गायत्र्युपनिषत्

[[गायत्र्युपनिषत् Source: EB]]

[

गायत्र्युपनिषत् ।

ॐ भूमिरन्तरिक्ष द्यौरित्यष्टावक्षराणि ।

अष्टाक्षर ह वा एक गायत्र्यै पदमेतदु हास्या

एतत्स यावदेतेषु लोकेषु तावद्ध जयति ।

योऽस्या एतदेव पद वेद ऱृचो यजूषि सामानीत्यष्टाक्षर

ह वा एक गायत्र्यै पदमेतदु हास्या एतत्स यावतीय त्रयी विद्या

तावद्ध जयति ।

योऽस्या एतदेव पद वेद प्राणोऽपानो व्यान

इत्यष्टावक्षराण्यष्टाक्षर ह वा एक

गायत्र्यै पदमेतदु हास्या एतत्स यावदिद

प्राणिति तावद्ध जयति ।

योऽस्या एतदेव पद वेदाथास्या एतदेव तुरीय

दर्शित पद परोरजाय एष तपतीति यद्वै चतुर्थ तत्तुरीय

दर्शित पदमिति ददर्श इव ह्येष परोरजा

इति सर्वमु ह्येष रज उपर्युपरि तपत्येव ह वा एष

श्रिया यशसा तपति ।

योऽस्या एतदेव पद वेद सैषा गायत्री एतस्मिस्तुरीये

दर्शिते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठित

चक्षुर्हि वै सत्य तस्माद्यदिदानीं द्वौ विवदमानावेयाता

अहमद्राक्षमहमश्रौषमिति ।

य एव ब्रूयादहमद्राक्षमिति तस्या एव श्रद्धव्या

य एतद्वै तत् सत्य बले प्रतिष्ठित तस्मादाहुर्बलसत्यादौ

ज्ञेय एव वैषा गायत्र्यध्यात्म प्रतिष्ठिता सा हैषा

गायस्तते प्राणा वै गायास्तान् प्राणास्तते उद्यद्गायस्तते

तस्माद्गायत्री नाम स यावेमामूमत्वा हैषैवमास

यस्मा इत्याह तस्य प्रमाण त्रायते ता हैके सावित्री

मनुष्टुभमन्वाहुरनुष्टुभैतद्वाचमनुब्रूम

इति न तथा कुर्याद्गायत्रीमेवानुब्रूयाद्यदि ह वापि

बह्विव प्रतिग्ऱृह्णाति ।

इहेव तद्गायत्र्या एकचन पद प्रति य इमास्त्रीन् लोकान्

पूर्णान् प्रतिग्ऱृह्णीयात् सोऽस्या एतत्प्रथमपदमाप्नुयात्

अथ यावतीय त्रयी विद्या यस्तावत्प्रतिग्ऱृह्णीयात् सोऽस्या

एतद्द्वितीयमाप्नुयात् ।

अथ यावदिद प्राणिति यस्यावत् प्रतिग्ऱृह्णीयात् ।

तस्या उपस्थान गायत्र्यैकपदी द्विपदी त्रिपदीचतुष्पद्यपदा

सा न हि पद्यः यस्ते तुरीयायपदाय

दर्शिताय परोरजसे सावदोमिति समधीयीतन हैवास्मै

सकाम सम्ऱृद्ध्यते ।

यस्मा एवमुपतिष्ठते ह मद प्रापमिति एतद्धवै तज्जनको

वैदेहो वुरिलमाश्रितराश्विमुवाच ।

यत्तु होतर्गा कथ हलीभूतो वहसीति ।

मुख ह्यस्या ससभ्रम विदाचकारेति होवाच तस्या

अग्निरेव मुख यदिह वापि वह्निमानग्नावभ्यादधाति

सर्वमेतत्स हत्येवविद्यद्यपवह्नीव पाप करोति

सर्वमेवैतत्सम्यग्विशुद्धो यतोऽजरोऽमरः स भवतीति ॥

इति गायत्र्युपनिषत् समाप्ता ॥


]