एकाक्षरोपनिषत्

[[एकाक्षरोपनिषत् Source: EB]]

[

एकाक्षरोपनिषत् ।

एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।

सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥

ॐ सह नाववतु सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ

एकाक्षरं त्वक्षरेऽत्रास्ति सोमे

सुषम्नायां चेह दृढी स एकः ।

त्वं विश्वभूर्भूतपतिः पुराणः

पर्जन्य एको भुवनस्य गोप्ता ॥ १॥

विश्वे निमग्नपदवी_ कवीनां

त्वं जातवेदो भुवनस्य नाथः ।

अजातमग्रे स हिरण्यरेता

यज्ञैस्त्वमेवैकविभुः पुराणः ॥ २॥

प्राणः प्रसूतिर्भुवनस्य योनि

र्व्याप्तं त्वया एकपदेन विश्वम् ।

त्वं विश्वभूर्योनिपारः स्वगर्भे

कुमार एको विशिखः सुधन्वा ॥ ३॥

वितत्य बाणं तरुणार्कवर्णं

व्योमान्तरे भासि हिरण्यगर्भः ।

भासा त्वया व्योम्नि कृतः सुतार्क्ष्य

स्तवं वै कुमारस्त्वमरिश्ह्टनेमिः ॥ ४॥

त्वं वज्रभृद्भूतपतिस्त्वमेव ।

कामः प्रजानां निहितोऽसि सोमे ।

स्वाहा स्वधा यच्च वषट् करोति

रुद्रः पशूनां गुहयां निमग्नः ॥ ५॥

धाता विधाता पवनः सुपर्णो

विष्णुर्वराहो रजनी रहश्च ।

भूतं भविष्यत्प्रभवः क्रियाश्च ।

कालः क्रमस्त्वं परमाक्षरं च ॥ ६॥

ऋचो यजूंषि प्रसवन्ति वक्त्रा

त्सामानि सम्राड्वसुवन्तरिक्शम् ।

त्वं यज्ञनेता हुतभुग्विभुश्च

रुद्रास्तथा दैत्यगणा वसुश्च ॥ ७॥

स एष देवोऽम्बरगश्च चक्रे

अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः ।

हिरण्मयं यस्य विभाति सर्वं

व्योमान्तरे रश्मिमिवांशुनाभिः ॥ ८॥

स सर्ववेत्ता भुवनस्य गोप्ता

ताभिः प्रजानां निहिता जनानाम् ।

प्रोता त्वमोता विचितिः क्रमाणां

प्रजापतिश्चर्द्रमयो विगर्भः ॥ ९॥

सामैश्चिदन्तो विरजश्च बाहुउं

हिरण्मयं वेदविदां वरिश्ह्ठम् ।

यमध्वरे ब्रह्मविदः स्तुवन्ति

सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥ १०॥

त्वं स्त्री पुमांस्त्वं च कुमार एक

स्त्वं वै कुमारी ह्यथ भूस्त्वमेव ।

त्वमेव धाता वरुणश्च राजा

त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥ ११॥

मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्र

स्त्वष्टा विष्णुः सविता गोपतिस्त्वम् ।

त्वं विष्णुर्भूतानि तु त्रासि दैत्यां

स्त्वयावृतं जगदुद्भवगर्भः ॥ १२॥

त्वं भूर्भुवः स्वस्त्वं हि

स्वयंभूरथ विश्वतोमुखः ।

य एवं नित्यं वेदयते गुहाशयं

प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥ १३॥

हिरण्मयं बुद्धिमतां परां गतिं

स बुद्धिमान्बुद्धिमतिइत्य तिष्ठती इत्युपनिषत् ॥

ॐ सह नाववतु सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इत्येकाक्शरोपनिषत्समाप्ता ॥


]