[[दत्तात्रेयोपनिषत् Source: EB]]
[
दत्तात्रेयोपनिषत् ।
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकारं दत्तात्रेयमुपास्महे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरण्गैस्तुष्टुवागंसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः । शान्तिः । शान्तिः ॥
हरिः ॐ ॥
प्रथमः खण्डः।
सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहि
भगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्विकं मामकं धामोपास्वेत्याह ।
सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति
नारायणेनैर्वं विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं
दत्तात्रेयं ध्यात्वा सद्वदति ।
दमिति हंसः । दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।
दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति । तदेवोपासितव्यं विङ्य़ेयं गर्भादितारणम् ।
गायत्री च्हन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
वटबीजस्थमिव दत्तबीजस्थं सर्वं जगत् ।
एतदेवैकाक्षरं व्याख्यातम् । व्याख्यास्ये षडक्षरम् । ओमिति
द्वितीयम् । ह्रीमिति तृतीयम् ।
क्लीमिति चतुर्थम् । ग्लौमिति प
J
ण्चमम् । द्रामिति षट्कम् ।
षडक्षरोऽयं भवति । योगानुभवो भवति ।
गायत्री च्हन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । द्रमित्युक्त्वा
द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः । दत्तात्रेयायेति
सत्यानन्दचिदात्मकम् । नम इति पूर्णानन्दकविग्रहम् ।
गायत्री च्हन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
दत्तात्रेयायेति कीलकम् । तदेव बीजम् ।
नमः शक्तिर्भवति । ओमिति प्रथमम् । आमिति द्वितीयम् । ह्रीमिति
तृतीयम् । क्रोमिति चतुर्थम् ।
एहीति तदेव वदेत् । दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं
द्वादशाक्षरः । जगती च्हन्दः । सदाशिव ऋषिः ।
दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः । संबुद्धिरिति
कीलकम् । द्रमिति हृदये । ह्रीं क्लीमिति शीर्षे ।
एहीति शिखायाम् । दत्तेति कवचे । आत्रेयेति चक्षुषि । स्वाहेत्यस्त्रे ।
तन्मयो भवति । य एवं वेद ।
षोडशाक्षरं व्याख्यास्ये । प्राणं देयम् । मानं देयम् ।
चक्षुर्देयम् । श्रोत्रं देयम् ।
षड्दशशिरश्च्हिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
अतिसेवापरभक्तगुणवच्च्हिष्याय वदेत् ।
ओमिति प्रथमं भवति । ऐमिति द्वितीयम् । क्रोमिति तृतीयम् । क्लीमिति
चतुर्थम् । क्लूमिति प
J
ण्चमम् । ह्रामिति षष्ठम् । ह्रीमिति
सप्तमम् । ह्रूमित्यष्टमम् । सौरिति नवमम् । दत्तात्रेयायेति
चतुर्दशम् । स्वाहेति षोडशम् ।
गायत्री च्हन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ॐ बीजम् ।
स्वाहा शक्तिः । चतुर्थ्यन्तं कीलकम् ।
ॐइति हृदये । क्लां क्लीं क्लूमिति शिखायाम् । सौरिति कवचे ।
चतुर्थ्यन्तं चक्षुषि । स्वाहेत्यस्त्रे।
यो नित्यमधीयानः सच्चिदानन्दसुखी मोक्षी भवति । सौरित्यन्ते
श्रीवैष्णव इत्युच्यते ।
तज्जापी विष्णुरूपी भवति । अनुष्टुप् च्हन्दो व्याख्यास्ये
,
सर्वत्र
संबुद्धिरिमानीत्युच्यन्ते ।
दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगंबर मुने बालपिशाच
ङ्य़ानसागर ॥ १॥ इत्युपनिषत् ।
अनुष्टुप् च्हन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता दत्तात्रेयेति
हृदये । हरे कृष्णेति शीर्षे ।
उन्मत्तानन्देति शिखायाम् । दायकमुन इति कवचे । दिगंबरेति
चक्षुषि । पिशाचङ्य़ानसागरेस्त्यस्त्रे ।
आनुष्टुभोऽयं मयाधीतः । अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।
सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥ १॥
॥ इति प्रथमः खंडः ॥ १॥
अथ द्वितीयः खण्डः।
ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय
महाभयनिवारणाय महाङ्य़ानप्रदाय चिदानन्दात्मने
बालोन्मत्तपिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफलप्रदाय ओमिति
व्याहरेत् ।
भवबन्धमोचनायेति ह्रीमिति व्याहरेत् । सकलविभूतिदायेति क्रोमिति
व्याहरेत् ।
साध्याकर्षणायेति सौरिति व्याहरेत् । सर्वमनःक्षोभणायेति श्रीमिति
व्याहरेत् । महोमिति व्याहरेत् ।
चिरंजीविने वषडिति व्याहरेत् । वशीकुरुवशीकुरु वौषडिति
व्याहरेत् ।
आकर्षयाकर्षय हुमिति व्याहरेत् । विद्वेषयविद्वेषय फडिति
व्याहरेत् ।
ठठेति व्याहरेत् । स्तंभय स्तंभय खखेति व्याहरेत् ।
उच्चाटयोच्चाटय ठठेति व्याहरेत् स्तंभयस्तंभय खखेति
व्याहरेत् मारयमारय नमः संपन्नाय नमः संपन्नाय स्वाहा
पोषयपोषय परमन्त्रपरयन्त्रपरतन्त्रांश्च्हिन्धिच्च्हिन्धि
ग्रहान्निवारयनिवारय व्याधीनिवारयनिवारय दुःखं हरयहरय
दारिद्र्यं विद्रावयविद्रावय देहं पोषयपोषय चित्तं
तोषयतोषयेति सर्वमन्त्रसर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति
। ॐ नमः शिवायेत्युपनिषत् ॥ २॥
॥ इति द्वितीयः खंडः ॥ २॥
अथ तृतीयः खण्डः
य एवंवेद । अनुष्टुप् च्हन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता
| ओमिति बीजम् | स्वाहेति शक्तिः |
द्रामिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा भवन्ति । यो नित्यमधीते
वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति । गायत्र्या
शतसहस्रं जप्तं भवति । महारुद्रशतसहस्रजापी भवति ।
प्रणवायुतकोटिजप्तो भवति । शतपूर्वा
J
ण्च्हतापरान्पुनाति । स
पण्क्तिपावनो भवति । ब्रह्महत्यादिपातकैर्मुक्तो भवति ।
गोहत्यादिपातकैर्मुक्तो भवति । तुलापुरुषादिदानैः प्रपापानतः पूतो
भवति । अशेषपापान्मुक्तो भवति ।
भक्ष्याभक्ष्यपापैर्मुक्तो भवति । सर्वमन्त्रयोगपारीणो भवति । स एव
ब्राह्मणो भवति ।
तस्माच्च्हिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते । स
जीवन्मुक्तो भवति । इत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥ ३॥
॥ इति तृतीयः खंडः ॥ ३॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरण्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्ष्यो।र् अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः । शान्तिः । शान्तिः ॥
हरिः ॐ तत्सत् ॥
॥ इति दत्तात्रेयोपनिषत्समाप्ता ॥
]