दक्षिणामूर्त्युपनिषत्

[[दक्षिणामूर्त्युपनिषत् Source: EB]]

[

दक्षिणामूर्त्युपनिषत् ।

यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।

महामौनपदं याति स हि मे परमा गतिः ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता

महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो

मार्कण्डेयं चिर

~

जीविनमुपसमेत्य पप्रच्च्हुः केन त्वं

चिरं जीवसि केन वानन्दमनुभवसीति । परमरहस्यशिव

तत्त्वज्ञानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।

तत्र को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा ।

किं तज्ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः ।

किं तत्स्थानमिति । स होवाच । येन दक्षिणामुखः शिवोऽपरोक्षीकृतो

भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यः सर्वोपरमे काले

सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते

वा स देवः । अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधा

दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः । गायत्री च्हन्दः ।

देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः । ॐ आदौ नम उच्चार्य

ततो भगवते पदम् । दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ॥ १॥

अस्मच्च्हब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।

समुच्चार्य ततो वायुबीजं च्च्हं च ततः पठेत् ।

अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ २॥

ध्यानम् ॥

स्फटिकरजतवर्णं मौक्तिकीमक्षमाला

ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।

दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं

विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ३॥

मन्त्रेण न्यासः ।

आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।

पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।

अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ४॥

मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं

जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।

आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो

दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ ५॥

मन्त्रेण न्यासः ब्रह्मर्षिन्यासः

तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।

दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ६॥

ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।

मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ ७॥

भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला

वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।

व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः

सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ८॥

मन्त्रेण न्यासः ।

[

ब्रह्मर्षिन्यासः ।

]

तारं परं रमाबीजं वदेत्सांबशिवाय च ।

तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ ९॥

वीणां करैः पुस्तकमक्षमालां

बिभ्राणमभ्राभगलं वराढ्यम् ।

फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः

सेव्यं वटाधः कृतनीडमीडे ॥ १०॥

विष्णू ऋषिरनुष्टुप् च्हन्दः । देवता दक्षिणास्यः ।

मन्त्रेण न्यासः ।

तारं नमो भगवते तुभ्यं वटपदं ततः ।

मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ ११॥

प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् ।

दायिने पदमु

c

चार्य मायिने नम उद्धरेत् ॥ १२॥

वागीशाय ततः पश्चान्महाज्ञानपदं ततः ।

वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः ।

आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १३॥

ध्यानम् ।

मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं

मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।

अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं

न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १४॥

मौनमुद्रा ।

सोऽहमिति यावदास्थितिः सनिष्ठा भवति ।

तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ।

चित्ते तदेकतानता परिकरः । अङ्गचेष्टार्पणं बलिः ।

त्रीणि धामानि कालः । द्वादशान्तपदं स्थानमिति ।

ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।

कथं वाऽस्योदयः । किं स्वरूपम् । को वाऽस्योपासक इति ।

स होवाच ।

वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते ।

प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ १५॥

मोहान्धकारे निःसारे उदेति स्वयमेव हि ।

वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ १६॥

गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।

मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ १७॥

तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।

उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ १८॥

शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।

दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ १९॥

सर्गादिकाले भगवान्विरिञ्चि

रुपास्यैनं सर्गसामर्थ्यमाप्य ।

तुतोष चित्ते वाञ्च्हितार्थांश्च लब्ध्वा

धन्यः सोपास्योपासको भवति धाता ॥ २०॥

य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।

य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥


]