
(
४४)
तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ।
चतुर्धा चास्याधिकारभेदत्वेन यजन्ति माम् ॥४४॥
विश्वेश्वरः (४७)ः तस्यामिति । हे ब्रह्मन्! तस्यां मथुरायामधिष्ठितः अधिष्ठाय स्थितः कृष्णरूपी अहं त्वया सदा पूज्यः । चतुर्व्यूहं जनोपदेशमभिप्रेत्य तत्र सम्प्रदायं दर्शयति चतुर्धा वेति । पूज्यत्वेन अधिक्रियन्त इति अधिकाराः अस्य रूपाणि तेषां भेदत्वेन भिन्नत्वेन मां चतुर्धा यजन्ति ॥
ब्रह्मोपनिषद्योगीः न व्याख्यातम् ॥
श्रीजीवः (४८);
प्रबोधानन्दः (६२६३)ः तत्र तत्र कीदृशी पूजास्येति श्रीगान्धर्वीप्रश्नस्योत्तरं विशेषेण वदन्श्रीकृष्णरूपस्य पूज्यत्वे परमाधिक्यमाह—
तस्यामिति । त्वया तु परमाधिकारिणा कृष्णरूप्येव तस्यां पूज्योऽहम्,
न त्वेतत्पद्मनाभादिरूपः । अथ श्रीकृष्णमपि केचिद्व्यूहभेदेनोपासते । तदाह—
चतुर्धा चास्येति । अस्योपासनस्याधिकारिभेदत्वेन तद्भेदेनेत्यर्थः । मां श्रीकृष्णरूपिणं यजति ॥
(
४५)
युगानुवर्तिनो लोका यजन्तीह सुमेधसः ।
गोपालं सानुजं रामं रुक्मिण्या सह तत्परम् ॥
विश्वेश्वरः (४८)ः इदमेव विवृणोति—
युगानुवर्तिनः सुमेधसो लोका इह जम्बूद्वीपे गोपालादिकं मां यजन्ति । चतुर्व्यूहं विवृणोति गोपालमिति । अनु पश्चात्जायेते तौ अनुजौ प्रद्युम्नानिरुद्धौ ताभ्यां सहितं सानुजं गोपालम् । कीदृशं ?
रामरुक्मिण्या सह वर्तमानम् । तया च गोपालसङ्कर्षणप्रद्युम्नानिरुद्धात्मकचतुर्व्यूहः शक्त्या सहित उक्तो भवति । पुनः कीदृशं ?
तत्परं रामादिषु अनुरक्तम् । यद्वा तत्परमेकाग्रं यथा स्यात्तथा यजन्त इति सम्बन्धः ।
ब्रह्मोपनिषद्योगी (३४)ः इदमेव विवृणोति—
युगानुवर्तिन इति ॥
श्रीजीवः (४९);
प्रबोधानन्दः (६४)ः अनु पश्चाज्जायेते इति अनुजौ प्रद्युम्नानिरुद्धौ ताभ्यां सहितं सानुजं गोपालम् । कीदृशं ?
रामरुक्मिण्या सह वर्तमानं सर्वोऽपि द्वन्द्वो विभाषयैकवद्भवतीति स्मृतेरेकवचनम् । तत्परं यथा स्यात्तथार्चयेत। स एव परः पुरुषार्थो यत्रेति ॥
(
४६)
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ।
रामोऽहमनिरुद्धोऽहमात्मानमर्चयेद्बुधः ॥४६॥
विश्वेश्वरः (४९)ः अयं चतुर्व्यूह एको विष्णुरेव न तु विष्णोः पृथगित्याह—
गोपालोऽहमिति । गोपालादयश्चत्वारोऽपि अहं विष्णुरेव ततः आत्मानं विष्णुं मां चतुर्विधं बुधः विद्वानर्चयेतित्यर्तः ॥
ब्रह्मोपनिषद्योगीः न व्याख्यातम् ।
श्रीजीवः (५०);
प्रबोधानन्दः (६५)ः अत्र च पूर्ववदभेदोपासनं दर्शयति—
गोपालोऽहमिति । आत्मानं परमात्मानम् ॥
(
४७)
मयोक्तेन स्वधर्मेण निष्कामेण विभागशः ।
तैरयं पूजनीयो वै भद्रकृष्णनिवासिभिः ॥४७॥
विश्वेश्वरः (५०)ः मयोक्तेनेति । मया मन्वादिरूपिणा विभागशो वर्णाश्रम्दिभेदप्रोक्तेन स्वधर्मेण । भद्रकृष्णवनयोः निवासिभिस्तैः प्रसिद्धैः वर्णाश्रमधर्मैरयं चतुर्विधः कृष्णः पूजनीय इत्यर्थः ॥
ब्रह्मोपनिषद्योगी (३६)ः भद्रकृष्णनिवासिभिः भद्रकृष्णवनयोः निवासिभिः ॥
श्रीजीवः (५१);
प्रबोधानन्दः (६७६८)ः पूर्वोक्तवनद्वयवासिभिस्तु मयोक्तेनेति बृहद्गौतमीयतन्त्रादौ मया श्रीकृष्णरूपेण स्वयमुक्तेन स्वधर्मेण स्वप्रापकेनोपासनेन । भद्रेति भद्रवनकृष्णवननिवासिभिरित्यर्थः ॥
(
४८)
तद्धर्मगतिहीना ये तस्यां मयि परायणाः ।
कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ॥
विश्वेश्वरः (५१)ः स्वधर्मविहीनानामपि मत्परायणानामेव मत्पुर्यामवस्थितिर्न त्वभक्तानामित्याह—
तद्धर्मगतिहीना इति । कलिना ग्रसिता ग्रस्ताः सन्तः तद्धर्मगति हीना आश्रमाचाररहिता अपि ये तस्यां पुर्यां मत्परा भवन्ति वै तेषामेव तस्यां पुर्यामवस्थितिर्नान्येषामित्यर्थः ॥
ब्रह्मोपनिषद्योगी (३७)ः स्वाश्रमाचारहीना अपि मद्भक्ताश्चेत्मत्पुर्यामवस्थितिर्युज्यते न त्वभक्तानामित्याह—
तद्धर्मेति ।
श्रीजीवः (५२);
प्रबोधानन्दः (६८)ः मथुराया महिमाधिक्यमाह—
तद्धर्मेति । भगवद्धर्मरूपा या गतिस्तया हीना ये तथा ये च तस्यां स्थित्वा मयि परायणास्तथा ये कलिना ग्रसिताः पापात्मानस्तेषां सर्वेषामेवाविशेषेण तस्यां मथुरायामवस्थितिस्तदधिकारो भवति । नान्यतीर्थवत्पुण्यात्मनामेवेत्यर्थः । यथोक्तमादिवाराहे येषां क्वापि गतिर्नास्ति तेषां मधुपुरी गतिः इति ।
(
४९)
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ।
यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ॥४९॥
विश्वेश्वरः (५२)ः अत्र हेतुमाह यथेति । यथा पुत्रैः सनकादिभिः सह त्वं यथा च गणैः सह रुद्रः,
यथा च श्रिया अभियुक्तः सहित अहं मम प्रियः,
तथा भक्तो मम प्रियः । अतस्तत्र पुरि भक्तानामेवावस्थितिरिति शेषः ।
ब्रह्मोपनिषद्योगी (३८)ः पुत्रैस्तु सनकादिभिः ।
श्रीजीवः (५३);
प्रबोधानन्दः (६९)ः तत्र भक्तानां वैशिष्ट्यं वदन्गतिं च दर्शयति—
यथा त्वमिति ॥
(
५०)
स होवाचाब्जयोनिः –
चतुर्भिर्देवैः कथमेको देवः स्यात।
एकमक्षरं यद्विश्रुतं
अनेकाक्षरं कथं भूतम् ॥
विश्वेश्वरः (५३अ)ः य एवं प्रबोधितः । ह प्रसिद्धः । अब्जयोनिरुवाच । किं ?
चतुर्भिर्देवैः गोपालरामादिभिः कथमेको देवः स्यात्?
अनेकेषामेकत्वं व्याहतमित्यर्थः । एकमक्षरं यत्प्रणवाख्यं विश्रुतं तर्हि कथं गोपालरामाद्यनेकाक्षरं भूतं जातम् ॥
ब्रह्मोपनिषद्योगी (३९)ः न व्याख्यातम् ।
श्रीजीवः (५४);
प्रबोधानन्दः (७०)ः श्रीकृष्णस्य चतुर्धात्वे सन्दिह्य पृच्छतीत्याह—
स होवाचेति । चतुर्भी रामादिसंज्ञैर्देवैः कथमेकः कृष्णाख्य एव देवः स्यात। तत्र यत्कारणं तदुच्यतामित्यर्थः । किं च प्रणवस्यैकाक्षरत्वेन प्रसिद्देस्तद्वाचोऽसावेक एव स्यात। न तु चतुष्टयः । ततस्तस्य चतुष्टयाक्षरात्मकं वक्तव्यमित्याह—
यत्प्रणवाख्यमेकमेवाक्षरं विश्रुतमोमित्येकाक्षरं ब्रह्मेति शास्त्रावगतं तत्खल्वनेकाक्षरं कथं केन प्रकारेण भूतं बभूवेति ॥
(
५१)
स होवाच तं हि वै –
पूर्वं ह्येकमेवाद्वितीयं ब्रह्मासीत्
तस्मादव्यक्तमव्यक्तमेवाक्षरं
तस्मादक्षरात्महत्तत्त्वं
महतो वै हंकारस्
तस्मादेवाहंकारात्पञ्च तन्मात्राणि
तेभ्यो भूतानि तैरावृतमक्षरं भवति ॥
विश्वेश्वरः (५३ब्)ः स हेति । एवं पृष्टः ह प्रसिद्धः विष्णुः तं हि वै उवाच । एकस्यानेकात्मकत्व उपपादयितुं तस्य जगन्मूलकारणत्वं वक्तुमाह पूर्वं हि एकमेवाद्वितीयमित्यादि । पूर्वं सृष्टेः प्राकेकं सजातीयभेदरहितमेव शब्दात्स्वगतभेदरहितमद्वितीयं विजातीयभेदरहितं ब्रह्म आसीत। तस्माद्ब्रह्मणः अव्यक्तं सर्वकार्यकारणशक्तिः अव्यक्तमासीत। अव्यक्तमेवेति । यदव्यक्तं तदक्षरं ब्रह्म एव तच्छक्तिरूपत्वात। तस्मादक्षरान्महत्तत्त्वम् । महतो वै हंकारः । अहङ्कारवर्णलोपश्छान्दसः । तस्मादेवाहंकारात्पञ्च तन्मात्राणि भूतसूक्ष्मरूपापरपर्यायाः । तेभ्यो भूतानि पञ्चमहाभूतानि इत्यर्थः । तैरावृतमिति । तैः महदादिभिरिव मृत॥
ब्रह्मोपनिषद्योगी (३९४१)ः ब्रह्मणः पृष्टः स होवाच । स्वाज्ञदृष्ट्या तस्मादव्यक्तमेकाक्षरम् । तेभ्यः पञ्चीकृतभूतानि तैरावृतमक्षरं घटशरावाद्यावृतमृत्पिण्डवदित्यर्थः ॥
श्रीजीवः (५५);
प्रबोधानन्दः (७१७२)ः तत्र स श्रीनारायणस्तं ह स्फुटमुवाच । एकस्मिन्नपि वस्तुन्यचिन्त्यशक्त्या सर्वोऽपि भेदः सम्पद्यत इति व्यक्तमुपविष्टवानित्यर्थः ।
[P
] पूर्वं हीति [B
ोथ्] अथ यत्पृष्टमेकमक्षरं यद्विश्रुतमिति तद्विधापि सङ्गच्छते । अनश्वरसर्वकारणवस्तुगतत्वेन प्रणवाख्यवर्णविशेषत्वेन चेति । तत्र चास्तां तावदनतिविलक्षणानां चतुर्णां व्यूहानां वार्ता । अतिविलक्षणस्य जगतोऽपि तथात्वे सैव कारणमित्याह—
पूर्वं हीति । पूर्वं सृष्टेः प्राक। हि प्रसिद्धौ । एकमेव ब्रह्मासीत। तत्र स्वरूप शक्तेर्व्यक्तत्वेऽपि सलक्षणत्वादेकम्१ एवेत्युक्तम् । विलक्षणायाः शक्तेः सकार्याया लीनत्वेनाद्वितीयमिति । तस्माद्ब्रह्मणस्त्वव्यक्तं सर्वब्रह्माण्डकारणशक्तिसमाहाररूपं,
तथा प्राकृताकाशादि नाम वाच्यं व्यक्तमासीत् । अव्यक्तमेवैकाक्षरमिति । [J
] तच्चाव्यक्तं शक्तित्वातेकमेवाद्वितीयं ब्रह्म इत्युक्तमेकरूपमक्षरं शक्तमद्ब्रह्म [B
ोथ्] तदभिन्नमेव शक्तिशक्तिमतोरभिन्नवस्तुत्वादित्यर्थः । तस्मादव्यक्ततादात्म्यापन्नादक्षरान्महन्महत्तत्त्वम् । महतो वै हङ्कार इत्यत्र अकारलोपश्छान्दसः । तस्मादेवेत्यादि सुगमम् । तैरावृतमिति बहिर्मुखताकारकैस्तैराच्छन्नं भवति [P
] घटशरवादिभिर्[B
ोथ्] इत्यर्थः । [J
] पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पश्यति [कठ २.१.१] इत्यादि श्रुतेः ॥
(
५२)
अक्षरोऽहमोंकारोऽहमजरोऽमरोऽभयोऽमृतो
ब्रह्माभयं हि वै स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ॥
विश्वेश्वरः (५३च्)ः अक्षरोऽहमिति । अव्याकृताक्षरात्मको विष्णुः ओंकारश्चाहम् । ओंकाराक्षरब्रह्मण ऐक्योपपादनाय ओंकारे ब्रह्मधर्मानाह—
अजर इति । अजरोऽमरो जरामरणशून्यः । अभयोऽविद्याकामकर्मशून्यः । अमृत आनन्दात्मक ओंकार इति शेषः । तथाविधब्रह्मप्रतीकत्वात। अथ अक्षरधर्मानाह ब्रह्मेति । अक्षरः अव्याकृताख्यः अभयं हि वै ब्रह्म ब्रह्मशक्तिसमुदायरूपत्वात। अथ ब्रह्मधर्मानाह—
मुक्तोऽहमिति । अहं मुक्तः अविद्यास्पर्शरहितः अस्मि अक्षरोऽहमविनाशी अहमस्मि इत्यर्थः । ओंकारो ब्रह्म तत्प्रतीकत्वात्तथाक्षरमव्याकृतं ब्रह्म तच्छक्ति०रूपत्वादिति विवक्षितार्थः ।
ब्रह्मोपनिषद्योगीः न व्याख्यातम्.
श्रीजीवः (५६);
प्रबोधानन्दः (७३)ः तत्र श्रीपद्मनाभः स्वस्य पूर्वोक्ताक्षररूपत्वेन प्रणवाक्षररूपत्वेन चाक्षरत्वं व्यञ्जयन्प्रणवस्यापि तद्द्वयरूपेणाक्षरत्वं दर्शयति—
अक्षरोऽहमोंकारोऽहमिति । तत्र ओंकारस्य तद्रूपत्वमाह—
अजर इति । हि यस्मात। स ओंकारः । अजरस्तथा अभयामृतो निर्भयपरमानन्दरूपः । हि यस्मात। अभयं यद्ब्रह्म तदेव स इति । स्वस्य च तद्रूपत्वमुपसंहरति—
मुक्तोऽहमस्मि । अक्षरोऽहमस्मीति ॥
(
५३)
सत्तामात्रं विश्वरूपं प्रकाशं व्यापकं तथा ।
एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयम् ॥
विश्वेश्वरः (५३द्)ः नन्वेवं ब्रह्म चेत्कथं चतुष्टयं सम्पन्नमित्याशङ्क्य मन्त्रमाह—
सत्तामात्रमिति । सत्तामात्रं विश्वरूपं प्रकाशं व्यापकं तथा ।
एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयमिति स्पष्टम् ॥
ब्रह्मोपनिषद्योगीः न व्याख्यातम्.
श्रीजीवः (५७);
प्रबोधानन्दः (७४)ः तदेवं जगदण्डरूपं भेदं दृष्टान्तयित्वा दार्ष्टान्तिकं चतुर्व्यूहरूपमपि दर्शयन। ओंकारस्य वर्णरूपत्वेनापि भेदं दर्शयति—
सत्तामात्रमिति श्लोकद्वयेन । सत्ता भावः सच्चिदानन्दलक्षणः । तत्र चित्त्वं जडप्रतियोगित्वम् । आनन्दत्वं दुःखप्रतियोगित्वमिति तद्द्वयप्रतियोगि किमपि यद्वस्तु तन्मात्रं तत्स्वरूपमित्यर्थः । शक्त्या तु विश्वरूपं विश्वमनन्तं रूपं रूपगुणलीलावैभवं यत्र तत। यतः प्रकाशं प्रकाशवत्स्वपरगुणप्रकाशकमत एव व्यापकं तदीदृशमेकमित्यादिना पूर्वोक्तं यद्ब्रह्म तदेव मायया स्वोपासकान्प्रति कृपया सामान्यतस्तावच्चतुष्टयं भवच्चतुर्धाविर्भवति—
माया दम्भे कृपायां च इति विश्वप्रकाशात। एकस्यैव तस्य तत्त्वस्य मायोपाधित्वेन मल्लक्षणपुरुषनामाक्षररूपत्वं स्वतः पूर्णभगवद्रूपत्वमुपासनानुसारेण विभक्ततया उदित्वरत्वं चेति भावः ॥
(
५४५५)
रोहिणीतनयो रामो अकाराक्षरसम्भवः ।
तैजसात्मकः प्रद्युम्नो उकाराक्षरसम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो मकाराक्षरसम्भवः ।
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥
विश्वेश्वरः (५५५६)ः मायया चतुष्टयत्वं विवृणोति रोहिणीतनय इति । अकाराक्षरावच्छिन्नया मायया सम्भवः आविर्भावो यस्य सः अकाराक्षरसम्भवो रोहिणीतनयो रामः । विश्वात्मको जाग्रदवस्थाधिष्ठातृसमष्टिरूप इत्यर्थः । तैजसात्मक इति । उकाराक्षरावच्छिन्नया मायया प्रादुर्भूतः प्रद्युम्नः तैजसात्मक स्वप्नावस्थाधिष्ठातृसमष्टिरूप इत्यर्थः ।
प्राज्ञात्मक इति । मकाराक्षरावच्छिन्नया मायया प्रादुर्भूतः अनिरुद्धः प्राज्ञात्मकः सुषुप्तावस्थाधिष्ठातृसमष्टिरूप इत्यर्थः । श्रीकृष्णस्तु अवस्थात्रयातीतं तुरीयं धामेत्याह अर्धमात्रात्मक इति । अर्धमात्रा विशेषतोऽनुच्चार्या अर्धमात्रा स्थिता नित्या यानुच्चर्या विशेषतः इति स्मृतेः । तदात्मकः तत्प्रकाशकः कृष्णः यस्मिन्सदानन्दात्मके कृष्णे विश्वं प्रतिष्ठितमध्यस्तम् ॥
ब्रह्मोपनिषद्योगी (४२४३)ः कथमेकस्य चातुर्विध्यमित्यत्र रोहिणीतनय इति । कृष्णस्य अवस्थात्रयतदध्याक्षातीतत्वेन तुर्यरूपत्वात्कृष्णो ब्रह्मैवेत्यर्थः ।
श्रीजीवः (५८);
प्रबोधानन्दः (७५)ः अथ तच्चतुष्टयविभागं वदन्तत्र वर्णरूपत्वेनाप्यक्षरशब्दवाच्यतद्व्यञ्जकस्य ओंकरस्य विभागमपि दर्शयति—
रोहिणीति । अत्र रोहिणीतनयतया निर्देशश्चतुर्व्यूहान्तरभ्रमनिरासार्थः । अकाराक्षरेति तेन प्रणवाद्यक्षरेण जप्तेन सम्भवः प्रादुर्भावो यस्य सः । सोऽयं च विश्वात्मको ज्ञेयः । तैजसप्राज्ञात्मकतया प्रद्युम्नानिरुद्धयोर्वक्ष्यमाणत्वात। विश्वशब्देनात्र प्रस्फुटमैश्वर्यम् । तैजसप्राज्ञशब्दाभ्यां ततो न्यूनन्यूनम् । जाग्रदाद्यवस्थाभेदेन जीवस्यैव तत्तदात्मकत्वात। रामस्य तृतीयोर्ध्ववक्ष्यमाणत्वेन प्राज्ञात्मकताया एव व्यवस्थापनीयत्वात् ।
[P
] ओंकारस्यैकाक्षरत्वेऽपि अकारोकारमकारार्धमात्रनिष्पन्नत्वात्तस्यानेकाक्षरत्वं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाः । अर्धमात्रात्मक इति सेयमर्धमात्रा ४बिन्दुनादात्मका तस्यैव च तुर्यत्वात्सर्वोऽपि प्रणव उच्यते । अत एव पूर्णप्रणवबिन्दुनादेनेति श्रीकृष्णस्यपूर्णत्वं दर्शितम् ।
[J
] अर्धमात्रात्मक इति सेयमर्धमात्रा नाद उच्यते । तस्यैव चतुर्थत्वात। अर्धमात्राशब्दश्चाजहल्लक्षणया एतदन्तः सर्वोऽपि प्रणव उच्यते । केवलस्य तज्जपस्यासम्भवात। अत एव पूर्णप्रणवव्यङ्गत्वेन कृष्णस्य पूर्णत्वं दर्शितम् ।
[B
ोथ्] तदेवाह—
यस्मिन्विश्वं प्रतिष्ठितमिति । [P
] तथात्र सम्भवपदमनुक्त्वात्मपदोक्तिः प्रणवमाहात्म्याय पुनस्तदभेदे उक्तः । [B
ोथ्] सोऽयं प्रणवः शब्दरूपः श्रीभगवदवतार एव मन्तव्य इति ॥
(
५६)
कृष्णात्मिका जगत्कर्त्री मूलप्रकृतिरुक्मिणी ।
व्रजस्त्रीजनसम्भूतश्रुतिभ्यो ब्रह्मसङ्गतः ।
प्रणवत्वेन प्रकृतिं वदन्ति ब्रह्मवादिनः ॥
विश्वेश्वरः (५६)ः बिन्दुप्रतिपाद्यरुक्मिणी मूलप्रकृतिरूपेत्याह कृष्णात्मिकेति । कृष्णशक्तिरूपत्वात्शक्तिशक्तिमतोश्चाभेदात्कृष्णस्वरूपा जगत्कर्त्री मूलप्रकृतिर्ज्ञातव्येति शेषः । कीदृशी रुक्मिणीत्याह व्रजस्त्रीजनसम्भूतेति । व्रजस्त्रीजने सम्भूताः प्रसिद्धा याः श्रुतयस्ताभ्यः प्रसिद्धो यो ब्रह्मसङ्गस्तस्माद्द्हेतोः ।
ब्रह्मोपनिषद्योगी (४४अ)ः बिन्दुप्रतिपाद्यरुक्मिणीस्वरूपमाह कृष्णेति । शक्तिशक्तिमतोराभेदात्कृष्णात्मिका रुक्मिणी जगत्कर्त्री मूलप्रकृतिः । सैव व्रस्त्री राधारुपिणी प्रकृतिः । व्रजस्त्रीजनेषु सम्भूताः श्रुतयस्ताभ्यो ब्रह्मसङ्गतः प्रणवत्वं तस्या ब्रह्मवादिनः प्रकृतित्वं वदन्ति ।
प्रबोधानन्दः (७६)ः यस्मिन्सदानन्दात्मककृष्णशक्तिरूपत्वात्शक्तिशक्तिमतोरभेदात्कृष्णस्वरूपा जगत्कर्त्री मूलप्रकृतिर्ज्ञातव्येति शेषः । व्रजस्त्री श्रीराधारूपिणी तत्र सा रुक्मिणी प्रकृष्टतद्रूपत्वात्प्रकृतिरित्याह । जनसम्भूतेति जनेषु सम्भूताः याः श्रुतयस्ताभ्यः प्रसिद्धो यो ब्रह्मसङ्गस्तस्माद्द्हेतोर्यत्प्रणवत्वं प्रकृतिस्तुतित्वं प्रसिद्धिस्तस्या ब्रह्मवादिनः प्रकृतित्वं वदन्ति । कृष्णतादात्म्यापन्नत्वात्कृष्णात्मिकेत्युक्तम् । जगत्कर्त्री मूलप्रकृतिरूपेति । व्रजस्त्रीजनसम्भूतश्रुतिभ्य इति । तासां ब्रह्मणा सर्वतो बृहत्वयुक्तेन सङ्गाद्द्हेतोः प्रणवत्वेन प्रकृष्टतया श्रुतीनामप्यभिव्यक्ताविर्भावप्रकृतित्वं सृष्टत्वं वदन्ति ब्रह्मवादिनः वेदवदनशीलाः वेदप्रामाण्ये वदन्ति । यथोक्तं वाराणस्यां विशालाक्षी विमला पुरुषोत्तम् । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥
ओ)०(ओ
(
५७)
तस्मादोंकारसम्भूतो गोपालो विश्वसम्भवः ॥
विश्वेश्वरः (५७)ः प्रणवत्वं प्रकृष्टस्तुतित्वमसत्सत्त्वादिगुणारोपहेतुत्वं तेन हेतुना ब्रह्मवादिनः । यद्वा विश्वतैजसादिरूपेण चतुर्धा संस्थितमित्यर्थः । तस्या प्रकृतित्वं वदन्ति । तस्मात्ब्रह्मस्वरूपत्वातोंकारेण सम्भूतः प्रकृतिप्रतिपाद्यत्वात्प्रादुर्भूतो गोपालः विश्वसंस्थित इत्यर्थः ॥
ब्रह्मोपनिषद्योगी (४५अ)ः यस्मादेवं तस्मातस्य ब्रह्मस्वरूपत्वातोंकारसम्भूतः ओंकारार्थतया तत्प्रतिपाद्यत्वात। विश्वाधारान्तर्यामितया स्थितत्वात्विश्वसंस्थितः । किं वक्तव्यं चतुर्धा संस्थित इति ।
जीवः (६०);
प्रबोधानन्दः (७७) ः तस्मादिति गोपालः ओंकारसम्यक्प्राप्तः । तस्माद्ब्रह्मरूपत्वादोंकारेण सम्भूतः प्रतिपाद्यत्वात्प्रादुर्भूतो गोपालः । विश्वसंस्थितो विश्वाकारेण संस्थितः । बहुधा संस्थित इत्यर्थः ॥
ओ)०(ओ
(
५८)
क्लीमोंकारस्यैक्यत्वं पठ्यते ब्रह्मवादिभिः ।
मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ॥
विश्वेश्वरः (५८)ः क्लीमोंकारस्यैक्यत्वमिति । क्लीमोंकारयोः ऐक्यत्वं ब्रह्मवादिनो वदन्ति । अतः तत्पठ्यते बीजाद्यः समन्त्र इत्यर्थः । उक्तगोपालभजनं मथुरायामतिशयेन झटिति मोक्षफलदमित्याह मथुरायामिति । मथुरायां मां ध्यायन्विश्वाकारेण संस्थितः किं पुनर्वक्तव्यं चतुर्धा संस्थितः विशेषेण शीघ्रं मोक्षं प्राप्नोतीत्यर्थः ॥
ब्रह्मोपनिषद्योगी (४५)ः यस्मादेवं तस्मातस्य ब्रह्मरूपत्वातोंकारसम्भूतः ओंकारार्थतया तत्प्रतिपाद्यत्वात। विश्वाधारान्तर्यामितया स्थितत्वात्विश्वसंस्थितः । किं वक्तव्यं चतुर्धा संस्थित इति । क्लीमोंकारयोरेकत्वं ब्रह्मवादिनो वदन्ति बीजद्वयस्यैकार्थपर्यवसायित्वात। मथुरायां मद्भजनं शीघ्रफलदमित्याह—
मथुरायामिति ॥
जीवः (६१);
प्रबोधानन्दः (७८७९)ः ननु क्लींकारस्यैव तन्महामन्त्रबीजत्वं प्रसिद्धं तत्राह क्लीमिति । क्लींकार ओंकारयोरेकमेवैक्यं तस्य भाव ऐक्यत्वमेकत्वं द्वयमिदं तुल्यस्वरूपं तुल्यशक्तिकं तुल्यप्रतिपाद्यं चेति प्रणवव्याख्यानेन तस्यार्थः कथितः इति । ब्रह्मवादिभिर्वेदार्थतत्त्वज्ञैः ॥७८॥
अथ पूजाप्रस्तावेन ध्यानं तस्य स्थानविशेषं चाह मथुरायामिति । मथुरायामतिशयेन झटिति मोक्षमश्नुते । मत्प्राप्तिविघ्नाद्विमोकं प्राप्नोति ॥७९॥
ओ)०(ओ
(
५९६२)
अष्टपत्रं विकसितं हृतपद्मं तत्र संस्थितम् ।
दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ॥५९॥
श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ।
चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ॥६०॥
सुकेयुरान्वितं बाहुं कण्ठं मालासुशोभितम् ।
द्युमत्किरीटवलयं स्फुरन्मकरकुण्डलम् ॥६१॥
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ।
ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ॥६२॥
विश्वेश्वरः (५९६२)ः मां ध्यायनित्यनेन सूचितं ध्यानं विशदयति अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितं दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयमिति । अष्टपत्रविकसितहृदयकमलसंस्थितं मां नित्यं ध्यायेदित्यग्रेणैव सम्बन्धः । तत्रादौ दिव्यध्वजातपत्रैः चिह्नितं चरणद्वयं ध्यायेत॥
हृत्स्थं श्रीवत्सलाञ्छनं प्रभया युतं च कौस्तुभं ध्यायेत। चतुर्भुजं चतुर्भिर्गुणितं भुजं शङ्खचक्रगदाशार्ङ्गपद्मान्वितं ध्यायेत। शार्ङ्गपदमयोरेककरे स्थितिरिति बोध्यम् । तेन करचतुष्टये पञ्चधारणमुपपन्नम् ॥
बाहुं च सुकेयुरैः अङ्गदैः अन्वितं ध्यायेत। बाहुमित्येकवचनं जात्यभिप्रायेण । तथा कण्ठं मालासुशोभितं ध्यायेत। तथा द्युमन्दीप्तिमान्किरीटः तं स्मरेत। तथा स्फुरन्ती मकराकारे कुण्डले तयोर्द्वयमित्यर्थः ॥
हिरण्मयं देदीप्यमानं विष्णुं तथा सौम्यतनुं प्रसन्नमधुराकृतिं स्वभक्ताय स्वभक्तेभ्यः अभयप्रदं मोक्षदमित्यर्थः । अथवा द्विभुजं ध्यायेदित्याह वेणुशृङ्गधरं तु वेति ॥
ब्रह्मोपनिषद्योगी (४६४९)ः हृत्स्थं श्रीवत्सलाञ्छनं मां ध्यायेदित्यर्थः ॥
जीवः (६२६५);
प्रबोधानन्दः (८०)ः ध्यानं विशदयति अष्टपत्रमिति वेणुशृङ्गधरं वेत्यन्तेन । हृत्पद्ममिति उपासकानां हृदि ध्येयं पद्मम् । तत्र मथुरायां संस्थितं ध्यायेदिति गतचतुर्थेनान्वयः । शङ्खादिचिह्नितं चतुर्भुजं ध्यायेत। चतुर्भुजत्वे पञ्चायुधधारणमनुपनयति शार्ङ्गस्याग्रे स्थितिर्ज्ञेया । द्युमत्देदीप्यमानं सौम्यतनुं प्रसन्नमधुराकृतिः । हिरण्यं प्रकाशबहुलं चरणद्वयं ध्यायेत। सुकेयूरान्वितं बाहुं ध्यायेत। तथा कण्ठमालया सुशोभितं ध्यायेत। सौम्यतनुं मधुराकृतिमभयप्रदं मोक्षपदमथवा द्विभुजं ध्यायेत्वेणुशृङ्गधरं श्रीकृष्णं गोपवेशं ध्यायेत॥८०॥
ओ)०(ओ
(
६३)
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ।
तत् सारभूतं यद्यस्यां मथुरा सा निगद्यते ॥६३॥
विश्वेश्वरः (६३)ः अथमथुराशब्दार्थमाह—
मथ्यते सर्वं जगतनेनेति मथं ब्रह्मज्ञानं गोपालस्वरूपं च ब्रह्मज्ञानेन मदनगोपालस्वरूपेण वा इति सम्बन्धः । यतधिष्ठानं हि सम्यक्ज्ञातं सद्जगद्भ्रमं निवर्तयति तत्सारभूतं यस्यां सा मथुरा पुरीत्यर्थः ।
ब्रह्मोपनिषद्योगी (५०)ः मथुराशब्दार्थमाह—
मथ्यत इति । अनेनेदं सर्वं जगत्मथ्यत इति मथनं ब्रह्मज्ञानं मत्स्वरूपं वा अधिष्ठानस्यारोपभ्रमनिरासकत्वात। मत्सारभूतं स्वरूपं यस्यां निषण्णं सा मथुरापुरीत्यर्थः ॥
श्रीजीवः (६६);
प्रबोधानन्दः (८१)ः मथुरापदनिरुक्त्या ध्यानस्थानस्य माहात्म्यविशेषं दर्शयति—
मथ्यत इति । जगत्सर्वमवगाहमानेन येन ज्ञानेन ब्रह्मेति ब्रह्माख्यं भगवत्तत्त्वं मथ्यते दध्यवगाहमानेन मन्थानेन नवनीतवद्व्यक्तीक्रियते । वाशब्दादनुक्तसमुच्चयार्थाद्भक्तियोगेन वा येन । तद्द्वयं यस्यां सारभूतं सर्वोत्कृष्टं सा मथुरा निगद्यते । मथ्यते येन तन्मथुर्ज्ञानभक्त्याख्यं साधनं तद्योगान्मथुरेत्यर्थः । [J
] औणादिकेन मत्वर्थीयेन च सिद्धेः ॥
ओ)०(ओ
(
६४)
अष्टदिक्पालिभिर्भूमिः पद्मं विकसितं जगत।
संसारार्णवसञ्जातं सेवितं मम मानसे ॥६४॥
विश्वेश्वरः (६४)ः हृदयस्थितं विकसितमष्टपत्रं पद्मं व्याकरोति अष्टदिक्पालिभिरिति । अष्टदिक्पालैरेव पत्रैः सेवितं पद्मं मम मानसे अन्तःकरणे विकसितं सत्भूमिरेव जगत्जगदाश्रयं संसारार्णवसंजातमुत्पन्नमित्यर्थः ॥
ब्रह्मोपनिषद्योगी (५१)ः न किंचिद्व्याख्यातम्.
श्रीजीवः (६७);
प्रबोधानन्दः (८२)ः अथ मन्दाधिकारिणां विराडुपासनानामपि स्वपूजाङ्गध्यानत्वेन कल्पयति अष्टेति । अष्टभिर्दिक्पालिभिर्दिक्पालैर्यद्भूमिरूपं पद्मं विकसितं प्रकाशमानं तदेव संसारार्णवसञ्जातं प्रलय समुद्रोद्भवं तज्जगत्सर्वमेव मम मानसे सेवितं यत्पद्मं हृत्कमलाख्यं तद्रूपेणोपास्यमिति शेषः । दिक्पालभिरिति पाठे भिस ऐसभावश्छन्दसः (ञ्. ) एत्वाभावश्च ॥८२॥
ओ)०(ओ
(
६५)
चन्द्रसूर्यत्विषो दिव्यध्वजा मेरुर्हिरण्मयः ।
आतपत्रं ब्रह्मलोकमधोर्ध्वं चरणं स्मृतम् ॥६५॥
विश्वेश्वरः (६५)ः दिव्यध्वजातपत्रैश्चिह्नितं चरणद्वयं व्याकरोति चन्द्रसूर्यत्विष इति । चन्द्रसूर्यत्विष एव दिव्या ध्वजाः । मेरुरिति । मेरुः पर्वतः स एव हिरण्मयः छत्रदण्डः । आतपत्रमिति । ब्रह्मलोक एव आतपत्रं दण्डस्थानीयमेरूपरि वर्तमानत्वात। अधोर्ध्वमिति । ब्रह्माण्डस्य अध ऊर्ध्वं चरणं चरणद्वयं स्मृतमित्यर्थः । अधोर्ध्वमिति सन्धिः चरणमिति क्लीबत्वं च छान्दसम् ॥
ब्रह्मोपनिषद्योगी (५२)ः चन्द्रसूर्यत्विष एव दिव्यध्वजाः छत्रदण्डो मेरुर्ब्रह्मलोक आतपत्रम् ॥
श्रीजीवः (६८);
प्रबोधानन्दः (८३)ः चन्द्रसूर्यत्विष इति । चन्द्रसूर्यादीनां ज्योतींषि तानि मम दिव्या अलौकिक्य त्विष इत्युपास्यमित्यर्थः । मेरुस्तु मम हिरण्मय ध्वजारूपेणोपास्य इत्यर्थः । ब्रह्मलोकं ममातपत्रमुपासीत । अधोर्ध्वमधऊर्ध्वभावेन वर्तमानं सप्तपातालं चरणं स्मृतम् । [J
] सन्धिक्लीबत्वे छान्दसे ॥८३॥
ओ)०(ओ
(
६६)
श्रीवत्सं च स्वरूपं च वर्तते लाञ्छनैः सह ।
श्रीवत्सलाञ्छनं तस्मात्कथ्यते ब्रह्मवादिभिः ॥६६॥
विश्वेश्वरः (६६)ः श्रीवत्सलाञ्छनशब्दात्थमाह । ब्रह्मवादिभिस्तस्मात्हेतोः श्रीवत्सलाञ्छनं कथ्यते तस्मात्लाञ्छनैः सहितं श्रीवत्सं श्रीवल्लभं स्वरूपमेव परमेश्वरस्य वर्तत इत्यर्थः । आहिताग्न्यादित्वात्श्रीवत्सशब्दस्य पूर्वनिपातः ॥
ब्रह्मोपनिषद्योगी (५३)ः न व्याख्यातम्.
श्रीजीवः (६९);
प्रबोधानन्दः (८४)ः श्रीवत्समिति । श्रीवत्सं तावत्तन्निजविग्रहे गौतमीयादिदृष्ट्या स्वतः शुभ्रवर्णं च चक्रवल् लाञ्छनैर्भावार्थदीपिकादिसंमत्या दक्षिणावर्तरोमकूपैः सह वर्तते । विराड्विग्रहे च स्वरूपं च वैराजजीवलक्षणम् । लाञ्छनैर्विराडवयवैः सह वर्तते । अतः साम्याभासाज्जीवात्मनोऽपि श्रीवत्सत्वं कथ्यते । तस्माद्विराजजीवलक्षणं स्वरूपं श्रीवत्सलाञ्छनं कथ्यते । [J
] लाञ्छनसहितं श्रीवत्सं श्रीवत्सलाञ्छनमिति राजदन्तवत्पूर्वनिपातः ॥८४॥
ओ)०(ओ
(
६७)
येन सूर्याग्निवाक्चन्द्रं तेजसा स्वस्वरूपिणा ।
वर्तते कौस्तुभाख्यं हि मणिं वदन्तीशमानिनः ॥६७॥
विश्वेश्वरः (६७)ः कौस्तुभशब्दार्थमाह येन सूर्याग्निवागिति । कः अर्कः । अः वाक। औ चन्द्राग्नी इत्यस्य एकसय एकदेशसाम्यातकारस्तु वर्णसाम्यात्वाकेतत्सर्वं स्तोभति परतन्त्रतया येन स्वस्वरूपिणा तेजसा प्रवर्तते । तं चित्स्वरूपमेव ईशमानिनः ईश्वराराधकाः कौस्तुभाख्यं मणिं वदन्ति ॥
ब्रह्मोपनिषद्योगी (५४)ः कौस्तुभशब्दार्थमाह—
येनेति । सूर्यादयः परतन्त्रतया येन स्वरूपिणा तेजसा प्रवर्तते ते तच्चित्स्वरूपमहेशमानिनः ईश्वराराधकाः कौस्तुभाख्यं मणिं प्रवदन्ति ॥
श्रीजीवः (७०);
प्रबोधानन्दः (८५) ः येन स्वस्वरूपिणा सर्वजीवाश्रयेण तेजसा सूर्याग्निवाक्चन्द्राणां समाहारो वर्तते स्फुरति । तं कौस्तुभाख्यं मणिं सूर्यादिरूपमेव वदन्ति । सूर्यादिकं कौस्तुभाभेदेनोपासत इत्यर्थः । के ?
ईशमानिनः । विराडीश्वरबुद्धयः इत्यर्थः । निरुच्यते च—
कः सूर्यलक्षणरूपत्वादग्निश्च । [J
] अः वाक्,
वाचः प्रथमत्वात। औश्चन्द्रः ग्लौपदस्यैकदेशेन तद्धारणादप्यक्षरसाम्येन निर्ब्रूयादिति नैरुक्ताः । [B
ोथ्] तत्तद्रूपं तेजस्तु भाति स्वस्वरूपेण व्याप्नोतीति । [P
] अकारस्तु सुवर्णं स्यात्वाकेतत्सर्वं तु परमतत्त्वपरतन्त्रतया वर्तते चित्च रूपमेवेति ॥८५॥
ओ)०(ओ
(
६८)
सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ।
पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ॥६८॥
विश्वेश्वरः (६८)ः चतुर्गुणितभुजं विवृणोति—
सत्त्वं रजस्तम इति । अहङ्कारश्चतुर्भुज इति । गुणत्रयमहङ्कारश्च इति चतुर्भुजः इत्यर्थः । गुणक्रमेण सत्त्वस्यादौ निर्दिष्टत्वेऽपि आयुधक्रममनुरुद्धादौ रजःकरस्थितं शङ्खं विवृणोति पञ्चभूतात्मकमिति पञ्चभूतात्मकं शङ्खं रजोगुणरूपे करे संस्थितं बुधा विदुः । रजोगुणजन्यक्रियोत्पाद्यत्वादित्यर्थः ॥
ब्रह्मोपनिषद्योगी (५५)ः चतुर्गुणितभुजं विवृणोति—
सत्त्वमिति । सत्त्वादित्रिगुणेन अहङ्कारश्चेति चतुर्भुजः । रजोगुणविशिष्टं शङ्खं करे स्थितं बुधाः विदुः इत्यर्थः ॥
श्रीजीवः (७१);
प्रबोधानन्दः (८६) ः सत्त्व रजस्तम इति अहङ्कारश्चेति चतुर्भुजत्वेन कल्पितैर्विराडपि चतुर्भुज इत्यर्थः । तस्माच्चत्वारस्ते भगवद्भुजत्वेनोपास्या इति भावः । [P
] एवं रजसः करविशेषत्वेन पञ्चभूतानि च शङ्खत्वेनास्यानि एवमुत्तरत्रापि । गुणत्रयमहङ्कारश्च तत्करविशेषत्वेन कल्प्यत इति ॥
ओ)०(ओ
(
६९)
बालस्वरूपमत्यन्तं मनश्चक्रं निगद्यते ।
आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ॥६९॥
विश्वेश्वरः (६९)ः बालस्वरूपमिति । अत्यन्तं यः बलः तद्वद्विशुद्धं मन एव सत्त्वाख्ये करे स्थितं चक्रं निगद्यते । आद्या जगन्मूलकारणं माया सा एव शार्ङ्गं विश्वाख्यं पद्मं च तमोगुणलक्षणे करे स्थितं निगद्यते तमोगुणायत्तस्थितिकत्वात॥
ब्रह्मोपनिषद्योगी (५६)ः विशुद्धं मन एव सत्त्वाख्ये करे स्थितं चक्रं निगद्यते ॥
श्रीजीवः (७२);
प्रबोधानन्दः (८७८८) ः एवं रजसः करविशेषत्वेन पञ्चभूतानि च शङ्खत्वेनोपास्यानि,
एवमुत्तरत्रापि गुणद्वयमहङ्कारश्च करविशेषत्वेन कल्प्यम् । बालस्वरूपमिति अत्यन्तं यो बालस्तद्वच्चलं मन एव चक्रं निगद्यते चक्रत्वेनोपास्यते । चलस्वरूपमिति क्वचित्पाठः । सृष्टिस्थित्यादिक्रमप्राप्तत्वात्करे सत्त्व इति ज्ञेयम् । आद्या विक्षेपशक्तिरूपा माया सैव शार्ङ्गम् । तद्रूपत्वेनोपास्यमित्यर्थः । विश्वमेव करे स्थितं यत्पद्मं तद्रूपत्वेनोपास्यं तम एवात्र करत्वेन कल्प्यम् ।
ओ)०(ओ
(
७०)
आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ।
धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमहीरितैः ॥७०॥
विश्वेश्वरः (७०)ः आद्या विद्येति । आत्प्रसन्नात्विष्णोर्भक्तानां हृदि संसारनिरसनायाविर्भवतीति प्रसिद्धा या आद्या विद्या ब्रह्माहमस्मीति विद्या सैव गदा वेद्या सर्वदा मे मम करे अहङ्काराख्ये स्थिता अहंवृत्तिरूपत्वात। केयूरैरन्वितं बाहुं विवृणोति धर्मार्थकामेति । पुरुषार्थत्रयलक्षणैः केयूरैः अन्वितमित्यर्थः । कीदृशैः केयूरैः दिव्यमह्यामीरितैः ॥
ब्रह्मोपनिषद्योगी (५७६१)ः अहं ब्रह्मास्मीति वृत्तिरेव आद्या विद्या सैव मत्करगतगदेति वेद्या भवति ॥
श्रीजीवः (७३);
प्रबोधानन्दः (८९अ)ः आद्या विद्येत्यत्र करत्वेनोपास्योऽहङ्कार इति ज्ञेयम् । धर्मार्थकामरूपैः [J
] तदुपलक्षणत्वेन मोक्षपर्यवसानैः [B
ोथ्] केयूरैर्केयूरत्वेनोपास्यैस्तैरन्वितो विरादुपास्य इत्यर्थः । [J
] कीदृशैः ?
स्वयं दिव्यैरलौकिकैर्दिव्यमहिभिस्तादृशमहिमभिश्च ईरितैः स्तुतैः ।
ओ)०(ओ
(
७१)
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाजया ।
माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ॥७१॥
विश्वेश्वरः (७१)ः कण्ठमालासुशोभितमिति व्याकरोति कण्ठं त्विति । प्रोक्तं प्रागुक्तं कण्ठं निर्गुणं ब्रह्म जानीयादिति शेषः । तत्ब्रह्म आद्यया अजया मायया माल्यते प्रपञ्चाभरणेन भूष्यते अतो हेतोः तव मानसैः पुत्रैः सनकादिभिस्त्वाद्या माया माला निगद्यते इत्यर्थः ॥
ब्रह्मोपनिषद्योगी (५८)ः न व्याख्यातम् ।
श्रीजीवः (७४);
प्रबोधानन्दः (८९ब्)ः [J
] निर्गुणं यद्ब्रह्म निर्विशेषं ज्ञानं तत्कण्ठतयोपास्यमित्यर्थः । [B
ोथ्] तच्चाद्यया अजयया [P
] कण्ठं माल्यते प्रपञ्चाभरणेन भूष्यते निर्गुणं ब्रह्मज्योतीति शेषः । [B
ोथ्] अजयावरणशक्तिरूपया यया माल्यते आव्रियते सैव माला निगद्यते । माल्यतयोपासितं विधीयत इत्यर्थः ॥
ओ)०(ओ
(
७२)
कूटस्थं यत्स्वरूपं च किरीतं प्रवदन्ति माम् ।
क्षरोत्तमं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ॥
विश्वेश्वरः (७२)ः द्युमत्किरीतमिति व्याकरोति । बुधाः कूटस्थं सत्स्वरूपं मां किरीटं प्रवदन्ति सर्वश्रेष्ठत्वादिति शेषः । स्फुरन्मकरकुण्डलमिति व्याकरोति क्षरोत्तममिति । क्षरः सर्वाणि भूतानि स्थिरजङ्गममानि उत्तमः जीवश्चैतत्युगलं द्वयं स्मृतिअं प्रसिद्धं कुण्डलं प्रवदन्ति इति सम्बन्धः ॥
ब्रह्मोपनिषद्योगी (५९)ः न व्याख्यातम् ।
श्रीजीवः (७५);
प्रबोधानन्दः (९०) ः कूटस्थमविकृतं यत्स्वरूपं सर्वकारणमक्षरशब्देनोक्तं मां नारायणं किरीतं प्रवदन्ति । किरीतरूपत्वेनोपास्यत इत्यर्थः । क्षरे जगति उत्तमं साङ्ख्यं योगश्चेत्यतद्युगलं द्वयं स्मृतम् । प्रसिद्धं कुण्डलं प्रवदन्तीति सम्बन्धः । तथा च श्रीभागवते बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले [भ्P
१२.११.१२] इति । यत्र त्वन्य एव पन्थाः स्पष्टश्रुतिपुराणयोस्तत्र तु सम्प्रदायभेदेन पार्थक्यं मन्तव्यम् ॥
ओ)०(ओ
(
७३)
ध्यायेन्मम प्रियो नित्यं मोक्षमधिगच्छति ।
स मुक्तो भवति तस्मै आत्मानं च ददामि वै ॥७३॥
विश्वेश्वरः (७३)ः कुण्डलान्तर्विशिष्टस्वरूपध्यानफलमाह—
ध्यायेदिति । यः कुण्डलान्तर्विशिष्टम् । मां ध्यायेत्स मोक्षमधिगच्छति । मोक्षस्तु सर्वानर्थनिवृत्तिरूपः परमानन्दावाप्तिश्चेति व्याकरोति । स मुक्तो भवति तस्मै आत्मानं ददामीति द्वितीयपादः छान्दसत्वात्सप्ताक्षरः वै ॥७३॥
ब्रह्मोपनिषद्योगीः न व्याख्यातम्.
श्रीजीवः (७६);
प्रबोधानन्दः (९१) ः तदेवं मन्त्राधिकारिणां ध्यानमुक्त्वा तस्य च फलं साक्षात्तद्ध्यानमेवेत्यभिप्रेत्य तस्य तु फलमाह—
ध्यायेदिति । मोक्षाधिगममेव विशिष्टतयोपदिशति—
स मुक्तो भवति संसारबन्धं त्यजति । न केवलमेतावत्तस्मै आत्मानं च ददामि । तत्प्रेम वशो भवामीत्यर्थः ॥
ओ)०(ओ
(
७४)
एतत्सर्वं भविष्यद्वै मया प्रोक्तं विधे तव ।
स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥७४॥
विश्वेश्वरःः उक्तं ध्यानमुपसंहरति एतत्सर्वमिति । स्पष्टम् ॥
ब्रह्मोपनिषद्योगीः न व्याख्यातम्.
श्रीजीवः (७७);
प्रबोधानन्दः (९२) ः उपसंहरति—
एतदिति । भविष्यदग्रे भविताप्यनुभवनीयमुपदेश्यं चेत्यर्थः । एतदिति विवृणोति—[P
] भविष्यद्विधेर्विधानं तव तुभ्यं [B
ोथ्] सगुणमष्टदिक्पालिभिर्[२.६४] इत्यादिना प्रोक्तं विराडाकारम् । निर्गुणमष्टपत्रं विकसितं [२.५९] इत्यादिना प्रोक्तं चतुर्भुजस्वरूपं वेणुशृङधरं तु वा इति द्विभुजाकारं श्रीकृष्णगोपालरूपं चेति ॥९२॥
ओ)०(ओ
(
७५)
स होवाचाब्जयोनिः । व्यक्तानां मूर्तीनां प्रोक्तानां कथं त्वामरणानि भवन्ति कथं वा देवा यजन्ति रुद्रा यजन्ति ब्रह्मा यजति ब्रह्मजा यजन्ति विनायका यजन्ति द्वादशादित्या यजन्ति वसवो यजन्ति अप्सरसो यजन्ति गन्धर्वा यजन्ति । स्वपदानुगा अन्तर्धाने तिष्ठति । कां मनुष्या यजन्ति ॥
विश्वेश्वरः (७५)ः स होवाचेति । प्रागुक्तमूर्तीनामाभरणयजनविधिं जिज्ञासुः स ह अब्जयोनिरित्युवाच इत्यर्थः । व्यक्तानां मूर्तीनामिति प्रागुक्तद्वादशमूर्तिषु व्यक्तानां मूर्तीनां तु कथमाभरणानि भवन्ति । कथं वा देवा यजन्ति रुद्रा यजन्ति ब्रह्मा यजति ब्रह्मजा यजन्ति विनायका यजन्ति द्वादशादित्या यजन्ति वसवो यजन्ति अप्सरसो यजन्ति गन्धर्वा यजन्ति इति स्पष्टम् । कथं यजन्ति कां च यजन्ति इत्यर्थः । स्वपदानुगा च का अन्तर्धाने च का तिष्ठन्ति इति प्रश्नार्थः । कां मनुष्या इति । यजन्ति कां मूर्तिं मनुष्याः कथं च इत्यर्थः ॥
ब्रह्मोपनिषद्योगी (६२)ः एवं भगवत्सूक्तिमाकर्ण्य स होवाच किमिति । व्यक्तीनामिति ॥
श्रीजीवः (७८);
प्रबोधानन्दः (९३९४)ः तत्र ब्रह्मणः सन्देहं दर्शयति—
स होवाचेति । [P
] प्रागुक्तं मूर्तिश्चाभरणयजनविधिं च जिज्ञासुः स अब्जयोनिः ह स्फुटमुवाच ॥ [B
ोथ्] व्यक्तानामुपासकेषु प्रकटानां तत्र हि रामस्य राममूर्तिः [२.३२] इत्यादिना प्रोक्तानां मूर्तीनां केन प्रकारेणाभरणानि कथ्यन्ते । कथं देवा यजन्तीति । कथं यजन्ति कां च यजन्तीत्यर्थः । व्यक्तीनामिति पाठे पृथग्भूतानामित्यर्तः । तत्र पूर्वोक्ता देवा मरुतः । स्वपदानुगेति या एकादशमेति स्वपदं गता [२.३३] इत्युक्ता सा कीदृशी ?
तां च कथं यजन्तीत्यर्थः । अन्तर्धाने तिष्ठतीति च या दशमीत्यन्तर्धाने तिष्ठति [२.३३] इत्युक्ता । सा च कीदृशीत्यदि । कां मनुष्या यजन्तीति । या द्वादशमेति भूम्यां हि तिष्ठति [२.३३] इत्युक्ता,
सा च कीद्र्शीत्यादि । अत्र व्यक्तमूर्तीनां कथमाभरणानि भवन्तीत्येकः प्रश्नः कृतः । कथं देवा यजन्तीत्यादि द्वितीयः प्रश्नः । कां मूर्तिं के यजन्तीति तृतीयः प्रश्नो वाशब्दादभिमतः ॥
ओ)०(ओ
(
७६)
स होवाच तं हि वै नारायणो देवः ।
आद्या अव्यक्ता द्वादशमूर्तयः सर्वेषु लोकेषु
सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठन्ति ॥
विश्वेश्वरः (७६)ः स होवाचेति । स एव ब्रह्मणा पृष्टो नारायणो देवस्तं ब्रह्माणं निश्चितमुत्तरमुवाच इत्यर्थः । अत्राव्यक्तमूर्तीनां कथमाभरणानि भवन्ति इत्य्w
एकः प्रश्नः । कथं देवा यजन्ति इति द्वितीयः । कां मूर्तिं के यजन्ति इति तृतीयः प्रश्नो वाशब्दादभिमतः । तत्र आद्यप्रश्ने मूर्तीनामव्यक्तत्वान्नाभरणानि वक्तव्यानि इत्युत्तरमभिप्रेत्याह आद्या अव्यक्ता द्वादशमूर्तयः सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । आद्या अनादयः इत्यर्थः । शेषं स्पष्टम् ॥
ब्रह्मोपनिषद्योगी (६३अ)ः कथं मनुष्याः जयन्तीति ब्रह्मणा पृष्टः स होवाच ।
श्रीजीवः (७८);
प्रबोधानन्दः (९५९६) ः तत्र प्रथमस्योत्तरमन्त्रभावयन्नन्ययोराहेत्याह—[P.
] यच्च एकां हि रुद्रा यजन्तीत्याद्युक्तम् । तत्कथमेकैव मूर्तिः सर्वैरिज्यए इति ब्रह्मापृच्छदित्याह श्रुतिः । यच्चोक्तं व्यक्तानां मूर्तीनां कथं त्वाभरणानि भवन्ति,
कां मनुष्या यजन्ति,
कीदृश्या मूर्त्या वा अन्तर्धाने तिष्ठतीति यदुक्तं तदुत्तरमाह स नारायणो देवः । तं हि निश्चयपूर्वकं वै स्मरणे ह स्फुटमुवाच ।
[P.
] आदौ भवा अद्याः । यदा प्रकृइतिरपि नासीत्तदापि विद्यमाना अनादिसिद्धा इत्यर्थः । तेन विशुद्धचिदेकरसपरिपूर्णा ब्रह्मस्वरूपा सा । परिच्छिन्नत्वेऽपि पूर्णत्वं किमिति नोपालभ्यत इति चेत्तत्राह अव्यक्ता अपीति पूर्णत्वेऽपि न व्यक्ता । तत्तदुपासकादन्यत्रानभिव्यक्ता अपि यदा व्यक्तीकरोति तदा पूर्णत्वमुपलभ्यते ।
सर्वेषु लोकेषु ऊर्ध्वेषु पुरुषोत्तमलोकमारभ्य वर्तते । भूरादिचतुर्दशलोके श्रीविग्रह इत्याशयेन । आद्या द्वादशमूर्तयः सर्वेषु देवेषु अतलादितललोकेष्वपि सर्वत्रैवेत्यर्थः । तिष्ठन्ति तत्तदुपासकेषु स्फुरन्तीत्यर्थः । यत्पूर्वं पूर्यां द्वादशमूर्तीनामेव च तासामस्तित्वं तेष्वेव देवास्तिष्ठन्तीति निर्धारितं तथापि स्थानध्यानेन अन्यैरप्यन्यं नोपास्यन्त इति तथोक्तम् ।
[J
] आद्या अनादिसिद्धास्तत्तदुपासकादन्यत्राभिव्यक्ता अपि सर्वेषु लोकेषु ऊर्ध्वेषु सर्वेषु देवेषु मध्यलोकेषु सर्वेषु मनुष्येषु तल्लोकवासिषु सर्वत्रैवेत्यर्थः । तिष्ठन्ति तत्तदुपासकेषु स्फुरन्तीत्यर्थः । यद्यपि पूर्वं पुर्यां द्वादशवनान्येव । तासामस्तित्वं तेष्वेव देवास्तिष्ठन्ति [२.३१] इत्यादिना निर्धारितम् । तथापि तत्तत्स्थानध्यानेनान्यैरप्यन्यत्रोपास्यन्त इति तथोक्तम् ।
(
७७)
रुद्रेषु रौद्री ब्रह्मण्येवं ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु विघ्ननाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं गौर्वसुष्वेवं काम्या अन्तर्धाने प्रकाशिनी ॥
विश्वेश्वरः (७७)ः कां मूर्तिं के यजन्ति इति तृतीयप्रश्नस्योत्तरं संज्ञाकीर्तनेन वदन्नेव सर्वेषु देवेषु तिष्ठन्ति इत्येतद्विवृणोति रुद्रेषु रौद्री ब्रह्मण्येवं ब्राह्मी देवेषु दैवी मानवेषु मानवी विनायकेषु विघ्ननाशिनी आदित्येषु ज्योतिः गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं काम्या अन्तर्धाने प्रकाशिनी आविर्भावास्तिरोभावाः स्वपदे तिष्ठन्ति तामसी राजसी सात्त्विकीति । रुद्रेषु देवेषु रौद्री नाम्नी मूर्तिः तिष्ठति इति ब्रुवता रौद्रीं मूर्तिं रुद्रा यजन्ति इति द्वितीयप्रश्नस्य उत्तरमुक्तं भवति । एवं ब्रह्मणि ब्रह्मलोके ब्राह्मी नाम्नी मूर्तिस्तिष्ठति इत्यर्थः । अत्रापि ब्राह्मीनाम्नीं मूर्तिं ब्रह्मा यजतीति द्वितीयप्रश्नस्योत्तरमुक्तं भवति । एवमन्यत्रापि बोद्धव्यम् । अन्तर्धाने च का मूर्तिस्तिष्ठतीत्यस्योत्तरमाह अन्तर्धान इति । प्रकाशिनी नाम्नी मूर्तिः अन्तर्धाने तिरोधाने तिष्ठति प्रकाशपूर्वकत्वात्तिरोधानस्येत्यर्थः ॥
ब्रह्मोपनिषद्योगी (६३ब्)ः ७८साङ्ख्यकश्लोको द्रष्टव्यः ।
श्रीजीवः (७८);
प्रबोधानन्दः (९७)ः [P
] इदानीं द्वादश श्रीकृष्णमूर्तीनां सर्वतः परमत्वेऽपि तत्तद्विशेषणविशिष्टतया भिन्नानां तत्तदाराधकगोचरत्वमिति वक्तुं विशेषेणाह—
रुद्रेष्विति । रौद्री रुद्रप्रकृत्यनुसारिणी,
रुद्राभिलषितार्थपूरणशक्तिमती । [B
ोथ्] तत्तद्भावानुसारेण रूपगुणादिस्फूर्तिभेदात्तत्तद्विधा । मल्लानामशनिर्[भ्P
१०.४३.१७] इत्यादिवतिति । कां मूर्तिमिति प्रश्नस्योत्तरम् । [J
] तदेवमाभरणप्रश्नोऽपि सोत्तरितः । तत्र [B
ोथ्] ब्रह्मण्येष्विति [J
] ब्रह्मणि ब्रह्मलोकवासिषु चेत्यर्थः । देवेष्विति प्रश्नस्य विपर्ययेणोत्तरं गौणत्वापेक्षया । मानवेष्विति ब्रह्मज्ञसनकादिगणमुत्तरम् । तेषु हि देवत्वं मानवत्वं च मन्यते । [P
] किं च रुद्रेषु देवेषु रौद्री रौद्रीं मूर्तिं रुद्रा यजन्तीत्यर्थः । एवं ब्रह्मलोके ब्राह्मी मूर्तिस्तिष्ठति । ब्राह्मीनाम्नीं मूर्तिं ब्रह्मा यजतीत्यर्थः । एवं दैवीं कैलाशादिदेवसदने देवा यजन्ति । यस्य या इष्टा मूर्तिस्तां मानवीं नराः कामिति । एवं सर्वत्र द्वादशविधोपासकमध्ये स्वस्वाभिलषितमुपासनमेवेति ज्ञेयम् । तत्र [B
ोथ्] अप्सरःस्वेवमिति आप्सरसीत्यर्थः । गौरिति गीयत इति गौः । गाने स्फुरद्रूप इत्यर्थः । वसुष्वेवमिति वसुषु वासवीत्यर्थः । सा च सर्वकाम्या सर्वकामप्रदा । अन्तर्धानेऽप्रकाशिनीति । तत्र या तिष्ठतीति सा पुनरप्रकाशिनी । केषांचित्श्रवणमात्रगतत्वेन तथोच्यत इत्यर्थः ॥
(
७८)
आविर्भावतिरोभावा स्वपदे तिष्ठति तामसी राजसी सात्त्विकी मानुषी विज्ञानघनानन्दघनसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ॥
विश्वेश्वरः (७८)ः का स्वपदानुगा इत्यस्योत्तरमाह—
आविर्भावो विद्यते यस्याः ष आविर्भावा । न विद्यते तिरोभावो यस्याः स तिरोभावा आविर्भावा चासौ अतिरोभावा च आविर्भावातिरोभावा एतन्नाम्नी मूर्तिः स्वपदे कैलाससत्यलोकवैकुण्ठलोकाख्ये तिष्ठतीत्यर्थः । तस्यास्त्रैर्विध्यमाह तामस्राजसी सात्त्विकीति । मानुषी कुत्र तिष्ठति इत्यस्योत्तरमाह मानुषी विज्ञानघन आनन्दघनसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति । विज्ञानघनानन्दघननाम्नी मानुषी मनुष्या प्रसिद्धा मूर्तिः सच्चिदानन्दैकरसः यः भक्तियोगः तत्र तिष्ठतीत्यर्थः ॥
ब्रह्मोपनिषद्योगी (६३च्)ः आविर्भावतिरोभावात्मिका मूर्तिः स्वपदे कैलाससत्यलोकवैकुण्ठाख्ये तिष्ठतीत्यर्थः । तस्यास्त्रैविध्यमाह—
तामसीत्यादि । मानुषी कुत्र तिष्ठतीत्यस्योत्तरमाह—
मानुषीति । विज्ञानघनानन्दघननाम्नी मानुषी मनुष्यप्रसिद्धा मूर्तिः सच्चिदानन्दैकरसो यो भक्तियोगस्तत्र तिष्ठतीत्यर्थः ॥
श्रीजीवः (८१);
प्रबोधानन्दः (९८)ः या तु कदाचिदाविर्भावा जगत्यवतीर्णा कदाचित्तिरोभावा । ततोऽन्तर्हिता च भवति । सैव स्वपदे गोलोकाख्ये श्रीवृन्दावनस्यैव प्रकाशविशेषे निजधाम्नि तिष्ठति । [J
] अत्रेयमेव स्वपदे तिष्ठतीत्युक्ते रम्या एव तथा तथा स्फूर्तिः [B
ोथ्] पूर्णप्रकाशत्वे चेत्यर्थः । तदेवं रौद्रादय एकादशमूर्तयोऽप्येकैकविधा ज्ञेयाः । आदिनवानामेकैक गुणोपाधित्वातन्त्यद्वयस्य च निरुपाधित्वात। [P
] आविर्भावतिरोभावा स्वपदे तिष्ठतीति यदुक्तं तदाह [B
ोथ्] बृहद्गौतमीये श्रीकृष्णवाक्यम्—
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
पञ्चयोजनमेवास्ति वनं मे देहरूपकम् ॥
कलिन्दीयं सुषुम्णाख्या परमामृतवाहिनी ।
तत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ॥
सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित।
आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे ।
तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥ इति ।
ब्रह्मसंहितायां च—
आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ।
अस्य सर्वोर्ध्वत्वेनोक्तिस्तूपासकभावापेक्षया तत्र स्फूर्तेः । वस्तुतस्त्वत्रैव दर्शितः श्रीभगवता ब्रह्मह्रदादुद्धृतान्गोकुलवासिनः प्रति दर्शयामास लोकं स्वं गोपानां तमसः परम् । [भ्P
१०.२८.१५] इति श्रीभागवतात। अत्रैवमेव स्वपदे तिष्ठत्युक्तेः ।
द्वादशी तु मनुष्याणां त्रिभेदानां स्फुरन्तीति त्रिविधा ज्ञेया इत्याह—
तामसीति । मल्लानामशनिर्[भ्P
१०.४३.१७] इत्यादिवदेव । शुद्धभक्तियोगे तु तत्र तत्रान्यत्र च यथा स्वरूपमेव स्फुरतीति स्वपदवासिनां तु सुतरामिति वदन्भक्तियोगस्यापि स्वरूपं द्योतयन्नाह—
विज्ञानघन इति । विज्ञानं तत्तद्रूपगुणादिभिर्विशिष्टं यज्ज्ञानं जडप्रतियोगि यद्वस्तु तदेव घनो विग्रहो यस्य सः । तादृशविग्रहस्वरूप एव वा । तथा दुःखप्रतियोगित्वानन्द एव घनो यस्य स श्रीकृष्णः सच्चिदानन्दैकरसस्वरूपो यो भक्तियोगस्तत्र तिष्ठति स्फुरतीत्यर्थः ॥
ओ)०(ओ
(
७९)
ओं तत्प्राणात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
ब्रह्मोपनिषद्योगी (६४)ः कथं ब्रह्मा ब्रह्मजा यजन्ति इति प्रश्नोत्तरानाह—
ओमिति ॥
श्रीजीवः (८२);
प्रबोधानन्दः (१००)ः अथ कथं यजन्तीत्यस्योत्तरत्वेन तदुपलक्षकत्वेन मन्त्रान्दर्शयति—
ओं नमः प्राणात्मन इत्यादिना । [P
] प्रेमरसात्मिकाय आविर्भावाय अवश्यं तथा ध्येयमन्यथा श्रीकृष्णसेवादेरसम्भावादिति । परमां स्तुतिं सर्वस्य श्रीकृष्णात्मकत्वं प्रतिपादयन्ती श्रीकृष्णरहस्यं चाशेषतो निवेदयन्ती ब्रह्माणं प्रति श्रीनारायणोपदिष्टं श्रुतिराचष्टे । ओंकारस्तत्प्रतिपाद्यं परं ब्रह्म प्राणात्मने भवति । प्राणस्वरूपाय भवति । प्राणभावयोग्यो भवतीत्यर्थः । ओंकारप्रतिपाद्यं च तद्वस्तु ब्रह्माख्यं विचित्रशक्तिः सन्न तु प्राणो जडः तच्च ब्रह्म भूर्भुवः स्वरुपलक्षणम् । समस्तलोकवर्तिजीवरूपं तदात्मस्वरूपं तस्मै परब्रह्मणे ओमोमर्थभूतं परं ब्रह्म कृष्णाय कृष्णपदार्थत्वाय योग्यं भवति । एवं गोविन्दाय तथा गोपीजनवल्लभाय । ओमर्थस्वरूपं तच्छ्रीकृष्णाकारं परं ब्रह्म सतुत्कृष्टमवस्थाविशेषे भातम् । भूरित्यनेन भूर्लोकादिसप्तलोकग्रहः । भुव इति मध्यलोकः । स्वरिति उपरितनसप्तलोकः । तद्गत ईशस्वरूपादुत्कृष्ट इत्यर्थः । यद्वा,
प्राणवाच्यो यः प्राणाख्यवायोरात्मा अन्तर्यामी तस्मा एव ओमित्युपगमे तत्सत्स्वरूपवैभवं भूरादिलोकत्रयं च । तस्मा एव युज्यते । तस्मात्तस्मा एव नमः आत्मानं समर्पयामि ॥
[J
] जाग्रत्स्वप्नेत्याद्यन्तेन प्रणववाच्यो यः प्राणाख्यवायोरात्मान्तर्यामी तस्मा एव ओमित्यभ्युपगमे तत्सत्स्वरूपवैभवं भूरादिलोकत्रयं च तस्मा एव युज्यते । तस्मात्तस्मा एव नमः । आत्मानं समर्पयामीति ।
ओ)०(ओ
(
८०)
ओं श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (८३);
प्रबोधानन्दः (१०१)ः अथ सोऽसौ कः ?
तत्र स्फुटमाह—
ओं कृष्णायेति । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्[ङीता १०.४२] इति श्रीभगवद्गीतातः । [P
] एवं प्राणात्मने नम इति सप्तदशकेन ॥ [B
ोथ्] किन्तु प्राणस्य हृदिस्थत्वात्व्यानस्य सर्वव्यापकत्वान्मुख्यत्वेन तत्र तत्र श्रीकृष्णगोविन्दादिमुख्यतद्वैभवं योजितम् । अपानादीनां गौणत्वेन प्रद्युम्नत्वादिकं गौणमेवेति ज्ञेयम् ॥
ओ)०(ओ
(
८१)
ओमपानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥८१॥
श्रीजीवः (८४);
प्रबोधानन्दः (१०१)ः एवमोमपानात्मने नमः इत्यादि पूर्ववत्सुगमम् ।
(
८२)
ओं कृष्णाय रामाय प्रद्युम्नायानिरुद्धाय ।
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥८२॥
(
८३)
ओं व्यानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(
८४)
ओं श्रीकृष्णाय रामाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(
८५)
ओमुदानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(
८६)
ओं कृष्णाय देवकीनन्दनाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (८९);
प्रबोधानन्दः (१०७)ः
(
८७)
ओं समानात्मने
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (९०);
प्रबोधानन्दः (१०८)ः न कथमपि ।
(
८८)
ओं गोपालाय निजस्वरूपाय
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (९१);
प्रबोधानन्दः (१०९)ः निजरूपायेति गोपालत्वमेव निजरूपं बोधयति । अत एव ब्रह्मणा तदेव परमपुरुषत्वेन प्रार्थितम् ।
नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
वन्यस्रजे कवलवेत्रविषाणवेणु
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ [भ्P
१०.१४.१] इत्यादि ।
ओ)०(ओ
(
८९)
ओं योऽसौ प्रधानात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(
९०)
ओं योऽसाविन्द्रियात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(
९१)
ओं योऽसौ भूतात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (९४) प्रबोधानन्दः (११२)ः एवं योऽसौ प्रधानात्मेत्यादि । भूतात्मा महाभूतान्तर्यामी ॥
(
९२)
ओं योऽसावुत्तमपुरुषो गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (९५);
प्रबोधानन्दः (११३)ः उत्तमः पुरुषः शुद्धजीवादप्युत्तमः ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ [गीता १५.१७] श्रीगीतातः ।
ओ)०(ओ
(
९३)
ओं योऽसौ परं ब्रह्म गोपालः ओं तत्सद्भूर्भुवः स्वस्तस्मै वै प्राणात्मने नमो नमः ॥९३॥
श्रीजीवः (९६);
प्रबोधानन्दः (११४)ः
(
९४)
ओं योऽसौ सर्वभूतात्मा गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
(
९५)
ओं योऽसौ जाग्रत्स्वप्नसुसुप्तिमतीत्य तुर्यातीतो गोपालः
ओं तत्सद्भूर्भुवः स्वस्
तस्मै वै प्राणात्मने नमो नमः ॥
श्रीजीवः (९६);
प्रबोधानन्दः (११६)ः ब्रह्म निर्विशेषरूपः परं ब्रह्म सविशेषस्तत्प्रतिष्ठारूपः ब्रह्मणो हि प्रतिष्ठाहमित्यादि तद्गीतातः । सर्वभूतात्मा सर्वजीवान्तर्यामी । पृथक्पृथक्तत्तदधिष्ठाता तूर्यातीत इति ।
विरादिरण्यगर्भश्च कारणं चेत्युपाधयः ।
ईशस्य यत्त्रिभिर्हीनं तुरीयं तत्पदं विदुः ॥ [भावार्थदीप्. ११.१५.१६]
इत्युक्तं तुर्यं वासुदेवाख्यमपि अतीतः । अथ नारायणः सोऽहं गुरुस्त्वेवं विचिन्त्य इति ब्रह्माणमुपदिशति ॥११६॥
ओ)०(ओ
(
९६)
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥
विश्वेश्वरः (९६)ः नन्वेकस्य कथमनेकात्मत्वमित्याशङ्क्य तस्यैव तत्र प्रविष्टत्वादित्याह एको देव इति । एक एव सर्वभूतेषु गूढः अनुप्रविष्टः तत्सृष्ट्वा तदेवानुप्रविशतिति श्रुतेः । प्रदीपादिवद्देशान्तरादागत्य प्रवेशं वारयति सर्वव्यापीति । आकाशादितुल्यत्वं वारयति सर्वभूताधिवास इति । सर्वभूतानामधिवासोऽधिष्ठानं स एव कर्ता स एव च उपादानमित्यर्थः । परिणामितयोपादानत्वं वारयति कर्माध्यक्ष इति । कर्मफलदातेत्यर्थः । नैयायिकमतेश्वरतुल्यत्वं वारयति सर्वभूतेति । सर्वभूतानां शावकादीनामपि अन्तरात्मा इत्यर्थः । अविद्यातुल्यत्वं वारयति साक्षीति । ईक्षणमात्रेणैव कर्तेत्यर्थः । ज्ञानवत्वभ्रमं वारयति चेता इति । चित्स्वरूप इत्यर्थः । ननु ज्ङानस्वरूपश्चेदात्मा तदा ज्ञानस्य विषयसम्बन्धे सत्येवोदयान्मोक्षदशायामात्मरूपं चैतन्यं न स्यादित्याशङ्क्याह केवल इति । विषयादिभिरनपेक्षो नित्यचैतन्यात्मा इत्यर्थः । न चात्मनि सृष्ट्यादिशक्तीनां स्वाभाविकत्वं चेत्तदा मोक्षदशायामपि सृष्टेरपरिहार्यत्वादनिर्मोक्षप्रसङ्ग इत्याह निर्गुणश्चेति । स शब्दः सर्वविशेषणैः समुच्चयार्थः ।
ब्रह्मोपनिषद्योगी (६५)ः एकस्यैवं कथमनेकत्वं स्यादित्याशङ्क्य तस्यैव स्वाज्ञदृष्ट्या सर्वत्र प्रविष्टवत्भानादित्याह एक इति । अयं मन्त्रः श्वेताश्वतरोपनिषदि पदशो व्याख्यातः ।
श्रीजीवः (९९) प्रबोधानन्दः (११७)ः अथ श्रीनारायणः सोऽहं गुरुस्त्वेवं चिन्त्य इति ब्रह्माणमुपदिशति एक इति । एक एव सर्वभूतेषु गूढः अनुप्रविष्टोऽहम् । तत्सृष्ट्वा तदेवानुप्रविशत्[तैत्त्.उ. २.६.२] इति श्रुतेः । [J
] मुख्यं प्रवेशं वारयति सर्वव्यापीति । आकाशादितुल्यत्वं वारयति [B
ोथ्] सर्वभूतान्तरात्मेति । मीमांसकमतं वारयति कर्माध्यक्ष इति फलमत उपपत्तेर्[V
स्. ३.२.३९] इति न्यायेन । नैयायिकमतेश्वरतुल्यत्वं वारयति सर्वभूताधिवास इति । सर्वभूतानामधिवासोऽधिष्ठानं स एव कर्ता स एवोपादानमित्यर्थः । [J
] प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधाद्[V
स्. १.४.२४] इति न्यायेन । [B
ोथ्] परिणामितयोपादानत्वं वारयति साक्षीति निर्विकार इत्यर्थः । श्रुतेस्तु शब्दमूलत्वाद्[V
स्. २.१.२८] इति न्यायेन । चिद्रूपत्वेऽपि स्वस्य चिच्छक्तित्वं दर्शयति चेता इति । सर्वधातुभ्योऽसिरिति कर्तृप्रत्यायात। तादृशत्वं च ईक्षतेर्नाशब्दं [V
स्. १.१.५] इति न्यायेन । शक्तिमत्त्वस्य स्वाभाविकत्वं दर्शयति केवल इति प्रकाशाश्रयवद्वा तेजस्त्वात्[V
स्. ३.२.२९] इति न्यायेन ।
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ इति श्रुतेः ।
तस्याः शक्तेः स्वाभाविकत्वमेवोपपादयति निर्गुणश्चेति । गुणा अत्र सत्त्वादयस्तत्प्रेरकत्वादिति भावः ।
(
९७)
रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः । विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । ब्रह्मणे नमः । सर्वेभ्यो देवेभ्यो नमः ।
विश्वेश्वरः (९७)ः कथं रुद्रा यजन्तीत्यस्योत्तरमाह—
रुद्राय ईश्वराय इति मन्त्रेण एकादशरुद्रा यजन्तीत्यर्थः । मानवाः कथं यजन्तीत्यस्योत्तरमाह आदित्याय नमः इति । आदित्याय विष्णवे नमः । एवं सर्वत्र नमोऽनस्यैव मन्त्रत्वं बोध्यम् । कथं द्वादशादित्या यजन्तीत्यस्योत्तरमाह सूर्याय नम इति । सूते सर्वप्रपञ्चमिति सूर्यः ज्योतिःस्वरूपः परमात्मा इत्यर्थः । अनेन मन्त्रेणादित्या यजन्तीत्यर्थः । कथं देवा यजन्तीत्यस्योत्तरमाह इन्द्राय नमः । अग्नये नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । ब्रह्मणे नमः । सर्वेभ्यो देवेभ्यो नम इति । सर्वेभ्यो वसुगन्धर्वाप्सरः किन्नरप्रभृतिभ्यो नम इत्यर्थः ।
ब्रह्मोपनिषद्योगी (६६)ः कथं रुद्रा यजन्तीत्यस्योत्तरमाह—
रुद्रायेति । कृष्णाख्यं ब्रह्म स्वाज्ञदृष्ट्या स्वाविद्यापदतत्कार्यतत्प्रविभक्तद्वादशमूर्त्यात्मना स्थितं स्वाज्ञदृष्ट्या तत्सर्वापवादाधिकरणतया भातं परमार्थदृष्ट्या तु स्वाज्ञादिदृष्टिमोहे सत्यसति निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते इति फलितोऽर्थः ॥
श्रीजीवः (१००);
प्रबोधानन्दः (११८)ः अथ तद्विभूतिरपि नमस्यत्वेनोपदिशति रुद्रायेत्यादि पञ्चदशभिर्मन्त्रैः ॥
ओ)०(ओ
(
९८)
दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वभूतानामन्तर्धाने बभूव सः ॥
विश्वेश्वरः (९८)ः तदेवं ब्रह्मसंवादेन गान्धर्वीप्रश्नोत्तरं निरूप्याय कण्ठतो मुनिगान्धर्वीप्रश्नोत्तरमवतारयति—
दत्त्वा स्तुतिमिति । स विष्णुः स्वस्वरूपिणे स्वमूर्तये ब्रह्मणे पुण्यतमां प्रागुक्तं स्तुतिं दत्त्वा तथा सर्वलोकानां कर्तृत्वं कर्तृसामर्थ्यं ब्रह्मणे दत्त्वा अन्तर्धाने बभूव अदृश्यो बभूव ॥
ब्रह्मोपनिषद्योगी (६७)ः मुनिर्गान्धर्वीप्रश्नोत्तरमवतारयति—
दत्त्वेति । सोऽयं भगवान्नारायणो ब्रह्मणे स्वपुत्राय प्रागुक्तं पुण्यतमां स्तुतिं सर्वलोकसृष्टिकर्तृत्वं च दत्त्वा अन्तर्धाने अदृश्यो बभूव ॥
श्रीजीवः (१०१);
प्रबोधानन्दः (११९)ः उपसंहरति दत्त्वेति । तदेवं पुण्यतमां स्तुतिं सर्वभूतानां कर्तृत्वं च दत्त्वा अन्तर्हितवानित्यर्थः । स्वस्य स्वरूपमाविष्टतया विद्यते यस्मिन्तस्मै ॥
ओ)०(ओ
(
९९)
ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदाच्च यथाश्रुतम् ।
तथा प्रोक्तस्तु गान्धर्वि गच्छध्वं स्वालयान्तिकम् ॥ इति ॥
विश्वेश्वरः (९९)ः मया चेदं तत्सम्प्रदायो यथा श्रुतं युष्मान्प्रति तथा प्रोक्तमित्याह—
ब्रह्मणे ब्रह्मपुत्रेभ्य इति । हे गान्धर्वि मया इदं ब्रह्मपुत्रेभ्यो नारदात्यथा श्रुतं तथा मया युष्मान्प्रति प्रोक्तम् । हे गान्धर्वि सर्वा यूयं स्वालयान्तिकं स्वाश्रमदेशं प्रति गच्छध्वम् । आद्यं ब्रह्मणे इति पदं पूर्वश्लोके योजनम् । नारदाय इत्यत्र पञ्चम्याः सुपां सुलुगिति सूत्रेण डदेशः । आद्यं तथा इति पदं यथा इत्यर्थे ॥
भवसन्तापसन्तानशातिनी तापिनी श्रुतिः ।
तदर्थबोधिनी टीका जनार्दनविनिर्मिता ॥
ब्रह्मोपनिषद्योगी (६८)ः मया चेदं तत्सम्प्रदायतो यथा श्रुतं युष्मान्प्रति प्रोक्तमित्याह—
ब्रह्मणे इति । हे गान्धर्वि इदं शास्त्रमादौ नारायणेन स्वपुत्राय ब्रह्मण उक्तम् । ब्रह्मण तु स्वपुत्रेभ्यः सनकादिभ्यो नारदादिभ्यश्च प्रतिपादितम् । मयैतत्सनकादिभ्यो नारदाच्श्रुतं तथा मयेदं युष्मान्प्रति प्रोक्तम् । हे गान्धर्वीप्रमुखाः सर्वा यूयं स्वालयान्तिकं स्वाश्रयप्रदेशं प्रति गच्छध्वम् । इतिशब्दो गोपालोत्तरतापन्युपनिषत्समाप्त्यर्थः ॥
श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
गोपालतापनीव्याख्या लिखिता कृष्णगोचरा ॥
गोपालतापनीव्याख्या द्वाविंशाधिशतत्रयम् ॥
श्रीजीवः (१०२) प्रबोधानन्दः (१२०)ः अथ दुर्वासाः स्वोपदेशप्रामाण्याय स्वसम्प्रदायमाह—
ब्रह्मण इति । [J
] नारदेत्यकारान्तः पाठः पञ्चम्यां छान्दसः—
सुपां सुलुक्पूर्वसवर्णाच्छेषाडाड्याषाजालः [पाण् ७.१.३९] इति ड्यादेशः । आद्यं तथेति पदं यथेत्यर्थे उत्तरं तु स्वार्थे एवेति । [B
ोथ्] ब्रह्मणः सकाशाद्ब्रह्मपुत्रैः श्रुतं तेभ्यो नारदेन । तस्माच्च मया । मतश्च त्वयेत्यर्थः । स्वालयस्यान्तिकं,
न तु स्वालयमेवेति । श्रीकृष्णगोचारणप्रसङ्गे वनागमनमभिप्रेयते ॥
गान्धर्वीवरगान्धर्व गन्धबन्धुरशर्मणे ।
वृन्दावनावनीवृन्दनन्दिने नन्दतान्मनः ॥
[J
]
विश्वेश्वरकजनार्दनभट्टाभ्यां वैदिकाचार्याभ्याम् ।
तद्वत्प्रबोधयतिना लिखितं चित्रमत्र तारतम्येन ॥
श्रीसनातनरूपस्य चरणाब्जसुधेप्सुना ।
पूरिता टिप्पनी चेयं जीवेन सुखबोधिनी ॥
[P.
]
गोपालतापनी टीका प्रबोधस्वामिना कृता ।
रामभद्रपतेरेषा भक्तिमुक्तिप्रकाशिका ।
नारायण हरे राम कृष्ण विष्णो जनार्दन ।
गोविन्द माधवानन्त वासुदेव नमोऽस्तु ते ॥ श्रीकृष्ण ।
———– ———- ———— —————– ————–
गोपालतापनीयोपनिषत्
उत्तरतापनीय-टीका

गोविन्द माधवानन्त वासुदेव नमोऽस्तु ते ॥
॥ श्रीकृष्णार्पणमस्तु ॥
]