दशोपनिषत्

[[दशोपनिषत् Source: EB]]

[

[TABLE]

दश—उपनिषदः

श्री उपनिषद्ब्रह्मयोगिविरचितव्याख्यायुताः

प्रथमो भागः

अडयार्पुस्तकालयस्थपण्डितैः संपादिताः

चि—कुञ्जन् राजमहाशयैः प्रत्यवेक्षिताः

अडयार पुस्तकालयायें

प्रकटीकृताश्च

१९३५

ॐ नमो

ब्रह्मादिभ्यो

ब्रह्मविद्यासंप्रदायकर्तृभ्यो

वंशऋषिभ्यो

नमो गुरुभ्यः

DEDICATED TO

Brahma and the Rishis,

The Great Teachers

Who handed down Brahmavidya

through Generations

PREFACE

THE present volume contains the first eight of the ten Major Upaniṣads, namely, Īsa, Kena, Kaṭha, Prasna, Muṇḍaka, Māṇḍūkya, Taittirīya and Aitareya, along with the commentary of Upaniṣadbrahmayogin. In this series have already appeared the ninety-eight Minor Upaniṣads with the same commentary; there has also appeared another volume containing seventy-one more Upaniṣads, most of which have not till now been published. The commentary of the Upaniṣadbrahmayogin is the only commentary available for all the Minor Upaniṣads. For the ten Major Upaniṣads there are other commentaries. The present commentary follows more or less the Bhāṣya of Śankarācārya. Yet this is not a mere repetition of Śaṅkara’s Bhāṣya. In many places this commentary is more elaborate and as such it is sure to be useful for those who want to understand the Advaita interpretation of the Upaniṣads. The text followed in this edition is the usual text found in other ditions. But in the case of the Aitareyopaniṣad, Śaṅkarācārya comments on the text beginning with “ātmā vā idam eka evāgra āsīt”. This is the fourth chapter in the second Āraṇyaka of the Aitareyāraṇyaka

and Śaṅkarācārya comments on the fourth, fifth, sixth andseventh chapters of the second Āraṇyaka. Upaniṣadbrahmayogin comments from the first chapter of thesecond Āraṇyaka beginning with “eṣa panthā etatkarmaitat satyam”. Since the present commentaryfollows Śaṅkara, it lends itself to a conjecture thatŚaṅkara too had commented the text from the firstchapter.

The remaining two Upaniṣads, Chāndogya andBṛhadāraṇyaka will appear as the next volume in theseries.

C. KUNHAN RAJA

ADYAR LIBRARY
8th January, 1935

________

अस्मिन् सम्पुटे अन्तर्गतानामुपनिषदां सूची

उपनिषन्नाम ईशादिसंख्या
ईशावास्योपनिषत्
केनोपनिषत्
कठवल्ल्युपनिषत्
प्रश्नोपनिषत्
मुण्डकोपनिषत्
माण्डूक्योपनिषत्
तैत्तिरीयोपनिषत्
ऐतरेयोपनिषत्

विषयसूचिका

१. ईशावास्योपनिषत्

परिव्राजकस्य ज्ञाननिष्ठा
तदितरस्य कर्मनिष्ठा
काम्यंकर्मनिष्ठानिन्दा
आत्मतत्त्वस्वरूपम्
क्रियाशक्त्यास्पदम्
सर्वात्मभावनाप्रकारः
सर्वात्मभावनाफलम्
निष्प्रतियोगिकस्वात्ममात्रसिद्धयुपायः
ब्रह्मलोकगमनं तदुपदिष्टज्ञानफललाभश्च
विद्याकर्मणोरवान्तरफलभेदः
समुच्चयानुष्ठाने फलाधिक्यम्
विद्याविद्यानिन्दा
तयोः फलभेदः
सायुज्यहेतुः
आत्मनः प्राप्तिद्वारयाचनम्
मार्गान्तरयाचनम्

२. केनोपनिषत्

प्रथमः खण्डः

शिष्यप्रश्नः
तत्प्रश्नप्रतिवचनम्
निष्प्रतियोगिकब्रह्मप्रतिपादनम्

द्वितीयः खण्डः

शिष्यबुद्धिविचालनम्
अविचालितेन शिष्येण स्वानुभवोद्घोषणम्
आचार्यशिष्यसंवादानुवादः
ब्रह्मविद्याधिगमः परमपुरुषार्थहेतुः

तृतीयः खण्डः

शबलब्रह्मस्वरूपप्रकटनम्
देवगणमिथ्याभिमानप्रदर्शनम्

चतुर्थः खण्डः

इन्द्रोमयोर्यक्षेयत्ताप्रश्नप्रतिवचने
अग्न्यादीनां देवोत्तमताप्राप्तिः
ब्रह्मोपदेशप्रकारः
प्रत्यगभिन्नब्रह्मादेशः

३. कठवल्ल्युपनिषत्

प्रथमा वल्ली

वाजश्रवसनचिकेतसोः संवादः
मृत्यवे तत्संबन्धिनामनुबोधनम्
नचिकेतसे वरत्रयप्रदानप्रतिज्ञा
नचिकेतसः प्रथमवरः
द्वितीयवरप्रार्थनं तत्प्रदानं च
तृतीयवरेणात्मोपदेशप्रार्थना
मृत्योस्तद्वरत्यागप्रार्थनम्
तस्यैव वरस्य नचिकेतसो निर्बन्धः
नचिकेतसः प्रलोभनम्
नचिकेतसा आत्मोपदेशस्यैव वरणम्

द्वितीया वल्ली

श्रेयः प्रेयोविभागः
नचिकेतसः प्रशंसा
अज्ञानिनां निन्दा
आत्मविद्याप्रशंसा नचिकेतसः स्तवश्च
धर्माधर्मरहितस्यात्मनः प्रश्नः
तस्यैवोपदेशः
ओङ्कारप्रशंसा
आत्मनो नित्यत्वम्
तस्यैव सूक्ष्मत्वविभुत्वदुर्ज्ञेयत्वानि
आत्मज्ञानप्रशंसा
आत्मज्ञानोपायः
ब्रह्मण आत्माभेदः

तृतीया वल्ली

जीवब्रह्मयाथात्म्यज्ञानम्
आत्मनो रथिरूपेण निरूपणम्
विज्ञाज्ञयोरिन्द्रियजयाजयौ
तयोर्ब्रह्मणः प्राप्तिरप्राप्तिश्च
पुरुषस्य सर्वेभ्यः परत्वम्
आत्मनः सूक्ष्मधीवेद्यत्वम्
धियः सूक्ष्मतापादनोपायः
निर्गुणब्रह्मणो दुरधिगमत्वम्
फलश्रुतिः
तस्यैव श्राद्धकाले श्रावणम्

चतुर्थी वल्ली

विज्ञाज्ञयोर्विषयप्रवणत्वाप्रवणत्वे
आत्मनः स्वप्रकाशत्वं ब्रह्माभेदश्च
जीवब्रह्माभेदज्ञानेन कृतार्थता
हिरण्यगर्भस्य ब्रह्माभेदः
तद्विद्याया ब्रह्मयाथात्म्यम्
विराडरूपेण ध्येयस्याग्नेर्ब्रह्मरूपत्वम्
ब्रह्मणः सूर्यादिजगदधिष्ठानत्वम्
अध्यात्माधिदैवयोश्चेतनस्याभेदः
निर्गुणब्रह्मणो मनोगम्यत्वम्
आत्मनो ब्रह्माभेदः
भेदाभेददर्शनयोः फलभेदः

पश्चमी वल्ली

शरीरस्य पुरत्वं आत्मनस्तत्स्वामित्वं च
ब्रह्मणः समष्टिव्यष्ट्यधिष्ठानत्वम्
आत्मन इन्द्रियोपास्यत्वम्
शरीरादिविविक्तस्यात्मनो ब्रह्माभेदः
आत्मनः प्राणादिजीवनहेतुत्वम्
आत्मज्ञानान्मुक्तिः तदज्ञानाद्वन्धश्च
स्वप्नद्रष्टुः सर्वाधिष्ठानब्रह्माभेदः
ब्रह्मणो जीवरूपत्वं असङ्गत्वं च
आत्मनो ब्रह्माभेदज्ञानान्मुक्तिः
ब्रह्मणः सुखरूपत्वं चिद्रूपत्वं च

षष्ठी वल्ली

ब्रह्मणः संसारमूलत्वम्
ब्रह्मणोऽग्न्यादिप्रवृत्तिः
ब्रह्मज्ञानान्मुक्तिः तदज्ञानाद्बन्धश्च
लोकान्तरेभ्य इहैवात्मज्ञाने विशेषः
इन्द्रियेभ्य आत्मनो विवेचनम्
इन्द्रियादीनामात्मनः प्रत्यग्रूपता
ब्रह्मणो मनोमात्रगम्यत्वम्
विषयादिव्यावृत्तमनसो ब्रह्मणि स्थिरता
ब्रह्मणः सद्रूपत्वम्
ब्रह्मज्ञानात् सर्वकामलयः
ज्ञानिनः काममूलानां विनाशः
ब्रह्मोपासकस्य शरीरादुत्क्रमणमार्गः
आत्मनः शुद्धब्रह्मरूपता
विषयसंग्रहेणाख्यायिकासमाप्तिः

४. प्रश्नोपनिषत्

प्रथमः प्रश्नः

सुकेशादीनां प्रश्नः
पिप्पलादस्य प्रतिवचनम्
कबन्धिनः प्रश्नः
पिप्पलादस्य प्रतिवचनम्
मायाशबले मिथुनत्वोपपादनम्
प्राणस्यात्तृत्वं तदतिरिक्तस्याद्यत्वं च
अग्निप्राणयोर्विश्वरूपत्वं मन्त्रसम्मतिश्च .
मिथुनस्य प्रजास्त्रष्टृत्वं पितृयाणमार्गश्च
सगुणविद्यावतामर्चिरादिप्राप्ति
सगुणब्रह्मणो लोकाधारत्वम्
संवत्सरात्मनः प्रजापतेर्मासेषु समाप्तिः
मासात्मनोऽहोरात्रे परिसमाप्तिः
अहोरात्रात्मनः प्रजापतेरन्नरूपत्वम्
प्रजापतिव्रताचरणफलम्
वनस्थानां यतीनां च ब्रह्मलोकप्राप्तिः

द्वितीयः प्रश्नः

वैदर्भेः प्रश्नः
पिप्पलादस्य प्रतिवचनम्
वाय्वादीनां वरिष्ठत्वाभिमाने मुख्यप्राणोक्तिः
अश्रद्धधानानां वाय्वादीनां श्रद्धोत्पादनम्
प्राणस्य श्रेष्ठत्वोपपादनश्रुतिः

तृतीयः प्रश्नः

आश्वलायनस्य प्राणविषयो विशेषप्रश्नः
आश्वलायनप्रशंसापूर्वकमात्मनः प्राणोत्पत्तिकथनम्
प्राणस्यात्मविभागेन शरीरे सन्निधानम्
प्राणस्य व्यानात्मना सर्वशरीरव्याप्तिः
उदानात्मना प्राणस्योत्क्रमणम्
प्राणस्याधिदैवमध्यात्मं च
उदानस्योत्क्रमणहेतुत्वम्
प्राणविद्याफलश्रुतिः

चतुर्थः प्रश्नः

ब्रह्मबुभुत्सया गार्ग्यस्य प्रश्नः
ब्रह्मणः सर्वप्रतिष्ठास्पदत्वम्
प्राणादीनामाहवनीयत्वादिनिरूपणम्
मनसो यजमानत्वमुदानेन ब्रह्मप्रापणं च
स्वप्नद्रष्टृनिरूपणम्
सुषुप्तिसुखनिरूपणम्
सुषुप्तावात्मनः सर्वप्रतिष्ठास्पदत्वम्
आत्मनः सर्वप्रतिष्ठात्वविवरणम्
विज्ञानात्मनः परमात्मनैकीभावः
सर्वाधारस्य परमात्मनो ज्ञानफलं मन्त्रसम्मतिश्च

पञ्चमः प्रश्नः

सत्यकामस्योङ्कारोपासनाप्रश्नः
परापरब्रह्मदृष्ट्या ओङ्कारोपासनाफलम्
एकमात्रोङ्कारोपासनाफलम्
द्विमात्रोङ्कारध्यानफलम्
त्रिमात्रोङ्कारध्यांनफलं ऋक्सम्मतिश्च

षष्ठः प्रश्नः

निष्कलब्रह्मबुभुत्सया भारद्वाजस्य प्रश्नः
पिप्पलादस्य प्रतिवचनम्
ब्रह्मबोधनाय कलानामध्यारोपः
आरोपितकलानां पुरुषात्मता
निर्गुणज्ञानफलं ऋक्सम्मतिश्च
वक्तव्यार्थपरिसमाप्तिः
आचार्यपूजनम्

.मुण्डकोपनिषत्

प्रथममुण्डके प्रथमः खण्डः

विद्यास्तुतये विशिष्टगुरुपरम्परा
ब्रह्मविद्याधिगमाय शौनकप्रश्नः
अङ्गिरसो विद्योपदेशः
परापरविद्याविभागः
ब्रह्मणस्तटस्थलक्षणम्

प्रथममुण्डके द्वितीयः खण्डः

अपरविद्यायाः प्रशंसा
अग्नावाहुतेः कर्तव्यताप्रकारः
अग्निहोत्राकरणनिन्दा
सप्तानामर्चिषां निरूपणम्
अग्निहोत्राहुतीनां फलम्
कर्मणां श्रेयोमूलत्वाभावः
अविद्वन्निन्दा
कर्मिणां यातायातक्लेशः
उपासकानां ब्रह्मलोकप्राप्तिः
कर्मफलेभ्यो निर्विण्णस्य गुरूपसदनम् .
विधिवदुपसन्नाय विद्योपदेशः

द्वितीयमुण्डके प्रथमः खण्डः

ब्रह्मणस्तटस्थलक्षणविवरणम्
ब्रह्मणोऽसङ्गत्वम्
ब्रह्मनिरूपणाय सप्तभिरध्यारोपः
अपवादेन ब्रह्मबोधनम्

द्वितीयमुण्डके द्वितीयः खण्डः

ब्रह्मणः प्रत्यगभिन्नत्वम्
ब्रह्मणः सूक्ष्मत्वादिकम्
ब्रह्मजिज्ञासोर्धानुष्कस्येवैकाग्रता
जगदधिष्ठानस्य केवलस्य वेद्यत्वम्
अरनाभिदृष्टान्तेन ब्रह्मणः सर्वाधारत्वम्
ब्रह्मणः साक्षात्कारानुगुणं स्थानम्
ब्रह्मज्ञाने कृतकृत्यता
ज्ञेयस्य ब्रह्मणः स्वरूपनिरूपणम्
ब्रह्मणः स्वप्रकाशत्वम्
विश्वमिध्यात्वम्

तृतीयमुण्डके प्रथमः खण्डः

जीवेशयोर्वैलक्षण्यम्
जीवस्य ब्रह्मज्ञानाद्ब्रह्मत्वम्
जीवस्य ब्रह्मात्मत्वविवरणम्
ब्रह्मात्मज्ञानिनः स्तुतिः
ब्रह्मज्ञानसाधनकथनम्
सत्यस्य स्तवः
ब्रह्मणो विज्ञाज्ञभेदेन नेदिष्ठतादवीयस्ते
ब्रह्मणः शुद्धसत्त्वमात्रगोचरता
तस्यैव प्रपञ्चः
ब्रह्मज्ञानिनः सर्वकामाप्त्या स्तवः

तृतीयमुण्डके द्वितीयः खण्डः

परब्रह्मज्ञानिनोऽमृतत्वम्
सकामस्योपासकस्य निष्कामस्य च व्यतिरेकः
ब्रह्मभावमीहमानस्यैव ब्रह्मप्राप्तिः
विवेकवैराग्यमूलसंन्यासेन ब्रह्मप्राप्तिः
ब्रह्मज्ञानिनः सर्वात्मता
ब्रह्मज्ञानेन प्रपञ्चबाधे मुक्तिः
ज्ञानिनो देहादेर्ब्रह्मात्मता
सदृष्टान्तं नामरूपप्रहाणेन ब्रह्मावाप्तिः
ब्रह्मविद्याफलश्रुतिः
ब्रह्मविद्योपदेशप्रकारे ऋक्सम्मतिः
यथोक्ताधिकारिभिन्नस्यानर्हत्वमाचार्यपूजनं च

माण्डूक्योपनिषत्

आगमप्रकरणम्

ओङ्कारस्य सर्वाधारत्वं चतुष्पात्वं च
तस्य प्रथमपादस्वरूपम्
तस्य द्वितीयपादस्वरूपम्
तस्य तृतीयपादस्वरूपम्
स. एव सर्वेश्वरः
तस्यैव विश्वादिभेदेन त्रेधा स्थितत्वम्
अवस्थात्रयानुभवः
विश्वादेः स्थूलादिभुक्त्वं तृप्तिश्च
एतद्भोगज्ञानफलम्
तस्यैव सर्वकारणत्वम्
सृष्टिविकल्पः
देवस्वभाव एव सृष्टिः
तस्य तुरीयपादस्वरूपम्
तुर्यतुरीयलक्षणम्
विश्वादीनां याथात्म्यम्
तुर्यस्य भावाभावप्रकाशकत्वम्
तुरीयस्य न कारणबद्धत्वम्
तस्यैव विवृतिः
तुरीयप्राप्तिः
अद्वैतबोधः
तस्यैव परमार्थत्वम
अद्वैतज्ञाने सति द्वैतस्याभावः
ओङ्कारविवरणम्
अकारमात्रास्वरूपम्
उकारस्वरूपम्
मकारस्वरूपम्
विश्वादीनामोङ्कारावयवत्वम्
एतज्ज्ञानफलम्
अकारादीनां विश्वादिनेतृत्वम्
तुरीय ओङ्कार आत्मैव
प्रणवोपासनाफलम्
प्रणवस्य बहुधा भानम्
उपासकस्य तद्भावापत्तिः
तद्रूपेश्वरज्ञानाच्छोकनिवृत्तिः
प्रणवयाथात्म्यज्ञानफलम्

वैतथ्यप्रकरणम्

स्वप्नप्रपञ्चस्य वैतथ्यम्
तद्वज्जाग्रत्यपि भावानां वैतथ्यम्
जाग्रत्स्वप्नयोरेकत्वम्
स्थानद्वयस्थभावानां वैतथ्यम्
जाग्रद्भावानामपि मिथ्यात्वम्
स्वप्नदृष्टान्तस्य सद्भावः
जाग्रद्भेदानां स्वप्नतुल्यता
तद्भेदज्ञानस्य विकल्पः
आत्मन एव तद्भेदज्ञानम्
आत्मनस्तद्भेदकल्पनम्
स्वान्तर्बाह्यभावानामपि कल्पितत्वम्
व्यक्ताव्यक्तभेदेन भावानां कल्पितत्वम्
कल्पनामूलनिरूपणम्
आत्मविकल्पनम्
विकल्पनिवृत्तिप्रदर्शनम्
विकल्पानां मायामूलत्वम्
प्राणादिविकल्पानां प्रकारः
भावानां शिष्यरक्षकत्वम्
आत्मज्ञानफलम्
प्रपञ्चस्यासत्त्वं ब्रह्मणः सत्त्वं च
परमार्थदशाप्रपञ्चनम्
सम्यक् परमार्थदर्शनम्
स्वाज्ञानात्संसारोपरतेरभावः
यतिचर्यानुक्रमः
मुनेर्ब्रह्ममात्रतयावस्थितिः
ब्रह्मातिरिक्ततत्त्वम्
प्रकरणार्थोपसंहारः

अद्वैतप्रकरणम्

ब्रह्मनिरूपणम्
जातिनिदर्शनम्
र्जीवानां सुखादिसंबन्धाभावः
आकाशवज्जीवेषु भेदाभावः
आत्मनो जीवस्य चाभेदः
आत्मनोऽविलक्षणत्वम्
देहादीनां स्वाविद्याकृतत्वम्
आत्मतत्त्वस्य श्रुतिप्रामाण्यम्
मधुब्राह्मणविवरणम्
व्यष्टिसमष्टीशयोरैक्यम्
गौणमुख्याभ्यां जीवात्मनोरभेदः
उपासनायाः कल्पनाप्रकारः
परमार्थदर्शिनो विरोधाभावः
द्वैताद्वैतविवरणम्
आत्मतत्त्वस्य परमार्थतोऽभेदः
आत्मनः स्वभाववैपरीत्याभावः
प्रकृतेर्नान्यथाभावः
आत्मजातिपक्षे मोक्षाभावः
सृष्टिश्रुतेर्निश्चितत्वम्
ब्रह्मणो माययैव जायमानत्वम्
कार्यकारणकलनाविरलं ब्रह्म
ब्रह्ममात्रावगतेः दुर्बोधत्वम्
सतोऽजायमानत्वादि
मनस्स्पन्दनमेव जाग्रदादिहेतुः
स्वतो मनसोऽस्पन्दः
प्रपञ्चस्य भावाभावयोर्मनः कृतत्वम्
मनसो ह्यमनीभावः
ब्रह्मबोधनप्रकारः
सुषुप्तिसमाध्योर्वैलक्षण्यं प्रचारभेदश्च
अजस्वरूपनिरूपणम्
अनामकत्वे हेतुनिरूपणम्
समाधिशब्दार्थविवरणम्
अस्पर्शयोगस्वरूपम्
मोक्षस्य मनोनिग्रहायत्तता
सामान्यानां मनोनिग्रहस्यासाध्यत्वम्
मनोनिग्रहोपायः
निगृहीतमनसः सुखास्वादनाभावः
लयविक्षेपविरलंस्य चित्तस्यैवं ब्रह्मत्वम्
ब्रह्म सुखस्वरूपम्
ब्रह्मसंपत्तिः

अलातशान्तिप्रकरणम्

आचार्यवन्दनम्
भूताभूतजातिवादः
अजातिख्यापनम्
अजात्यनुमोदनम्
मर्त्यामृतनिरूपणम्
प्रकृतिलक्षणम्
देहादावात्मबुद्धिनिरसनम्
सज्जातिवादिपक्षे ब्रह्मणो नाजत्वम्
तत्र दृष्टान्तदुर्लभत्वम्
कार्यकारणकलऩाक्षेपः
कार्यात्कारणोत्पत्तिविडम्बना
हेतुफलयोः कार्यकारणभावे क्रमापेक्षा .
हेतुफलयोः कस्य पूर्वनिष्पन्नत्वम्
अजातिप्रकाशनम्
साध्यसमस्य हेतोरसाधुत्वम्
अजातिसाधनप्रकारः
कस्याप्यजातत्वेनाजातिसिद्धिः
हेतुफलानादित्वे जातिप्रकाशनम्
परतन्त्रास्तित्वप्रकारः
सन्निमित्तोक्तिनिराकरणम् .
चित्तातिरिक्तस्याभावः
चित्तस्वभावकथनम्
विज्ञानवादिपक्षप्रतिषेधनम्
प्रकृतेरन्यथाभावाभावकथनम्
बन्धमोक्षयोः परमार्थत्वाभावः
संसारमोक्षयोरभावः
जाग्रजाग्रदादिकलनाया अवस्तुत्वम्
ब्रह्मणः स्वमात्रत्वेनावशेषः
जाग्रद्दृश्यवस्तूनामसत्त्वम्
जागरितस्याप्यसत्त्वम्
जागरितस्य स्वनहेतुत्वम्
सदसतोर्मिथो हेतुत्वाभावः
असज्जाग्रत्स्वप्रयोः कार्यकारणताभावः
अजातिभीरूणां जातिदर्शनम्
अजातिभीरूणां परमार्थतः च्युतिः
उपलम्भादिना स्वातिरिक्तस्यास्तित्वम्
परमार्थसद्वस्तुस्वरूपम्
चित्तं न जायत इति ज्ञानफलम्
अचलविज्ञानस्य स्पन्दनाभावः
स्पन्दनाभासे निराभासत्वम्
अलातवद्विज्ञानमात्रे जात्यादिबुद्धिर्मृषैव
आत्मनः कार्यकारणवैकल्यम्
हेतुफलावेशयोः बन्धमोक्षत्वम्
हेतुफलयोः संसारायत्तता
सर्वस्याप्यविद्यया जायमानत्वम्
मायाया अविद्यमानत्वम् .
परमार्थतो धर्माणां जन्मनाशाभावः
आत्ममात्रे नित्यानित्यविवेकाभावः
आत्मनो वागाद्यपह्नवसिद्धत्वम्
स्वप्नजाग्रद्भावानां कल्पितत्वम्
जीवचित्तयोः परस्परसापेक्षत्वाभावः
जीवानां चित्तविकल्पनामात्रत्वम्
जीवस्याजत्वप्रकटनम्
चित्तस्यासङ्गत्वम्
अज इति कल्पनाया असत्यत्वम्
असल्लौकिकादेरभिनिवेशस्थानाभावः
हेत्वभावे फलाभावः
चित्तस्याजातिकथनम्
समभावानां जातिज्ञानफलम्
वस्त्वभावज्ञानेन निस्सङ्गनिवृत्तिः
निवृत्तस्वातिरिक्तानां स्थितिः
बुद्धानां विषयः
सर्वैर्ब्रह्मणोऽगृह्यमाणत्वम्
विविधग्रहाणामात्मावरणत्वम्
परमार्थपण्डितलक्षणम्
पण्डितेन कांक्षणीयकथनम्
विदुषा शमप्राप्तिः
स्वाज्ञस्वज्ञदृष्टिस्थितिः
परमार्थदृष्टिस्वरूपम्
एतज्ज्ञानफलम्
सत्त्वस्यैव ज्ञेयत्वम्
सर्वधर्माणां नानात्वाभावः
सर्वधर्मपरिज्ञानफलम्
शान्तेः कर्तव्यताभावः
कृपणलक्षणम्
कृपणैः परमार्थतत्त्वस्यागम्यमानत्वम्
ज्ञानस्यासङ्गत्वम्
आवरणच्युतेरभावः
धर्मस्वरूपम्
अद्वैतप्रशंसा
परमार्थतत्त्वबोधो नमस्कारश्च

तैत्तिरीयोपनिषत्

शीक्षावल्ली

प्रथमोऽनुवाकः

मङ्गलाचारः शान्तिपाठः

द्वितीयोऽनुवाकः

वर्णस्वरादिशिक्षणम्

तृतीयोऽनुवाकः

अधिलोकादिस्वरूपं तज्ज्ञानफलं च

चतुर्थोऽनुवाकः

मेघाश्रीकामजपहोमौ

पञ्चमोऽनुवाकः

स्वाराज्यफलकोपासनम्

षष्ठोऽनुवाकः

सर्वत्मभावप्रतिपत्तिर्गकथनम्

सप्तमोऽनुवाकः

ब्रह्मणः पाङ्क्तस्वरूपेणोपासनाविधिः

अष्टमोऽनुवाकः

ओङ्कारोपासनम्

नवमोऽनुवाकः

अपरविद्योपासनम्

दशमोऽनुवाकः

परविद्योपासनम्

एकादशोऽनुवाकः

ज्ञानोत्पत्त्यर्थनियमानुशासनम्

द्वादशोऽनुवाकः

विघ्ननिरासाय शान्तिपाठः

ब्रह्मानन्दवल्ली

प्रथमोऽनुवाकः

शिष्यप्रार्थनम्
ब्रह्मणः सृष्टिक्रमः

द्वितीयोऽनुवाकः

अन्नब्रह्मोपासनम्

तृतीयोऽनुवाकः

प्राणमयमनोमयकोशविवरणम्

चतुर्थोऽनुवाकः

विज्ञानमयकोशविवरणम्

पञ्चमोऽनुवाकः

आनन्दमयकोशविवरणम्

षष्ठोऽनुवाकः

ब्रह्मणो जगत्सृष्टिस्तदनुप्रवेशश्च

सप्तमोऽनुवाकः

ब्रह्मयाथात्म्यज्ञानम्

अष्टमोऽनुवाकः

आनन्दस्य मीमांसा तत्फलं च

नवमोऽनुवाकः

उक्तार्थसंक्षेपः

भृगुवल्ली

प्रथमोऽनुवाकः

ब्रह्मणस्तटस्थलक्षणम्

द्वितीयोऽनुवाकः

अन्नब्रह्मविज्ञानम्

तृतीयचतुर्थपञ्चमानुवाकाः

प्राणादिब्रह्मविज्ञानम्

षष्ठोऽनुवाकः

भार्गवीवारुणीविद्यावगतिफलम्

सप्तमोऽनुवाकः

ब्रह्मविज्ञानद्वारकान्नप्रशंसा

अष्टमनवमानुवाको

अन्नस्य कदापि परिहरणाभावः

दशमोऽनुवाकः

ब्रह्मोपासनाप्रकारभेदः

८. ऐतरेयोपनिषत्

प्रथमोऽध्यायः

ब्रह्मप्रापकमार्गकथनम्
महदुक्थस्य ज्ञानसमुच्चितकर्मत्वम्
हिरण्मयपुरुषलक्षणम्
हिरण्मयपुरुषस्य ब्रह्मेन्द्रप्राणादिवाच्यत्वम्
तस्य वागादिस्तुतिः
प्राणस्य विभूत्यन्तराभिधानम्
ज्ञानकर्मभ्यां पुरुषस्य सर्वसृष्टिः
सर्वसृष्टेर्मूलनिर्धारणम्

द्वितीयोऽध्यायः

प्राणसम्पत्त्या सर्वसंपन्नत्वम्
प्राणस्य सर्वात्मकत्वम्
बृहतीसहस्रसंपत्त्या पुरुषनिर्वर्त्यकर्मसंपत्तिः
प्राणव्यञ्जनसंपत्प्रदर्शनम् .

तृतीयोऽध्यायः

उक्थस्य पञ्चविधगुणविशेषसंबन्धः
पुरुषस्य ज्ञानादेव कर्तव्यत्वम्
पुरुषस्य सर्वकर्मफलप्राप्त्युपायः
पुरुषबुद्धिप्ररोचनाय यज्ञस्तवः
सर्वात्मना बृहतीसहस्रस्तुतिः
बृहतीसहस्रसंपत्त्या सर्वसंपत्तिः
प्राणात्मवेदनफलम्
एवंविदुषः सर्वत्र संचारः

चतुर्थोऽध्यायः

अकर्मिण आत्मयाथात्म्यावगतिः
अन्नान्नादशक्तिसृष्टिः
अन्नसृष्टया लोकार्तिमोचनम्

पञ्चमोऽध्यायः

आत्मोत्पत्तिः कैवल्यस्वरूपं च

षष्ठोऽध्यायः

ब्रह्मयाथात्म्यविचारः

सप्तमोऽध्यायः

परापरविद्याप्रात्यन्तरायनिवर्तकशान्तिपाठः

__________

नामधेयपदसूची
विशेषपदसूची

ईशावास्योपनिषत्

पूर्णमदः—इति शान्तिः

परिव्राजकस्य ज्ञाननिष्ठा

ॐ ईशावास्यमिदँसर्वं यत्किंच जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥

उपनिषद्ब्रह्मयोगिविरचितं विवरणम्।

ॐ श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः।

ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम्।
त्रैपदानन्दसाम्राज्यं कलये स्वावशेषतः॥१॥

नत्वा त्रिपाद्गुरुं सद्यः कैवल्यानन्दमिच्छताम्।
ईशाद्यष्टोत्तरशतवेदान्तार्थो निगद्यते॥२॥

लीलाविभूतिनिःश्वासनिगमान्तार्थसञ्चयम्।
लीलया लीलाविभूतिरेव जानाति तत्त्वतः॥३॥

कृत्वा मां लेखकं लीलाभूते मय्यनुकम्पया।
ईशाद्यष्टोत्तरशतवेदान्तार्थं स्फुटीकुरु॥४॥

ह खलु निर्हेतुजातकरुणया स्वाविद्यापदगाण्डाल्यलङ्कारप्राणिपटलस्वपदप्रापकहेतुपरमदयाकलेबरेयं भगवती लीलाविभूतिः मोहभूतिपटलनवांशान्

बौद्धमीमांसकद्वैन्यादिमतनैरपेक्ष्येण तत्तन्मतगतहेयांशापह्नवसिद्धनिष्प्रतियोगिक-ब्रह्ममात्रावस्थानलक्षणविकलेवग्कैवल्यसत्रभाजनं करवाणीति प्रतिज्ञापूर्वकं “स यथार्द्रैधाग्नेरभ्याहितस्य पृथक् धूमा विनिश्चरन्ति एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेवैतद्यदृग्वेदा यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राणि अनुव्याख्यानानि व्याख्यानानि इष्टं हुतमाशितं पायितं अयं च लोकः परश्च लोकः सर्वाणि च भूतानि अस्यैवैतानि सर्वाणि निःश्वसितानि ”इति श्रन्यनुगंधेन स्वनिःश्वासवदप्रयत्नाविर्भूतऋग्यजुस्सामाथर्वणविभक्ताशीत्यधिकशतोत्तरसहस्रशाखामस्तकपटलसारभूतेशाद्यष्टोत्तरशतसारसंग्रहायमाणमहावाक्यरत्नावलीप्रभालोचनादिपरमाद्वैतशास्त्रं प्रक-टयामास। तत्पुरस्तादेव ब्रह्मप्रणवत्रिपात्तत्त्वविवेकादिप्रकरणजातं च तत्र प्रतिप्रकरणं निष्प्रतियोगिकब्रह्ममात्रसिद्धान्तस्य प्रकटितत्वात् तेनैव कैवल्यसिद्धेः न पुनर्वक्तव्यमवशिष्यते। तथापि ईशाद्यष्टोत्तरशतवेदान्तजातस्य क्रमशो न व्याख्यातत्वादिति मनीषया असल्लौकिकाद्यष्टदृष्टिष्वन्त्यदृष्ट्यारूढानां असल्लौकिकाद्यष्टदृष्टिगतहेयांशापह्नवसिद्धनिष्प्रति-योगिकब्रह्ममात्त्रावस्थानलक्षणविकलेबरकैवल्यप्रापकं अनुबन्धचतुष्टयगर्भितं ईशाद्यष्टोत्तरशतवेदान्तविवरणमुखेन परमाद्वैतशास्त्रं प्रतिजानीते।ईशादिप्रत्युपनिषदं एकप्रयोजनरतत्वेन तत्साधनीभूताशेषार्थावभासकत्वेन च सर्वतोमुखतात्पर्यमण्डितत्वात् सर्वासामपि शास्त्रत्वं युज्यते।

एकप्रयोजनरतमशेषार्थावभासकम्।
सर्वतोमुखतात्पर्यमण्डितं शास्त्रमुच्यते॥

इतिस्मृतेः।

यद्वा— ईशादिमुक्तिकान्तविशिष्टं शास्त्रम्। प्रातिस्विकेन ईशादयः प्रकरणानि। तासां पृथक् प्रकरणलक्षणस्यापि संपन्नत्वात्।

शास्त्रैकदेशविषयं शास्त्रकार्यान्तरे स्थितम्।
सारांशस्पष्टकथनं यत्तत्प्रकरणं विदुः॥

इतिस्मृतेः।

कृत्स्नवेदान्ता विषयः। सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रं तत्स्व रूपावस्थानलक्षणविकलेबरकैवल्यं हि प्रयोजनम्। चिन्मात्रशास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः। सद्योमुक्तिकामो हि अधिकारी। तथा च नामार्थविवेके अभिहितम्—

विषयः स्वेतरग्राससत्तासामान्यमीरितः।
प्रयोजनं ब्रह्ममात्रावशेषणतया स्थितिः॥

सम्बन्धः प्रतिपाद्यादिः शास्त्रचिन्मात्रयोर्मिथः।
विकलेबरकैवल्यानन्दकामोऽधिकार्यसौ॥ इति।

ईशाद्यष्टोत्तरशतवेदान्ताः न हि ब्रह्ममात्रपर्यवसन्नाः। किन्तु असल्लौकिकाद्यष्टदृष्टिपरा एव इति चेत् न। स्वाज्ञानजडीकृतमोहभूतिपटलस्य सर्वापह्नव सिद्धब्रह्ममात्रज्ञानगन्धविकलत्वेन तत्पदारोहाय असल्लौकिकाद्यष्टदृष्टीनां उपायत्वेन च तद्गतहेयांशापह्नवतः सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रप्रबोधकत्वात् ईशादि सर्ववेदान्ताः साक्षात् परम्परया वा ब्रह्ममात्रपर्यवसन्ना एव। “सर्वे वेद यत्पदमामनन्ति इति , “वेदैश्च सर्वैरहमेव वेद्यः” इति च श्रुतेः स्मृतेश्च।

तथा च— ऋगादिचतुर्वेदप्रविभक्तेशाद्यष्टोत्तरशतवेदान्तवाक्यानि—

ईशावास्यमिदं सर्वम्

अनेजदेकम्

अन्यदेव तद्विदितादथो अविदितादधि

अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्

स एषोऽकलोऽमृतः

अप्राणो ह्यमनाः शुभ्रः

अक्षरात्परतः परः

अमात्रश्चतुर्थोऽव्यवहार्यः

प्रपञ्चोपशमः शिवोऽद्वैतः

सत्यं ज्ञानमनन्तं ब्रह्म

प्रज्ञानं ब्रह्म

यत्न नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा

तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्

अयमात्मा ब्रह्म सर्वानुभूः

पश्यतेहापि सन्मात्रमसदन्यत्

ब्रह्मव्यतिरिक्तं न किञ्चिदस्ति
द्वितीयकारणाभावादनुत्पन्नमिदं जगत्।
सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते॥

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति वीक्ष्यते।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥

सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत्।
चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम्॥

ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि।
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इत्यादिमहावाक्यपटलपर्यालोचनया ब्रह्ममात्रं भावरूपं, न हि तस्य निष्प्रतियोगिकत्वेन तदतिरिक्तप्रसक्तिरस्ति। यद्यसत् लौकिकादिदृष्टिमाश्रित्य स्वातिरिक्तं आत्मत्वेन स्वोपाधित्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन शून्यत्वेन वास्तीति येषां भ्रान्तिः तद्भ्रान्तिमात्रापह्नवे तदपि निष्प्रतियोगिकाभावरूपमेव। स्वातिरिक्तस्य वस्तुतोऽवस्तुतो वाप्यलब्धात्मकत्वात्।

नात्मभावेन नानेदं न स्वेनापि कथञ्चन।
न पृथङ्नापृथक् किञ्चिदिति शास्त्रविदो विदुः॥

इति सर्वज्ञगौडपादाचार्योक्तेः। निष्प्रतियोगिकभावाभावयोरपि आधाराधेयता स्यादिति चेत् न। दुर्लभत्वात्। सप्तद्वीपाधिपसार्वभौमस्य नित्यनपुंसकवन्ध्योत्पन्नकन्यारत्नपरिणयवत् दुर्लभत्वात् न तयोः ब्रह्मातिरिक्तयोः आधाराधेयता

अस्ति नास्तीति विभ्रमावकाशोऽस्ति। तस्मात् सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रतया सदा विजयते इति परमसिद्धान्तार्थेऽपि निष्प्रतियोगिकब्रह्ममात्राज्ञानमहिम्ना केचिदेवं प्रत्यवतिष्ठन्ते।

अनादिकालप्रभवमोहभूतेः त्रिपाद्भूत्यवस्थानलक्षणकैवल्यान्तं असल्लौकिकाद्यष्टदृष्टिदृष्टस्वातिरिक्तात्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिकलनाकलितस्वाविद्यापदतत्कार्यविजृम्भितबन्धमोक्षव्यवहारापह्नवे बन्धादिप्रतिपादकश्रुतिस्मृतिवय्यर्थ्ये जाते तन्निबन्धनवर्णाश्रमाचारव्यवस्था कथं सिद्धिपदं भजति। तदसिद्धौ निर्मर्यादं जगत् भवेत्। ततो ब्रह्ममात्रसिध्यपेक्षया यत्किञ्चित् स्वातिरिक्तमङ्गीकार्यम्। एवमङ्गीकृतं चेत् असल्लौकिकाद्यष्टदृष्टिषु तत्तन्मतव्यवस्थापि सेद्धुं पारयतीति। तत्रोच्यते—ब्रह्मणः स्वमात्रप्रकृतित्वेन तदन्यथानुपपत्तेः।

प्रकृतिप्राकृतास्पृष्टं स्वप्रकृत्यावशेषितम्।

इत्यन्तः प्रणवोक्तेः।

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा।
प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति॥

इति गौडपादाचार्योक्तेश्च।

भवत्वेवम्। व्यवहारसिद्धिः कुत इति चेत् न। स्वमात्रस्याव्यवहार्यत्वात्। स्वमात्रावगतेः सर्वव्यवहारापह्नवपूर्वकत्वात्। “अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्म-प्रत्ययसारं प्रपञ्चोपशमम् “इति श्रुतेः।

वस्तुतोऽवस्तुतो वापि व्यवहारो न युज्यते।
प्रतियोगिविनिर्मुक्ताव्यवहार्यं पराक्षरम्॥

इति स्मृतेश्च। तथापि निष्प्रतियोगिकाव्यवहार्यब्रह्ममात्रेऽपि स्वोक्तानुबन्धचतुष्टयालङ्कार-परमाद्वैतशास्त्रप्रवृत्तिहेतुतया अपह्नवमुखेन वा व्यवहारः स्यादिति चेत् न। परमाद्वैतप्रबोधसिद्धौ अपह्नोतव्यविषयवैरल्यात्। तत्प्रबोधसमकालमेव असल्लौकिकाद्यष्टदृष्टिविकल्पितव्यष्टिसम-ष्ट्यात्मकस्वाविद्यापदतत्कार्यायमाण-

जाप्रज्जाग्रदादितुर्यस्वापान्त1तद्व्यष्ट्यभिमानिविश्वविश्वादितुर्यप्राज्ञान्ततत्समष्ट्यभिमानिविराड्विराडादितुर्यबीजान्ततदुभयैक्याभिमान्योत्रोत्राद्यविकल्पानुज्ञैकरसात्मकचतुष्पञ्चदशकलनाविजृम्भितबन्धमोक्षतत्प्रमाणश्रुतिस्मृतितज्जवर्णाश्रमाचारव्यवस्थासिध्यसिध्योः प्रलयं गतत्वात् परमाद्वैतशास्त्रव्यवहृतिरपि न सम्भवति। शास्त्रादिव्यवहाराभावे ब्रह्ममात्रसिद्धिः कुत इति चेत् न। स्वमात्रत्वात् तस्य निष्प्रतियोगिकत्वेन स्वत एव सिद्धत्वात्। न च स्वतः सिद्धे वस्तुनि तत्सिद्धिमानाकाङ्क्षास्ति। तथा चेत् परमाद्वैतशास्त्रं व्यर्थमिति चेत् न। तस्य निष्प्रतियोगिकब्रह्ममात्रावरणायमानासल्लौकिकाद्यष्टदृष्टिनिष्ठवैषम्यांशमात्रापह्नवीकरणपटुशक्तित्वात्। न हि शास्त्रवैय्यर्थ्यं शास्त्रसद्वितीयं ब्रह्मेति चेत् न। शास्त्रस्य प्रबोधसमकालमुपक्षीणत्वात् निष्प्रतियोगिकनिरावृतं स्वमात्रमवशिष्यत इति ईशावास्यमारभ्य मुक्तिकोपनिषदन्तवेदान्तसिद्धान्तः। एवं सिद्धान्ताविरोधमीशाद्यष्टोत्तरशतोपनिषदः क्रमशो व्याक्रियन्ते॥

यत्रापह्नवतां याति स्वातिरिक्तभिदाततिः।
कलये तं स्वावशेषधियावस्थातुमीश्वरम्॥१॥

नत्वा गुरुपदं सद्यः कैवल्यसुखमिच्छताम्।
ईशावास्योपनिषदः परमाशय उच्यते॥२॥

शतोद्विसहस्रमन्त्रसंख्यापरिमितवाजसनेयान्तर्गतकाण्वशाखासंहितायां “इषे त्वा” इत्यादि “द्यावापृथिवीभ्यां साहा” इत्यन्तैकाशीत्यधिकाष्टोत्तरशतसहस्रसंख्याकाः मन्त्राः दर्शपूर्णमासादिकर्मकाण्डप्रकाशकाः। शिष्टास्तु निष्कामधियानुष्ठितकर्मफलार्पणस-न्तुष्ठेश्वरप्रसादजनितचित्तशुद्धिप्राप्यपारमहंस्याश्रमं पन्नानामधिकारिणां साक्षात् परम्परया वा ब्रह्ममात्रप्रबोधका हि ईशावास्याद्येकोनविंशतिमन्त्राः। “अनेजदेकम्” इति, “ब्रह्ममात्रं तत्प्रबोधसमकालम्”, ‘तत्र को मोहः कः शोकः “इति स्वातिरिक्तबन्धमोक्षभ्रमासम्भवनिरूपणात्। यत एते मुमुक्षुपटलस्वाराज्यप्रापकाः अतः तान् संक्षेपतो आख्यास्ये— ईशा इत्यादिना॥

स्वाज्ञस्वज्ञदृष्टिभ्यां यस्याः जन्मस्थितिनाशकलनैव परा गतिः सेयमविद्या जगतीत्युच्यते। तस्यां यत्किञ्च यत्किचित्। इदं परिदृश्यमाननानानामरूपजुष्टपशुपक्षिपन्नगादिविचित्रकलनाशोभितं कर्तृभोक्तृत्वादिविभ्रमारूढाधिष्ठितं अनन्तकोटिब्रह्माण्डात्मकं सर्वं आविद्यकं यत् जगत् दृश्यते तन्मूलबीजांशयोगतः ईशभावमापन्नेन जगदारोपाधिकरणेन ईशा आवास्यं व्याप्तं कबलितमित्यर्थः। “सच्चिदानन्दरूपमिदं सर्वम्”, “सत्तामात्रं हीदं सर्वम्” इत्यादिश्रुतेः। यः स्वाज्ञदृष्टिविकल्पितस्वातिरिक्तभेदजातं ईष्टे इति ईड्भावमापन्नः सोऽयं निरङ्कुशभावरूपस्वदृष्ट्या आवृतित्रयापह्नवसिद्धब्रह्ममात्रत्वात्। यत् उक्तविशेषणविशिष्टजगत्त्वेनाभिमतं तन्निरङ्कुशाभावरूपं तस्य कालत्रयेऽपि परमार्थदृष्ट्या शशविषाणवदलब्धात्मकत्वात्। तयोः व्याप्यव्यापकायमानजगढीशयोराधेयाधारता अस्ति नास्तीति विभ्रमापह्नवबोधेन तेन त्यक्तेन इति भावे क्तः स्वातिरिक्तसर्वत्यागेन। हे स्वाज्ञस्वज्ञलोक स्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्मं स्वमात्रमिति प्रबोधसमकालं तन्मात्रावस्थानलक्षणविकलेबरकैवल्यानन्दं भुञ्जीथाः प्राप्नुहि। पुनः जगदीशयोर्मध्ये कस्यस्वित् कस्यचित् धनं आधेयत्वं आधारत्वं वा कदापि स्यात् इति मा गृधः गर्धि इच्छां मा कार्षीः इति। अत्र—

यथा पुमान् स्वदेहस्थमलमुत्सृज्य तत्पुनः।
नादातुमीहते जातु नोच्चरेन्न स्मरेत् क्वचित्॥

तथा विद्वान् स्वातिरिक्तभ्रममुत्सृज्य तत्पुनः।
नेहते जात्वपि ब्रह्ममात्रज्ञानसमं मुनिः।
स्वावशेषतया ब्रह्ममात्रानन्दो बभूव सः॥

इति स्मृतिर्मानम्।

स यो ह वैतत् परमं ब्रह्म वेद ब्रह्मैव भवति।

इति श्रुत्यनुरोधेन ईशावास्यमिति पूर्वमन्त्रार्थज्ञानिन एवामृतत्वं सिद्धमित्यर्थः॥१॥

तदितरस्य कर्मनिष्ठा

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँसमाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ २॥

अद्वितीयब्रह्मतत्वं न जानन्ति यदा तदा।
भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम्॥

इति श्रुत्यनुरोधेन पूर्वमन्त्रोक्तार्थानधिकारिणां असल्लौकिकतुल्यत्वेन प्राप्तदेहात्मभावापेक्षया देहातिरिक्तजीवभावः श्रेयानित्यादौ कामनाधिया वा यावदायुषं कर्मैव कर्तव्यं इत्याहायं मन्त्रः— कुर्वन् इति।

“शतायुः पुरुषः शतेन्द्रियः “इति श्रुत्यनुरोधेन शतं समाः संवत्सराः ताःश्रौत2स्मार्तनित्यनैमित्तिककर्माणि कुर्वन्नेव जिजीविषेत्। स्वाज्ञस्य तूष्णीमवस्थानापेक्षया काम्यधिया वा कर्मकरणमेव श्रेयः इत्यर्थः।

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।

इति स्मृतेः॥

एवंप्रकारेण नरोऽहमिति नरमात्राभिमानिनि त्वयि जिजीविषति सति कदाचित् निष्कामधीः भवेत्। इदानीं तादृशाधिकाराभावात् इत एतस्मात्काम्यकर्मकरणात् प्रकारान्तरं नास्ति। येन प्रकारान्तरेण अशुभं कर्म न लिप्यते कर्मणा न लिप्यते। अतः शास्त्रविहितं कर्म कुर्वन्नेव जीवितुमिच्छेदित्यर्थः॥ २॥

काम्यकर्मनिष्ठानिन्दा

असुर्या नाम ते लोका अन्धेन तमसा वृताः।
ताँ स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥ ३॥

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्॥
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः।
प्रवृत्तिलक्षणो धर्मो निवृत्तिश्चप्रभाषितः॥

इत्यादिस्मृत्यनुरोधेन विद्वदविद्वद्विषयत्वेन पूर्वोत्तराभ्यां मन्त्राभ्यां ज्ञाननिष्टा कर्मनिष्ठा च अभिहिता। तत्र कर्मनिष्ठारूढाविद्वन्निन्दार्थो मन्त्रः आम्नायते असुर्या इति। काम्यधिया कर्मानुष्ठातारोऽविद्वांसः प्रेत्य इमं देहं त्यक्त्वा। अथ पश्यतेहापि सन्मात्रमसदन्यत्” इति, " प्रजापतिर्देवाननुशशास” इति च श्रुत्यनुरोधेन असदपह्नवसिद्धसन्मात्रभावारूढाः सुराः तद्भावविरलाः असुराः तेषामावासभूताः असुर्या नाम लोकाः काम्यकर्मफलानि यत्र लोक्यन्ते भुज्यन्ते इति लोकाः स्वर्गादयो जन्मानि वा चिन्मात्रभाववारकान्धेन स्वाज्ञानतमसा वृताः तान् लोकानेव मुहुर्मुहुः गच्छन्ति। घटीयन्ववदविश्रान्तं जन्ममरणानि प्राप्नुवन्तीत्यर्थः। केन दोषेणैव त एवं संसरन्तीत्यत्र—

इह चेदवेदीदथ सत्यमस्ति नो चेदिहावेदीन्महती विनष्टिः।
योऽन्यथासन्तमात्मानमन्यथा प्रतिपद्यते।
कि तेन न कृतं पापं चोरेणात्मापहारिणा॥

इति श्रुतेः।

लब्ध्वा कथंचिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्।
यस्त्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहत्य हन्यते॥

इति सर्वज्ञभगवत्पादोक्तेश्च। ते आत्महनः जन्मनाशवन्तः जनाः भवन्ति। विद्यमानाविद्यमानवस्तुवस्त्वाभासतिरस्करणपुरस्करणदोषेणेत्यर्थः॥ ३॥

आत्मतत्वस्वरूपम्

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्3
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥ ४॥

यदज्ञानात् अविद्वांसो हीयन्ते यद्ज्ञानात् विद्वांसो मुच्यन्ते तदिदं आत्मतत्त्वं कीदृशमित्याकांक्षायां तत्स्वरूपं अयं मन्त्र आह—अनेजत् इति॥ परमार्थदृष्ट्या स्वमात्रतया अवस्थानं स्वावस्थानम्। तस्मात् च्युतिः चलनं कम्पनं एजत् “एजृ कम्पने” इति धातोः। चलनाचलनकलनापह्ववसिद्धं अनेजत्। तदिदं वस्तु असल्लौकिकाद्यष्टदृष्टिमोहे सत्यसति सर्व दैकरूपमित्यर्थः। “परं ध्रुवं” इति श्रुतेः। तदेतद्वस्तु स्वाज्ञदृष्टिप्रसक्तसमस्तभूतान्तःकरणावच्छेदेन प्रत्यगादिभावं भजतीव भजतीत्याह— मनस इति॥ समस्तप्राणिहृदयावच्छिन्नसंकल्पादिलक्षणमनसो जवीयः जववत्तरम् तस्य। दूरदेशं गतमनोवृत्तिसहस्रग्राहकत्वात्।

यन्मनसा न मनुते येनाहुर्मनो मतम्।

इति श्रुतेः। लोकप्रसिद्धजविष्ठमानसाग्राह्यत्वे किं वक्तव्यं इन्द्रियाग्राह्यत्वं इत्याह— नैनत् इति॥ स्वस्वविषयद्योतनात् देवाः चक्षुरादीन्द्रियाणि स्वाधिष्ठानदेवतानुग्रहीतान्यपि एनत् आत्मतत्त्वं न आप्नुवन् न गृह्णन्तीत्यर्थः। कथमेनं न गृह्णन्तीत्यत आह— अर्षत् इति॥ मनआदिकरणग्रामचलनाभासात् पूर्वमेवातिवर्षति गच्छतीत्यर्षत्। आभासमात्रतोऽपि करणग्रामगोचरं एतत् न भवतीत्यर्थः। वस्तुतो निष्प्रतियोगिकचिन्मात्रमप्यात्मतत्त्वं स्वाज्ञदृष्टया मायाकृतविकारानुवर्तनात् विश्वविश्व—

विराड्विराट्—

ओत्रोत्रादि—त्रिपञ्चदशकलनां आप्तवदिव4 भाति इत्याह—तन् इति॥ तदेतदात्मतत्त्वं स्वविषयेषु स्वावस्थासु च नित्यं द्रुतं धावतः सर्वप्राणिमानसश्रोत्रवागादीन् विश्वविश्वादश्च अत्येति अतिक्रामति। स्वाज्ञस्वज्ञदृष्टिभ्यां विकल्पितकरणग्रामतदध्यक्षविश्वविश्वादिमोहे सत्यसति सर्वग्रास5तुर्यतुर्यस्वरूपेण स्वयं तिष्ठत् सर्वदैकरूपेण स्थितमित्यर्थः। वस्तुतो निरधिष्ठानमपि दृष्टिवैषम्यादधिष्ठानतां प्राप्तवदिव6 भाति इत्याह— तस्मिन् इति। यत् सर्वास्पदत्वेनाभिमतं तस्मिन् सन्मात्रे मातरि अन्तरिक्षे श्वयति चलतीति

सर्वक्रियाश्रयत्वेन सर्वप्राणभृत्सूत्रात्मको मातरिश्वा वायुः आपः वियदादिपञ्चभूतावकाशप्रदानादिशक्तीःभौतिकचराचरचलनादिशक्तीश्च दधाति विधारयतीत्यर्थः। “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रद्यावापृथिवीनिमेषमुहूर्ताहोरात्रमासर्त्वयनसंवत्सरादयो विधृतास्तिष्ठन्ति”, “भीषास्माद्वातः पवते” इति च श्रुतेः॥ ४॥

क्रियाशक्त्यास्पदम्

तदेजति तन्नैजति7 तद्दूरे तद्वन्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥ ९॥

सर्वा हि क्रियाशक्तयः स्वाधिष्ठाने सत्येव भवन्ति तदास्पदं किमित्यपेक्षायां आह— तत् इति॥ उपाधियोगायोगाभ्यां तदेतत् आत्मतत्त्वं एजति इव न एजति इव चाविद्वद्विदुषां दृष्ट्यनुरोधेन दूरे अन्तिके च। तस्मिन्नारोपितनामरूपक्रियात्मकस्य अस्य सर्वस्य जगतः अन्तः अन्तरे। बाह्यतो बाह्ये च तदु तदेव। सर्वत्र भातीव भाति सर्वव्यापित्वात्। “य आत्मा सर्वान्तरः” इति श्रुतेः। वस्तुतो निरधिष्ठानत्वेन सर्वकलनापह्नवसिद्धमित्यर्थः।

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु।

इति श्रुतेः॥ ५॥

सर्वात्मभावनाप्रकारः

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥ ६॥

“तदन्तरस्य सर्वस्य” इत्यादिमन्त्रप्रकटितसर्वात्मभावनाप्रकारं तत्फलं च द्वौ मन्त्रावाहतुः— यस्तु इत्यादिना॥ यस्तु मुमुक्षुः स्वाज्ञदृष्टिप्रसक्तस्वातिरिक्तं सर्वं विश्वविश्वादित्रिपञ्चदशरूपेण अततीति स्वात्मा। तस्मिन्नेव अव्यक्तादिस्थावरान्तगतसर्वाणि भूतानि। “अहमेवाधस्तात् अहमुपरिष्टात् अहं पश्चात् अहं पुरस्तात् अहं दक्षिणतः अहमुत्तरतः अहमेवेदं सर्वम्” इति श्रुत्यनुरोधेन पश्यति स्वात्मव्यतिरिक्तानि न पश्यति। पुनः वियदादिभूतभौतिकेषु चान्तर्यामिप्रत्यग्रूपेण तिष्ठन्तमात्मानं पश्यति। सोऽयं परिब्राट् विद्वान् सर्वात्मभावारूढो मुनिः। गुपेः निन्दायां सनः स्मरणात् जुगुप्सा निन्दा। तदभावो विजुगुप्सा तया। तन्निषेधो नञा क्रियते। स्वातिरिक्तदयनीयादयनीयवस्त्वन्तराभावात् इत्यर्थः॥६॥

सर्वात्मभावनाफलम्

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥

सर्वात्मभावनाफलमाह—यस्मिन् इति। यस्मिन् काले विजानतो विदुषः सर्वात्मभावनामहिम्ना निष्प्रतियोगिकब्रह्ममात्रावरणायमानसर्वभावे निवृत्ते स्वाज्ञदृष्टिप्रसक्तसर्वाणि भूतभौतिकानि आत्मैव आत्ममात्रमेव अभूत् इत्यत्र—

यस्मिन् काले निर्विशेषब्रह्म जानाति योगिराट्।
तदानीमविशेषेण ब्रह्म संपद्यते मुनिः॥

इति स्मृतेः। तत्त्र तस्मिन् काले स्वातिरिक्तसर्वभूतभौतिकपटलमस्ति नास्तीति को मोहः। स्वातिरिक्तसर्वभूतभौतिकापह्नवेऽपि कः शोकः इत्याक्षेपतः शोकमोहोपलक्षितस्वाविद्यापद-तत्कार्यजातमस्ति नास्तीति विभ्रमापह्नवोक्तिरपि अपह्नवपदं भजेदिति द्योत्यते। ततः कालत्रयेऽपि ब्रह्ममात्रनिष्प्रतियोगिकतया अवशिष्यत इत्यर्थः।

ततः स्तिमितगंभीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत् किचिदवशिष्यते॥

इति श्रुतेः॥ ७॥

निष्प्रतियोगिकस्वात्ममात्रसिद्ध्युपायः

स पर्यगाच्छुक्रमकायमव्रणं
अस्नाविरँशुद्धमपापविद्धम्।
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यःसमाभ्यः॥८॥

यदि बह्म निष्प्रतियोगिकत्वेन स्वमात्रं अवशिष्यते अनादिकालमारभ्य स्वाज्ञपरम्परापि वर्तते तस्याः तदधिगमोपायवैरल्यमाशंक्य स्वाज्ञदृष्ट्यारोपितपरिच्छिन्नकायत्रयाद्यतन्निरसनमुखेन प्रत्यगभिन्नब्रह्मप्रबोधद्वारक निष्प्रतियोगिकस्वात्ममात्रसिद्धिः भवेत् इत्ययं मन्त्र आह— स पर्यगात् इति॥ शुक्रमित्यादिषट्पदान्यपि पुल्लिंगत्वेन विपरिणेयानि। स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिपुल्लिंगत्वेनोपसंहारात्। परमार्थदृष्ट्या योऽयं परमात्मा स्वमात्रमवशिष्यते सः अयं स्वाज्ञदृष्टिप्रसक्तस्वाविद्यापदतत्कार्यजाते स्वज्ञदृष्ट्या सच्चिदानन्दरूपेण परिपरितः समन्तात् अगात् व्योमवत् व्यापित्वात्। “सर्वव्यापी सर्वभूतान्तरात्मा इति श्रुतेः। जडव्यापित्वेऽपि शुक्रं शुक्रः ज्योतिष्मान् साधनान्तरनैरपेक्ष्येण स्वयंप्रकाशरूपत्वात्। कायत्रये सति स्वयंप्रकाशता कुतः इत्यत आह— अकार्य इत्यादि। व्यष्टिसमष्ट्यात्मककारणलिङ्गशरीरापवादाधिकरणत्वेन अयमकायः। ब्रणं क्षतं स्नावा सिरा यस्य विद्यते तत् स्नाविरं स्थूलशरीरं तदपवादाधारः अब्रण अस्नाविरश्च भवति “अशरीरो निरिन्द्रियोऽप्राणोऽतमाः। सच्चिदानन्दमात्रः स्वस्वराद् भवति ”इति श्रुतेः। अशुद्धकायत्रयहानात् शुद्धः। व्यष्टयादिकायत्रयहननदोषतः शुद्धत्वं कुत इत्यत आह— अपापविद्धं इति। स्वातिरिक्तहन्तव्यकायत्रय

वैरल्यात् अपापविद्धत्वेन शुद्धत्वं निरङ्कुशमित्यर्थः। योऽयमपापविद्धः प्रत्यगभिन्नपरमात्मा सोऽयं मूलाबीजांशयोगतः सर्वज्ञेशो भवतीत्याह—कविः इति। क्रान्तदर्शी सर्वदृगित्यर्थः। “अदृष्टं द्रष्टृ8”इति श्रुतेः। तस्य मनआदिकरणग्रामचालकत्वमाह— मनीषी इति। सर्वान्तरत्वेन मनआदिकरणग्रामं ईष्टे इति मनीषी सर्वज्ञेश्वर इत्यर्थः। “यो मनसि तिष्ठन् ”इत्यादिकरणग्रामनियामक श्रुतेः। तस्य सर्वाधिकरणत्वेन सर्वोन्नतत्वमाह — परिभूः इति। परि सर्वोन्नतत्वेन उपर्युपरि भवतीति परिभूः। केन परिभूत्वमेतीत्यत आह— स्वयं इति। स्वेतरनैरपेक्ष्येण स्वयमेव सर्वाधारो भवति वेति स्वयम्भूः सोऽयं सर्वज्ञेश्वरः शाश्वतीभ्यः समाभ्यः ब्रह्मकल्पपर्यन्तम्। “धाता यथापूर्वमकल्पयत्” इति श्रुत्यनुरोधेन पूर्वपूर्वकल्पे यथाभूत् तथा उत्तरोत्तरकल्पगणेऽपीति। यथा तथा तद्भावो याथातथ्यं तस्मात् याथातथ्यतः अर्थान् अनन्तकोटिब्रह्माण्डतदन्तर्गतचतुर्दशलोकान् यथानुरूपं व्यदधात् व्यभजत्। जीवाज्ञानानुरोधेन सर्वं कल्पयामासेत्यर्थः। न स्वतः तस्य कल्पनाहेतुस्वाज्ञानवैरल्यात् जीवदृष्टयेयं कल्पना। जीवस्यापि स्वाज्ञानापाये—“यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् तत् केन कं शृणुयात् तत् केन कं विजानीयात्” इति। स्वातिरिक्तवस्तुपटलतद्दर्शनश्रवणप्रबोधासंभवश्रुत्यनुरोधेन संजातप्रबोध समकालं स्वाज्ञानदशायां दृष्टश्रुतज्ञाताविद्यापदतत्कार्यतदारोपापवादाधिकरण-विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तकलनादिः शेषमपह्नवमेत्य स्वात्ममात्रमवशिष्यते। यत एवं अतो बन्धमोक्षव्यवहारकर्ता नेश्वरः साक्षी वा जीव एवेत्यत्र—

नित्यभूतेर्जाग्रदादिभावाभावैकसाक्षितः।
लीलाभूतेर्जाग्रदादावभिमानप्रहाणतः॥
जडभूतेस्सुषुप्तत्वात् भोज्यत्वात् पारिशेष्यतः।
त्र्यवस्थायुड्मोहभूतिः कल्पकत्वं भजेत्तराम्॥ इति,

जीवतः कल्पकाकारमीश्वरत्वादकल्पकम्।

इति च त्रिपात्तत्वविवेकान्तः प्रणवोक्तेः॥८॥

ब्रह्मलोकगमनं तदुपदिष्टज्ञानफललाभश्च

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायाँ रताः॥ ९॥

ईशावास्यमित्याद्यमन्त्रेण परिव्राजकस्य ज्ञाननिष्ठोक्ता। कुर्वन्नेव इति द्वितीयमन्त्रेण तु परिब्राजकेतरस्य तदशक्तत्वेन स्वाज्ञानानुरोधं कर्मनिष्ठा अभिहिता। एतन्मन्त्रद्वयप्रदर्शितनिष्ठाद्वयविवेको बृहदारण्येऽपि दर्शितः। “किं प्रजया करिष्यामो येषां नोयमात्मायं लोकः” इति, “एतं वैतमात्मानं विदित्वा ब्राह्मणाः इत्यादि। जाया मे स्यादथ प्रजायेय वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छंश्च नातो भूयः “इति च। असुर्या इति तृतीयमन्त्रेण काम्यकर्मनिष्ठानिन्दा कृता। अनेजदेक इत्यादिमन्त्रपञ्चकेना काम्यात्मयाथात्म्यं स्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्ममात्रमित्यभिहितम्। अत्राकाम्ये वा अधिक्रियत इत्यत्र—

अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्।

इति मन्त्रवर्णात्। एतावता ग्रन्थेन विद्वदविदुषोः निष्ठाद्वयमभिहितम्। नातः परं वक्तव्यमवशिष्यते। इत ऊर्ध्वं कुर्वन्नेवेतिमन्त्रोक्तकाम्यकर्माधिकारिणः इति जन्मनि जन्मान्तरे वा निष्कामबुद्धया अनुष्ठितविद्याविद्यासंभूत्यसंभूत्युपासनामहिम्न अर्चिरादिमार्गमवलम्ब्य ब्रह्यलोकं गत्वा ब्रह्मणा उपदिष्टविज्ञानफलं ब्रह्मणासह लभेयुः इत्युत्तरे मन्त्रा आरभ्यन्ते— अन्धं इत्यादिना। विद्याविद्याशब्देन ईशावास्यं कुवन् इति मन्त्रद्वयप्रदर्शितज्ञानकर्मणी उच्येते। तयोरेव समुच्चय इति चेन्न। सुतरामसंभवात्। स्वातिरिक्तकर्तृकारकक्रियाजुष्टस्वाविद्या-पदतत्कार्य जातापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रगोचरं हि ज्ञानम्। कर्म तु कर्तृकारकादि नानाविकारपटलात्मकम्। तयोस्तेजस्तिमिरवत् युगपदेकत्रावस्थानासभवात्I

विद्याविद्याशब्देन शबलब्रह्मज्ञानकाम्यकर्मणी गृह्येते। अत एवेश्वरार्पणधिया सन्तः कर्म कुर्वन्ति इत्यत्र— “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन “इति,

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसंगस्समाचर॥

इत्यादिश्रुतिस्मृत्यनुरोधेन परमेश्वराराधनधिया सत्कर्मानुष्ठानं ज्ञानकर्मसमुच्चयार्थः। समुच्चयं विना प्रातिस्विकेनेश्वरोपासनं कर्म वा कृतं चेत् का हानिरिति चेत्कर्मसामान्यं हित्वा केवलोपासनां ईशभावं विना कर्म च कुर्वतां फलोद्देशेन स्वर्गादिसंभवेऽपि चित्तशुद्ध्यादिवैरल्यतः प्रत्यवायः श्रूयते।

श्रुतिः स्मृतिर्ममैवाज्ञा यस्तामुल्लंघ्य वर्तते।
आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः॥

इत्यादिश्रुतिस्मृती तु “तमेवं वेदानुवचनेन ”इति “यज्ञार्थात् “इत्यादि पुरस्तादेवोक्ते। प्रातिस्विकेन काम्यकर्मोपासनानिन्दा तु समुच्चिचीर्षया उपपद्यते। अन्यथा मुख्यफलाभावेऽपि गौणफलसंभवात्। “कर्मणा पितृलोको विद्यया देवलोकः ”इति च पृथक्फलश्रवणात् एकैकपुरुषेणानुष्ठातुं शक्यत्वादिति प्रातिस्विकानुष्ठाननिन्दा क्रियते। ये चाविद्वांसः कामनाधिया विद्यां नित्यनैमित्तिकादिकर्मात्मिकां उपासते ते स्वर्गादिलोकाख्यान्धंतमः प्रविशन्ति ये कर्मसामान्यं हित्वा केवलदेवताज्ञानात्मकविद्यायामेवाभिरता भवन्ति। उशब्दोऽवधारणायाम्। विद्यायामेवेत्युक्तम्। तेऽप्यविद्वांसः ततः अन्धात्मकात्तमसः भूयो बहुतरमिव तमः प्रविशन्ति सकामनयोपासकस्य विद्याबलात् ब्रह्मलोकगमनेऽपि पुनर्वासनातो
निर्गमनसंभवात्। निर्गमनस्य अन्धतमोरूपत्वादित्यर्थः॥ ९॥

विद्याकर्मणोरवान्तरफलभेदः

अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥ १०॥

विद्याकर्मणोरवान्तरफलभेदं दर्शयति— अन्यत् इति। विद्यया जन्यं फलं अन्यत्। “विद्यया देवलोकः” इति श्रुतेः। अविद्यया कर्मणा जन्यं फलमपि अन्यत् एव आहुः। " कर्मणा पितृलोकः” इति श्रुतेः। ये नः अस्मभ्यं एवं विद्याकर्मफलभेदं विचचक्षिरे व्याख्यातवन्तः तेषां धीराणां वचनं शुश्रुम अतोऽयमागमः पारंपर्यागत इत्यर्थः॥ १०॥

समुच्चयानुष्ठाने फलाधिक्यम्

विद्यां चाविद्यां च यस्तद्वेदोभयँस ह।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते॥ ११॥

विद्याविद्यासमुच्चयानुष्ठाने फलाधिक्यमाह— विद्यां इति। यः पुमान्ईश्वरात्मभावरूपां विद्यां नित्यनैमित्तिकादिकर्मलक्षणां अविद्यां च एतत् उभयं एकपुरुषानुष्ठेयं वेद स समुच्चयानुष्ठाता निष्कामकर्मरूपया अविद्यया साध्यसाधनेषणाद्वयविजृम्भितकर्तृत्वभोक्तृत्वादिस्वाभाविकं मृत्युं तीर्त्वा सर्वज्ञेश्वराभेदज्ञानरूपया विद्यया तत्सारूप्यभावापत्तिरूपं अमृतं अश्नुते तत्तद्दृष्ट्यनुरोधं सालोक्यादिकं अश्नुते इत्यर्थः। न हि मुख्यममृतत्वं तस्य सर्वापह्नवसिद्धब्रह्ममात्रज्ञाननिष्पन्नत्वात्॥ ११॥

विद्याविद्यानिन्दा

अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते।
ततो भूय इव ते तमो य उ संभूत्याँ रताः॥ १२॥

विद्याविद्यासमुच्चयानन्तरं संभूत्यसंभूतिसमुच्चयहेत्वोः पृथक् तयोर्निन्दोच्यते— अन्धं इति। ये सम्यक् भवतीति संभूतिः यस्या न विद्यते सेयमसंभूतिः नानाकामकर्मसंकल्पाविद्याद्वयबीजभूता प्रकृतिः तां उपासते तदनु-

रूपमेव अन्धं अदर्शनात्मकं तमः प्रविशन्ति। पुनः य उ अविद्वांसः विराड्ढिरण्यगर्भायमाणसंभूत्यां अभिरतास्सन्तः ततः प्रकृत्युपासनाफलरूपतमसोऽपि भूयो बहुतरमिव तमः प्रविशन्ति**।** उभावपि पुरुषार्थाद्धीयेते इत्यर्थः॥ १२॥

तयोः फलभेदः

अन्यदेवाहुः संभवादन्यदाहुरसंभवात्।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥ १३॥

तदुभयफलभेदं विवृणोति— अन्यत् इति। संभवात् विराडादेरुपासनात् अणिमादिलक्षणं फलं अन्यत्। असंभवात् अव्याकृतप्रकृतेरुपासनात्प्रकृतिलयात्मकं फलं अन्यत् इति आहुः। ये नस्तद्विचचक्षिरे तेषां वचनमित्येवं शुश्रुम॥ १३॥

सायुज्यहेतुः

संभूतिं च विनाशं च यस्तद्वेदोभयँसह।
विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नते॥ १४॥

संभूत्यसंभूतिपृथगुपासनायाः सकामस्याणिमादिसंसारहेतुत्वेऽपि निष्कामस्य मुमुक्षोः तयोः समुच्चयतः प्रकृतिप्राकृतारोपाधारेश्वरसायुज्यहेतुः स्यादिति तयोः समुच्चय उच्यते—संभूतिं इति। यः संभूत्यविनाशौ सह युगपत्एकेन पुरुषेणानुष्ठेयाविति वेद सोऽयं निष्कामोपासनाधिकारी विनाशेन विनाशवद्विराड्ढिरण्यगर्भोपासनेन धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणिमादिरूपमृत्युं तीर्त्वा साधिष्ठानसंभूत्या अव्यक्तोपाधिकेश्वरोपासनेन प्रकृतिप्राकृतसम्बन्धास्पृष्टेश्वरसायुज्यात्मकं अमृतं अश्नुते संभूतिं च विनाशं च इत्यत्र प्रकृति-

लयफलश्रुत्यनुरोधादवर्णलोपेन निर्देशो द्रष्टव्यः। असंभूत्यादिसमुच्चयोपासनाफलं अर्चिरादिमार्गेण ब्रह्मलोकं गत्वा तन्मुखात् श्रुतनिर्विशेषप्रबोधतो जीवन्मुक्ता भूत्वा ब्रह्मकल्पपर्यन्तं तत्रैवोषित्वा चतुष्पदैक्यसमये ब्रह्मणा सहैते विमुक्ता भवन्तीत्यर्थः॥ १४॥

आत्मनः प्राप्तिद्वारयाचनम्

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥ १५॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह।
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि
योऽसावसौ पुरुषः सोऽहमस्मि॥ १६॥

वायुरनिलममृतमथेदं भस्मान्तँ शरीरम्॥ १७॥

ॐ क्रतो स्मर कृतँस्मर ऋतो स्मर कृतँस्मर॥ १८॥

प्रवृत्तिनिवृत्तिलक्षणो वेदार्थः। तत्र प्रवृत्तिलक्षणवेदार्थस्य प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम्। अत ऊर्ध्वं निवृत्तिलक्षणस्य प्रकाशने बृहदारण्यकमिति। तत्र प्रवृत्तिधर्माधिकारी अविद्यासंभूतिभ्यां मृत्युं तीर्त्वा विद्यया असंभूत्या चामृतं अश्नुते इत्युक्तस्सोऽयं आत्मनः प्राप्तिद्वारं याचते— हिरण्मयेन इति॥

“तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः” इति श्रुत्यनुरोधेन दक्षिणाक्षिसूर्यमण्डलस्थस्सन्“याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति” इति श्रुत्यनुरोधेन सर्वंपुष्णातीति हे पूषन् आदित्यमण्डलस्थस्य सत्यस्य ब्रह्मणो मुखं मद्गन्तव्यद्वारं निकषाभिव्यक्तसहस्रवर्णाढ्यहिरण्यमिव हिरण्मयं तीक्ष्णगभस्तितो

ज्योतिर्मयं तेन हिरण्मयेन पात्रेण पिधानभूतेन पिहितं आच्छादितं तत्त्वमपावृणु उद्घाटय। कस्मै प्रयोजनाय पिधानपात्रोद्घाटनं इत्याकांक्षायामाह— सत्य इति। सत्यस्य तव उपासनात् सत्यं धर्मों यस्य मम सत्यधर्माय मह्यं समुच्चयानुष्ठात्रे केवलानुकम्पया तव सत्यात्मनो दृष्ट्ये साक्षात्काराय च पिधानपात्रं अपाकुर्वित्यर्थः॥ १५॥ किंच— पूषणं इति। हे पूषन्। एक एव ऋषति गच्छति इति है एकर्षे। सर्वसंयमनात् हे यम। रश्मिप्राणरसादिस्वीकरणात् हे सूर्य। प्रजापतेरपत्यं हे प्राजापत्य। तावकरश्मीन् व्यूह विगमय। समूह उपसंहर। ततो यत्ते कल्याणरूपं त्वत्प्रसादात् तत् पश्यामि। किच— योऽसौ इति। समुच्चयानुष्ठानात्तविवेकोऽहं न हि त्वां भृत्यवत् याचे। किन्तु पुरुषाकारत्वात् योऽसौ व्याहृत्यवयवो रविमण्डलस्थः विश्वविश्वादिरूपेण पुरि शयनाद्वा विराड्विराडादिरूपेण स्वाविद्यापदतत्कार्यापह्नवसिद्धनिष्प्रतियोगिकपूर्णतुर्यतुर्यस्वरूपेण वा पूरणात् पुरुषः सोऽहमस्मि इति प्रार्थये इत्यर्थः॥१६॥ ज्ञानकर्मसंस्कारतो मरिष्यतो मम प्राणवायुरध्यात्मपरिच्छेदं हित्वा अधिदेवतात्मानं अनिलं विराजमथामृतं सूत्रात्मानं ईश्वरं वा प्रतिपद्यतामिति वाक्यशेषः। अथेदं शरीरं भस्मान्तं भस्मावसानं भूयादित्यर्थः॥ १७॥ किंच— ओं ऋतो इति। ओं इति सत्यात्मकं अग्न्याख्यं ब्रह्म तदभेदेन तत्प्रतीकत्वादुच्यते। हे ऋतो संकल्पात्मक यत् मम स्मर्तव्यं तत् स्मर तत्कालस्योपस्थितत्वात्। अतः स्मर। मया बाल्यप्रभृति यदनुष्ठितं त्वदुद्देशतो यद्यत् शोभनकर्म कृतं तदपि स्मर मट्टणमोचनं यथा भवेत् तथा स्मर। स्मर स्मरेति पुनर्वचनं आदरार्थम्॥१८॥

मार्गान्तरयाचनम्

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम॥ १९॥

पुनर्मन्त्रान्तरेण मार्गं याचते— अग्ने इति। हे अग्ने अस्मान् विद्याविद्यासंभूत्यसंभूतिसमुच्चयानुष्ठानशुद्धान्तरान् पुरा यतो वयं9

दक्षिणमार्गे निर्विण्णा अत इदानीं सुपथा शोभनेन मार्गेण गमनागमनविरलेन नय। किमर्थमित्यत आह— राय इति। राये धनाय। निष्कामबुद्धया अस्मदनुष्ठितविद्याविद्यासंभूत्यसंभूतिसमुच्चयानुष्ठानजनितसालोक्यादि-मुक्तिफलायेत्यर्थः। साधनान्तरनैरपेक्ष्येण सर्वत्र द्योतनात् हे देव। त्वं विश्वानि सर्वाणि वयुनानि निष्कामधिया अनुष्टितविद्याविद्यासं भुत्यमूल्यसंभूतिसमुच्चयप्रभवफलान्येतादृशानीति जानन्नपि किमस्मानुपेक्षसे। तव परमदयालुत्वेन सर्वज्ञत्वात्। इदानीं मया किं कर्तव्यमित्यत आह— युयोधि इति। अस्मत्प्रापणीयसालोक्यादिचतुर्विधमुक्तिपरिपन्थित्वेन विद्यमानं जुहुराणं वञ्चकं एनः पापं निर्दयं यथा भवति तथा युयोधि त्वदीयज्ञानखङ्गेनद्विधा वियोजय निर्मूलय। अतो वयं शुद्धास्सन्तः त्वत्पदं प्राप्य त्वदुपदिष्टब्रह्मविज्ञानतः त्वया साकं चतुष्पदैक्यसमये कृतकृत्यपदं लभेम इत्यभिप्रायः भवदिष्टकरणे भवद्भिः पूर्ववत् सपर्या कर्तव्येत्यत आह— भूयिष्ठां इति वयमतीव जरठाः सपर्यां कर्तुमशक्ताः। अत इदानीं भूयिष्ठां बहुतरां ते तुभ्यंनमउक्तिं नमस्कारवचनं विधेम। यद्वा— “नमस्त्वैक्यं प्रवदेत्” इति श्रुत्यनुरोधेन परमेश्वरोऽस्मीत्यनुसन्धानं विधेम इत्यर्थः। समुच्चयानुष्ठातॄणां इह जन्मनि मुख्यामृतत्वं किं न स्यादितिचेत् न। ब्रह्ममात्रप्रबोध’ वैरल्यादिति10

तेषां

समुच्चयानुष्ठानविद्याफलार्पणसन्तुष्टेश्वरप्रसादतः “पश्यतेहापि सन्मात्रमस दन्यत्”, “ब्रह्ममात्रमसन्नहि” इति;

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इति च श्रुत्यनुरोधेन स्वाज्ञस्वज्ञदृष्टिविलसितस्वातिरिक्तात्मत्वसत्यत्वव्याव

हारि

कत्वप्रातिभासिकत्वादिकलनास्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्म स्वमात्रमिति

प्रबोधसमकालंविद्याविद्यासंभूत्यसंभूतिप्रातिस्विकसमुच्चयोपासनतत्फलकलनाग्रासब्रह्ममात्रावस्थानलक्षणविकलेवरकैवल्यमेव मुख्यामृतत्वं भवेत्। अन्यथा समुच्चयानुष्ठानफलं सालोक्यादिकमेव सिद्ध्येदिति सिद्धम्॥१९॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।
ईशावास्यविवरणं लिखितं कृपया हरेः।
ईशविवरणग्रन्थः षष्ट्यधित्रिशतं स्मृतः॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे प्राथमिकेशावास्योपनिषद्विवरणं सम्पूर्णम्

ॐ श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्रार्पणमस्तु

केनोपनिषत्

आप्यायन्तु—इति शान्तिः

प्रथमः खण्डः

शिष्यप्रश्नः

ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति॥

श्रोत्रादेः श्रोत्रादिरूपं विदिताविदितात्परम्।
तत्सर्वापह्नवात् सिद्धं कलये परमाक्षरम्॥

तलवकारशाखायां दर्शपूर्णमासादिसमस्तकर्मकर्माङ्गसामानि गायत्रसामवंशब्राह्मणानि समस्तकर्माश्रयभूतमुख्यप्राणोपासनानि11 चाभिहितानि। प्रातिस्विकेन तत्रत्यकर्मज्ञानं वा प्राणविज्ञानसमुच्चितकर्म वा सम्यगनुष्ठितं सत् सकामस्य धूमादिमार्गप्रतिपत्तये पुनरावृत्तये च भवति। “तस्मिन् यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते” इति,

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।

इति च श्रुतेः स्मृतेश्च। निष्कामस्य मुमुक्षोः ईश्वरार्पणधिया यथोक्तकर्मज्ञानसमुच्चयानुष्ठानतारतम्यात् अर्चिरादिमार्गतः सालोक्यादिक्रममुक्तिर्वा स्वकृतकर्मफलार्पणसन्तुष्टेश्वरप्रसादजनितचित्तशुद्धिप्राप्यपारमस्याश्रमाप्तिद्वारा प्रत्यगभिन्नब्रह्म-जिज्ञासा वा जायते। तथाविधजिज्ञासोः आत्मतत्त्वप्रकाशनाय केनेषितं इत्यादिनवमाध्याय आरभ्यते। “आचार्यवान् पुरुषो वेद” “आचार्याद्भव विद्या विदिता साधिष्ठं प्रापत्” इति, “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” इति,

तद्विद्धि प्रणिपातेन तत्प्रश्नेन12 च सेवया।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥

इति च श्रुतिस्मृत्यनुरोधेन यथोक्तसाधनसंपन्नाधिकारी कश्चन शिष्यः सत्सम्प्रदायस्थं निष्प्रतियोगिकनिर्विशेषब्रह्ममात्रनिष्ठं विधिवदुपेत्य तन्निकटे तदुचितशुश्रूषापूर्वकं चिरमुषित्वा यदा तत्कटाक्षः प्रसरेत् तदा भोः स्वामिन्सर्वानर्थकरं हि मनआदिकरणजालं येनाहं भवाब्धौ निपातितोऽस्मि।

चित्तमेव हि संसारः तत् प्रयत्नेन शोधयेत्।

इति श्रुत्यनुरोधेन न हि तदियत्तापरिज्ञानं विना तत्करणग्रामशान्तिः उपपद्यते। तत् मया वार्यमाणमपि सर्वासु दिक्षु परिधावति। विचार्यमाणे रथादिवत्तदचेतनं प्रतिभाति। चेतनाधिष्ठितरथादिप्रवृत्तिवत् मन आदिकरणग्रामस्य प्रवर्तकं विना न हि प्रवृत्तिरुपपद्यते। तन्मनआदिकरणग्रामस्तु नियमेन प्रवर्तते। न ह्यधिष्ठातर्यसति प्रवृत्तिः भवेत्। तत्प्रवृत्तिनिमित्तं किंचिदस्ति इति सामान्यतोऽधिगतेऽपि तद्विशेषार्थो नावभासते। तत्प्रवृत्तिनिमित्तं कीदृशमिति विजिज्ञापयिषया पप्रच्छेति कल्प्यते। “केनेषितं,” “श्रोत्रस्य श्रोत्रं” इत्यादिप्रश्नप्रतिवचनदर्शनात्। न च स्वतन्त्रं मनः स्वेष्टानिष्टविषयेषु प्रवर्तते निवर्तते च किं निमित्तपरिज्ञानेन इति वाच्यम्। जडस्य मनआदेः कुलालचक्रवत्

स्वातन्त्र्यानुपपत्तेः। यदि स्वतन्त्रं मनः स्वानर्थविषये न प्रवर्तेत वार्यमाणमपि तन्मनः प्रवर्तते हि। तन्निमित्तयाथात्म्यज्ञानतः तदुन्मूलनं कर्तुं सुशकमिति तद्विषयप्रश्नोऽर्थवानिति पृच्छति— केनेषितं इत्यादिना। इषितं इति इट्प्रयोगस्तु छान्दसः। इषेराभीक्ष्ण्यगत्यर्थासंभवात् इह इच्छार्थे तदुपपत्तेः। इषितमिति प्रेषितं इवेत्युपमार्थः राजप्रेरितभृत्यवर्गवत्। केन अधिष्ठातृविशेषेण। संकल्पादिविषयजातं अनेन मनुते इति मनः अन्तःकरणं इषितमिष्टमभिप्रेतं सत् संकल्पादिविषये पतति स्वविषयं प्रत्यनुधावति। तत्कस्येच्छामात्रेण स्वव्यावृतौ व्याप्रियत इत्यर्थः। न हीषितप्रेषितयोः पुनरुक्तिः उपमार्थस्योक्तत्वात्। न हि राजा भृत्यानिव चिद्धातुर्मनआदिकरणग्रामं स्वविषयं प्रति प्रेरयेत्। राजभोजननिमित्तघटिकासूचिघण्टारववत् स्वाधिष्ठेयकरणग्रामतद्वृत्तिभावाभावप्रकाशकतया निमित्तमात्रं लोकप्रवृत्तिनिभित्तरविवदसंगतया मनआदिप्रवृत्तिनिमित्तमात्रं भवतीत्यत्र हस्तामलकाचार्या आहुः—

निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः।
रवेर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा॥

इति। तथाच—

आस्यनासिकयोर्मध्ये प्राणः सञ्चरते सदा।

इति श्रुतिसिद्धप्राणसंयोगात् घ्राणः प्राण उच्यते। प्रकरणात् प्राणाभेदेन घ्राणस्य प्राथम्यम्। करणानां विषयावभासकत्वेऽपि तत्करणव्यापृतिस्त्वन्वयव्यतिरेकाभ्‍यांप्राणायत्तेत्यत्र “यस्मिन्व13 उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते14 स वः श्रेष्ठः इति चक्षुरादीन्द्रियापेक्षया प्राणप्राधान्यश्रुतेः। केन सर्वेन्द्रियाणां प्रथमः प्राणः युक्तः नियुक्तस्सन् स्वविषयीभूतसुरभ्याद्युच्छ्रासादिव्यापृतौ प्रैति धावति। केनेषितामिमां शब्दलक्षणां वाचं लोका वदन्ति। क उ स्वयं द्योतनावान् देवः चक्षुः श्रोत्रं च रूपादिविषये युनक्ति नियुङ्क्ते प्रेरयतीत्यर्थः॥ १॥

तत्प्रश्नप्रतिवचनम्

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥२॥

एवं शिष्यप्रश्नानुरूपप्रतिवचनमाहाचार्यः— श्रोत्रस्य श्रोत्रं इत्यादिना। “ब्रह्ममात्रमसन्न हि” इति श्रुतिसिद्धस्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति अज्ञानतो ब्रह्मातिरिक्तमचेतनं मनआदिकरणजालं अस्तीति निश्चित्य तत्प्रवृत्तिनिमित्तबुभुत्सया पृच्छति शिष्ये तत्प्रश्नानुरूपप्रतिवचनं युक्तम्। तदन्यथा मनआदिकरणग्रामापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमित्युक्ते तदन्यथाभावनया तत्प्रवृत्तिरेव न स्यात्। तत् ब्रह्ममात्रबुद्धयारोहाय स्वकल्पितश्रोत्रादिकरणग्रामासंगतया तद्व्यापृतिनिमित्तप्रत्यग्बोधो जायते। स्वान्तःकरणापवादाधारः प्रत्यक् स्वबहिःप्रपञ्चापवादाधिकरणं ब्रह्म। स्वान्तर्बाह्यकलनापवादाधारयोः प्रत्यग्ब्रह्मणोरभेदे “तत्त्वमसि,” “अहं ब्रह्मास्मि ”इति श्रुतिर्मानम्। ततः प्रत्यगभिन्नब्रह्मबोधो जायते। ततः,

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इत्यादिश्रुतिसिद्धस्वान्तर्बाह्यप्रपञ्चकलनापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रबोधः सहसा प्रभवेदिति निश्चित्य आदौ करणग्रामप्रवृत्तिनिमित्तप्रत्यत्तत्त्वमुच्यते। शृणोत्यनेनेति शब्दश्रवणं प्रति करणं श्रोत्रमुच्यते। स्वोपलब्ध्यनुगृहीतश्रोत्रादेः स्वविषयावभासकत्वं न स्वतः। श्रोत्रादेः जडत्वात्। यथायस औष्ण्यमनित्यम्। अग्निनिष्ठत्वात्। अग्नेः औष्ण्यं नित्यम्। स्वभावसिद्धत्वात्। तथा श्रोत्रस्योपलब्धृत्वं अनित्यम्। उपलब्धुरुपलब्धत्वं नित्यम्। न च चक्षुः श्रोत्रं क उ देवो युनक्तीति प्रश्नस्य प्रतिवचनं “श्रोत्रस्य श्रोत्रं” इत्यादि न युक्तमिति वाच्यम्। प्रतिवचनस्य प्रश्नानुरूपत्वात्। यदि कुठारादिप्रयोक्तृवत् श्रोत्रादिभिन्नतया प्रयोक्ता दृश्येत तदा तदनुरूपं प्रतिवचनं न स्यात्।

स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः। इति,

श्रोत्रादिवाक्प्राणमनोऽपि भूत्वा श्रोत्रादिवाक्प्राणमनस्यसङ्गः।
तत्तत्प्रबोधं जनयन्नुदास्ते स रामचन्द्रोऽस्म्यहमेकरूपः॥

इति श्रुतेः प्रभोक्तेश्च। स्वाज्ञस्वज्ञदृष्टिभ्यां श्रोत्रादित्वं तदसङ्गतया तत्प्रवृत्तिनिमित्तत्वं चोपपद्यत इति प्रश्नानुरूपमेव प्रतिवचनमित्यर्थः। तथा मनसः संकल्पादिवृत्त्यवभासकत्वम्। यद्वाचो ह वाचं यच्छदो यस्मादर्थे श्रोत्रादिभिः संबध्यते यस्मात् “श्रोत्रस्य श्रोत्रं” इत्यादि। वाचो ह वाचमित्यत्र द्वितीयायाः प्रथमार्थः। वाचो ह वागिति यस्त्वया पृष्टः स उ प्राणस्य प्राणः इति चक्षुषश्चक्षुः इति च मनआदिचक्षुरन्तोपलक्षितकरणग्रामस्य संकल्पाभिधेयप्राणनरूपप्रकाशनादिसामर्थ्यं तदधिष्ठातृतद्भावाभावप्रकाशकचैतन्यमात्र— निमित्तम्। “को ह्येवान्यात् कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति।”, ‘ऊर्ध्वं प्राणमुन्नमयत्यपानं प्रत्यगस्यति” इत्यादिश्रुतेः। यद्वा—“यद्वाचो ह वाचं प्राणस्य प्राणः इत्यत्र सर्वत्र विभक्तिद्वयमुपयुज्यते। मनआदिकरणग्रामप्रवृत्तिनिमित्तं किमिति प्रश्नप्रतिवचनं तत्प्रवृत्तिनिमित्तं प्रत्यक्तत्त्वमिति प्रथमया निर्देशः। तत्प्रवृत्तिनिमित्तं पृच्छतो ज्ञेयत्वेन कर्मत्वमिति द्वितीयया निर्देशः। वाचो ह वाक् वाचो ह वाचं विद्धीति विभक्तिद्वयं सर्वत्र द्रष्टव्यम्। यत् स्वान्तश्रोत्रादेः श्रोत्रादिलक्षणत्वेन तदारोपापवादाधिकरणत्वेन च तद्भावाभावप्रकाशकप्रत्यग्रूपत्वात् तदेव स्वदेहात्बहिः प्रपञ्चारोपापवादाधिकरणत्वेन तद्भावाभावप्रकाशकप्रत्यगभिन्नब्रह्मास्मीति ज्ञात्वा तज्ज्ञानविज्ञानसम्यग्ज्ञानतः तमोरजस्सत्त्वसच्चिदानन्दावरणागामिसञ्चितारब्धभ्रान्तिजसहजकर्म-जतादात्म्यस्थूलादिभागत्रयोपमर्दकब्रह्मविद्वरीयस्त्वमेत्य स्वातिरिक्तप्रपञ्चजातं मिथ्यात्वेन अतिमुच्य निरस्य धीरा जीवन्मुक्ताः स्वदेहदारादौ अहंकारममकारविजृम्भितात् अस्मात् लोकात् प्रेत्य व्यावृत्य मृत्व शरीरान्तरारम्भकवासनाक्षयतः अमरणधर्माणः अमृताः भवन्ति। चतुष्पदैक्यसमये स्वातिरिक्तार्धमात्राप्रपञ्चापह्नवसिद्धनिष्प्रतियोगिकामृता भवेयुरित्यर्थः

स्वाज्ञानायत्तौ बन्धमोक्षौ जीवाः स्वाज्ञानव्यवधानतो बद्धा इव मुक्ता इव चोपचर्यन्ते। जीवानां वस्तुतः प्रकृत्या लब्धावरणत्वादित्यत्र,

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः॥

इति गौडपादाचार्योक्तेः। यद्वा—श्रोत्रस्य श्रोत्रादिरित्यत्र प्राथमिकश्रोत्रादिशब्देन स्वाविद्यापदतत्कार्यजातं उपलक्ष्यते। द्वितीयश्रोत्रादिशब्देन तदारोपापवादाधिकरणप्रत्यगभिन्नब्रह्म लक्ष्यते। तत्र यदधिष्ठेयं अविद्यापदतत्कार्यजातं निष्प्रतियोगिकाभावमात्रं परमार्थदृष्ट्यभातत्वात् तदधिष्ठानं प्रत्यगभिन्नं ब्रह्म प्रत्यक्परविभागसापेक्ष प्रभावैक्य15गतहेयांशमात्रापह्नवात् तन्निष्प्रतियोगिकभावरूपं स्वमात्रतया परमार्थदृष्टिभातत्वात् अशेषविशेषापह्नवसिद्धं ब्रह्म स्वाविद्यापदतत्कार्यजातं ब्रह्मातिरिक्तम्। तयोः ब्रह्मातिरिक्तयोः आधाराधेयता अस्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकं स्वमात्रमवशिष्यत इति ज्ञात्वा तज्ज्ञानसमकालं स्वातिरिक्तत्वात्मत्वसत्यत्वव्यावहारिक-त्वप्रातिभासिकत्वभ्रमं अतिमुच्य तच्छ्रन्यत्वेन विभाव्य पुरा स्वाज्ञस्वज्ञदशायां स्वातिरिक्तमात्मसत्य व्यवहारप्रतिभासशून्यत्वेनावलोक्यत इति लोकः। स्वातिरिक्तास्तितादिभ्रमः। तस्मात् अस्मात् लोकात् प्रेत्य स्वातिरिक्तसर्वापह्नवं कृत्वा निष्प्रतियोगिकामृता भवन्तीत्यत्र— “स यो ह वैतत् परमं ब्रह्म वेद ब्रह्मैव भवति,” “य एवं निर्बीजं वेद निर्बीज एव स भवति” इति ब्रह्ममात्रज्ञानसमकालं निष्प्रतियोगिकब्रह्ममात्रभावापत्तिश्रुतेः। श्रोत्रादिकरणग्रामप्रवृत्तिनिमित्तं ईशचैतन्यं प्रत्यक्चैतन्यं प्रत्यगभिन्नब्रह्मचैतन्यं तद्वतहेयांशापह्नवसिद्धब्रह्ममात्रं वा यद्यस्ति तदा तत् विशेषतः प्रतिपादयेति चेत् न। दर्शनीयब्रह्मणो निर्विशेषत्वात्। न हि निर्विशेषे वस्तुनि मनआदिप्रवृत्तिरस्ति जातिगुणक्रियाविशेषविशिष्टवस्तुनि खलु करणग्रामप्रवृत्तिः। न हि जातिगुणादिविशेषवत्ब्रह्म तत् कथं विशेषतः प्रतिपादयितुं शक्यम्। केनेषितंइति15 प्रश्नस्य

श्रोत्रस्य श्रोत्रमित्यादिना प्रतिवचनमुक्तमपि तद्वाक्ययाथात्म्याज्ञानादेव पुनः पर्यनुयुयुक्षा॥२॥

निष्प्रतियोगिकब्रह्मप्रतिपादनम्

** न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यात्।**

अन्यदेव तद्विदितादथो अविदितादधि।
इति शुश्रुम पूर्वेषां ये नस्तव्द्याचचक्षिरे॥ ३॥

यद्वाचानभ्युदितं येन वागभ्युद्यते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ ४॥

यन्मनसा न मनुते येनाहुर्मनो मतम्।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥५॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ ६॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ ७॥

यत्प्राणेन न प्राणिति येन प्राणः प्राणीयते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ ८॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह।
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा॥

इत्यादिकरणग्रामतत्प्रवेशाप्रवेशकलनावैरल्यश्रुत्यनुरोधेन निर्विशेषब्रह्ममात्रे तत्करणग्रामप्रवृत्तिनिवृत्ती न स्तः। येनाहं विशेषतः प्रतिपादये इत्याह—

न तत्र इति। स्वातिरिक्तप्रसक्तचक्षुर्वाङ्मनश्च स्वप्रवृत्तिनिमित्तप्रत्यक्चैतन्येऽपि घट इव न हि गच्छति तत्प्रवृत्तिनिमित्तप्रत्यक्चैतन्यस्याचाक्षुषत्वेन अनभिधेयत्वेन अमनस्करूपत्वेन च तदस्पृष्टत्वात् प्रत्यग्भावास्पृष्टकरणकदम्बं तत्कलनापह्नवसिद्धब्रह्ममात्रं कथं स्प्रष्टुं पारयति। तदपह्नवसिद्ध ब्रह्ममात्रबुद्ध्यारोहाय यथा येन प्रकारेण श्रोत्रस्य श्रोत्रमित्याद्युपायं विना निष्प्रतियोगिकत्वेनैतत् ब्रह्ममात्रं यः कोऽप्याचार्य ईश्वरो वा स्वशिष्येभ्यः विशेषवत् अनुशिष्यात् उपदिशेत्। तथा वयं न विद्मः। चक्षुरादिबाह्यकरणवैरल्यात्। तथा न विजानीमः। मन- आद्यन्तःकरणवैरल्यात्। यत्करणकदम्बगोचरं तदन्यस्मै उपदेष्टुं शक्यम्। सविशेषत्वेन विदितत्वात्। यत् करणग्रामागोचरं तत् अन्यस्मै उपदेष्टुमशक्यम्। तस्याविदितत्वात्। इति हेतुद्वयाभ्यां शिष्योपदेशवैय्यर्थ्ये ज्ञाते सर्वापह्नवसिद्धब्रह्ममात्र प्रबोधवैरल्यमाशंक्य विदिताविदितत्वेन प्रत्यक्षादिप्रमाणैः प्रतिपादयितुमशक्यत्वेऽपि विदिताविदितप्रपञ्चापह्नवमुखेन प्रतिपादयितुं शक्यत एवेत्यागम आह— अन्यत् इति। जाग्रज्जाग्रदादिस्वापतुर्यान्ततद्व्यष्ट्यारोपाधारविश्वविश्वादिप्राज्ञतुर्यान्ततत्समष्ट्यारोपाधारविराड्विराडादिबीजतुर्यान्ततद्व्यष्टिसमष्ट्यैक्याभिमान्योत्रोत्त्राद्यनुज्ञैकरसाविकल्पान्ताष्टाचत्वारिंशत्कलनायाः स्वात्मावरणत्वेन मिथो भेदप्रतीत्यर्हत्वेनावास्तवत्वेन च विदितत्वादविद्यापदस्थूलादिभागत्रयं तदारोपाधिकरणं च विदितमिति यच्चैतन्यं जानाति तद्धि विदितादन्यत्। ज्ञात्रन्तराभावात्। विदितादन्यत्वं सिद्धमित्यत्र— “विज्ञातारमरे केन विजानीयात्”, “स वेत्ति वेद्यं न च तस्यास्ति वेत्ता” इत्यादिश्रुतितः स्वातिरिक्तविज्ञाता प्रतिषिध्यते। यद्यथो ब्रह्मणो विदितादन्यत्वे अविदितत्वं स्यादित्यत आह—अविदितादधि इति। तुर्यजाग्रदादितुर्यस्वापान्ततद्व्यष्ट्यभिमानितुर्य-विश्वादितुर्यप्राज्ञान्ततत्समष्ट्यभिमानितुर्यविराडादितुर्यबीजान्ताविकल्पोत्राद्यविकल्पानुज्ञैकरसान्तद्वादशकलनाया जाग्रज्जाप्रदाद्यष्टाचत्वारिंशत्कलनेवात्मावरणभेदप्रतीत्यवास्तवत्वसाम्येऽप्या-त्मावरणादिरस्तीत्यविदितत्वादविदितत्वम्। तस्य ज्ञानापेक्षत्वात्। अविदिते वस्तुनि हि ज्ञानापेक्षा यद्विज्ञानानपेक्षं तदविदितादधि अधिशब्धोऽन्यदित्यर्थः। तद्यस्याधि तत्ततोऽन्यदित्यर्थः। अविदितादन्यस्य विज्ञानस्वरूपत्वात् “विज्ञानमानन्दं

ब्रह्म” इति श्रुतेः। जाग्रज्जाग्रदाद्यष्टाचत्वारिंशत्कलनात्मकाद्विदितादन्यत्; ब्रह्मेत्युक्ते तद्गतहेयांशापह्नवसिद्धचिन्मात्रत्वं उक्तं स्यात्। तुर्यजाग्रदाद्युपादेयद्वादशकलनात्मकात् अविदितादधि ब्रह्मेत्युक्ते तद्गतोपादेयांशापह्नवसिद्धचिन्मात्रमेव निष्प्रतियोगिकमवशिष्यत इत्युक्तं स्यात्। एवं स्वातिरिक्तविदिताविदितायमानजाग्रज्जाग्रदादिचतुष्पञ्चदश-कलनापह्नवसिद्धनिष्प्रतियोगिकतुर्यतुर्यब्रह्मस्वमात्रमिति प्रबोधसमकालं स्वातिरिक्तात्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिविभ्रमापह्नवीकरणविषयाभावात्16तदी-यापह्नवोक्तिरपि अपह्नवतां भजेत्। ततो निष्प्रतियोगिकब्रह्ममात्रं अवशिष्यत इत्यत्र पश्यतेहापि सन्मात्रमसदन्यत्”, “ब्रह्मव्यतिरिक्तं न किंचिदस्ति”, “मद्व्यतिरिक्तमणुमात्रं न विद्यते”,

अनात्मेति प्रसङ्गो वा अनात्मेति मनोऽपि वा।
अनात्मेति जगद्व्यापी17 नास्त्यनात्मेति निश्चिनु॥

इदं प्रपञ्चं यत्किंचिद्यद्यज्जगति वीक्ष्यते।
दृश्यरूपं च दृग्रूपं सर्वंशशविषाणवत्॥

सच्चिदानन्दमात्रोऽहं अनुत्पन्नमिदं जगत्।
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि॥

ब्रह्मेवैकमनाद्यन्तं सत्किञ्चिदवशिष्यते।

इति श्रुतिमानसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति नः अस्माकं ये ब्रह्मविद्वरीयांसो व्याचचक्षिरे विस्पष्टं व्याख्यातवन्तः। तेषां ऋभुनिदाघजडभरतदत्तात्रेयशुकवामदेवोद्दालक-वीतहव्यप्रभृतीनां पूर्वेषां ईशावास्यादिमुक्तिकोपनिषदन्तनिगमान्तविलसन्महावाक्य परम्परां तदर्थं च शुश्रुम श्रुतवन्तो वयमित्यस्वातन्त्र्यं स्वबुद्ध्यूहापोह प्रतिषेधार्थ “नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ” इति श्रुतेः। “अन्यदेव तद्विदितादथो अवि-

दितादधि” इति वाक्यतो विदिताविदितप्रपञ्चापह्नवसिद्धं ब्रह्म स्वमात्रमिति विदिते अर्थे वस्तुनि स्वाज्ञस्वदृष्टिदोषादेवं वदति कथं ब्रह्म स्वमात्रं स्वस्य नामरूपविशिष्टजीवत्वेन विविधकर्मोपासमासु अधिकृतत्वात् कर्मोपासनासाधनतः स्वर्गं सालोक्यादिमुक्तिं वा इच्छति। तद्भिन्न उपास्यो मघवान् ईश्वरो वा भवितुं अर्हति। न ब्रह्ममात्रम्। शास्त्रविरोधात्। तत्तन्मतनिर्वाहकतत्तच्छास्त्रप्रवर्तकाचार्यदृष्टिवैषम्यतः उपासकोपास्य भेदाभेदौ दृश्येते। तत्रासल्लौकिकाः देहेन्द्रियमनोबुद्ध्यादिरहं इत्याचक्षते। देहाद्यतिरिक्तजीव आत्मेति मीमांसकाः। वयमुपासकाः सूर्यशक्तिविष्णुगणेशमहेशभैरवादयः उपास्याः। तदुपासनया सालोक्यादिमुक्तिं भजाम इति द्वैत्यादयो मेनिरे। केचन ईश्वराभेदज्ञानतः कृतकृत्या भवन्तीति। शास्त्रप्रत्ययविरोधात्॥३॥

ब्रह्मभिन्नोपासकस्य स्वमात्रता कुत इति प्राप्तं तद्दृष्टिगतोपास्यवैचित्र्यप्रतिषेधाय केनेषितमितिप्रश्नानुरूपं “श्रोत्रस्य श्रोत्रं” इत्यदिनिर्विशेषं ब्रह्म प्रतिपाद्य तत्र विशेषादर्शनशंकायां “न तत्र चक्षुर्गच्छति” इत्यादिना चक्षुरादिकरणग्रामाप्रवर्तितोपदेशप्रत्याख्याने “अन्यदेव तद्विदितात्” इति ब्राह्मणवाक्येन चक्षुरादिकरणग्रामतदध्यक्षोपलक्षितविदिताविदितकलनापह्नव-सिद्धं ब्रह्म स्वमात्रमिति योयं आगमार्थ आम्नातः तदुपायत्वेन इमे मन्त्रा आरभ्यन्ते— यद्वाचो ह वाचमित्यादिवाक्यवृत्त्यर्थाः यद्वाचा इत्यादयः। “अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिः व्यज्यमाना बह्वी नानारूपा भवति तस्य वाक्तन्त्रीर्नामानि दामानि तस्येदं वाचा तन्त्र्या नामभिः दामभिः सर्वं सितम् “इति श्रुतिसिद्धजिह्वामूलाद्यष्टस्थानाभिव्यक्ताग्नेयार्थसंकेतवर्णाभिव्यञ्जक-सुप्तिङन्तपदतत्समूहवाक्यविजूंभितवेदशास्त्रायमाणया स्वप्रवृत्तिनिमित्तसत्तातिरिक्तसत्ताविर-लया वाचा यञ्चैतन्यमात्रं अनभ्युदितं अनभ्युक्तं अप्रकाशितं इत्यर्थः। “यतो वाचो निवर्तन्ते” इत्यादिश्रुतेः। येन स्वनिमित्तभूतचैतन्यज्योतिषा सकरणा वाक् अभ्युद्यते प्रकाश्यत इत्यर्थः। “यद्वाचो ह वाचं”, “वाचमन्तरो यमयति” इति श्रुतेः “या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता। सा वाक् यया स्वप्ने भाषते। सा हि वक्तुर्वक्तिः नित्या वाक् चैतन्य-

ज्योतिःस्वरूपा। न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते। अविनाशित्वात्। न तु तद्वितीयमस्ति। ततोऽन्यद्विभक्तं यद्वदेत्” इत्यादिश्रुतिसिद्धवागादिकरणग्रामप्रवृत्तिनिमित्तचिद्धातोः पराग्भावसापेक्षप्रत्यग्भावापह्नवतः स्वमात्रतयोपबृंहणात् तदेव ब्रह्मेति त्वं विद्धि। स्वाज्ञस्वज्ञदृष्टिविजृंभितकरणतत्प्रवृत्तिनिमित्तगत हेयांशापह्नवसिद्धं ब्रह्म स्वमात्रमिति विजानीहीत्यर्थः। तदेव ब्रह्मेत्यवधारणार्थं विशदयति— नेदं इति**।** विदिताविदितायमानजाग्रज्जाप्रदाद्यवस्थापाधिविशिष्टविश्वविश्वाद्यविकल्पानुज्ञैकरसान्तभेदजातं इदन्त्वेन अहन्त्वेन वा ये स्वाज्ञस्वज्ञा उपासते ध्यायन्ति यद्यत् इदमहमित्यादिव्यवहारार्हंतत्तत्18 शशविषाणवत् नास्तीत्यत्र—

इदमित्येव निर्दिष्टमयमित्येव कल्पते।
त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च॥

मदीयं च त्वदीयं च ममेति च तवेति च।
मह्यं तुभ्यं मयेत्यादि तत्सर्वमसदेव हि॥

सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते॥

इत्यादिश्रुतिः मानम्॥ ४॥

किं च— यन्मनसा इति। “कामस्संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिः ह्रीर्धीर्भीरित्येतत्सर्वं मन एव” इति श्रुतिसिद्धकामादिवृत्तिमन्मनोन्तःकरणम्। तेन मनसा यत् स्वप्रवृत्तिनिमित्तचैतन्यज्योतिः न मनुते न हि संकल्पयति अध्यवस्यति स्मरति वा। मनोनिमित्तस्य मनः तद्वृत्तिभावाभावाप्रकाशकत्वात्। मनसो मननादिसामर्थ्यं स्वप्रवृत्तिनिमित्तचैतन्याधीनमित्यर्थः। येन स्वनिमित्तभूतेन स्ववृत्तिकं मनो मतं विषयीकृतं इत्याहुः ब्रह्मविदः। तन्मनः प्रवृत्तिनिमित्तमेव प्रत्यक्चैतन्यं पराक्त्वसापेक्षप्रत्यग्भावाभावे निष्प्रतियोगिकब्रह्ममात्रं विद्धि इत्यादि पूर्ववत्॥५॥

किं च— यच्चक्षुषा इति। चक्षुःप्रवृत्तिनिमित्तं यत् चैतन्यं चक्षुषा न पश्यति लोकः। येन स्वप्रवृत्तिनिमित्तेनान्तः करणवृत्तिविशिष्टचक्षुर्वृत्तयः चक्षूंषि पश्यति लोकः। चैतन्यज्योतिषा विषयीकरोतीत्यर्थः। तदेवेत्यादि पूर्ववत्॥६॥

किं च— यच्छ्रोत्रेण इति। यत् चैतन्यं दिग्देवताधिष्ठितत्वेन आकाशकार्यमनोवृत्तिसंयुतेन श्रोत्रेण न शृणोति न विषयीकरोति लोकः। येन श्रोत्रमिदं श्रुतं चैतन्यज्योतिषा विषयीकृतं तदेवेत्यादि पूर्ववत्॥ ७॥

किं च— यत्प्राणेन इति। यत् घ्राणादिसर्वकरणप्रवृत्तिनिमित्तप्रत्यग्ज्योतिः अन्तःकरणप्राणवृत्तिसहितपार्थिवप्राणेन घ्राणेन न प्राणिति गन्धवन्न विषयीकरोति येन प्रत्यग्ज्योतिषा भास्यत्वेन प्राणः प्रणीयते विषयीक्रियते तदेव इत्यादि पूर्ववत् सर्वं समानम्॥ ८॥

इति प्रथमः खण्डः

________________

द्वितीयः खण्डः

शिष्यबुद्धिविचालनम्

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य च देवेष्वथ नु मीमांस्यमेब ते मन्ये विदितम्॥१॥

** **एवमाचार्येण विदिताविदितकलनापह्नवसिद्धं ब्रह्म स्वमात्रमित्यर्थे “श्रोत्रस्य श्रोत्रं” इत्यादिना विदिताविदितायमानश्रोत्रादिकरणग्रामप्रवृत्तिनिमित्तगतहेयांशापह्नवमुखेन बहुलोपपत्तिभिः निष्प्रतियोगिकब्रह्ममात्रसिद्धान्तः प्रकटितः। सोऽयं शिष्येणावधारितो न वेति सन्दिहान आचार्यः स्वोक्तब्रह्ममात्रनिष्ठाद्रढिम्ने

शिष्यबुद्धिं विचालयति— यदि मन्यसे इत्यादिना। केनेषितमित्यादि त्वत्प्रश्नानुरोधेन श्रोत्रस्य श्रोत्रमित्यादिप्रतिवचनार्थ विदिताविदितविपरीतत्वेन,

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।

इत्युपास्यान्तरप्रतिषेधः कृतः “अन्यदेव तद्विदितात्” इत्यादि ब्रह्मवित्संप्रदानिश्चयश्चोक्तः। एतद्वाक्यपृगविशिष्टार्थः समस्तविदिताविदितकलनापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रं खलु तत् कि सुवेद सुष्ठु वेदाहं इति यदि मन्यसे तदा तदपि दभ्रं अल्पं परिच्छिन्नमेव जाग्रज्जाग्रदाद्यष्टाचत्वारिंशात्मकविदितब्रह्मैव त्वम्। वस्तुनो दुर्विज्ञेयत्वात्। एवं दुर्विज्ञेयमपि वस्तु कश्चिच्छुद्धान्तःकरणः स्वमात्रतया प्रतिपद्यते। कश्चित् अशुद्धान्तरः एवं न प्रतिपद्यते। कश्चित् विपरीततयासल्लौकिकादिवत् प्रतिपद्यते। तथाच छान्दोग्याष्टमाध्याय आम्नातम्— “य एषोक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म इति। अक्षिशब्दोपलक्षितकरणग्रामप्रवृत्तिनिमित्तप्रत्यक्चैतन्यं परागक्षसापेक्षनिमित्ततापह्नवत एतदेव निष्प्रतियोगिकामृताभयरूपेण ब्रह्ममात्रमवशिष्यते इत्युक्तमर्थं इन्द्रविरोचनौ द्वात्रिंशद्वर्षगुरुकुलवासतः श्रुत्वापि स्थूलशरीरं आत्मेति प्रतिपन्नौ। तत्र इन्द्रस्य दैवप्रकृत्यारूढत्वेन सकृद्वित्रिरुक्तं चाप्रतिपद्यमानोऽपि निश्शेषचित्तमालिन्यक्षयतः चतुर्थपर्याये प्रथमपर्यायोक्तार्थमेव गृहीत्वा इन्द्रः कृतार्थतां गतः। एवं एकस्मात् गुरोः शृण्वतां सब्रह्मचारिणां मध्ये कश्चित् न प्रतिपद्यते। कश्चित् विपरीतम्। कश्चित् यथावत् प्रतिपद्यते। तथाच अत्रैव करणग्रामापह्नवसिद्धब्रह्ममात्रे वस्तुनि असल्लौकिकादिषड्दृष्टयो विप्रतिपन्नाः। एवं सदसद्वादिनः तार्किकाश्च वाक्याभासयुक्त्याभासतः परमार्थात्हीयन्ते। तस्मात् वस्तुनो दुर्विज्ञेयत्वं निरङ्कुशमित्यर्थः। विदिताविदितकलनाविरलब्रह्म उपदिष्टमपि स्वदृष्टिवैषम्यात् यदि कदाचित् सुवेद ब्रह्माहं इति मन्यसे तत् दभ्रमेव इति। नूनं निश्चितम्। किमनेकानि नामरूपोपाधिकृतानि जाग्रज्जाग्रदाद्युपाधिकृतानि विश्वविश्वाद्यनुज्ञैकरसाविकल्पान्तानि षट्त्रिंशत्संख्यापरिमितानि अस्य ब्रह्मणो रूपाणि वेत्थ त्वं अस्य विदितब्रह्मविषयत्वात्। तदपि दभ्रमेव यदपि तुर्यजाग्रदाद्युपाध्यसंगतुर्यविश्वाद्यविकल्पानुज्ञैकरसान्तनव-

संख्याकानि सप्रतियोगिकनीरूपब्रह्मणो रूपाणि वेत्थ त्वं तस्य अविदितत्वेन विज्ञानापेक्षत्वात् तदपि दभ्रमेव। ब्रह्मणो रूपं तु वस्तुतो विदिताविदितकलनापह्नवसिद्धब्रह्मणः स्वमात्रतया श्रुतिभिः निरूपणात् ब्रह्मणो रूपं निष्प्रतियोगिकब्रह्ममात्रं “सत्यं ज्ञानमनन्तं ब्रह्म” इति स्वातिरिक्तानृतजडदुःखप्रपञ्चापह्नवसिद्धसच्चिदानन्दमात्रावशेषतावादिश्रुतेः। तद्विहाय यदस्य ब्रह्मणः स्वरूपं विशेषवत्त्वं वेत्थ तथा देवेष्वपि यः कश्चिन्निर्विशेषब्रह्मणो रूपं विशेषवत्वेद तद्वेदनमपि दभ्रमेव। विपरीतग्रहणात्। यद्वा—स्वाधिष्ठानदेवतानुगृहीतत्वेन द्योतनात् देवाः श्रोत्रादीन्द्रियाणि तेषु देवेषु यदस्य ब्रह्मणो रूपं तद्धिताहितप्रवर्तकान्तर्यामिरूपं तत्प्रवृत्तिनिमित्तपराक्सापेक्षप्रत्यग्रूपं वा त्वं वेत्थ तदपि दभ्रमेव। अध्यात्माधिदेवोपाधिपरिच्छिन्नत्वात् दभ्रत्वं युक्तम्। अथ नु इति शब्दो मीमांसाहेतुः। यत्तु स्वातिरिक्त परिच्छिन्ना19परिच्छिन्नस्वाविद्यातत्कार्यापह्नवसिद्धं ब्रह्म न हि सुवेदेति सुष्ठु वेदितुं शक्यम्। यत एवं अथ नु तस्मात् ते तव ब्रह्म मीमांस्यं विचार्यमेवेति मन्ये। एवमाचार्येण चालितः शिष्यः रहस्यस्थलमासाद्य स्वाचार्योक्त “श्रोत्रस्य श्रोत्रं”, “अन्यदेव तद्विदितात्” इत्याद्यागमपरम्परां अर्थानुकूलानुभवबलेन अवधार्य स्वाचार्यसकाशं विनयेनोपविश्य हे स्वामिन् भवद्विचालनात् पुरा भवदुपदिष्टपरिनिष्ठितवस्तु सुष्ठु वेदाहमिति विपरीतभावना ममासीत्। नूनमिदानीं भवत्प्रसादात् सेयं विपरीतभावना गता। इदानीं मद्विज्ञापनं श्रोतव्यं इत्याह— मन्य इति।
मीमांसानन्तरोक्तिः किमित्यत आह— विदितं इति॥ १॥

अविचालितेन शिष्येण स्वानुभवोद्घोषणम्

नाह20 मन्ये सुवेदिति नो न वेदेति वेद च।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च॥ २॥

कथं त्वया विदितमित्यत आह— नाह इति। अहेत्यवधारणार्थः। यथोक्त— विशेषणविशिष्टं ब्रह्म सुवेदेति नैवाहं मन्ये सुवेदेति नैव जानामीत्यर्थः। किं

त्वया नैव विदितं ब्रह्मेत्यत आह— नो इति। नो नैव वेदेति न। किन्तु वेद च। चशब्दात् न वेदेति**।**

नाह मन्ये सुवेदेति नो न वेदेति वेद च।

इति विप्रतिषिद्धं त्वयोच्यते। एकं वस्तु वेदाहमिति येन ज्ञायते तेनैव तदेव वस्तु न ज्ञायते इति यत् तद्धि विप्रतिषिद्धम्। न हि ब्रह्म संशयविपर्ययासंभावनाविपरीतभावनादिभिः ज्ञातुं शक्यं निष्प्रतियोगिकब्रह्ममात्रावगतेः संशयादिपञ्चदोषापह्नवपूर्वकत्वात्। तस्मात् व्याविद्धसंशयादिपञ्चदोषेण निष्प्रतियोगिकनिस्संशयब्रह्ममात्रस्वरूपावस्थानलक्षणकैवल्यमात्तुं शक्यं न विपर्ययः इत्यत्र—

अहं ब्रह्म न वेत्येष संशयो वस्त्वनिर्णयात्।
प्रतीचि देहोऽहमिति विपर्यासात्मिका मतिः॥

नास्ति ब्रह्मेति या बुद्धिः सैवासंभावनेरिता।
ब्रह्मास्ति यद्यस्मदादितुल्यं सच्चित्सुखं न तत्॥

इयं धीर्विपरीताख्यभावनेत्यभिधीयते।
ब्रह्मणो विश्वताभानमन्यथा भावनेरितम्॥

दोषपञ्चकशान्त्यन्तं कर्तव्यं श्रवणं बुधैः।
ततः शास्त्रजविज्ञानमप्रमादं भवेत्तराम्॥

श्रुतज्ञानं स्वानुभूत्या युतं विज्ञानतां भजेत्।
तदा ब्रह्मातिरिक्तस्य प्रातिभासिकधीर्भवेत्॥

ब्रह्ममात्रमसन्नेति ब्रह्ममात्रेऽवशेषिते।
प्रतियोगिविनिर्मुक्तस्वमात्रे न हि संशयः॥

क्व विपर्यासधिषणा क्व वा संभावना चिति।
विपरीतमतिर्वा क्व चान्यथा भावनापि च॥

श्रवणं मननं ध्यानं क्व वा सिद्धिं निगच्छति।
वित्त्वं वरत्वं वर्यस्त्वं वरिष्ठत्वमपीह न॥

प्रतियोगिविनिर्मुक्तपरमानन्दवैभवम्।
विकलेवरकैवल्यं स्वमात्रमवशिष्यते॥

इत्यादिस्मृतिर्मानम्।

अद्वितीयब्रह्मतत्त्वं न जानन्ति यदा तदा।
भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम्॥

इति श्रुतिस्मृत्युक्तार्थविपर्यये मानम्। एवं युक्तियुक्तश्रुतिस्मृतिवाक्योपपत्तिभिराचार्येण शिष्यो विचाल्यमानोऽपि स्वाचार्योक्तान्यदेवेत्याद्यागमसंप्रदायोपपत्तिबलेन न विचचाल। स्वाधीतब्रह्मविद्यायां आत्मनो दृढनिश्चयं दर्शयन् “अन्यदेव नद्विदितात्” इत्यादिवाक्योक्तं वस्तु श्रुत्याचार्योपपत्त्यनुभवतोऽवधार्य सब्रह्मचार्यावृताचार्यनिकटमेत्य सब्रह्मचारिणां विस्मयं जनयन् स्वाचार्यं हर्षयन्वाक्यान्तरेण देवदुन्दुभिवत् स्वानुभवं उद्घोषयति—य इति। नः अस्माकं सब्रह्मचारिणां मध्ये यः कश्चित् आचार्योक्तं,

अन्यदेव तद्विदितादथो अविदितादधि।

इतितद्वाक्यनिष्पन्नविदिताविदितकलनापह्नवसिद्धं ब्रह्म स्वमात्रमिमि वेद सोऽयं निष्प्रतियोगिकब्रह्म स्वमात्रमिति वेद नान्य इत्यर्थः। किं पुनः तद्वाक्यमित्यत आह— नो इति। विदिताविदितप्रपञ्चतत्कार्यापह्नवसिद्धं ब्रह्म स्वमात्रं इति नोनैव वेदाहमिति न। स्वमात्रं इति वेद। चशब्दात् स्वातिरिक्ताविद्यापदतत्कार्यजातालङ्कारविदिताविदितप्रपञ्चं आत्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन शून्यत्वेन वा अस्ति नास्तीति विभ्रमं न वेदेति द्योत्यते॥ २॥

शिष्याचार्यसंवादानुवादः

यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अविज्ञातं विजानतां विज्ञातमविजानताम्॥ ३॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्॥ ४॥

इत्थं शिष्याचार्यसंवादनिर्वृत्तं नो न वेदेति वेद च इति वाक्यार्थं श्रुतिरनुवदति यस्य इत्यादिना। यस्य निष्प्रतियोगिकब्रह्ममात्रविदो विदितत्वेन अविदितत्वेन वा ब्रह्ममात्रं अमत्तं अविज्ञातमिति निश्चयो भवति। तस्य विदिताविदितकलनापह्नवसिद्धं ब्रह्म स्वमात्रमिति मतं सम्यगवगतमित्यर्थः। यस्य पुनरविदुषो विदितत्वेनाविदितत्वेन वा ज्ञातं मया ब्रह्मेति मतं अभिप्रायो भवति सोऽयं अविद्वान् कल्पकोटिशतैरपि न वेद स्वावशेषेण कदापि ब्रह्म न जानातीत्यर्थः। यथोक्तविद्वदविद्वन्मतमवधारयति— अविज्ञातं इति। ब्रह्म स्वमात्रमिति वस्तुयाथात्म्यं विजानतां तत्त्वदर्शिनां विदिताविदितत्वेन अविज्ञातमेव वस्तुयाथात्म्यं अविजानतां विदितत्वेनाविदितत्वेन वा ब्रह्म विज्ञातं तेषां स्वातिरिक्तप्रपञ्चावृतदृष्टित्वात् न हि ते ब्रह्मयाथात्म्यं जानन्तीत्यर्थः। न हि ते विदिताविदितब्रह्मविदोऽत्यन्तमूढा भवन्ति। असल्लौकिकपञ्चकवत् देहेन्द्रियादौ आत्मबुद्ध्यदर्शनात् देहातिरिक्तविश्वविश्वादित्रिपञ्चदशसविशेषब्रह्मदृष्टित्वाच्च “विज्ञातमविजानताम्” इति वाक्यत एते अविद्वांसः ब्रह्ममात्रसिद्धान्तपूर्वपक्षत्वेनोक्ता इत्यर्थः॥ ३॥

यद्वा— उत्तरार्धो हेत्वर्थः “अविज्ञातं विजानतां” इति विद्वदविदुषोर्बोधेयत्ता प्रकटनहेतुत्वात्। यदि ब्रह्म अत्यन्तमेवाविज्ञातं तर्हि विद्वदविदुषोः को विशेषः उभयोरप्यविज्ञातत्वात्।

अविज्ञातं विजानतां विज्ञातमविजानताम्।

इति मिथो विरुद्धमुक्तम्। तत् कथं ब्रह्म स्वमात्रतो विदितं भवेत्इत्याकांक्षायां तदुपायत्वेन बुद्धिवृत्तिसहस्रभावाभावप्रकाशकप्रत्यक्चिद्धातोः स्वप्रकाश्यबुद्धितद्वृत्त्यपह्नवे निष्प्रतियोगिकब्रह्ममात्रसिद्धिः तत्स्वरूपावस्थानकैवल्यफलं च स्यादित्याह श्रुतिः— प्रतिबोधविदितं इति। “कोऽयमात्मेति

वयमुपास्महे” इत्यारभ्य “सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति” इतिश्रुतिनिर्दिष्टसंज्ञानादयः प्रत्ययाः बोधशब्देन निर्दिष्टाः। वीप्सा तु सर्वप्रत्ययाप्त्यर्था। संज्ञानादिबुद्धिवृत्तीनां स्वविलक्षणप्रत्यग्धातुव्याप्तत्वात्। बुद्धिवृत्तयोबोधा उच्यन्ते \। बोधं प्रति बोधं प्रति तद्भावाभावप्रकाशकप्रत्यग्रूपेण प्रयगभिन्नब्रह्मरूपेण स्वभास्यबुद्धिवृत्तिकदम्बपराग्भावसापेक्षप्रत्यग्भावगतभासकतारूपयांशापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्ररूपेण वा विदितं प्रतिबोधविदितं तदेव सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति मतम्। तत्स्वरूपावस्थानविकलेवरकैवल्यं हि अमृतत्वं विन्दते। एवं विद्वान् लभते। प्रत्यक्तदभिन्नब्रह्ममात्रपर्यायत्रयेषु परस्परोपायोपेयभूतेषु प्राथमिकपर्याये बोधवृत्तिसहस्रभावाभावप्रकाशकतद्विलक्षणचिद्धातुयाथात्म्याज्ञानतः केचन एवं वदन्ति। बोधक्रियाशक्तिमानात्मा। न बोधः। बोधस्तु जायते नश्यति। यदा बोधो जायते तदा सविशेषः। यदा बोधो नश्यति तदा निर्विशेषः। एवं बोधलक्षणेन विदितं प्रतिबोधविदितमिति। तत्रात्मनो विक्रियादिदोषवत्वं केचन आत्ममनस्संयोगजोबोधः आत्मनि समवैति। तत्र आत्मनो विक्रियाशून्यत्वेन बोद्धृत्वमस्मिन् पक्षेऽप्यात्मन अचेतनत्वं भवति। आत्मनो निरवयवत्वेन संयोगप्रदेशाभावात् नित्यसंयुक्तत्वेन स्मृत्युत्पत्त्यनवकाशात्। अचेतनसंसर्गधर्मित्वं चात्मनः श्रुतिस्मृतिन्यायविरुद्धं भवेत्। ‘विज्ञानमानन्दं ब्रह्म”, “असङ्गो न हि सज्जते,” “असक्तं सर्वभृच्चैव निर्गुणं” इति च गुणवत्गुणवता संसृज्यते। नातुल्यजातीयम्। तत्र प्रत्युक्तत्त्वस्य सर्ववृत्तिविलक्षणत्वेन निर्विशेषत्वेन च निर्गुणत्वात् न केनचित् संसर्गित्वं युज्यते। सर्वबोधबोद्धत्वं अर्थात् सिद्धं भवति। तस्मात् बोधवृत्त्यसंगत्वेन तद्भावाभावप्रकाशकत्वेन च प्रतिबोधविदितं मतं इत्यत्र —

चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः।

इति श्रुतेः, “स्वयमेवात्मनात्मानं वेत्थ” इति स्मृतितः प्रतिबोधविदितं इत्यत्र स्वसंवेद्यता स्यादिति चेन्न। बोधवृत्त्यवभासकप्रतीचो निरुपाधिकत्वात्।

प्रतीचि स्वसंवेद्यता परसंवेद्यता वा न हि सेद्धुं पारयति। न हि प्रकाशस्य प्रकाशान्तरापेक्षावत् संवेदनस्वरूपस्य संवेदनान्तरापेक्षा अस्ति। नित्यालुप्तसंवेदनमात्रस्वरूपत्वात् स्वसंवेद्यस्मृतेः का गतिरिति। सा स्मृतिः सोपाधिके गतिमर्हति। योगाचारपक्षे तु स्वसंवेद्यतायाः क्षणभङ्गुरत्वं निरात्मकत्वं च भवति। “न हि विज्ञातुः विज्ञातेर्विपरिलोपो विद्यते अविनाशित्वात् “इत्यादिश्रुतिविरुद्धत्वात्। सुप्तस्य निर्निमित्तो बोधः प्रतिबोध इति केचन। तथासकृद्विज्ञानमित्यपरे। सनिमित्तो निर्निमित्तः सकृद्वासकृद्वा भवतु अस्माकं प्रतिबोध एव सः। प्रत्यग्भास्यत्वाविशेषात्। बोधस्य प्रत्यगात्मविषयत्वमेव मतम्। अमृतत्वप्राप्तिहेतुत्वात्। प्रत्ययप्रत्यगात्मतया तत्प्रव्यक्तत्त्वं विशिष्यते। नान्यद्वारान्तरं आत्मनो याथात्म्यावगतये भवति इति “अमृतत्वं हि विन्दते” इति हेतुवचनं युक्तं भवति। द्वितीयपर्याये तु विदिताविदितप्रतिषेधबोधाधिकरणत्वेन प्रत्यगभिन्नब्रह्मैव प्रतिबोधविदितं भवति। तृतीयपर्याये तु “अन्यदेव तद्विदितादथो अविदितादधि” इति श्रुत्यनुरोधेन विदिताविदितायमानजाग्रज्जाप्रदाद्यविकल्पानुज्ञैकरसान्तचतुष्पञ्चदशकलनागोचरबुद्धिवृत्तयो बोधपूगः। तादृशबोधं प्रति बोधं प्रति तत्तद्बोधवृत्त्यपह्नवमुखेन निष्प्रतियोगिकस्वमात्रतया यद्विदितं तत्प्रतिबोधविदितम्। तदेवेशाद्यष्टोत्तरशतवेदान्तमतम्। “य एवं निर्बीजं वेद निर्बीज एव स भवति” इति श्रुतिसिद्धनिर्बीजब्रह्मवेदनसमकालं विदिताविदितबीजापह्नवसिद्धनिष्प्रतियोगिकनिर्बीजब्रह्ममात्रावस्थनलक्षणविदेहकैवल्यमेवामृतत्वमिति विद्वान् स्वावशेषतया विन्दते। हिशब्दो निस्संशयार्थः। ज्ञानसमकालमेव मुक्तो भवतीत्यत्र “ज्ञानसमकालमेव मुक्तः कैवल्यं याति” इति श्रुतेः “अमृतत्वं हि विन्दते” इत्युक्तम्। केन हेतुना अमृतत्वं विन्दत इत्यत आह— आत्मना इति। धनमन्त्रतन्त्रयन्त्रतपोयोगादिकृतवीर्यस्य कृतकत्वेन क्षणिकत्वात् तद्वीर्य21ं स्वाज्ञानत्कार्यायमाणमृत्युं निर्मूलयितुं न हि शक्तं भवति। स्वस्यापि स्वाज्ञानप्रभवत्वेन

मृत्युरूपत्वात्। स्वात्मविद्याकृतवीर्यस्य तु विदिताविदितायमानजाग्रज्जाग्रदादिचतुष्पञ्चदश-कलनावरणोद्घानपटुत्वात्तदेव स्वाविद्यापदतत्कार्यात्मकत्व22सत्यत्वव्यावहारिकत्वप्राति-भासिकत्वादिरूपमृत्युं अपह्नवं कर्तुं शक्नोति। तथाविधात्मवीर्यं केन विन्दते इत्यत आह— आत्मना इति। स्वेन रूपेण आत्मना विश्वविश्वादितुर्यबीजान्तं यत्र विलीयते अपह्नवं वा याति तद्वीर्यं आधेयनिरूपिताधारतापह्नवीकरणसामर्थ्यं स्वरूपं स्वमात्रमिति विन्दते लभते इत्यर्थः।

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात्।
एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशते ब्रह्मधाम॥

इति श्रुत्यनुरोधेन स्वमात्रबलवत्या अविद्यया स्वमात्रावरणायमानजाग्रज्जाग्रदादिचतुष्पञ्चदश-कलनापह्नवीकरणपटुशक्त्या निष्प्रतियोगिकामृतं विकलेबरकैवल्यं स्वावशेषं विद्वान् विन्दते। न चानन्तता23 चादिमतो मोक्षस्य न भविष्यतीति गौडपादाचार्योक्त्यनुरोधेन विद्ययामृतं उत्पाद्यते। तथाविधब्रह्ममात्रविद्याया अपि स्वापह्नोतव्यब्रह्ममात्रावरण जाग्रज्जाप्रदादिचतुष्पञ्चदशकलनापह्नवसमकालमपह्नवं गतत्वात्। स्वतः स्वमात्रावस्थानलक्षणकैवल्यं अवशिष्यते इत्यत्र—

यावद्यावन्मुनिश्रेष्ठ स्वयं सन्त्यज्यतेऽखिलम्।
तावत्तावत्परो लोकः परमात्मैव शिष्यते॥ इति श्रुतेः।

निरवद्यपि ब्रह्मविद्ययावृतवद्भवेत्।
स्वाविद्यावरणे नष्टे स्वतो ब्रह्म प्रकाशते॥

इति स्मृतेश्च॥ ४॥

ब्रह्मविद्याधिगमः परमपुरुषार्थहेतुः

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥

यतो ब्रह्मविद्याया ब्रह्ममात्रावरणापह्नवपटीयस्त्वं अत एव इह जन्मन्येवब्रह्मविद्याशितखड्गेन स्वमात्रावरणं तिलशः छित्वा स्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्म स्वमात्रमिति वेदितव्यम्। अन्यथा क्षणमात्रव्यवधानात् महाननर्थो जायते इत्याह इह इति। “यथादर्शे तथात्मनि ”इति श्रुत्यनुरोधेन इह मनुष्यजन्मनि यथोक्तसाधनसंपन्नो ब्रह्मविद्याधिकारी मुमुक्षुः स्वातिरिक्तविदिताविदितकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति अवेदीत् वेद चेत् अथ तद्वेदनोत्तरक्षणं तदा “सन्मात्रमसदन्यत्” इति श्रुतिसिद्धासदपह्नवाविर्भूतसन्मात्रं सत्यं सत्तासामान्यस्वरूपावस्थानलक्षणविदेहकैवल्यं विद्यते। स्वतःप्रकाशत इत्यर्थः।यथोक्तब्रह्मविद्याधिकार्यपि मुमुक्षुः इहजन्मनि यथोक्तप्रकारेण ब्रह्ममात्रं न चावेदीञ्चेत् नैव वेद चेत् महती दीर्घा अनन्ता विनष्टिः विनाशनं जनिमरणादि प्रतिबन्धसान्तत्यं असल्लौकिकपञ्चकप्राप्यस्थावरापत्तिलक्षणं वा भवतीत्यत्र—

लब्ध्वा कथंचिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्।
यस्त्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहत्य हन्यते॥

इति सर्वज्ञभगवत्पादोक्तेः। यत एवं अतः इह जन्मन्येव स्वाज्ञदृष्ट्या स्वातिरिक्तविदिताविदितायमानस्वाविद्यापदतत्कार्यजाते विद्यमानेऽपि तद्गतहेयांशापह्नवसिद्धं ब्रह्म विदित्वा तत्फलं भोक्तव्यं इत्याह— भूतेषु इति॥ मुमुक्षवो धीराः शरीरमिदं मैथुनादेवोद्भूतं संविध्यपेतं निरय एव मूत्रद्वारेण निष्क्रान्तं अस्थिभिः चितं मांसेनानुलिप्तं चर्मणावनद्धं विण्मूत्रवातपित्तकफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः परिपूर्णम्। एतादृशेऽस्मिन् शरीरे वर्तमानस्य किं कामोपभोगैरित्यादि।

देहवासनया जन्तोः शास्त्रवासनयापि च।
लोकवासनया ज्ञानं यथावन्नैव जायते॥

“न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः”। इत्यादि श्रुत्यर्थपर्यालोचनया वासनात्रयपुरस्सरं एषणात्रयं संन्यस्य गुरुकुलवासब्रह्मचर्यशुश्रूषासन्तुष्टगुरुमुखात् गृहीतप्रणव महावाक्यस्वाश्रमोचितानुष्ठानं कुर्वन् “संन्यस्य श्रवणं कुर्यात् “,

विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ।

इति श्रुत्यनुरोधेन संशयादिपञ्चदोषशान्त्यन्तं ईशाद्यष्टोत्तरशतवेदान्तश्रवणमनननिदिध्यासनतो गुणत्रयावृत्तित्रयतादात्म्यत्रयोपमर्दकवित्त्ववरत्ववरीयस्त्वं एत्य अथ स्वाज्ञस्वज्ञदृष्टिभ्यां भूतेषु भूतेषु ब्रह्मादिस्थावरान्तेषु सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वा सत्स्वसत्स्वपि " पश्यतेहापि सन्मात्रमसदन्यत्“ब्रह्ममात्रमसन्न हि”,

अन्यदेव तद्विदितादथो अविदितादधि।
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते॥

त्यादिश्रुत्यनुरोधेनविदिताविदितायमानजाग्रज्जाग्रदादिचतुष्पञ्चदशकलना अस्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति विचित्य

निश्चित्य ज्ञात्वा तज्ज्ञानसमकालं स्वाज्ञस्वज्ञदृष्टिविजृम्भितविदिताविदितायमानजाग्रज्जाग्रदा

दिचतुष्पञ्चदशकलनाभ्रमो यत्र लोक्यते स्वात्मसत्यव्यावहारिकप्रातिभासिकत्वादिरूपेण वा यत्र दृश्यते स लोकः। तस्मात् लोकात्

प्रेत्य त्र्यावृत्य स्वातिरिक्तलोकापह्नवं कृत्वा अथ स्वातिरिक्तापह्नव सिद्धनिष्प्रतियोगिकब्रह्ममात्रभावारूढास्सन्तः अमृताः

विदेहमुक्ता भवन्ति। ब्रह्मैव भवन्तीत्यर्थः। तमेवं विद्वांस इहैवामृता भवन्ति।

ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते।
चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः॥ इत्यादिश्रुतेः॥ ५॥

इति द्वितीयः खण्डः
_________

तृतीयः खण्डः

शबलब्रह्मस्वरूपप्रकटनम्

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा
अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति॥

यद्विद्याधीनः परमपुरुषार्थः सेयं निष्प्रतियोगिकब्रह्ममात्रविद्या विस्पष्टं खण्डद्वयेन अभिहिता। " श्रोत्रस्य श्रोत्रम्”, “न तत्र चक्षुर्गच्छति”, “यद्वाचानभ्युदितम्”, “तदेव ब्रह्म त्वं विद्धि”,

अन्यदेव तद्विदितादथो अविदितादधि।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च।
अविज्ञातं विजानतां विज्ञातमविजानताम्॥

इत्यादिवाक्यैः “अविज्ञातं विजानताम्” इत्याद्युक्तम्। तत्र प्रत्यक्षादिप्रमाणैः यद्यदस्तित्वेनाभिमतं तस्य विशेषतो ज्ञातुं शक्यत्वात् विज्ञातम्। यत् शशविषाणवत् नास्तीत्यभिमतं तदविज्ञातम्! ब्रह्मणो विज्ञातत्वात्। असदेव ब्रह्मेति मुसलकिसलयमतीनां एवं व्यामोहो मा भूदिति तदर्थेयमाख्यायिका आरभ्यते। देवासुराणां जयाजयहेतुत्वेन तदेव हि ब्रह्म सर्वप्रशास्तृ। तत् कथं नास्तीति प्रत्ययितव्यम्। न हि सर्वज्ञेश्वरादन्यत्राग्निवाय्विन्द्रादिदेवान् परीभूय24 तृणं वज्रीकर्तुं सामर्थ्यमस्ति “तन्न शशाक दग्धुम् इत्यादिलिङ्गदर्शनात्। अन्यथा अग्न्यादयः तृणमात्रं दग्धुमादातुं वा नोत्सहन्ते। यदिच्छामात्रेण तृणमपि वज्रीभवति। न हि कारणसिद्धि विना कार्यसिद्धिरुदेति। तस्मात् अस्त्येवेश्वराख्यं ब्रह्म। यद्वा— अर्थवादमुखेन ब्रह्मणो दुर्विज्ञेयताप्रकटनाय इयमाख्यायिका। यत इमे अग्न्यादयोऽतितेजसोऽपि क्लेशादेव ब्रह्म विदितवन्तः। अथवा इयं शमादिविधित्सया आख्यायिका अग्निवाय्वादीनामभिमानशातनात्।

यतः शमादिर्हि ब्रह्मविद्यासाधनम्। न हि शमादिवैरल्यतोऽरिषड्वर्गकबलितस्य ब्रह्मविद्याधिकारोऽस्ति। ब्रह्ममात्रावस्थानलक्षणकैवल्याप्तेः कामाद्यरिषड्वर्गशातनपूर्वकत्वात्। " शान्तो दान्तः”,

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते॥

इत्यादिश्रुतेः। आहोस्वित् “नेदं यदिदमुपासते” इत्युपासनासामान्यप्रतिषेधात् अनुपास्यत्वे प्राप्ते ब्रह्ममात्रज्ञानप्रापकेश्वरखरूपतदुपासनार्थं इयमाख्यायिका। “अधिदैवतमथाध्यात्मं तद्वनमित्युपासितव्यम्” इतीशोपासनाविधानात्। न हि यत्प्रसादं विना शमादिः तद्युक्तस्य सर्वापह्नवसिद्धब्रह्ममात्रविद्योदेति। तदधिगमाय शवलब्रह्मस्वरूपं प्रकटयति श्रुतिः— ब्रह्म ह देवेभ्यः इति॥ निरविद्यमपि निर्विशेषं ब्रह्म स्वोपासनया भक्ताः स्वपदं भजेयुः इति अनुकम्पया मूलाविद्याबीजांशासंगेशभावमापन्नं सत्। सर्वत्र हकार : किलार्थः। देवासुरसंग्रामे प्राप्ते तत्र स्वनिष्टाद्वयदूषकान् असुरान् जित्वा स्वनिष्ठाद्वयपरिपालकदेवेभ्योऽर्थाय विजिग्ये जयं लब्धवत् तत्फलभूतस्वर्गं च देवेभ्यः प्रायच्छदित्यर्थः। अग्निवाय्वादिदेहमात्राहम्भावारूढाः देवाः ब्रह्मकृतदेवासुरजयाजयौ स्वकृताविव मेनिरे इत्याह— तस्य हेति॥ अमहीयन्त मिथ्याशूरत्वाभिमानं प्राप्तवन्त इत्यर्थः। ऐक्षन्त मिथ्या ईक्षणं कृतवन्त इत्यर्थः॥ १॥

देवगणमिथ्याभिमानप्रदर्शनम्

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत25 किमिदं यक्षमिति॥२॥ तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति॥३॥ तथेति तद्भ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यव्रवीज्जातवेदा वा अहमस्मीति॥ ४॥ यस्मिंस्त्वयि किं

वीर्यमित्यपीदँ सर्वं दहेयं येदिदं पृथिव्यामिति॥५॥ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय26 सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति॥६॥ अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति॥७॥ तथेति तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति॥८॥ तस्मिंस्त्वयि किं वीर्यमित्यपीदँसर्वमाददीयं27 यदिदं पृथिव्यामिति॥९॥ तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति॥१०॥ अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति। तथेति तद्भ्यद्रवत्तस्मात्तिरोदधे॥११॥ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं ताँ होवाच किमेतद्यक्षमिति॥१२॥

तेषां मिथ्याभिमानं ब्रह्म ज्ञातवत् इत्याह श्रुतिः— तद्धैषां इति॥ तत्ब्रह्म देवगणमिथ्याभिमानं वेदेत्यर्थः। सर्वज्ञत्वात्। “यः सर्वज्ञः सर्ववित्” इति श्रुतेः। तत् ब्रह्म देवतागणमिथ्याभिमानं ज्ञात्वा तद्दोषतः एते असुरगणवत् पराभवेयुः इति तदनुकम्पया तान्मिथ्याभिमानतो मोचयित्वा अनुगृह्णीयामिति मूलाविद्यास्थूलांशानुकारीव देवगणचक्षुर्विषये प्रादुर्बभूवेत्याह—तेभ्यो ह प्रादुर्बभूव इति॥ देवास्तद्यक्षेयत्तां ज्ञात्वा निर्भयास्तिष्ठन्तीत्यत आह—तत् इति। स्वयोगमाहात्म्यसंजातपश्यद्विस्मयास्पदचक्षुर्विषयदेशगत28यक्षं योगिसाक्षात्करणीयं दृष्ट्वा किमिदमदृष्टपूर्वमद्भुतमिति सान्तर्भयास्सन्तः देवाः

न व्यजानत। नैव विज्ञातवन्त इत्यर्थः। देवाः तद्रूपविजिज्ञासया सर्वज्ञकल्प अतितेजस्विनं अग्निं यक्षेयत्तां परिज्ञातुं समर्थमिति मत्वा प्रेषयामासुः। सोऽप्यग्निः जवेन तद्यक्षं गत्वा तत्तेजसा जडीभूतस्तूष्णीमास। तं पिपृच्छितुं तद्यक्षं संभाष्य दग्धृत्वाभिमानं मोचयामास॥२॥ पुनः व्रीडितो देवान् प्रति गतवान् इत्याह— तेऽग्निं इति॥ अपः प्रविश्य मग्नो भवतीति अग्निः “आपो वा अग्नेर्योनिः”, अपां वा अग्निः कुलायम्” इत्यादिश्रुतेः। यस्य देशिकोपदेशमन्तरा सर्वार्थप्रकाशकवेदपूगः स्वयमेव जातः आविर्भूतः सोऽयं जातवेदाः “देवाः स्वयं भातवेदाः” इति स्मृतेः॥ ३-६॥ तथा अमी देवाः अग्नेः ज्ञातुमशक्यं यक्षं परिज्ञातुं अग्नेरपि जविष्ठं अथाग्निपरिभवानन्तरं वायुमब्रुवन् इत्यादि समानमित्याह—अथ वायुं इति॥ वानात् गन्धनात् वायुः। मातरि अन्तरिक्षे श्वयतीति मातरिश्वा। देवा अथ अग्निवायुपरिभवहेतुयक्षेयत्तापरिज्ञानचतुरं मत्वा देवराजं इन्द्रं तत्परिज्ञानाय प्रेषयामासुः। सोऽयमिन्द्रो नाहमग्निवत् वायुवत् तदियत्तामपरिज्ञाय तूष्णीमागन्तुं उत्सहेयमिति देहधिया पारमैश्वर्यगर्वपर्वतारूढः सन् तद्यक्षं प्रति दुद्राव। तदिन्द्रत्वाभिमतिः सुतरां निराकर्तव्येति अग्निवायुभ्यामिव संवादमात्रमप्यदत्वा मूलाविद्यार्धमात्रांशासङ्गप्रत्यगभिन्नब्रह्मभावमेत्य तिरोदधे। तदा तिरोहितस्वरूपं ध्यायन् आकाशमवलोकयन् स्थितः। तस्य इन्द्रत्वाभिमानो गत इति ब्रह्मविद्या स्वात्मानं दर्शयामास॥ ७-१०॥ यक्षस्वरूपजिज्ञासुः तां पप्रच्छेत्याह— अथेन्द्रं इति॥ तस्मात् ईश्वरभावमापन्नेन्द्रागमनात् पूर्वक्षणं ब्रह्म तिरोदधे। अग्न्यादेरिव संवादमात्रमप्यदत्वा देवराजाभिमानः सुतरां निराकर्तव्य इति स्वाविद्याद्वयतत्कार्यापवादाधिकरणप्रत्यगभिन्नब्रह्मभावं तद्गतहेयांशापह्नवसिद्धब्रह्ममात्रभावं वा जगामेत्यर्थः। यत्र ब्रह्म तिरोदधे तस्मिन्नेवाकाशे किमेतत् यक्षमिति ध्यानारूढस्सन् तस्थौ। ध्यानात्न निववृते। तदा ब्रह्मविद्या अग्न्यादिवत् इन्द्रस्य यक्षभक्तिं

बुद्ध्वास्त्रीरूपेण प्रादुरभूत्। ब्रह्ममात्रविद्यायाः शोभनतमत्वेन शोभमानेति विशेषणं उपपन्नमिति। सः इन्द्रो बहुशोभमानां उमां ब्रह्मविद्याम्। यद्वा— हिमवतो

दुहिता हेमकृताभरणा वा हैमवती नित्यमीश्वरेण सह वर्तत इति तां स्त्रियं ब्रह्मविद्यास्वरूपेण मनसा जगाम। पुनः किमेतद्यक्षमिति तामुवाच। ह किल। किं तत् मे स्वात्मानं दर्शयित्वा तिरोभूतम्। तद्यक्षेयत्तां ब्रूहीति मुहुर्मुहुः प्रार्थयामासेत्यर्थः॥ ११–१२॥

इति तृतीयः खण्डः

_____________________

चतुर्थः खण्डः

इन्द्रोमयोर्यक्षेयत्ताप्रश्नप्रतिवचने

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति॥ १॥

संशान्ताभिमानेन इन्द्रेण एवं किमिदं यक्षमिति पृष्टा उमा तद्यक्षेयत्तामाह—ब्रह्मेति होवाच इति। यद्वो दृष्टिपथं प्राप्य तिरोभूतमिव भातं तद्यथा भूतार्थज्ञैः सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति साक्षात्कृतं तद्यक्षं ब्रह्ममात्रं विद्धि इत्युवाच हेत्यर्थः।

यन्निष्कलं ब्रह्मतत्त्वं साक्षात्कुर्वन्ति योगिनः।
तदेव हि महद्यक्षं तस्मात् किंचिन्न विद्यते॥

इति स्मृतेः। पुरा भवत्कृते ईशभावमापन्नेन ब्रह्मणा जिता ह्यसुराः तज्जये यूयं निमित्तमात्रमित्याह— ब्रह्मण इति। महीयध्वं वयं जिताः इति मिथ्या महिमानं प्राप्नुथेत्यर्थः।

मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।

इति स्मृतेः। एतदिति क्रियाविशेषणार्थम्। अस्माकमेवायं विजयः अस्माकमेवायं महिमेति मिथ्याभिमानः कदापि मास्त्वित्यर्थः। इन्द्रो यक्षं ब्रह्मेत्युमावाक्यात् जानातीत्याह— तत इति। न हि इन्द्रः स्वातन्त्र्येण ब्रह्म वेदेत्यर्थः॥ १॥

अग्न्यादीनां देवोत्तमताप्राप्तिः

स्माद्वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति॥२॥ तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् स ह्येनन्नेदिष्ठं पस्पर्श सह्येनत्प्रथमो विदांचकार ब्रह्मेति॥ ३॥

अग्न्यादयो ब्रह्मसंवाददर्शनात् देवोत्तमतां गता इत्याह— तस्मात् इति। यस्मात् अग्न्यादयो ब्रह्मसामीप्यमुपागताः तस्मात् एते ब्रह्मोपदेशमहिम्ना स्वान्यान् देवान् अतितरामिव। इवशब्द एवकारार्थः। अतिशेरते एव। यदग्निवायुरिन्द्रः ते हि यस्मात् एनत् एतत् ब्रह्म नेदिष्ठं अन्तिकतमं पस्पर्शः स्पृष्टवन्तः। हि यस्मात्। प्रथमः प्रधानाः सन्तः ब्रह्म विदांचकार। विदांचक्रुः इत्यर्थः। यस्मात् इन्द्रवाक्यात् अग्निवायू विदांचक्रतुः। इन्द्रेण ह्युमावाक्यात् ब्रह्म इत्यवधृतम्॥ २॥ यस्मात् अग्निवाय्वपेक्षया इन्द्र एव पृर्वं ब्रह्म ज्ञातवान्—तस्माद्वा इति। तस्मात् देवेन्द्रो देवान् अग्न्यादीन्अतितरामिव अतिशेते एव। स ह्येनन्नेदिष्टं पस्पर्श। स ह्येनत् प्रथमो विदांचकार ब्रह्मेति इत्युक्तार्थमेतत्॥ ३॥

ब्रह्मोपदेशप्रकारः

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा ३ इदिति29 न्यमीमिषदा ३ इत्यधिदैवतम्॥ ४॥

ब्रह्मोपदेशप्रकारमाह—तस्यैष इति। यत् यक्षयाथात्म्यं तस्य निरुपमत्वात् तत्पदारोहहेतुज्ञानप्रापकत्वेन यत् प्रकृतं शबलब्रह्म तस्य शबलब्रह्मणो येन उपमानेन निरुपमोपदेशः सेद्धुं पारयति सोऽयमेव आदेशः। किं तदुपमानमित्यत आह— यदेतत् इति। यदेतत् प्रसिद्धं लोके विद्युतो व्यद्युतत्विद्योतन कृतवत् इत्युक्तेरनुपपन्नत्वात् विद्युतो विद्योतनमिवेत्यर्थः। आ इत्युपमार्थे। यथा “सकृद्विद्युत्तम्” इति श्रुत्यनुरोधेन देवेभ्यो विद्युति वा आत्मानं दर्शयित्वा तिरोभूतमिवेति। अथवा— विद्युतस्तेज इत्यध्याहार्यम्। विद्युतो विद्युतत्विद्योतितवत्। आ इव। विद्युतस्तेजः सकृद्विद्योतितवत् इवेत्याशयः। इत्ययमादेश इति। इतिशब्द आदेशप्रतिनिर्देशार्थः। इत् शब्दः समुच्चयार्थः। अपरादेश उच्यते। तद्यथा चक्षुः न्यमीमिषत् \। स्वार्थे णिच्। निमेषणं कृतवदिति। चक्षुर्विषयतया प्रकाशतिरोभाव इवेत्यर्थः। तत्रत्याकार उपमार्थ एव। ब्रह्मण उपमानदर्शनस्य विद्युद्विद्योतनस्य शबलब्रह्मदेवताविषयत्वात्। इत्यधिदैवतं इति। देवतातत्कार्यापवादाधिकरणपरमात्म-विषयोऽयमादेश इत्यर्थः॥ ४॥

प्रत्यगभिन्नब्रह्मादेशः

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुप30स्मरत्यभीक्ष्णं संकल्पः॥ ५॥ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति॥६॥ उपनिषदं भो ब्रूहीत्युक्ता य उपनिषद्ब्राह्मीं वाव त उपनिषदं31 ब्रूमेति॥७॥ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम्॥८॥ यो वा एतामेवं वेदापहत्य पाप्मानमन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति॥९॥

ततः प्रत्यगात्मविषय आदेश उच्यते— अथाध्यात्मं इति। स्वात्मनो देहत्रयस्य तद्भावाभावप्रकाशकत्वेन तदपवादाधिकरणत्वेन च यदधि अन्यत् भाति तत् अध्यात्मं इत्यर्थः। स्वाज्ञदृष्टिविकल्पितं यत् मन एतत् प्रत्यक्तत्त्वं गच्छति विषयीकरोति इव भाति। साधको यच्च अनेन मनसा एतत् ब्रह्म उप समीपतः स्मरति। भृशं अभीक्ष्णम्। मानसवृत्तिः संकल्पः। ब्रह्मणो मानसोपाधित्वेन मनोविषयीकृतमिव संकल्पस्मरणादिप्रत्ययैः अभिव्यज्यते। अत एष प्रत्यगात्मादेशः। अधिदैवतं विद्यन्निमेषणवत् प्रकाशधर्मि। अध्यात्मं च मनःप्रययममकालाभिव्यक्तिधर्मि32। एवमधिदैवताध्यात्मतत्त्वं निरूप्य तद्गतविशेषांशत्यागसिद्धप्रत्यगभिन्नं ब्रह्म मन्दबुद्धिगम्यं भवतीति प्रत्यगभिन्नब्रह्म। देशः। न हि सर्वापह्नवसिद्धब्रह्ममात्रं मन्दबुद्धिभिरवगन्तुं शक्यम्॥ ५॥ किं च तदेतत्प्रयगभिन्नं ब्रह्म। ह किल। सर्वप्राणिजातप्रत्यगभेदेन वननीयं संभजनीयं प्रत्यगभिन्नं ब्रह्मास्मीति चिन्तनीयमिति। तद्वनं नाम प्रख्यातम्। यतस्ततः तद्वनमित्युपासितव्यम्। एवमुपासकस्य किं फलमित्यत आह— स य इति। स य एतत् यथोक्तं प्रत्यगभिन्नं ब्रह्म वेद जानाति तमेतं ब्रह्मविदं सर्वाणि भूतानि सम्यक् अभि आभिमुख्येन स्वेष्टसिद्धये यथा ब्रह्म तथा वाञ्छन्ति इत्यत्र—

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्।
नं तं लोकं जयते तांश्च कामान् तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः॥

इति श्रुतिर्मानम्॥ ६॥ आचार्यसकाशात् एवं ब्रह्मानुशिष्टः शिष्यः आचार्यमुवाच। किमिति। भो भगवन् उपनिषदं भो ब्रूहीत्युक्तवति शिष्ये आचार्यः आह— उक्ता इति। उपनिषच्छब्दस्य कोऽर्थ इत्युच्यते। क्विप्प्रत्ययान्तत्वेन विशग्णगत्यवसादनार्थस्य उपनिपूर्वस्य षद्ऌधातोः रूपं उपनिषदिति। सर्वापह्नवसिद्धब्रह्ममात्रगोचरा विद्या उच्यते। केन अर्थयोगेन विद्यात्वमुपनिषद इति। उच्यते। साधनचतुष्टयसंपन्ना ये मुमुक्षवो विद्यामुपसद्य स्वाज्ञानबीजं शिथिलयन्ति तदज्ञानविशरणात् विशसनात् विद्या उपनिषदित्युच्यते। “अतिमुच्य धीराः

प्रत्यास्माल्लोकादमृता भवन्ति” इति श्रुतेः। यद्वा—उक्तविशेषणविशिष्टान्मुमुक्षून् ब्रह्म गमयतीति ब्रह्मविद्या उपनिषत्। “ब्रह्म वेद ब्रह्मैव भवति” इति वेदनसमकालं ब्रह्मभावापत्तिश्रुतेः। अथवा— विद्यायाः स्वाप्तिसमकालं मुमुक्षुपटलस्य गर्भजन्मजरामरणादिकलनावसादयितृत्वात् विधैव उपनिषत्। एवमुपनिषच्छब्दार्थस्य विद्यायामेव संभवात् “केनेषितम्” इत्यादिग्रन्थस्यापि तादर्थ्येनोपनिषच्छब्दार्थत्वोपपत्तेः। प्रथमद्वितीयखण्डाभ्यां पुरैव ते तुभ्यं स्वातिरिक्तसर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रबोधिनी उपनिषत् विस्पष्टमभिहिता। का पुनरित्यत आह—ब्राह्मीं इति। स्वातिरिक्तविदिताविदितायमानजाग्रज्जाग्रदादि-चतुष्पञ्चदशकलनापह्नवसिद्धब्रह्ममात्रगोचरां ब्राह्मीमुपनिषदं ब्रूमेत्युक्तामेवोपनिषदं ब्रूम इत्यवधारयति। ब्रह्ममात्रविषयामुपनिषदं श्रुतवतः उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्याभिप्रायः कः। यदि श्रुतार्थः प्रश्नः तदा पुनरुक्त्या निरर्थकः स्यात्। यदि सावशेषोक्तोपनिषत् तदा “प्रेत्यास्माल्लोकादमृता भवन्ति” इति फलवचनानुपपत्तेः। यदि उक्तोपनिषच्छेषतया प्रश्नः” अन्यदेव तद्विदितादथो अविदितादधि” इति निरवशेषोक्तेः। यदि उक्तोपनिषच्छेषतया साधनान्तरमात्रापेक्षा निरपेक्षा वा। यदि साधनान्तरापेक्षा तदा अपेक्षितविषयामुपनिषदं ब्रूहि। यदि निरपेक्षा तदा नातः परमस्तीति,’ ‘नातः परं वेदितव्यं हि किंचित् ”इति च पिप्पलादादिवदवधारय। उक्तं हि “उक्तात उपनिषत्” इत्यवधारणम्। “तस्यै तपो दमः “इत्यादिवक्तव्यस्य विद्यमानत्वात्नेदमवधारणमिति चेत् सत्यम्। वक्तव्यमाचार्येण उक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तरम्। किन्तु ब्रह्मविद्यात्युपायतया वेदैस्तदङ्गैश्च सहपाठेन समीकरणात् तपः प्रभृतीनां न हि साङ्गवेदानां ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा संभवति। सहपठितानां यथायोगं विनियोगः स्यादिति चेत्यथा सूक्तवाकमन्त्राणां यथादैवतं विभागो दृष्टः। तपो दम इत्यादीनामपि ब्रह्मविद्याशेषत्वं वेति शक्यं कल्पयितुम्। साङ्गवेदार्थप्रकाशकत्वेनात्मज्ञानोपायत्वमिति विभागो युज्यते। एवमर्थसम्बन्धोपपत्तिः स्यादिति चेन्न। तादृशयुक्तिवैरल्यात्। एवं विभागघटना न हि सेद्धुं पारयति। “यत्र त्वस्य

सर्वमात्मैवाभूत् तत् केन कं पश्येत्” इत्यादिक्रियाकारकफलनिराकरणश्रुत्यनु रोधेन स्वातिरिक्तापह्नवसिद्धब्रह्ममात्रविद्यायाः न हि शेषशेषित्वं सहकारित्वं वा युज्यते। विद्याया निष्प्रतियोगिकब्रह्ममात्रगोचरत्वात्। तत्फलकैवल्यस्य स्वातिरिक्तक्रियाकारककलनापह्नवपूर्व-कत्वाञ्चेत्यत्र —

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज। इति॥
मोक्षमिच्छन् सदा कर्म त्यजेदेव ससाधनम्।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्॥

इति श्रुतेः स्मृतेश्च॥ ततोविद्याया न हि कर्म सहकारित्वेन कर्मशेषत्वं युज्यते। अतो न सूक्तवाकमन्त्रवत् यथायोगं विभाग इति। तस्मादवधारणार्थतैव प्रश्नप्रतिवचनस्योपपद्यते। अन्यनिरपेक्षतया “उक्तात उपनिषत्” इत्युक्तत्वात् “ब्राह्मीं वाव त उपनिषदं ब्रूम” इति तस्यै तस्या उक्ताया उपनिपदः प्रात्युपायभूतानि तपआदीनि कृच्छ्रचान्द्रायणादिकं ब्रह्मातिरिक्तं किंचित्नेत्यालोचनं वा। तपः मनआदिकरणग्रामनिग्रहः। दमः भगवदर्पणधिया सन्ध्याग्निहोत्रादिकं कर्म। एवमेतैः संस्कृतस्य ज्ञानमुत्पद्यत इत्यत्र—

तपसा प्राप्यते सत्त्वं सत्त्वात् संप्राप्यते मनः।
मनसा प्राप्यतेऽप्यात्मा ह्यात्मापत्त्या निवर्तते॥

इति श्रुतेः। इतिशब्दतो ज्ञानोत्पत्त्युपकारकत्वेनामानित्वादयो गृह्यन्ते। “पद्भ्यां पुरुषवत् तपआदिषु सत्सु ब्रह्मविद्या प्रतितिष्ठति “इति। प्रतिष्ठा वेदाः। ऋगादयश्चत्वारः। सर्वाणि चाङ्गानि चेति। शिक्षादीनि षट्। वेदानां कर्मज्ञानप्रकाशकत्वात् अङ्गानां तद्रक्षणार्थत्वात् प्रतिष्ठात्वम्। यद्वा— पादशब्दार्थः प्रतिष्ठा अङ्गिनि गृहीते अङ्गानां गृहीतत्वात् वेदग्रहणेन अङ्गग्रहणं कृतमिति मन्तव्यम्। यदायत्तत्वादङ्गानां विद्या यत्र तिष्ठति तत् आयतनं सत्यं उपनिषदायतनं ब्रह्मेत्यर्थः। “सत्यं ज्ञानमनन्तं ब्रह्म”

इति श्रुतेः। यद्वा— वाङ्मनःकायानां अकौटिल्यतया परानुद्वेगप्रियहितकरं वाक्यं सत्यम्। यतः सत्यवत्सु ब्रह्मविद्याश्रयति। “नयेषु जिह्ममनृतं न माया चेति” इत्यासुरप्रकृतिविमुखदैवीप्रकृत्यारूढेषु ब्रह्मविद्या प्रतितिष्ठतीति सत्यमायतनं तपआदिषु तद्विशिष्टेष्वेव प्रतिष्ठितस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयद्योतनार्थम्।

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते॥ इति स्मृतेः॥

अथवा “पश्यतेहापि सन्मात्रमसदन्यत्”, “ब्रह्ममात्रमसन्न हि”

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत्।

इत्यादिश्रुत्यनुरोधेन स्वातिरिक्तस्वाविद्यापदतत्कार्यजातासदपह्नवसिद्धसन्मात्रमेव सत्यमित्युच्यते। तदेवायतनं यस्याः निष्प्रतियोगिकब्रह्ममात्रविद्यायाः तत्सत्यमायतनम्। यो वै यथोक्तसाधनाधिकारी “केनेषितम्” इति प्रश्नानुरोधेन “श्रोत्रस्य श्रोत्रम्” इत्यादिना स्वातिरिक्तश्रोत्रादिकरणग्रामप्रवृत्तिनिमित्तप्रत्यगभिन्नब्रह्मप्रतिपादकां पराक्प्रपञ्चसापेक्षप्रत्यग-भिन्नब्रह्मणि सविशेषशंकायां “न तत्र चक्षुर्गच्छति” इत्यादिना तद्गतविशेषमुन्मूल्य तत् किं विदितमविदितं वेति शंकायां विदिताविदितायमानजाग्रज्जाग्रदादिचतुष्पञ्चदशकलनापह्नवसिद्धं ब्रह्म स्वमात्रमिति परमसिद्धान्तप्रबोधिनीं “यदि मन्यसे “इत्यादिना दृढीकृतां ब्रह्म ह देवेभ्यः” इत्यादिना ब्रह्मबोधकत्वख्यापिकां एतां उपनिषदं अर्थतो वेद सोऽयं विद्वान् स्वातिरिक्ताविद्यापदतत्कार्यजातमात्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन शून्यत्वेन वा अस्ति नास्तीति विभ्रमरूपं पाप्मानं अपहत्य अपह्नवं कृत्वा वस्तुतः अपह्रोतव्यविषयवैरल्यात्अपह्नवोक्तेरप्यपह्नवं कृत्वा तत्समकालमेव निष्प्रतियोगिकानन्ते त्रिविधपरिच्छेदापह्नवसिद्धे निष्प्रतियोगिकस्वावशेषतया यो गीयते लोक्यते इति च स्वर्गो लोकः। तस्मिन् स्वर्गे लोके सञ्चिदानन्दमात्रात्मनि ज्येये “यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा” इति

श्रुत्यनुरोधेन भूममात्रस्वभावे ब्रह्मणि स्वावशेषतया प्रतितिष्ठति इत्यत्र “य एवंनिर्बीजं वेद निर्बीज एव स भवति” इति स्वमात्रज्ञानसमकालं स्वमात्रापत्तिश्रुतेः। आवृत्तिरितिशब्दश्च तलवकारशाखागतनवमाध्यायरूपकेनोपनिषत्परिसमाप्त्यर्थः॥ ७-९॥

इति चतुर्थः खण्डः

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।
लिखितं स्याद्विवरणं केनोपनिषदः स्फुटम्।
केनविवरणग्रन्थः षट्च्छतं परिकीर्तितः॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे द्वितीयसंख्यागोचरकेनोपनिषद्विवरणं संपूर्णम्

कठवल्ल्युपनिषत्

सह

नाववतु

इति

शान्तिः

प्रथमा वल्ली

वाजश्रवसनचिकेतसोः संवादः

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस॥१॥

तँ ह कुमारँ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥२॥

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा33 नाम ते लोकास्तान्स गच्छति ता ददत्॥३॥

** स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयम्। तँ होवाच मृत्यवे त्वा ददामीति॥४॥**

बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
कि‍ स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति॥५॥

अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः॥ ६॥

श्रीमद्वैवस्वताचार्योयदाह नचिकेतसे।
कलये तत्पदं ब्रह्म स्वावशेषधियान्वहम्॥

इह खलु कृष्णयजुर्वेदान्तर्गतकठशाखायां दर्शपूर्णमासाद्यग्निचयनान्तं कर्मवर्त्म विस्पष्टमभिहितम्। सर्वकर्माश्रयभूतहिरण्यगर्भोपासनानि चाभिहितानि। तत्र सकामस्य “किंचिद्विकलं कर्म फलोपधायकं न भवति” इति वचनतः प्रातिस्विकेन कर्म ज्ञानं वा कर्मसमुच्चितज्ञानं वा यथावदनुष्ठितं सत् पुनरावृत्त्यर्हचन्द्रलोकप्रापकं भवति। निष्कामस्य तु तद्वैपरीत्येनार्चिरादिना ब्रह्मलोकाप्तिश्चित्तशुद्धिप्राप्यसंन्यासपूर्वकव्रह्मजिज्ञासा वोदेति। तादृशजिज्ञासोरात्मतत्त्वप्रतिपत्तये वल्लीषट्कजुष्टकाठकोपनिषदाम्नायते। नचिकेतोमृत्युप्रश्न-प्रतिवचनरूपेयमाख्यायिका तु वक्ष्यमाणविद्यास्तुत्यर्था। वक्ष्यमाणब्रह्मविद्याभिव्यक्तिहेतु-काठकोपनिषदः सुखप्रतिपत्त्यर्थमल्पग्रन्थतो विवरणमुपकम्यते। वृत्तमनुकीर्त्तयति—उशन् इत्यादिना। वाजं अन्नम्। तद्दानप्रयुक्तश्रवो यशो यस्य सोऽयं वाजश्रवाः। रूढितो वा। अस्यापत्यं वाजश्रवसः। विश्वजिद्यागफलं उशन् कामयमानस्सन्विश्वजिद्यागावसाने सर्ववेदसं स्वार्जितसर्वस्वं ददौ। ह वा इति वृत्तार्थस्मरणार्थौ निपातौ। तस्य ह किल यजमानस्य नचिकेता नाम सत्पुत्र आस बभूवेत्यर्थः॥ १॥ ततः किमित्यत आह— तं इति। स्वपित्रा ऋत्विक्सदस्येभ्यो विभागशो दक्षिणार्थासु गोषु नीयमानासु सतीषु स्वानात्तप्रजनन34शक्तितः सन्तं प्रथमवयस्त्वात् कुमारं तं नचिकेतसं पितुः श्रेयः प्रदा श्रद्धाविवेश ह किल। श्रद्धाविष्टोऽर्भकः किं करोतीत्यत आह- स इति। स्वोत्पत्त्यवसानमध्ये पावदुदकं पेयं यावत्तृणमत्तव्यं तावन्निःशेषं याभिः पीतं जग्धं च ताः पीतोदकाः जग्धतॄणाः। स्वस्वामिकृते यावत् क्षीरं दोग्धव्यं तावत् याभिदुग्धं ता दुग्धदोहाः। व्याविद्धप्रजनन35शक्तित्वात् निरिन्द्रियाः। इत्थंभूताः

ताः गावः ऋत्विग्भ्यो दक्षिणाबुद्ध्या यो ददत् प्रायच्छत् सः गोप्रदाता अनन्दा अनानन्दा नाम लोका ये विद्यन्ते तान् निरानन्दलोकान्गच्छतीति स आविष्टश्रद्धो नचिकेता अमन्यत॥२-३॥ सत्पुत्रेण मया पितुरनिष्टफलं मार्जयितव्यमिति पितरं प्रत्याह—स इति। तत इत्यत्र प्राथमिकतकारदीर्घलोपश्छान्दसः। सोऽयं नचिकेता हे तातेति पितरं संबोध्य दक्षिणाधिया मां कस्मै ऋत्विजे दास्यसि इत्युवाच। उक्तार्थे पित्रोपेक्षितोऽपि कस्मै मां दास्यसीति द्वित्रिवारमप्युवाच ह। नायं कुमारस्वभाव इतिं क्रुद्धः पितैवमाह— तमिति। तं होवाच मृत्यवे त्वा ददामि इति। वैवस्वताय त्वां दास्यामीति पुत्रं प्रत्युवाच॥४॥ पित्रैवमुक्तो नचिकेता रहसि परिदेवनां चकारेत्याह—बहूनां इति। पितुराचार्यस्य वा अनुक्तेष्टार्थकारिणां बहूनां पुत्राणां शिष्याणां वा मध्ये प्रथमः प्रधान एमि भवामि। उक्तार्थकारिणां मध्यमानां बहूनां मध्ये मध्यमो वा एमि। कदाचिदप्येवं पिता न मया कोपितो विशिष्टगुणमपि मां मृत्यवे ददामि इत्युक्तवान्। पित्रा प्रदत्तेन मया यमस्य कर्तव्यं किंस्वित् किं वा भवति। मद्दानतः पितुर्वा स यमः किमिष्टं करिष्यति? प्रकृते यत्कर्तव्यं प्रयोजनं तदनपेक्ष्य केवलं क्रोधवशादेवमुक्तवान्॥५॥ तथापि तद्वचः सत्यं कर्तव्यमिति मनीषया किं मयोक्तमिति शोकाविष्टं पितरं परिदेवनापूर्वकमाह— अनुपश्य इति। हे तात पूर्वे तव पितृपितामहादयोऽतिक्रान्ताः। तथा परे वर्तमानाः साधवश्च। तेषां वृत्तं अनुपश्य अनुपालय। तान्वा प्रतिपश्य सम्यगालोकय। न हि तेषु मृषावचनं कालत्रयेऽप्यस्ति। न च मृषावादी कश्चिदपि स्वाराज्यमश्नुते। यतो देहत्रयाहंभावविशिष्टो मर्त्यः मरणधर्मा बाल्ययौवनाद्यवस्थाग्निना पच्यते जीर्णस्सन् म्रियते। मृत्वा च पुनः सस्यमिव आ समन्तात् जायते। एवं अनित्ये जीवलोके किं मृषावाक्यतः साधनीयमस्ति। यमभवनं प्रति मां प्रेषयित्वा स्वात्मनः सत्यतां प्रतिपालय36। सत्पुत्रेणैवमुक्तः पिता स्वात्मनः

सत्यतायै यथा पुत्रः पुनरागमिष्यति तथोपायमनुवदन् प्रेषयति। हे नचिकेत त्वं यदा यमो गृहान्निर्गत्य दूरं गच्छति तदा तद्भवनं गत्वा त्रिरात्रमुपवार कुरु। यदि त्वन्निकटमागत्य यमः “अर्भक कोऽसि किमर्थं मदुगृहमेत्यानश्नन तिष्ठसि इति पृच्छति तदा त्वया अनश्नता त्रिरात्रमुषितमिति वक्तव्यम्एकैकां रात्रिं किमश्नासीत्युक्ते त्वत्प्रजापशु साधुकृत्यामश्नन्37 वसेयमिति वदन तूष्णीं तिष्ठ। ततस्ते श्रेयो भविष्यतीत्यत्र— “स होवाच। परेहि मृत्योर्गृहान्मृत्यवे वै त्वादामिति। तं वै प्रवसन्तं गन्तासीति होवाच। तस्य स्म तिस्त्रे रात्रीरनाश्वान् गृहे वसतात्। स यदि त्वा पृच्छेत्। कुमार कति रात्रीवात्सीरिति। तिस्र इति प्रतिब्रूतात्। किं प्रथमाँ रात्रिमाश्ना इति। प्रजां त इति। किं द्वितीयामिति। पशूँ स्त इति। किं तृतीयामिति। साधुकृत्यां त इति।” इति श्रुतेः। इत्थं श्रुत्युक्तोपायपूर्वकं प्रेषयामासेत्यर्थः। सोऽयं पित्रानुशिष्टो नचिकेताः प्रोषितयमसद्मनि तिस्रो रात्रीरुवास॥ ६ ॥

मृत्यवे तत्सम्वन्धिनामनुबोधनम्

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्।
तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥

आशाप्रतीक्षे सङ्गतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान्।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥८॥

एवं त्रिरात्रानशननचिकेतोवृत्तं प्रोष्यागताय यमाय तदामात्या विज्ञाप्य शान्तिं कुर्वित्याहुरित्याह— वैश्वानर इति। हे38 वैवस्वत स्वातिरेकेण किंचिदस्तीति विश्वसनीयं विश्वं तदारोपाधिकरणत्वेन तदसङ्गत्वेन च तत्र यो रमते स विश्वनरः। विश्वनर एव वैश्वानरः विराट्। रूढितोऽग्निर्वा। स एष ब्राह्मणो भूत्वा त्वद्गृहान्

त्वत्परिग्रहानस्मांश्च प्रदहन्निव साक्षाद्वैश्वानर एव प्रविशति। तस्य अतिथेः सन्तः पाद्यार्थ्यासनादिलक्षणां एतां शान्तिं कुर्वन्ति यथा तथा नचिकेतसे त्वमपि पाद्याद्यर्थ उदकादि हर आहरस्वेत्यर्थः॥ ७॥ एवमकरणे कः प्रत्यवाय इत्यत आहुः— आशा इति। यस्य अल्पमेधसः पुरुषस्य गृहे ब्रह्म वेदः तं जानातीति ब्राह्मणः गायत्रीतन्तुमात्रप्रधानो वा वसति तस्य गृहमेधिनः अननुभूतार्थप्रार्थना आशा च अनुभूतार्थप्रार्थना प्रतीक्षा च ते आशाप्रतीक्षे कर्मफलं सङ्गतं सूनृतां सूनृतवाग्जन्यसुकृतं प्रागजमिष्टं च आरामादिक्रियाफलं पूर्त च इष्टापूर्ते पुत्रान् पशूंश्च सर्वान् एतत्सर्वं ब्राह्मणोपवासाग्निः वृङ्क्ते आक्रमते निर्मूलयतीत्येतत् यत एवमतः सर्वावस्थास्वप्यतिथिर्जात्वपि नोपेक्षणीय इत्यर्थः॥ ८॥

नचिकेतसे वरत्रयप्रदानप्रतिज्ञा

तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व॥९॥

इत्थं स्वामात्यैर्विज्ञापितो मृत्युः पूजापुरस्सरं नचिकेतसमुपसङ्गम्यैवमुवाच— तिस्र इति। हे ब्रह्मन् नचिकेेतस्त्वमस्मदादिभिर्नमस्कारार्हो नमस्योऽतिथिः अनश्नन् यस्मात् मे मम गृहे तिस्रो रात्रीवात्सीः उषितवानसि। ते तुभ्यं नमोऽस्तु। भवन्तमुद्दिश्य मत्कृतप्रणिपातामृतवारिधिर्मद्गृहेभवदनशनसञ्जातदोषाग्निशमनं करोतु39

प्रणिपातमात्रनीराच्छाम्यति कोपाशुशुक्षणिर्महताम्।

इति ‘मुद्गलाचार्यवचनतः40। यस्मात् एवं41 भवति तस्मात् भवन्नमस्कारात् मे मम स्वस्ति शोभनं अस्तु। यद्यपि भवदनुग्रहमात्रेण मम स्वस्ति स्यात् तथापि

इतोऽधिकस्वस्त्यर्थं निरशनेनोषितैकैकां रात्रिं प्रति भवदभिप्रेतविषयान् त्रीन्वरान् वृणीष्व मत्तः प्रार्थयस्वेत्यर्थः॥ ९॥

नचिकेतसः प्रथमवरः

शान्त42संकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे॥ १०॥

यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखँरात्रीः शयिता वीतमन्युस्त्वां ददृशिवा43न्मृत्युमुखात्प्रमुक्तम्॥

वरत्रयं ददामीति यमेनानुगृहीतो नचिकेतास्तत्र प्रथमवरं वृणोति— शान्तसङ्कल्प इति। हे मृत्यो गौतमो मत्पिता मत्पुत्रो यमं प्राप्यार्भकः कि करिष्यति स पुनरायाति न वेत्यादिनानाविधसंकल्पो यस्य44 शान्तः सोऽयं शान्नसंकल्पः। सुमनाः माभि मां प्रति वीतमन्युर्यथा स्यात्। किं च त्वत्प्रसृष्टं त्वया मत्पितृभवनं प्रति प्रेषितं पुरा “तत कस्मै मां दास्यसि” इति येन भाषितं सोऽयं मत्पुत्रः समागत इति प्रतीतो लब्धस्मृतिः सन् यथापूर्वे मा मां अभिवदेत्। तथाकरणं दीयमानवरत्रयाणां इदमेव प्रथमं वरं वृणे। यत् पितुः परितोषणं तत् प्रार्थय इत्यर्थः॥१०॥ एवं नचिकेतःप्रार्थिताद्यवरदित्सुर्मृत्युरुवाच— यथा पुरस्तात् इति। उद्दालक एव औद्दालकिः। अरुणस्यापत्यं आरुणिः द्वयामुष्यायणो वा। त्वत्पिता यथा पुरस्तात् स्नेहसमन्वितो भविता तथैव मत्पुत्रोऽयं समागत इति लब्धप्रतीतिः सन् मत्प्रसृष्टो मयानुज्ञातः सन्नप्युत्तरा रात्रीः सुखं विगतमन्युः प्रसन्नमनाः शयिता। मृत्युमुखात् प्रमुक्तं त्वा पुत्रं ददृशिवान् दृष्टवान्स्यादित्यर्थः॥ ११॥

द्वितीयवरप्रार्थनं तत्प्रदानं च

स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया विभेति।
उभे तीर्त्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके॥ १२॥

स त्वमग्निँस्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तँ श्रद्दधानाय मह्यम्।
स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण॥ १३॥

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतन्निहितं गुहायाम्।

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा॥ १४॥

स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः।
तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि45 भूयः।
तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां46 गृहाण॥१५॥

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति॥ १६॥

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम्।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके॥ १७॥

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥

नचिकेताः प्रथमवरं लब्ध्वा द्वितीयवरलिप्सया प्रष्टव्यवरफलं स्तुवन् मृत्युतस्तद्वरं वृणोति– स्वर्ग इति। अग्निविद्याफलभूतस्वर्गे लोके न

किञ्चनापि रोगादिनिमित्तं भयमस्ति। न तत्र त्वं मृत्युः संचरसि। त्वत्प्रसरणाभावादिह लोक इव जरया युक्तः कश्चिदपि त्वत्तो न बिभेति। किं च सदा शोकप्रदांशनायापिपासे उभे अपि तीर्त्वा बाह्यान्तर्भवशोकमतीत्य गच्छतीति शोकातिगो विद्वान् दिवि स्वर्गलोके ब्रह्मलोके वा मोदते हृष्यत इत्यर्थः॥ १२॥ स्वर्गात्युपायाग्निविद्यां यतस्त्वं जानासि अतस्तन्मे प्रयच्छेत्याह—स त्वं इति। सर्ववित्त्वेन यः प्रथितः स त्वम्। हे मृत्यो निष्कामबुद्धया स्वाश्रमाचारसंपन्नैः यो गन्तव्यः सोऽयं ब्रह्मलोकः स्वर्गः।तत्प्रापकं47 ज्ञानं स्वर्ग्यम्। अग्नि अग्निविद्यापरिज्ञानम्। तद्विद्यां अध्येषि यथावज्जानासीत्यर्थः। यतः स्वर्गो48 लोको येषां ते स्वर्गलोकाः परमेश्वरार्पणधिया सत्कर्मानुष्ठातारो ब्रह्मलोकसंबन्धि अमृतत्वं भजन्ते अतः श्रद्दधानाय मह्यं अग्निविद्यां ब्रूहि। तत् एतत्अग्निविज्ञानं द्वितीयेन वरेण त्वां वृणे प्रार्थय इत्यर्थः॥१३॥ नचिकेतःपृष्टद्वितीयवरदित्सुर्मृत्युराह— प्र त इति। हे नचिकेतः ब्रह्मलोकायमानस्वर्गसाधनं स्वर्ग्य अग्निविज्ञानं यतः प्रजानन् विज्ञातवानहं अतस्त्वया प्रार्थितं ते तुभ्यं प्रब्रवीमि। तदु तज्ज्ञानगर्भितं मे मम वचः एकमनाः सन् निबोध। शिष्यबुद्ध्यभिमुखीकरणाय निबोधेतिवचनम्। अधुना वक्ष्यमाणमग्निं स्तौति— अनन्तलोकाप्तिं इति। आब्रह्मकल्पं यस्यान्तो न विद्यते सोऽयं अनन्तलोकः। तदाप्तिं ब्रह्मलोकाप्तिसाधनम्। अथो अपि विराडादिस्वरूपेण जगतः प्रतिष्ठां जगदारोपाधिकरणं सर्वप्राणिकदम्बगुहायां स्वाविद्यापदतत्कार्यजातगूहनरूपायां बुद्धौ सर्वान्तर्यामिरूपेण सर्वप्रत्यग्रूपेण वा निहितं मयोच्यमानमग्नि विद्धि। अग्निविद्यां नचिकेतसे मृत्युरुवाचेति श्रुतिराह— लोकादिं इति। मृत्युः तस्मै नचिकेतसे काम्यकामिस्वर्ग49ब्रह्मलोकचित्तशुद्धिप्रापकचयनकर्मणि स्वरूपतो या इष्टकाः चेतव्याः। संख्यया यावतीर्वा। यथा येन प्रकारेण अग्निश्चीयते तत्प्रपञ्चनपूर्वकं ब्रह्मविवर्तत्वेन

लोक्यन्त इति लोका अनन्तकोटिब्रह्माण्डानि। तत्कल्पनाधिकरणं तेषामादिः। “कारण विना कार्यं नोदेति “इति श्रुतेः। लोकादिं अग्निं ईश्वरं हिरण्यगर्भं वातदीयविज्ञानं च उवाच उपदिदेशेत्यर्थः॥१४॥ स्वोक्ताग्निविद्याग्रहणवदनतो मृत्युस्तुष्टः सन् वरत्रयातिरिक्तवरान्तरमपि ददावित्याह—स चापि इति। स चापि नचिकेता मृत्युनोक्तामग्निविद्यामन्यूनाधिकाक्षरार्थतया मृत्युनिकटे यथावत् प्रत्यवदत्। तत्प्रत्युच्चारणेन तुष्टिमेय वरत्रयातिरिक्तवरान्तरदित्सया पुनरेव मृत्युराह—तं इति। ब्रह्मभावापन्न आत्मा अन्तःकरणं यस्य स महात्मा मृत्युर्वरत्रयातिरिक्तवरान्तरं भूयः ते ददानीति तं नचिकेतसमब्रवीत्। तत् किं? इत्यत आह— तव इति। नचिकेतसः तव नाम्नैव नाचिकेतोऽग्निरिति मयोच्यमानः अग्निर्भविता नाचिकेतमग्निं50 चिन्वानः “इति श्रुतेः। किञ्च अनेकरूपां नवरत्नमयीं सृङ्कां मालां गृहाण। यद्वा कर्मान्तरविज्ञानस्यानेकफलहेतुत्वात्सृङ्कां अकुत्सितामनेककर्मगतिं गृहाण॥ १५॥ स्वप्रसादलब्धनाचिकेतचयनं तत्फलं च स्तौति —त्रिणाचिकेतस्त्रिभिः इति। येन निष्कामधिया त्रिःकृत्वो नाचिकेतोऽग्निश्चितः स त्रिणाचिकेतः यजमानः। “यं यं क्रतुमधीते तेन तेनास्येष्टं भवति,” “मातृमान् पितृमानाचार्यवान्” इत्यादिश्रुत्यनुरोधेनाग्निविद्याध्ययनतज्ज्ञानतदनुष्ठानैः सन्मार्गनेतृमातृपित्राचार्यैः श्रुतिस्मृतिशिष्टैः प्रत्यक्षानुमानागमैर्वा त्रिभिः त्रिभिः सन्धिं विधेयतां एत्य। इज्याध्ययनदानानां कर्ता त्रिकर्मकृत् देहत्रयातिरिक्तज्ञानतो देहप्रसक्तजन्ममृत्यू तरति। किञ्च स्वविवृत्तप्रपञ्चापवादाधिकरणत्वेन सर्वत्र बृंहणात् ब्रह्म प्रत्यगभिन्नमित्यर्थः। स्वाज्ञदृष्ट्या तज्ज इव भातीति तज्जः। स चासौ ज्ञश्वेति ब्रह्मजज्ञः सर्वज्ञः परमेश्वरस्तम्। स्वारोपितप्रपञ्चद्योतनात् देवम्। ब्रह्मादिभिरपि ईड्यम्। अयमहमस्मीति विदित्वा अपरोक्षतो निचाय्य अनुभूय इमां ऐहिकप्रपञ्चोपरतिसिद्धां शान्तिं सालोक्यादिमुक्तिमतिशयेन निष्कामबुद्ध्या ज्ञानकर्मसमुच्चयानुष्ठानेन एति। चतुष्पदैक्यसमये मुक्तोऽपि भवतीत्यर्थः॥ १६॥

अग्निविज्ञानचयनफलमुपसंहरति— त्रिणाचिकेतस्त्रयं इति। त्रिणाचिकेतः यजमानः। “या इष्टका यावतीर्वा यथा वा” इत्येतत्त्रयं विदित्वा य एवं विद्वान् नाचिकेतं अग्निं चिनुते सोऽधर्माज्ञानरागद्वेषादिलक्षणमृत्युपाशान् शरीरपातात् पुरतः प्रणोद्य स्वान्तर्बाह्यप्रपञ्चवासनासञ्जातशोकातिगो51भूत्वा विपुलसुखायमानस्वर्गो यत्र लोक्यते सोऽयमुपासकभावानुरोधब्रह्मादिलोकस्तस्मिन् तद्भावापत्त्या मोदते॥ १७॥ हे नचिकेतः! त्वं यं अग्निं द्वितीयेन अपि52 वरेण अवृणीथाः ते तुभ्यमेष स्वर्ग्योऽग्निवरो मया दत्तः। किञ्च जनासः जनाः तवैव नाम्ना एतमग्निं प्रवक्ष्यन्ति नाचिकेतचयनशब्दत इत्यर्थः। वरत्रयं दास्यामीति प्रतिज्ञाय द्वितीयवरं दत्त्वा ते तृतीयवरदाने यतो ऋणी स्यामतो हि53 त्वं तृतीयं वरं वृणीष्व इत्याह— तृतीयं वरं नचिकेतो वृणीष्व इति। एतावता ग्रन्थेन वरद्वयसूचितवस्तुविषयत्वेन विधिप्रतिषेधार्थो वर्णितः। न ह्यात्मयाथात्म्यज्ञानं स्वाध्यस्तविधिप्रतिषेधलक्षणक्रियाकारकफलाध्यारोपापवाद-भ्रमविरलनिष्प्रतियोगिकब्रह्ममात्रसिद्धान्तो वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते। तृतीयवरमन्तरेण द्वितीयवरप्राप्त्यापि नचिकेताः स्वात्मानमकृतार्थे मत्वा यतः स्वात्मनः कृतार्थतायै तृतीयं वरं वृणीते अतः पूर्वकाण्डगोचरविधिप्रतिषेधसाध्यसाधनकलना रोपापवादभ्रमविरक्तस्य निष्प्रतियोगिकब्रह्ममात्रज्ञानाधिकारो नेतरस्येति द्योत्यते— तृतीयं वरं नचिकेतो वृणीष्व इति॥ १८॥

तृतीयवरेणात्मोपदेशप्रार्थना

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः॥ १९॥

मृत्युना आज्ञप्तः सन् तृतीयं वरं वृणीते— येयं इति। मनुष्ये प्रेते मृतिं गते सति देहत्रयतिरेकेण तत्सम्बन्धविरल आत्मा अस्तीत्येके मीमांसकादयः। नायं एवंविधः अस्तीति चैके असल्लौकिकादयः। येयं विचिकित्सा जाता न हि सेयं प्रत्यक्षादिप्रमाणैर्निर्णेतुं शक्या। एतद्विज्ञानाधीनो हि परमपुरुषार्थः। तृतीयं वरं वृणीष्वेति त्वयाहमनुशिष्टः आज्ञापितः। वरत्रयं दास्यामीति त्वदुक्तवराणां अध्यात्मविषयो वरस्तृतीयः। त्वया दीयमानतृतीयवरगोचरत्वेन विद्यमानं एतत् सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रस्वरूपं यथाहं विद्यां जानीयां तथा मामनुगृह्णीष्व। इतः परं न किंचित् त्वामहं वृणे इत्यर्थः॥ १९॥

मृत्योस्तद्वरत्यागप्रार्थनम्

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञे54यमणुरेष धर्मः।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्॥२०॥

किमयमर्भको निष्प्रतियोगिकब्रह्ममात्रज्ञानाधिकारी न वा? इत्येतत्परीक्षणार्थे एष वरो मास्तु एतद्विषये देवैरपि विचिकित्सितत्वात् अन्यं वरं वृणीष्वेत्याह— देवैरत्रापि विचिकित्सितं पुरा इति। स्वयं भातवेदैः देवैरपि अत्र अस्मिन्नर्थे पुरा विचिकित्सितमिति श्रुतम्। तैरप्यसाध्यमित्यर्थः। प्राकृतैर्जनैर्गुरुतः श्रुतमपि न हि सुविज्ञेयम्। यत आत्माख्यो धर्मः अणुः सूक्ष्मतमः। हे नचिकेतः ! अन्यं असन्दिग्धफलं वृणीष्व। अधमर्णमिवोत्तमर्णो मा मोपरोत्सीः मां निर्बद्धं मा कार्षीः। मां प्रति एनं वरमतिसृज विमुञ्च॥ २०॥

तस्यैव वरस्य नचिकेतसो निर्वन्धः

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञे55यमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्॥

मृत्युनैवमुक्तो नचिकेता आह— देवैरत्रापि इति। भवत एव देवैरत्रापि विचिकित्सितं किल इति श्रुतं यस्मात् न सुविज्ञेयं इत्यात्मतत्त्वं आत्थ। “अविज्ञातं विजानतां विज्ञातमविजानतां” इति श्रुतेः। अस्य आत्मधर्मस्य पण्डितैरेव वक्तव्यत्वेन त्वादृक् त्वत्तुल्यः पण्डितः अन्यो वक्ता न लभ्यः। अन्विष्यमाणोऽपि एतस्य वरस्य न हि तुल्यः कश्चित् वरोऽस्ति। तस्य निःश्रेयसप्राप्तिहेतुत्वात्। एतदतिरिक्तबाह्यविषयकसर्ववरस्य निःश्रेयसप्रतिकूलभवहेतुत्वादित्या-शयः॥ २१॥

नचिकेतसः प्रलोभनम्

शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान्।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि॥२२॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि॥२३॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व॥

इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः॥२५॥

** **नचिकेतसैवमुक्तोऽपि मृत्युः पुनः पुनस्तं प्रलोभयन्नुवाच— शतायुष इत्यादिना। शतं वर्षाण्यायूंषि येषां तान् शतायुषः। भूमेर्महदायतनं सार्वभौमत्वम्। अल्पायुष एतत्सर्व लब्धमपि व्यर्थमित्यत आह—स्वयं इति। नीरोगदृढगात्रतया यावत्कालं जीवितुं इच्छसि तावत् प्राणान् धारयेत्यर्थः॥२२॥ मद्दीयमानसदृशान् अन्यानपि यदि मन्यसे तानपि दास्यामीत्याह— एतत् इति। प्रभूताष्टापदानर्घनवरत्नायमानं वित्तम्। सप्तद्वीपवती भूः महाभूमिः। कामानां मानुषलोकादिदेवलोकान्तगतानामित्यर्थः। मम सत्यसंकल्पत्वात्। त्वां कामभाजं करोमि इत्यत्र विचिकित्सां मा कुरु॥२३॥ किञ्च— ये ये

कामा इति॥२४॥ मत्प्रसादमन्तरा या रामाः स्त्रियः न हि लम्भनीयाः। आभिः मत्प्रत्ताभिः मया दत्ताभिः स्त्रीभिः पादप्रक्षालनादिनात्मानं परिचारयस्व। हे नचिकेतः ! मरणं “येयं प्रेते” इत्यादिमरणसम्बन्धिप्रश्नं कम्बलरोमकाकदन्तेयत्तापरिज्ञानरूपं कदापि मानुप्राक्षीः मैवं मां प्रष्टुमर्हसि॥ २५॥

नचिकेतसा आत्मोपदेशस्यैव वरणम्

श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीते॥ २६॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव॥२७॥

अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वधःस्थः प्रजानन्।
अभिध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत॥ २८॥

यस्मिन्निदं विचिकित्सन्ति मृत्योयत्साम्प56राये महति ब्रूहि नस्तत्।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥ २९॥

एवं मृत्युप्रलोभितार्मिकस्य निस्तरङ्गसागरवदक्षुब्धचित्तत्वादयं नचिकेतास्तृतीयवरातिरिक्तवरजातप्रतिषेधं करोति— श्वोभावा इति। भवदुपन्यस्तभोगानां श्वो भविष्यति नवेति सन्दिह्यमानत्वात् श्वोभावाः नश्वरा इत्यर्थः। किञ्च— अप्सरः प्रभृतिभोगानां सद्धर्मप्रज्ञावीर्यतेजोबलकीर्तिक्षपयितृत्वात् हे अज्ञानजातान्तक! मर्त्यस्य श्वोभावायमानाप्सरोविषयभोगाः यत्सर्वदेहेन्द्रियादिगतं तेजस्सत्त्वं विद्यते तदेतत् जरयन्ति प्रतिदिनमपक्षयं कुर्वन्ति। यां चिरजीविकां दित्ससि तत्र चतुर्युगसहस्राणि ब्रह्मणो दिवा भवति” इत्यारभ्य “वत्सरशतं ब्रह्ममानेन ब्रह्मणः परमायुः

प्रमाणम् “इति श्रुत्यनुरोधेन ब्रह्मजीवितस्यापि कालपरिच्छिन्नत्वात्। किमुत अस्मदादिदीर्घजीविका। अतः तवैव वाहननृत्तगीतादयस्तिष्ठन्तु। किञ्च—न वित्तेन इति। न हि वित्तेन मनुष्यः कदाचिदपि तर्पणीयः। यद्यस्माकं वित्ततृष्णा स्यात्तदा57 वयं वित्तेन लप्स्यामहे। मत्प्रार्थनीयन्ब्रह्मज्ञानवित्तं त्वा त्वां वयं अद्राक्ष्म दृष्टवन्तः। यावत् याम्ये पदे त्वं ईशिष्यसि ईशिष्यसे प्रभुर्भवति तावदेव हि वयं जीविष्यामः तज्जीवितस्याप्यल्पत्वात्। भवत्सङ्गतेरतिदुर्लभत्वात्तत् कथं लब्ध्वा मर्त्योऽल्पधनायुर्भवितुमर्हति? स्वात्मयाथात्म्यगोचरो यो वरः स एव वरो हि वरणीयः स्वातिरिक्तसर्वकामग्रासपरमपुरुषार्थप्रापकत्वात्। किञ्च - अजीर्यतां इति। यतः अजीर्यमाणशरीरेन्द्रियप्राणानां अत एव अमृतानां सकाशं उपेत्य तदियत्तां प्रजानन् तत्सकाशात् आत्मनः श्रेयो हि प्राप्तव्यं जरामरणवैशिष्ट्यात्। स्वयं तु जीर्यन् मर्त्यः। कुः पृथिवी। तस्या अन्तरिक्षाद्यपेक्षया अधः प्रतिष्ठितत्वेन तस्यां तिष्ठतीति क्वधःस्थः सन् " शतायुषः” इत्यादि “मरणं मानुप्राक्षीः” इत्यन्तकामानां अविवेकिभिः प्रार्थनीयत्वात् तत् कथं त्वत्कटाक्षार्हो वृणीते ? पाठान्तरे क्व तदास्थ इत्यत्र अहंममाभिमानविषयस्वदेहतत्सम्बन्धिदारपुत्रपश्वादिष्वास्था तल्लम्पटतया वर्तनं यस्य स तदास्थः। तदपह्नवसिद्धपुरुषार्थस्य तृतीयवराधीनत्वेन तत्पदं प्रापिपयिषोः मम तदास्था क्व वा सेद्धुं पारयतीति क्व तदास्थो भवेयम्। न ह्यात्मयाथात्म्यज्ञपदसेवी तत्पदं स्प्रष्टुमर्हति। नाहं भवत्प्रसादात् पुत्रवित्तादिगोचरलोभतः प्रलोभनीय इत्याह—अभिध्यायन इति। त्वदुपन्यस्तपुत्राद्यप्सरोभोगान्तगोचरवर्णरतिप्रमोदानामदृष्टदृष्टनष्टस्वभावरूपत्वेन तदीयवर्णरतिप्रमोदान् शशविषाणवत् अभिध्यायन्जानन् अतिदीर्घे कल्पपर्यन्तजीविते को वा एवंवित् रमेत। अतो मत्कृते असद्विषयकप्रलोभनं मा कुरु। हे मृत्यो! महत्प्रयोजननिमित्ते यस्मिन् महति सांपराये अस्ति नास्तीति वादिकोटिविप्रतिपन्नेऽर्थे तद्विकल्पापह्नव सिद्धनिष्प्रतियोगिकब्रह्ममात्रगोचरविज्ञानं यत् जानासि तदेव नः अस्माकं ब्रूहि निरङ्कुशं

मयि दयया कथयस्वेत्यर्थः। उक्तार्थे श्रुतिरनुवदति— योऽयं इति। किं बहुनोक्तेन?योऽयं गूढं दुर्विवेचनं अनुप्रविष्टः प्रकृतसर्वापह्नवसिद्धब्रह्ममात्रस्वरूपप्रापको वरोऽवशिष्यते तस्मात् तद्वरात् अन्यं अज्ञजनसेव्यं मनसापि नचिकेताः न वृणीते न काङ्क्षत इत्यर्थः॥२६–२९॥

_____________

द्वितीया वल्ली

श्रेयः प्रेयोविभागः

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुष‍ँ सिनीतः।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभि58 प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥

अथ खलु “वैष्णवीमात्मनिष्ठां नानूचानाय नावीतरागायोपदिशेत्”, “अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम्” इत्यादि श्रुत्यनुरोधेनायं नचिकेताः पुत्राद्यप्सरोऽन्तविषयककामनया प्रलोभितोऽपि परमार्थदृष्टिं विना यतो न विचचाल अतोऽयमेकान्तेन निःश्रेयसाधिकारीत्यवगम्य नचिकेतसः सर्वापह्नवसिद्ध ब्रह्ममात्रावगतये तदुपायत्वेन श्रेयः प्रेयोयाथात्म्यमाह— अन्यत् इत्यादिना। ज्ञानयोगो हि श्रेयान् निःश्रेयसहेतुत्वात्। श्रेयो निःश्रेयसम्। प्रेयसोऽपेक्षया तदन्यत्। कर्मयोगो हि प्रेयान् प्रीतिविषयकर्मफलप्रापकत्वात्। स्वकृतोञ्चावचकर्मैव प्रेयः। उतापि श्रेयसोऽपेक्षया प्रेयोऽन्यदेव। ते उभे

श्रेयःप्रेयसी सालोक्यादिकैवल्यान्तस्वर्गादिचित्तशुद्धयन्तप्रापकत्वेन नानार्थे अधिकारिचित्तविभ्रमानुरोधेन भिन्नप्रयोजने भवतः। ते ह्यधिकृतत्वेन वर्णाश्रमादिविशिष्टं पुरुषं सिनीतः निरुच्छ्वासं बध्नीत इत्यत्र—

यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम्।
ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः॥

कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु।
बन्धनं मनसो नित्यं कर्मयोगः स उच्यते॥

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्॥

इत्यादिश्रुतिस्मृती मानम्। सर्वो हि लोकः श्रेयःप्रेयोभ्यामात्मनः कर्तव्यतया प्रयुज्यते। तयोः एकेन पुरुषेण युगपदनुष्ठातुमशक्यत्वेन अन्यतरं आददानस्य स्वातिरिक्ताविद्यापदतत्कार्यगोचरं प्रेयोरूपमपह्नवीकृत्य निष्प्रतियोगिकब्रह्ममात्रावस्थानरूपं श्रेय एव साधु शिवं भवति। य उ यस्तु अदूरदर्शी मूढः प्रेयसोऽभिलाषात् श्रेयो हित्वा प्रेय एव वृणीते सोऽयं श्रेयसः अर्थाद्धीयते। जात्वपि न हि तत्पदमाप्नोतीत्यर्थः॥ १॥ पुरुषेणोभे अपि कर्तुं स्वायत्ते किमर्थमयं लोकः श्रेयो हित्वा प्रेय एव वृणीते ? इत्याशङ्क्य तयोर्मन्दानां साधनतः फलतो दुर्विवेचनीयत्वादुभयस्य उमे अपि पुरुषमेत इत्याह — श्रेयश्च इति। यथोक्तलक्षणं श्रेयश्च प्रेयश्च ते साधनतः फलतो व्यामिश्रभूते इव वर्णाश्रमादिव्यवस्थारूढं मनुष्यं आ इतः एतः। विवेकी धीरः तौ श्रेयःप्रेयःपदार्थों हंसोऽम्बुमिश्रक्षीरमिव संपरीत्य सम्यगालोच्य प्राह्माग्राह्यत्वेन विविनक्ति पृथक्करोति। पृथक्त्वं तु भावाभावरूपेण। तयोः श्रेयःप्रेयसोर्मध्ये प्रेयस्तत्कार्यापह्नवसिद्धेः श्रेयो हि श्रेय एव अभिवृणीते प्रेयसः शशविषाणवदवस्तुत्वात्। तद्विपरीतस्य सदसद्विवेकाकुशलत्वेन यस्तु मन्दमतिः योगक्षेमात् देहदारपुत्रपश्वादिपुष्टिनिमित्तं प्रेय एव वृणीते काङ्क्षत इत्यर्थः॥ २॥

नचिकेतसः प्रशंसा

स त्वं प्रियान् प्रियरूपाँश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां सज्जन्ति बहवो मनुष्याः॥३॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त॥४॥

सर्वोऽपि लोकोऽत्यल्पप्रेयोगोष्पदे निमज्जति वार्यमाणः स्वेच्छया। अयं तु नचिकेता बहुशो मया प्रलोभितोऽपि तदस्पृशन् यत् सत्यं तदेवाप्तुमिच्छति। अहो कृतकृत्यतेति नचिकेतसं स्तौति–स त्वं इति। यः त्वं मया बाह्यार्थे प्रलोभ्यमानोऽपि पुत्रादीन् प्रियान् अप्सरःप्रभृतिप्रियरूपांश्च कामान् शशविषाणवदसत्कल्पान् अभिध्यायन् हे नचिकेतः! स त्वं तत् अत्यस्राक्षीः परित्यक्तवानसि। किं च यस्यां सृङ्कायां बहवो मनुष्या निमज्जन्ति एतां वित्तमयीं मूढजनप्राप्यकुत्सितगतिरूपां सृङ्कां च नाप्तवानसि। अहो तव बुद्धिमत्तेत्यर्थः॥३॥ यतस्त्वं कामानत्यस्राक्षीः अतस्त्वां श्रेयोभाजनं मन्ये इत्याह–दूरमेते इति।

तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते।

इत्युक्तरीत्या श्रेयःप्रेयसोः महान्तरेण59 तद्गती मिथो दूरं दूरे। साधनतः फलतो मिथो व्यावृत्तरूपे। एते विपरीते विवेकाविवेकात्मकप्रकाशतमसी60 इव विषूची नानागती। के ते? इत्यत आह–अविद्येति। या च प्रेयोविषया अविद्या श्रेयोविषया हि विद्या इति ज्ञाता पण्डितैरवगतेत्यर्थः। यतः स्वाज्ञबुद्धिप्रलोभिनः पुत्राद्यप्सरोऽन्तप्रभृतयो बहवः कामास्त्वां नालोलुपन्त स्ववश्यतां न कृतवन्तः। अतो विद्याविद्ययोर्मध्ये विद्याभीप्सिनं विद्यार्थिनं निःश्रेयसभाजनं नचिकेतसं त्वां अहं मन्ये निश्चिनोमीत्यर्थः॥४॥

अज्ञानिनां निन्दा

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः॥५॥

न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे॥६॥

अविद्याभागिनः स्वरूपं तत्फलं च प्रकटयति— अविद्यायां इति। घनीभूततमोरूपायमानाविद्यायां अन्तरे मध्ये वर्तमानाः स्वान्तर्बाह्यविलसितदुष्कामादिदारपुत्रादिपाशैर्निरुच्छ्वासं बध्यमाना अपि स्वयं वयं धीराः धीमद्वराः स्वात्मानं सकलकलावल्लभत्वेन पण्डितंमन्यमानाः सन्तः कुत्सितामनेकरूपां गतिं दन्द्रम्यमाणाः कौटिल्ये पथि नित्यं रममाणा भूत्वा विषमे पथि यथा जात्यन्धेन नीयमानजात्यन्धा इव मूढाः स्वाज्ञा61 घटीयन्त्रवत् जन्ममरणादिदुःखैः परियन्ति परिभवं गच्छन्ति। इच्छाद्वेषप्रयुक्तद्वन्द्वमोहेन धराविवरनिमग्नकीटवत् हीयन्ते इत्यत्र–

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः।
धराविवरमग्नानां कीटानां समतां गताः॥

इति श्रुतेः॥५॥ अत एव श्रेयोमार्गप्रवृत्तिर्नोदेतीत्याह– न साम्पराय इति। वित्तनिमित्ताविवेकमोहेन मूढं परमार्थचिन्तां विना स्वदेहदारपुत्रधनक्षेत्रादिपोषणशोषणव्यासक्तचित्तत्वात् प्रमाद्यन्तं प्रकर्षेण माद्यन्तमित्यर्थः। एवंविशेषणविशिष्टं बालं अविवेकिनं प्रति। सम्यक् परं ब्रह्म स्वातिरिक्तप्रपञ्चापह्नवतः स्वमात्रतामीयते गम्यत इति संपरायः परमात्मा। तत्प्रापकत्वेन शास्त्रीयबोधः सांपरायः।न हि कदापि प्रतिभाति न स्फुरतीत्येतद्दारपुत्रधनादिकलनाकलितो यो दृश्यते सोऽयं लोक एव सत्यः अहंममाभिमानविषयत्वेन दृष्टत्वात्। एवमदृष्टः परलोको

न ह्यस्तीति मानी सोऽयं बालः पुनः पुनः घटीयन्त्रवत् जननमरणे प्रतिपद्य मद्वशं चिरं मदधीनतां आपद्यते जन्मादिदुःखसागरे गाढं निमग्नो भवति। राक्षस्यादियोनिमेव भजत इत्यर्थः।

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥

इत्यादिस्मृतेः। प्रायशोऽयं लोक एवंविधः। सहस्रेषु कश्चिदेव त्वादृग्विधः श्रेयोऽर्थी बन्धमोक्षभ्रममुमुक्षुर्भवति॥६॥

आत्मविद्याप्रशंसा नचिकेतसः स्तवश्च

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः॥७॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो62 बहुधा चिन्त्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्॥८॥

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा॥९॥

जानाम्यहँशेवधिरित्यनित्यं63 न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्।
ततो मया नचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्॥

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य64 पारम्।
स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः॥५॥

न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे॥६॥

अविद्याभागिनः स्वरूपं तत्फलं च प्रकटयति–अविद्यायां इति। घनीभूततमोरूपायमानाविद्यायां अन्तरे मध्ये वर्तमानाः स्वान्तर्बाह्यविलसितदुष्कामादिदारपुत्रादिपाशैर्निरुच्छ्वासं बध्यमाना अपि स्वयं वयं धीराःधीमद्वराः स्वात्मानं सकलकलावल्लभत्वेन पण्डितंमन्यमानाः सन्तः कुत्सितामनेकरूपां गतिं दन्द्रम्यमाणाः कौटिल्ये पथि नित्यं रममाणा भूत्वा विषमे पथि यथा जात्यन्धेन नीयमानजात्यन्धा इव मूढाः स्वाज्ञा61 घटीयन्त्रवत् जन्ममरणादिदुःखैः परियन्ति परिभवं गच्छन्ति। इच्छाद्वेषप्रयुक्तद्वन्द्वमोहेन धराविवरनिमग्नकीटवत् हीयन्ते इत्यत्र–

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः।
धराविवरमग्नानां कीटानां समतां गताः॥

इति श्रुतेः॥५॥ अत एव श्रेयोमार्गप्रवृत्तिर्नोदेतीत्याह–न साम्पराय इति। वित्तनिमित्ताविवेकमोहेन मूढं परमार्थचिन्तां विना स्वदेहदारपुत्रधनक्षेत्रादिपोषणशोषणव्यासक्तचित्तत्वात् प्रमाद्यन्तं प्रकर्षेण माद्यन्तमित्यर्थः। एवंविशेषणविशिष्टं वालं अविवेकिनं प्रति। सम्यक् परं ब्रह्म स्वातिरिक्तप्रपञ्चापह्नवतः स्वमात्रतामीयते गम्यत इति संपरायः परमात्मा। तत्प्रापकत्वेन शास्त्रीयबोधःसांपरायः। न हि कदापि प्रतिभाति न स्फुरतीत्येतद्दारपुत्रधनादिकलनाकलितो यो दृश्यते सोऽयं लोक एव सत्यः अहंममाभिमानविषयत्वेन दृष्टत्वात्। एवमदृष्टः परलोको

अनन्येति। “अन्योऽसावन्योऽहमस्मि” इत्यन्यभावोऽनात्मा। तदपह्नवसिद्ध आत्मा स्वमात्रमिति अनन्यभावारूढेनाचार्येण प्रोक्ते प्रकटितात्मनि अत्र असल्लौकिकाद्यष्टदृष्टिदृष्टचिन्तागतिः न ह्यस्ति आत्ममात्रावगतेरसल्लोकिकाद्यष्टदृष्टिचिन्तागत्यपह्नपूर्वकत्वात्। यद्वा अगतिः नास्ति स्वान्यज्ञेयस्यालब्धात्मकत्वात्। अथवा अनन्यप्रोक्ते अत्रागतिःअपरिज्ञानं नास्ति। भवत्याचार्यस्येवावगतिः। इतरथाऽयमात्मा अणुप्रमाणादपि अणीयान्। अतर्क्यंकेवलस्वबुद्धिकृततर्केणातर्क्योहि। तर्केण तर्क्यमाणे तु यत आत्मा विशेषवन्न दृश्यते अतोऽणुपरिमाण आत्मेति केनचित् स्थापितश्च65 इतोऽप्यन्योऽणुतरोऽणुतम इति चाभ्यूहति॥८॥ न हि कदाचिदपि तर्कस्य प्रतिष्ठा काचित् विद्यते। तद्विपरीतश्रुत्याचार्यप्रोक्तागमप्रतिपाद्या मतिः न हि तर्केण हातुं शक्या इत्याह—नैषा इति। ब्रह्मानन्याचार्यप्रोक्ता एषा सर्वापह्नवसिद्धब्रह्ममात्रगोचरा मतिः न हि तर्केण अपनेया न प्रापणीया न हातव्येति66 वा निगमान्तानभिज्ञस्तार्किको नाम स्वबुद्ध्या यत्किंचिदेव परिकल्पयति। तत्कल्पना हि आगमप्रभवा मतिः न हि चलति। हे प्रेष्ठ! मत्प्रीतिवित्तनिक्षेपकोश! मत्प्रियतम! तार्किकागम्यनिगमान्तगोचरा मतिर्निरतिशयसुखं स्वमात्रमिति यज्जानाति तत् सुज्ञानं तस्मै भवति। सुज्ञानस्य ब्रह्ममात्रगोचरत्वात्। तर्कागम्या मतिः का? इति चेदुच्यते। हे नचिकेतः! तृतीयवरप्रदाननिमित्तेन त्वं यां ब्रह्ममात्रमतिं आपः प्राप्तवान् असि। अत एव सत्या वितथपुत्राद्यप्सरोऽन्तविषयतिरस्करणपूर्वकमवितथब्रह्ममात्रमतिः। तत्रैव धृतिर्यस्य तव स त्वं सत्यधृतिः बतासि इति नचिकेतसमनुकम्पयन्नाह—न इति। नः अस्माकं त्वादृक्67 त्वत्तुल्यः अन्यः पुत्रः शिष्यो वा प्रष्टा पृच्छको भूयात् भवतु॥९॥ पुनरपि तुष्टो मृत्युर्नचिकेतस्तुष्टये स्ववृत्तं कीर्तयति—जानामि इति।

एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति।

इति, “गतागतं कामकामा लभन्ते” इति च श्रुतिस्मृत्यनुरोधेन कर्मफलरूप शेवधिरनित्यं इत्यहं जानामि यतो निष्प्रतियोगिकध्रुवब्रह्ममात्रगोचरज्ञानं विन न ह्यध्रुवायमाणक्रियाकारकेद्धकर्मादिसाधनशतैर्यन्निष्प्रतियोगिकध्रुवं विकलेबरकैवल्यं प्राप्यते। यस्त्वनित्यकर्मफलाख्यस्वर्गादिशेवधिः स एव अध्रुवैः द्रव्यैः प्राप्यते हि। हे नचिकेतः! न ह्यनित्यसाधनैः नित्यं प्राप्यत इति जानता मयापि अनित्यैः समिदाज्यादिद्रव्यैः पश्वादिभिश्चस्वर्गसाधनभूतोऽग्निश्चितो निर्वर्तित इत्यर्थः। तेनाहमापेक्षिकनित्यं स्वर्गतुल्ययाम्यपदं प्राप्तवानस्मि॥१०॥ त्वं तु—

कामस्याप्तिं इति। यस्मिन् पदे सर्वे कामाःपरिसमाप्तास्तां कामस्याप्तिम्। आध्यात्म्यादितापत्रयाश्रयजगतः प्रतिष्ठां तदारोपाधिकरणत्वेन सर्वात्मकत्वात्। क्रतोः फलभूतहिरण्यगर्भपदस्य स्वार्वाक्तनेन्द्रादिलोकगतानन्त्यापेक्षयानन्तत्वात् आनन्त्यम्। तथा तत्तल्लोकगताभयस्य च पारं परां निष्ठाम्। स्तोमं स्तुत्यम्।अणिमाद्यनेकगुणतो महत् तच्चापेक्षिकनिरतिशयत्वेन महद्भिः स्तूयमानत्वात्। उरुगायं विपुलगतिं धियः प्रतिष्ठां सर्वलोकदृष्ट्योत्तमामपि दृष्ट्वाधृत्या धैर्येण हे नचिकेतः! त्वं धीरः सन् सर्वमेतत् संसारभोगजातं अत्यस्राक्षीः अतिसृष्टवान् असि। अहो नु उत्तमगुणोऽसीत्यर्थः॥११॥ यं त्वमात्मानं ज्ञातुमिच्छसि तं तेऽभिधास्यामीत्याह—

तं इति। सदाद्यावृतित्रयावृतदृष्टीनां यद्दर्शनं दुःखेनापि न जायते सोऽयं दुर्दर्शः अतिसूक्ष्मत्वात्। तथाविधानां प्रत्यगाद्यज्ञानपूर्वकं गूढमनुप्रविष्टः। यद्रूपगूहनरूपा बुद्धिर्गुहा तस्यां प्रत्यग्रूपेणाहितत्वात् स्थितत्वात् गुहाहितः तत्रैवोपलभ्यमानत्वात्। भूततत्कार्यभौतिकानां मिथो वैषम्यतः स्वाविद्यापदतत्कार्यजातं गह्वरं तस्मिन् गह्वरे उच्चावचोपाधिरूपे जीवरूपेण तिष्ठतीति गह्वरेष्ठः। यत एवं गूढमनुप्रविष्टो गह्वरेष्ठश्च अत एव दुर्दर्शः। पुरातनत्वात् पुराणः। दुर्दर्शमित्याद्युक्तविशेषणविशिष्टं तमेतं आत्मानम्।

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु।

इति श्रुत्यनुरोधेन स्वाज्ञदृष्ट्यात्मनोऽविद्यापदस्य स्वज्ञदृष्ट्या तदारोपापवादाधिकरणमधि भिन्नम्। तत्राधिष्ठेयमनात्मा। तदधिष्ठानमात्मा खल्वध्यात्मा। तद्योगस्त्वधिष्ठानातिरिक्तमधिष्ठेयम्। आत्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिरूपेणास्ति नास्तीति विभ्रमापह्नवसिद्धब्रह्ममात्रबोधो हि अध्यात्मयोगः। तदधिगमेन निष्प्रतियोगिकस्वमात्रतया दीव्यते दीप्यत इति देवम्।धीरो ब्रह्मविद्वरिष्ठो मत्वा तत्समकालं स्वातिरिक्ताविद्यापदस्यावस्तुत्वेन स्वाज्ञस्वज्ञदृष्ट्या तत्सत्त्वासत्त्वाभ्यां प्रसक्तहर्षशोकौ जहातीव जहाति। वस्तुतः कर्तुं त्यक्तुं वा किमस्ति? इत्यत्र–

किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम्।
यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा॥

इति श्रुतेः॥१२॥ मयोक्तार्थश्रवणतः कृतकृत्यो भवसीति त्वामहं मन्ये इत्याह–एतत् इति। यत् एतत् मयोक्तमात्मतत्त्वं यस्त्वं श्रुत्वा सम्यगात्मभावेन परिगृह्य उपादाय यः कश्चन वा मर्त्योमरणधर्मा तद्दृष्ट्या आत्मानात्मायमानधर्माधर्मयोर्मध्ये स्वात्ममात्रावशेषणधर्मादनपेतं धर्म्यं अधर्मरूपशरीरादेः प्रवृह्य पृथक्कृत्य अधर्मापह्नवसिद्धं अणुं निष्प्रतियोगिकसूक्ष्मं स्वमात्रतया मोदनीयं आप्यापरोक्षतया लब्ध्वा स त्वमन्यो वा मोदते। तदेतदेवंविधं नचिकेतसं त्वां प्रति मुक्तप्रापणीयसद्म विकलेबरकैवल्यवेश्म विवृतं अपावृतकवाटं मन्ये ब्रह्ममात्रावस्थानविदेहकैवल्यभाजनं त्वां मन्य इत्यभिप्रायः॥१३॥

धर्माधर्मरहितस्यात्मनः प्रश्नः

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्।
अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद्॥१४॥

यद्यहं कैवल्यार्होयदि त्वमपि प्रसन्नश्चासि तदा मे सर्वापह्नवसिद्धं यत् पश्यसि तदेव ब्रूहीति नचिकेता आह–अन्यत्र इति। अहरहः

सन्ध्यामुपासीत” इत्यादिक्रियाकारकजुष्टशास्त्रीयधर्मतदनुष्ठानतत्फलात् अत तथाविहिताकरणप्रतिषिद्धकरणरूपाधर्मात् अन्यत्र तथाकृताकृतायमानकार्यवणात् अन्यत्र तथा भूतात् अतिक्रान्तकालात् भव्याच्च भविष्यत्काल चकारात् वर्तमानकालाच्च अन्यत्र यत् ईदृशं वस्तु सर्वापद्धतिस्वमात्रमिति पश्यसि तदेव मह्यं कृपया वद इति प्रश्नार्थः॥१४॥

तस्यैवोपदेशः

सर्वे वेदा यत्पदमामनन्ति तपाँसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदँसङ्ग्रहेण ब्रवीमि॥

ओमित्येतत्॥१५॥

एवंपृष्टवते तत्प्रतिवचनं मृत्युरुवाच सर्वे वेदा इति। ऋगादिचतुर्वेदप्रविभक्ताशीत्यधिकशतोत्तरसहस्रशाखामस्तकापमानसर्ववेदान्ताः यत् ब्रह्ममात्रपदं “अन्यदेव तद्विदितादधो अविदितादधि”, “सन्मात्रमसदन्यत्” “ब्रह्ममात्रसन्न हि “,

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
विद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इत्यादिवाक्यैः आमनन्ति प्रतिपादयन्ति। यत्प्राप्त्यर्थानि सर्वाणि कृच्छ्रमी मांसादितपांसि यद्वदन्ति। यदर्थानीत्येतत् यत्ब्रह्माप्तिंइच्छन्तो गुरुकुल वासपुरस्सरं ब्रह्मचर्यं अन्यद्वा चरन्ति तत्पदं ज्ञातुमिच्छते तुभ्यं तदेय ब्रह्मयाथात्म्यं सङ्ग्रहेण ब्रवीमि। किं तत्? इत्यत आह ओमित्येतत्इति। षोडशावयवब्रह्मप्रणवप्रविभक्तव्यष्टिसमष्ट्यात्मकजाग्रज्जाग्रदादितद्व्यष्टी-शविश्वविश्वादि तत्समष्टीशविराड्विडिराडादितदुभयेशोत्रोत्रादिचतुष्पणदशकलनापह्नयसिद्ध-तुर्यतुर्यचैतन्यं एतदेव ओमिति ईरितम्। तद्धि ब्रह्मयाथाम्यं मत्तस्त्वया बुभुत्सितमित्यर्थः। “ओङ्काराग्रविद्योतं तुर्यतुर्यम्” इति श्रुतेः॥१५॥

एतद्ध्येवाक्षरं ब्रह्म68 एतद्ध्येवाक्षरं परम्।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्॥१६॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥१७॥

एवं तुर्यतुर्यगोचरपराशब्दशब्दितप्रणव एव स्वाज्ञस्वज्ञदृष्टिमाश्रित्य प्रतीकवेनालम्बनत्वेन च विभातीत्याह—एतत् इति। अभिधानाभिधेययोरेकत्वाभिप्रायेण एतद्ध्येवाक्षरं अपरं विराड्ढिरण्यगर्भेश्वरात्मकं ब्रह्म प्रणवस्थूलादिभागत्रयारोपाधिकरणत्वात् स्वाज्ञानां प्रतीकत्वेनोपास्यमित्यर्थः। स्वज्ञदृष्टेः एतद्ध्येवाक्षरं परं ब्रह्म भवति। एतस्य प्रणवार्धमात्रासङ्गतया तद्भागत्रयापवादाधिकरणत्वात् स्वज्ञालम्बनं तदेवेत्यर्थः। तयोः परापरप्रणवयोर्मध्ये प्रतीकालम्बनाभ्यां एतद्ध्येवाक्षरं परमपरं वा ज्ञात्वा तदस्मीति विदित्वा यो यदिच्छति तस्य स्वाज्ञस्य स्वज्ञस्य वा प्रतीकत्वेन अपरं आलम्बनत्वेन परं ब्रह्म च तदेव भवति। स्वस्वदृष्ट्यनुरोधेन यत्प्राप्तव्यं तदेव संभवतीत्यर्थः॥१६॥ यत एवमतोऽनेकेषां ब्रह्माप्त्यालम्बनानां एतदेवालम्बनं श्रेष्ठं ब्रह्माप्तौ निरङ्कुशोपायत्वात्। एतदालम्बनं परं अपरं च परापरविषयत्वात्। एतदालम्बनस्येति ज्ञात्वातज्ज्ञानानुरोधेनापरं परं तद्विभागकलनापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रं वा यत्र लोक्यते स ब्रह्मलोकः। तस्मिन् अपरस्मिन् परस्मिन् ब्रह्ममात्रे वा महीयते। ईश्वरः साक्षी ब्रह्ममात्रं वा भवतीत्यत्र–“तं यथा यथोपासते तथैवभवति” इति श्रुतेः। ‘‘अन्यत्र धर्मात्’’ इत्यादिपृष्टस्यार्थस्य ब्रह्मणः स्वमात्रत्वेन तदाप्त्युपायालम्बनत्वेन तदुपायप्रतीकत्वेन च ओङ्कारो निर्दिष्टः॥१७॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्नबभूव कश्चित्।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥१८॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९॥

तत्र स्वाज्ञपरमार्थदृशोः षड्भावविकारः सत्त्वेन असत्त्वेन भवतीत्यत्र न विवादः। स्वज्ञस्यैव षड्भावविकारः प्रतिषिध्यते– न जायते इति। विपश्चित् स्वज्ञः स्वाज्ञदृष्टिदृष्टदेहे जाते मृतेऽपि न जायते म्रियते वा न म्रियते चेत्यर्थः। स्वदृष्ट्या जनिमृतिमद्देहादेर्व्यावहारिकत्वेन मिथ्यात्वात्। न जायते म्रियते वा इत्याद्यन्तविक्रियाप्रतिषेधेन सर्वा विक्रियाः प्रतिषिध्यन्ते। तथापि मध्यमविक्रियाप्रतिषेधः कर्तव्य इत्याह–नायं इति। विपश्चित् आत्मायं कुतश्चित् कारणान्तरात् न बभूव। स्वस्मादप्यर्थान्तरभूतः कश्चिन्न बभूव। अयं आत्मा यतः अजो नित्यः अतः शाश्वतः अपक्षयवर्जितत्वात्। पुराणःनिरवयवत्वात् वृद्धिविरल इत्यर्थः। अतोऽयमात्मा शरीरे हन्यमाने विपरिणम्यमानेऽपि न हन्यते न हि विपरिणम्यते। न म्रियते वेत्यत्र नाशविक्रियाया उक्तत्वेन हन्तेः परिणामार्थो युज्यत इत्यर्थः॥१८॥ एवंविधमात्मतत्त्वमसल्लौकिकदृष्टिमवलम्ब्य स्वयं हन्ता संहर्ता चेत् यदि तदा हनिष्याम्येनमिति परान् हन्तुं मन्यते। यः परेण हतश्चेत् सोऽपि हतं आत्मानं मन्यते। हतोऽहमिति तावुभावपि स्वयाथात्म्यं न विजानीतः स्वात्मनोऽविक्रियत्वात्। नायं हन्ति तथा व्योमवन्निरवयवत्वात्। न हन्यते धर्माधर्मादिलक्षणहन्तृहननादिसंसारःस्वाज्ञगोचरः। न हि स्वज्ञस्येत्यत्र–

कर्तृभोक्तृत्वादिधर्मः स्वाज्ञानपरिकल्पितः।
स्वाज्ञवन्न स्पृशेत् स्वज्ञं तद्दृष्ट्या तदसंभवात्॥

इति स्मृतिर्मानम्॥१९॥

तस्यैव सूक्ष्मत्वविभुत्वदुर्ज्ञेयत्वानि

अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्।
तमक्रतुः69 पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः॥

आसीनो दूरं व्रजति शयानो याति सर्वतः।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति॥२१॥

कथमात्मानं ज्ञात्वा स्वज्ञो भवति? इत्यत आह–अणोः इति। श्यामाकतण्डुलाद्यणोरणीयान्। “एष म आत्मान्तर्हृदयेऽणीयान् ब्रीहेर्वा” इत्यादिश्रुतेः। महापरिमाणपृथिव्यादेः महतोऽपि महीयान् “पृथिव्या ज्यायान्” इत्यादिश्रुतेः। लोके तावत् अणु महद्वा यद्वस्त्वस्ति तत् सदात्मना सत् भवति। तदतिरिक्तमसत् संपद्यते। स्वात्मनो नामरूपकर्मोपाधित्वेन तदारोपाधिकरणत्वादणीयस्त्वं महत्त्वं चोपपद्यत इत्यर्थः।सोऽयं आत्मास्य ब्रह्मादिस्तम्बान्तप्राणिकदम्बस्य जन्तोः हृदयाभिधानगुहायां तत्रत्यकामादिवृत्तिसहस्रभावाभावप्रकाशकप्रत्यग्भावेन निहितःस्थित इत्यर्थः। दृष्टादृष्टविषयोपरतधीः अक्रतुः अकामो मुनिः। मनआदिकरणानि धातवः। तेषां स्वव्यापृतिवैरल्यं धातुप्रसादः तस्मात्। तं प्रत्यञ्चमात्मानं “न कर्मणा वर्धते नो कनीयान्” इति श्रुतितः कर्मनिमित्तवृद्धिक्षयविरलं आत्मनो महिमानं अयमहमस्मीति पश्यति। तत्समकालं स्वज्ञः सन् कृतकृत्यो भवतीत्यर्थः॥२०॥ अन्यथा प्राकृतजनैर्दुर्विज्ञेय इत्याह–आसीन इति। व्यष्टिसमष्ट्यात्मकजाग्रत्स्वप्नयोर्विश्वतैजसविराट्सूत्ररूपेण विशेषसामान्यायमानबाह्यान्तर्वृत्तिषु तदारोपाधिकरणत्वेन आसीनोऽवस्थितोऽयमात्मा विशेषसामान्यवृत्त्यारूढतया दूरं व्रजतीव। भासमानोऽयमात्मा व्यष्ट्यादिस्वापतुर्यावस्थयोः प्राज्ञबीजतुर्यरूपेण “न किञ्चनावेदिषम्”, “ब्रह्म सत्यं जगन्मिथ्या” इति च करणैकदेशविज्ञानोपरमः शयनं विशेषसामान्यविज्ञानोपरमणं तत्र तदपवादाधि-

करणत्वेन शयानोऽयमात्मा सर्वतो यातीव। वस्तुतः स्वातिरिक्तकरणग्रामप्रवृत्तिनिवृत्तिप्रसक्तदूरसन्निहितपरिच्छिन्नापरिच्छिन्नदेशादिवैरल्यान्निष्प्रतियोगिकब्रह्ममात्रतयावशिष्यत इत्यर्थः। स्वाज्ञवृत्तिविभातविश्वस्य मदकृन्मायाकार्यत्वात्तदारोपाधिकरणस्यापि मदत्वम्। मदकृदविद्याप्रपञ्चापवादाधिकरणस्य तदपवाददोषास्पृष्टत्वेनामदत्वम्। स्वाज्ञस्वज्ञदृग्विभातं विश्वारोपापवादाधिकरणत्वेन मदामदः तं मदामदम्। तद्गतहेयांशाधिष्ठेयाधिष्ठानगतापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्ररूपेण70 दीव्यते दीप्यत इति देवः तं देवम्। स्वावशेषधिया अहं वेद यथा तथा को वा मदन्यो ब्रह्ममात्रज्ञानं विना ज्ञातुमर्हति? अत एवात्मा प्राकृतबुद्धिभिर्दुर्विज्ञेयो भवतीत्यर्थः॥२१॥

आत्मज्ञानप्रशंसा

अशरीरँशरीरेष्वनवस्थेष्ववस्थितम्।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥२२॥

प्राकृतधियामपि सर्वभूतात्मैकत्वज्ञानतः शोकात्ययमाह–अशरीरं इति। देवपितृमनुष्यादिशरीरेषु नामरूपोपाधिष्वनेकेषु अनवस्थितेष्वपि घटोपाध्यसङ्गत्र्योमैकत्वनित्यत्ववदयमात्मा अशरीरः शरीरत्रयापवादाधिकरणत्वेनावस्थितः। शरीरत्रयस्य व्यावहारिकादिदृष्ट्या मिथ्यात्वेनावस्थितत्वेऽपि तदारोपापवादाधिकरणस्यात्मनोऽशरीरत्वेनावस्थितत्वात्। अविकृतत्वेन अशरीरं नेत्यमित्यर्थः। अपरिच्छिन्नस्वरूपत्वात् महान्तम् आपेक्षिकमहत्त्वं वारयति– विभुं इति। व्यापिनमित्यर्थः। “नित्यं विभुं सर्वगतम्” इति श्रुतेः। अशरीरं इत्यादिविशेषणविशिष्टं आत्मानं शरीरादिसापेक्षाशरीरत्वादिगतहेयांशापह्नवसिद्धं ब्रह्य स्वमात्रमिति मत्वा तन्मननसमकालमेव धीरो विद्वान् स्वातिरिक्ताविद्या-

पदतत्कार्यजातं सत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिरूपेण अस्ति नास्तीति न शोचति शोचनीयविषयवैरल्यात्।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः।

इति श्रुतेः॥२२॥

आत्मज्ञानोपायः

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनूँस्वाम्॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्॥२४॥

यद्वेदनतः शोकात्ययो दर्शितस्तदधिगमोपायः कः? इत्यत आह–नायं इति।ऋगादिचतुर्वेदपठनपाठनायमानप्रवचनेन। अयमात्मा न लभ्यः नापि ग्रन्थार्थधारणापटुशक्तिरूपमेधया। नापि बहुभ्यो बहुधा श्रुतश्रवणेन। तथा चेत् केनोपायेन लभ्यते? इत्यत आह–यं इति। एष साधको मुमुक्षुः यं परमात्मानं सर्वापह्नवसिद्धनिष्प्रतियोगिकस्वमात्रतया वृणुते जानाति तेनैव ज्ञात्रा स्वावशेषतया अयमात्मा लभ्यः। स्वावशेषधिया जानतःस्वात्मा लभ्यत इत्युक्तम्। कथं लभ्यते? इत्यत आह–तस्य इति। तस्य ब्रह्मविद्वरिष्ठस्य एष परमात्मा स्वां तनूंं निष्प्रतियोगिकस्वमात्रमिति स्वकीययाथात्म्यं [वि] वृणुते71 प्रकाशयतीत्यर्थः॥२३॥ ज्ञाज्ञात्मरूपेणात्मनः समत्वात् ज्ञवदज्ञोऽपि ब्रह्म आप्नुयादित्यत आह–नाविरत इति। स्वाश्रमविपरीताचरणदुश्चरितात् यो नाविरतःयस्तु करणग्रामलौल्यादपि अशान्तः विक्षेपद्वयबाहुल्यात् असमाहितचित्तः समाहितचित्तोऽपि तत्फला-

शान्तमानसः एवं ज्ञानप्रतिबन्धकदुश्चरितादिवृत्तिमानाभासमात्रवेदान्तश्रजनितप्रज्ञानेन एनं प्रकृतमात्मानं नाप्नुयात् सोऽयं आभासज्ञानीत्यवगम्यत तद्विपर्ययपारमार्थिकज्ञानी तु दुश्चरितात् विरतः करणग्रामलौल्यात् समाधिसमाधानफलादप्युपशान्तमानसो यथोक्तसाधनसंपन्नो मुमुक्षुः श्रुत्याचार्यप्रसजनितप्रज्ञानेनैनं प्रकृतमात्मानं निष्प्रतियोगिकस्वमात्रधिया प्राप्नोति विदेहम् भवतीत्यर्थः॥२४॥

ब्रह्मण आत्माभेदः

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥२५॥

तद्विपर्यये आभासज्ञानी तु यथावदेनं न वेदेत्याह– यस्य इति सर्वधर्मविधारकत्वेन सर्वत्राणनशक्ती ब्रह्मक्षत्रे। तदुपलक्षितव्यष्टिसमष्ट्यात्मव स्वाविद्यापदतत्कार्यजाते उभे अपि यस्य आत्मनः ओदनः अशनं भवतः आत्मनः स्वाविद्यापदतत्कार्यप्रासत्वात्। य एवमनृतजडदुःखात्मकाविद्यापद तत्कार्यजातं ग्रसति सोऽयं मृत्युः व्यष्टिसमष्टिसाक्षिनिष्प्रतियोगिब्रह्ममात्र उपसेचनं भवति। एतादृशः सोऽयमात्मा यत्र क्व आभासज्ञानी क्व? कथमेत पारमार्थिकज्ञानीव ज्ञात्वा आभासज्ञानी तत्पदं भजति? तस्मात् पारमार्थिकज्ञान्येव सर्वापह्नवसिद्धं ब्रह्म स्वमात्रमिति विदित्वा तद्वेदनसमकालमेव तद्याधात्म्यतय अवशिष्यत इत्यर्थः॥२५॥

__________

तृतीया वल्ली

जीवब्रह्मयाथात्म्यज्ञानम्

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः॥१॥

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि॥२॥

“क इत्था वेद यत्र सः” इति पारमार्थिकज्ञानीव को वा आभासज्ञानी वेदेति द्वितीयवल्ल्यन्ते अभिहितम्। तत्र ज्ञाज्ञाश्रयज्ञानाज्ञाने तत्फलं च मन्दबुद्ध्यारोहाय तेषां सुखप्रतिपत्त्यर्थं रथरूपकल्पनया प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थं द्वावात्मानावुपन्यस्येते– ऋतं इति। स्वाज्ञदृष्टिविकल्पितकर्मफलस्य स्वदृष्ट्या ऋतत्वात्तदेव ऋतं द्वावात्मानौ पिबन्तौ। तत्रैक एव कर्मफलरसायनं पिबति नेतरः। तथापि छत्रिन्यायेन पात्रजीवसामानाधिकरण्यात् पिबन्तावुच्येते। “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’’ इति श्रुतेः। सुकृतस्य स्वकृतकर्मणः फलहेतुर्यत्रास्मिन् शरीरे लोक्यते स लोकःतस्मिन् लोके। बाह्याकाशापेक्षया हार्दाकाशस्य परमत्वम्। तस्मिन् परमे। यत्र ब्रह्म उपलभ्यते तत् परार्धं तस्मिन् परार्धे। हार्दाकाशे कल्पिततूलान्तःकरणायमानगुहां प्रविष्टौ संसारित्वासंसारित्वेन छायातपौ इव परस्परविलक्षणाविति ब्रह्मविदो वदन्ति। न केवलमकर्मिणः। किं तु गार्हपत्याहवनीयदक्षिणाग्निसभ्यावसथ्यभेदेन पञ्च अग्नयो येषां ते पञ्चाग्नयो गृहस्थाः ये च त्रिणाचिकेता अपि वदन्तीत्यर्थः॥१॥ परापरब्रह्मयाथात्म्यं जानामीति मृत्युराह–य इति। ईजानानां कर्मिणां यः सेतुरिव सेतुः “एष सेतुर्विधरण एषां लोकानामसंभेदाय” इति श्रुतेः। कर्मिणां दुःखसन्तारणहेतुत्वात्। योऽयं नाचिकेतोऽग्निस्तं नाचिकेतं वयं ज्ञातुं चेतुं च शकेमहि शक्तिमन्तः। तितीर्षतां संसारवार्धिं

तर्तुमिच्छताम्। यत् पारमभयं परमक्षरं तच्च ज्ञातुं शकेमहि। यत एवं अतःकर्मिब्रह्मविदाश्रये अपरपरब्रह्मणीत्यर्थः। ‘‘ऋतं पिबन्तौ” इत्यादिना अपरं परं च ब्रह्मोपन्यस्तम्।तत्र तूलान्तःकरणोपाधिकः संसारी विद्याविद्याधिकृतः संसारमोक्षगमनाय शक्तो भवति॥२॥

आत्मनो रथिरूपेण निरूपणम्

आत्मानं रथिनं विद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥३॥

इन्द्रियाणि हयान्याहुर्विषयांस्तेषु72 गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥४॥

तस्यैव तदुभयसाधनत्वेन रथादिः कल्प्यते–आत्मानं इति। ऋतपं जीवात्मानं रथिनं विद्धि। शरीरस्य रथहयस्थानीयेन्द्रियाकृष्यमाणत्वात् शरीरमेव रथम्। अध्यवसायलक्षणां बुद्धिं तु सारथिं विद्धि।सारथिनेतृप्रधानरथवच्छरीरस्य बुद्धिनेतृप्रधानत्वात्। यद्यत् कार्यं तत्तद् बुद्धिकर्तव्यमेवेत्यभिप्रायः। सङ्कल्पादिलक्षणं मन एव प्रग्रहं रशनां विद्धि। रशनयेवाश्वास्तथा मनसा प्रगृहीतानि इन्द्रियाणि स्वस्वविषयेभ्यो निवर्तन्ते।रथकल्पनाकुशलाश्चक्षुरादीन्द्रियाणि हयानाहुः। हयानिति वक्तव्ये हयानि इति लिङ्गव्यत्ययश्छान्दसः। इन्द्रियाश्वानां शरीररथाकर्षणकुशलत्वात्। रूपादीन् तद्गोचरविषयान् विद्धि। आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः संयुक्तं जीवात्मानं मनीषिणः संसारी कर्ता भोक्ता इति एवं आहुः। न हि केवलस्यात्मनः कर्तृत्वादिरस्ति। तद्गतकर्तृत्वादेर्बुद्ध्याद्युपाधिकृतत्वात्। “ध्यायतीव लोलायतीव,” अभोक्ता फलभोज्यपि” इति च श्रुतेः॥३–४॥

यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥५॥

यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा73
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥६॥

एवं रथकल्पनाया वक्ष्यमाणविष्णुपदप्रापकोपायत्वान्न ह्युपायं विनोपेयाप्तिरिष्यत इति तद्विविच्यते–यस्तु इत्यादिना। यस्तु अविज्ञानवान् अविवेकी बुद्ध्याख्यसारथिरिन्द्रियप्रवृत्तिनिवृत्तिकर्मस्वनिपुणो भवति तथैवानिपुणसारथी रथचर्यायां अयुक्तेन प्रग्रहस्थानीयासमाहितमनसा सह युक्तो भवति तस्य अकुशलबुद्धिसारथेरश्वस्थानीयेन्द्रियाण्यवश्यानि रथसारथेर्दुष्टाश्वा इव निगृहीतुमशक्यानि भवन्ति॥५॥ अनिपुणसारथ्यादिस्वरूपमुक्त्वा निपुणसारथ्यादिस्वरूपमाह–यस्तु इति। यस्तु विज्ञानवान् प्रगृहीतमना भवति समाहितमनस्त्वात् तस्य अश्वस्थानीयेन्द्रियाणि इतरसारथेः सदश्वा इव प्रवर्तयितुं निवर्तयितुं च शक्यानि भवन्ति॥६॥

तयोर्ब्रह्मणःप्राप्तिरप्राप्तिश्च

यस्त्वविज्ञानवान् भवत्यमनस्कः सदाशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति॥७॥

यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते॥८॥

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्॥९॥

पूर्वविपरीतसारथ्यादिफलमाह–यस्तु इति। यस्त्वविज्ञानवान् अकुशलसारथिर्भवति अप्रगृहीतमानसत्वात् अमनस्कः ततः सदा अशुचिः अशुद्धचित्तः स सारथिना न हि तत् परमाक्षरपदमाप्नोति। किं तु जनिमृतिलक्षणसंसारं चाधिगच्छति॥७॥ पूर्वोक्तविपरीतसत्सारथेः परमफलं दर्शयति–यस्तु इति। यस्तु विज्ञानवान् रथी विद्वान् युक्तेन मनसा सदा शुचिर्भवति विशुद्धान्तरत्वात् स तु विद्वान् यस्मात् स्वात्तपदात् भूयः प्रच्युतः सन् न जायते तत् परमाक्षरपदमेव आप्नोति॥८॥ किं तत् पदं? इत्यतः आह–विज्ञानसारथिः इति। यस्तु विज्ञानसारथिः विवेकबुद्धिसारथिः मनःप्रग्रहवान् निगृहीतचित्तः शुचिः नरः विद्वान् सोऽयं संसाराध्वनः पारं विश्रान्तिसीमां आप्नोति। तत् किं? इत्यत आह–तत् इति। तत् निष्प्रतियोगिकव्यापनशीलस्य विष्णोः स्वरूपस्य सर्वापह्नवसिद्धस्वमात्रसिद्धेः परमत्वेन स्वावशेषधिया पद्यत इति परमं पदं तदेवेत्यर्थः॥९॥

पुरुषस्य सर्वेभ्यः परत्वम्

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥१०॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः।
पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः॥११॥

यत् विद्वद्भिरेव गन्तव्यं तस्य सर्वापह्नवसिद्धत्वेन तदाप्त्युपायवैरल्यमाशङ्क्य वस्तुतस्तथात्वेऽप्यनादिकालसिद्धस्वाज्ञस्वज्ञदृष्टिमाश्रित्य स्वातिरिक्तेन्द्रियाद्युपलक्षिताविद्यापद-तत्कार्यजातस्य सत्यव्यावहारिकप्रातिभासिकत्वादिरूपेण विद्यमानत्वात्तदालम्ब्य स्थूलेन्द्रियाद्यारभ्याव्यक्तान्तगतप्रत्यगधिगमपूर्वकं पराकाष्ठायमानब्रह्ममात्रस्वरूपमवगन्तुं शक्यमितीदमारभ्यते–इन्द्रियेभ्य इत्यादिना। शृणोमि पश्यामीत्यादिप्रत्यक्प्रकाशद्वारभूतानीन्द्रियाणि तावत् स्थूलानि

तेभ्यः स्वकार्येभ्य इन्द्रियेभ्यः ते हि परा अर्थाः शब्दादिसूक्ष्मतन्मात्राः स्थूलेन्द्रियापेक्षया सूक्ष्मा महान्तश्च प्रत्यगात्मभूताश्च। तेभ्यः अर्थेभ्यः सूक्ष्मं महत् प्रत्यगात्मभूतं च मनः संकल्पाद्यारम्भकम्। तस्मात् मनसोऽपि परा सूक्ष्मा महत्तरा प्रत्यगात्मभूता हि बुद्धिः। अध्यवसायारम्भकभूतसूक्ष्मबुद्धेरपि बोधाबोधात्मकाव्यक्तप्रथमजत्वेन सर्वप्राणिबुद्धिप्रत्यग्भूतत्वात् स्वकार्यसर्वमहत्वाच्च आत्मा महान् बुद्धेरपि परःसूक्ष्मः प्रत्यगात्मभूतश्चेत्युच्यते॥१०॥ अव्यक्तस्य सर्वजगद्बीजभूतत्वेन सर्वकारणशक्तित्वेन विद्यमानं अव्यक्तं महतोऽपि परं सूक्ष्मं प्रत्यग्भूतं च भवति। यथा वटकणिकायामिव वृक्षबीजं तथा प्रतीचि ओतप्रोतभावेन सर्वानर्थबीजभावेनावस्थितात् अव्यक्तादपि तदारोपापवादाधिकरणप्रत्यगभिन्नपरमात्मा स्वविकल्पितेन्द्रियाद्यव्यक्तान्तप्रपञ्चपूरणात् पुरुष एव “सर्वस्मादन्यो विलक्षणः” इति, “सूक्ष्मात् सूक्ष्मतरम्”, “महतो महत्तरम्” इति च श्रुत्यनुरोधेन सर्वस्मात् पर इत्युच्यते। स्वातिरिक्तसापेक्षपरत्वगतहेयांशापह्नवसिद्धनिष्प्रतियोगिकपूर्णभावा-पन्नपुरुषादपि पूर्वोक्तेन्द्रियादिपरत्ववत् परोऽन्यः स्यादिति शङ्कां शातयति– पुरुषान्न परं इति। यस्मात् पुरुषात् निष्प्रतियोगिकसन्मात्रात् न हि किञ्चिदपि वस्त्वन्तरमस्ति पुरुषावगतेः स्वातिरिक्तसर्वासदपह्नवपूर्वकत्वात्। “यस्मात् परं नापरमस्ति किञ्चित्”, “सन्मात्रमसदन्यत्” इत्यादिश्रुतेः। स्वातिरिक्तहेतोरपह्नोतव्येन्द्रियाद्यव्यक्तान्तगतपरत्वसूक्ष्मत्वमहत्त्वप्रत्यक्त्वानां या निष्प्रतियोगिकस्वमात्रतयावस्थितिःसा काष्ठा पर्यवसानभूमित्वात्। असत्कर्म्यादिसद्वैत्यन्तगन्तणां सा एवं परा प्रकृष्टा गतिः। वस्तुतोऽवस्तुतो वापि तदतिरिक्तजीवेशसाक्ष्यभावात् सालोक्यादिमुक्तिभाजां निर्वासनत्वेन चतुष्पदैक्यसमये निर्विशेषब्रह्मभावापत्तेः। “ब्रह्मलोकं हि संपद्य न च पुनरावर्तते” इति,

यत् गत्वा न निवर्तन्ते तद्धाम परमं मम।

इति च श्रुतेः स्मृतेश्च। “यत् गत्वा न निवर्तन्ते” इति यत् तदनुपपन्नं गतेरागतिपूर्वत्वात् इत्याशङ्क्य सर्वस्य केवलब्रह्ममात्रत्वादवगतिरेव गतिरित्युप-

चर्यते। इन्द्रियाद्यव्यक्तान्तगतेः प्रत्यग्भावपरिसमाप्तत्वात् प्रतीचः पराग्भिन्नत्वा प्रत्यगभिन्नब्रह्मणः पराग्भावसापेक्षप्रत्यगैक्यगतसविशेषकलनापह्नवे ब्रह्ममात्र सिद्धमित्यर्थः॥११॥

आत्मनः सूक्ष्मधीवेद्यत्वम्

एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥१२॥

यदि सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रतयावशिष्यते त सर्वेषामपि साक्षात्कर्तुं शक्यं भवेदित्याशङ्क्य सदाद्यावृतित्रयापह्नवसिद्धसच्चिदनन्दमात्रदृष्टीनां स्वमात्रतया साक्षात्कृतमपि सदाद्यावृतित्रयावृतानामन्तर्गूढत्वे किञ्चिद्विभिन्नावृतीनां प्रत्यारूढप्रत्यगिव भातीत्याह–एष इति। परमार्थदृष्ट सर्वापह्नवसिद्धनिष्प्रतियोगिकपूर्णभावेन यः पुरुषोऽवशिष्यते स्वाज्ञदृष्ट्या एष पुरुषः सर्वभूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु तूलाविद्यापटच्छन्न इव गूढःअत एव आत्मा कस्यचिदपि न प्रकाशते। तेषां तूलाविद्यावृतदृष्टित्वात् परमार्थदृष्ट्या यदयं सर्वो जन्तुः सत्तामात्रस्वरूपोऽपि तूलाविद्यावृतदृष्टित्वे श्रुत्वाचार्यैः"न त्वं संसारी किं तु प्रत्यक्तदभिन्नं ब्रह्म तद्गतहेयांशविरलब्रह्ममा भवसि” इति वोधितोऽपि तदुपदेशं न बहुमन्यते। “देहेन्द्रियादिरसि’ इति परैरबोधितोऽपि शरीरत्रयमात्मेति गृह्णाति। अहो मायैतादृशी! तय मोमुह्यमानोऽयं लोकः स्वात्मानमविदित्वा सुतरां बंभ्रमीति।

दैवी ह्येषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।
नाहं प्रकाशः सर्वस्य योगमायासमावृतः॥

इत्यादिस्मृतेः। “मामेव ये प्रपद्यन्ते”, “नाहं प्रकाशः सर्वस्य”. इति विरुद्धोक्तिरिति चेन्न; आवृतित्रयावृतदृष्टेरेवं न प्रकाशत इत्युक्तम्। किञ्चिद्विशीर्णावृतदृष्टेर्दृश्यते हि। अग्रमेवाग्र्यं तया अग्र्यया एकाग्रतया

संस्कृतया बुद्ध्यां सूक्ष्मवस्तुगोचरधिया इन्द्रियाद्यव्यक्तान्तगतपरत्वसूक्ष्मत्वमहत्त्वादिसूक्ष्म-दर्शिभिः पण्डितैः स्वान्तर्बाह्यविजृम्भितकामसङ्कल्पादिनामरूपादिप्रपञ्चभावाभावप्रकाशकत्वेन तदारोपापवादाधिकरणत्वेन निरधिकरणब्रह्ममात्रत्वेन च स्वावशेषतया दृश्यते तु दृश्यत एवेत्यर्थः॥१२॥

धियः सूक्ष्मतापादनोपायः

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि॥१३॥

स्वाविद्यावृतदृष्टीनां तदावृतिभेदनोपायतस्तदधिगमः स्यादित्यत आह–यच्छेत् इति। प्राज्ञो विवेकी वागिन्द्रियोपलक्षितेन्द्रियजातं मनसि नियच्छेत् उपसंहरेत् मनोमात्रपर्यवसानं कुर्यादित्यर्थः। वाक् वाचम्। विभक्तिव्यत्ययश्छान्दसः। मनसी इति दैर्घ्यं छान्दसम्। तत् संकल्पविकल्पात्मकं मनः ज्ञाने आत्मनि बुद्धौ नियच्छेत्। बुद्धिर्हि मनआदिकरणग्राममाप्नोतीत्यात्मा। प्रत्यग्भावेनेत्यर्थः। तज्ज्ञानायमानबुद्धिं आत्मनि महति महदुपाधिकहिरण्यगर्भात्मनि नियच्छेत्। “हिरण्यगर्भः समवर्तताग्रे” इति श्रुतितः प्रथमजं महान्तमात्मानं विश्वविराडोत्रादिभिः सह स्वातिरिक्तकरणग्रामतदारोपापवादाधिकरण-गतहेयांशशान्तःआत्मनि काष्ठापदंगत्पुरुषे तन्मात्रावशेषतया नियच्छेत्॥१३॥

निर्गुणब्रह्मणो दुरधिगमत्वम्

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥१४॥

अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते॥

यतः स्वातिरिक्तसर्वापह्नवकृत् स्वमात्रतया कृतकृत्यो भवति ततो मातृवद्धितैषिणी श्रुतिरनाद्यविद्यास्वापमोहितपामरलोकं स्वात्माभिमुखमुद्बोधयति–उत्तिष्ठत इति॥ हे प्राकृतजन्तवः! यूयं स्वात्मोन्मुखतया स्वाविद्याद्वयतत्कार्यस्वापात् उत्तिष्ठत। स्वात्माधिगमोपायचिन्तायां जाग्रत। ब्रह्ममात्रनिष्ठान् वरान् आचार्यान् प्राप्य तदुपदेशलब्धं स्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति निबोधत। कालान्तरे एवं भवेदित्युपेक्षा न कार्या।

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।

इति स्मृतेः। ज्ञेयवस्तुनश्चरमजन्मगम्यत्वेन सुसूक्ष्मत्वात्तद्याथात्म्यज्ञानमार्गस्यापि सुसूक्ष्मतमत्वं स्फोटयति–क्षुरस्य इति। यथा तीक्ष्णीकृतक्षुरस्य धारा दुरत्यया सा पद्भ्यां दुर्गं दुर्गमनीया तथा सर्वापह्नवसिद्धब्रह्ममात्रज्ञानपथःपन्थानं मार्गमिति कवयो वदन्ति। ज्ञेयवस्तुनः सूक्ष्मत्वेन तद्विषयकज्ञानमार्गस्यापि दुरत्ययतां वदन्तीत्याशयः॥१४॥ कथं पुनर्ज्ञेयस्य सूक्ष्मत्वं? इत्यत आह–अशब्दं इति। शब्दस्पर्शरूपरसगन्धाढ्यसर्वेन्द्रियविषयत्वेन गन्धवती पृथिवी स्थूला। अवाद्याकाशान्तभूतेषु गतैकैकगुणापकर्षतः सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टम्। न हि यत्र गन्धादिपञ्चगुणाः प्रसरन्ति तस्यात्मनो निरतिशयसूक्ष्मत्वेन निर्गुणत्वात्। वस्तुतः शब्दस्पर्शरूपरसगन्धापह्नवसिद्धं यत् तत् अशब्दमस्पर्शमरूपमरसमगन्धवत् इत्येतद्व्याख्यातम्। यत् शब्दादिविरलं तत् व्येतीत्यत आह–अव्ययं इति। यत् शब्दादिमत् तद्व्येति यत् तदपह्नवसिद्धं तदव्ययमित्यर्थः। ‘‘अव्ययमनाद्यनन्तम्” इति श्रुतेः। यन्न व्येति तन्नित्यम्। किमधुना नित्यं? तत्राह–अनादि इति। यस्य स्वोत्पत्तावादिः कारणं न विद्यते तदनादि। अनादित्वे प्रागभाववदन्तवत्वं स्यादित्यत आह–अनन्तं इति॥ सप्रतियोगिकप्रागभावस्यान्तवत्वेऽपि निष्प्रतियोगिकानादेरनन्तत्वं निरङ्कुशमित्यर्थः। कथं पुनरस्यानन्तत्वं? अनन्तकलनाविशिष्टमहत्तत्त्वस्य विद्यमानत्वादित्यत आह–महतः परं इति। स्वातिरिक्तत्वेनापह्नोतव्यमहत्तत्त्वात् परं तदवगतेर्महत्तत्त्वतत्कार्यापह्नवपूर्वकत्वान्निष्प्रति-

योगिकानन्तत्वं सिद्धमित्यर्थः।“सत्यं ज्ञानमनन्तं ब्रह्म” इति श्रुतेः। सापेक्षमहतः परत्वेनाध्रुवता स्यादित्यत आह–ध्रुवं इति। महत्तत्त्वादेः स्वातिरिक्तत्वेन स्वज्ञदृष्ट्या ध्रुवत्वेऽपि परमार्थदृष्ट्या महदादेः शशविषाणवदवस्तुत्वात्तत्सापेक्षाध्रुवताया अपि तथात्वान्निरपेक्षनिष्प्रतियोगिकध्रुवम्। तमात्मानं ब्रह्मस्वमात्रमिति निचाय्य सम्यग्ज्ञात्वा तज्ज्ञानसमकालं स्वातिरिक्ताविद्यापदतत्कार्य-जातमात्मसत्यव्यवहारप्रतिभासशून्यत्वेनाप्यस्ति नास्तीति विभ्रमो हि मृत्युः। तस्य प्रमादरूपत्वेन स्वमात्रबोधग्रासत्वान्मृत्युत्वं सिद्धमित्यर्थः। “प्रमादं वैमृत्युमहं ब्रवीमि” इति,

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन।
प्रमादो मृत्युरित्याह भगवान् ब्रह्मणः सुतः

इति स्मृतेः स्वरूपदर्शनोक्तेश्च। तथाविधस्वातिरिक्तभ्रमायमानमृत्युगोचरात् प्रमुच्यते निष्प्रतियोगिकस्वमात्रमवशिष्यत इत्यर्थः॥१५॥

फलश्रुतिः

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते॥१६॥

नचिकेतोमृत्युप्रश्नप्रतिवचनाविर्भूतग्रन्थपठनपाठनज्ञानफलं श्रुतिराह–नाचिकेतं इति। मृत्युमुखान्नचिकेतसा प्राप्तं नाचिकेतं नचिकेतसे मृत्युना प्रोक्तं इदं उपाख्यानं वल्लीत्रयलक्षणं सनातनवस्तुगोचरत्वात् सनातनम्। मेधावी ब्रह्मविद्वरीयान् तदुचिताधिकारिभ्यो यथावत् उक्त्वा स्वयं वाचार्येभ्यः श्रुत्वा। चशब्दाद्यथावज्ज्ञात्वा तज्ज्ञानसमकालं यद्ब्रह्म स्वमात्रतया लोक्यते ज्ञायत इति सोऽयं ब्रह्मलोकस्तस्मिन् ब्रह्मलोके स्वावशेषतया महीयते। ब्रह्मैव भवति इत्यत्र– “ब्रह्म वेद ब्रह्मैव भवति” इति श्रुतेः॥१६॥

यइमं74 परमं गुह्यं श्रावयेद्ब्रह्मसंसदि।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति॥

सदसि श्राद्धकाले वा वल्लीत्रयाख्योपनिषत्पठनफलमाह–य इति। यो हि विद्वान् वल्लीत्रयात्मकं इमं ग्रन्थं प्रकृष्टत्वात् परमं गोप्यत्वात् गुह्यं प्रयतः शुचिर्भूत्वा ब्राह्मणानां संसदि ग्रन्थतोऽर्थतो वा श्रावयेत्। भुञ्जानब्राह्मणालङ्कृतश्राद्धकाले वा श्रावयेत्। वल्लीत्रयार्थश्रोतारो ब्राह्मणाः श्राद्धभुजश्च तत् श्राद्धं चैतत् सर्वं आनन्त्याय कल्पते। द्विर्वचनं वल्लीत्रयसूचिताध्यायपरिसमाप्त्यर्थम्॥१७॥

________

चतुर्थी बल्ली

विज्ञाज्ञयोर्विषयप्रवणत्वाप्रवणत्वे

पराञ्चिखानि व्यतृणत् स्वयंभूस्तस्मात् पराङ् पश्यति नान्तरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्॥१॥

पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्।
अथ75 घीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते॥२॥

“गूढात्मा न प्रकाशते”, “दृश्यते त्वग्र्यया बुद्ध्या” इति तृतीयवल्ल्यामभिहितम्। अग्र्यबुद्ध्यभावात् खल्वात्मा न प्रकाशते। तत्प्रतिबन्धके ज्ञाते

तदुन्मूलनं कर्तुं शक्यम्। तदुत्सारणपूर्वकं निष्प्रतियोगिकब्रह्ममात्रावगतये चतुर्थवल्ली प्रारभ्यते–पराञ्चिइति। स्वाज्ञदृष्टिविकल्पितमूलाविद्याबीजांशयोगतः स्वयमेव भवतीति स्वयंभूः। स्वयं स्वतन्त्रो भूत्वा परागञ्चन्तीति पराञ्चिखानि तदुपलक्षित श्रोत्रादीन्द्रियाणि76 पराग्रूपशब्दादिविषयगहनगोचरस्वभावानि भवन्त्विति व्यतृणत् प्रत्यग्भावपराङ्मुखतया हिंसितवान्।यस्मादेवं तस्मात् इन्द्रियैरिन्द्रियार्थोपलब्धा जीवः पराङ् प्रत्यग्भावावरणशब्दादीनेव पश्यति। नान्तरात्मन् अन्तरात्मानं प्रत्यञ्चं कदापि न पश्यतीत्यर्थः। प्रायश एवंस्वभावा लोकाः। तत्र कश्चिद्धीरो नद्याः प्रतिस्रोतोऽभिमुखप्रवर्तनमिव पराग्रूपेन्द्रियेन्द्रियार्थप्रातिलोम्येनाञ्चनात् प्रत्यक् चासावात्मा चेति प्रत्यगात्मा। आत्मशब्दस्य प्रतीच्येव लोकरूढिः। व्युत्पत्तिपक्षेऽपि तत्रैवात्मशब्दो दृश्यते–

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह।
यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयते॥

इति स्मृतावात्मशब्दव्युत्पत्तिस्मरणात्। स्वभावतस्तं प्रत्यगात्मानं ऐक्षत् अपश्यत् पश्यतीत्यर्थः। कथं पुनः प्रत्यगात्मानमैक्षत् घटद्रष्टा घटमिव? अचाक्षुषत्वात् प्रतीच इति, तत्रोच्यते–न हि घटं प्रति घटद्रष्टेव प्रत्यगात्मानं पश्यति। रूपादिविविधविषयव्यावृत्तं प्रत्यग्भावमवलम्ब्य पराग्भावतो निवृत्तं चक्षुरादिकरणपटलमस्येति आवृत्तचक्षुः उपरतकरणग्रामो भूत्वा तद्भावाभावप्रकाशकत्वेन तदपवादाधारः प्रत्यगस्मीति प्रत्यगात्मदर्शनं युज्यत इत्यर्थः। न च स्वभावसिद्धपराक्प्रवृत्तिं विना तद्व्यावृत्तिपुरस्सरं प्रत्यक्प्रवर्तनं कथम्? इति वाच्यम्। पराक्प्रवृत्तेः स्वानर्थकरत्वेन स्वात्मभूतप्रत्यगीक्षणस्य परमपुरुषार्थहेतुत्वात्। स्वात्मनः अमृतत्वं अमरणधर्मत्वं इच्छन् पराग्भावं व्युदस्य प्रत्यग्दृशा प्रत्यगात्मा ज्ञातुं शक्य इत्यर्थः॥१॥ पराक्प्रत्यग्भावारूढयोः फलभेदं दर्शयति–पराच इति।

शब्दस्पर्शादयो येऽर्था अनर्था इव ते स्थिताः।
येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम्॥

इति श्रुत्यनुरोधेन प्रत्यग्भावावरणपराग्भावायमानशब्दादिविषयपञ्चकग्रहणव्यग्रमानसा बालाः अविवेकिनः पराचः पराग्भूतान् स्वान्तर्बाह्यविजृम्भितकामान् काम्यविषयान् अनुयन्ति। तेन कामभजनेन ते बालाः स्वाविद्यापदतत्कार्यरूपेण विततस्य मृत्योः पाश्यते बध्यत इति पाशं शरीरसंयोगवियोगलक्षणजनिमृत्याद्यनेकानर्थव्रातं यन्ति प्रयान्तीत्यर्थः। यत एवमतस्तस्मात् धीराः मुमुक्षवः स्वस्वदृष्ट्यनुरोधेन कबलितपराग्भावप्रत्यग्रूपावस्थानं प्रत्यगभिन्नब्रह्मस्वरूपावस्थानं ब्रह्ममात्रावस्थानं वा अमृतत्वं, तदेव निष्प्रतियोगिकध्रुवमिति विदित्वा देवलोकादिब्रह्मलोकान्तगतामृतत्वस्यापेक्षिकत्वेनाध्रुवत्वात्, अध्रुवेन्द्रियादिस्थानेषु स्वातिरिक्तसर्वपदार्थेष्वपि “इदं मे स्यात्” इति जात्वपि न प्रार्थयन्ते। पुत्राद्येषणात्रयेभ्यो व्युत्थाय यत् परमार्थं तदेव भजन्तीत्यर्थः॥२॥

आत्मनःस्वप्रकाशत्वं ब्रह्माभेदश्च

येन रूपं रसं गन्धं शब्दान् स्पर्शाँश्च मैथुनान्।
एतेनैव विजानाति किमत्र परिशिष्यते? एतद्वै तत्॥३॥

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥४॥

यद्विज्ञानमात्रतो न किञ्चित् प्रार्थयन्ते तदधिगमः कथं भवति? इत्यत आह–न रूपं इति। येन पराग्भावविलक्षणप्रतीचा जीवलोकोऽयं चक्षुरादिकरणग्रामद्वारा रूपं रसं गन्धं शब्दान् स्पर्शाश्च मैथुनान्तत्तदिन्द्रियार्थजन्यसुखप्रत्ययान् एतेनैव प्रत्यगात्मना विजानाति। न च देहादिविलक्षणप्रतीचा। न हीन्द्रियेन्द्रियार्थसुखं विजानातीति लोकप्रसिद्धिरस्ति। देहादिसंघातोऽहमिन्द्रियेन्द्रियार्थजन्यसुखादिप्रत्ययान् विजानामीति तु सर्वलोकप्रसिद्धिरिति वाच्यम्। नयुक्तत्वात् संघातस्य स्वातिरिक्तशब्दादिवैरल्येन

विज्ञेयत्वाविशेषात्। यदि संघातो रूपादिरपि स्वयमेव भूत्वा रूपादीन् विजानीयात् तदा बाह्यरूपादयोऽप्यन्योन्यं विजानीयुरित्युक्तेरयुक्तत्वात्, येनोदकं दहति सोऽग्निरितिवत्। तस्माद्देहत्रयातिरिक्तप्रत्यगात्मना सर्वं विजानाति लोकः। न ह्यात्मनोऽविज्ञेयं किञ्चिदस्ति, प्रतीचःसर्वज्ञत्वात्। पराग्भावसापेक्षप्रत्यग्भावगतहेयांशापह्नवसिद्धं ब्रह्ममात्रमवशिष्यते। “अन्यत्र धर्मात्” इत्यादिना यत् नचिकेतसा पृष्टं “ओमित्येतत्” इत्यादिना विष्णुपदत्वेन शब्दाद्यपह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रतया यदभिहितं तदेव एतत् स्वान्तर्बाह्यकलनावभासकप्रत्यक्तत्त्वं स्वगतपराक्सापेक्षप्रभवसविशेषायमानहेयांशापह्नवतः स्वमात्रमवशिष्यत इत्यधिगतमिति वेदितव्यम्॥३॥ तदेतद्वस्तुनः सूक्ष्मविषयत्वेन दुर्विज्ञेयत्वात् पूर्वोक्तार्थमेव पुनः पुनराह–स्वप्नान्तं इति। स्वाप्निकजगज्जीवादेःस्वप्नमध्यस्थत्वेन ज्ञेयत्वात् स्वप्नज्ञेयं स्वप्नान्तं उच्यते। तथा जागरितज्ञेयत्वेन जागरितान्तं च। तौ उभौ स्वप्नजागरितज्ञेयपदार्थौयेन प्रतीचा लोकः अनुपश्यति इति पूर्ववत्। सर्वं तमेतं प्रत्यगभेदेन महान्तं विभुमात्मानं तद्गतविशेषांशापह्नवसिद्धं स्वमात्रमिति विज्ञाय मत्वा धीरो विद्वान् न शोचति शोचनीयविषयाभावात्॥४॥

जीवब्रह्माभेदज्ञानेन कृतार्थता

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्।
ईशानं77 भूतभव्यस्य न ततो विजुगुप्सते–एतद्वै तत्॥५॥

यत् जीवेशयाथात्म्यप्रबोधतो विद्वान् निर्भयं भजति तद्विशदयति–य इति। यः कश्चिन्मुमुक्षुः इमं कर्मफलायमानमध्वदं प्राणधारणशक्तिमत्त्वेन आत्मानं जीवं तद्गतपराग्भावविलयास्पदत्वेन प्रत्यगात्मानं वेद ततस्तदन्तिकात् अन्तिके भूतभव्यस्य भूतादिकालत्रयस्यापि ईशानं तदुपलक्षितसर्वस्येशितारं निरङकुशसर्वज्ञेश्वरं तद्गतसर्वज्ञत्वाद्यपवादास्पदत्वेन परमात्मानं वेद पराक्सापेक्षप्रत्य-

गैक्यगतसविशेषापह्नवसिद्धं प्रत्यक्परविभागैक्यासहब्रह्ममात्रमवशिष्यत इति यदि वेद तदा ततः तद्विज्ञानोत्तरक्षणं न विजुगुप्सते न ह्यात्मानं गोपायितुमिच्छति, स्वस्यैव निष्प्रतियोगिकब्रह्ममात्रत्वात्। एतत् इत्यादि पूर्ववत्॥५॥

हिरण्यगर्भस्य ब्रह्माभेदः

यः पूर्वंतपसो जातमद्भ्यः पूर्वमजायत।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत78–एतद्वै तत्॥६॥

मध्वदजीवस्य भूतादिकालत्रयेशितुरीश्वरस्यापि तद्विशेषांशत्यागतो जीवेशयाथात्म्यं ब्रह्ममात्रमिति प्रतिपाद्य हिरण्यगर्भयाथात्म्यज्ञानसिद्धमप्येतदित्याह– यः पूर्वं इति। यः कश्चिन्मुमुक्षुः तपसः सत्यादिलक्षणाद्ब्रह्मणः सकाशात् अद्भ्यः अप्सहितपञ्चभूतेभ्यः पूर्वं यो जायते समजनि तमेवं जातं ब्रह्मादिस्तम्वान्तप्राणिजातमुत्पाद्य तद्धृदयगुहास्थाकाशं सूत्ररूपेण प्रविश्य भूतेभिः कार्यकारणायमानभूतभौतिकैः सहाद्यापि तिष्ठन्तं हिरण्यगर्भं स्वस्मिन् स्वकार्यभूतभौतिकजातेऽपि तद्गतनामरूपतूलान्तःकरणवृत्तिमात्रापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति व्यपश्यत यः पश्यति एतद्वै तत् इत्युक्तार्थम्॥६॥

तद्विद्याया ब्रह्मयाथात्म्यम्

या प्राणेन संभवति अदितिर्देवतामयी।
गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत78– एतद्वै तत्॥७॥

हिरण्यगर्भयाथात्म्यमुक्त्वा तद्विद्यागतयाथात्म्यं विशिनष्टि–या प्राणेन इति। या स्वातिरिक्ताबिद्यापदतत्कार्यजातादनात् अदितिः, देदीप्यमानरूपेयमिति देवतामयी, ब्रह्मणः सकाशात् प्राणेन हिरण्यगर्भेण सह संभवति मूलाविद्यातुरीयांशायमाना समष्टिविद्या प्रादुरभूदित्यर्थः। सेयं व्यष्ट्यात्मना सर्वप्राणिगुहां

प्रविश्य तिष्ठन्ती सती तूलाविद्यातुरीयांशरूपेण व्यष्टिभूतेभिः भूतैः साकं व्यजायत स्थूलादिभागत्रयग्रासस्वाविद्याद्वयार्धमात्रांशगतहेयांशापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्र-मिति यो वेद एतद्वै तत् इति पूर्ववत्॥७॥

विराड्रुपेण ध्येयस्याग्नेर्ब्रह्मरूपत्वम्

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः–एतद्वै तत्॥८॥

अग्निनामकवैराजयाथात्म्यं प्रकटयति–अरण्योः इति। यथा लोके गर्भिणीभिः अगर्हितान्नभोजनादिना गर्भः सुभृतः तथा अधियज्ञगतोत्तराधरारण्योर्जातवेदा अग्निः सर्वहविर्भोक्ता वैश्वानरः, “अयमग्निर्वैश्वानरः” इति श्रुतेः, ऋत्विग्भिः योगिभिश्च सुभृतः, किञ्च अध्वरे हृदये च जागृवद्भिर्मनुष्येभिः जागरणशीलाप्रमत्तचित्तमनुष्यैराज्यादिहविष्मद्भिः ध्यानभावनावद्भिश्चदिवे दिवे अहन्यहनि कर्मिभिर्योगिभिश्चईड्यः स्तुत्यः वन्द्यो भूत्वायमग्निर्वैश्वानरो विजयते।तद्गतहेयांशापह्नवसिद्धं ब्रह्ममात्रम्। एतद्वै तत् इति पूर्ववत्॥८॥

ब्रह्मणः सूर्यादिजगदधिष्ठानत्वम्

यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति।
तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन–एतद्वै तत्॥९॥

सूर्याद्युपलक्षितविश्वारोपापवादाधिकरणयाथात्म्यं प्रकाशयति–यत इति। “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति” इति श्रुत्यनुरोधेन यतश्च सर्वकारणात्तटस्थेश्वरात् सूर्योपलक्षितजगत्79 उदेति आविर्भवति, यत्राधिकरणे स्थितिं अस्तं च गच्छति; तं तटस्थेश्वरं प्राणं वा अधिदैवभावमापन्ना अग्न्यादयो देवाः अध्यात्मभावमापन्ना वागादयश्च सर्वे अरा इव रथनाभौ अर्पिताः

स्थितिकाले संप्रवेशिताः। तत्सर्वाधिकरणं तटस्थेश्वराख्यं ब्रह्म कश्चन कश्चिदपि तदु तत्तु नात्येति नातिक्रामति। कार्यनिरूपितकारणगतहेयांशापाये निष्प्रतियोगिकब्रह्ममात्रम्। एतद्वै तत् उक्तार्थमेतत्॥९॥

अध्यात्माधिदैवयोश्चेतनस्याभेदः

यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥१०॥

स्वाज्ञस्वज्ञदृष्टिभ्यामसल्लौकिकाद्यष्टदृष्टिसत्त्वासत्त्वेऽपि निष्प्रतियोगिकं ब्रह्म स्वमात्रमवशिष्यते। तदन्यथापश्यतः प्रत्यवायफलं प्रकटयति–यदेवेह इति। परमार्थदृष्ट्या सर्वापह्नवसिद्धब्रह्ममात्रतया स्थितं तदेव स्वाज्ञदृष्ट्या स्वातिरिक्तविश्ववदवभासते। यदेव इह कार्यकारणोपाधिविशिष्टं जगत्त्वेनाभिमतं तदेवामुत्र स्वज्ञदृष्ट्या स्वाज्ञदृष्टिविभातविश्वापवादाधिकरणं ब्रह्म विभाति। यदमुत्र एवं भातं स्वाज्ञदृष्ट्या तदेव इह नामरूपादिविशिष्टविश्ववदनुभाव्यम्। वस्तुतः सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रमेव सदा विजयत इत्यर्थः। एवं परमसिद्धान्ते स्थितेऽपि प्रायशो लोकस्वभाववैषम्यभेदविशिष्टाविद्यया मोहितः सन् इह निष्प्रतियोगिकब्रह्ममात्रे नानाकलनापह्नवसिद्धे तस्मादन्योऽहं मत्तोऽन्यत्तदिति नाना नानेव भिन्नभिन्नमिव पश्यति। सोऽयमेवंदर्शी मृत्योः मरणात् मृत्युं मरणं पुनःपुनर्जनिमृतिपरम्परां आप्नोति। तस्मात् तथा कदापि न पश्येत्। सर्वापह्नवसिद्धं ब्रह्म स्वमात्रमित्येव सदा पश्येदित्यर्थः।

नात्मभावेन नानेदं न स्वेनापि कथञ्चन।
न पृथङ्नापृथक् किञ्चिदिति तत्त्वविदो विदुः॥

इति गौडपादाचार्योक्तेः। तद्विपर्यये–

योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा॥

इति श्रुतेरित्यर्थः॥१०॥

निर्गुणब्रह्मणो मनोगम्यत्वम्

मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति॥११॥

यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत्।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्॥

इति श्रुत्यनुरोधेन स्वाज्ञस्वज्ञगोचरमनसा जगत् ब्रह्म वा आप्तव्यम्। ब्रह्मातिरेकेण मनो नास्तीति पक्षे ब्रह्ममात्रं निष्प्रतियोगिकतयावशिष्यते। तत्र नानादर्शी मृत्युपदं यातीत्याह–मनसैवेदं इति। स्वाज्ञदृष्टिविकल्पितमनसैव तद्विकल्पितस्वाविद्यापदतत्कार्यजातं आप्तव्यम्। यद्वा–स्वज्ञदृष्ट्या श्रुत्याचार्यसंस्कृतमनसैव विश्वारोपापवादाधिकरणं ब्रह्माहमस्मीत्याप्तव्यम्। मनोमात्रापह्नवे तद्विकल्पितनानानामरूपवद्भिदाकदम्बं इह ब्रह्ममात्रे कदाचिदपि शशविषाणवन्नास्त्येव, ब्रह्ममात्रावगतेर्नानाप्रपञ्चापह्नवपूर्वकत्वात् इत्यत्र–

इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत्।
चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा॥

इत्यादिश्रुतेः। सर्वापह्नवसिद्धे निष्प्रतियोगिकब्रह्ममात्रे किञ्चन अणुमात्रमपि नाना प्रपञ्चः सत्यत्वेन मिथ्यात्वेन वा अस्ति नास्तीति विभ्रमोऽपि न हि अस्तीति सिद्धान्तार्थः। यस्तु स्वाज्ञो नानेव पश्यति स मृत्योः मृत्युं गच्छत्येव। यत्किञ्चित्स्वातिरिक्तास्तितादृष्टिःसर्वत्र जननमरणादिलक्षणभयमेव प्रतिपद्यत इत्यत्र–“यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति” इति श्रुतेः॥११॥

आत्मनो ब्रह्मभेदः

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते–एतद्वै तत्॥१२॥

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः–एतद्वै तत्॥१३॥

पुरोक्तार्थमेव विधान्तरेणाह–अङ्गुष्ठमात्र इति। हृत्पुण्डरीकस्याङ्गुष्ठपरिमाणत्वेन तदन्तर्विलसितान्तःकरणावभासकचिद्धातुःकीचकपर्वान्तर्वर्त्यम्बरवत् अङ्गुष्ठमात्रः, अनेनेदं जगत् पूर्णमिति पुरुषः, मध्य आत्मनि शरीरान्तर्हृदयकुहरे प्रत्यग्भावेन यः तिष्ठति तं भूतभव्यस्येशानं तद्गतयांशापाये ब्रह्ममात्रतया विदित्वा ततः तद्वेदनात् न विजुगुप्सते इत्यादि पूर्ववत्॥१२॥ किञ्च– अङ्गुष्ठमात्र इति। यो हि मुमुक्षुः स्वहृदये अधूमज्योतिरिव अङ्गुष्ठमात्रः केवलज्योतिर्मात्रस्वरूपत्वात्, पुरुषो भूतभव्यस्य ईशानो ब्रह्मा आत्माहमस्मीति प्रत्यगभिन्नब्रह्मरूपेण पश्यति सोऽयं मुमुक्षुदर्शनीयप्रत्यगभिन्नपरमात्मा। सोऽद्य इदानीं ब्रह्मादिस्तम्बान्तप्राणिषु वर्तमानः स उ स एव श्वः परश्वोऽपि वर्तिष्यते। नान्यस्तत्तुल्यः समोऽधिको न्यूनो वास्तीत्यर्थः। तद्गतहेयांशापह्नवतो ब्रह्ममात्रं यदवशिष्यते एतद्वै तत् इत्युक्तार्थमेतत्। “नायमस्तीति चैके” इत्यसल्लौकिकपक्षः स्वत एव निवृत्तोऽपि “स एवाद्य स उ श्वः” इति श्रुत्या शून्यवादःक्षणिकवादोऽपि प्रत्युक्तः॥१३॥

भेदाभेददर्शनयोः फलभेदः

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति॥१४॥

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति।
एवं मुनेर्विजानत आत्मा भवति गौतम॥१५॥

पुनरपि स्वातिरिक्तदर्शनादर्शनफलं तदपह्नवसिद्धब्रह्ममात्रज्ञानफलं चाह–यथोदकं इति। यथा दुर्गे दुर्गमनप्रदेशे वृष्टमुदकं पर्वतेषु पर्वतवन्निम्नप्रदेशेषु विधावति विकीर्णं सत् विनश्यतीत्यर्थः, एवं प्रतिशरीरमात्मभिन्नधर्मान्

जीवान् स्वपृथग्भूतान् पश्यन् अज्ञः पुनः तानेव शरीरभेदान् विधावति शरीरपरम्परामविरलमाप्नोतीत्यर्थः॥१४॥ अभेददर्शनफलमाह– यथोदकं इति। यथा शुद्धे शुद्धोदके शुद्धोदकं आसिक्तं यदि तदा तादृगेव शुद्धोदकं भवति, हे गौतम! एवं आत्मैकत्वं विजानतो मुनेरात्मैव सर्वं भवति। व्यष्टिसमष्टिसाक्ष्यसापेक्षसाक्षिणोरैक्यस्य सविशेषत्वेन शुद्धोदके शुद्धोदकक्षेपणस्थानीयस्वान्तस्वज्ञदृग्गोचरस्वातिरिक्तदर्शनादर्शनायमानविशेषांशा-पाये स्वातिरिक्तमस्ति नास्तीति कलनापह्नवसिद्धं निष्प्रतियोगिकमात्ममात्रमवशिष्टं भवति। एवं विद्वानपि तन्मात्रतयावशिष्यत इत्यत्र–

दर्शनादर्शने हित्वा स्वयं केवलरूपतः।
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित् स्वयम्॥

इति श्रुतेः। तस्मात् मातृपित्राचार्यसहस्रेभ्योऽपि हितैषिणा वेदान्तेनोपदिष्टमर्थं श्रुत्याचार्यप्रसादतो लब्ध्वाथासल्लौकिकाद्यष्टदृष्टिविभ्रमास्मरणपूर्वकं सर्वापह्नवसिद्धं ब्रह्म स्वमात्रमित्यात्ममात्रसिद्धिरादरणीयेत्यर्थः। ब्रह्ममात्रसिद्धान्तस्य वेदार्थत्वेन80 परमाद्वैतरूपत्वात्।

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु। इति,
वेदार्थः परमाद्वैतं नेतरत्सुरपुङ्गव।

इति च श्रुतेः स्मृतेश्च॥१५॥

________

पञ्चमी वल्ली

शरीरस्य पुरत्वं आत्मनस्तत्स्वामित्वं च

पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते–एतद्वै तत्॥१॥

ब्रह्मणो दुर्विज्ञेयत्वात् पुनरपि विधान्तरेण ब्रह्ममात्रनिर्धारणायेयं वल्लीप्रारभ्यते–पुरं इति। यस्यावक्रमकुटिलं युगपदुदितानन्तकोट्यादित्यप्रकाशवच्चेत सम्यज्ज्ञानमस्ति सोऽयमवक्रचेतास्तस्य अवक्रचेतसः। तस्य जन्मादिषद्भाव विकारास्पृष्टत्वेन अजस्य यस्य नानाद्वारपालाधिष्ठात्राद्यनेककरणसंहतं शीर्षण्यानि सप्त, नाभ्या सहावाञ्चित्रीणि, ब्रह्मरन्ध्रंच आहत्य एकादशद्वारं शरीरायमाणपुरं यदज्ञानज्ञानाभ्यां विकल्पितमुपसंहृतं च भवति। स्वाज्ञदृष्ट्या व्यष्टिसमष्ट्यात्मकपुरस्वामिनं स्वज्ञदृष्ट्या तदारोपापवादास्पदं परमार्थदृष्ट्या व्यष्टिसमष्टिपुरतत्कार्यकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति अनुष्ठाय ध्यात्वा ज्ञात्वावा–तदनुष्ठानं ध्यानं ज्ञानं वा भवितुमर्हति–तज्ज्ञानसमकालं शोचनीयसंर्वषणावैरल्यात् न हि शोचति।

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः।

इति, “ज्ञानसमकालमेव मुक्तः” इति च श्रुत्यनुरोधेन स्वभावतः स्वाविद्याकृतबन्धनात् विमुक्तोऽपि परदृष्ट्या स्वातिरिक्तसर्वापह्नवज्ञानतो विमुच्यते इत्युपचर्यते। वस्तुतः स्वेनापह्नोतव्यस्वाविद्याविकल्पितव्यष्टिसमष्टिपुरबैरल्यान विद्वान् स्वमात्रमवशिष्यते। एतद्वै तत् इत्युक्तार्थम्॥१॥

ब्रह्मणः समष्टिव्यष्ट्यधिष्ठानत्वम्

हँसःशुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्॥

कथं पुनरात्मनो व्यष्टिसमष्टिपुराधिष्ठातृत्वं? इत्यत आह–हंस इति। स्वाज्ञदृष्टिविकल्पितव्यष्टिसमष्ट्यात्मकं पुरजातमसङ्गतयाधिष्ठाय तत्तत्पुराधिष्ठातृजीवगतज्ञात्रादित्रिपुटीकलनां हन्तीति हंसः प्रत्यगभिन्नपरमात्मा। तस्य “अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम्” इत्यादिश्रुत्यनुरोधेन सर्वगतत्वेन सर्वपुराधीशत्वं तदपह्नवसिद्धस्वमात्रतां च

दर्शयति–शुचिषत् इत्यादिना। सोऽयं प्रत्यगभिन्नपरमात्मा अदित्यपत्यात्मना शुचौ दिवि सीदति गच्छति व्याप्नोतीति शुचिषत्। वसुः। वाय्वात्मनान्तरिक्षे सीदतीति अन्तरिक्षसत्। “अग्निर्वै होता” इति श्रुत्या होत्रात्मना वेद्युपलक्षितपृथिव्यां सीदतीति वेदिषत्। “इयं वेदिः परो अन्तः पृथिव्याः” इति मन्त्रवर्णात्। अतिथिः सोमो भूत्वा द्रोणकलशे सीदतीति। यद्वा–ब्राह्मणो अतिथिः। तद्रूपेण दुरोणस्थानीययज्ञगृहेषु सीदतीति दुरोणसत्। नृषु मनुष्येषु सीदतीति नृषत्। नरापेक्षया वरेषु देवेषु सीदतीति वरसत्। ऋतं सत्यं तत्र सदात्मना सीदतीति ऋतसत्। व्योम्नि आकाशे सूर्यात्मना सीदतीति व्योमसत्। शङ्खशुक्तिझषादिरूपेणाप्सु जायन्त इति अब्जाः।ब्रीह्यादिरूपेण गवि पृथिव्यां जायन्त इति गोजाः। ऋतं यज्ञं तदङ्गरूपेण जायन्त इति ऋतजाः। नद्यादिरूपेणाद्रौ जायन्त इति अद्रिजाः। स्वाज्ञस्वज्ञदृष्टिभ्यां विकल्पितव्यष्टिसमष्टिपुरसङ्गासङ्गतदारोपाधार-जीवेश्वररूपेण तत्सर्वापवादाधिकरणप्रत्यगभिन्नब्रह्मरूपेण च भासमानोऽपि परमार्थदृष्ट्या “ब्रह्ममात्रमसन्न हि” इति श्रुत्यनुरोधेन स्वातिरिक्तासदपह्नवसिद्धसन्मात्रत्वं सिद्धमित्याह–ऋतं इति। स्वातिरिक्तानृतापह्नवसिद्धत्वात्तस्य सूक्ष्मत्वेन परिच्छिन्नशङ्कां वारयति–बृहत् इति। निष्प्रतियोगिकभूमरूपमित्यर्थः॥२॥

आत्मन इन्द्रियोपास्यत्वम्

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।
मध्ये वामनमासीनं विश्वेदेवा उपासते॥३॥

“यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति” इति स्वातिरिक्तवस्तुतद्दर्शनश्रवणवेदनापह्नवश्रुतेः न चादित्यदेवताकोऽयं मन्त्र इति वाच्यम्; आदित्यस्यापि ब्रह्मत्वात् “असावादित्यो ब्रह्म” इति श्रुतेः। असल्लौकिकाद्यष्टदृष्टिमोहे सत्यसति अविशेषेण निष्प्रतियोगिकब्रह्ममात्रमवशिष्यत इत्येतावता ग्रन्थेनाभिहितम्। तदधिगमोपायवैरल्यमाशङ्क्य– यदि ते ब्रह्मयाथात्म्या-

ज्ञानमस्ति तदा तदधिगमोपाय उच्यते–ऊर्ध्वं इति। योऽन्तर्यामी सर्वेश्वरः81 हृत्कमलात् ऊर्ध्वं प्राणवृत्तिं उन्नयति तथा अपानवृत्तिं प्रत्यक् अधो अस्यति पातयति, हृदयपुण्डरीकमध्ये समासीनं तं स्वान्तःकरणाभिव्यक्तविज्ञानसङ्गासङ्गजीवप्राणेश्वरप्रत्यग्रूपेण वननीयं संभजनीयं वामनं विश इव राजानं सर्वे विश्वेदेवाः चक्षुरादयश्च तत्तत्करणजनितविज्ञानबलिं हरन्तः सन्त उपासते तादर्थ्येनाविरलव्यापारा भवन्तीत्यर्थः। मन82आदिकरणग्रामव्यापृतिर्यदर्थासोऽयमात्मा सर्ववैलक्षण्येन सिद्धो भवतीत्यर्थः॥३॥

शरीरादिविविक्तस्यात्मनो ब्रह्माभेदः

अस्य विस्रँसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते–एतद्वै तत्॥४॥

स्वविकल्पितोपाधिविलये स्वयमेव परिशिष्यत इत्याह–अस्य इति। अस्य आत्मनः स्वात्तोपाधितो विस्रंसमानस्य पुरा शरीरस्थस्य देहिनो देहाद्विमुच्यमानस्य जीवप्राणेशप्रत्यग्रूपस्य स्वगतविशेषांशापह्नवे किमत्र परिशिष्यते? स्वयमेवावशिष्यते। एतद्वै तत् इत्युक्तार्थः। देहाद्विमुच्यमान इत्यत्र पुरस्वामि[नो] विद्रवतः पुरवासिन इव यदात्मविद्रवणे वागादिकरणजालं हतवलं भवतीति यदुक्तप्रायं तदसाधु। प्राणापगमादेव करणजालं विध्वस्तं भवति। न तदतिरिक्तात्मापगमात्॥४॥

आत्मनः प्राणादिजीवनहेतुत्वम्

न प्राणेन नापानेन मर्त्योजीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ॥१॥

प्राणादिना हि मर्त्यो जीवतीत्याशङ्क्याह — न प्राणेन इति। प्राणेनापानेन वागादिना वा कश्चन मर्त्योन हि जीवति। न हि प्राणादीनां संहत्यकारित्वाज्जीवनहेतुत्वम्। संहतानामवस्थानं गृहादिवत् परप्रयुक्तं दृष्टम्। यस्मिन् प्राणादिविलक्षणे सत्यात्मनि चक्षुरादिभिः प्राणापानौ सहाश्रितौ यदर्थं प्राणादिः स्वव्यापारं कुर्वन् वर्तते अतः प्राणादिसंघातविलक्षणेन इतरेण तु आत्मनैव संहत्यकारिणः प्राणादयो जीवन्ति। तस्मादात्मनैव सर्वे जीवन्तीत्यत्र–“येन जातानि जीवन्ति” इति श्रुतेः॥५॥

आत्मज्ञानान्मुक्तिः तदज्ञानाद्बन्धश्च

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्।
यथा च मरणं प्राप्य आत्मा भवति गौतम॥६॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्॥७॥

सर्वजीवननिमित्तब्रह्मयाथात्म्यं पुनः सोपायमभिधास्यामीत्याह–हन्त त इति। स्वाज्ञदृष्टिगुह्यं सनातनं ब्रह्म “अन्यच्छ्रेयः” इत्यादिना सम्यग्विवेचितमपि पुनरपीदानीं तदियत्तामहं ते तुभ्यं प्रवक्ष्यामि। हे गौतम! यदज्ञानज्ञानाभ्यां भवमोक्षौ भवतः यत्परमार्थाज्ञानतो मरणं प्राप्य यथा आत्मा संसारी पुनरसंसारी च भवति तथा वक्ष्यमाणं मे वचः शृण्वित्यर्थः॥६॥ स्वाज्ञानतो मरणानन्तरं अन्ये स्वाज्ञा देहिनः पुनः शरीरत्वाय शरीरग्रहणार्थं शुक्लरक्तबीजसमन्विताः सन्तो नानायोनिं प्रविशन्ति। तथा केचनान्ये स्वाज्ञतमा मरणानन्तरं स्थाणुं वृक्षादिभावं अनुसंयन्ति। यत् यस्य कर्म यथाकर्म यादृशं कर्मेहजन्मनि कृतं यथाश्रुतं यादृशमुपार्जितं ज्ञानं तदनुरूपमेव शरीरपरंपरां प्रपद्यन्ते प्रतिपद्यन्त इत्यर्थः। “यथाप्रज्ञं हि संभवाः” इति श्रुतेः॥७॥

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते।
तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चन–एतद्वै तत्॥८॥

यत् प्रतिज्ञातं गुह्यं वक्ष्यामीति तदाह–य इति। य एष जीवभावमेत्य स्वभावतः करणेषु सुप्तेषु स्वाभिप्रेतस्त्र्यन्नपानादिविषयकनानाविधकामं कामं कामनापरंपरां स्वाविद्यया निर्मिमाणो निष्पादयन् य एष पुरुषो जागर्ति न हि कदाचित् करणवत् स्वपिति, सोऽयं पुरुषो जीवभावमापन्नश्रुत्याचार्यप्रसादात्तजीवितापाये यत्सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रतया विराजते तदेव ब्रह्ममात्रं शुक्रं निरतिशयज्योतिःस्वरूपत्वात्। स्वमात्रतयोपबृंहणात् तद्धि ब्रह्म। ना ह्यनधिकारिषु गोपनीयं तदतिरिक्तं गुहामस्ति। सर्वशास्त्रेषु तदेव निष्प्रतियोगिकामृतं विकलेवरकैवल्यं उच्यते। पुनः स्वाज्ञादिदृष्ट्या यत् सर्वकारणभावमात्तवद्भाति तस्मिन्नेव सर्वे लोकाः समाश्रिताः। न हि तदु तत् ब्रह्म कश्चिदपि अत्येति। न हि वातादयोऽपि तच्छासनमतिक्रमितुं पारयन्ति “भीषास्माद्वातः पवते” इति श्रुतेः। यत् स्वाज्ञादिदृष्टेर्जगत्कारणत्वेनाभिमतं स्वाज्ञादिदृष्ट्यपह्नवपूर्वकं परमार्थदृष्टिर्जाता चेत्तदेव निष्प्रतियोगिकब्रह्ममात्रं भवति। एतद्वै तत् इति पूर्ववत्॥८॥

ब्रह्मणो जीवरूपत्वं असङ्गत्वं च

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥९॥

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥१०॥

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्वाह्यदोषैः।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः॥११॥

एवं विस्पष्टमुक्तमपि कुतार्किकपाषण्डोपहतधियां ब्रह्ममात्रसिद्धान्ते मनो नावतरतीति परमदयावती श्रुतिर्ब्रह्ममात्रावतरणाय ब्रह्मणः सार्वात्म्यं सर्वासङ्गप्रकाशकत्वमाह– अग्निः इति। यथा अग्निरेक एव भवति। अस्मिन् भूतानीति भुवनं प्रविष्टः सन् स्वदाह्यदार्वादिभेदमाश्रित्य तत्र तत्र रूपं रूपं प्रतिरूपःदाह्यभेदमनुसृत्य बहुरूपो बभूव तथा सर्वेषां भूतानामपि अन्तरात्मा एक एव सन् दार्वादिष्वग्निवत् ब्रह्मादिस्तम्बान्तदेहजातं प्रतिपद्य प्रतिरूपो बभूव। वस्तुतस्तद्बहिश्च स्वेन रूपेण सर्वभूतविलक्षण इत्यर्थः॥९॥ किञ्च–वायुः इति। भुवनं प्रविष्ट इत्यत्र प्राणात्मना सर्वदेहेष्वनुप्रविष्टः सन् रूपं रूपं प्रतिरूपो बभूव इत्याद्युक्तार्थमेतत्॥१०॥ यदि सर्वस्यैक एवात्मा तदा सर्वभूतलेपतः संसारित्वं स्यादित्यत आह–सूर्य इति। यथा एक एव सूर्यःसर्वलोकस्य चक्षुः सर्वलोकचक्षुः अनुग्राहकोऽपि चाक्षुषैः अशुद्ध्यादिदर्शननिमित्तैरशुद्ध्यादिसंसर्गदोषैराध्यात्मिकादिवाद्यैश्च दोषैर्न हि कदापि लिप्यते। एक एव तथा सर्वभूतान्तरात्मा लोकदुःखेन न लिप्यते। लोकबाह्यो ह्ययमात्मा। स्वाज्ञलोकस्तु स्वाध्यस्ताविद्याकामकर्मनिमित्तदुःखपरंपरामनुभवति। न स्वतः स्वस्य, स्वाज्ञानापाये स्वमात्रत्वात्। यथा ऊषररज्जुशुक्तिगगनेषु जलसर्परौप्यनैल्यसंसर्गभ्रमत ऊषररज्जुशुक्तिगगनानि दोषवन्तीव विभाव्यन्ते, न हि विपरीतबुद्ध्यध्यारोपितदोषैस्तेषां काचन क्षतिरस्ति, तथैव आत्मनि संसारित्वमध्यस्य लोको बंभ्रमीति। न त्वात्मयाथात्म्यज्ञः। तस्य सर्वलोकान्तर्बाह्यकलनापह्नवसिद्धब्रह्ममात्रदृक्त्वात्॥११॥

आत्मनो ब्रह्माभेदज्ञानान्मुक्तिः

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषाँसुखँशाश्वतं नेतरेषाम्॥

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्॥

इतश्च ब्रह्ममात्रात्युपायमाह–एक इति। स्वाज्ञादिदृष्टिमोहे सत्यप्यात्मा एक एव निष्प्रतियोगिकमवशिष्यते। स हि स्वाज्ञदृष्ट्या सर्वज्ञः परमेश्वरो भवति। सर्वस्वतन्त्रः सोऽप्येक एव। न तत्समोऽधिको वान्योऽस्ति। यद्वशे स्वारोपिताविद्यापदं वर्तते स वशी। तत्र हेतुः सर्वभूतान्तरात्मेति, सर्वलोकहिताहितप्रवृत्तिनिमित्तान्तर्यामिस्वरूपत्वात्। सोऽयमीश्वरः स्वात्मानमखण्डैकरसरूपमपि तूलान्तःकरणाविद्यापरिकल्पितनानाविधनामरूपोपाधिभेदानु-वृत्त्या बहुधा बहुप्रकारं यः करोति, सर्वस्वतन्त्रेश्वरस्याचिन्त्यशक्तित्वात्। ये धीराः तमात्मस्थं सर्वभूतहृदयाकाशाभिव्यक्तं वस्तुतो निरावृतपरमार्थदृष्ट्या स्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्म स्वमात्रमिति अनुपश्यन्ति श्रुत्याचार्यप्रसादतो विनिवृत्तबाह्यान्तर्दृष्टीनां तेषामेव शाश्वतं निरतिशयसुखं भवति। नेतरेषाम्।सदाद्यावृतदृष्टीनां स्वात्मभूतमपि सुखं प्रतिभाति। न च ‘‘तमात्मस्थं’’ इत्यत्र कुण्डबदरवदाधारत्वं वाच्यं, तस्याकाशवदमूर्तत्वात्। न ह्याधेयत्वमाधारत्वं वास्ति। आधेयस्य शशविषाणवदलब्धात्मकत्वेन नाधारत्वसिद्धिः। निरधिष्ठानं ब्रह्ममात्रमवशिष्यत इत्यर्थः॥१२॥ स्वाज्ञदृष्टिप्रसक्तानित्यत्वाचेतनत्वबहुत्वादिमोहे सत्यसति नित्यचेतन एक एव। स्वज्ञदृष्ट्या तदज्ञानफलमप्याह– नित्य इति। स्वाज्ञदृष्ट्या नित्यानां पृथिव्यादीनामपि नित्यः स्वसत्तातिरिक्तसत्तावैरल्यात्। पृथिव्यादीनां तथा चेतयितॄणां ब्रह्मादिस्तम्बान्तप्राणिनामपि चेतनः। यथा अनग्नीनामयसां दाहकत्वमग्निनिमित्तं तथा ब्रह्मादिस्तम्बान्तगतचेतयितृत्वं शुद्धचैतन्यनिमित्तम्। नित्यचैतन्यस्वभावात्मा एक एव सन् बहूनां कामिनामकामिनां च तत्तद्भावानुरोधेनानायासेन कामान यो विदधाति प्रयच्छति तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्। स्वातिरिक्तशान्तेः स्वमात्रत्वेन शाश्वतत्वमुपपद्यते यस्याः सेयं शान्तिः॥१३॥

ब्रह्मणः सुखरपत्वं चिद्रूपत्वं च

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्।
कथं नु तद्विजानीयां किमु भाति विभाति वा॥१४॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥१५॥

स्वेतरेषामनेवंविधानां ब्रह्ममात्रसुखस्यानिर्देश्यत्वेऽप्यविकार्यनधिकारिदृष्टेः निर्देश्यानिर्देश्यवत्तत्सुखं भातीत्याह–तत् इति। व्याविद्धैषणात्रयाः केचन यतयो यदनात्मापह्नवसिद्धात्ममात्रसुखमवाङ्मानसगोचरत्वेन अनिर्देश्यमपि तदेतत् परमं सुखं प्रत्यक्षं83 इति मन्यन्ते। न हि मन्यन्त इति संशयोक्तिः, सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति84 निर्देशस्य निस्संशयार्थत्वात्। तादृशं ब्रह्म ब्रह्मविद्वरीयांस इव कथं नु केन प्रकारेण तत् ब्रह्मसुखमहं विजानीयाम्?

समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत् सुखं लभेत्।
न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते॥

इति श्रुतिसिद्धब्रह्मविद्वरीयसाधिगतसुखमिदमित्थमिति कथं बुद्धिविषयमापादयेयम्? इत्यर्थः। तद्वेदनहेतुसम्यज्ज्ञानवैरल्यात्। यदि त इव मम “ब्रह्ममात्रमसन्न हि” इति श्रुतिसिद्धसर्वासदपह्नवसिद्धसन्मात्रसम्यज्ज्ञाने जातेऽपि किमु तत्सुखं भाति न वा? इत्याशङ्कायां तादृशसम्यज्ज्ञानं जातं चेत् सर्वापह्नवसिद्धं ब्रह्म भाति स्वमात्रमिति विभाति चेत्यर्थः, “सुविभातं सकृद्विभातं” इति श्रुतेः॥१४॥ यदेवं भातं तत् केन भास्यमानं सत् भाति? इत्याशङ्क्य तस्य स्वाज्ञविकल्पितसूर्याद्यवभासकत्वेन भारूपमात्रतां व्यनक्ति– न तत्र इति। न हि तत्र भामात्रे ब्रह्मणि लोकदृष्ट्या सर्वावभासकः सूर्योऽपि भाति।

तन्न प्रकाशयतीत्यर्थः। तथा न हि चन्द्रतारकाणि।नेमा विद्युतो85 भान्ति। कुतोऽयं अस्मद्गोचरःअग्निः भाति? इत्यत्र–

न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकला देवताश्च।
स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते॥

इति श्रुतेः। यन्निष्प्रतियोगिकभामात्रमवशिष्यते86 तन्नैरपेक्ष्येण सूर्यादिः स्वतो भातीत्यत आह–तमेव भान्तं इति। यथा अग्निसंयोगाज्जलादिर्दहन्तमग्निमनुसृत्य दहति तथा निमित्तमन्तरेण भान्तं तमेव परमात्मानं अनु अनुसृत्य सूर्यादिः भाति अवभाति, न स्वतः। तस्यैव भासा सूर्यादिघटान्तं जगत् इदं सर्वं विभाति इत्यत्र–

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥

इति स्मृतिः। स्वकार्यसूर्यादिघटान्तगतस्वभायाः स्वानतिरिक्तत्वेन स्वतोऽवगम्यते ब्रह्मणो भारूपमात्रत्वम्। तत् कथं यस्य कस्यचित् भास्यं भवति? स्वभास्यभासकतानुपपत्तेः। तद्विपर्यये घटादिरपि भासकतां भजेत्। न ह्येतदस्ति। तस्माद्भारूपमात्रं ब्रह्मेति सिद्धम्॥१५॥

________

षष्ठी वल्ली

ब्रह्मणः संसारमूलत्वम्

ऊर्ध्वमूलोऽवाक्शाख87 एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चन—एतद्वै तत्॥१॥

भारूपमात्रं88 ब्रह्म अस्ति चेत् तत् किं न सर्वैः दृश्यते? अतो न हि तत् भारूपमात्रं ब्रह्म अस्तीत्याशंक्य स्वकार्यविचित्रविश्वदर्शनात् तत्कारणतया सन्मात्रं ब्रह्मास्तीति मन्तव्यं, “पश्यतेहापि सन्मात्रमसदन्यत्” इति श्रुतेः। निरावृतानां सन्मात्रत्वेन भासते। तद्विपरीतानामुलूकस्थानीयत्वेन प्रचण्डमध्याह्नमार्ताण्डवद्भासमानभामात्रं ब्रह्म न हि दृश्यते, तेषां स्थूलदृष्टित्वात्। तदङ्गीकृतसंसारवृक्षनिरूपणेन तन्मूलं ब्रह्मास्तीति तैरपि निर्णेतुं शक्यमिति तन्निर्णयायेयं वल्ली प्रारभ्यते–ऊर्ध्वमूल इत्यादिना। यत्तद्विष्णोः परमं पदं निष्प्रतियोगिकतया स्वमात्रमवशिष्यते तस्य सर्वोन्नतत्वेनोर्ध्वत्वमुक्तम्। न हि तत्रासल्लौकिकाद्यष्टदृष्टिमोहः प्रसरेत्। वस्तुतस्तथाप्यनादिसिद्धत्वाज्ञस्वज्ञदृष्टिमवष्टभ्य स्वाविद्यापदतत्कार्यारोपापवादाधिकरणं वा ऊर्ध्वमुच्यते। सत्येव भित्तिस्थानीये ब्रह्मणि चित्रस्थानीयविश्वरचना उपपद्यते। यत एवमतः स्वातिरिक्तारोपाधिकरणम् ऊर्ध्वं ब्रह्म। तदेव हि मूलं यस्य संसारवृक्षस्य सोऽयं ऊर्ध्वमूलः।अविकल्पानुज्ञैकरसादिविश्वविश्वान्तात्मावासयोग्यतुर्यस्वापादिजाग्रज्जाग्रदन्ता ह्यवाक् शाखा यस्य अविद्यापदवृक्षस्य सोऽयं अवाक्शाखः। श्वस्तिष्ठतीति विश्वासार्हःश्वस्थः। स विश्वासो यत्र न लभ्यते सोऽयं एषोऽश्वत्थः। सकारलोपश्छान्दसः89। परमार्थदृष्ट्या सत्कल्पोऽपि स्वाज्ञदृष्ट्या सनातनः। स्वाज्ञानकालमारभ्य स्वज्ञानावधिप्रवृत्तत्वात् सनातनत्वम्। इत्थंभूताविद्यापदाश्वत्थो यत्रानुवृत्तेर्व्यावृत्तस्तदनुवृत्तचैतन्यं हि तन्मूलं तत्कल्पनास्पदत्वात्। अश्वत्थकल्पनाया अवस्त्वाश्रयत्वेन वस्तुनो वस्त्वास्पदत्वानुपपत्त्या यन्निरधिष्ठानं ब्रह्ममात्रमवशिष्यते तदेव शुक्रं भारूपमात्रत्वात्। तन्मात्रतयोपबृंहणात् तदेव ब्रह्म। तन्मात्रावस्थानलक्षणकैवल्यामृतमपि तदेवेत्युच्यते। तस्मिन् परमार्थसत्ये ब्रह्मणि स्वाज्ञादिदृष्ट्या स्वातिरिक्तात्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिरूपेण लोक्यन्त इति लोकाः समाश्रिताः सन्तस्ते सर्वे स्वोत्पत्तिस्थितिलयेष्वपि तदु ब्रह्म नातिवर्तन्ते, मृत्सत्तातिरिक्तसत्ताविरलघटादिवत् ब्रह्मसत्तातिरिक्तसत्तावैरल्यात्। “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव

सत्यम्” इति श्रुत्यनुरोधेन कश्चनापि विकारः तदु ब्रह्म नात्येति नातिवर्तते। वाचारम्भणविकृतेः परमार्थदृष्ट्या लब्धात्मकत्वेन स्वप्रकृत्या ब्रह्ममात्रमवशिष्यते। एतद्वै तत् इत्युक्तार्थं ब्रह्म अस्त्येवेत्यर्थः॥१॥

ब्रह्मणोऽग्न्यादिप्रवृत्तिः

यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति॥२॥

भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः॥३॥

कथं पुनर्विश्वमूलत्वेन ब्रह्मास्तित्वं ब्रवीषि? असतः सद्धेतुत्वावगमात्, “असतःसज्जायेत” इति श्रुतेः असदेव ब्रह्मेत्याशंक्यासतः सद्धेत्वाभासानुवादिश्रुतेः “सदेव सोम्येदमग्र आसीत्” इत्यादिश्रुतिबाधितत्वेन विश्वमूलं ब्रह्मास्त्येव। यद्विज्ञानसमकालममृतत्वं श्रूयते तदस्तीत्यवगन्तव्यमित्याह– यदिदं इति। सत्येव प्राणे परमकारणभूते ब्रह्मणि यत्किञ्च किञ्चित् इदंकारार्हं जगत् सर्वं अचेतनमपि एजति चलति। तत्तत एव निस्सृतंसत् नियमेन प्रचलति। तदेतज्जगत्कारणम्। महद्भयं महच्च तत् बिभेत्यस्मादिति भयं चेति वज्रमुद्यतं वज्रोद्यतकरेन्द्रशासनभृत्यवत् सेश्वरं जगदविश्रान्तं स्वव्यापृतौप्रवर्तते। तत्प्रवृत्तिनिमित्तं ब्रह्म अस्त्येव। प्रवर्तनीयविषयाभावतस्तन्निमित्ततापाये निर्निमित्तं निष्प्रतियोगिकब्रह्ममात्रमवशिष्यत इति ये ब्रह्मविद्वरीयांसो विदुरेतत् ब्रह्म तद्वेदनसमकालं तेऽमृताः विदेहमुक्ता भवन्ति इत्यर्थः। ज्ञानसमकालमेव मुक्तः"इति श्रुतेः॥२॥ कथं पुनस्तद्भयात् सेश्वरं जगत् प्रवर्तत इत्यत आह–भयात् इति। अस्य परमेश्वरस्य भयादग्निस्तपति।भयात्तपति सूर्यः। अस्य भयादग्निसूर्येन्द्रवायुमृत्यवोऽपि तच्छासनानुकरणं प्रति नित्यमनुधावन्ति। नासति तच्छासके तत्प्रवृत्तिर्नियमेनोपपद्यते।

वातादयो महासत्त्वाः स्वतन्त्रा बाहुशालिनः।
यस्य भीत्या प्रवर्तन्ते स्वे स्वे कर्मणि भृत्यवत्॥

इति श्रुतेः भयकारणमीश्वराख्यं ब्रह्मास्त्येवेत्यर्थः॥३॥

ब्रह्मज्ञानान्मुक्तिः तदज्ञानाद्बन्धश्च

इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः।
ततः सर्गेषु90 लोकेषु शरीरत्वाय कल्पते॥४॥

इहैव भयकारणं ब्रह्मयाथात्म्यं ज्ञातव्यम्। अन्यथा भवपतनं स्यादित्याह–इह चेत् इति। स्वशरीरस्य विस्रसः विस्रंसनात् पतनात् प्राक् इहैव भयहेतुब्रह्मयाथात्म्यं श्रुत्याचार्यमुखतो बोद्धुं अवगन्तुं अशकत् शक्तः चेत् सोऽयमिहैव संसारबन्धनान्मुच्यते। न हि चेत् अशकत् बोद्धुं ततोऽनवबोधात् स्वाज्ञानात्91 येषु सृज्यन्ते स्रष्टव्याः प्राणिनो भूरादयो लोकास्तेषु सर्गेषु लोकेषु शरीरत्वाय नानाविधशरीरभावाय कल्पते नानायोनिषु शरीरपरम्परामनुभवति। तस्मात् स्वशरीरपतनादर्वागेव भयकारणयाथात्म्यावगतये यत्नः कर्तव्य इत्यर्थः।

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः।

इति श्रुतेः॥४॥

लोकान्तरेभ्य इहैवात्मज्ञाने विशेषः

यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके।
यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके॥

इह लोकान्तरे वा आत्मदर्शनस्यावान्तरफलभेदमाह–यथादर्श इति। यथा आदर्शे प्रतिबिम्बं पश्यति लोकः तथा इह आत्मनि अन्तःकरणे दर्पणवन्निर्मले वेदान्तश्रवणादिसाधननिष्पन्नब्रह्मयाथात्म्यदर्शनं भवतीत्यर्थः। यथा जाग्रद्वासनाजनितस्वप्ने सर्वमविविक्ततयास्पष्टतया भाति, तथा कर्मफलभोगासक्तिजनकपितृलोके श्रवणप्रसक्तेरभावात्। प्रमादतो यदि स्यात् तत्रास्पष्टमेवात्मतत्त्वं जानाति। अविभक्तावयवमात्मरूपं यथाप्सु परिददृशे इव न हि यथावत् परिदृश्यते तथास्पष्टमेवात्मदर्शनं, गन्धर्वलोके गन्धर्वलोकः सर्वलोकोपलक्षणार्थः; सर्वत्रास्पष्टमवगम्यत इत्यर्थः। ब्रह्मलोके तावत् छायातपयोरिव अत्यन्तविस्पष्टमवगम्यते। सोऽयं ब्रह्मलोको हि दुष्प्रापः, समुच्चितज्ञानकर्मयोगसंन्याससाध्यत्वात्। यत एवमतःसर्वथा इहास्मिन् लोक एव बुद्धिमता स्वात्मदर्शनश्रवणादियत्नः कर्तव्य इत्याशयः॥५॥

इन्द्रियेभ्य आत्मनो विवेचनम्

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्।
पृथगुत्पद्यमानानां मत्वा वीरो न शोचति॥६॥

तथा चेत् केन प्रकारेणात्मा ज्ञातव्यः? किं वा तदधिगमे प्रयोजनं? तत्राह–इन्द्रियाणां इति। आकाशादिस्वस्वकारणेभ्यः उत्पद्यमानानां श्रोत्रादीन्द्रियाणां स्वस्वविषयमात्रग्रहणव्यग्रत्वेन मिथो विरुद्धत्वात् सदैकरसब्रह्मण इन्द्रियेभ्यःपृथग्भावं इन्द्रियजातवैलक्षण्यं तथा जाग्रत्स्वापावस्थायत्तौ इन्द्रियाणां उत्पत्तिप्रलयौ नात्मन इति विदित्वा धीरो ब्रह्मविद्वरीयान् अनात्मापह्नवसिद्धात्मा निष्प्रतियोगिकस्वमात्रमिति मत्वा शोचनीयविषयाभावात् न शोचति “तरति शोकमात्मवित्” इति श्रुतेः॥६॥

इन्द्रियादीनामात्मनः प्रत्यग्रूपता

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्।
सत्त्वादथ महानात्मा महतोऽव्यक्तमुत्तमम्॥७॥

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च।
यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति॥८॥

स्वपृथग्भूतेन्द्रियाणामयमात्मा न भवतीत्याकाङ्क्षायामाह–इन्द्रियेभ्य इति। पराग्भावमापन्नश्रोत्रादीन्द्रियेभ्यो मनसः प्रत्यग्रूपत्वादिन्द्रियापेक्षया मनसः परत्वम्। एवं सर्वत्र योजनीयम्। मनसोऽपि बुद्धिशब्दवाच्यसत्त्वमुत्तमम्। अथ अनन्तरं तस्मात् आत्मा हिरण्यगर्भ उत्तमः। तदपेक्षया अव्यक्तम्॥७॥ तदपेक्षया पुरुषः परः व्यापको हि, व्यापकायमानाकाशादेरपि कारणत्वात्। वस्तुतस्तु अलिङ्गः स्वाधेयप्रपञ्चनिरूपिताधारादिलिङ्गविरलत्वात्, “यस्य लिङ्गं प्रपञ्चं वा” इति श्रुतेः। स्वसिद्धिलिङ्गायमानस्वातिरिक्तं जगत् यत्रात्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिरूपेण लिङ्ग्यते गम्यते तल्लिङ्गम्। तद्यत्रापह्नवपदं भजति सोऽयमलिङ्गः। तस्य एवचशब्दाभ्यां निष्प्रतियोगिकत्वं द्योत्यते। जन्तुः पुमान् श्रुत्याचार्यमुखतो यथावत् यत्स्वरूपं ज्ञात्वा तज्ज्ञानसमकालं स्वातिरिक्तास्तिताभ्रमाद्विमुच्यते। किञ्च स्वाधिष्ठेयशरीरादौ परदृष्ट्या स्थिते गते सत्यपि अमृतत्वं च गच्छति।

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः।
उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम्॥ इति,

उपाधिसत्त्वेऽप्यभिमानहानाद्ब्रह्मात्मविद्ब्रह्म भवेन्न चान्यः। इति,
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्।

इति च श्रुतेः, प्रभोक्तेः स्मृतेश्च। सोऽयमलिङ्गः परमात्मेत्यर्थः॥८॥

ब्रह्मणो मनोमात्रगम्यत्वम्

न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा92 मनसाभिक्लृप्तो य एनं93 विदुरमृतास्ते भवन्ति॥९॥

यद्येवमलिङ्गः तदा तदधिगमोपायः कः? इति तत्राह–न संदृश इति। अस्य आत्मनो रूपं संदृशे सम्यक् दर्शनं ज्ञानं तद्विषयो घटादिप्रपञ्चः तत्र न तिष्ठति। कश्चन कश्चिदपि लोकः एनं प्रकृतं आत्मानं चक्षुषा चक्षुरिन्द्रियोपलक्षितसर्वेन्द्रियेणापि न पश्यति शृणोति वा, न शृणोति न स्पृशतीत्यर्थः। तर्हि कथं तमात्मानं पश्येल्लोकः? इति तत्राह–हृदेति। हृच्छब्देन तत्स्थबुद्धिरुच्यते। हृदा बुद्ध्या। संकल्पादिवृत्तिमन्मनसो नियन्तृत्वेन ईष्टे इति मनीट्तया मनीषा।धियस्सत्त्वासत्त्वसत्त्वपरिणामरूपाखण्डाकारवृत्त्या तस्या अपि स्वातिरिक्तहेतोस्तदपह्नवसिद्धं ब्रह्ममात्रमिति मननरूपेण मनसा सम्यज्ज्ञानेन अभिक्लृप्तःअभिप्रकाशितः सन् स्वमात्रतया ज्ञातुं शक्यत इति वाक्यशेषः। एवं एनं स्वमात्रतया ये विदुस्ते तद्वेदनसमकालं अमृता भवन्ति, “तमेवं ज्ञात्वा विद्वांस इहैवामृता भवन्ति” इति श्रुतेः॥९॥

विषयादिव्यावृत्तमनसो ब्रह्मणि स्थिरता

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्॥१०॥

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ॥११॥

हृदा मनीषा मनसा च कथं पुनरात्मा ज्ञातुं शक्यः? हृन्मनीण्मनसां जाग्रज्जाग्रदादिस्वापतुर्यान्तद्वादशावस्थाव्यापृतत्वात्। तद्व्यापृत्यवस्थाया अपि आत्मावरणभेदप्रतीत्यवास्तवत्वादिदोषदुष्टत्वात्। जाग्रज्जाग्रदादेरेवंदोषदुष्टत्वेऽपि तुर्यावस्थाप्रविभक्तजाग्रदाद्यवस्थात्रयं निर्दुष्टम्। तदवष्टभ्य हृदादिरात्मानं जानातीति चेन्न; तस्यापि समानदोषवत्वात्। तस्य ब्रह्ममात्रवेदनोपायत्वेऽपि द्वादशावस्थावदात्मावरणादेस्तुल्यत्वात् कथं हृदादिरात्मानं जानाति? इति शङ्कायां तुर्यावस्थाप्रविभक्तावस्थात्रयावलम्बनतो हृदादीनात्मा ज्ञातुं शक्य इत्याह–

यदा इति। तुर्यजागरणे स्वान्तर्बहिर्विजृंभितविषयाभाससत्त्वेऽपि “ब्रह्मैवेदं सर्वं” इति श्रुत्यनुरोधेन ज्ञानार्थत्वात् पञ्च ज्ञानानि श्रोत्रादीनि शब्दादिपञ्चविषयाभासाग्रहणपूर्वकं ब्रह्माकारतया स्वयं अवतिष्ठन्ते। हृच्छब्दवाच्येयं तदवस्था तुर्यजाग्रदुच्यते। “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इति श्रुत्यर्थप्रत्यगभिन्नं ब्रह्मास्मीति यदा श्रोत्रादिव्यापारोपरतिपूर्वकं संकल्पादिवृत्तिजाताग्रहण-पूर्वकं च बाह्यान्तर्व्यापारोपरमणब्रह्मसाक्षात्कारपरिणतमनसैवाभासनिर्विकल्पकतया मनोऽवतिष्ठते सेयमवस्था मनीट्छब्दवाच्यतुर्यस्वप्न उच्यते।

नैतज्जाग्रन्न च स्वप्नः सङ्कल्पानामभावनात्।
सुषुप्तभावो नोऽप्येतदभावाज्जडतास्थितेः॥

इति श्रुत्यनुरोधेन यदा केवलेन निर्विकल्पायमान94गुणसाम्यात्मना ध्यात्रादित्रिपुटीं विस्मृत्य स्वातिरिक्तबाह्यान्तःकलनां शून्यत्वेन यया बुद्ध्यते सैव बुद्धिः। तद्वृत्तिसमुच्चयार्थः चशब्दः। वृत्तिमद्बुद्धिः पुनर्व्युत्थानावधि न विचेष्टति न विचेष्टत इति यत् सेयमवस्था ब्रह्ममात्रसिद्धान्तमननविशिष्टमनःशब्दवाच्यतुर्यसुप्तिरुच्यते। इत्थंभूतहृदादिना जाग्रज्जाग्रदादिपञ्चदशावस्थान्तव्यष्टिसमष्टितदुभयैक्यावस्थारोपापवादाधिकरणविश्वविश्वाद्यविकल्पानुज्ञैकरसान्तचतुष्पञ्चदशकलनापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रतया या स्थितिरवशिष्यते ब्रह्मविद्वरीयांसःतामेव परमां गतिमाहुः इत्यत्र–

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः। इति श्रुतिः,

जाग्रज्जाग्रदाद्यवस्थाद्विषट्कं स्वाज्ञगोचरम्।
तथा तुर्यजागरादित्रयं स्वज्ञानिगोचरम्॥

स्वमात्रबोधतो ज्ञाज्ञकलनापह्नवादथ।
जाग्रज्जाग्रदादिपञ्चदशावस्थाभ्रमः कुतः॥

तदभावे विश्वविराडोत्रादिकलनापि न।
ततः सदा पराकाष्ठतया शिष्येऽहमच्युतः॥

इति स्मृतिश्च मानम्। इत्थंभूतहृदाद्यवष्टभ्य ब्रह्मविद्वरीयांसो यथावज्जानन्तीति भावः॥१०॥ योगिन एतादृशीमवस्थामस्पर्शयोगं ब्रह्माहुरित्याह–तां इति। या ब्रह्ममात्रतयावस्थितिरुक्ता तामेव ब्रह्मविद्वरीयांसोऽस्पर्शयोगाख्यं ब्रह्मेति मन्यन्ते। ब्रह्ममात्रस्थितेर्ब्रह्ममात्रत्वेन प्रभवाप्ययविरलत्वात् तदुपायत्वेन स्वबाह्यान्तःकलनारोपापवादाधिकरणत्वेन स्वाज्ञस्वज्ञदृष्टिभ्यां स्थिर ईश्वरे प्रत्यगभिन्नपरमात्मनि वा तद्भावापत्त्या स्थिरां स्वस्वविषयविस्मरणपूर्वकं कर्मज्ञानेन्द्रियान्तःकरणधारणां वा योगमिति मन्यन्ते। यदैवं साधनसपन्नस्तदा ब्रह्मवित् अप्रमत्तः प्रमादवर्जितो भवति। न हि विस्मृतविषयकरणग्रामस्थिरधारणावतः प्रमादस्पर्शनमस्ति। तस्मात् स्थिरवस्त्विन्द्रियधारणात् प्रागेवाप्रमादो विधीयते। यद्वा–यदैव स्थिरवस्त्विन्द्रियधारणा तदानीमेवाप्रमत्तत्वम्, ‘‘अप्रमत्तस्तदा भवति’’ इत्युक्तत्वात्। कथमेवं? इत्यत आह–योगो हि इति। अस्पर्शयोगेतरयोगपूगोऽनुसन्धानराहित्यादिनवविघ्नानवकाशप्रदानात् प्रभवति। अनुसन्धानादेरवकाशप्रदानादप्ययमेति। एवं प्रभवाप्ययौ वा भजतीति संभूतिप्रलयधर्मक इत्यर्थः। यावदुपेययोगाधिगमस्तावदप्रमादः कर्तव्य इत्यत्र–

समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात्।
अनुसन्धानराहित्यमालस्यं भोगलालसम्॥

लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता।
एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः।
ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत्॥

इत्यादिश्रुतिर्मानम्॥११॥

ब्रह्मणःसद्रूपत्वम्

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते॥१२॥

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति॥१३॥

यदि बुद्धिचेष्टाविषयं तदा इदं तदिति विशेषतः शक्यमवधारयितुम्। “बुद्धिश्च न विचेष्टति” इति यदा बुद्ध्यादिचेष्टोपरमो भवति तदा ग्राहकाभावात् ग्राह्यमपि नास्त्येव। करणगोचरस्यैवास्तिताप्रसिद्धेस्तद्विपरीतस्यासत्त्वं युक्तम्। अतो न योगाकङ्क्षास्ति। योगफलनिष्पत्तेर्नास्ति ब्रह्मेत्युपलब्धव्यम्–इत्याशङ्क्य यदवगतेः करणग्रामापह्नवपूर्वकत्वात् तथाविधं ब्रह्मासल्लौकिकाद्यष्टदृष्टिगोचरकरणग्रामात्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वा-दिमोहे सत्यसत्यपि तत्सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रतयास्तीत्येवावगन्तव्यमित्याह–नैव इति। वाक्चक्षुर्ग्रहणं कर्मज्ञानेन्द्रियोपलक्षणार्थम्। मानसग्रहणं चान्तःकरणोपलक्षणार्थम्। न हि व्यष्टिसमष्टिकरणजालेनात्मा ज्ञातुं शक्यः निर्विशेषत्वात्। तथापि जगन्मूलत्वेन यदवगम्यते तद्ब्रह्म अस्त्येव, कार्योत्पत्यादेः सद्धेतोर्गमकत्वात्। तथा हि–इदं कार्यं जगत् सद्बुद्धिनिष्ठामर्हति। या हि विषयप्रविलापनबुद्धिः सा सत्प्रत्ययगर्भैव प्रविलीयते। सदसद्वस्तुयाथात्म्याधिगमे बुद्धिर्हि नः प्रमाणपदं भजति। यदि न स्याज्जगतो मूलं तदा कार्यमसत्तया गृह्येत। न हि तदस्ति। इदं सदिदं सदिति सत्त्वेन हि गृह्यते। यथा घटादिकार्यं मृदाद्यन्वितं तस्माज्जगन्मूलत्वेनात्मावगन्तव्यः। कथमेतदवगन्तव्यं? इत्यत आह–अस्ति इति। कार्यनिरूपितकारणतामापन्नं जगन्मूलं वस्तुतः कार्यकारणकलनापवसिद्धं ब्रह्ममात्रं वा अस्तीति ब्रुवतोऽन्यत्र–

निर्हेतुकमिदं कार्यमभावान्तं विलीयते।

इति नास्तिकेऽसल्लौकिकादौ कथंकारं ब्रह्मयाथात्म्यं उपलभ्यते? तस्मादसल्लौकिकतदन्तर्गतासद्वादिपक्षमुन्मूल्य जगन्मूलत्वेनात्मा अस्तीत्युपलब्धव्यः। यदा तु वाचारम्भणश्रुत्या कार्यप्रलयात् कारणतासिद्ध्या कार्यकारणकलनापह्नवसिद्धं ब्रह्मावशिष्यते, तदा तत् स्वमात्रत्वेनोपलब्धं स्यात्। तेन रूपेणा-

प्यात्मास्तीत्युपलब्धव्यः। उभयोः इति निर्धारणार्था षष्ठी। पूर्वं कार्योपलब्धितो जगन्मूलत्वेनोपलब्धस्य अथ स्वातिरिक्तजगदपह्नवसिद्धब्रह्ममात्रत्वेन उपलब्धस्य च तयोरुभयोः सोपाधिकनिरुपाधिकयोरस्तित्वभावयोः तत्त्वभावः विदिताविदितकलनात्मकजाग्रज्जाग्रदाद्य-विकल्पानुज्ञैकरसान्तचतुष्पञ्चदशकलनापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रावस्थितिः,

अन्यदेव तद्विदितादथो अविदितादधि।

“नेति नेति,” “न ह्येतस्मादिति,” “नेत्यन्यत् परमस्ति,” “तदेतद्ब्रह्मापूर्वमनपरमनन्तरमवाह्यम्,” “अयमात्मा ब्रह्म सर्वानुभूः,” “पश्यतेहापि सन्मात्रमसदन्यत्,” “ब्रह्ममात्रसन्न हि,”

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इत्यादिश्रुत्यर्थविशारदब्रह्मविद्वरिष्ठस्य प्रसीदति।॥१२,१३॥

ब्रह्मज्ञानात्सर्वकामलयः

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः95
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नते॥१४॥

निष्प्रतियोगिकब्रह्ममात्रावगतेः सर्वकामापह्नवपूर्वकत्वात् परमार्थदर्शिनो न हि कामलयापेक्षास्ति। सविशेषविश्वमूलब्रह्मविद एव सविशेषहेतुकामजातापह्नवसमकालममृतत्वं स्यादिति निगमयति–यदा सर्व इति। यदा यस्मिन् काले अस्य सविशेषब्रह्मविदः श्रुत्याचार्यप्रसादतो “ब्रह्ममात्रमसन्न हि” इत्यादिश्रुत्यनुरोधेन स्वातिरिक्तसर्वासत्प्रपञ्चापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति ज्ञानं जायते, तज्ज्ञानसमकालं तत्प्राक् स्वाज्ञादिदशायां स्वातिरिक्ताविद्यापदतत्कार्यजात-

मात्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन शून्यत्वेन वास्तीति काम्यन्त इति कामाः स्वाज्ञानादिवृत्तयो हृदि अन्तःकरणगुहायामाश्रिताः। “सर्वेषां कामानां हृदयमेकायनमेव” इति श्रुतेः। ते सर्वे कामाःयदा प्रमुच्यन्ते विशीर्यन्तेऽपह्नवपदं भजन्ते अथ तदुत्तरक्षणं तदा मर्त्यः प्रबोधात् प्राङ्निष्ठंमर्त्यत्वं प्रबोधसमकालं स्वातिरिक्तमृत्योरपवादमृतः सन् अमृतो भवति। अत्र इहैव सर्वकामापह्नवसिद्धं ब्रह्म स्वमात्रमिति समश्नुते, गन्तव्यदेशवैरल्यात्। निरिन्धनज्योतिरिव स्वमात्रतां भजति। ब्रह्मैव भवतीत्यर्थः॥१४॥

ज्ञानिनःकाममूलानां विनाशः

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः।
अथ मर्त्योऽमृतो भवत्येतावदनुशासनम्॥१५॥

कथं पुनः सर्वे कामाःप्रमुच्यन्ते? विश्वविश्वादितुर्यबीजान्तगतभेदग्रन्थीनां काममूलत्वेन विद्यमानत्वात्–इत्याशङ्क्य तत्काममूला ग्रन्थयोऽपि ब्रह्ममात्रज्ञानसमकालं कामजातेन साकमपह्नवं यान्ति। ततो निष्प्रतियोगिकामृतो भवतीत्याह–यदा सर्व इति। यदा विश्वविश्वादितुर्यबीजान्तगतभेदग्रन्थिः ओत्रोत्राद्यविकल्पानुज्ञैकरसान्तचैतन्यज्ञानतः सामान्यतो भिद्यते, जाग्रज्जाप्रदाद्यविकल्पानुज्ञैकरसान्तचतुष्पञ्चदशकलनाहेयांशापह्नवसिद्धतुर्यतुर्यचैतन्यं निष्प्रतियोगिकस्वमात्रमिति बोधतस्तु स्वकार्यकामजातेन साकं व्यष्टिसमष्ट्यनुगतचैतन्यभेदाभेदग्रन्थयो निश्शेषं प्रकर्षेण भिद्यन्ते। यदा हृदयाश्रया ग्रन्थयो भिन्ना अपह्नवतां गताः, अथ तदपह्नवोत्तरक्षणं मर्त्योऽमृतो भवति इति एतावदेव ईशाद्यष्टोत्तरशतवेदान्तपूगोऽनुशास्तीति अनुशासनम्। “नातः परं किञ्चिदस्ति,” “नातः परं वेदितव्यं हि किञ्चित्” इति श्रुतेः॥१५॥

ब्रह्मोपासकस्य शरीरादुत्क्रमणमार्गः

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति॥१६॥

ब्रह्ममात्रप्रवोधनिरस्तकामतन्मूलग्रन्थेर्विदुषो न गतिरिह विद्यते, “अत्र ब्रह्म समश्नुते” इत्युक्तत्वात्। येषां स्वातिरेकेण लिङ्गशरीराभासोऽस्तीति भ्रान्तिः तान् प्रति “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते, ब्रह्मैव सन् ब्रह्माप्येति” इति श्रुत्यन्तराच्च,ये तु तद्विपरीताः समुच्चयानुष्ठातारो योगिनः स्वाश्रमाचारसंपन्ना यतयो विद्यन्ते ये तु तद्विपरीताः संसारभाजस्तेषामेवगतिद्वयमुच्यते। अगतिमद्विद्यास्तुतये वा। पुरोक्ताग्निविद्याफलप्राप्तिद्वारो वक्तव्य इति मन्त्रारम्भः–शतं इति। शतं च इडादिशतसङ्ख्याका नाड्यः सुषूम्ना एका च ब्रह्मनाडी पुरुषस्य हृदयाश्रयत्वेन ताः सर्वा नाड्यो विद्यन्ते।

एकोत्तरं नाडिशतं तस्य मध्ये परा स्थिता।
सुषूम्ना तु परे लीना विरजा ब्रह्मरूपिणी॥

इति श्रुत्यनुरोधेन एकोत्तरशतनाडिमध्ये काचन सुषुम्ना नाम नाडी पुरुषस्य मूलाधारमारभ्य मूर्धानं भित्त्वा अभिनिस्सृता। विद्वान् देहावसानसमये स्वहृदयेऽन्तःकरणं वशीकृत्य कुण्डलिनीशक्त्यग्निप्राणैस्साकं सुषुम्नां प्रापयित्वा तया सुषुम्नानाड्या मूलाधारादिषट्चक्रभेदनपूर्वकं तत ऊर्ध्वं सहस्रारचक्रं विद्यते तदपि भित्त्वा स्वान्तःकरणेन साकं सूर्यद्वारेणोर्ध्वं ब्रह्मलोकं आयन् गच्छन्,

आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते।

इति स्मृत्यनुरोधेनापेक्षिकं अमृतत्वं ब्रह्मलोकं एति। तत्र ब्रह्मलोकगतानुपमभोगान् भुक्त्वा चतुष्पादैक्यसमये ब्रह्मणा सह मुख्यममृतत्वमेति। विष्वक् नानानाडीद्वारीभूतगतयः अन्या उत्क्रमणे96 सति संसारप्रतिपत्तये भवन्ति इत्यर्थः॥१६॥

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः।

तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति॥१७॥

इदानीं सर्ववल्ल्यर्थमुपसंहरति–अड्गुष्ठमात्र इति। भ्रान्त्या जन्मनाशवन्तोऽपि वस्तुतो जन्मनाशविरला जनाः। तेषां जनानां हृदये तत्रत्याङ्गुष्ठमानाकाशावच्छेदेन अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा तत्रत्यवृत्तिकदम्बभावाभावप्रकाशकत्वेन तद्वृत्त्यपवादाधारत्वेन च सन्निविष्टः। उक्तार्थमेतत्। तं एतं प्रत्यञ्चमात्मानं स्वात् आत्मीयशरीरत्रयात् मुञ्जान्तस्स्थेषीकामिव धैर्येण अप्रमादेन प्रवृहेत् पृथक्कुर्यात् शरीरत्रयापवादाधिकरणत्वेन जानीयादित्यर्थः। पराक्शरीरत्रयापवादसापेक्षाधारप्रत्यक्त्वापाये शरीरत्रयोपलक्षितस्वाविद्यापदतत्कार्यकलनापह्न-वसिद्धं परमात्मानं निष्प्रतियोगिकस्वमात्रमिति विद्वान् विद्यात् जानीयादित्यर्थः। द्विर्वचनमुपनिषत्समाप्त्यर्थम्। इतिशब्दस्तु ब्रह्मविद्यास्तुत्यर्थः॥१७॥

विषयसंग्रहेणाख्यायिकासमाप्तिः

मृत्युप्रोक्तां नचिकेतोऽथ97 लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्98
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योप्येवं यो विदध्यात्ममेव॥१८॥

आख्यायिकामुपसंहरति–मृत्युप्रोक्तां इति। नचिकेतो नाम बालको मृत्योर्वरप्रसादात् मृत्युप्रोक्तामेतां विद्यां सोपकरणसफलकृत्स्नयोगविधिं च लब्ध्वा ज्ञात्वा तज्ज्ञानसमकालं रजआदिगुणत्रयविरलो विरजः स्वातिरिक्तास्तिताभ्रान्तिमृत्युवैरल्यात् विमृत्युः भूत्वा सर्वापह्नवसिद्धं ब्रह्म स्वमात्रधिया

प्राप्नोतीति ब्रह्मप्राप्तः ब्रह्मैव भवतीत्यर्थः। न केवलं नचिकेता एव ब्रह्मप्राप्तः, किं तु यथोक्तसाधनसंपन्नश्चेत् अन्योऽपि मुनिर्नाचिकेतवदात्मनः स्वाविद्यापदस्यापह्नवतां गतस्याधि तत् अध्यात्मं ब्रह्ममात्रं वेद सोऽपि विरजो विमृत्युर्भूत्वा अध्यात्मं ब्रह्ममात्रमेव भवतीत्यर्थः॥१८॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।
कठवल्लीविवरणं लिखितं गुर्वनुग्रहात्॥
कठवल्लीविवरणसमग्रग्रन्थविस्तरः।
अष्टसप्तत्यधिशतसहस्रं परिकीर्तितः॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे तृतीयसङ्ख्यापूरकं
कठवल्ल्युपनिषद्विवरणं सम्पूर्णम्।

________

प्रश्नोपनिषत्

भद्रं कर्णेभिः–इति शान्तिः

प्रथमः प्रश्नः

सुकेशादीनां प्रश्नः

ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः॥१॥

सुकेशादिशिष्यपूगपिप्पलादार्ययोरिह।
यत्प्रश्नोत्तरसंसिद्धं तन्निष्कलपदं भजे॥

इह खल्वथर्वणवेदप्रविभक्तपिप्पलादशाखामस्तकसकलनिष्कलपदप्रकाशकमन्त्रब्राह्मणात्म-कप्रश्नोपनिषदारभ्यते। मुख्यया वृत्त्या उपनिषच्छब्देन ब्रह्मविद्योच्यते। इयं पिप्पलादवत् सर्वज्ञभावमापन्नैराचार्यैरेव वक्तव्या, चिरकालगुरुकुलवासब्रह्मचर्यादिसाधनसंपन्नैरेव ग्राह्मेति गुरुशिष्यप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था। सकलनिष्कलपदबुभुत्सया सुकेशादयः शिष्याः पिप्पलादं स्वेप्सि -

तविषयप्रश्नान् पृच्छन्तीति श्रुतिराह–सुकेशा चेत्यादिना। नामतः सुकेशा च, भरद्वाजस्यापत्यं भारद्वाजः। शिबेरपत्यं शैब्यः च, नामतः सत्यकामः। सूर्यस्यापत्यं सौर्यः। तदपत्यं सौर्यायणिः। सौर्यायणीति चप्रयोगः छान्दसः, गर्गगोत्रजो गार्ग्यः। नामतः कौसल्यश्च, आश्वलायनस्यापत्यं आश्वलायनः। भृगोः गोत्रापत्यं भार्गवः, विदर्भादुद्भवो वैदर्भिः। नामतः कबन्धी, कत्यस्यापत्यं कात्यायनः इति युवप्रत्ययः। ते हैते ब्रह्मवेदपराः साङ्गाध्यायिनः शबलब्रह्मपरमतात्पर्यवन्तो वा ब्रह्मपराःब्रह्म-वेदोक्तकर्मनिष्ठाः। तत्फलशबलब्रह्मनिष्ठा वा। यन्नित्यं तदेव विज्ञेयमिति परं ब्रह्म अन्वेषमाणाः तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति श्रवणतो दर्शनाद्वा तदियत्तां विज्ञाय ते ह समित्पाणयः समिद्भारभरितहस्ताःसन्तः भगवन्तं सर्वज्ञकल्पं समाधिविरमे स्वाश्रमस्थपिप्पलमत्तीति पिप्पलादं मुनिवर्यं उपसन्नाः॥१ ॥

पिप्पलादस्य प्रतिवचनम्

तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं वत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामःसर्वं ह वो वक्ष्याम इति॥२॥

तान् वीक्ष्य मुनिराहेत्याह–तानिति। स हि भगवान् पिप्पलादःकेशादीन् दृष्ट्वायथावत् ब्रह्मविद्यावधारणहेतुब्रह्मचर्यादिसाधनन्यूनतामवगम्यतान् एवं उपगतान् सुकेशादीन् उवाच। ह किल। ब्रह्मविद्याग्रहणधारणयोग्यतापादकसाधनजालं वो नालम्। पूर्ववत् भूय एव पुनरपि स्वेन्द्रियसंयमरूपतपसा दर्शनाद्यष्टांगमैथुनविरलब्रह्मचर्येण च,

दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम्।
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च॥

एतन्मैथुनमष्टांगं प्रवदन्ति मनीषिणः।
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः॥

इति श्रुतेः। मदुक्तवाक्य श्रद्धया चास्तिक्यबुद्ध्या,

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥

इति स्मृत्यनुरोधेन संवत्सरमात्रं वत्स्यथ। तदनन्तरं यो यस्य कामः तं अनतिक्रम्य यथाकामं यथायोग्यं यस्य यद्विषये जिज्ञासा तद्विषयानेव प्रश्नान् पृच्छत। भवत्पृष्टार्थं यदि वयं विज्ञास्यामः–इत्यत्र यदिशब्दोऽनुद्धतत्वप्रदर्शनार्थः–भवत्पृष्टं सर्वं वक्ष्याम इति प्रश्नार्थपूरणदृढोक्तेः। न हि संशयार्थ इत्यवसीयते। तथैव सुकेशादयः संवत्सरमात्रं तन्निकटे ब्रह्मचर्यमूषुरित्यर्थः॥२॥

कबन्धिनः प्रश्नः

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ। भगवन्! कुतो ह वा इमाः प्रजाः प्रजायन्ते? इति॥३॥

ततः किमित्यत आह–अथेति। अथशब्दः स्वानुष्ठितब्रह्मचर्यानन्तर्यार्थः। षट्सु कश्चित् कबन्धी कात्यायनो नाम स्वाचार्यं उपेत्य पप्रच्छ। किमिति? हे भगवन् इमाः ब्राह्मणाद्याः प्रजाः कुतः कारणात् ह वै प्रजायन्त इति। ह वा इति वृत्तार्थस्मरणार्थौनिपातौ॥३॥

पिप्पलादस्य प्रतिवचनम्

तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वास मिथुनमुत्पादयते। रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति॥४॥

शबलविद्याकर्मसमुच्चयफलबुभुत्सया अनेनायं प्रश्नः कृत इति आचार्य आहेत्याह–तस्मा इति। एवं पृष्टवते कात्यायनाय स पिप्पलाद उवाच। किमिति? स्रष्टव्याः बहवः प्रजा इति प्रजाकामो वै प्रजापतिः सिसृक्षमाणः स्थावरजङ्गमपतित्वात् तत्तत्प्राणिकर्मानुरोधेन कल्पादौ सर्वात्मा स हिरण्यगर्भः श्रुतिप्रकाशितार्थविषयकल्पान्तरप्राणिजातभावानुकूलतपोऽतप्यत आलोचनं कृतवान्। स एवं तपः तप्त्वासम्यगालोच्य स्वसिसृक्ष्यमाणसृष्टिसाधनत्वेन रयिप्राणात्मकं इदं मिथुनमुत्पादयते। उत्पादितवान् इत्यर्थः। किं तन्मिथुनमिति? रयिं च प्राणं चेति। रयिः सोमः। अन्नं प्राणोऽग्निरत्ता। तौ एतौ अग्नीषोमात्रनभूतौ मे मम बहुधा प्रजाः करिष्यतः इत्येवं सञ्चिन्त्य सूर्याचन्द्रमसौ अकल्पयत् उत्पादयामासेत्यर्थः॥४॥

मायाशबले मिथुनत्वोपपादनम्

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः॥५॥

तन्मिथुनस्वरूपं विशदयति–आदित्य इति। आदित्य एव प्राणः। अत्ताग्निः। रयिरेव चन्द्रमाः अन्नं चेति गुणप्रधानकृतभेदवैशिष्ट्यात्। अग्निश्चान्नं च प्रजापतिरेकं मिथुनम्। पुनः रय्यादित्यस्वरूपं विशदयति रयिरिति। रयिःअन्नमेव एतत्सर्वम्। किं तत्? यत् मूर्तंस्थूलं अमूर्तं सूक्ष्मं व। मूर्तामूर्ते अपि रयिरेव। तत्प्रविभक्तामूर्तात् अन्यत् मूर्तरूपं तद्रयिः अन्नम्। प्रथानद्यमात्रत्वात् अमूर्तोऽपि प्राणोऽत्ता। तदतिरिक्तं सर्वं अद्यम्। त्कथम्?॥५॥

प्राणस्यात्तृत्वं तदतिरिक्तस्याद्यत्वं च

अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते। यदक्षिणां यत्प्रतीचीं यदुदीचीं यदधो

यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते॥६॥

अथादित्यः प्राणिनां चक्षुर्गोचरत्वेनोदयन् स्वात्मानं आविर्भावयन् प्रतिदिनं स्वप्रकाशेन यत् प्राचीं दिशं प्रविशति तेन स्वात्मव्याप्त्यास्वान्नभूतान् प्राच्यान् प्राणान् रश्मिषु स्वव्याप्तिमत्किरणेषु सन्निधत्ते स्वात्मसत्तया सन्निवेशयतीत्यर्थः। तथैव यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यच्चान्यत्सर्व प्रकाशयति तेन सर्वत्र स्वव्याप्त्या सर्वदिगवस्थितान् प्राणान् रश्मिषु सन्निधत्ते॥६॥

अग्निप्राणयोर्विश्वरूपत्वं मन्त्रसम्मतिश्च

स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते। तदेतदृचाभ्युक्तम्॥७॥

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः॥८॥

स एष प्राणो अत्ता वैश्वानरः, विश्वात्मत्वात् विश्वरूपः, प्राणोऽग्निश्चअत्ता प्रत्यहमुदयते सर्वा दिशःस्वात्मसात्कुर्वन् उद्गच्छतीत्यर्थः। एतत् मन्त्रेणाप्युक्तमित्याह–तदेतदिति॥७॥ वैराजरूपत्वात् विश्वरूपं किरणपुञ्जत्वात् हरिणं स्वयंजातवेदतदर्थज्ञानवत्त्वात् जातवेदसं सर्वप्राणाश्रयत्वात् परायणं सर्वप्राणिचक्षुरनुग्राहकत्वात् ज्योतिः अद्वितीयत्वात् एकं विश्वतापकृत्त्वात् तपन्तं सूर्यमेव ब्रह्मविदः स्वात्मानं जानन्ति। कोऽसौ सूर्यइत्यत आह–सहस्ररश्मिः इति। सहस्त्रमित्युपलक्षणार्थं अनन्तरश्मिरित्यर्थः। स्वविकल्पितप्राणिभेदानुरोधेन शतधा अनेकधा वर्तमानः प्राणः सूत्रात्मा एष सूर्यः प्रजानां चक्षुर्विषयं प्राप्त इव उदयति उदेति॥८॥

मिथुनस्य प्रजास्त्रष्टृत्वं पितृयाणमार्गश्च

संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च। तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते। त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः॥९॥

यासौ मूर्तिः अन्नं प्राणःअत्ता आदित्यः तदेतत् सर्वं एकं मिथुनम्। तत् कथं प्रजाः करिष्यते? इत्यत आह–संवत्सर इति। तदेतन्मिथुनं संवत्सरो वै कालात्मा प्रजापतिः संवत्सरस्य कालनिर्वर्त्यत्वात्। सूर्यादिनिर्वर्त्याहोरात्रसमुदायो हि संवत्सरः। कालात्मकप्रजापतेस्तदनन्यत्वात्। रयिप्राणमिथुनात्मक एवासावित्युच्यते। संवत्सराख्यप्रजापतेः तस्य षण्मासलक्षणदक्षिणोत्तरायणे भवतः। केवलकर्मिणां ज्ञानकर्मसमुच्चयानुष्ठातणांच दक्षिणोत्तरेण पथा संचरन् सविता लोकान् विदधत्। कथम्? इत्यत आह–तदिति। ब्राह्मणादिषु ये इह कर्मिणः इष्टं यागादि पूर्तमारामादि च इष्टापूर्ते तत् काम्यधिया कृतं अनित्यमेव उपासते। नाकृतं नित्यम्। तद्येह वै तदिष्टेत्यत्र द्वितीयः तच्छब्दःक्रियाविशेषणार्थः। ते हि केवलकर्मिणः चान्द्रप्रजापतिमिथुनांशान्नभूतचान्द्रमसमेव लोकमभिजयन्ते। यावत्कृतं तत्रोषित्वा कृतक्षयात् त एव पुनरावर्तन्ते “तत इमं लोकं हीनतरं वा विशन्ति” इति श्रुतेः। यस्मादेष वै रयिरन्नं यः पितृयाणोपलक्षितश्चन्द्रो भवति तस्मादेते ऋषयः प्रजाकामाः प्रजार्थिनो गृहस्थाः स्वकृतं दक्षिणं दक्षिणायनोपलक्षितं चन्द्रमेव प्रतिपद्यन्ते॥९॥

सगुणविद्यावतामर्चिरादिप्राप्तिः

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः॥१०॥

अथ अनन्तरं केचन ज्ञानकर्मसमुच्चयानुष्ठातारो ब्राह्मणा इन्द्रियजयात्मकेन तपसा यथोक्तब्रह्मचर्येण श्रद्धया शबलब्रह्मविद्यया च उत्तरेण अर्चिरादिमार्गेण प्रजापत्यंशं प्राणमत्तारं आदित्यं जगच्चक्रप्रवर्तकं अन्विष्य अयमहमस्मीति विदित्वा एतद्वै एतदेव सर्वप्राणानामायतनं आश्रयः अविनाशित्वात्। एतदमृतम् चन्द्रवत् पुनरावृत्तिवैरल्यात्। अभयमेतदेव विद्यावतां कर्मिणां च परायणं परा गतिरिति च दृढनिश्चयेन आदित्यमभिजयन्ते अभिप्राप्नुवन्ति। न पुनरेतस्मान्निवर्तन्ते “न च पुनरावर्तते” इति श्रुत्यन्तरात्। यथेतरे केवलकर्मिणः। यस्मादयमुत्तरायणमार्गोऽविदुषां निरोधःदुष्कर्मदृढपटेनावृत इत्यर्थः, न ह्येते संवत्सरात्मानं अभिप्राप्नुवन्ति; अतोऽयं कालात्मा प्रजापतिः अविदुषां निरोधः तिरोहित इति यावत्। उक्तार्थ एष श्लोको भवतीत्याह–तदेष श्लोक इति। मन्त्रो भवतीत्यर्थः॥१०॥

सगुणब्रह्मणो लोकाधारत्वम्

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे परुषिणम्99
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति॥११॥

हेमन्तशिशिरावेकीकृत्यास्य संवत्सरात्मनः प्रजापतेरादित्यस्य वसन्तादिपञ्चपादनिर्वर्त्यत्वात् यस्य पञ्चर्तवः पादा इव पादा भवन्ति तं पञ्चपादं, सर्वजनयितृत्वात् पितरं, द्वादशमासाकृतिं"द्वादशमासास्संवत्सरः” इति श्रुतेः। दिवो द्युलोकात् अत्युन्नतत्वेन परे अर्धे स्थाने तृतीयस्यां दिवि “तृतीयंस्यामितो दिवि सोम आसीत्” इति श्रुतेः। यद्रश्मिषु परुषं उदकं विद्यते तं परुषिणं उदकवन्तं “याभिरादित्यस्तपति रश्मिभिः ताभिः पर्जन्यो वर्षति” इति श्रुतेः। तं कालविद एवं आहुः। अथेदमेवान्ये कालविदः सर्वलोकोपरि सर्वस्मात् परत्वेन विद्यमानत्वात् उ परं, यद्भूरादिसप्तव्याहृतिषु भूरादिजगञ्चकमनुक्रमते तत् सप्तचक्रं, सप्तचक्रगतिमतः कालात्मनः सर्वलोकाश्रयत्वात्। यत्र रथनाभौ

अरा इव वसन्तादिषडृतवः समाश्रिताः तत् षडरं, तस्मिन् उ परे सप्तचक्रे षडरे संवत्सरादिकालपरिच्छिन्ने ब्रह्मलोके सर्वलोकारोपाधिकरणतया सर्वज्ञत्वादिगुणविशिष्टत्वेन विचक्षणं कालात्मानं ईश्वरं विद्यमानं पञ्चपादद्वादशाकृतिसंवत्सरात्मकप्रजापतिरेवाग्नीषोमात्मना जगतः कारणं आहुः॥११॥

संवत्सरात्मनः प्रजापतेर्मासेषु समाप्तिः

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन्॥१२॥

यत्र विश्वं परिभ्रममि स हि संवत्सरात्मा प्रजापतिः स्वावयवमासे परिसमाप्यत इत्याह–मास इति। संवत्सरावयवमास एव प्रजापतिः। मिथुनात्मकमासप्रजापतेः तस्य आद्यावयवः कृष्णपक्ष एव रयिः अन्नं चन्द्रमाः। अपरस्तु शुक्लपक्षः प्राणः सूर्यो अत्ता अग्निः भवति। यतोऽत्रात्मविदः सर्वं शुक्लपक्षाभिधानप्राणमेव पश्यन्ति तस्मादेते प्राणदर्शिनो ऋषयः कृष्णपक्षेऽपि इष्टिं यागं कुर्वन्तःशुक्लपक्ष एव कुर्वन्ति। न हि तैः प्राणाग्निव्यतिरेकेण कृष्णपक्षो दृश्यते। यस्मात् इतरे शुक्लेकुर्वन्तोऽपि प्राणं न पश्यन्ति इतरस्मिन् कृष्णपक्ष एव कुर्वन्ति॥१२॥

मासात्मनोऽहोरा परिसमाप्तिः

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति। ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते॥१३॥

सोऽपि मासात्मा प्रजापतिः स्वावयवाहोरात्रे परिसमाप्यत इत्याह– अहोरात्र इति। मासवत् अहोरात्रो वै प्रजापतिः। तस्याहरेव आदित्यः। प्राणोऽत्ता अग्निः। रात्रिरेव रयिः अन्नं चन्द्रमाः। तत्र ये मूढाः दिवा

अहनि रतिकरणस्त्रिया रत्या संयुज्यन्ते मिथुनीभावमाचरन्ति त एते प्राणं वा अहरात्मानं प्रस्कन्दन्ति निर्गमयन्ति शोषयन्तीत्येतत्। तस्मात् एतदकर्तव्यमिति प्रासङ्गिकः प्रतिषेधः। तद्यद्रात्रौ रत्या संयुज्यन्ते ऋतौ भार्यागमनस्य प्रशस्तत्वात् कामिभिः कर्तव्यमित्ययमपि प्रासङ्गिको विधिः। वस्तुतस्तन्निवृत्तेरिष्टत्वात् “आसु निवृत्तिरिष्टा” इति स्मृतेः। ऋतुमात्रभार्यागमनं ब्रह्मचर्यमेव इत्यर्थः॥१३॥

अहोरात्रात्मनः प्रजापतेरन्नरूपत्वम्

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति॥१४॥

प्रकृतमुच्यते–स ह्यहोरात्रात्मकः प्रजापतिः व्रीहियवाद्यन्नात्मना व्यवस्थितो भूत्वा क्रमेणान्नरूपेण परिणमति–अन्नं वै प्रजापतिः इति। तत्कथं? ततः अन्नभावमापन्नप्रजापतेरेव शुक्लशोणितात्मकं प्रजोद्भूतिकारणं रेतो भवति। तस्मात् योषिति सिक्तात् रेतस इमाः मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते। पुरा कात्यायनेन “कुतो ह वा इमाः प्रजाः प्रजायन्ते” इति पृष्टः तदेवं चन्द्रादित्यमिथुनादिक्रमेण अहोरात्रान्नात्तृरेतोद्वारेण इमाः प्रजाः प्रजायन्त इति प्रतिवचनमुक्तम्॥१४॥

प्रजापतिव्रताचरणफलम्

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते। तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्॥१५॥

प्रजापतिव्रताचरणदृष्टादृष्टफलमाह–तदिति। तद्ये ह वै गृहस्थाः ऋतुभार्यागमनात्मकप्रजापतिव्रतं चरन्ति ते पुत्रदुहित्रात्मकं मिथुनमुत्पादयन्त इति यत् तत् दृष्टफलम्। अदृष्टफलं तु इष्टापूर्तदत्तकारिणां तेषामेव यश्चान्द्रमसः

पितृयाणलक्षणः पुनरावृत्तिको ब्रह्मलोकः पुनः येषां यथोक्तं तपः स्नातकादिव्रतब्रह्मचर्यं ऋतावन्यत्रामैथुनाचरणं वा येषु अनृतविरलसत्यं प्रतिष्ठितं अव्यभिचारं विद्यते॥१५॥

वनस्थानां यतीनां च ब्रह्मलोकप्राप्तिः

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति॥१६॥

यः पुनरादित्योपलक्षितोत्तरायणः प्राणात्मभावः न हि चान्द्रब्रह्मलोकवत् वृद्धिक्षयादिरजस्वलो भवतीति विरजः शुद्धसत्त्वात्मकत्वात्। तेषाम् असौ ब्रह्मलोकः येषु मायागृहस्थेष्विव जिह्मं कौटिल्यं, अनृतं अयथार्थवचनं, पश्यतां आत्मानं यथार्थवत् प्रकाश्य अन्यथाकार्यकरणशक्तिर्हि माया च व्रतिवनिभिक्षुषु निमित्ताभावात् न विद्यते, तत्साधनानुरूपेण तेषामसौ विरजो ब्रह्मलोकः। केवलकर्मिणां चन्द्रलक्षणा गतिः। तद्व्यतिरिक्तानां ज्ञानकर्मसमुच्चयानुष्ठातॄणां योगिनां केवलस्वाश्रमाचारपरायणयतीनां च पूर्वोक्तब्रह्मलोक एव परमा गतिर्भवतीति सिद्धा॥ १६॥

________

द्वितीयः प्रश्नः

वैदर्भेः प्रश्नः

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ। भगवन्! कत्येव देवाः प्रजां विधारयन्ते? कतर एतत्प्रकाशयन्ते कः? पुनरेषां वरिष्ठः ? इति॥१॥

मुख्यप्राणयाथात्म्यबुभुत्सया आचार्यं अपरः पृच्छतीत्याह अथेति। थ कात्यायनप्रश्नप्रतिवचनानन्तरं एनं पिप्पलादं भार्गवो वैदर्भिः पप्रच्छ। किल। तत् किम्? इत्यत आह–कतीति। हे भगवन्! कत्येव देवाः शरीरलक्षणां प्रजां विधारयन्ते? कर्मज्ञानेन्द्रियाणां मध्ये कतरे स्वमाहात्म्यपनपूर्वकं प्रकाशयन्ते? कार्यकरणलक्षणानां एषां को वा वरिष्ठःवानः? इति॥१॥

पिप्पलादस्य प्रतिवचनम्

तस्मै स होवाच आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च। ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः॥२॥

एवं पृष्टवते पिप्पलाद आह–तस्मै स होवाचेति। आकाशो ह वा देवो वायुरग्निरापः पृथिवीत्येतानि सर्वशरीरारम्भकाणि पञ्चभूतानिन्ति। वाङ्मनःचक्षुःश्रोत्रादीनि कर्मज्ञानेन्द्रियाणि कार्यरूपाणि मनआदीनि गरूपाणि। ते देवाःस्वात्मनो माहात्म्यं प्रकाश्य अभिवदन्ति। ? इत्यत आह। वयमिति। श्रेष्ठा वयं एतद्बाणं कार्यकरणसंघातलक्षणशरीरअवष्टभ्य स्तम्भाः प्रासादमिव विधारयामः॥२॥

वाय्वादीनां वरिष्ठत्वाभिमाने मुख्यप्राणोक्तिः

तान् वरिष्ठः प्राण उवाच मा मोहमापद्यथ। अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामीति॥३॥

अयं संघातो मया एकेन ध्रियत इति स्पर्धमानाः देवास्तिष्ठन्ति। स्पर्धमानेषु तेषु मुख्यप्राण एवमाह तानिति। एवमभिमानविशिष्टान् वरिष्ठो मुख्यः प्राण उवाच। किमिति? स्वसामर्थ्याविवेकतया

एवं मोहं यूयं मापद्यथ। यस्मात् अहमेव एतत् पञ्चधा आत्मानं प्रविभज्य एतत् बाणं अवष्टभ्य विधारयामीति उवाच ॥३॥

अश्रद्दधानानां वाय्वादीनां श्रद्धोत्पादनम्

तेऽश्रद्दधाना बभूवुः सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एवप्रातिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते एवमस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति॥४॥

वागादयः तद्वाक्यं न बहुमन्यन्त इत्याह–ते इति। एवमुक्तवति प्राणे ते वागादयः तद्वाक्यं अश्रद्दधाना बभूवुः इत्यर्थः। ततः किमित्यत आह–स इति। तेषामश्रद्दधानतामालक्ष्य सरोषं अभिमानात् ऊर्ध्वमुत्क्रामत इव। तस्मिन्नुत्क्रामति प्राणे अथ अनन्तरमेव इतरे सर्व एव प्राणा उत्क्रामन्ते। तस्मिंश्च प्रतिष्ठमाने अनुत्क्रामति सति सर्व एव प्रातिष्ठन्ते। तूष्णीं व्यवस्थिता भवन्तीत्यर्थः। तत्र दृष्टान्तमाह–यथेति। स्पष्टोऽर्थः। एवं स्थिते वागादयः प्राणं स्तुवन्तीत्याह–एवमिति। वागादयः प्राणवाक्याश्रद्दधानतामुत्सृज्य प्राणमाहात्म्यमवगम्य प्रीताः सन्तः एवं वक्ष्यमाणप्रकारेण स्तुवन्ति स्तुवन्तीत्यर्थः॥४॥

प्राणस्य श्रेष्ठत्वोपपादनस्तुतिः

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः।
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत्॥५॥

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्।

ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च॥६॥

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे।
तुभ्यं प्राण! प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि॥७॥

देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि॥८॥

इन्द्रस्त्वं प्राण! तेजसा रुद्रोऽसि परिरक्षिता।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः॥९॥

यदा त्वमभिवर्षसि अथेमाः प्राणते प्रजाः।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति॥१०॥

व्रात्यस्त्वं प्राण! एकर्षिरत्ता विश्वस्य सत्पतिः।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व! नः (श्वनः)॥११॥

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।
याच मनसि संतता शिवां तां कुरु मोत्क्रमीः॥१२॥

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्।
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति॥१३॥

कथम्? इत्यत आह–एष इति। एष प्राण एव अग्निसूर्यपर्जंन्यादिरूपेण ज्वलति तपति वर्षति त्रैलोक्यं पालयति। उन्मार्गगाम्यसुररक्षांसि जिघांसति। सर्वलोकांश्चेष्टयति। एष पृथिवीरूपेण रयिरन्नं भवति। एष देवः सदसत् मूर्तममूर्तं च यत् देवानां जीवनकारणं तत् अमृतमपि एष एवेत्यर्थः॥५॥ सर्वाधिकरणं एष एवेत्याह–अरा इति। किं बहुना? अरा इव रथनाभौ श्रद्धादिनामान्तपञ्चदशकला तत्कार्यं सर्वं स्थितिकाले प्राण एव प्रतिष्ठितम्।

तथा ऋचो यजूंषि सामानि तन्निर्वर्त्योयज्ञश्च सर्वपालयितृ क्षत्रं च यज्ञादिकर्माधिकृतं ब्रह्म च ब्राह्मणजातं च प्राण एव प्रतिष्ठितमित्यर्थः॥६॥ किंच–प्रजापतिरिति। प्रजापतिर्भूत्वा यः त्वं गर्भे चरसि पुनः मात्रादिप्रतिरूपस्सन् प्रतिजायसे। प्रजापतित्वात् मातृपितृत्वं पुरैव सिद्धम्। सर्वभूतान्तर्यामित्वेन सर्वात्मासीत्यर्थः। यः त्वं प्राणैः चक्षुरादिभिः सह प्रतितिष्ठसि। तस्मै तुभ्यं हे प्राण! इमाः मनुष्याद्याः प्रजाः चक्षुरादीन्द्रियद्वारैः वलिं हरन्ति।

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।

इति स्मृत्यनुरोधेन सर्वशरीरेषु तुभ्यं बलिं हरन्तीति युक्तमित्यर्थः॥७॥ किं च–देवानामिति। देवानां वह्नितमोऽसि हविःप्रापयितृत्वात्। पितॄणां या दीयते सा स्वधा अन्नम्। देवापेक्षया पूर्व भावित्वात्तस्याः प्राथम्यम्। पितृभ्योऽपि प्रापयितृत्वात्। देहधारणाद्युपकरणत्वेन ऋषीणां चक्षुरादीनां चरितं चेष्टितम्। “चक्षुषा यत्पश्यति तत्सत्यं भवति” इति श्रुत्या तदेव सत्यं अवितथमित्यर्थः। अङ्गिरसां अथर्वणां अथर्वा च त्वमेवासि “प्राणो वाथर्वा” इति श्रुतेः॥८॥ किंच–इन्द्र इति। हे प्राण! तेजसा इन्द्रः त्वं संहारे स्थितौ च विष्ण्वभेदेन जगतः परि समन्तात् रक्षिता रुद्रोऽसि। ज्योतिषां पतिः सूर्यो भूत्वा त्वमेव अन्तरिक्षे चरसि॥९॥ किंच– यदेति। यदा त्वं पर्जन्यो भूत्वा अभिवर्षसि तदा अन्नं प्राप्य इमाः प्रजाः प्राणते स्वोचितचेष्टां कुर्वन्ति। किंच त्वदभिवर्षणदर्शनतोऽस्माकं अन्नं बहु भविष्यतीति कामाय यथेच्छं आनन्दरूपाः सत्यः सुखं तिष्ठन्ति॥१०॥ किंच–ब्रात्य इति। “हिरण्यगर्भस्समवर्तताग्रे” इति श्रुतितः तत्र प्रथमजत्वात् स्वातिरिक्तसंस्कर्तुरभावात् यतः त्वं असंस्कृतोऽसि अतः त्वं व्रात्यस्वभावः शुद्ध इत्यर्थः। हे प्राण! सर्वं एकत्रैव ऋषति गच्छति इति एकर्षिः त्वं सर्वप्राणिजठराश्रयप्रसिद्ध्या एकर्षिरग्निः,

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।

इति स्मृतेः। तथा सर्वहविःअत्ता त्वमेव परिदृश्यमानविश्वस्य साधुपतिः सत्पतिःत्वमेव। वयं पुनः तवादनीयहविषोऽद्यस्य दातारः। हे मातरिश्व! मातरिश्वन् नः अस्माकं इन्द्रियाणां पिता त्वम्। यद्वा– मातरिश्वनो वायोरपि त्वं पिता। अतस्ते सर्वलोकपितृत्वं सिद्धमित्यर्थः॥११॥ किंच–या ते इति। किं बहुनोक्तेन? हे प्राण! या ते तनूः वक्तृत्वेन वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि या च मनसि च सम्यगास्थिता–वदनश्रवणदर्शनसङ्कल्पादिरूपेणेत्यर्थः– तां तनूं शिवां स्थिरां कुरु। यतः तव उत्क्रमणेनास्माकं अशोभनं भवेत् अतः कदापि त्वं मोत्क्रमीः उत्क्रमणं माकर्षीरित्यर्थः॥१२॥ किं च–प्राणस्येति। तमेता ऋचो अभिवदन्ति–प्राणायतनमितीति। किं बहुना? अस्मिन् लोके यदुपभोगजातमस्ति तत्सर्वं प्राणस्यैव वशे वर्तते। त्रिदिवे स्वर्गेऽपि यत् उपभोग्यं प्रतिष्ठितं तस्यापि प्राणाधीनत्वेन स एव तस्येशिता। अतो मातेव पुत्रान् अस्मान् रक्षस्व। ब्रह्मक्षत्रगतश्रीश्च त्वस्थितिनिमित्तप्रज्ञां च नः अस्माकं विधेहीति। यतः सर्वं प्राणायतनं अतः तमेव प्राणं एता ऋचो मन्त्राः सर्वात्तारं ईश्वरं अभिवदन्ति। तस्मात् प्राणभावमापन्नेश्वर एव सर्वकारणम्। तज्ज्ञानेन तत्पदप्राप्तिः अर्थात् सिद्धा॥१३॥

_________

तृतीयः प्रश्नः

आश्वलायनस्य प्राणविषयो विशेषप्रश्नः

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ। भगवन्! कुत एष प्राणो जायते? कथमायात्यस्मिञ्छरीरे? आत्मानं वा प्रविभज्य

कथं प्रातिष्ठते? केनोत्क्रमते? कथं बाह्यमभिधत्ते? कथमध्यात्मं? इति॥१॥

अथापर आचार्यं प्राणयाथात्म्यं पृच्छतीत्याह–अथेति। अथ वैदर्भिप्रश्नप्रतिवचनानन्तरं एनं आचार्यं कौसल्यश्चाश्वलायनः पप्रच्छ। किमित्यत आह–कुत इति। हे भगवन्! कात्यायनवैदर्भिप्रश्नप्रतिवचनप्रख्यापितमहिम्नोऽपि प्राणस्य संहतत्वेन कार्यत्वं द्योत्यते। अतस्त्वां परिपृच्छामि। कुतः कारणादयं प्राणो जायते? स कथमस्मिन् शरीरे आयाति? शरीरग्रहणमस्य किन्निमित्तम्? स हि शरीरे प्रविष्टः सन् आत्मानं प्रविभज्य कथं प्रातिष्ठते प्रतितिष्ठति? केन हेतुना अस्मात् शरीरात् उत्क्रमते? कथं वा स्वबहिर्भूतं बाह्यं अधिभूतं अधिदैवतं च अभिधत्ते? कथमध्यात्मं स्वयाथात्म्यं वाभिधत्ते?॥१॥

आश्वलायनप्रशंसापूर्वकमात्मनः प्राणोत्पत्तिकथनम्

तस्मै स होवाच अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि॥२॥आत्मन एष प्राणो जायते। यथैषा पुरुषे छायेतस्मिन्नेतदाततम्। मनोकृतेनायात्यस्मिञ्छरीरे॥३॥

इत्येवं पृष्ट आचार्य आह– तस्मा इति। एवं पृष्टवते तस्मै स आचार्य उवाच। दुर्विज्ञेयत्वेन यदि प्राणः प्रश्नार्हः तादृशस्य जन्मादि त्वं यतः पृच्छसि अतः अतिप्रश्नान् पृच्छसि। अतिशयेन त्वं ब्रह्मिष्ठोऽसि। अतः तुष्टोऽहम्। तस्मात्तेऽहं त्वया यत् पृष्टं तत् ब्रवीमि। जागरूकः सन् तत् शृण्वित्यर्थः॥२॥ अनात्मापह्नवसिद्धात् आत्मनः स्वाज्ञदृष्ट्या एष प्राणो जायते। तत्र दृष्टान्तमाह। यथेति। यथा लोके शिरःपाण्यादिमति पुरुषे निमित्तभावमापन्ने एषा नैमित्तिकी छाया जायते तथा एतस्मिन् ब्रह्मणि परमार्थसत्ये एतत् छायास्थानीयप्राणाख्यानृतं आततं कल्पितम्।

कुत एष प्राणो जायते? इति प्रश्नस्य सदृष्टान्तं उत्तरं उक्तम्। कथमायात्यस्मिन् शरीरे? इति प्रश्नोत्तरमाह–मन इति। मनोकृतेन कामसंकल्पादिवृत्तिनिष्पन्नकर्मनिमित्तेन अस्मिन् शरीरे आयाति आगच्छति।

तदेव सत्तस्सहकर्मणैति लिङ्गं मनो यत्र निषिक्तमस्य।

इति श्रुतेः॥३॥

प्राणस्यात्मविभागेन शरीरे सन्निधानम्

यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानेतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव संनिधत्ते॥४॥ पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः। एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति॥५॥

आत्मानं वा प्रविभज्य कथं प्रातिष्ठते? इति प्रश्नोत्तरमाह–यथेति। यथा लोके सम्राट् राजा एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्वेति ग्रामाद्यधिकृतान् विनियुंक्ते इति दृष्टान्तः। दार्ष्टान्तिकस्तु–एवं मुख्यःप्राणः स्वात्मभेदानुरूपं इतरांश्चक्षुरादीनपि यथास्थानं पृथक् पृथगेव सन्निधत्ते॥४॥ तत्र विभागमाह– पाय्विति। पायुश्चोपस्थश्च पायूपस्थं तस्मिन् पायूपस्थे स्वांशं अपानं मूत्रपुरीषोत्सर्गं कुर्वन् तिष्ठेति सन्निधत्ते विनियुङ्क्ते। तथा चक्षुःश्रोत्रे मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां सम्राट्स्थानीयः प्राणः स्वयं निर्गच्छन् प्रातिष्ठते प्रतितिष्ठति। प्राणापानयोः मध्ये नाभ्यां तु समानवायुस्थितिमेत्य एष एव एतद्धुतमन्नं जाठराग्नौ प्रक्षिप्तं समं नयतीति समानः। तस्मात् अशितपीतेन्धनवर्धितजाठराग्नेः हृदयदेशमाक्रान्तात् एताः सप्तसंख्याका अर्चिषो दीप्तयः शीर्षण्यः प्राणद्वारा श्रोतव्यद्रष्टव्यादिविषयप्रकाशकतया निर्गच्छन्त्यो भवन्ति॥५॥

हृदि ह्येष आत्मा। अनैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति॥६॥

कमलाकारमांसपिण्डपरिच्छिन्ने हृदि हृदयाकाशे एष आत्मा लिङ्गशरीरावच्छिन्नः सन् वर्तते। अत्रैव हृदये एकशतं एकोत्तरशतसंख्यया प्रधाननाडीनां विद्यमानानां तासां शतं शतं एकैकस्यां नाड्यां द्वासप्ततिद्वसप्ततिः द्वे द्वे सहस्रेअधिकसप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति। आभिः नाडीभिः आपादमस्तकं देहं व्याप्य आस्वेव व्यानश्चरति। सर्वत्र व्यापनात् व्यानः। सन्धिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्तिमध्ये उद्भूतवृत्त्या वीर्यवत्कर्मकर्ता भवतीत्यर्थः॥६॥

उदानात्मना प्राणस्योत्क्रमणम्

अथैक्योर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥७॥

केनोत्क्रमते? इति प्रश्नोत्तरमाह–अथेति। अथ देहस्थित्यनन्तरं एकशतनाडीनां मध्ये ऊर्ध्वगामिनी सुषुम्नानाडीत्येका नाडी विद्यते। तया उदानवायुः आपादमस्तकस्थप्राणवृत्तिभिस्सह करणग्रामं संगृह्य ऊर्ध्वमुत्क्रमन् सन् शास्त्रीयविहितपुण्यकर्मणा लिङ्गशरीराभिमानिनमात्मानं देवादिस्थानलक्षणपुण्यलोकं नयति। विहिताकरणप्रतिषिद्धकरणजपापेन पापं तिर्यग्योनिलक्षणं नरकं नयति। समपुण्यपापाभ्यां उभाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते॥७॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः॥८॥

कथं बाह्यमभिधत्ते? इति प्रश्नोत्तरमाह। आदित्य इति। आदित्यो ह वै सर्वलोकप्रत्यक्षत्वेन प्रसिद्धः स ह्यधिदैवतं बाह्यः प्राणः। स एष अहरहः उदयति उद्गच्छति “योऽसौ तपन्नुदेति” इति श्रुतेः। कथमध्यात्मम्? इति प्रश्नोत्तरमाह– एष इति। एष आदित्यो ह्येनं अध्यात्मं चक्षुर्विषयं चाक्षुषं रूपोपलब्ध्यै प्राणमनुगृह्णानः चक्षुष आलोकं कुर्वन् वर्तते। तथा पृथिव्यां याभिमानिनी देवता सैषा पुरुषस्यापानवृत्तिमवष्टभ्य वशीकृत्य अधःकर्षणेनानुग्रहं कुर्वन्ती वर्तत इत्यर्थः। अन्यथा शरीरस्य गुरुत्वात् सावकाशे पतेत्। यदेतत् अन्तरा द्यावापृथिव्योर्मध्ये यत् य आकाशस्तत्स्थो वायुराकाश उच्यते, मञ्चस्थवत्। स समानः समानवायुमनुगृह्णानो वर्तते। समानस्याप्याकाशस्थत्वसामान्यात्। सामान्येन यो बाह्यवायुः स व्याप्तिसामान्यात् व्यानो व्यानमनुगृह्णानो वर्तते॥८॥

उदानस्योत्क्रमणहेतुत्वम्

तेजो ह वाव उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः॥९॥ यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः। सहात्मना यथासंकल्पितं लोकं नयति॥१०॥

बाह्यं वाव प्रसिद्धं सामान्यं यत् तेजः तत् शरीरे उदानः उदानवायुमनुगृह्णानो वर्तत इत्यर्थः। यस्मादुदानस्य तेजस्स्वभावेन बाह्यतेजोऽनुगृहीतोत्पतनकर्तृत्वात् उत्क्रमणकर्ता ह्युदानः, तस्मात् यदा लौकिकः पुरुषः उपशान्तं उदानात्मकं तेजो यस्य सः उपशान्ततेजा भवति, तं क्षीणायुषं

विद्यात्। स पुनः मनसि संपद्यमानैरिन्द्रियैः सह पुनर्भवं शरीरान्तरं प्रतिपद्यते॥९॥ मरणकाले यो यच्चित्तो भवति,

यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥

इति स्मृत्यनुरोधेन चित्तेन स्वसंकल्पानुगृहीतेन्द्रियैः मुख्यप्राणवृत्तिमायाति चरमश्वासवेलायां क्षीणेन्द्रियमनोवृत्तिः सन् मुख्यप्राणवृत्त्या अवतिष्ठते। अयमुच्छ्ववसिति जीवति वेति तदा ज्ञातयोऽभिवदन्ति। स हि प्राणःतेजसा उदानवृत्त्या संयुक्तः सन् सहात्मना जीवेन साकं पुण्यपापकर्मवशात् यथासंकल्पितं लोकं नयति प्रेतलोकं नयतीत्यर्थः॥१०॥

प्राणविद्याफलश्रुतिः

य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति॥११॥

तदेष श्लोकः–

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति॥

एवंविदः फलमाह–य इति। यः कश्चित् उत्पत्त्यादिविशेषणविशिष्टं प्राणं वेद, न ह वास्य तस्य विदुषः पुत्रादिलक्षणाःप्रजाःहीयन्ते चिरं जीवन्तीति दृष्टफलम्। अदृष्टफलन्तु–स्वदेहपतनानन्तरं प्राणसायुज्यात्मकामृतो भवति॥११॥ उक्तार्थे मन्त्रो भवतीत्याह–तदेष श्लोक इति। प्राणस्य परमात्मनः उत्पत्तिं, अस्मिन् शरीरे मनोकृतेनायातीत्यागमनं, शरीरे स्थानं स्थिति, पायूपस्थादिस्थानेषु विभुत्वं स्वाम्यं, सम्राडिव प्राणवृत्तिभेदस्थापनं आदित्यादिरूपेण बाह्यं चक्षुराद्याकारेणावस्थानं अध्यात्मं च एवं विज्ञाय प्राणं अमृतमश्नुत इति। द्विर्वचनमपरविद्याविषयप्रश्नार्थपरिसमाप्त्यर्थम्॥१२॥

_________

चतुर्थः प्रश्नः

ब्रह्मबुभुत्सया गार्ग्यस्य प्रश्नः

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ। भगवन्! एतस्मिन्पुरुषे कानि स्वपन्ति? कान्यस्मिन् जाग्रति? कतर एष देवः स्वप्नान्पश्यति? कस्यैतत्सुखं भवति? कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्ति? इति॥१॥

साध्यसाधनेषणाविजृंभितसंसारविषयकापरविद्यागोचरसर्वस्वंप्रश्नत्रयेण परिसमाप्यापि कृतपरमार्थसत्यबुभुत्सया कश्चिदेनं पृच्छतीत्याह–अथेति। अथ अपरविद्यागोचरप्रश्नत्रयकथनानन्तरं एनं पिप्पलादमाचार्यं यत् परविद्यागोचरं वस्तु करणग्रामापह्नवसिद्धं स्वमात्रमवशिष्यते तद्बुभुत्सया सौर्यायणी च गार्ग्यः पप्रच्छ। अपरब्रह्मविषयकपूर्वप्रश्नत्रयविवेकोपायलभ्योत्तरप्रश्नत्रयस्य परब्रह्मगोचरत्वेन सुसूक्ष्मार्थत्वात् यत् ब्रह्मातिरिक्तमपह्नोतव्यं तदियत्तापरिज्ञानं विना तदसंभवात्। अतःस्वातिरिक्तकरणग्रामजन्मस्थितिभंगाधिकरणाक्षरपरिज्ञानपूर्वकं तद्गतयांशापाये परमाक्षरमवगन्तुं शक्यमिति प्रश्नोऽर्थवान्।

यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः।
तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति॥

इति श्रुत्यनुरोधेन सर्वे भावाःमहाग्निविस्फुलिङ्गा इव यतः प्रभवन्ति पुनरपि यन्ति च तदधिकरणपरिज्ञानोपायव्यष्टिकरणारोपाधिकरणेयत्ता ज्ञातव्येति। हे भगवन्! एतस्मिन् शिरःपाण्यादिमति पुरुषे कानि करणानि स्वपन्ति स्वव्यापारात् उपरमन्ते? कानि चास्मिन् जाग्रति जागरूकाः स्वव्यापारं कुर्वन्ति? कतर एष देवः जाग्रत्संस्कारजस्वप्नान पश्यति? तत् किं कार्यलक्षणेन करणलक्षणेन वा देवेन निर्वर्त्यम्? जाग्रत्स्वप्नव्यापारे चोपरते निरायासलक्षणं

एतत् सुखं कस्य भवति? तदा करणायमानभावा जाग्रत्स्वप्नव्यापारात् उपरता भूत्वा कस्मिन्नु सर्वे भावा समुद्रप्रविष्टनदीवत् मधुवच्च विवेकानर्हतया एकीभावमेत्य प्रतिष्ठिता भवन्ति? वेणुनालन्यस्तायश्शलाकापूगवत् पृथक् पृथगेव स्वात्मन्यवतिष्ठन्त इत्यर्थः। कानि स्वपन्तीत्यादिना करणानां स्वातन्त्र्यं अवगम्येत इति चेन्न; तेषां स्वाम्यर्थत्वात् सर्वावस्थास्वपि पारतन्त्र्यं सिद्धमित्यर्थः॥१॥

ब्रह्मणः सर्वप्रतिष्ठास्पदत्वम्

तस्मै स होवाच। यथा गार्ग्य! मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति। तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते॥२॥

इत्थं गार्ग्येण पृष्टप्रश्नपञ्चकोत्तरं आचार्यः क्रमेणाह–तस्मै स होवाचेति। हे गार्ग्य! एतस्मिन् पुरुषे कानि स्वपन्ति? इति यत्त्वया पृष्टं तदिदानीं शृणु। यथा अस्तं गच्छतः अर्कस्य आदित्यस्य मरीचयो रश्मयः सर्वाः एतस्मिन् आदित्यतेजोमण्डले अविशेषं एकीभवन्ति। ता रश्मयः पुनः पुनरुदयतः तस्यैवार्कस्य प्रचरन्तीति दृष्टान्तः। एवं ह वै तत् सर्वविषयेन्द्रियजातं–देवानां इन्द्रियाणां मनस्तन्त्रत्वात्– परे देवे मनसि स्वापकाले एकीभवति। तेजोमण्डलप्रविष्टमरीचिवदविशेषतां गच्छति। जिजागरिषोश्चरविमण्डलादिव मनस एव प्रचरन्ति स्वव्यापाराभिमुखं प्रतिष्ठन्त इत्यर्थः। यतः शब्दाद्युपलब्धिहेतुश्रोत्रादिकरणानि मनस्येकीभूतानीव स्वव्यापारादुपरतानि भवन्ति, अतः तेन हेतुना तर्हि

तस्मिन् स्वापकाले एष हि पुरुषो जीवो न शृणोतीत्यादि स्पष्टोऽर्थः। श्रवणादिकरणग्रामप्रलयात् लौकिकाः स्वपितीत्याचक्षते। नेयायते न गच्छतीत्यर्थः॥२॥

प्राणादीनामाहवनीयत्वादिनिरूपणम्

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनोयद्गार्हपत्यात्प्रणीयतेप्रणयनादाहवनीयः प्राणः। यदुच्छ्वासनिःश्वासा-वेतावाहुती समं नयतीति स समानः॥३॥

कान्यस्मिन् जाग्रति? इति प्रश्नोत्तरमाह– प्राणेति। श्रोत्रादिकरणग्रामे सुप्तिं गते सति अथ एतस्मिन् नवद्वारपुरे देहे प्राण एवाग्नय इव अग्नयो जाग्रति जागरूका भवन्तीत्यर्थः। तत्र विभागशः तत्स्वरूपमुच्यते–गार्हपत्य इत्यादिना। गार्हपत्यो ह वा एषोऽपानः यस्मादग्निहोत्रकाले गार्हपत्यात् इतरोऽग्निः आहवनीयः प्रणीयते। तस्मात् प्रणयनात् अपानो गार्हपत्योऽग्निः। तथा सुप्तस्य ह्यपानवृत्तेः प्रणीयत इव मुखनासिकाभ्यां प्राणस्संचरतीत्यतः प्राण आहवनीयस्थानीयः। व्यानस्तु हृदयदक्षिणसुषिरद्वारेण निर्गमनात् दक्षिणसंबन्धात् अन्वाहार्यपचनो भवति। तत्राग्निहोत्रहोता समानवायुः भवति। यस्मात् उच्छवासनिश्वासौ अग्निहोत्राहुती इव तद्गतद्वित्वसामान्यस्य नित्यत्वेन आहुती तु समं साम्येन देहस्थितिभावाय नयतीति स समानो होता तस्याहुतिनेतृत्वात्। अतो विदुषः स्वापोऽप्यग्निहोत्रहवनमेव भवति। न ह्येवं विद्वान् कर्मी भवति वेदनेतरकरणवैकल्यात्। “सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत” इति श्रुतेः॥३॥

मनसो यजमानत्वमुदानेन ब्रह्मप्रापणं च

मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति॥४॥

अत्र हि प्राणोऽग्निषु जाग्रत्सु सत्सु सविषयबाह्यकरणानि उपसंहृत्य अग्निहोत्रफलमिव स्वर्गं ब्रह्म जिगमिषुः मनो ह वाव यजमानोऽपि कार्यकरणप्राधान्यव्यवहारात् जागर्ति। मनसः स्वर्गमिव ब्रह्म प्रस्थितत्वात् यजमानो मन एवेति कल्प्यते। उदाननिर्मितेयमिष्टफलप्राप्तिरिति इष्टयाग फलमेवोदानः। सह्युदानो मनआख्यं यजमानं स्वप्नादिवृत्तितःप्रच्याव्य अहरहः स्वापकाले स्वर्गमिवाक्षरं गमयति। अतः यागफलस्थानीयोदानेयत्तां विदुषः श्रोत्राद्युपरमणकालादारभ्य यावत् स्वापादुत्थितो भवति तावत्सर्वं यागफलानुभवः। एवमविदुषां अनर्थाय तद्भवतीति विद्वत्ता स्तूयते। नहि विदुष एव श्रोत्रादिकरणानि स्वपन्ति। प्राणाग्नयो वा जाग्रति। अहरहः सुषुप्तं वा स्थानं प्रतिपद्यते। जाग्रत्स्वप्नयोः मनसः स्वातन्त्र्याभासावगमात् विद्वदविद्वत्पदगामि सर्वप्राणिनां जाग्रदाद्यवस्थात्रयगमनं समानं हि। विदुषस्तु यागफलाप्तिर्विशेष इति स्तुतिरियमुपपद्यते॥४॥

स्वप्नद्रष्टृनिरूपणम्

अत्रैष देवः स्वप्ने महिमानमनुभवति। यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति॥५॥

कतर एष देवः स्वप्नान् पश्यति? इति प्रश्नोत्तरमाह–अत्रेति। अत्र श्रोत्रादिकरणेषूपरतेषु देहरक्षार्थं प्राणादिवायुषु जाग्रत्सु सत्सु स्वापप्रतिपत्तेः प्राक् एतस्मिन् जाग्रत्स्वापान्तराले सूर्यरश्मिवत् आत्मन्युपसंहृतकरणे यं एष देवः स्वप्ने स्वविकल्पितेन्द्रियेन्द्रियार्थतया बहुधा भवनं महिमानं अनुभवति मनसो महिमानुभवकरणत्वात्। महिमानुभवे मनः स्वतन्त्रमिति चेन्न; तस्य क्षेत्रज्ञपरतन्त्रत्वात्। स्वतन्त्रो हि क्षेत्रज्ञः कर्तुमकर्तुमन्यथा वा कर्तुं तद्गतस्वातन्त्र्यं वास्तवमिति चेन्न; तस्य मानसोपाधिकृतत्वात्।

न हि वस्तुतः क्षेत्रज्ञोऽवस्थात्रयमन्वेति, तस्य स्वगतक्षेत्रज्ञतापाये निष्प्रतियोगिकस्वमात्रत्वात्। सोऽयं क्षेत्रज्ञः स्वाज्ञदृष्ट्यातूलाविद्यासूक्ष्मांशयोगतः तैजसो भूत्वा स्वतेजसा जाग्रत्प्रपञ्चं परिकल्प्य तत्रासङ्गतया स्वयंज्योतिरपि भवतीत्यत्र स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा स्वपितीत्यत्र ‘‘अयं पुरुषःस्वयंज्योतिर्भवति ध्यायतीव लेलायतीव” इति श्रुतेः। तस्मात्करणजाले मनसि प्रलीने सति अथ मनोमयस्वप्रान् पश्यतीति युक्तमेवैतत्। पुरा यत् मित्रं पुत्रादि वा दृष्टं तत्संस्कारवासनाविद्यया दृष्टवदनुपश्यति। तथा श्रुतं अर्थं तद्वासनया अनुशृणोतीव। देशान्तरैः दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः तत् प्रत्यनुभवतीव। तथा दृष्टं चास्मिन् जन्मनि जन्मान्तरदृष्टं अदृष्टं अत्यन्तादृष्टे वस्तुनि वासनानुत्पत्तेः। तथास्मिन् जन्मनि श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च केवलमनसैव जन्मान्तरे तत्सर्वं श्रुतं दृष्टं अनुभूतमित्यर्थः। चाक्षुषं सच्च अचाक्षुषं असच्च। किं बहुनोक्तेन? उक्तमनुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोपाधित्वेन सर्वकरणात्मा देवः स्वप्नान् पश्यति। स्वोपाधिमनसोऽपायेन किञ्चित् पश्यतीत्यर्थः॥५॥

सुषुप्तिसुखनिरूपणम्

स यदा तेजसाभिभूतो भवत्यत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्छरीरे एतत्सुखं भवति॥६॥

कस्यैतत् सुखं भवति? इति प्रश्नोत्तरमाह– स यदेति। यदा यस्मिन् काले सोऽयं मानसोपाधिकः सौरतेजसा नाडीविशेषस्पर्शनतः स्वापसंस्कृतवासनाद्वारेण सर्वतः अभिभूतो भवति, तदा सकरणमनोरश्मयो हृद्युपसंहृता भवन्ति। दार्वग्निवदविशेषं तदा मनउपाधिः कृत्स्नशरीरं व्याप्यावतिष्ठते। अत्रायं सुषुप्तस्सन् स्वप्नान्न पश्यति तेजसा दर्शनद्वारस्य निरुद्धत्वात्। अथ तदा एतस्मिन् शरीरे एतत् सुखं भवति। तत्सुखविज्ञानमविशेषं

शरीरं व्याप्य प्रसन्नं भवतीत्यर्थः। तदानीं अविद्याकामकर्मजातस्य शान्तत्वात् आवृतित्रयावृतसच्चिदानन्दतया अयमवतिष्ठत इत्यत्र–

सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति। इति,
स्वापे समावृतो जन्तुः स्वरूपसुखमश्नुते।

इति श्रुतेः स्मृतेश्च॥६॥

सुषुप्तावात्मनः सर्वप्रतिष्ठास्पदत्वम्

स यथा सोम्य! वयांसि वासोवृक्षं संप्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते॥७॥

कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्ति? इति प्रश्नोत्तरमाह–स यथेति। यः प्राज्ञभावमेत्य सुखी भवति हे सोम्य! स यदात्मा वयांसि स्ववासोवृक्षं सम्यक् प्रतिष्ठन्त इति दृष्टान्तः। एवं ह वै तत् वक्ष्यमाणं सर्वं सर्वापवादाधिकरणे परे आत्मनि संप्रतिष्ठते। तन्मात्रावशेषतया अवतिष्ठत इत्यर्थः॥७॥

आत्मनः सर्वप्रतिष्ठात्वविवरणम्

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च॥८॥

तत्कथम्? इत्यत्र तत्प्रकारमाह–पृथिवीत्यादिना। स्थूला पृथिवी च पञ्चगुणा तत्कारणीभूतगन्धतन्मात्रा च तथापस्तेजोवाय्वाकाशा स्थूलाःतन्मात्राः सूक्ष्माश्च पञ्चीकृतापञ्चीकृतपञ्चमहाभूतानीत्यर्थः। तथा चक्षुश्च द्रष्टव्यरूपं चेत्यादिज्ञानकर्मेन्द्रियतदर्थाश्चोक्ताः। पूर्वोक्तं मनश्च तद्विषयो मन्तव्यं चेत्यादि स्पष्टोऽर्थः। त्वगिन्द्रियातिरेकेण प्रकाशविशिष्टा त्वक् तेजःतन्निर्वाहको विषयो विद्योतयितव्यं प्राणश्च सूत्रात्मा स्वारोपितसर्वविधारयितव्यम्॥८॥

विज्ञानात्मनः परमात्मनैकीभावः

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षर आत्मनि संप्रतिष्ठते परमेवाक्षरं प्रतिपद्यते॥९॥

तद्विषयःसूत्रात्मनि सर्वस्य संग्रथितत्वात् अतो नामरूपात्मकविश्वस्य कार्यकरणसंहतत्वेन लवित्रादिवत् पारार्थ्यस्वरूपत्वेन च जडत्वात्। अतः तदारोपाधारतया योऽवशिष्यते स एष चिद्धातुः जलादौ प्रतिफलितसूर्यादिविम्बवत् स्वारोपितकर्तृत्वादिविशिष्ट इब द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष इति। येन स्वाध्यस्तकर्तृभोक्तृद्रष्टृत्वादिकं मिथ्येति विज्ञातं स विज्ञानात्मा कार्यकरणसंघातः। अनृतजडदुःखप्रपञ्चस्य सच्चिदानन्दरूपेण पूरणात् पुरुषः। “नेति नेति, न ह्येतस्मादिति, नेत्यन्यत्” इति च श्रुत्यनुरोधेन स्वारोपितप्रपञ्चस्थूलसूक्ष्मबीजार्धमात्रांशापह्नवतो निष्प्रतियोगिकब्रह्ममात्रमवशिष्यत इत्यर्थः॥९॥

सर्वाधारस्य परमात्मनो ज्ञानफलं मन्त्रसम्मतिश्च

स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य! स सर्वज्ञः सर्वो भवति॥१०॥

तदेष श्लोकः

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र।
तदक्षरं वेदयते यस्तु सोम्य! स सर्वज्ञः सर्वमेवाविवेश– इति॥११॥

एवंविदः फलमाह–स य इति। स यो ह वै स्वातिरिक्तसर्वेषणाविनिर्मुक्तो योगी स्वाविद्या छाया तदपह्नवसिद्धं अच्छायं, व्यष्टिसमष्ट्यात्मकशरीरत्रयापह्नवात् अशरीरं, लोहितशुक्लकृष्णगुणापह्नवसिद्धं अलोहितं, अतः शुभ्रं, स्वातिरिक्ताशुभ्रक्षरापह्नवसिद्धत्वात् परमाक्षरं निष्प्रतियोगिकस्वमात्रमिति वेदयते विजानाति तद्वेदनसमकालं सोऽयं विद्वान् पुरा स्वाज्ञदशायां असर्वज्ञोऽपि स्वाज्ञत्वापह्नवतः पुरा यत् स्वातिरेकेण सर्वं भातं तत्सर्वं स्वमात्रतया जानातीति स सर्वज्ञः सर्वो भवति स्वाज्ञादिदृष्टेः वस्तुतो ब्रह्ममात्रतयावशिष्यत इत्यर्थः॥१०॥ उक्तार्थे मन्त्रो भवतीत्याह–तदेष श्लोक इति। विज्ञानात्मा सह देवैश्चअग्न्यादिभिः प्राणाः चक्षुरादयः पृथिव्यादीनि भूतानि च यत्र यस्मिन्नक्षरे संप्रतिष्ठन्ति स्थितिं विलयं वा भजन्ति, हे सोम्य! यस्तु विद्वान् तदक्षरं स्वाज्ञादिभिः तदारोपापवादायमानाधेयनिरूपिताधारतापह्नवसिद्धं परमाक्षरं स्वामात्रमिति वेदयते जानाति तद्वेदनसमकालं सोऽयं विद्वान् पूर्वोक्तरीत्या सर्वज्ञः सन् स्वमात्रतया अवशिष्टोऽपि स्वाज्ञादिदृष्ट्या सर्वमेवाविवेश आविशतीत्यत्र–

यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम्।
यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः॥

इत्यादिश्रुतेः॥११॥

_________

पञ्चमः प्रश्नः

सत्यकामस्योङ्कारोपासनाप्रश्नः

अथ हैनं शैब्यः सत्यकामः पप्रच्छ। स यो ह वैतद्भगवन्! मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत। कतमं वाव स तेन लोकं जयति? इति॥१॥

परापरविषयकप्रणवतद्याथात्म्यबुभुत्सया आचार्यमपरः पृच्छतीत्याह–अथेति। अथ गार्ग्यप्रश्नप्रतिवचनानन्तरं एनं पिप्पलादमाचार्यं शैव्यश्चसत्यकामः पप्रच्छ। ओंकारस्य तावत् परापरब्रह्मप्राप्तिसाधनत्वेन उपासनविधित्सया हि प्रश्न आरभ्यते। हे भगवन्! स यः कश्चिन्मनुष्येषु प्रायणान्तं प्रयाणान्तं यावज्जीवं उपरतबाह्यान्तःकरणतया भक्त्यावेशितब्रह्मभावनया च ओंकारमभिध्यायीत आभिमुख्येन अनवरतं चिन्तयेत्–ब्रह्मचर्यापरिग्रहसत्यास्तेयाहिंसाशौचसन्तोषत्यागसंन्यासदशयमनियमामानित्वादिसाधनसंपत्त्या विजातीयप्रत्ययतिरस्कारपूर्वकं सजातीयप्रत्ययप्रवाहीकरणं अभिध्यानशब्दार्थः– सोऽयमेवं यावज्जीवव्रतधारणया कर्मयोगज्ञानोपायतो जेतव्येषु लोकेषु तेन ओंकाराभिध्यानेन कतमं वाव लोकं जयति? इति॥१॥

परापरब्रह्मदृष्ट्या ओङ्कारोपासनाफलम्

तस्मै स होवाच। एतद्वै सत्यकाम! परं चापरं च ब्रह्म यत् ओङ्कारः तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति॥२॥

एवं पृष्टवते प्रश्नोत्तरमाह–तस्मै स होवाचेति। हे सत्यकाम! एतत् परं चापरं च। तत्र परं प्रत्यगभिन्नं ब्रह्म। अपरं ईश्वराख्यं यत् तदोंकार एव, परापरालम्बनप्रतीकत्वात्। न हि तत् साधनं विना निर्विशेषं

ब्रह्म अवगन्तुं शक्यं तस्यातीन्द्रियत्वात्। विष्ण्वादिप्रतिमास्थानीयोङ्कारे तत् ब्रह्मेति भावारूढानां शास्त्रप्रामाण्यात् तत् प्रसीदतीत्यवगम्यते। तस्मात् परं चापरं च ब्रह्म यदोङ्कार इत्युपचर्यते। तस्मात् विद्वान् एतेनैव ओङ्काराभिध्यानेन एकतरं परमपरं वा ब्रह्म अन्वेति आलम्बनप्रतीकोपायतो नेदिष्टं ब्रह्म अनुगच्छतीत्यर्थः॥२॥

एकमात्रोङ्कारोपासनाफलम्

स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते। तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति॥३॥

एकमात्राप्रणवध्यायिनः फलमाह–स यदीति। स यद्यप्योङ्कारयावन्मात्राभिज्ञो न भवति तथाप्योङ्कारपरिचयात् विशिष्टगतिं गच्छति। तदेकदेशज्ञानवैगुण्येऽप्योङ्कारशरणश्चेत् कर्मज्ञानोभयभ्रष्ट इव न हि दुर्गतिं गच्छति। किं तर्हि? स यदि ओङ्कारैकमात्राभिज्ञो योगी प्रणवं एकमात्रं सदा ध्यायीत। तेन एकमात्रावशिष्टोङ्काराभिध्यानेन संवेदितः संबोधितः सन् तूर्णमेव जगत्यामभिसंपद्यते। तं एवमभिध्यायिनं ऋचो मनुष्यलोकमुपनयन्ते उपगमयन्ति। ओङ्कारप्रथममात्राया ऋग्वेदस्वरूपत्वात्। तत्प्रथममात्राभिध्याता तेन तत्र मनुष्यजन्मनि ब्राह्मणश्रेष्ठो भूत्वा तपसा ब्रह्मचर्येण श्रद्धया च संपन्नो महिमानं ऐश्वर्य अनुभवति। न हि श्रुत्याचार्यवाक्याश्रद्दधानवत् यथेष्टचेष्टा भवति।

न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति।

इति स्मृतेः॥३॥

अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते
सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते॥४॥

तथा द्विमात्राभिध्यानफलमाह–अथेति। अथ प्रणवेतरसाधनत्यागानन्तरं यदि द्विमात्रेण स्वप्नाभमनसि द्विमात्रप्रणवमभिध्यायेत् तस्मिन् यजुर्वेदमये सोमदैवत्ये मनसि संपद्यते ऐकाग्र्यं आत्मभावं गच्छति। स ह्यात्मभावापत्त्या मृतोऽन्तरिक्षं अन्तरिक्षावारं सोमलोकं प्रणवद्वितीयमात्रारूपयजुर्भिरुन्नीयते। यजूंषि तं सौम्यं जन्म प्रापयन्तीत्यर्थः। स तत्र सोमलोके विभूतिं अनुभूय मनुष्यलोकं प्रति पुनरावर्तते। तत्र सर्वजनश्लाघनीयजन्म लब्ध्वा धनी योगी वा भूत्वा क्रमेण कृतकृत्यो भवतीत्यर्थः।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।
अथ वा योगिनामेव कुले भवति धीमताम् ॥

इति स्मृतेः॥४॥

त्रिमात्रोङ्कारध्यानफलं ऋक्सम्मतिश्च

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः। यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माजीवधनात्परात्परं पुरिशयं पुरुषमीक्षते॥५॥

तदेतौ श्लोकौ भवतः–

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः॥

ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत्तत्कवयो वेदयन्ते।
तमोंकारेणैवायतनेनान्वेति विद्वान्
यत्तच्छान्तमजरममृतमभयं परं चेति॥७॥

त्रिमात्राप्रणवानुध्यानफलमाह–यः पुनरिति। यः पुनरेतं ओङ्कारेत्रिमात्रेण तद्विषयकविज्ञानेन ओमित्येतेनैवाक्षरेण सूर्यमण्डलान्तर्वर्तिनं परपुरुषमभिध्यायीत प्रणवालम्बनतयेत्यर्थः। न ह्यत्र प्रतीकोपासना उपयुज्यते

प्रणव ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः।

इति प्रणवापरपराभेदखिलश्रुतेः। सोऽयं विद्वान् तृतीयमात्रानुरूपे तेजसि सूर्ये संपन्नो भवति। न हि सोमलोकादिवत् पुनरावर्तते। किन्तु सूर्यसंपत्त्या, यथा पादोदरः सर्पस्तु त्वचा विनिर्मुच्यते जीर्णत्वचं त्यक्त्वा पुनर्नवो भवति एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिः तृतीयमात्रारूपे ऊर्ध्वं ब्रह्मलोकं उन्नीयते यस्मिन् ब्रह्मलोकासने हिरण्यगर्भे सर्वलिङ्गात्मनि जीवास्सर्वे संहता भवन्ति। सोऽयं विद्वान् त्रिमात्रोङ्काराभिज्ञः एतस्मात् जीवधनात् हिरण्यगर्भात् परात्परं परमात्मानं समस्तपुरिशयं स्वातिरिक्तसर्वपूरणात् पुरुषं सर्वप्रत्यगभेदेन ईक्षते ब्रह्मैवास्मीति पश्यति। यद्वाएतस्माज्जीवधनात् पुरिशयात् हिरण्यगर्भात् परो व्यष्टिसमष्टिसाक्षी तद्गतहेयांशापह्नवसिद्धः तस्मात् परः पुरुषः तन्निष्प्रतियोगिकपरमात्मानं स्वमात्रतया ईक्षते। अपह्नोतव्यस्वातिरिक्तविषयवैरल्यात् स्वमात्रमवशिष्यत इत्यर्थः॥५॥उक्तार्थं एतौ श्लोकौ अनुवदत इत्याह–तदेतौ श्लोकौ भवतः इति। अकारोकारमकारभेदेन त्रिसंख्याकाः प्रणवमात्राःमृत्युर्यासां विद्यते ताः मृत्युमत्यः मृत्युगोचरा एवेत्यर्थः। ता हि ध्यानक्रियासु प्रयुक्ताः। किंच अन्योन्यसक्ता इतरेतरबद्धा इत्यर्थः। अनविप्रयुक्ताः विशेषतोब्रह्मण्येन प्रयुक्ताः विप्रयुक्ताः। तथा न भवन्तीति अविप्रयुक्ताः पराग्भावमापन्नाः।

तथा न भवन्तीति अनविप्रयुक्ताः बाह्यान्तःकलनाकलितत्वात्। एवं पराग्भावं विहाय प्रत्यगभिन्नब्रह्मध्यानकाले बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तिस्थानगतविराट्सूत्रबीजतुर्यध्यानलक्षणयोगक्रियासु प्रयुक्ताश्चेत् स न कम्पते। ओङ्कारयथोक्तविभागज्ञो योगी स्वगृहस्वरूपात् न हि चलति। न ह्येवंविदः चलनमुपपद्यते। यतः ओङ्कारमात्रारूढजाग्रत्स्वप्नसुषुप्त्यादिस्थानाधिपविराडादियाथात्म्यवित् सर्वात्मभूतोङ्कारो यो भवति अतो विद्वान् न कदाचिदपि स्वरूपतः चलेदित्यर्थः॥६॥ सर्वार्थसंग्रहो हि द्वितीयो मन्त्रः। अकारमात्रारूपैः ऋग्भिरेतं मनुष्यलोकं उकारमात्रारूपैः यजुर्भिः सोमाधिष्ठितान्तरिक्षलोकं मकारमात्रात्मकसामभिः यत्तत् ब्रह्मलोकमिति तृतीयं त्रिविधं लोकं ओंकारसाधनेन कवयो वेदयन्ते नाकवय इत्यर्थः। विद्वान् परमार्थदृष्टिस्तु “पश्यतेहापि सन्मात्रमसदन्यत्” इति श्रुत्यनुरोधेन स्वातिरिक्तप्रणवतदध्यक्षतद्गतद्देयांशशान्तं यत् पदमवशिष्यते तदेव शान्तं सर्वावस्थापह्नवसिद्धत्वात्, अजरं जराश्रयदेहत्रयापह्नवसिद्धत्वात्, अमृतं मरणादिभयवैरल्यात्, अभयं निरतिशयब्रह्ममात्रस्वरूपत्वात्, परं तदप्यर्धमात्रातुर्यभागात्मकतुरीयोङ्कारायतनेन असदपह्नवसिद्धं सत् ब्रह्म स्वमात्रं इत्यन्वेति तन्मात्रतया अवशिष्यत इत्यर्थः॥७॥

________

षष्ठः प्रश्नः

निष्कलब्रह्मबुभुत्सया भारद्वाजस्य प्रश्नः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ।भगवन्! हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत। षोडशकलं भारद्वाज!

पुरुषं वेत्थ? तमहं कुमारमब्रवं नाहमिमं वेदयद्यहमिममवेदिषं कथं ते नावक्ष्यमिति। समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुषः? इति ॥१॥

विज्ञानात्मविकल्पितजाग्रदाद्यवस्था तत्प्रलयेऽपि विज्ञानात्मना सह परस्मिन्नक्षरे संप्रतिष्ठते, तस्य सर्वारोपापवादाधिकरणत्वात्। न हि कार्यस्य कारणेन संप्रतिष्ठास्ति। उक्तं चैतत् “आत्मन एष प्राणो जायते तत्सर्वं परे आत्मनि संप्रतिष्ठते” इति, “विद्वान् यत्तच्छान्तमजरममृतं परं चेति” इति विश्वारोपापवादाधिकरणनिरधिकरणब्रह्मज्ञानतः सविशेषनिर्विशेषब्रह्मभावापत्तिः स्यादिति सर्ववेदान्तसिद्धान्तः। तत्रापरब्रह्मेयत्तां ज्ञात्वा सकलत्वेन निष्कलब्रह्मयाथात्म्यबुभुत्सया आचार्यं अपरः पृच्छति–अथेति। अथ पञ्चप्रश्नप्रतिवचनानन्तरं एनं आचार्यं निष्कलब्रह्मयाथात्म्यबुभुत्सया सुकेशा च भारद्वाजः पप्रच्छ। तत् किम्? इत्यत आह–भगवन्निति। हे भगवन्! नामतो हिरण्यनाभः। कोसलायां भवः कौसल्यः। जातितो राजपुत्रः मामुपेत्य एतं पुरुषसम्बन्धिप्रश्नं अपृच्छत। हे भारद्वाज! प्राणादिनामान्तषोडशकला यत्रारोपिताः सोयं षोडशकलः तं षोडशकलं पुरुषं वेत्थ त्वं विजानासि? इति। एवं पृष्टवन्तं तं अहं राजकुमारं अब्रवं उक्तवानस्मि। यत् त्वं पृच्छसि न अहमिमं वेद। एवं उक्तवत्यपि मयि स्वाज्ञानं असंभावयन्तं कुमारं प्रति स्वाज्ञाने कारणं अवादिषम्। कथंचित् यदि त्वया पृष्टं पुरुषं अवेदिषं विदितवानस्मि, तत् कथं अत्यन्तयोग्याधिकारिणे ते तुभ्यं नावक्ष्यं न ब्रूयाम्? इत्येवं श्रुत्वापि अप्रत्ययंगतमालक्ष्य तत्प्रत्ययार्थं पुनरिदमब्रवम्।

योऽन्यथासन्तमात्मानं अन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा॥

इति श्रुत्यनुरोधेन वस्तुयाथात्म्यमविज्ञाय योऽनृतमभिवदति स एष मूढः।स्वबन्धमोक्षमूलान्तःकरणसहितः समूलः सपरिवारः शुष्यति इहामुत्रफलेभ्यो विच्छिद्यते छिन्नाभ्रमिव नश्यतीत्येतत् यस्मादहं एवं जाने तस्मात् मूढवत् अनृतं वक्तुं नार्हामि। एवं मया प्रत्यायितः स राजपुत्रो व्रीडितः तूष्णीं रथमारुह्य यथागतमेव प्रवव्राज। अतो यथावज्जानताचार्येण मुख्याधिकारिणे वक्तव्या। सर्वावस्थास्वपि अनृतं न वक्तव्यमिति सिद्धं भवति।पुरोक्तव्याख्यानतः पौरुषविज्ञानस्य सुदुर्लभत्वेन मुमुक्षुपटलाशास्यमानतावश्यकीति द्योत्यते। क्वासौ विद्यते विज्ञेयत्वेन षोडशकलः पुरुषः? तदज्ञान मम हृच्छल्यमिव प्रतिभाति। अतः तं पुरुषं त्वा त्वां पृच्छामीति॥१॥

पिप्पलादस्य प्रतिवचनम्

तस्मै स होवाच। इहैवान्तःशरीरे सोम्य! स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति॥२॥

भारद्वाजेन एवं पृष्ट आचार्य आह–तस्मै स होवाचेति। हे सोम्य! इति पिप्पलादो भारद्वाजं संबोध्य तस्मै स होवाच यं त्वं परिपृच्छसि स पुरुषो न हि देशान्तरे विज्ञेयो भवति। किन्तु इहैवान्तः शरीरे हृदयकमलाकाशमध्ये,

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः–एतद्वै तत्॥

इति श्रुत्यनुरोधेन स्वाज्ञस्वज्ञदृष्टिभ्यां सकलत्वेन निष्कलत्वेन च पुरुषो लक्ष्यते। यस्मिन् वक्ष्यमाणाः एताः प्राणाद्याः षोडशकलाःप्रभवन्ति। स्वाज्ञदृष्ट्या षोडशकलोपाधिभिः सकल इव स्वज्ञदृष्ट्या निष्कलः पुरुषो लक्ष्यते।षोडशकलाध्यारोपापवादाभ्यां यस्तदाधारत्वेनाभिमतः तद्गताधेयतानिरूपिताधारतावैरल्यात् निष्प्रतियोगिकनिराधारःकेवलः पुरुषोऽवशिष्यते, तदवगतेःसुदुर्घटत्वात् तद्घटनाय कलानां तत्प्रभवत्वमुच्यते। न हि निष्कल-

ब्रह्माध्यारोपापवादमन्तरेण षोडशकला अपि प्रतिपादयितुं शक्याः, निष्कलब्रह्मातिरिक्तसत्तावैरल्यात्। कलानां स्वाज्ञस्वज्ञदृष्टिभ्यां इमाः षोडशकलाः पुरुषे विकल्पिताः पुनरभावं गता इव लक्ष्यन्ते॥२॥

ब्रह्मबोधनाय कलानामध्यारोपः

स ईक्षाञ्चक्रे। कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि? कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि? इति॥३॥ स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च॥४॥

तत्र स्वाज्ञदृष्टिमनुसृत्य कलानां सृष्टिक्रम उच्यते–स इति। भारद्वाजेन यः पृष्टः षोडशकलः पुरुषः आचार्येणापि यस्मिन् एताः षोडशकलाःप्रभवन्ति स इहैवान्तःशरीरे षोडशकलारोपापवादाधिकरणत्वेन उपलभ्यते। न हि कुण्डे बदरवत् स्वकार्यषोडशकलाभिः तत्कार्यशरीरे निक्षिप्तो भवति। मूर्ते मूर्तद्रव्यं हि निक्षेप्तुं शक्यते। न हि पुरुषरूपं मूर्तममूर्तं वा भवितुमर्हति। निष्प्रतियोगिकनिष्कलपुरुषावगतेः मूर्तमूर्तयमानषोडशकलापह्नवपूर्वकत्वात्। स कथं स्वकार्यकार्यशरीरमात्रे परिच्छिद्यते? “देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म’ इति श्रुतेः।निष्प्रतियोगिकब्रह्ममात्रस्वरूपाधिगमे स्वान्तःकरणवृत्त्यवभासकप्रत्यक्चिद्धातुप्रबोधं विना नान्यद्द्वारान्तरमस्ति। तस्मादन्तःशरीरे प्रत्यगादिभावमापन्नः पुरुषः उपलभ्यत इत्युक्तम्। सोऽयं प्रत्यगादिभावमापन्नः पुरुषः ईक्षां ईक्षणं आलोचनं चक्रे कृतवानित्यर्थः। कथम्? इत्यत आह–कस्मिन्निति। कस्मिन् कर्तरि देहात् उत्क्रान्ते अहमप्युत्क्रान्तो भविष्यामि? तथा कस्मिन् वा प्रतिष्ठिते शरीरे अहमपि प्रतिष्ठास्यामि? इति, प्रतिष्ठितः स्यामित्यर्थः॥३॥ एवमीक्षित्वा स हि सर्वज्ञेश्वरः प्राणं सर्वप्राणिकरणाधारतया हिरण्यगर्भमात्मानं असृजत उत्पादितवान्। ततः

प्राणात् सर्वप्राणिशुभकर्मप्रवृत्तिहेतुभूतश्रद्धां उत्पादयित्वा ततः श्रद्धातः कर्मतत्फलोपभोगसाधनपञ्चमहाभूतानि असृजत। तत्र खं शब्दगुणकम्।शब्दस्पर्शगुणको वायुः। शब्दस्पर्शरूपगुणको ज्योतिः अग्निः। शब्दस्पर्शरूपरसगुणवत्य आपः। शब्दस्पर्शरूपरसगन्धगुणात्मिका पृथिवी। तथा तैरेव भूतैः कर्मज्ञानभेदेन द्विप्रकारं इन्द्रियजातम्। तदनुग्राहकत्वेन कामसंकल्पादिवृत्तिमन्मनः। एवं व्यष्टिसमष्टिकार्यं करणं च सृष्ट्वातत्स्थितिहेतुव्रीहियवादिलक्षणं अन्नम्।ततोऽद्यमानात् अन्नात् वीर्यं बलं प्रजोत्पादनसामर्थ्यम्। तस्य सर्वकर्मप्रवृत्तिसाधनत्वात्, “

स यदा बली भवति अथ उत्थाता भवति” इत्यादिश्रुतेः। एवं वीर्यवत्प्राणिनां तपः कृच्छ्रचान्द्रायणादिसम्यगालोचनं वा, तस्य चित्तशुद्धिसाधनत्वात्। तपोविशुद्धान्तर्बहिःकरणवन्मन्तारं त्रायन्त इति मन्त्राः ऋग्यजुस्सामाथर्वाङ्गिरसः, तेषां सर्वकर्मतत्त्यागज्ञानसाधनत्वात्। कर्म तावदग्निहोत्रादिलक्षणम्। ततः कर्मफलभूता लोकाः। तेषु लोकेषु च तत्प्रविभक्तवस्तूनां नाम च देवदत्त इत्यादि। एवं एताः षोडशकलाःतैमिरिकदृष्टिदृष्टद्विचन्द्रमशकमक्षिकाद्या इव स्वाज्ञदृष्टिविकल्पितप्राणिकर्मापेक्षया विसृष्टाः स्वप्नदृष्टपदार्थवत् गन्धर्वनगरवच्च मिथ्याभूता इत्यर्थः॥४॥

आरोपितकलानां पुरुषात्मता

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति॥५॥

पुनस्ताः स्वज्ञदृष्ट्या नामरूपादिविभागं विहाय स्वकारणे प्रलीयन्त इत्यत्र दृष्टान्तमाह–स यथेति। यथा लोके इमाः नद्यः स्यन्दमानाः

स्रवन्त्यः समुद्र एवायनं परा गतिर्यासां ताः समुद्रायणाः समुद्रं प्राप्य अस्तं स्वरूपतिरोधानतां गच्छन्ति। तासां गङ्गागोदावरीत्यादिनामरूपे भिद्येते। ततः समुद्र इत्येवं प्रोच्यते। दार्ष्टान्तिकमाह–एवमिति। यथा अयं दृष्टान्तः तथा इयं उक्तलक्षणस्य पुरुषस्यास्य परिद्रष्टुःदर्शनकर्तृस्वरूपस्य सर्वावभासकस्य भास्यत्वेन इमाः प्राणादिनामान्ताः षोडशकलाःपुरुष एवायनं पर्यवसानं यासां ताः पुरुषायणाः पुरुषं स्वापवादाधिकरणरूपं प्राप्यास्तं गच्छन्ति। भिद्येते चासां नामरूपे ब्रह्मविद्भिः प्राणादिनामान्तकलापवादाधारः पुरुष इत्येवं प्रोच्यते। परमार्थदृष्ट्या किम्? इत्यत आह–स एष इति। प्राणादिनामान्तकलारोपापवादकलनापह्नवसिद्धब्रह्ममात्रतया यो विराजते सोऽयं एष निष्प्रतियोगिक\।कलः निष्कल इत्यर्थः। स्वाज्ञस्वज्ञदृग्विभातषोडशकलाकलनात्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वा अस्तिनास्तीति विभ्रमो हि मृत्युः यत्सम्यज्ज्ञानतोऽपह्नवपदं भजति सोऽयं अकलो निष्प्रतियोगिकामृतो भवति।

ततस्तिमितगम्भीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत् किञ्चिदवशिष्यते॥

इति श्रुतेः॥५॥

निर्गुणज्ञानफलं ऋक्सम्मतिश्च

तदेष श्लोकः–

अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति॥६॥

उक्तार्थमेष मन्त्रोऽप्याह–तदेष श्लोको भवतीति। यथा रथनाभौ रथचक्रपरिवारा अराः प्रवेशिताः तदाश्रया भवन्तीत्यर्थः, तथा यस्मिन् पुरुषे प्राणादिनामान्तषोडशकलाः प्रतिष्ठिताः स्वज्ञदृष्ट्या पुरुषमात्रतां गताश्च। परमार्थदृष्ट्या यत्र प्राणादिनामान्ताः षोडशकलाः सन्तीति विभ्रमापह्नवोक्ति-

रप्यपह्नवतां भजेत्, तं निष्प्रतियोगिकब्रह्ममात्रतया वेदनीयं वेद्यं–तस्य निष्प्रतियोगिकपूर्णरूपत्वात्–पुरुषं यो यथा वेद तद्वेदनसमकालं स तन्मात्रतां भजति। तथा हे शिष्याः! वः युष्मान् स्वातिरिक्तकला अस्तिनास्तीति विभ्रमरूपो मृत्युः मा परिव्यथाः परितो व्यथां मा करोतु। निष्प्रतियोगिकनिष्कलः पुरुषः स्वमात्रतया भात्त्वित्यर्थः। एवं यो न वेद स स्वातिरिक्तमृत्युग्रस्तो भवेत् इत्यभिप्रायः॥६॥

वक्तव्यार्थपरिसमाप्तिः

तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति॥७॥

एवं शिष्यान् प्रति पूर्णानुग्रहं कृत्वा इतो वक्तव्यांशमस्तीति भ्रमं मार्जयन्नाचार्यः तान् होवाचेत्याह–तान् होवाचेति। स्वातिरिक्तप्राणादिनामान्तषोडशकलातत्कार्यजातापह्नवसिद्धं निष्प्रतियोगिकस्वमात्रतया वेदनीयं एतावदेव । एतत् परं ब्रह्म वेदाहं न ह्यतः परं वेदितव्यं किञ्चित् अस्तीति पिप्पलादाचार्यः तान् शिष्यान् उवाच। किल। “

नातः परं वेदितव्यं हि किञ्चित्” इति श्रुतेः॥७॥

आचार्यपूजनम्

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति। नमः परमऋषिभ्यो नमः परमऋषिभ्यः॥८॥

आत्मविद्याविनिष्क्रयस्य,

सप्तद्वीपवती भूमिः दक्षिणा नावकल्पते।

इति श्रुत्यनुरोधेन विद्याविनिष्क्रयमन्यदपश्यन्तः ते शिष्याः तत्पादयोः पुष्पाञ्जलिप्रकिरणेन तमर्चयन्तः पदे पदे नमस्कारपूर्वकं विस्मयाविष्टाः सन्तः स्तुवन्ति। त्वं हि नोऽस्माकं पिता निष्प्रतियोगिकब्रह्ममात्रज्ञानजनयितृत्वात्।

यतः स्वाविद्यासागरपारं तारयसि अस्मान्, अतः पितृत्वं तवोपपन्नम्। यः शरीरमात्रं जनयति सोऽपि पूज्यतरो दृश्यते। किमु वक्तव्यं ब्रह्मभावदातुः? इत्यभिप्रायः। त्वादृशेभ्यो नमः परमऋषिभ्यो नमः परमऋषिभ्यः इति द्विर्वचनं प्रश्नोपनिषत्परिसमाप्त्यर्थम्॥८॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।

प्रश्नोपनिषदो व्याख्या लिखिता ब्रह्मगोचरा।
एतद्विवरणग्रन्थोऽशीतिपञ्चशतं स्मृतः॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे चतुस्संख्यापूरकं
प्रश्नोपनिषद्विवरणं सम्पूर्णम्

________

मुण्डकोपनिषत्

भद्रं कर्णेभिः–इति शान्तिः

प्रथममुण्डके प्रथमः खण्डः

विद्यास्तुतये विशिष्टगुरुपरम्परा

ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥१॥

अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्।
स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्॥२॥

यद्ब्रह्माश्रित्य वर्तेते विद्याविद्ये महाभ्रमे।
तदपह्नवसंसिद्धं तदहं परमाक्षरम्॥

इह खलु अथर्वणवेदप्रविभक्तमुण्डकशाखामस्तकमुण्डकोपनिषदारभ्यते। उपनिपूर्वस्य षद्लृतोरर्थस्मरणात् ये ब्रह्मविद्यामुपयन्ति तद्गर्भजन्माद्यनर्थवातं शातयति, स्वाविद्यामवसादयति, निरविद्यं ब्रह्म वा गमयतीति ब्रह्मविद्या उपनिषदुच्यते। आख्यायिका तु विद्यास्तुत्यर्था। ब्रह्मविद्यासंप्रदायकर्तृपारंपर्यदर्शनात्। “ब्रह्मा देवानां” इत्याद्यथर्वाद्यैः महद्भिः परमपुमर्थसाधनत्वेन

ब्रह्मविद्या लब्धेति विद्यायां स्तुतायां तत्र सर्वे प्रवर्तेरन्निति विद्या महीकृता। विधिप्रतिषेधसाध्यसाधनविषयत्वेन ऋग्वेदादिलक्षणापरविद्यायाः सकामिनां “अविद्यायामन्तरे वर्तमानाः” इत्यादिना संसारहेतुत्वेऽपि निष्कामिनां कर्मफलार्पणतुष्टेशप्रसादतः सत्त्वशुद्धिद्वारा सर्वकर्मत्यागलक्षणब्रह्मविद्याहेतुत्वमवगम्यते। “न कर्मणा न प्रजया धनेन,” “वेदान्तविज्ञानसुनिश्चितार्थाः” इत्यादिना अपरविद्यासाधननिष्पन्नपरविद्यायाःस्वोत्पत्तिसमकालं परमाक्षरमवगम्यते। “ययातदक्षरमधिगम्यते यत्तदद्रेश्यं” इत्यादिना प्रबोधसमकालं तद्भावापत्तिरिह श्रूयते। “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिना शास्त्रादावेवानुबन्धचतुष्टयस्य प्रकटितत्वान्नेह वक्तव्यमस्तीति। एवमुक्तलक्षणलक्षितोपनिषदोऽल्पग्रन्थतो विवरणमारभ्यते–ब्रह्मा देवानां इत्यादिना। षड्गुणैश्वरसंपत्त्या ब्रह्मा हिरण्यगर्भो द्योतनवतां इन्द्रादिदेवानां प्रथमः प्रधानः सन् अग्रे संबभूव आविर्बभूवेत्यर्थः “हिरण्यगर्भः समवर्तताग्रे” इति श्रुतेः। यथा कर्मवशात्संसारिणो जायन्ते न तथायमाविर्बभूव, तस्य निरावृतत्वेन स्वांशजप्राण्यदृष्टायत्तस्वतन्त्रत्वात्। स हि विश्वस्य कर्ता चतुराननरूपेण विश्वकृत्त्वात्। स्वोत्पन्नविश्वस्य विष्णुरूपेण गोप्ता। स्वनिष्ठाद्वयदूषकशासनपूर्वकं तदनुवर्तिसज्जनपालयितृत्वात्। एवं ब्रह्मण उक्तविशेषणं विद्यामाहात्म्यं ख्यापयति। स हि ब्रह्मा स्वातिरिक्तापह्नवतः स्वमात्रतयोपबृंहणात् ब्रह्म। तस्य “येनाक्षरं पुरुषं वेद सत्यं” इति ब्रह्मविद्या। यद्वा–ब्रह्मणा उक्तेति वा ब्रह्मविद्या। तां सर्वविद्याभिव्यक्तिहेतुत्वेन “येनाश्रुतं श्रुतं भवति” इति सर्वविद्यावेद्यं वस्तु यत्र प्रतितिष्ठति तां सर्वविद्याप्रतिष्ठां अथर्वाय ज्येष्ठपुत्राय प्राह उपदिदेशेत्यर्थः। ब्रह्मणा सृष्टप्राणिषु अस्य प्रथमसृष्टत्वात् ज्येष्ठत्वम्॥१॥ पुरा हि ब्रह्मा यां अथर्वणे प्रवदेत प्रावदत्तामेव ब्रह्मविद्यामथर्वा पुरा अङ्गिरे अङ्गिर्नाम्ने उवाच। स चाङ्गिर्भारद्वाजाय भारद्वाजगोत्राय सत्यवाहाय प्राह। स हि भारद्वाजोऽङ्गिरसे स्वपुत्राय शिष्याय वा। परस्मादाचार्यादवरेण शिष्येण प्राप्तेति परावराम्। परः परमात्मा अवरः प्रत्यगात्मा तद्गतविशेषांशापाये तदुभयैक्यविषयेति वा परावराम्। प्राहेत्यनुषज्यते॥२॥

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ।
कस्मिन्नु भगवो! विज्ञाते सर्वमिदं विज्ञातं भवति? इति॥३॥

शुनकस्यापत्यं शौनकः गार्हस्थ्यधर्मनैपुण्यात् महाशालो मुनिः भारद्वाजशिष्यं अङ्गिरसं विधिवत् यथाशास्त्रं उपसन्नः सन् पप्रच्छ। शौनकाङ्गिरसोः पुरा विधिवद्विशेषणादर्शनादुपसदनविधिरनियत इत्यवगम्यते। उभयमध्यपाती दीपन्यायार्थो वा मर्यादाप्रदर्शनार्थो वायं विधिरवगम्यताम्। “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इति वक्ष्यमाणश्रुत्यनुरोधेनोपसदनविधेरिष्टत्वात्। किमयं पप्रच्छ? इत्यत आह–कस्मिन्नु? इति। नु इति वितर्के। भगवो हे भगवन्! कस्मिन् निष्प्रतियोगिकस्वमात्रतया विज्ञाते यत् स्वाज्ञादिदशायां स्वातिरिक्तं आत्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वा विदितं अवगम्यते, तत् सर्वमिदं विश्वं परमार्थदृष्ट्या तद्गतयांशापवसिद्धब्रह्ममात्रतया विज्ञातमवगतं भवतीति श्रुत्याचार्यमुखतः सामान्यतो विदित्वा तदियत्तां विशेषतोऽवगन्तुं पप्रच्छेत्यर्थः॥३॥

अङ्गिरसो विद्योपदेशः

तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च॥४॥

आचार्यः शौनकप्रश्नप्रतिवचनं सोपायमाह–तस्मै इति। स्वमात्रस्वातिरिक्तगोचरत्वेन ब्रह्मविदः परमार्थदर्शिनो यद्भावाभावगोचरविद्याविद्येयत्तां वदन्ति ते द्वे विद्ये अपि वेदितव्ये। ह किल। के ते? इति। परा च परमात्मविद्या। अपरा च विधिप्रतिषेधात्मकधर्माधर्मतत्साधनतत्फलस्वर्गचित्तशुद्ध्यादिविषया॥४॥

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते॥५॥ यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः॥६॥

न च, कस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति? इति शौनकप्रश्नानुरोधं तत्स्वरूपे वक्तव्ये सति तद्विहाय “द्वे विद्ये वेदितव्ये” इति अपृष्टोत्तरं उक्तमिति वाच्यम्। वक्तव्यप्रतिवचनस्य क्रमाकांक्षत्वात्। न ह्यविद्यानिरसनं विना ब्रह्मविद्या स्थातुं पारयतीत्यविद्येयत्तापरिज्ञानं विना सापह्नोतुंन हि शक्येत्यतदपह्नवपूर्वकं तन्मात्रस्वरूपं वक्तव्यमिति–परा चैवापरेत्यत्र “पाठक्रमादर्थक्रमो बलीयान्” इति न्यायाच्चेति–आदावपरविद्यास्वरूपमुच्यते–तत्रेति। ऋग्वेदादिविभागेन वेदाश्चत्वारः। शिक्षादीनि वेदाङ्गानि षट्। अङ्गानामङ्गिरक्षणार्थत्वात्। तत्र कर्मोपासनाभागस्य स्वाज्ञदृष्टिगोचरापरब्रहाविषयत्वादियमपरविद्योक्ता। परविद्यास्वरूपं विवृणोति–अथेति। अथ अपरविद्यापरिज्ञानानन्तरं “यत्तदद्रेश्यम्” इत्यादिवक्ष्यमाणलक्षणमक्षरं क्षरसापेक्षप्रभवाक्षरगतहेयांशापाये यया निष्प्रतियोगिकब्रह्ममात्रमवगम्यते स्वावशेषतया प्राप्यते सेयं परा विद्योच्यते। अधिगम्यत इत्यत्र अधिपूर्वस्य गमेः प्राप्त्यर्थत्वात् ग्रामान्तराप्तिवत्तदाप्तिः स्यादिति चेन्न; ब्रह्मणः स्वमात्रत्वात्। न हि स्वमात्रे स्वप्रवेश उपपद्यते, कर्मकर्तृविरोधात्।

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु। इति,

“आप्तिः स्वमात्रावशेषो न हि ग्रामान्तराप्तिवत्” इति च श्रुतेः परमाद्वैत सप्तकोक्तेश्च। यदि ऋग्वेदादिबाह्या तदा सा परा विद्या स्यात्। यदि

ऋग्वेदाद्यन्तर्गता तदानीमपरविद्येयं स्यात् इति चेन्न; तत्र ज्ञानकाण्डपृथक्करणात्। ऋगादिचतुर्वेदगतकर्मोपासनाकाण्डद्वयस्यापरब्रह्मगोचरत्वेनापरविद्यात्वेऽपि ऋगादिवेदप्रविभक्ततत्तच्छाखामस्तकाभिधोपनिषद्भागस्य ज्ञानकाण्डत्वेन स्वमात्रतया ज्ञेयवस्तुगोचरत्वात् प्राधान्येन तद्विज्ञानं हि पराविद्येति विवक्षितम्। न उपनिषच्छब्दराशिर्विवक्षितः। तस्य स्वातिरिक्तहेतोस्त्याग उपपद्यत इत्यत्र—

ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः॥

इति श्रुतेः। उपनिषदस्तर्हि निरर्थका इति चेन्न; विद्याहेतुत्वात्। तदर्थविचाराद्धि विद्या उत्पद्यते। नातः तासां नैरर्थक्यम्। मुमुक्षुभिः ग्राह्या एव वेदा उपनिषदश्च।

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः।

मूढव्रातनिषेव्यास्ता नादर्तच्या मुमुक्षुभिः॥

इति स्मृतितो विद्योत्पत्त्यहेतुश्रुतिस्मृतितन्निष्पाद्यकर्मतत्फलानां कुदृष्टिविषयत्वेन परमार्थफलास्पर्शित्वात् त्यक्तव्यता स्यात्। ब्रह्ममात्राधिगमात् पुरा कर्तृकारकाद्यनेकोपकरणविजृंभिताग्निहोत्रादिकं कर्मानुष्ठेयम्। निष्कामस्य चित्तशुद्धिहेतुत्वात्। न हि तथा परविद्याविषये किचिदप्यनुष्ठेयमस्ति, तदधिगमसमकालं स्वातिरिक्तकलनायाः परिसमाप्तत्वात्।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।

इति स्मृतेः। ज्ञानेतराणां ज्ञानपरिसमाप्तत्वेऽपि ज्ञानस्य विद्यमानत्वात्कथं ब्रह्ममात्रसिद्धिः? इति चेन्न; स्वातिरिक्तापह्नवीकरणपटुज्ञानस्यापि स्वातिरिक्तापह्नवसमकालमपह्नवं गतत्वान्निष्प्रतियोगिकब्रह्ममात्रमवशिष्यत इत्यर्थः॥५॥ तादृग्विद्यावेद्यं किम्? इत्यत आह— यत्तदिति। यत् अद्रेश्यं अदृश्यं बुद्धीन्द्रियागोचरत्वेनालुप्तदृक्स्वरूपत्वात्। तथा अग्राह्यं कर्मेन्द्रियाविषयत्वात्। अगोत्रं अनन्वयत्वात्। न हि येनान्वितं स्यात्तन्मूलमस्ति। तथा अवर्णं मूर्तमूर्तद्रव्यधर्मत्वेनावर्णनीयत्वात्। अचक्षुःश्रोत्रं रूपनामादिकलनागोचरत्वात्। “यः

सर्वज्ञः सर्ववित्” इति श्रुतितः चेतनवद्विशेषणात् संसारिवत् चक्षुरादिकरणैरर्थसाधकत्वं स्थादिति चेन्न; स्थूलशरीरतदवयवकर्मेन्द्रियवैरल्यात्। तदपाणिपादं स्वातिरिक्तकरणग्रामाभावेऽपि सर्वार्थग्राहकशक्तिः स्यादित्यत्र—

अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः।

इत्यादिश्रुतेः। यत एवमदृश्यत्वादिविशेषणविशिष्टं अत एव नित्यं अविनाशित्वात्। ब्रह्मादिस्तम्बान्तविविधजन्तुरूपेण भवतीति विभुं सर्वव्यापकत्वात् सर्वगतं पञ्चीकृतापञ्चीकृतशब्दस्पर्शादिवैरल्यात् सुसूक्ष्मम्। किञ्च अद्रेश्यमित्यादिविशेषणविशिष्टत्वेन स्वाङ्गापायतः कोशापायतो गुणतो वा कदाचिदपि यन्न व्येति तदव्ययम्। अशरीरत्वात् अक्षतिमत्त्वात् निर्गुणत्वाच्च यदेतत्सर्वात्मकमक्षरं घटादीनां मृदादिवत् सर्वभूतानां योनिं कारणम्। न हि मृदिव कारणान्तरापेक्षं किन्तु अभिन्ननिमित्तोपादानकारणं,

स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः।

इति श्रुतेः। यद्वा— स्वाज्ञदृष्टिप्रसक्तदृश्यग्राह्यान्वयमूर्तामूर्तकरणग्रामानित्यपरिच्छिन्नस्थूलव्ययकार्यभू तग्रामसापेक्षाद्रेश्यत्वादिद्वादशविशेषणविशिष्टवस्तुनः सविशेषत्वमवगम्यते।

दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न।
कार्यं चेत्कारणं किंचित्कार्याभावे न कारणम्॥

इत्यादिदृश्यकार्यसापेक्षदृगादिकारणान्तसविशेषश्रुतेः तद्गतविशेषांशापह्नवसिद्धं स्वमात्रमिति धीराः ब्रह्मविद्वरीयांसः परिपश्यन्ति। निष्प्रतियोगिकब्रह्ममात्रसिद्धेः अद्रेश्यमित्यादिविशेषणानां,

उपायत्वात् न ह्युपायं विनोपेयसिद्धिरिष्यते।
न ह्युपायं विना शक्यं साक्षात्कर्तुं चितः पदम्॥

इति ब्रह्मप्रणवोक्तेः। एवमुक्तविशेषणहेयांशापह्नवसिद्धं परमाक्षरं निष्प्रतियोगिकस्वमात्रमिति यया ब्रह्ममात्रगोचरविद्यया अधिगम्यते सैव परा विद्येति सुनिश्चितोऽर्थः॥६॥

** ब्रह्मणस्तटस्थलक्षणम्**

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति।
यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम्॥७॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्॥८॥

यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते॥९॥

स्वाज्ञदृष्टिप्रसक्तभूतयोनित्वेन यदक्षरं ईश्वराख्यमभिहितं तस्य भूतयोनित्वं सदृष्टान्तमाचष्टे—यथेति। लोके तावत् यथा ऊर्णनाभिःलूताकीटःकिंचिदपि कारणान्तरमनपेक्ष्य स्वशरीराव्यतिरेकेण तन्तून् स्वयमेव सृजते बहिर्विस्तारयति, पुनरपि तानेव तन्तून् गृह्णाति स्वात्मावशेषं करोतीत्यर्थः। यथा च पृथिव्यां व्रीह्याद्योषधयः पृथिव्यनतिरिक्ताः संभवन्ति। यथा च सतो विद्यमानात् पुरुषात् मस्तकतद्भिन्नशरीरापेक्षया केशाश्च लोमानि च संभवन्ति कारणविलक्षणानीत्यर्थः। तथा निमित्तान्तरानपेक्षात् अक्षरात् इह संसारमण्डले विलक्षणसलक्षणभेदेन विश्वं समस्तं जगत् संभवति आविर्भवतीत्यर्थः॥७॥ इत्थमनेकदृष्टान्तोपपादनं सुखप्रतिपत्त्यर्थम्। यदेवं ब्रह्मण उत्पद्यमानं विश्वं किं बदरमुष्टिप्रक्षेपवद्युगपत्संभवति? इत्याशङ्क्य क्रमात्संभवतीति तत्क्रमं विवृणोति—तपसेति। पूर्वोक्तभूतयोन्यक्षरं ब्रह्म तपसा भाविसिसृक्षानुकूलज्ञानेन चीयते उपचीयते। अनभिव्यक्तनामरूपमिदं जगत् उत्पिपादयिषदंकुरमिवोच्छूनतां गच्छति पुत्रमिव पिता हर्षेण। सृष्ट्यादिशक्तिमत्सर्वज्ञतया उपचितात् ततो ब्रह्मणः स्वाज्ञदृष्ट्या अद्यते भुज्यते इत्यन्नं अव्याकृतं प्राण्यदृष्टानुरोधेनाभिव्यक्तनामरूपतयान्तरभिव्यज्यते। ततश्च अव्याकृतात् व्याचिकीर्षितावस्थामापन्नात् अन्नात् प्राणःजगदङ्कुरो विश्वात्मा हिरण्यगर्भो जायत इत्यनुषज्यते। तस्मादुक्तलक्षणलक्षितप्राणात्संकल्पादिवृत्तिमत्

मनः। तस्मात् मनसः सत्याख्यं आकाशादिभूतपञ्चकमभिजायते। तस्मात् क्रमेण सप्तलोका भूरादयः। तेषु मनुष्यादिप्राणितत्तदुचितवर्णाश्रमाचारक्रमेण कर्माणि तदनुष्ठाननिष्पन्नफलं ह्यमृतम्। यावत्कर्मजातं न नश्यति तावत् फलमपि न नश्यतीत्यमृतमित्युक्तम्॥८॥ कथं पुनरेकस्मादक्षरात् नामाद्यमृतान्तं विश्वं जातम्?इत्याशंक्याक्षरस्य सर्वात्मकत्वेन सर्वज्ञत्वात् तस्मादेव सर्वं जायत इत्यन्योऽपि मन्त्र आह—यः इति। यः सामान्यतः सर्वं जानातीति सर्वज्ञः विशेषतः सर्वं वेत्तीति सर्ववित्। यस्य तपः सृष्ट्यालोचनमपि स्वातिरिक्तं मिथ्या स्वयं सन्मात्रमिति ज्ञानमयम्। स्वातिरिक्तसिसृक्षाया विकारत्वेन—विकारार्थे मयट्—तपसः सर्वज्ञलक्षणत्वात्। तस्मात् सर्वज्ञात् एकस्मादक्षरादेव एतत् ब्रह्म हिरण्यगर्भाख्यं, असौ देवदत्त इत्यादि नाम, शुक्लकृष्णादिभेदेन रूपं, व्रीहियवादिलक्षणं अन्नं च क्रमेण जायते॥९॥

_________

प्रथममुण्डके द्वितीयः खण्डः

अपरविद्यायाः प्रशंसा

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके॥१॥

** **पूर्वस्मिन् खण्डे ऋग्वेद इत्यादिसाङ्गवेदराशिः अपरविद्यात्वेनाभिहितः। “यत्तददेश्यं” इत्यादि“अन्नं च जायते”इत्यन्तेन यया विद्यया अक्षरमधिगम्यते सा परा विद्या इति विशेषतोऽभिहिता। अतः परं बन्धमोक्षौ अनयोर्विषयौ वक्तव्यावित्युत्तरो ग्रन्थ आरभ्यते। तत्र ऋगादिचतुर्वेदप्रतिभक्त-

कर्मोपासनाकाण्डगोचरकर्तृकारकक्रियोपासनातत्फलवैचित्र्यसंसार एव हि बन्धः। यावन्निष्प्रतियोगिकब्रह्ममात्रज्ञानं नोदेति तावदयमनादिरनन्तो नैसर्गिक इव भाति। तत्सर्वानर्थापवादाधाररूपो हि मोक्षः। तत्राधेयनिरूपिताधारगतहेयांशापह्नवसिद्धपरविद्यावेद्यब्रह्ममात्रप्रतिष्ठालक्षणः परमाक्षरो निष्प्रतियोगिकानाद्यनन्तो नैसर्गिकः स्वमात्रमवशिष्यते। पूर्वं तावदपरविद्यापरिज्ञानं विना न हि तत्र निर्वेदो जायते। तथा च “परीक्ष्य लोकान्” इत्यादिना वक्ष्यति। न हि अत्यन्तापरिज्ञातापरविद्यायां परीक्षा उपपद्यत इत्यपरविद्येयत्तां विवृणोति—तदेतत्सत्यमित्यादिना। कवयः क्रान्तदर्शिनो वसिष्ठादयः ऋग्वेदादिमन्त्रेषु तैरेव प्रकाशितानि यानि अग्निहोत्रादिकर्माणि अपश्यन् दृष्टवन्त इति यत् तदेतत्सत्यम्। यावत्स्वाज्ञानं तावदवितथं स्वर्गादिफलसाधनत्वात्। तानि च वेदविहितत्वेन ऋषिपूगदृष्टान्यग्निहोत्रादिकर्माणि होत्राध्वर्यवौद्गात्रप्रकारकत्रेतायां त्रयीसंयोगलक्षणायां त्रेतायां वा युगे प्रायशो बहुधा कर्मिभिः—कर्मणां क्रियमाणत्वात्—सन्ततानि संप्रवृत्तानि। अतो यूयं सत्यं स्वार्जितकर्मफलं तद्विषयककामो येषां ते सत्यकामाः सन्तः नियतं सर्वदा तानि अग्निहोत्रादिकर्माण्येवाचरथ निर्वर्तयथेत्यर्थः। स्वयं निर्वर्तितसुकृतस्य कर्मणः फलं यत्र लोक्यते दृश्यते भुज्यत इति लोकः। तस्मिन् लोके स्वर्गादौ गत्वा कर्मफलाप्तये वो युष्माकं एष हि पन्थाः मार्गः। यानि त्रयीविहितानि अग्निहोत्रादिलक्षणानि तानि एष पन्थाः नान्यः कर्मफलाप्तयेऽस्तीत्यर्थः॥१॥

** अग्नावाहुतेः कर्तव्यताप्रकारः**

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने।
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्॥२॥

कर्मणामग्निहोत्रस्य प्राथम्यात् तत्प्रकारं विशिनष्टि—यदेति। यदा यस्मिन्काले इन्धनैः सम्यगिद्धे समिद्धे वर्धिते हव्यवाहने अर्चिः ज्वाला लेलायते चलज्जिह्वायते, तदा तस्मिन् काले लेलायमाने चलत्यर्चिषि आज्यभागौ आग्नेयः सौम्यश्चेति तयोरन्तरेणावापस्थाने देवतोद्देशेनाहुतीः प्रतिपादयेत्

प्रक्षिपेदित्यर्थः। आहुतीरिति बहुवचनं अनेकाहःकरणापेक्षया ज्ञेयम्। एवं सम्यगाहुतिप्रक्षेपादिलक्षणः कर्मफलप्राप्तये पन्था एष एवेत्यर्थः॥२॥

अग्निहोत्राकरणनिन्दा

यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च।

अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति॥३॥

** **तस्य वहुपरिपन्थित्वात्तद्दुष्करतां स्पष्टयति यस्येति। यस्य अग्निहोत्रिणो गृहस्थस्याग्निहोत्रं दर्शाख्यकर्मणा वर्जितमित्यदर्शं आवश्यकत्वात्। अग्निहोत्रसंबन्धि हि दर्शम्। तदकरणतोऽग्निहोत्रं व्यर्थं भवेदित्यर्थः। तथा पौर्णमासमित्याद्यग्निहोत्रविशेषणं द्रष्टव्यम्। अपौर्णमासं पौर्णमासकर्मवर्जितम्। शरदादिकर्तव्याग्रयणकर्मवर्जितं अनाग्रयणम्। अहरहःकर्तव्यातिथिपूजा यत्र न क्रियते तदतिथिवर्जितं च। अग्निहोत्रकालमतिक्रम्य हुतं अहुतम्। दर्शादिवत् अविधिना हुतं अहुतमिति वा। वैश्वदेववर्जितं अवैश्वदेवम्। एवमङ्गविकलाग्निहोत्रादिकं कर्म कि करोति? इत्यत आह—हिनस्तीति। तस्यैवं कर्मकर्तुः सप्तजन्मार्जितसुकृततत्फलसहितान् आसप्तमान् पुण्यलोकान् हिनस्ति। यद्वा—सम्यक् क्रियमाणकर्मफलात्मकभूरादिसप्तसहितानासप्तमान् लोकान् हिनस्तीत्युक्तिः आयासमात्रपर्यवसन्नेत्यर्थः। अथवा आत्मपितृपितामहप्रपितामहपुत्रपौत्रप्रपौत्राः स्वात्मोपकारकाः सप्त लोका अपि इत्थंभूतकर्मणा न भवन्तीत्यायासमात्रता अवशिष्यत इति हिनस्तीत्युक्तम्॥३॥

सप्तानामर्चिषां निरूपणम्

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः॥४॥

** **यथावदनुष्ठिताग्निहोत्रकर्मणो यथोक्तफलं स्पष्टयति—कालीति। काल्यादिविश्वरुच्यान्ता लेलायमाना अग्नेर्हविराद्याहुतिग्रसनार्थाः सप्त जिह्वा भवन्ति॥४॥

अग्निहोत्राहुतीनां फलम्

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः॥५॥

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः॥

अग्निजिह्वाभेदं ज्ञात्वा तत्र होमफलमाह—एतेष्विति। योऽग्निहोत्री अग्निजिह्वाभेदेषु एतेषु काल्यादिरूपेण भ्राजमानेषु चरते अग्निहोत्रादिकर्माचरति यस्य कर्मणो यः कालः तं कालमनतिक्रम्य यथाकालं यजमानं आददायन् या यजमानेन आददाना आहुतयो निर्वर्तिताः एता आहुतयः सूर्यस्य रश्मयो भूत्वा यत्र स्वर्गे देवानां पतिः इन्द्रः एकः सर्वोपर्यधिवसतीत्यधिवासःभवति तत्र तं यजमानं नयन्ति प्रापयन्तीत्यर्थः॥५॥ कथं रश्मिभिर्वहन्तीत्यत आह—एहीति। कर्मभूमौ यजमानेन या हुता आहुतयः सुवर्चसो भूत्वा यजमानं एह्येहीत्याह्वयन्त्यः सत्यः स्तुतिलक्षणां प्रियां वाचं अभिवदन्त्यः अर्चयन्त्यश्च एष वो युष्माकं पुण्यः सुकृतो ब्रह्मलोकःस्वर्गः। प्रकरणात्यथावत् हुताहुतयो यजमानं स्वर्ग प्रापयन्तीत्यर्थः॥६॥

कर्मणां श्रेयोमूलत्वाभावः

ल्पवा ह्येते अदृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति॥७॥

इत्थं स्वर्गफलदं कर्म सर्वैरप्यनुष्ठेयं “कुर्वन्नेवेह कर्माणि"इति यावज्जीवं कर्मकर्तव्यश्रुतेः—इत्याशंक्य यावज्जीवादिश्रुतेः स्वाज्ञगतिकत्वात् न हि स्वज्ञपदमारोढुमिच्छुः तद्वर्त्म स्पृशति तस्य ज्ञानगन्धविकलसेवनीयत्वात्। यत एवैतदविद्याकामकृद्भाव्यं, अतो निस्सारं दुःखात्मकमिदमिति तद्वर्त्म निन्द्यते—प्लवा इति।

यस्मादेते यज्ञस्य रूपाणि यज्ञरूपाः अदृढाः जर्झरीभूतकाष्ठरज्जुबन्धवदस्थिराःप्लवा हि विनाशिन इत्यर्थः। एते यज्ञनिर्वर्तकाः षोडशर्त्विजः पत्नी यजमानश्चेति अष्टादशसंख्याका इति शास्त्रेणोक्तम्। येष्वष्टादशसु अवरं कर्म केवलज्ञानविरलत्वादवरत्वम्। अतः तेषामवरकर्माश्रयाणामष्टादशानां कुण्डनाशे क्षीरदध्यादिनाशवत् कर्माणि तत्फलेन साकं प्लवन्त इति। अदृढतया प्लवत्वात्। यत एतत्कर्मवर्त्मानुसरणं श्रेय इति कर्मफलपटावृतदृष्टयो मूढा येऽभिनन्दन्ति हृष्यन्ति क्वचित्कालं स्वर्गे स्थित्वा फलभोगक्षयतः पुनरेव जराञ्च मृत्युञ्च तदुपलक्षितं जन्मापि यन्ति॥७॥

अविद्वन्निन्दा

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः॥८॥

इतश्च ते निन्द्यन्ते—अविद्यायामिति। अविवेकप्रधानाविद्यायां अन्तरे मध्ये वर्तमाना अपि स्वयं धीराः विदितवेदितव्यमिथ्यास्मयेन आत्मानं पण्डितं सकलकलावल्लभं मन्यमानाः। किंच जरारोगाद्यनेकानर्थपरंपरया जंघन्यमाना हन्यमानास्सन्तः यथा अन्धेनैव अन्धाः नीयमानास्सन्तः गर्तकण्टकादौ पतन्ति तथा अमी मूढाः कर्मिणः परियन्ति बंभ्रमन्तीत्यर्थः॥८॥

कर्मिणां यातायातक्लेशः

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः।
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते॥९॥

इष्टापूर्तंमन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति॥१०॥

पुनरितोऽपि ते निन्द्यन्ते—अविद्यायामिति। बहुधा बहुप्रकारं अविद्यायां वर्तमानाः बालाः कर्मिणः वयं कृतार्था इति अभिमन्यन्ति अभिमानं कुर्वन्तीत्यर्थः। यत् यस्मात् एवं कर्मिणो रागात् कर्मफलाभिलाषतो यद्वेदितव्यं आत्मानात्मयाथात्म्यं तत् न प्रवेदयन्ति नैव जानन्ति। तेन आत्मानात्मयाथात्म्याविवेकेन कर्मफलभोगातुरास्सन्तः तद्भोगक्षयात् क्षीणलोकाः क्षीणकर्मफलाः स्वर्गात्च्यवन्ते॥९॥ इतश्च त एव निन्द्यन्ते—इष्टेति। श्रौतं कर्म इष्टम्। स्मार्तं कर्म पूर्तं च। एतदेव पुरुषार्थसाधनत्वेन वरिष्ठं मन्यमानाः चिन्तयन्तः ततोऽन्यत् आत्मज्ञानाख्यं श्रेयस्साधनं न वेदयन्ते। स्वदेहदारपुत्रादिषु आत्मात्मीयाभिमानप्रमत्ततया मूढा न जानन्तीत्यर्थः। ते हि मूढा नाकस्य पृष्ठे भूरादिलोकोपरिस्थाने सुकृते भोगायतने स्वर्गे कर्मफलमनुभूय पुनः इमं मानुषं लोकं तस्मात्तिर्यङ्नरकादिलक्षणं हीनतरं लोकं वा शेषकर्मणा साकं विशन्ति। एवमनन्तकल्पकोटिकालं जनिमृतिलक्षणसंसारचक्रे परिभ्रमन्तीत्यर्थः॥१०॥

उपासकानां ब्रह्मलोकप्राप्तिः

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा॥

ये हि निष्कामबुद्ध्यानुष्ठितज्ञानकर्मसमुच्चयसिद्धापरविद्यापरायणाः ते ह्यर्चिरादिमार्गेण ब्रह्मलोकं प्रयान्तीति स्फुटयति—तप इति। ये तु ज्ञानकर्मसमुच्चयानुष्ठातारो गृहस्था वानप्रस्थाः स्वाश्रमाचारसंपन्ना व्रतिनो यतयश्च स्वाश्रमोचितं कर्म तपश्च हिरण्यगर्भादिविषयविद्या श्रद्धा चेति तपःश्रद्धे समुच्चित्य उपरतकरणतः शान्ताः। ज्ञानप्राधान्यात् विद्वांसः व्रत्यादयः। भैक्षचर्यां चरन्तः परिग्रहाभावात्। अरण्ये ग्रामे वा उपवसन्ति। यत्र कुत्र वा वर्तमानाः सन्तः तपःश्रद्धे सेवन्त इत्यर्थः। ते हि व्रत्यादयः यत्र ब्रह्मलोकादौ अमृतः स पुरुषोऽव्ययात्मा हिरण्यगर्भो वर्तते। अपरविद्यागम्याः संसारगतयो यदन्ता यावत्संसारस्थायित्वं अव्ययत्वं स्वयाथात्म्यज्ञानावधिकत्वात्।

सूर्यद्वारेण सूर्योपलक्षितोत्तरमार्गेण पुण्यपापवैरल्यात् विरजा ब्रह्मलोकं प्रयान्ति। यत्राव्ययात्मा तत्र विरजाः प्रयान्तीत्यत्र तत्रत्यसालोक्यादिकमेव मुख्यामृतत्वमिति चेन्न; निष्प्रतियोगिकब्रह्ममात्रज्ञानवैरल्यात् तदवगतेः ज्ञानकर्मसमुच्चयतत्फलसालोक्याद्यपह्नवपूर्वकत्वात्। “तमेवं विद्वांस इहैवामृता भवन्ति” इति श्रुतेः परविद्यानिष्पन्नमुख्यामृतत्वस्य इहाप्रसक्तत्वात्। न ह्यकस्मान्मुख्यामृतप्रसङ्गोऽस्ति। तत्रत्यविरजस्त्वाव्ययत्वे तु आपेक्षिके भवतः। हिरण्यगर्भाप्तेःसाध्यसाधनक्रियाकारकफलनिष्पन्नत्वेन कालपरिच्छिन्नत्वेन च तद्भावविरलमुख्यफलाशास्यमानत्वात्॥११॥

कर्मफलेभ्यो निर्विण्णस्य गुरूपसदनम्

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्॥

अथेदानीं सकामनिष्कामकर्मतत्फलस्वर्गनरकब्रह्मलोकादपि विरक्तस्य परविद्याधिकारं दर्शयति—परीक्ष्येति। अपरविद्यातत्फलवैमुख्यपूर्वकं परविद्यातत्फलेयत्तां विजिज्ञासुः ब्राह्मणः यदेतदृग्वेदादिप्रविभक्तकर्मोपासनाकाण्डगोचरापरविद्याविषयं तत् स्वाविद्यावृतपुरुषानुष्ठेयम्। तस्यैव तत्राधिकृतत्वात्। ये तत्कृतकर्मफलभूता दक्षिणोत्तरमार्गलक्षणाःपुण्यलोकाः सन्ति, ये च प्रतिषिद्धविहितकर्मकरणाकरणदोषनिष्पन्ननरकतिर्यक्प्रेतपिशाचादिलोकाः सन्ति, तेषां स्थावराद्यव्यक्तान्तानां लोकानां बीजाङ्कुरवदितरेतरोत्पत्तिनिमित्तत्वेनानेकानर्थसंकुलत्वेन मायामरीच्युदकगन्धर्वनगरजलबुद्बुदफेनस्वप्नप्रपञ्चवत् प्रतिक्षणविनाशित्वेन कदलीगर्भवत् चित्रभित्तिवन्निस्सारमिथ्यामनोरमत्वेन च मिथ्यास्वरूपत्वात् इत्येतान्स्वाज्ञविकल्पितकर्मचितान् लोकान् प्रत्यक्षादिप्रमाणैरागमैश्च सम्यक् परीक्ष्य पृष्ठतः कृत्वा मिथ्याबुद्ध्या तत्र निर्वेदं वैराग्यं आयात् प्राप्नुयात्। निष्पूर्वो विदिरत्र वैराग्यार्थः। ततः किम्? इत्यत आह—नास्तीति। इह स्वाज्ञदशायां कश्चिदपि अकृतः पदार्थोनास्ति। सर्वपदार्थस्य स्वातिरेकेण कृतत्वान्मिथ्यात्वं

सिद्धमित्यर्थः। यद्वा—कृतेन कर्मणा तत्त्यागं विना अकृतो मोक्षो नास्तीति तत्प्रापिपयिषया तत्र निर्वेदमायादित्यर्थः। यस्मात् कर्मकार्यमनित्यं उत्पद्यं आप्यं विकार्यं संस्कार्यं, अतः सर्वथा कर्म अनित्यसाधनम्। नातः परं कर्मणो विषयोऽस्ति। यदेतद्विपरीतत्वेन निष्प्रतियोगिकनित्यं बन्धमोक्षमुमुक्षुभिराशास्यमानं तदेव हि मयापि लब्धव्यमिति मनीषया, “पश्यतेहापि सन्मात्रमसदन्यत्”, “ब्रह्ममात्रमसन्न हि’’ इति श्रुत्यनुरोधेन यत् स्वातिरिक्तसर्वासदपह्नवसिद्धत्वेन सन्मात्रमवशिष्यते, तद्विज्ञानार्थं सोऽयं ब्राह्मणः समिद्भारगृहीतपाणिः सन्शिष्याज्ञानमोचकत्वात् गुरुं अवगतवेदान्तपरमाशयत्वात् श्रोत्रियं परविद्यागोचरब्रह्ममात्रनिष्ठं अभिगच्छेत्। एवं गुरुमासाद्य प्रणिपातादिशुश्रूषया प्रसाद्य ब्रह्मविषयकप्रश्नान् पृच्छेत॥१२॥

विधिवदुपसन्नाय विद्योपदेशः

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्॥१३॥

एवमुपसन्नाय गुरुः किं वदेत्? इत्यत आह—तस्मा इति। स विद्वान् आचार्यः एवं यथावत् उपसन्नाय स्वातिरिक्तप्रशान्तचित्ताय अत एव शमान्विताय बाह्यान्तःकरणवृत्त्युपशमनोन्मुखाय तस्मै शिष्याय येन परविद्यात्मकब्रह्मविज्ञानेन अदृश्यादिलक्षणं परमाक्षरं निष्प्रतियोगिकपूर्णत्वात्पुरुषं, असल्लौकिकाद्यष्टदृष्टिगतानृतांशापह्नवसिद्धत्वात् सत्यं, निष्प्रतियोगिकस्वमात्रधिया वेद विजानाति। तत्त्वतः तामेव ब्रह्मविद्यां प्रोवाच प्रब्रूयादित्यर्थः। आचार्यस्याप्ययमेव नियमः। एवंभूतशिष्योद्धरणं कर्तव्यमित्यत्र—

यमेवैष विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्।
अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम्॥

इति श्रुतेः॥१३॥

________

द्वितीयमुण्डके प्रथमः खण्डः

ब्रह्मणस्तटस्थलक्षणविवरणम्

तदेतत्सत्यम्।

यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः।
तथाक्षराद्विविधाः सोम्य! भावाः प्रजायन्ते तत्र चैवापियन्ति॥१॥

प्रथममुण्डकेऽपरविद्यातत्कार्यत्वेन तत्फलत्वेन च यः संसारो वर्णितः स यत्र स्वाज्ञादिदृष्ट्या जन्मस्थितिभङ्गं भजति तस्य प्रतिक्षणं विकारित्वात्तदनृतम्। तदारोपापवादाधिकरणं यत् तत् सत्यम्। यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति तदक्षरम्। परविद्यानिष्पन्नं यत् अपरविद्याफललक्षणं सत्यत्वेनोक्तं तदापेक्षिकम्। इदन्तु परविद्याविषयम्। सर्वारोपापवादाधिकरणत्वेन सदा एकरूपत्वात्। तदेव परमार्थसत्यम्। “प्रोवाच तां तत्वतो ब्रह्मविद्यम्” इति यदुक्तं तदेतत्परविद्यागोचरं वस्तु तटस्थस्वरूपलक्षणाभ्यां सोपायमभिधातुमुत्तरो ग्रन्थ आरभ्यते—तदेतत्सत्यमित्यादिना। यदेतत्परविद्याविषयं तदेतत् सत्यम्। तस्य स्वातिरिक्तानृतग्रासत्वात्। यत् तदतिरिक्तं तदसत्यं तस्य मृग्यत्वात्। यद्यस्तीति भ्रान्तिः तदा कार्यं कारणपर्यवसानमित्यत्र दृष्टान्तमाह—यथेति। यथा समिदाज्यादिना सुदीप्तात् पावकात् सहस्रशः पावकावयवत्वेन तत्सरूपाःविस्फुलिङ्गाः प्रभवन्ते निर्गच्छन्ति, तथा उक्तलक्षणात् अक्षरात् हे सोम्य! नामरूपात्मकनानोपाधियोगात् विविधा बहुविधा भावा जीवाः स्वकारणाक्षरसरूपाः सन्तः प्रजायन्ते। पुनः तत्र चैवाक्षरे अपियन्ति। यथा घटशरावाद्याकाशव्यवहृतिः घटशरावादिनिष्ठा, वस्तुतो घटशरावादिसत्त्वासत्त्वाभ्यां तदवच्छिन्नाकाशं आकाशमात्रं, तथा देवदत्तोऽयमित्यादिव्यवहृतिःनामरूपावच्छिन्नशरीरनिष्ठा। वस्तुतः शरीरसत्त्वासत्त्वाभ्यां तदुपाधिभेदपरिच्छिन्नभावजातं निष्प्रतियोगिकभावरूपचैतन्यमात्रमित्यर्थः। भावाः प्रजायन्ते तत्र चैवापियन्तीति भावोत्पत्तिप्रलययोः स्वाज्ञदृष्टिगोचरत्वेन मिथ्यात्वम्। स्वज्ञदृष्ट्या तद्वैरल्यात्॥१॥

ब्रह्मणोऽसङ्गत्वम्

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः॥२॥

स्वाज्ञादिदृक्प्रसक्तक्षराक्षरगतहेयांशनिरसनपूर्वकं परमाक्षरस्वरूपं स्फुटीकरोति—दिव्य इति। स्वमात्रतया द्योतनात् दिव्यः। दिवि स्वे महिम्नि भवतीति वा दिव्यः। स्वे महिम्नि भवनान्मूर्तत्वमाशंक्याह—अमूर्त इति। सर्वमूर्तिसंबन्धवर्जित इत्यर्थः। तथा चेत्परिच्छिन्नता स्यादित्यत आह—पुरुष इति। स्वाज्ञदृष्टिप्रसक्तस्वकार्यपूर्णत्वात्। तदेव व्यक्तीकरोति—सबाह्येति। स्वव्याप्यस्वातिरिक्तप्रपञ्चबाह्याभ्यन्तरेण सह वर्तत इति सबाह्याभ्यन्तरः। जनिमत्प्रपञ्चयोगतः तथात्वमाशंक्याह—अज इति। कदापि न जायत इत्यजः अजरामृतस्वरूपत्वात्। “अजरोऽमृतोऽभयः” इति श्रुतेः। हिशब्देन वस्तुतो व्याप्यव्यापकताभावो द्योत्यते। स्वाज्ञदृष्ट्या प्राणादिसम्बन्धमाशंक्याह—अप्राण इति। स्वज्ञदृष्ट्या प्राणादिसम्बन्धस्य मृग्यत्वात्क्रियाशक्त्यात्मकः प्राणोऽयं न स्पृशति सोऽयं अप्राणः। तथा ज्ञानेच्छाशक्त्यात्मकमनआदिकरणजालमपि न हि यं स्प्रष्टुं पारयति सोऽयं अमनाः। अप्राणो ह्यमना इत्यत्र हिशब्दतः सविषयप्राणादिपञ्चककर्मज्ञानाक्षदशकान्तःकरणचतुष्टयापवादो द्योत्यते। तदपि स्वाज्ञदृनिष्टमित्यत्र “ध्यायतीव लेलायतीव” इति श्रुतेः। परमार्थदृष्ट्या अयं शुभ्रः शुद्धः। स्वातिरिक्ताशुभ्रकरणग्रामापह्नवसिद्धत्वात्। स्वाज्ञादिदृक्प्रसक्तक्षराक्षरयोः सत्त्वात् शुभ्रत्वं कुत? इत्यत आह—अक्षरादिति। स्वाज्ञदृष्टिप्रसक्ताविद्यापदतत्कार्यजातं क्षरमुच्यते। तदपेक्षया तदारोपाधिकरणं अक्षरः परः शुभ्रः तदपेक्षया स्वज्ञदृष्ट्या अशुभ्रक्षरापवादाधिकरणम्। अक्षरात् परः शुभ्रः क्षरादिसर्वप्रपञ्चारोपापव्यदकलना यत्र अपह्नवपदमर्हति सोऽयमक्षरात् परतः परः। निष्प्रतियोगिकशुभ्र इत्यर्थः। न च प्राणादिकरणग्रामस्य परमाक्षरे ओतप्रोतत्वेन विद्यमानत्वात् कथं पुनरप्राणादिमत्त्वं? इति वाच्यम्। परमाक्षरावगतेः प्राणाद्यारोपाद्यपह्नवपूर्वकत्वात्। यदि हि स्वाज्ञदृष्ट्या स्वोत्पत्तेः पुरा प्राणादयः स्युः तदा

सप्राणादित्वम्। न त्वेवं परमाक्षरातिरेकेण प्राणादयः सन्ति तेषामदृष्टदृष्टनष्टस्वभावरूपत्वात्।

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा।

इति,

यन्नादौ यच्च नास्त्यन्ते तन्मध्ये भातमप्यसत्।

इति च गौडपादाचार्योक्तेः स्मृतेश्चअप्राणादिमत्त्वं सिद्धमित्यर्थः। तथापि स्वाज्ञदृष्ट्या प्राणादीनां विद्यमानत्वात्। तथा स्वज्ञदृष्ट्या परमाक्षरमपि विद्यते। तयोः कार्यकरणभावः कतरस्य? इत्याशंक्य वस्तुतः कार्यकारणकलनापह्नवसिद्धपरमाक्षरेऽपि स्वाज्ञादिदृष्टिमनुसृत्य तयोः कार्यकारणभावः॥२॥

ब्रह्मनिरूपणाय सप्तभिरध्यारोपः

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च।
स्वंवायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी॥३॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यांपृथिवी ह्येष सर्वभूतान्तरात्मा॥

तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम्।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संप्रसूताः॥५॥

तस्मादृचः साम यजूँषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः॥६॥

तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयाँसि।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च॥७॥

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त॥८॥

अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा॥९॥

स्फुटयति—एतस्मादिति। एतस्मात् अक्षरात् परतः परात् परमाक्षरादेव अपुत्रस्वाप्निकपुत्रवत् हिरण्यगर्भात्मकप्राणो जायते। ततः तदुपाधिभूतं मनः अन्तःकरणम्। तथा कर्मज्ञानाक्षभेदेन सविषयसर्वेन्द्रियाणि जायन्ते। तथा च शब्दगुणकं खं शब्दसहितस्पर्शगुणको वायुः पूर्वोक्तद्विगुणान्वितरूपगुणकं ज्योतिः त्रिगुणसहितरसगुणवत्य आपः चतुर्गुणसहितगन्धवती पृथिवी च विश्वस्य धारिणीत्येतानि पञ्चमहाभूतान्यपि जायन्ते। तस्मात् प्राणादि च यत्कार्यं तत्कारणं अक्षरमिति ज्ञेयमित्यर्थः। संक्षेपतो दिव्यो ह्यमूर्त इत्यादिना निर्विशेषस्वरूपमुक्तम्। तस्य सम्यज्ज्ञविषयत्वात् ॥३॥ इदानीं स्वाज्ञानामपि तत्पदारोहाय विस्तरेण सविशेषाक्षरस्वरूपं वक्तव्यमित्युत्तरग्रन्थमवतारयति—अग्निरिति। “असौ वाव लोको गौतमाग्निः” इति श्रुतितो द्युलोकोऽस्य मूर्धा भवति। अस्य चक्षुषी चन्द्रसूर्यौ भवतः। सर्वत्र अस्येति पदस्य यस्येत्यर्थः। दिशो यस्य श्रोत्रे भवन्ति। यस्य वेदा वाक् विवृता उत्पादिताश्च भवन्ति। यस्य वायुः प्राणः। यस्य अन्तःकरणोपलक्षितविश्वं हृदयम्। विश्वस्य अन्तःकरणविकारत्वात् पुनः स्वापे तत्रैव प्रलयदर्शनाच्च। पुनःजागरे अग्निविस्फुलिंगवत् अव्युच्चरितत्वात्। यस्य पद्भयां जाता पृथिवी स एष एवाविद्याण्डोपाधिकः सर्वभूतान्तरात्मा विराट्। सर्वभूतेष्वपि स हि द्रष्टा श्रोता मन्ता विज्ञाता सर्वकारणात्मा सन् पञ्चाग्निद्वारेण याः प्रजाः संसरन्ति ता अपि स्वविकल्पितबीजसूत्रविराद्वारेण परमाक्षरादेव जायन्ते। संक्षेपविस्तरेणोक्तं वस्तु सुखप्रतिपत्तये भवतीत्यर्थः॥४॥ “तस्मात् अग्निः” इत्यारभ्य “ओषधयो रसश्च” इत्यन्तानि तुर्यादिद्वारा परमाक्षारादेव जायन्त इत्युपक्रामति—तस्मादित्यादिना। तस्मात् यथोक्ताक्षरात् “असौ वाव लोको गौतमाग्निः’’ इति प्रजाभावमापन्नोऽग्निर्जायत इति सर्वत्रानुषज्यते।“सूर्येण द्युलोकः समिध्यते’’,‘‘यस्य सूर्यः समिध इव समिधो भवति आदित्य इव समित्”

इति श्रुतेः। द्युलोकान्निष्पन्नात् सोमात् पर्जन्यो द्वितीयोऽग्निः संभवति। “पर्जन्यो वाव गौतमाग्निः” इति श्रुतेः। ततः पर्जन्यादोषधयः पृथिव्यां संभवन्ति। “पुरुषो वाव गौतमाग्निः” इति श्रुतेः पुरुषाग्नौ हुताभ्य ओषधीभ्य उपादानभूताभ्यः पुमान् अग्निः “योषा वाव गौतमाग्निः” इति योषितायां योषिति रेतः सिञ्चति। इत्थं द्युपर्जन्यपृथिवीपुरुषयोषित्क्रमेण पुरुषात् बह्वीः बह्व्यः प्रजाः संप्रसूताः॥५॥ किञ्च—तस्मादिति। तस्मात् पुरुषात् नियताक्षरपादत्वेन गायत्र्यादिछन्दोविशिष्टमन्त्रा एवऋचः। पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभादिविशिष्टं गीतिरूपं साम च। अनियताक्षरपादावसानानि वाक्यरूपाणि यजूंषि। एवं त्रिविधा मन्त्रा मौण्डथादिकर्तृनियमलक्षणा दीक्षाश्च।अग्निहोत्रादयः सर्वे यज्ञाश्च। स्वयूपाः ऋतवश्चएकगवाद्या अपरिमितसर्वस्वान्ता दक्षिणाश्च। कर्माङ्गकालः संवत्सरश्च कर्ता यजमानश्च कर्मफलभूता लोकाश्च। दक्षिणोत्तरायणभेदेन सोमो यत्र लोकेषु लोकान् पवते पुनाति। यत्र च सूर्यस्तपति। उत्तरायणादिमार्गद्वयं विद्वदविद्वत्फलभूतम्॥६॥ किंच—तस्मादिति। वस्वादिगुणभेदेन कर्माङ्गभूताः देवाः तस्मादेव बहुधा संप्रसूताः। देवविशेषाः साध्याश्च कर्माधिकृता मनुष्याश्चग्राम्यारण्यपशवश्च वयांसि पक्षिणश्च। जीवनं मनुष्यादीनां प्राणापानौ च हविरर्थौव्रीहियवौ च। कर्माङ्गत्वेन पुरुषसंस्कारलक्षणं तपश्च। स्वतन्त्रफलसाधनं आलोचनं वा तपः। पुरुषार्थसाधनोपायः चित्तप्रसादहेतुरास्तिक्यबुद्धिः श्रद्धा च। यथाभूतार्थवचनं सत्यं च। अष्टांगमैथुनविरलब्रह्मचर्यं च। इतिकर्तव्यताविधिश्चेति॥७॥ किंच—सप्तप्राणा इति। तस्मादेव सप्त शीर्षण्याः प्राणाः प्रभवन्ति। स्वविषयावद्योतकाः सप्त अर्चिषो दीप्तयः। सप्तविषयैः समिध्यन्ते प्राणा इति सप्त समिधः। सप्तविषयकज्ञानानि हि सप्त होमाः"यदस्य विज्ञानं तज्जुहोति” इति श्रुतेः। येषु चरन्ति प्राणाः त इमे सप्त लोकाः इन्द्रियस्थानानीत्यर्थः। प्राणापानादिनिवृत्त्यर्थंसप्तप्राणा इति। स्वप्नकाले गुहायां बुद्धौ शेरत इति गुहाशया विधात्रा प्रतिप्राणिभेदं सप्त सप्त निहिताः स्थापिताः। आत्मानात्मयाजिनां कर्माणि तत्फलानि च सर्वं चैतत्परस्मादात्मनः समुद्भूतम्॥८॥

किं च—अतस्समुद्रा इति। अतः पुरुषात् क्षीराद्याः सिन्धवश्च हिमवदादयो गिरयश्च सर्वे सर्वरूपाःसिन्धवो गङ्गादिनद्यश्च अस्मादेव स्यन्दन्ते प्रस्रवन्ति। अतश्च व्रीहियवाद्या ओषधयश्च। मधुरादिषड्विधरसश्च। येन रसेन पञ्चरसैः वेष्टितः सन्नन्तर्गतलिङ्गशरीरं स्वोपाधित्वेनादत्त इत्यन्तरात्मा जीवः तिष्ठते तिष्ठति। एवं पुरुषात् सर्वमिदं प्रसूतमिति प्रकरणार्थः॥९॥

अपवादेन ब्रह्मबोधनम्

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य!॥१०॥

पुरुषादुत्पन्नकार्यजातं पुरुष एवेति तज्ज्ञानफलं चाह—पुरुष इति। पुरुषादुत्पन्नं इदं विश्वं पुरुष एव। न हि पुरुषादन्यत् विश्वमस्ति। पुरुषादन्यस्य वाचारम्भणमात्रत्वात्। ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति श्रुतेः। “कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” इति यत् पृष्टं तदेव तेऽभिहितम्। पुरुषे विज्ञाते तत्कार्यभूतप्राणादिरसान्तविश्वमिदं पुरुष एवेति विज्ञातं भवतीति। कि पुरुषकार्यम्? इत्यत आह—कर्मेति। अग्निहोत्रादिकं कर्म। तपो ज्ञानम्। इतोऽन्यदपि यत् पुरुषातिरिक्तत्वेन विभाति, तत् सर्वं पुरुषकार्यम्।कार्यस्य कारणमात्रत्वात्। कार्यनिरूपितकारणतायाः कार्यसापेक्षत्वात्। कार्यकारणविरलं ब्रह्म परामृतम्। कार्यकारणकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति यो वेद, यत्स्वाज्ञविकल्पितसर्वप्राणिगुहायां स्वज्ञदृष्ट्या तद्भावाभावप्रकाशकप्रत्यग्रूपेण निहितमिव भातं, तद्गतयांशापाये तदपि स्वमात्रमेवेति सोऽयं विद्वान् हे सोम्य! या न विद्यते सा अविद्या स्वातिरिक्ता। तदात्मसत्यव्यवहारप्रतिभासादिरूपेण अस्तिनास्तीति विभ्रमो हि ग्रन्थिः। तं ग्रन्थिं इह जीवन्नेव अमृतस्सन् विकिरति विनाशयति अपह्नवं करोति। ततः स्वमात्रमवशिष्यत इत्यर्थः॥१०॥

________

द्वितीयमुण्डके द्वितीयः खण्डः

ब्रह्मणः प्रत्यगभिन्नत्वम्

आविः संनिहितं गुहाचरन्नाम महत्पदमन्त्रैतत्समर्पितम्।
एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यम्॥१॥

पूर्वखण्डान्ते कार्यकारणकलनापह्नवसिद्धपरामृतं ब्रह्म अभिहितम्। तस्य निष्प्रतियोगिकस्वमात्रत्वात् तत् कथं मन्दबुद्धिगम्यं भवेत्? इत्याशङ्क्य तद्बुद्ध्यवताराय सोपाधिकनिरुपाधिकनिष्प्रतियोगिकनिरुपाधिकब्रह्म तज्ज्ञानफलं च प्रकटयितुमुत्तगे ग्रन्थ आरभ्यते—आविरित्यादिना। अक्षरात् परतः परत्वेन यत् परमाक्षरमवशिष्यत इत्युक्तं तदेव हि स्वाज्ञादिदृष्ट्या वागादिकरणग्रामावष्टम्भतो दर्शनश्रवणादिभिराविर्भवतीति आविः प्रकाशः प्रत्यक्चैतन्यं स्वज्ञानां हृदि समस्तवृत्त्यवभासकत्वेन सन्निहितं प्रत्यग्भावमापन्नं ब्रह्मेत्यर्थः। दर्शनश्रवणादिकरणवत् गुहायां बुद्धौ तद्वृत्त्यवभासकतया चरतीति गुहाचरमिति नाममात्रम्। वस्तुतः सर्वमहत्तया पद्यत इति महत्पदं स्वारोपितवस्त्वास्पदत्वात्। तत् कथम्? इत्यत आह—अत्रेति। अत्राक्षरे एतत् अविद्याण्डं रथनाभिगतारजातवत्समर्पितम्। तदेतत् सर्वास्पदं ब्रह्म स्वाज्ञदृष्ट्या पक्ष्यादिरूपेण एजत्चलत्। प्राणापानादिमन्मनुष्यपश्वादिरूपेण प्राणत् प्राणिति। निमेषादिक्रियावत् निमिषत् अनिमिषच्च। यदेतत् सर्वास्पदं यत्रैव एतत्समस्तं ओतप्रोततया वर्तते, हे शिष्याः! तत् सर्वास्पदं जानथ भवदात्मभूतमवगच्छतेत्यर्थः। तदतिरिक्तसदसदात्मकमूर्तामूर्तवैरल्यात् सदसदारोपाधिकरणं तदात्मत्वेन वरेण्यं वरणीयं प्रार्थनीयमित्यर्थः॥१॥

ब्रह्मणः सूक्ष्मत्वादिकम्

परं विज्ञानाद्यद्वरिष्ठं प्रजानां यदर्चिमद्यदणुभ्योऽणु च। यस्मिल्ँलोका निहिता लोकिनश्च।

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य! विद्धि॥२॥

किंच, प्रजानां लौकिकादिविज्ञानात् परं स्वांशजसर्वप्राणिष्वंशि ब्रह्मैव वरिष्ठं निरतिशयानन्दरूपत्वात्। घटाद्यादित्यान्तदीपकत्वात् यदर्चिमत्। यदणुभ्यः श्यामाकादिभ्योऽणु च। चशब्दात् स्थूलपृथिव्यादेरपि स्थूलम्। यस्मिन् सर्वास्पदे ब्रह्मणि भूरादयो लोकाः तत्तल्लोकनिवासिनो मनुष्यादयो लोकिनश्च निहिताः स्थिता इत्यर्थः। सर्वेषां चैतन्याश्रयत्वात् तदेतत् सर्वास्पदं अक्षरं ब्रह्म स प्राणस्तदु वाङ्मनश्च। करणग्रामात्मरूपत्वेन तत्प्रवृत्तिनिमित्तत्वात्। “श्रोत्रस्य श्रोत्रं” इत्यादिकरणग्रामप्रवृत्तिनिमित्तानुवादिश्रुतेः। यत् करणग्रामप्रवृत्तिनिमित्तं अक्षरं तदेतत् सत्यं अवितथम्। यत एवं अतोऽमृतं अविनाशित्वात्। तत् मनसा वेद्धव्यं तस्मिन् मनस्साधनं कर्तव्यमिति हे सोम्य! विद्धि अक्षरे चेतः समाधत्स्वेत्यर्थः॥२॥

ब्रह्मजिज्ञासोर्धानुष्कस्येवैकाग्रता

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संदधीत।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य! विद्धि॥३॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥४॥

कथं वेद्धव्यम्? इत्यत आह—धनुरिति। ओमित्येतदक्षरं इदं सर्वमित्युपनिनषदुद्भवं औपनिषदम्। महच्च तत् अस्त्रं चेति महास्त्रंधनुर्गृहीत्वा प्रणवो धनुरित्युत्तरत्र वक्ष्यति। तस्मिन् उपासानिशितं स्वरूपध्यानोपलतीक्ष्णीकृतं शरं मनः सन्दधीत सन्धानं कुर्यात्। ततः किम्? इत्यत आह—आयम्येति। शरस्थानीयान्तःकरणसहितं धनुः निर्विशेषलक्ष्याभिमुखं आयम्य।किं हस्तेन? इत्यत आह—तदिति। न हि हस्तेन धनुरायमनं इह संभवति। किन्तु

तत् परमाक्षरं ब्रह्मास्मीति भावगतेन चेतसा। तत् लक्ष्यं किम्? इत्यत आह—तदिति। हे सोम्य! यथोक्तपरमाक्षरमेव तस्य शरस्य लक्ष्यं विद्धि विजानीहीत्यर्थः॥३॥ ब्राह्मणोक्तार्थं मन्त्रो व्याचष्टे—प्रणव इति। प्रणव एव धनुः। शरस्य लक्ष्यप्रवेशहेतुत्वात्। आत्मा अन्तःकरणं शरः। ब्रह्मैव लक्ष्यं शरस्थानीयमनोग्रासत्वात्। तदेतल्लक्ष्यं बाह्यान्तःकलनाविरलोऽप्रमत्तः तेन योगिना वेद्धव्यम्। ततः किम्? इत्यत आह—शरवदिति। यथा शरो बलवता विसृष्टो लक्ष्ये निमज्जति तथा प्रणवधनुःसन्धीयमानं मनः तन्मयो भवेत्ब्रह्मभावं गच्छति। प्लुतप्रणवजनादनिवेशितं मनो नादातीतब्रह्ममात्रतयावशिष्यत इत्यर्थः। “प्लुतप्रणवप्रयोगेण समस्तं ओमिति प्रयुक्तं आत्मज्योतिः सकृदावर्तते” इति श्रुतेः,

यथा शरस्य लक्ष्यैक्यं फलं भवति चेतसः।

इति स्मृतेश्च॥४॥

जगदधिष्ठानस्य केवलस्य वेद्यत्वम्

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः॥५॥

बहुधा प्रतिपादितमप्यक्षरं मलिनचित्तारूढं न भवेदिति तद्बुद्ध्यारोहाय जामितां त्यक्त्वा पूर्वोक्तार्थमेव पुनःपुनराचष्टे—यस्मिन्निति। यस्मिन् परमाक्षरे द्यौः पृथिवी चान्तरिक्षं सर्वैः प्राणैः सह मनश्च तं समर्पितम्। तमेवैकं आत्मानं सर्वप्राणिप्रत्यग्भूतं हे शिष्याः! यूयं ब्रह्माहमस्मीति जानथ जानीत।इत्थं ज्ञात्वा एतदन्या अपरविद्या वाचो विमुञ्चथ। तत्प्रकाश्यससाधनकर्मजातं तत्फलं च परित्यजतेत्यर्थः। सर्वास्पदब्रह्मप्रबोधो ह्यमृतस्य तदाप्तिसाधनसेतुरिव सेतुः। संसारसागरोत्तारणहेतुत्वात्। “तमेव विद्वानतिमृत्युमेति नान्यः पन्था। विद्यतेऽयनाय” इति श्रुतेः॥५॥

अरनाभिदृष्टान्तेन ब्रह्मणःसर्वाधारत्वम्

अरा इव रथनाभौ संहता यत्र नाड्यः
स एषोऽन्तश्चरते बहुधा जायमानः।

ओमित्येवं ध्यायथ ह्यात्मानं
स्वस्ति वः पाराय तमसः परस्तात्॥६॥

किञ्च—अरा इवेति। रथनाभौ अरा इव यत्र नृहृदये सर्वदेहव्यापिन्यो नाड्यः संहताः समर्पिताः। सोऽयं प्रकृत आत्मा सर्वप्राण्यन्तर्बुद्धिसाक्षितया चरते चरति। पश्यन् शृण्वन् मन्वानो विजानन् वर्तत इत्यर्थः। तस्यान्तःकरणोपाध्यनुविधायित्वेन कामक्रोधादिवृत्तिभिः जायमान इव हृष्टो जातो मुग्धो जात इति यं लौकिका वदन्ति, तमेतं आत्मानं ओमिति एवमोंकारालम्बनाःसन्तः यथोक्तप्रणवो धनुरिति कल्पनया ध्यायथ चिन्तयत। स्वात्मयाथात्म्यं जानताचार्येण शिष्येभ्यो यद्वक्तव्यं तदुक्तम्। शिष्याणां निवृत्तकर्ममार्गत्वेनैते ब्रह्मविद्याविविदिषवः प्रवृत्ताः। तेषां निरन्तरायतया ब्रह्माप्तिमाशास्तीत्याह—स्वस्तीति। वः युष्माकं स्वाविद्यातमसः पाराय परकूलाय तमसोऽपह्नवतां गतात् परस्तात् यत् सिद्धं ब्रह्ममात्रं तदाप्तये च निर्विघ्नं स्वस्त्यस्तु ॥६॥

ब्रह्मणःसाक्षात्कारानुगुणं स्थानम्

यः सर्वज्ञः सर्वंविद्यस्यैष महिमा भुवि।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः॥

मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥७॥

तमोरूपभववारिधिं तीर्त्वा स्वाविद्यातमसः परत्वेन योऽधिगन्तव्यः तन्महिमा कीदृशः? इत्यत आह—य इति। यः सर्वज्ञः सर्ववित् इति पुरैव

व्याख्यातम्। पुनस्तं विशिनष्टि—यस्येति। द्यावापृथिव्यौ सूर्याचन्द्रमसौ सरितः समुद्राः स्थावरजङ्गमाश्च वसन्ताद्यृतवः अयने वत्सराः कर्तारः कर्माणि फलं चैतत्सर्वं यस्य आत्मनःशासने अलातचक्रवदजस्त्रं बंभ्रमीतीत्येष महिमा भुवि विजयते। एवंमहिमा सर्वज्ञो देवः कुत्रासनमर्हति? इत्यत आह—दिव्य इति। सर्वप्राणिबुद्धिप्रत्ययद्योतनत्वेन दिव्ये ब्रह्मोपलब्धिहेतुत्वात् ब्रह्मपुरे सर्वप्राणिहृदयावच्छिन्नव्योभ्रिएष आत्मा प्रतिष्ठित इवोपलभ्यते। वस्तुतः सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रतयावशिष्टस्य न हि गमनागमनप्रतिष्ठादिः संभवतीत्यर्थः। स्वाज्ञादिदृष्ट्या तदेतदक्षरं विपरीतवद्यथावच्च भातीत्याह—मनोमय इति। स्वाज्ञदृष्टिप्रसक्तमनउपाधिकत्वात् मनोमयःअमूर्तमूर्तप्राणशरीरनेता। अस्मात् शरीरान्तरं प्रतिष्ठितोऽन्ने अद्यमानान्तपरिणामे बाल्याद्यवस्थाभिरुपचयापचयजुष्टे स्थूलशरीरे तत्रत्यहृदयाकाशं सन्निधाय तद्गतकामादिपराग्भावावच्छेदेन जीवः तद्वृत्तिभावाभावप्रकाशकः प्रत्यक्सर्वप्राणिहृदयावभासकप्रत्यगभिन्नतया विश्वारोपापवादाधिकरणं ब्रह्म पराक्सापेक्षप्रतीचि विश्वारोपापवादायमानाधिष्ठेयसापेक्षा अधिष्ठाने ब्रह्मणि च सापेक्षप्रभवसविशेषकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति यत् विज्ञानं जायते तदेव हि तद्याथात्म्यविज्ञानम्। तेन विज्ञानचक्षुषा धीराः ब्रह्मविद्वरीयांसो यन्मार्त्यदुःखग्रामापह्नवसिद्धं आनन्दमात्ररूपं सदामृतं यद्विभाति तत् स्वमात्रमिति पश्यन्ति उपलभन्त इत्यर्थः॥७॥

ब्रह्मज्ञाने कृतकृत्यता

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥८॥

इत्थंभूतज्ञानफलं विशदीकरोति—भिद्यत इति। समष्टिप्रपञ्चापवादाधारः परः। व्यष्टिप्रपञ्चापवादाधारः प्रत्यगवरः यः स्वाधेयरूपसमष्टिव्यष्टिप्रपञ्चारोपापवादसापेक्षाधारगतहेयांशापह्नवसिद्धो भवति, तस्मिन् परावरविभागैक्यासहब्रह्ममात्रे स्वावशेषतया दृष्टे सति अथ अस्य ब्रह्मविद्वरीयसो हृदयग्रन्थिः

भिद्यते।हृच्छब्देन स्वाविद्यापदतत्कार्यमुच्यते। अयशब्देन तदारोपापवादाधिकरणं उच्यते। तयोः भास्यभासकाधेयाधारतादात्म्यसंबन्धो हि हृदयग्रन्थिः ब्रह्ममात्रज्ञानखड्गेन भिद्यते विनाशमुपयातीत्यर्थः। संशयवतां हृदयग्रन्थिभेदः कथम्? इत्यत आह—छिद्यन्त इति। पुरानुभूतलौकिकवैदिकविषयकसंशयाः परापरविषयकसंशयाश्च छिद्यन्ते। आगाम्यादिकर्मसु सत्सु कथं संशयनिवृत्तिः? इत्यत आह—क्षीयन्त इति। आगाम्यादिभेदेन कर्माणि त्रिविधानि। वर्तमानदेहानुष्ठितशुभाशुभात्मकं कर्म आगामीत्युच्यते। केवलशास्त्रजन्यज्ञानेन तत्स्थूलांशनिवृत्त्या तत्राश्लेषो जायते। तद्यथा ‘‘पुष्करपलाशे आपो न श्लिष्यन्ते एवभेवंविदि पापं कर्म न श्लिप्यते” इति श्रुतेः। अनन्तकोटिजन्मोपादानभूतं संचितं कर्म। तद्विज्ञानेन आगामिसंचितार्धाशो विनश्यति। स्थूलदेहारंभकत्वेन यावद्देहभाविप्रारब्धकर्म तज्ज्ञानविज्ञानाभ्यां न नश्यति। तस्य प्रवृत्तफलत्वेनानुभवनाश्यत्वात्। यदि सम्यज्ज्ञानं जायते तदा आगाम्यादिकर्मत्रयस्थूलादिभागत्रयं क्षीयते। तत्त्वज्ञानं चेत् तदर्धमात्रांशोऽपि निःशेषं क्षीयते। इत्थं व्याविद्धहृदयग्रन्थिसंशयजालस्य अस्य तत्त्वज्ञानिन आगामिसंचितारब्धकर्माण्यपि निःशेषं क्षीयन्ते अपह्नवं यान्ति। ततो विद्वान् ब्रह्ममात्रमवशिष्यत इत्यर्थः॥८॥

ज्ञेयस्य ब्रह्मणःस्वरूपनिरूपणम्

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः॥९॥

यज्ज्ञानसमकालं ग्रन्थिसंशयजालं छित्वा सूरयो ब्रह्ममात्रपदं भजन्ति तत्स्वरूपमपरे मन्त्रा अपि सोपायमाहुः—हिरण्मय इति। हृत्कमलविलसद्बुद्धिवृत्तिसहस्रभावाभावप्रकाशकप्रत्यग्भास्यत्वेन सहस्रवर्णोपमहिरण्मये परे प्रकृष्टे कोश इव कोशे हृत्पुण्डरीकावच्छिन्नाव्याकृताकाशे ब्रह्मोपलब्धिस्थाने तत्रत्यकामादिवृत्त्यवभासकप्रत्यक्चैतन्यं स्वाविद्यातत्कार्यरजआदिगुणत्रयास्पृष्टत्वेन विरजं ब्रह्म स्वस्वरूपेण सर्वत्रोपबृंहणात्। प्राणादिनामान्तषोडशकलावैरल्यात् निष्क-

लम्। अशुभ्रकलापह्नवादेव तत् परमाक्षरं शुभ्रं स्वान्तर्गतेन यत्प्रत्यग्ज्योतिषाग्निसूर्यादयोऽपि ज्योतिष्मन्तो भवन्ति तत् अग्न्यादिज्योतिषामपि ज्योतिःसर्वावभासकत्वात्। “येन सूर्यस्तपति तेजसेद्धः” इति श्रुतेः। तथा सर्वाव भासकं ब्रह्म केऽपि न जानन्तीत्यत आह—विदुरिति। यदेव ज्योतिषां ज्योतिः तत् स्वमात्रमिति ये विदन्ति त आत्मविदः। त एव विदुः नेतर इत्यर्थः॥९॥

ब्रह्मणः स्वप्रकाशत्वम्

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति॥१०॥

कथं पुनर्ज्योतिषां ज्योतिष्टम्? इत्यत आह—न तत्रेति। तत्र तस्मिन् स्वात्मज्योतिषि सर्वावभासकोऽपि सूर्यो न भाति। तथा न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽस्मद्गोचरोऽग्निः? सूर्यादीनां ब्रह्मप्रकाशकताभावेऽपि स्वतः प्रपञ्चप्रकाशकता स्यादित्यत आह— तमिति। तमेव निष्प्रतियोगिकप्रकाशरूपेण भान्तं परमाक्षरं अनुसृत्य सूर्यादिविशिष्टं विश्वं सर्वं भाति। तस्य भासा सूर्यादिघटान्तविश्वं विभाति। तदेव हि ज्योतिषां ज्योतिः ब्रह्मेत्यर्थः॥१०॥

विश्वमिथ्यात्वम्

ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्॥११॥

ब्रह्मैव सर्वं ब्रह्मातिरिक्तविकारजातं सर्वं वाचारम्भणमात्रमिति निगमनस्थानीयमन्त्रेणोपसंहरति—ब्रह्मेति। ब्रह्मैव उक्तलक्षणं इदं असल्लौकिकाद्यष्टदृष्टिमोहे सत्यसति निष्प्रतियोगिकामृतम्। स्वाज्ञदृष्टिविकल्पिताः पूर्वादिदिशः स्वज्ञदृष्ट्या तत्सर्वं ब्रह्मैवेत्याह—पुरस्तादिति। तथा पश्चाद्दक्षिणतश्चोत्तरेण

तथाधस्तात् ऊर्ध्वं चशब्दात् आग्नेयादिविदिशोऽपि गृह्यन्ते। तदन्तरालं च स्वाविद्यापदकृत्स्नं विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तभेदेन प्रसृतं प्रगतं व्याप्तमित्यर्थः। किं बहुना? ब्रह्मैवेदं विश्वं वरिष्ठं ब्रह्मातिरिक्तसत्तावैरल्यत्। वस्तुतः स्वाज्ञदृष्टिप्रसक्तकलनापह्नवसिद्धं निष्प्रतियोगिकब्रह्ममात्रं निःसपत्नमवशिष्यत इति वेदान्तानुशासनम्॥११॥

_______

तृतीयमुण्डके प्रथमः खण्डः

जीवेशयोर्वैलक्षण्यम्

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥१॥

ॐ ‘‘यया तदक्षरमधिगम्यते’’ इति परा विद्या उक्ता सफला। यदधिगमसमकालं स्वातिरिक्तहृदयग्रन्थिसंशयकर्मत्रयापह्नवसिद्धब्रह्ममात्राप्तिरभिहिता। “धनुगृहीत्वौपनिषदं” इत्यादिकल्पनया तदाप्त्युपाययोगोऽभिहितः। इदानीं तत्सहकारित्वेन सत्यादिसाधनानि वक्तव्यानि इति भङ्ग्यन्तरेण ब्रह्मयाथात्म्यं तज्ज्ञानफलं च प्रकटयितुमादौ संसार्यसंसारित्वेन जीवेशौ परिकल्प्य तत्र जीवस्येशोपासनाजन्यचित्तशुद्धिप्राप्यज्ञानसमकालं कृतकृत्यतां सूत्रभूतोऽयं मन्त्र आह—द्वा सुपर्णेति। द्वा द्वौ सुपर्णा सुपर्णौपक्षिविशेषौ। सयुजा सयुजौ सर्वदा एकत्र युक्तौ सखाया सखायौ समानाख्यानौ। इत्थंविधौ जीवेशौ समानं युगपत् उच्छेदनसामान्यात् वृक्षं शरीरं परिषस्वजाते वृक्षमेकं सुपर्णाविव संश्रयत इत्यर्थः। क्षेत्रसंज्ञको हि वृक्षः—

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः। इति,
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।

इति श्रुतेः स्मृतेश्च। इत्थंभूतं वृक्षोपमशरीरं कार्यकारणोपाधित्वेन यौ समाश्रितौ तयोरन्यः कार्योपाधिर्जीवः पिप्पलं सुखदुःखलक्षणकर्मफलं स्वदृष्टिवैचित्र्यात्स्वाद्वत्ति अविवेकत उपभुङ्क्त इत्यर्थः। तदन्यः कारणोपाधिरीश्वरस्तु निरावृतक्रियाज्ञानेच्छाशक्तित्वेन पिप्पलं अनश्नन् नाश्नाति तत्प्रवृत्तिनिमित्तसत्तारूपेण अभिचाकशीति उदासीनस्वभावोऽपि प्रेरकवत् पश्यति। राजवत्दर्शनमात्रं हि प्रेरयितृत्वम्॥१॥

जीवस्य ब्रह्मज्ञानाद्ब्रह्मत्वम्

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः॥२॥

तत्र जीवस्य स्वाज्ञानस्वज्ञानाभ्यां बन्धमोक्षावुपन्यस्यति—समान इति। स्वाज्ञानतः समाने पुरोक्तशरीराभिधानवृक्षे पुरुषःजीवः स्वाविद्याकामकर्मतत्फलशैवालवेष्टितालाबुः समुद्रजल इव देहात्मभावनयामुष्य पुत्रो नप्ता कृशः स्थूलः रजस्तमआदिगुणीत्येवं शरीरे निमग्नः नितरां मज्जति। ततः स्वाज्ञानरूपया अनीशया जायते म्रियते दारपुत्रादिबान्धवैः संयुज्यते वियुज्यते दारपुत्रादिप्रभवहर्षविषादतः स्वयमपि हृष्टोऽहृष्टश्च भवति। किं जीवितेनेतःपरं किं कर्तव्यमिति मुह्यमानः सन् अनीशया शोचति। इत्थं बहुधा सन्तप्यते। ततः प्रेततिर्यङ्मनुष्यादियोनिषु भूत्वा भूत्वा स्वज्ञानावधि संसरन् बध्यत इत्यर्थः। स कदाचिदनन्तकोटिजन्मसुकृतपरिपाकवशात् सत्सङ्गतिलब्धविवेको भूत्वा कर्मभिर्योगिभिः साधनचतुष्टयसंपत्त्यासादितपारमहंस्यधर्मालंकारमुनिभिश्च जुष्टं सेवितं वृक्षोपाधिविलक्षणं ध्यायन् पश्यति। स्वाज्ञदृष्टिप्रसक्तमूलाविद्याबीजांशयोगप्रभवसर्वज्ञत्वसर्वेश्वरत्वसर्वकारणत्वादिमहिमानं विभूतिं च मायाकृतं वस्तुतः स्वातिरिक्तमायातत्कार्यापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रस्वरूपोऽसावीश्वर इति यदा जीवः पश्यति तदाऽयं स्वातिरिक्तमस्तिनास्तीति वीतहर्षशोको भवति। शोचनीयादिविषयवैरल्यात् स्वमात्रमवशिष्यत इत्यर्थः॥२॥

जीवस्य ब्रह्मात्मत्वविवरणम्

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥३॥

पूर्वमन्त्रसूत्रितार्थमन्योऽपि मन्त्रः सविस्तरमुपक्रामति—यदेति। यदा यस्मिन् काले स्वातिरिक्तं नश्वरं स्वयमेव सत्यमिति च पश्यतीति पश्यः साधकः साधनान्तरनैरपेक्ष्येण स्वयंप्रकाशरूपत्वात् रुक्मवर्णं स्वाज्ञदृष्ट्या सर्वकर्तारं ईशितव्यप्राण्यदृष्टतः ईशम्। वस्तुतः पूर्णत्वात् पुरुषं निरुपाधिसोपाधिकाभ्यां ब्रह्मयोनिं वस्तुतो निष्प्रतियोगिकचिद्धातुं स्वमात्रमिति वा पश्यते पश्यति। तदा तत्समकाले विद्वान् पश्यः पुण्यपापोपलक्षितव्यष्टिसमष्टिप्रपञ्चकलने विधूय मिथ्यात्वेन निरस्य तन्निरसनेऽपि निरञ्जनः सन् निरतिशयत्वेन परमं स्वातिरिक्तवैषम्यापह्नवसिद्धं साम्यं सत्तासामान्यं स्वमात्रमिति उपैति प्रतिपद्यत इत्यर्थः॥३॥

ब्रह्मात्मज्ञानिनः स्तुतिः

प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी।

आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः॥४॥

इत्थं विद्वत्स्वरूपमाचष्टे—प्राण इति। “प्राणस्य प्राणः” इति श्रुतिनिर्दिष्टद्वितीयप्राणशब्दलक्षितः परमात्मैव। प्राणो ह्येष प्रकृतः परमात्मा। ब्रह्मादिस्तम्बान्तसर्वभूतैः—“इत्थं भूतलक्षणे” तृतीया—तत्तद्भूतप्रत्यगभिन्नब्रह्मरूपेण विभाति। वस्तुतश्चिन्मात्ररूपेण वा विभाति। योऽयं विद्वान्यस्तमात्मानं अयमहमस्मीति विजानन् नातिवादी भवते भवति। अतीत्य सर्वान् अन्यान् वादिनो वदितुं शीलमस्येति अतिवादी अपरविद्यादृष्टिः। तद्विपरीतः परविद्यादृष्टिस्तु ब्रह्मातिरिक्तवादिवैरल्यात् कान् अतीत्य वदेत्? अतो नातिवादी तूष्णीं स्वस्थ इत्यर्थः। “यत्र त्वस्य सर्वमात्मैवाभूत्, तत्

केन कं पश्येत्? तत् केन कमभिवदेत्?” इत्यादिस्वातिरिक्तदर्शनवदनासंभवश्रुतेः। तथा चेत् क्रीडारत्यादिकं कुत? इत्यत आह—आत्मेति। यस्य आत्मन्येव दारादिबाह्यसाधननैरपेक्ष्येण क्रीडा स आत्मक्रीडः। तथा आत्मन्येव रतिः प्रीतिः यस्य स आत्मरतिः। तथा ज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान्। यद्वा—आत्मरतिरेव क्रिया अस्य विद्यत इति बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यते। आत्मरतिक्रियेत्यत्र केचिदेवमाहुः—आत्मरतिशब्देन ज्ञानं, क्रियाशब्देन कर्म, तयोः समुच्चयार्थमिति। तदसाधु।समुच्चयकारिणो ब्रह्मविदां वरिष्ठ इत्युक्तिरपि विरुध्यते। निवृत्तबाह्यक्रियस्यैव हि आत्मक्रीडात्मरतित्वेन ब्रह्मविद्वरिष्ठतोपपद्यते। तमःप्रकाशयोर्युगपदेकत्र स्थितिवत् बाह्यक्रियात्मरत्योर्युगपन्नहि संभवोऽस्ति। तस्मान्न हि समुच्चयपक्षः साधुतामर्हति। अपरविद्याविषयस्य पुरैव न्यक्कृतत्वात्। “तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ” इति, “वेदान्तविज्ञानसुनिश्चितार्था” इत्याद्युक्ताः। वक्ष्यति च यस्तु ध्यानादिक्रियावान् संन्यासी स ह्यात्मक्रीडःआत्मरतिक्रियावान् ब्रह्मविदां वरिष्ठः प्रधानो भवति॥४॥

ब्रह्मज्ञानसाधनकथनम्

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यज्ज्ञानेन ब्रह्मचर्येण नित्यम्।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्र यं पश्यन्ति यतयः क्षीणदोषाः॥

ब्रह्मिष्ठताहेतुसत्यादिसाधनान्युपदिशति—सत्येनेति। परप्रियहितयथार्थवचसा सत्येन नित्यमात्मा लभ्य इति सम्यज्ज्ञानेनेति च सर्वत्रानुषज्यते। तथा सर्वेन्द्रियमानसैकाग्र्यलक्षणेन तपसा तदुपेयसम्यज्ज्ञानेन नित्यमात्मा लभ्य इत्यर्थः।

कर्मज्ञानाक्षमनसामैकाग्र्यं परमं तपः।

इति स्मृतेः। न ह्येवं चान्द्रायणादितपसा स्वातिरिक्तसर्वापह्नवसिद्धब्रह्ममात्रवेदनं हि सम्यज्ज्ञानम्। तेनाव्यवधानेन लभ्यः। अष्टाङ्गमैथुनविरलब्रह्मचर्येणेत्यादि

सम्यज्ज्ञानात्तावुपाय इत्यर्थः। न ह्यसत्यवचसोऽतपसोऽब्रह्मचारिणश्च सम्यज्ज्ञानमुदेति, “न येषु जिह्ममनृतं न माया च” इति श्रुतेः। एवंसाधनलभ्य आत्मा कीदृशः? इत्यत आह—अन्तरिति। अन्तःशरीरे शरीरान्तर्विद्यमानहृत्पुण्डरीकाकाशे क्षीणस्वातिरिक्तदृष्टिदोषाः यतयः संन्यासिनः यं स्वमात्रधिया पश्यन्ति उपलभन्ते, सोऽयं हृदयान्तरवभासकः प्रत्यक्ज्योतिर्मयः स्वयंप्रकाशरूपत्वात् अशुभ्रभास्यसापेक्षभासकत्वहेयांशापह्नवसिद्धो निष्प्रतियोगिकशुभ्रः। स ह्यात्मा नित्यं सत्यादिसाधनयुक्तसंन्याससम्यज्ज्ञानलभ्य इत्यर्थः॥५॥

सत्यस्य स्तवः

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥६॥

यतः सम्यज्ज्ञानाद्यसाधनं सत्यं अतः सत्ये नृृणामादरार्थं स्तौति—सत्यमिति। सत्यमेव जयते नानृतं न हि पुरुषाश्रयं विना सत्यानृतयोर्जयः पराजयो वास्ति। सत्यवादिना अनृतवादी अभिभूयत इति यतो लोकप्रसिद्धिः अतः सत्यस्य बलवत्साधनत्वं युक्तमित्यर्थः। किंच, सत्यस्य साधनातिशयत्वं शास्त्रतोऽप्यवगम्यत इत्याह—सत्येनेति। यथाभूतवादव्यवस्थापकसत्येन विततो विस्तीर्णो देवयानाख्यः पन्थाः प्राथम्येन प्रवृत्तः। येन पथा मायातत्कार्यविरलब्रह्मदर्शनवन्त ऋषयः सर्वत्र विगततृष्णातो ह्याप्तकामाःप्राप्तमनोरथा भूत्वा ब्रह्मलोकमाक्रमन्ति। यत्र सत्याख्यसाधनस्य परमं प्रकृष्टं पुरुषार्थरूपेण निधीयत इति निधानं तत् हैरण्यगर्भं धाम तद्गतयांशापह्नवसिद्धं परतत्त्वं वा सत्येन विततमित्यर्थः॥६॥

ब्रह्मणो विज्ञाज्ञभेदेन नेदिष्ठतादवीयस्ते

बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति।
दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम्॥७॥

किधर्मकं तत्? इत्यत आह—बृहदिति। स्वाज्ञस्वज्ञदृष्टिवैपरीत्यात्हिरण्यगर्भरूपेण स्वेन रूपेणापि बृहत् महच्च। सूत्रप्रत्यग्रूपेण सर्वतो व्यापित्वात्। तदेतत् प्रकृतं ब्रह्म दिव्यं देदीप्यमानरूपत्वात्। अचिन्त्यरूपं करणग्रामागोचरत्वात्। सूक्ष्माच्च तत्सूक्ष्मतरं केशकोट्यंशैकभागादपि सुसूक्ष्मतरं वस्तु। सर्वकारणं सदा आदित्यसोमाद्याकारेण विभाति दीप्यते। स्वाज्ञानामत्यन्तागम्यतया दूरात्सुदूरे विप्रकृष्टदेशे वर्तते। विदुषामात्मतया तत् ब्रह्मचैतन्यमन्तिकेच दहरपुण्डरीकेऽपि वर्तते। ‘‘य आकाशे तिष्ठन्” इत्याद्याकाशाद्यन्तरश्रुतेः। अन्तिके च वर्तत इत्यर्थं निदर्शयति—पश्यत्स्विति। प्रत्यग्भावेन पश्यत्सु बुद्धिलक्षणगुहायां तद्गतकामादिवृत्तिभावाभावप्रकाशकतया विद्वद्भिः निगूढं लक्ष्यते। तत्रस्थमप्यविद्वद्भिः न लक्ष्यते॥७॥

ब्रह्मणः शुद्धसत्त्वमात्रगोचरता

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः॥

तदुपलब्धिसाधनं किम्? इत्यत आह—न चक्षुषेति। केनचिदपि चक्षुषा न गृह्यते अरूपत्वात्। नापि वाचा तस्य अनभिधेयत्वात्। तथान्यैर्देवैः इतरेन्द्रियैरपि। सर्वप्राप्तिसाधनलक्षणतपसापि तथा श्रौतस्मार्तकर्मणापि न गृह्यत इति सर्वत्रानुषज्यते। अपरविद्यातत्फलविलक्षणत्वात्। किं पुनस्तत्साधनम्? इत्यत आह—ज्ञानेति। सर्वप्राण्यन्तःकरणाविद्यातुर्यभागत्वेन यन्निष्पन्नं तद्धि ज्ञानं ब्रह्मदर्शनहेतुत्वेन प्रसिद्धम्। तूलाविद्यास्थूलादिभागत्रयावृतदृष्टीनां न हि तज्ज्ञानप्रसादो भवति। ततः सन्निहितमप्यात्मतत्त्वं न हि प्रकाशते। नित्यादिकर्मतपोयोगफलार्पणसन्तुष्टेश्वरप्रसादतः स्थूलास्थूलादिभागत्रयावृतौ भिन्नाया अथ ज्ञानप्रसादो भवति। तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धचित्तो योगी ब्रह्मदर्शनयोग्यो भवति। ततो विशुद्धान्तःकरणत्वहेतोः प्राणादिनामान्तषोडश-

कलापह्नवसिद्धं निष्कलं स्वावशेषधिया ध्येयमात्मानं स्वमात्रमिति पश्यते पश्यति। विशुद्धसत्त्वोऽयमात्मानं पश्यति ससाधनम्॥८॥

तस्यैव प्रपञ्चः

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥९॥

तत्स्वरूपमुपन्यस्यति—एष इति। एष प्रकृत आत्मा निरुपाधिकदृष्ट्यामणुत्वेन निरतिशयसूक्ष्मत्वेन चेतसा प्रत्यग्भावापन्नेन मनसा वेदितव्यः। स कीदृशः? इत्यत आह—यस्मिन्निति। यस्मिन् प्राणवायुः प्राणापानादिभेदेन पञ्चधा संविवेश। किच स्वविकल्पितप्रजानां प्राणैरिन्द्रियैस्साकं चित्तं तदुपलक्षितान्तःकरणवृत्तिकदम्बं सर्वं तैलव्याप्ततिलवत् अग्निव्याप्तकाष्ठवच्च ओतं व्याप्तम्। सोऽयमात्मा यस्मिन् स्वातिरिक्ताशुद्धभ्रमविरलतया विशुद्धे चेतसि विभवति निर्विशेषमात्मानं प्रकाशयतीत्यर्थः॥९॥

ब्रह्मज्ञानिनः सर्वकामात्या स्तवः

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्।
तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः॥१०॥

इत्थमात्मानं यो वेद तस्य तद्रूपत्वेन तमर्चयतां स्वेप्सितार्थफलमाह—यमिति। योऽयं विशुद्धसत्त्वः आत्मवित् प्रायशो ब्रह्मातिरिक्तं न हि किंचित्स्मरति। यदि कदाचित् लीलया देवपित्राद्यावासार्हं यं यं लोकं स्वर्गादिकं मह्यं अन्यस्मै वा भवेदिति मनसा संविभाति संकल्पयते। किंच तत्तल्लोकगतकामेषु यांश्च कामान् भोगान् कामयते प्रार्थयते, तं तं लोकं तांश्च कामान् भोगान् जयते प्राप्नोति। तस्मादात्मज्ञं भूतिकामः ऐहिकामुष्मिकसंपत्

तद्विरलब्रह्मसंविद्वा भूतिशब्दार्थः। तदिच्छन् पादप्रक्षालननमस्कारादिना अर्चयेत्। नत्प्रसादतः स्वदृष्टिनिमित्तब्रह्मज्ञानं तत्फलमपि ब्रह्मविदर्चको लभेदित्यत्र—

परमाद्वैतनिष्ठाय पराय परयोगिने।
शरीरमर्थं प्राणांश्च प्रदद्याच्छ्रद्धयान्वितः॥

परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः।
शुश्रूषाशुद्धविद्यायाः साधनं हि न संशयः॥

इति स्मृतेः ॥१०॥

__________

तृतीयमुण्डके द्वितीयः खण्डः

परब्रह्मज्ञानिनोऽमृतत्वम्

स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः॥१॥

“आत्मज्ञं ह्यर्चयेद्भूतिकामः” इति यदुक्तं तत्र निष्कामसकामधिया ब्रह्मविदुपासकानां “ते शुक्रमेतदतिवर्तन्ति,” “स कामभिः जायते तत्र तत्र” इति च फलभेदप्रकटनपूर्वकं निर्विशेषब्रह्मज्ञानफलं प्रकटयितुमुत्तरो ग्रन्थ आरभ्यते—स वेदेति। एतदुक्तलक्षणं परं ब्रह्म धाम सर्वोत्कृष्टब्रह्मयाथात्म्यस्वरूपम्। यतः सोऽयं विद्वान् वेद यत्र ब्रह्मविदात्मनि परब्रह्मधाम्निस्वाज्ञदृष्ट्या विश्वं निहितं समर्पितं आरोपितं सत् सत्यवत् भाति। आरोपस्याधारातिरिक्तसत्तावैरल्यात्। यश्चब्रह्मवित् सर्वाधारतया भाति,

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम्।
मयि सर्वंलयं याति तद्ब्रह्माद्वयमस्म्यहम्॥

इति श्रुतेः। तमपि एवंविधं अशुभ्रस्वातिरिक्तवैरल्यात् शुभ्रं पूर्णब्रह्मभावारूढत्वात् पुरुषं आत्मयाथात्म्यज्ञं ये ह्यकामा मुमुक्षवो लौकिकापरविद्याविषयकविभूतिवितृष्णा भूत्वा उपासते परंब्रह्मधियेत्यर्थः। ते हि धीराः ब्रह्मविद्दृष्टिपूताः सन्तः शुक्रं शुक्लं नृबीजं शरीरोत्पत्तिकारणं अनेकयोनिप्राप्तिलक्षणं अतिवर्तन्ति अतिक्रम्य तत्पदं भजन्त इत्यर्थः। यत एवमतःसर्वथा तमात्मज्ञं पूजयेदित्यभिप्रायः॥१॥

सकामस्योपासकस्य निष्कामस्य च व्यतिरेकः

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः॥२॥

सकामधिया ब्रह्मविदुपासनाफलमनुक्रामति—कामानिति। यस्तु ब्रह्मात्मविद्वरिष्ठं सामान्यधिया उपास्य तत्सकाशात् प्राकृतविभूतिविषयककामान्मन्यमानस्सन् कामयते प्रार्थयते, स कामी तैः कामभिः धर्माधर्मविषयककामैः तत्र तत्र जायते। यत्र यत्र कामाः स्वेप्सितविषयनिमित्ततया पुरुषमज्ञं नियोजयन्ति तत्र तत्र तैरेव कामैरावेष्टितो जायते। यस्तु परमार्थचिन्तया प्राकृतभूमिषु पर्याप्तकामो भवति आत्मकामत्वात्, तस्य आत्ममात्रपर्याप्तकामस्य स्वाविद्यातत्कार्यप्राकृतभूतिवैमुख्यपूर्वकं येनात्ममात्रे मतिः कृता तस्य कृतात्मनस्तु इहैव तिष्ठत्येव कलेबरे सर्वे धर्माधर्मप्रवृत्तिहेतवः कामाः प्रविलीयन्ति विलयमुपयान्ति। न हि पुनर्जायन्त इत्यर्थः॥२॥

ब्रह्मभावमीहमानस्यैव ब्रह्मप्राप्तिः

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्॥३॥

आत्मलाभान्न ह्यपरो लाभो विद्यते तल्लाभाय प्रवचनादय उपायाः स्युः इत्यत आह—नायमिति। अनात्मापह्नवसिद्धोऽयमात्मा वेदशास्त्रजालप्रवचनेन कृत्स्नाध्ययनेन न हि लभ्यः। तथा ग्रन्थार्थधारणशक्तिमन्मेधयापि न लभ्यः। नापि बहुना श्रुतेन बहुधा कृतश्रवणेनापि न लभ्य इत्यर्थः। तर्हि केन लभ्यः? इत्यत आह—यमेवेति। यं परमात्मानमेव एष विद्वान् निष्प्रतियोगिकस्वमात्रमिति वृणुते प्राप्तुमीहते, तेन वरणेन एष आत्मा लभ्यः। न ह्यन्येन साधनान्तरेण सर्वप्रत्यगभेदेन नित्यलब्धस्वभावोऽपि स्वातिरिक्तास्तितावरणच्छन्नो न हि लभ्यते। सर्वापह्नवसिद्धब्रह्ममात्रबोधरविणा स्वात्मावरणध्वान्ते विनाशिते नित्यलब्धतया स्वात्मलाभो भवतीत्याह—तस्येति। तस्यैष आत्मा या पुरा स्वातिरिक्तास्तितावरणच्छन्नेव भाता, प्रबोधतः तद्दृष्ट्यावृतौ भिन्नायां अथ तामेव स्वां स्वयाथात्म्यरूपिणीं तनुं वृणुते प्रकाशयति। असल्लौकिकाद्यष्टदृष्टिमोहे सत्यसति निरावृतसकृद्भानरूपेण स्वयमाविर्भवति। यत एवमतःस्वातिरिक्तापह्नवपूर्वकं निष्प्रतियागिकात्ममात्रवोधो ह्यात्मलाभसाधनमित्यर्थः॥३॥

विवेकवैराग्यमूलसंन्यासेन ब्रह्मप्राप्तिः

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात्।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम॥४॥

तादृशप्रबोधसाधनानि कानि? इत्यत आह—नायमिति। यथोक्तलक्षणोऽयमात्मा निष्प्रतियोगिकस्वात्ममात्रप्रबोधसहकारिबलं स्वातिरिक्तप्रपञ्चनिरासकतीव्रतमवैराग्यं तद्रहितेन बलहीनेन न लभ्यः। नापि स्वदेहदारपुत्रादौ अहंममाभिमानपूर्वकं स्वात्मतत्साधनविस्मरणं प्रमादः। तस्मात् प्रमादात्,तपः ज्ञानं लिङ्गं संन्यासः स्वातिरिक्तसंन्यासविरलज्ञानात् न हि लभ्यते। यस्तु विद्वान् एतैः बलाप्रमादसंन्याससहकृतज्ञानोपायैः अनवरतं यतते प्रयतते तस्य एष आत्मा भ्रान्त्यात्तजीवभावमुत्सृज्य प्रत्यग्रूपेण ब्रह्मधाम ब्रह्मयाथात्म्यरूपेण विशते प्रविशति। स्वान्यविस्मारकतया स्वयमेव विजृंभत इत्यर्थः॥४॥

ब्रह्मज्ञानिनः सर्वात्मता

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति॥५॥

ब्रह्मधामप्रवेशः कथम्? इत्यत आह—संप्राप्येति। बाह्यतृप्तिसाधनवैमुख्यपूर्वकं केवलज्ञानेनैव तृप्ताः। परमात्मभावकृत आत्मा अन्तःकरणं येषां ते कृतात्मानश्च । रागिणां कृतात्मता कथम्? इत्यत आह—वीतरागा इति। विगलितरागादिदोषा इत्यर्थः। इन्द्रियेन्द्रियार्थव्यापृतानां वीतरागता कुतः ? इत्यत आह—प्रशान्ता इति। उपरत बाह्यान्तःकरणा इत्यर्थः। इत्थं दर्शन-विशिष्टा ऋषयो ये धीराः युक्तात्मानः सन्तः एनमात्मानं सर्वगं सर्वतः संप्राप्य सर्वमेव आविशन्ति। एवं ब्रह्मविद उपाधिनिर्मुक्तघटाकाशवत्स्वातिरिक्तसर्वप्रपञ्चापह्नवसिद्धं ब्रह्मधाम प्रविशन्तीति भावः॥५॥

ब्रह्मज्ञानेन प्रपञ्चबाधे मुक्तिः

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे॥६॥

पूर्वोक्तार्थमेव विशेषणान्तरेण स्पष्टयति—वेदान्तेति। वेदान्ता उपनिषदः तदर्थविचारजं ज्ञानं विज्ञानं तेन तस्यार्थः तग्दोचर आत्मा यैःसुनिश्चितःते वेदान्तविज्ञानसुनिश्चितार्थाः। केवलब्रह्मनिष्ठानुकूलसर्वकर्मपरित्यागलक्षणसंन्यास एव योगः तस्मात्। यतनशीला यतयः। संन्यासयोगादेव शुद्धसत्त्वप्रधानाः सन्तः ते ब्रह्मैव लोको ब्रह्मलोकः। ब्रह्मविदां बहुत्वाद्ब्रह्मलोकेष्विति बहुवचनं ब्रह्मणीत्यर्थः। स्वातिरेकेण यत्परमन्यदिव भाति तस्य अन्तं अवसानं, यत्सम्यज्ज्ञानं कलयति स परान्तकालः तस्मिन् परान्तकाले। सम्यज्ज्ञाने सति तत्समकालं परममृतं अमरणधर्मकं ब्रह्मैव येषां ते परामृताःजीवन्नेव ब्रह्मभावमापन्नाः सन्तः विभिन्नघटाकाशवत् निःस्नेहदीपवच्च मुच्यन्ति निर्वृतिं

उपयान्ति। सर्वे ब्रह्मविद्वरिष्ठाः सर्वापह्नवसिद्धब्रह्ममात्रतया पर्यवसन्ना इत्यर्थः। ततोन हि तद्गतिं केऽपि न जानन्ति। ब्रह्मणि पर्यवसन्नानां ब्रह्ममात्रत्वात्। ”अनध्वगा अध्वसु पारयिष्णवः” इति,

शकुनीनामिवाकाशे जले वारिचरस्य वा।
पदं यथा न दृश्यन्ते तथा ज्ञानवतां गतिः॥

इति श्रुतेः स्मृतेश्व।स्वाज्ञानां गतेः देहादिपरिच्छिन्नत्वेन तद्गतिर्द्रष्टुं शक्या। साध्यसाधनभिदाकवलितत्वात्। ब्रह्म तु परिच्छेदत्रयापह्नवसिद्धम्। तद्भावमापन्नस्यापि तथात्वात्। सोऽयं विद्वान् स्वमात्रमवशिष्यत इत्यर्थः॥६॥

ज्ञानिनो देहादेर्ब्रह्मात्मता

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति॥७॥

संघातावच्छिन्नजीवस्य स्वप्रबोधतः स्वभावसिद्धौ देहारंभकप्राणादिकलानां का गतिः? इत्याशंक्य स्वाज्ञानप्रभवाणां स्वाज्ञानावधिकत्वात्स्वाज्ञानापह्नवसमकालं ता अपि स्वकारणेन समं ब्रह्ममात्रपर्यवसन्ना भवेयुरित्याह—गता इति। जीवस्य स्वज्ञानतः स्वभावापत्तौ व्यष्टिसमष्ट्यात्मकदेहाद्यारम्भकत्वेन प्रश्नोपनिषत्यरिपठिताः प्राणादिपश्चदशसंख्याकाः कलाः स्वस्वकारणायमानप्रतिष्ठा गताः। प्रतिष्ठा इति द्वितीयाबहुवचनम्। तथा पञ्चदशसंख्याका देवाश्च ज्ञानकर्मेन्द्रियान्तःकरणपञ्चकभेदाः श्रोत्रादयः सर्वे दिगादिप्रतिदेवतासु गताः विलयं प्रपन्ना इत्यर्थः। तथा आगामिसंचितारब्धकर्माणि निष्प्रतियोगिकनिर्विशेषब्रह्मप्रबोधसमकालं प्रलयं स्वकारणे गतानीत्यर्थः। स्वात्तान्तःकरणोपाधिना विज्ञानमयो विज्ञानप्रायः विज्ञानमयात्मा जीवश्च तस्य स्वाज्ञानप्रभवोपाध्यपह्नवप्रबोधसमकालं प्राणादयः सर्वे परे अव्यये ब्रह्मणि एकीभवन्नि ब्रह्ममात्रपर्यवसन्ना भवन्तीत्यर्थः॥७॥

सदृष्टान्तं नामरूपप्रहाणेन ब्रह्मावाप्तिः

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्॥८॥

इतश्च दृष्टान्तपूर्वकं ब्रह्मणि परिसमाप्तिं दर्शयति—यथेति। यथा समुद्रे महता वेगेन स्यन्दमानाः गङ्गाद्या नद्यः समुद्रं प्राप्य पुरात्तगङ्गादिनामरूपे विहाय अस्तं अदर्शनतां गच्छन्ति; तथैवं विद्वान् स्वाविद्याकृतनामरूपात् विमुक्तः सन् स्वाविद्यापदतत्कार्यात्ततदारोपापवादाधिकरणं परं तद्गतहेयांशापह्नवसिद्धं परात् परं स्वमात्रतया दीप्यमानत्वात् दिव्यं निष्प्रतियोगिकपूर्णरूपत्वात् पुरुषं स्वमात्रतया उपैति। श्रेयसो विघ्नबाहुल्याद्ब्रह्मविदपि नरभूतदेवैः विघ्नितो ब्रह्माप्राप्य अन्यां गतिं गच्छेदित्याशंक्य ब्रह्मवेदनात् पुरा यद्यपि नरादयो विघ्नं कुर्वन्तु तद्ब्रह्मवेदनसमकालं “तस्य ह न देवाश्च नाभूत्या ईशते” इति श्रुत्यनुरोधेन सर्वेऽप्यनुकूलतां भजन्ति॥८॥

ब्रह्मविद्याफलश्रुतिः

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति॥९॥

वस्तुतो ब्रह्मातिरिक्तनरभूतदेवादिवैरल्याद्वेदनसमकालं ब्रह्मविद्ब्रह्मैव भवतीति निगमयति—स य इति। यः कश्चित् विद्वान् सर्वापह्नवसिद्धत्वेन यत् परमं तत् परमं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति वेद तद्वेदनसमकालं स ब्रह्मैव भवति। अस्य कुले शिष्यवर्गे वा अब्रह्मवित् न हि भवति। तत्परंपरा ब्रह्मवित्पदमेव भजतीत्यर्थः। न च,

नरविघ्नं कार्तवीर्याद्भूतविघ्नं तु दौर्गिकात्।
शारभाद्देवविघ्नं च निराकुर्यात् त्रयं बुधः॥

इति पुराणवचनानुरोधेन विघ्नत्रयशान्त्यर्थं देवतात्रयमुपास्यमिति वाच्यम्; ब्रह्ममात्रावगतेः निर्वर्त्यविघ्नत्रयतन्निवर्तकदेवतात्रयतद्गतहेयांशापह्नवपूर्वकत्वात् वेदनसमकालं ब्रह्मविद्ब्रह्मेत्यर्थः। शोकपापग्रन्थिसत्त्वात् ब्रह्मविदो ब्रह्ममात्रता कुतः? इत्यत आह—तरतीति। निमित्ताभावान्न हि शोकादेरवकाशः।यदि स्वाज्ञदृष्ट्या स्यात्तदपि वेदनसमकालमेव कैवल्यनिमित्तं शोकं तरति। पुण्यपापलक्षणं पाप्मानं तरति। हृदयगुहाश्रयाविद्याग्रन्थिभ्यः पुरैव विमुक्तः सन् अधुनाप्यमृतो भवतीव भवति। “भिद्यते हृदयग्रन्थिः” इत्यादेरुक्तत्वात्॥९॥

ब्रह्मविद्योपदेशप्रकारे ऋक्सम्मतिः

तदेतदृचाऽभ्युक्तम्—

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः
स्वयं जुह्वत एकर्षिं श्रद्धयन्तः।
तेषामेवैतां ब्रह्मविद्यां वदेत
शिरोव्रतं विधिवद्यैस्तु चीर्णम्॥१०॥

अथ ब्रह्मविद्यासंप्रदायं दर्शयन्नुपसंहरति—तदिति। इत्थं विद्यासंप्रदानविधानं ऋचा मन्त्रेण अभ्युक्तम्। क्रियावन्तः विध्युक्तकर्मानुष्ठातृत्वात्। श्रोत्रियाः अधीतवेदवेदाङ्गत्वात्। “एकां शाखामधीत्य श्रोत्रियो भवति” इति बोधायनोक्तेः। तथा अपरब्रह्मनिष्ठाः परब्रह्मबुभुत्सवः स्वयं श्रद्धयन्तः एकर्षिं अग्निं जुह्वते जुह्वति। तेषां अधिकारिणामेव एतां ब्रह्मविद्यां वदेत ब्रूयात्। यदथर्वाणां शिरसि अग्निधारणलक्षणं व्रतं प्रसिद्धं भवति तत् विधिवत् यथाविधानं यैस्तु चीर्णं तेषामेव यत् सत्यमक्षरं पुरुषाख्यं तद्वदेत॥१०॥

यथोक्ताधिकारिभिन्नस्यानर्हत्वमाचार्यपूजनं च

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः॥११॥

पुरा एवं ऋषिः अङ्गिरा नाम विधिवत् पृष्टवते शौनकाय उवाच। तदन्योऽपि श्रेयोऽर्थिने ब्रूयादित्याह—तदेतदिति। इत्थं “ब्रह्मा देवानां” इत्यादि ब्रह्मवित्संप्रदायप्रवर्तकं एतत् ग्रन्थजातं अचीर्णव्रतो नाप्यधीते न पठति। विधिवत् चीर्णव्रता अधीतविद्या सफला भवतीति समाप्ता हि ब्रह्मविद्या। सा येभ्यः पारंपर्यक्रमेण प्रवृत्ता तेभ्यो नमः। ये सर्वापह्नवसिद्धं परं ब्रह्म स्वमात्रमिति दृष्टवन्तः ते परमर्षयः। भूयो भूयोऽपि तेभ्यो नमः। द्विर्वचनं मुण्डकोपनिषत्परिसमाप्त्यर्थम्॥११॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।

लिखितं स्याद्विवरणं मुण्डकस्य स्फुटं लघु।
एतद्विवरणग्रन्थो द्व्यशीत्यधिकषट्छतम्॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे पञ्चसङ्ख्यापूरकं
मुण्डकोपनिषद्विवरणं सम्पूर्णम्

___________

श्रीगौडपादीयकारिकासहिता

माण्डूक्योपनिषत्

भद्रं कर्णेभिः—इति शान्तिः

आगमप्रकरणम्

ओङ्कारस्य सर्वाधारत्वं चतुष्पात्त्वं च

ओमित्येतदक्षरमिदँसर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव॥१॥

सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्॥२॥

माण्डूक्योपनिषद्गूढपराभूमिवरासनम्।
प्रतियोगिविनिर्मुक्ततुर्यतुर्यहरिं भजे॥
नत्वा श्रीगुरुपादाब्जतुर्यतुर्याप्तिमिच्छताम्।
माण्डूक्योपनिषद्गूढपरमाशय उच्यते॥

अथ खलु अथर्वणवेदप्रविभक्तमण्डूकशाखामस्तकतुर्यतुर्थस्वरूपप्रतिपादकत्वेन सर्ववेदान्तसारिष्ठमाण्डूक्योपनिषत् विजृम्भते।

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि॥

ओमित्येतत्।

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥

“एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः”,“ओमिति ब्रह्म, ओमितीदं सर्वम्, ओमित्यात्मानं युञ्जीत, ब्रह्मप्रणवः षोडशमात्रात्मकः, ओङ्काराग्रविद्योतं तुर्यतुरीयम्”,

माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये।

इत्यादिश्रुतिप्रकटितमहिमेयं ब्रह्मप्रणवार्थतुर्यतुर्यप्रकाशिनी माण्डूक्योपनिषत् गुरुशिष्यसंवादरूपाख्यायिकामन्तरावान्तररूपेण प्रवृत्ता हि। समस्तप्राप्यदृष्टतो निर्हेतुकतया श्रुतेः प्रवृत्तिर्विद्यास्तुत्यर्था। हिमवत्पृष्ठासनो गौडपादाचार्यः श्रीशुकमुखान्माण्डूक्योपनिषद्गूढाशयं विज्ञाय स्वयं जाग्रज्जाग्रदाद्यविकल्पानुज्ञैकरसान्तचतुष्पञ्चदशकलनापह्नवसिद्धं तुरीयतुरीयं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति प्रबोधसमकालं कृतकृत्यपदं प्रपद्याथ सर्वभूतानुकम्पया तामेतामुपनिषदं व्याचिख्यासोर्गौडपादाचार्यस्य माण्डूक्यगूढाशयानुवादिन्यः श्रुतयः खिलश्रुतयो मन्त्राश्च प्रादुर्बभूवुः सहस्रशः। तत्र कांश्चिन्मन्त्रान् प्रधानतश्चतुष्पादगोचरचातुर्मात्रालंकृतमाण्डूक्योपनिषदः प्रत्यंशं विभागशो योजयामास। तस्य आगमप्रधानत्वेन ओङ्कारयाथात्म्यनिर्णायकत्वात् तदिदमागमप्रकरणमुच्यते। शिष्टश्रुतिमन्त्रजातमर्थतः संगृह्य कारिकारूपेण प्रकरणत्रयं रचयामास वैतथ्याद्वैतालातशान्तिभेदात्। तत्राद्यप्रकरणे अभिधानाभिधेयात्मकजाग्रज्जाग्रदादिचतुष्पञ्चदशकलनापह्नवसिद्धतया निष्प्रतियोगिकतुर्यतुर्यमात्रमवशिष्यत इत्युक्तम्। तत्र केचिद्ब्रह्मातिरिक्तजाग्रज्जाग्रदादेरात्मत्वसत्यत्वादिकं मन्यन्ते। तच्छशविषाणवदसदिति प्रकटयितुं वैतथ्यप्रकरणं प्रवृत्तम्। तथा च वक्ष्यति—

नात्मभावेन नानेदं न स्वेनापि कथंचन।
न पृथङ्नापृथक्विचिदिति तत्त्वविदो विदुः॥

इति। स्वातिरिक्तद्वैतप्रपञ्चापह्नवसिद्धं निष्प्रतियोगिकोद्वैतमिति प्रकटयितुमद्वैतप्रकरणमाम्नातम्। तथा च वक्ष्यति—

एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते।

इति। तत्र परमाद्वैतस्वाज्ञादिदृष्टिप्रसक्तविकल्पनिरसनायालातशान्तिप्रकरणं विरचितम्। एवं “ओमित्येतदक्षरम्” इत्यादिप्रकरणचतुष्टयस्य संक्षेपतो विवरणमारभ्यते—ओमित्येतत् इति। यदिदं घटपटाद्यर्थत्वेनाभिधीयते तदभिधेयजातमुच्यते। इत्थं स्वाज्ञदृष्टिविकल्पितस्याभिधेयजातस्य स्वज्ञदृष्ट्याभिधानमात्रत्वात् स्वाज्ञदृष्टिविकल्पिताभिधानभे दस्यापि “तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमेवोङ्कारेण सर्वा वाक् संतृण्णोङ्कार एवेदं सर्वम् ”इति श्रुत्यनुरोधेनोङ्कारस्वरूपत्वादोङ्कारविकारोऽयमभिधानप्रपञ्चः। तदभिधेयजातं इदं सर्वमक्षरम्। तस्य घटाद्यारोपाधिकरणत्वादधिकरणातिरेकेणारोपवैरलयाच्च ओमितीदं सर्वमक्षरमेवेत्यर्थः। इत्थमभिधानाभि धेयोपायपूर्वकं परं ब्रह्मावगन्तुं शक्यमिति ओङ्कार एव वा सर्वमिति संक्षेपार्थः। विस्तरार्थमाह—तस्य इति। तस्य ओमित्येतस्याक्षरस्य ब्रह्मात्युपायत्वेन उप समीपतया विस्पष्टमाख्यानं उप-व्याख्यानं प्रसक्तमित्यर्थः। तत् किं ? इत्यत आह—भूतं इति। यद्यत् कालत्रयपरिच्छेद्यं तत्तत् सर्वमोङ्कार एव।यच्चान्यत् त्रिकालातीतं अव्यक्तादि तदप्योङ्कार एव। अव्यक्तस्य कालापरिच्छेद्यत्वात्। “ओमित्येतदक्षरम्” इत्यत्राभिधानाभिधेययोरेकत्वेऽपि सर्वमोङ्कार एवेत्यभिधानप्राधान्येन निर्देशः कृतः। सर्व ह्येतद्ब्रह्म इत्यादिना पुनरभिधेयप्राधान्येन निर्देशस्तु अभिधानाभिवेययोरेकत्वप्रतिपत्त्यर्थः। तयोरेकत्वप्रतिपत्तेर्युगपदपह्नोतुमुपायत्वात्। ततस्तदपह्नवसिद्धं ब्रह्म स्वमात्रमवशिष्यते। तथा चैकत्वप्रतिपत्तौ वक्ष्यति—‘‘पादा मात्रा मात्राश्च पादाः” इति। ओङ्कारमात्रं सर्वमिति यदुक्तं तदेतद्धि ब्रह्म। तत् किं परोक्षं? इति शङ्कायां तदपरोक्षतया निर्दिशति—

अयमात्मा ब्रह्म इति। योऽयं व्यष्टिप्रपञ्चतत्कार्यभावाभावप्रकाशकत्वेन तदपवादास्पदत्वेन चाभिहितः सोऽयं प्रत्यगात्मैव। समष्टिप्रपञ्चापवादाधिष्ठानतयोपबृंहणाद्ब्रह्मेति प्रत्यग्ब्रह्मणोरेकत्वादपरोक्षत्वं सिद्धमित्यर्थः। “अयमात्मा ब्रह्म” इति निर्दिष्टप्रत्यगभिन्नपरमात्मनः कार्षापणवच्चतुष्पात्त्वं व्यक्तीकरोति—सोऽयमात्मा इति। षोडशावयवविशिष्टत्वं कार्षापणत्वम्। न हि गौरिवायं चतुष्पात् भवति। स्वाज्ञदृष्ट्या व्यष्टिसमष्टितदैक्योपाध्यभिमानतो विश्वविश्वविराड्विराडोत्रोत्रादिभेदेन त्रिपञ्चदशपादयमात्मा भवतीत्यर्थः॥१-२॥

तस्य प्रथमपादस्वरूपम्

जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलमुग्वैश्वानरः प्रथमः पादः॥३॥

कथं प्रधानतश्चतुष्पात्त्वम्? इत्यत आह—जागरितस्थान इति। जाग्रत्प्रविभक्तजागरितं स्थानमस्य विश्वविश्वादेर्विराड्विराडादेरोत्रोत्रादेरिति जागरितस्थानः। तथा स्वातिरिक्तविषये प्रज्ञा यस्येति स विश्वविश्वादिः बहिःप्रज्ञः। कार्याद्युपाधिकृतत्वं बहिःप्रज्ञत्वं न स्वतः, स्वस्य विज्ञानस्वरूपत्वात् “विज्ञानमानन्दं ब्रह्म” इति श्रुतेः। तथा स्थूलोपाधिकृतानि सप्ताङ्गानि यस्येति सप्ताङ्गः।

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ
दिशःश्रोत्रे वाग्विवृताश्च वेदाः।
वायुः प्राणो हृदयं विश्वमस्य
पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा॥

इति श्रुतेः। कर्मज्ञानेन्द्रियप्राणपञ्चकान्तःकरणचतुष्टयतत्तद्विषयोपलब्धिमद्द्वारत्वेन मुखानि यस्येति एकोनविंशतिमुखः। स एवंविशेषणविशिष्टो विश्वविश्वादिर्विराड्वैश्वानर ओत्रोत्रादिश्चैकोनविंशतिकरणकरैः स्थूलशब्दादिविषयान् भुङ्क्त इति स्थूलभुक्। विश्वश्चासौ नरश्चेति विश्वनरः। विश्वनर एव वैश्वानरः।

स्थूलप्रविभक्तस्थूलाद्युपाधिकत्वात् स हि प्रथमः पादः। उत्तरपादाधिगमस्यैतत्पूर्वकत्वात् प्राथम्यं युक्तम्। जागरितस्थानश्चतुरात्मा विश्वो वैश्वानरश्चतूरूप अकार एव। “चतूरूपो ह्ययमकारः स्थूलसूक्ष्मबीजसाक्षिभिरोतानुज्ञात्रनुज्ञाविकल्पैरकाररूपैः ओतो ह्ययमात्मा” इति श्रुतेः। कथं “अयमात्मा ब्रह्म” इति निर्दिष्टप्रत्यगभिन्नपरमात्मनश्चतुष्पात्त्वे प्रकृते सप्ताङ्गवचनमप्रकृतमिति चेन्न; साध्यात्मिकादिप्रपञ्चस्यानेनात्मना चतुष्पात्त्वस्य विवक्षितत्वात्। एवं कृते साध्यात्मिकादिप्रपञ्चारोपापवादस्तदधिकरणत्वेन विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तसिद्धिः।

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।

‘‘सर्वभूतानि चात्मनि” इति च श्रुत्यनुरोधेन सार्वात्म्यसिद्धिश्च स्यात्। नो चेदात्मनो देहपरिच्छित्त्या परिच्छिन्नोऽयमात्मा इत्यात्मास्तीति वा वार्तापि न स्यात्। “देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म” इति श्रुत्येष्यते सार्वात्म्यमपरिच्छिन्नत्वं च। अतो युक्तमुक्तमाध्यात्मिकादिप्रपञ्चसम्बन्धतःसप्ताङ्गत्वं स्यादिति। “यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम्” इत्यादिश्रुत्यनुरोधेनाध्यात्मिकाधिदैवव्यष्टिसमष्ट्युपाध्यवच्छिन्नविश्वविश्वादेरेकत्वं तत्सूक्ष्मांशोपाधिकतैजसतैजसाद्योरुपलक्षणार्थः। तद्बीजांशोपाधिकप्राज्ञप्राज्ञबीजविराडाद्योरविशेषत एकत्वं सिद्धमित्यर्थः। एवं च सत्येतत्सर्वापह्नवे निष्प्रतियोगिकाद्वैतं सिद्धं भवति॥३॥

तस्य द्वितीयपादस्वरूपम्

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः॥४॥

प्रणवस्थूलप्रपञ्चमुक्त्वा सूक्ष्मप्रपञ्चमाचष्टे—स्वप्नस्थान इति। व्यष्टिसमष्ट्यात्मकस्थूलादिचतुर्धाभिन्नस्वप्नस्थानमस्य तैजसविश्वादेरिति स्वप्नस्थानः।

जाग्रज्जाग्रदादिभवबाह्यप्रविभक्तबाह्यादिप्रज्ञासंस्कारतो बाह्यसाधनमनपेक्ष्याविद्याकामकर्मप्रेर्यमाणवासनाकलितमनसैव सर्वंपरिकल्प्य स्वप्नेऽन्तःप्रज्ञा यस्य सोऽयं अन्तःप्रज्ञः। “अस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति”, “अत्रैष देवः स्वप्नेमहिमानमनुभवति” इति श्रुतेः। स्थूलप्रपञ्चसंस्कृतवासनोद्भूतसप्ताङ्ग एकोनविंशतिमुखः इति व्याख्यातम्। जाग्रत्प्रविभक्तभोगो यस्य स प्रविविक्तभुक्। केवलतेजोरूपप्रज्ञाविषयो भवतीति तैजसः इति द्वितीयः पादः “स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप उकार एव। चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीजसाक्षिभिरोतानुज्ञात्रनुज्ञाविकल्पैरुकाररूपैरनुज्ञाता ह्ययमात्मा” इति श्रुतेः॥४॥

तस्य तृतीयपादस्वरूपम्

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञः तृतीयः पादः॥५॥

अकारोकारतदध्यक्षपादनिरूपणानन्तरं मकाराध्यक्षबीजपादं विवृणोति—यत्र सुप्त इति। यत्र स्थाने काले वा सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति। न हि पूर्वयोरिव सुप्तस्य कामस्वप्नदर्शनं वास्ति तत् एतत् सुषुप्तम्। सुषुप्तं स्थानं अस्य प्राज्ञविश्वादेरिति सुषुप्तस्थानः। जाग्रदादिस्थानद्वयप्रविभक्तद्वैतप्रपञ्चस्य कारणाज्ञानग्रस्तत्वेनैकीभूतत्वात् एकीभूतः। यद्वत् नैशतमसावृतघटादि तमोघनमिव भाति तद्वत् जाग्रत्स्वप्नमनस्स्पन्दनप्रज्ञानजातं घनीभूतं यस्य स हि प्रज्ञानघनः। एवशब्दतः प्रज्ञानघनातिरिक्तजात्यन्तरं नास्तीति द्योत्यते। जाग्रदादिमनस्स्पन्दनायासदुःखवैरल्यात् आनन्दमयः। मयटो विकारार्थत्वादानन्दविकारो नानन्द एवेत्यर्थः। तथा आनन्दभुक् निरायासस्थितिरूपानन्दानुभूतेः आनन्दभुगुच्यते “एषोऽस्य परम आनन्दः” इति श्रुतेः। तत्रत्यचेतसो जाग्रदादेर्द्वारीभूतत्वाद्बोधलक्षणं वा चेतोमुखं द्वारमस्येति वा चेतोमुखः।

भूतादिकालत्रयज्ञातृत्वं सकलविषयज्ञातृत्वं प्रज्ञप्तिमात्रं वा इतरापेक्षया विशिष्टप्रज्ञानमस्यास्तीति वा प्राज्ञः। सोऽयं तृतीयः पादः॥५॥

स एव सर्वेश्वरः

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्॥६॥

अध्यात्माधिदैविकभेदजातस्य सर्वस्य एष एव ईश्वरः। न ह्येतस्मादीशादन्यः प्राज्ञोऽस्ति। “प्राणबन्धनं हि सोम्य मनः’’ इति श्रुतेः। सर्वो भूत्वा सर्वं जानातीति एष सर्वज्ञः। सर्वभूतान्तरनुप्रविश्य तन्नियन्तृत्वात् एषो ह्यन्तर्यामी। यथोक्तलक्षणं जगत् यस्मात् जातं स ह्येष योनिः सर्वस्य इत्यर्थः। यतो भूतानां भौतिकानां च प्रभवाप्ययौ उत्पत्तिप्रलयौ भवतः सोऽयमीश्वरः सर्वकारणमित्यर्थः। ‘‘सुषुप्तस्थानश्चतुरात्मा प्राज्ञ ईश्वरश्चतूरूपो मकार एव। चतूरूपो ह्ययं मकारः स्थूलसूक्ष्मबीजसाक्षिभिरोतानुज्ञात्रनुज्ञाविकल्पैर्मकाररूपैरनुज्ञैकरसो ह्ययमात्मा”, “एष त आत्मान्तर्याम्यमृतः’’,‘‘यः सर्वज्ञः सर्ववित्”, “तस्मात् सर्वगतः शिवः” इत्यादिश्रुतेः॥६॥

तस्यैव विश्वादिभेदेन त्रेधा स्थितत्वम्

अत्रेतेश्लोका भवन्ति—

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्थितः॥१॥

उक्तेऽर्थे एते श्लोका मन्त्रा भवन्ति—बहिःप्रज्ञ इत्यादिना। एक एव ईश्वरो व्यष्टिसमष्ट्यात्मकदेहत्रये स्थूलादिप्रविभक्तस्थूलादिरूपमवष्टभ्य विश्व-

तैजसप्राज्ञविश्वादिरूपेण त्रिधा स्थितः सन् बाह्यान्तर्घनप्रज्ञतां भजति। अत ईश्वरस्य स्थानत्रयव्यतिरिक्तासङ्गशुद्धत्वादि सिद्धमित्यर्थः॥१॥

अवस्थात्रयानुभवः

दक्षिणामुखे विश्व मनस्यन्तस्तु तैजसः।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः॥२॥

पञ्चदशावस्थाद्युपलक्षणार्थं जाग्रज्जाग्रदाद्यवस्थात्रयानुभवं दर्शयति—दक्षिणाक्षिमुख इति। “इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः’’ इति श्रुत्यनुरोधेन आदित्याद्यन्तरत्वेनेन्धो दीप्तिगुणविशिष्टविराडाद्यात्मा चक्षुषि च द्रष्टा एकः। “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इति श्रुतेः। स्थूलादिविषयोपभोगाय दक्षिणमक्ष्येव मुखं तस्मिन् दक्षिणाक्षिमुखे सर्वेषु करणेषु अविशेषेष्वपि स्थूलादिरूपग्रहणे दक्षिणाक्षिण्युपलब्धिपाटवात् दक्षिणाक्षिमुखे विश्वविश्वादिस्थूलादिरूपग्रहणं कुर्वन् यत्र जागर्ति सेयमवस्था जाग्रज्जाग्रदादीत्युच्यते। इत्थं दक्षिणाक्षिगतविश्वो बाह्यरूपं दृष्ट्वाअथ यदा निमीलिताक्षो भवति तदा वासनारूपाभिव्यक्तस्वप्नंपश्यति। सेयं जाग्रद्विभक्तस्वप्नावस्थोच्यते। चक्षुरादिव्यापारोपरमे अन्तर्मनसि व्यापृतस्तु विश्वप्रविभक्ततैजस इत्यभिधीयते। स हि हृदि आकाशे च यदा स्मरणादिव्यापृतेरुपरमोभवति तदा जाग्रत्प्रविभक्तस्वापावस्थोच्यते। तन्निवर्तको विश्वविभक्तप्राज्ञो भवति। तत्र मनोव्यापारवैरल्यात् अविशेषेण प्राणात्मनायमवशिष्यत इत्यर्थः। “प्राणो ह्येवैतान् सर्वान् संवृङ्क्ते” इति श्रुतेः। इत्थंत्रिधा देहे व्यवस्थितिःजाग्रज्जाग्रदादिपञ्चदशावस्थातद्व्यष्टिसमष्टितदैक्याध्यक्षोपलक्षणार्थेत्यर्थः॥२॥

विश्वादेः स्थूलादिभुक्त्वं तृप्तिश्च

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक्।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत॥३॥

स्थूलं तर्पयते विश्वं प्रविविक्तस्तु तैजसम्।
आनन्दश्चतथा प्राज्ञं त्रिधा तृप्तिं निबोधत॥४॥

विश्वविश्वादेः स्थूलादिभुक्त्वं तेनैव तृप्तिं च निगमयति—विश्वो हि इत्यादिना। स्पष्टोऽर्थः॥३–४॥

एतद्भोगज्ञानफलम्

त्रिषु धामसु यद्भोज्यं भोक्ता यश्चप्रकीर्तितः।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते॥५॥

भोक्तृभोग्यजातं ब्रह्मेति ज्ञानफलमाह—त्रिषु धामसु इति। जाग्रदादिषु त्रिषु धामसु स्थूलप्रविविक्तानन्दभेदेन त्रिधाभूतमिव यत् भोज्यं एकं विद्यते स्थूलप्रविभक्तस्थूलाद्युपाधिभेदेन विश्वविभक्तविश्वादिरूपो भोक्तापि एक एव सर्वावस्थाभोक्ताहमित्येकत्वानुसन्धानात्तद्भावाभावप्रकाशकत्वेन प्रत्यक् प्रकीर्तितः। यस्तु भोक्तृभोज्यतया विभिन्नं एतदुभयं ब्रह्मेति वेद स हि स्वाज्ञदृष्ट्या भुञ्जानोऽपि न लिप्यते सर्वस्य एकभोक्तृभोज्यत्वात्।

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥

इति श्रुतेः। न हि स्वान्नेन स्वयमद्यते स्वस्यात्तृत्वात् दाह्यदग्ध्रग्निवदित्यर्थः॥५॥

तस्यैव सर्वकारणत्वम्

प्रभवः सर्वभावानां सतामिति विनिश्चयः।
सर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक्॥६॥

स्वाज्ञादिदृष्ट्या सर्वकारणत्वं स्फोरयति—प्रभव इति। स्वाज्ञदृष्टिप्रसक्तविश्वविश्वादिसर्वभावानां स्वसत्तयासतां प्रभवः उत्पत्तिः, न ह्यसताम्—

असतो मायया जन्म तत्त्वतो न हि युज्यते।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते॥

इत्यसतोऽनुत्पत्तिं वक्ष्यति। यद्यसतां प्रभवस्तदा ब्रह्मणोऽव्यवहार्यत्वेन ग्रहणद्वाराभावात्तस्यासत्त्वं प्रसज्यते। यथा रज्वारोपितसर्पादेः रज्ज्वाद्यात्मना सत्त्वं तथा स्वारोपितविश्वस्य स्वरूपतः सत्त्वम्। स्वोत्पत्तेः पुरा भावानां प्राणात्मना सत्त्वमित्यत्र “नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत्” इति श्रुतेः। अतः प्राणो बीजात्मा पुरुषः ईश्वरःस्वाविद्यातत्कार्यचेतयितृत्वात् चेतः स्वयं भवति। रवेरंशव इव स्वस्यांशवश्चेतोंऽशवोविषयभावविलक्षणाः सलक्षणाश्चाग्निविस्फुलिङ्गवत् जलार्कवच्च विश्वविश्वादिभेदेन देवमनुष्यतिर्यगादिदेहेषु पृथक् पृथक् विभाव्यमानाः। तान् चेतोंऽशून् तद्भोग्यलक्षणं सर्वमिदं जगच्च सृजतीत्यत्र “यथोर्णनाभिः”, “यथाग्नेः क्षुद्रा विस्फुलिङ्गाः” इति श्रुतेः। वस्तुतोवस्तुतो वापि स्वातिरिक्तं जगत् सत्त्वेनासत्त्वेनापि न किंचित् जायते।

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु। इति,

‘‘यत्र किंचिन्न जायते” इति च जातिसामान्यवैरल्यश्रुतेः॥६॥

सृष्टिविकल्पः

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता॥७॥

स्वाज्ञदृष्टिप्रसक्तसृष्टिस्वरूपमाचष्टे—विभूतिं इति। सृष्टिःईश्वरविभूतिरिति सृष्टिचिन्तकाः मन्यन्ते न तत्त्वविदः सृज्यमानविषयवैरल्यात्। “इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रुतितः, “स्वप्नमाये यथा दृष्टे” इति कारिकातश्च अन्यैः स्वज्ञैः स्वप्नसरूपा मायासरूपा चेति विकल्पिता इयं सृष्टिः इत्यर्थः॥७॥

देवस्वभाव एव सृष्टिः

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः।
कालात्प्रसूतिंभूतानां मन्यन्ते कालचिन्तकाः॥८॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा?॥इति॥९॥

ईश्वरेच्छातः कालाद्वा सृष्टिः स्यादिति सृष्टिचिन्तका मन्यन्त इत्याह—इच्छामात्रं इति। केचन प्रभोरिच्छामात्रं घटादिप्रपञ्चसृष्टिरिति। सृष्टौ विनिश्चिताः केचन कालादेव सृष्टिरिति। यद्वा—भोगार्थं क्रीडार्थ इति च सृष्टिरिति अपरे मन्यन्ते। पक्षद्वयं दूषयति—देवस्यैष इति। “विभूति प्रसवं त्वन्ये” इत्यादिसर्वपक्षदूषणमाह—आप्तकामस्य इति। अधिष्ठानाज्ञानातिरिक्तसृष्टिर्नास्तीत्यर्थः॥८-९॥

तस्य तुरीयपादस्वरूपम्

नान्तःप्रज्ञं नवहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम्। अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः॥७॥

पादत्रयमुक्त्वा तुरीयपादं विवृणोति—नान्तःप्रज्ञं इति। नान्तःप्रज्ञं नवहिःप्रज्ञमिति पाठक्रमापेक्षया अर्थक्रमस्य बलीयस्त्वात् विश्वप्रविभक्ततैजसप्रपञ्चनस्य विश्वविश्वप्रपञ्चनपूर्वकत्वादिति। नाहं बहिःप्रज्ञः व्यष्टिसमष्ट्यात्मकतदैक्यरूपजागरणजागरणाभिमानिविश्वविश्वाभिन्नविराडि्वराडैक्योश्रोतृगतहेयांशापह्वसिद्धत्वात्। तथाहं नान्तःप्रज्ञः जागरणस्वप्नाभिमानित्र्यावहारिकतैजसविराट्-

सूत्रैक्योत्रनुज्ञातृहेयांशवैरल्यात्। नाहं बाह्यान्तर्विजृंभितस्थूलसूक्ष्मप्रपञ्चोभयतःप्रज्ञः जागरणस्वापाभिमानिव्यावहारिकप्राज्ञविराड्बीजैक्योत्रनुज्ञैकरसहेयांशवैरल्यात्। नाहं प्रज्ञः जागरणजाग्रदादिभावाभावप्रज्ञाभिमानिव्यावहारिकतुर्यविराट्तुर्यैक्योत्रविकल्पकलनाशून्यत्वात्। इत्थं स्थूलप्रपञ्चापह्नवसिद्धब्रह्मज्ञानाद्ब्रह्मविद्भवेत्। नाहं अप्रज्ञः व्यष्टिसमष्टिस्वप्नविभक्तजागरणाभिमानिबहिःप्रज्ञाविरलप्रातिभासिकविश्वसूत्रविराडनुज्ञात्रोतृकलनाया मृग्यत्वात्। अहं अदृश्यः स्वप्नस्वप्नाभिमानिचित्तकल्पितदृश्यमोहितप्रातिभासिकतैजससूत्रसूत्रतदैक्यानुज्ञात्रनुज्ञात्रकलनापह्नवात्। नाहं प्रज्ञानघनः स्वप्नस्वापाभिमानिसर्वविषयाभावप्रज्ञानघनप्रातिभासिकप्राज्ञसूत्रबीजतदैक्यानुज्ञात्रनुज्ञैकरसकलनाबाह्यत्वात्। अहं अव्यवहार्यः स्वप्नतुर्यावस्थाभिमानिस्वप्नजागरणादिभावाभावसाक्षित्वव्यवहार्यप्रातिभासिकसूत्रतुरीयतदैक्यानुज्ञात्रविकल्पविलक्षणत्वात्। एवं सूक्ष्मप्रपञ्चापह्नवसिद्धब्रह्मज्ञानतो ब्रह्मविद्वरो भवति। अहं अग्राह्यः सुषुप्तिजागरणाभिमानिस्वाज्ञानवृत्तिग्राह्यपारमार्थिकविश्वबीजविराट्कलनावैरल्यात्। अहं अलक्षणःस्वापस्वनाभिमानिस्वाज्ञानवृत्तिलक्षणवेद्यपारमार्थिकतैजसबीजसूत्रादिविलक्षणत्वात्। अहं अचिन्त्यः न किंचनावेदिषमिति परामर्शचिन्त्यस्वापस्वापाभिमानिपारमार्थिकप्राज्ञबीजबीजतदैक्यानुज्ञैकरसानुज्ञैकरसविलक्षणत्वात्। अहं अव्यपदेश्यः स्वापतुर्यावस्थाभिमानिस्वापजागरणादिभावाभावसाक्षित्वव्यपदेश्यपारमार्थिकबीजतुर्यैक्यानुज्ञैकरसाविकल्पगतहेयांशापह्नवसिद्धत्वात्। एवं बीजप्रपञ्चकलनापवादतो ब्रह्मविद्वरीयान् भवेत्। अहं एकात्मप्रत्ययसारः तुर्यजागरणाभिमानिध्यात्राद्यनेकप्रत्ययसारतुर्यविश्वविराट्तदैक्याविकल्पोतृविलक्षणत्वात्। अहं प्रपञ्चोपशमः तुर्यस्वप्नाभिमानी क्वचित् कदाचित् अशान्तप्रपञ्चतुर्यतैजससूत्रतदैक्याविकल्पानुज्ञातृकलनावैरल्यात्। अहमेव शान्तः तुर्यस्वापाभिमानिगुणसाम्यावस्थाशान्ततुर्यप्राज्ञबीजतदैक्याविकल्पानुज्ञैकरसगतहेयांशापह्नवसिद्धत्वात्। एवं तुर्यावस्थाभागत्रयापह्नवबोधतो ब्रह्मविद्वरिष्ठो भवति। अहमेव शिवःजाग्रज्जाग्रद्विश्वविश्वविराड्विवराडोत्रोत्रदिचतुष्पञ्चदशकलनाशिवापह्नवसिद्धनिष्प्रतियोगिकतुर्यतुर्यब्रह्ममात्रत्वात्। अत एव अहं अद्वैतः।

द्वैतं यदि तदाद्वैतं द्वैताभावेऽद्वयं न च।

इति श्रुत्यनुरोधेन सापेक्षद्वैताद्वैतकलनाविरलनिष्प्रतियोगिकपरमाद्वैतरूपत्वात्। एवंविशेषणविशिष्टं यं आत्मानं स्वस्वदृष्ट्यनुरोधेन चतुर्थं तुरीयं तुर्यतुरीयं वा ब्रह्मविदादयो मन्यन्ते। स्वातिरिक्तप्रपञ्चापवादास्पदनिरास्पदब्रह्ममात्रत्वात्। स एव आत्मा सर्वापह्नवसिद्धस्वमात्रत्वेन विज्ञेयः “नातः परं वेदितव्यं हि किंचित्” इति श्रुतेः। तुर्यतुर्यातिरेकेण जाग्रज्जाग्रदादिचतुष्पञ्चदशकलना न ह्यस्ति। तुर्यतुर्यं निष्प्रतियोगिकस्वमात्रमप्यसल्लौकिकाद्यष्टदृष्टीनां जाग्रज्जाग्रदादिचतुष्पञ्चदशकलनेव भासते। परमार्थदृशां निष्प्रतियोगिकस्वमात्रतया भासत इत्यर्थः। “तुरीय ईश्वरग्रासः स स्वराट् स्वयमीश्वरः स्वप्रकाशः चतुरात्मा ओङ्कार एव। चतूरूपो ह्ययमोङ्कारः स्थूलसूक्ष्मबीजसाक्षिभिरोत्रनुज्ञात्रनुज्ञाविकल्पैः ओङ्काररूपैः अविकल्पो ह्ययमात्मा’’ इति श्रुतौ तावत् अकारोकारमकारचातुर्विध्यवत् ओङ्कार एव चतूरूपः इत्यर्धमात्राप्रणवस्यापि चातुर्विध्योक्तेः कथं त्रैविध्यम्? इति चेन्न; सविशेषनिर्विशेषयोः पृथग्वक्तव्यत्वात्। श्रुतौ तावत् सविशेषनिर्विशेषावेकीकृत्य विवक्षितं, सविशेषनिर्विशेषयोः सविकल्पाविकल्पत्वेन मिथो वैलक्षण्यात्। स्वेतरभासकचितः स्वेतराभावे भासकतावैरल्यात् भास्यसद्भावे तन्निरूपितभासकत्वेन सविशेषत्वम्। तुर्यतुर्यस्य तु स्वेतरभास्यभासककलनापह्नवसिद्धत्वेन निष्प्रतियोगिकनिर्विशेषत्वम्। तयोः सविशेषनिर्विशेषयोः पृथग्वक्तव्यत्वेन त्रैविध्योक्तिः युक्ता। ‘‘ओङ्काराग्रविद्योतं तुर्यतुरीयम्” इति जाग्रज्जाग्रदादिचतुष्पञ्चदशकलनामोहोङ्काराग्रत्वेन स्वाज्ञादिदृष्टिप्रसक्तचतुष्पञ्चदशमोहे सत्यसति तत्सर्वापह्नवसिद्धतया विद्योतमानं तुर्यतुर्यमवशिष्यत इत्यर्थानुवादिश्रुतेः॥७॥

तुर्यतुरीयलक्षणम्

अत्रैतेश्लोका भवन्ति—

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः॥१०॥

याथात्म्यप्रबोधतोऽद्वैतप्रपञ्चापह्नवसिद्धनिष्प्रतियोगिकाद्वैतभावोऽवशिष्यत इत्यस्मिन्नर्थे अत्रैते श्लोका मन्त्रा भवन्तीत्याह— निवृत्तेः इत्यादिना। जाग्रज्जाग्रदादिचतुष्पञ्चदशकलना अस्ति नास्तीति कलनापि दुःखरूपा। तत्सर्वापह्नवबोधात् तद्दुःखनिवृत्तेः। ततः “ईश्वरग्रासस्तुर्यतुरीयः” इति श्रुत्यनुरोधेन स्वातिरिक्तसर्वदुःखग्रासोऽयं ईशानः तुरीयतुरीय इत्यर्थः। स्वाज्ञादिदृष्टिप्रसक्तदुःखनिवृत्तिं प्रति स्वज्ञदृष्ट्या प्रभवतीति प्रभुः। स्वातिरिक्तदुःखनिवृत्तेः तद्याथात्म्यज्ञाननिमित्तत्वात्। स्वाज्ञादिदृष्टिमोहे सत्यसति यः स्वरूपतो न व्येतीति अव्ययः। स्वाज्ञदृष्ट्या प्रसक्तसर्वभावानां विश्वविश्वादिद्वैतभेदानां सर्पादिस्थानीयानां स्वज्ञदृष्ट्या रज्जुस्थानीयत्वेन द्योतनात् देवो विभुस्तुरीयो हि अद्वैतः। परमार्थदृष्ट्या निष्प्रतियोगिकाद्वैतो हि तुर्यतुरीय इत्यर्थः॥१०॥

विश्वादीनां याथात्म्यम्

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ।

प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः॥११॥

तुर्यतुर्ययाथात्म्यावगतये विश्वविश्वादीनां याथात्म्यं निरूप्यते— कार्यकारणबद्धौ इति। अन्यथाग्रहलक्षणं फलं क्रियत इति कार्यम्। तत्त्वाग्रहणलक्षणं बीजं करोतीति कारणम्। ताभ्यां विश्वविश्वाद्योत्रविकल्पान्तभेदः तैजसविश्वाद्यनुज्ञात्रविकल्पान्तभेदश्च तौ एतौ बद्धाविष्येते। प्राज्ञविश्वाद्यनुज्ञैकरसाविकल्पान्तभेदस्तु तत्त्वाप्रतिबोधमात्रबीजभावेनैव बद्ध इवाभिधीयते। तौ अन्यथाग्रहणतत्त्वाग्रहणलक्षणफलबीजभावौ द्वौ तु तुर्येतुरीययाथात्म्यतुर्यतुर्ये तदधिगमे वा न सिध्यतः न संभवत इत्यर्थः॥११॥

तुर्यस्य भावाभावप्रकाशकत्वम्

नात्मानं न परं चैव न सत्यं नापि चानृतम्।

प्राज्ञः किञ्च न संवेत्ति तुर्यं तत्सर्वदृक् सदा॥१२॥

तुर्यतुर्यस्य निष्प्रतियोगिकस्वमात्रत्वात् तत्र स्वाज्ञदृष्टिप्रसक्तविश्वतैजसादिवत् प्राज्ञादेः द्वैतग्रहो न ह्यस्ति। तुर्यस्य तु तद्भावाभावप्रकाशकत्वमाह— नात्मानं इति। विश्वविश्वादिवत् आत्मानं अन्यं परं व्यावहारिकसत्यमनृतं च किंचिदपि प्राज्ञविश्वादिः न संवेत्तीव। वस्तुतः स्वातिरिक्तविषयाभावात्। यद्वा— तत्त्वाग्रहणलक्षणतमसा आवृतत्वात् न किंचिदपि वेत्तीत्यर्थः। तुर्यं तु सर्वं च तत् दृक् चेति सर्वदृक्। सदा तत्र तुरीये तत्त्वाग्रहणलक्षणं अन्यथाग्रहणलक्षणं वा न किंचिदस्ति। न हि मध्यंगतनिरावृतप्रचण्डमार्ताण्डप्रकाशे अन्यथाप्रकाशनं अप्रकाशनं वा संभवति। तद्वत् केवलप्रकाशरूपत्वात्तुर्यस्य “न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् न तु द्वितीयमस्ति” इति श्रुतेः। यद्वज्जाग्रज्जाग्रदादिपञ्चदशावस्थायां एकरूपेणायं सदा सर्वदृक् स्वातिरिक्तकलनाभावाभावदृष्टत्वात् ‘‘नान्यदतोऽस्ति द्रष्टृ” इति श्रुतेः॥१२॥

तुरीयस्य न कारणबद्धत्वम्

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते॥१३॥

प्राज्ञवत् तुरीयोऽपि कारणबद्धःस्यादित्यत आह— द्वैतस्याग्रहणं इति। प्राज्ञतुर्यप्रविभक्तप्राज्ञतुर्ययोः स्वातिरिक्तद्वैताग्रहणस्य तुल्यत्वेन प्राज्ञवत्तुर्यस्यापि कारणबद्धत्वं स्यादिति न वक्तव्यं, तुरीयस्य स्वतत्त्वप्रबोधविदितत्वात्। प्राज्ञस्तु— स्वतत्त्वाप्रबोधो हि निद्रा। सैव अन्यथाप्रबोधबीजं सा च बीजनिद्रा। तया युतो हि प्राज्ञः। तुरीयस्य स्वयाथात्म्यतुर्यतुर्यरूपत्वात्। तुर्ये तत्त्वाप्रबोधलक्षणवीजनिद्रा न विद्यते। तस्मान्न हि कारणबद्धस्तुरीय इत्यभिप्रायः॥१३॥

तस्यैव विवृतिः

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः॥१४॥

उक्तार्थमेव प्रकारान्तरेण विशदयति— स्वप्ननिद्रायुतौ इति। रज्जुसर्पवत्अन्यथाग्रहणं स्वप्नः। तत्त्वाप्रबोधलक्षणा हि निद्रा। ताभ्यांयुतौ विश्वतैजसौ। अतस्तौ कार्यकारणबद्धौ। प्राज्ञस्तु अस्वप्ननिद्रया स्वप्नविरलकेवलनिद्रया युत इति अयं कारणबद्ध उच्यते। निश्चिताःब्रह्मविदः तुर्ये न उभयं पश्यन्ति। अतो न कार्यकारणबद्धस्तुर्य इत्यर्थः॥१४॥

तुरीयप्राप्तिः

अन्यथा गृह्णतः स्वप्नोनिद्रा तत्त्वमजानतः।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते॥१५॥

इत्थंभूततुरीयावगतिः कदा? इत्यत आह— अन्यथा इति। स्वान्यथागृह्णतः तत्त्वं स्वप्नो भवति। स्वं अजानतस्तत्त्वं निद्रा भवति। विश्वतैजसयोः स्वप्ननिद्रावृतितुल्यत्वात्। एकराशित्वं तयोरन्यथाग्रहणप्रधानत्वात्। तद्गुणभूता हि निद्रा। तद्विपर्यासः स्वप्नः। प्राज्ञे तु तत्त्वाग्रहणलक्षण केवलनिद्रैव विपर्यासः। अतः तयोः इत्थंभूतविपर्यासे श्रुत्याचार्यप्रसादलब्ध बोधतः क्षीणे तुरीयं पदमश्नुते॥१५॥

अद्वैतबोधः

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा॥१६॥

कथं पुनः स्वाज्ञस्य तुर्यप्रतिपत्तिः? इत्यत आह— अनादिमायया इति। योऽयं जीवः तत्त्वाग्रहणान्यथाग्रहणलक्षणया अनादिप्रवृत्तया मायया पितृपुत्रनप्तृक्षेत्रगृहपशुमान् सुखी दुःखीत्याकारकस्वप्नान् जाग्रदादौ पश्यन् सुप्तो भवति, स यदा ब्रह्मयाथात्म्याभिज्ञदेशिकेन— हेतुफलात्मको नासि, किन्तु “ब्रह्ममात्रमसन्न हि” इति श्रुत्यनुरोधेन स्वातिरिक्तहेतुफलतत्कार्यापह्नव-

सिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रम्— इति प्रबोध्यमानः तदैव स्वात्मानं “सबाह्याभ्यन्तरो ह्यजः” इति श्रुतितो जन्मादिषड्भावविकारविरलं अजं जाग्रदादिसर्वावस्थापह्नवसिद्धं अनिद्रं अस्वप्नं असुषुप्तं अतुरीयं निष्प्रतियोगिकाद्वैतं स्वमात्रमिति बुध्यते तन्मात्रतयावशिष्यत इत्यर्थः॥१६॥

तस्यैव परमार्थत्वम्

प्रपञ्च यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥१७॥

स्वातिरिक्तप्रपञ्चे सति कथं ब्रह्ममात्रं बुध्यते? इत्यत आह— प्रपञ्चइति।

इदं प्रपञ्चं यत्किंचित् यद्यज्जगति वीक्ष्यते।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥

इति श्रुत्यनुरोधेन प्रपञ्चस्य निष्प्रतियोगिकाभावरूपत्वं सिद्धम्। स्वाज्ञादिदृष्ट्या तादृशप्रपञ्चो यदि स्वात्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन शून्यत्वेन वा विद्येत,

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इति श्रुत्यर्थज्ञानसमकालं निवर्तेत न संशयः। न हि रज्वादिविकल्पितसर्पादिर्विद्यमानः सन् विवेकतो निवृत्तः। नापि मायाविना प्रयुक्ता माया पश्यतां चक्षुरावृत्त्यपगमे विद्यमाना सती निवृत्ता। तथा इदं प्रपञ्चाख्यं द्वैतं मायामात्रम्। इत्थं द्वैतप्रपञ्चेऽपह्नवतां गते परमार्थतोऽद्वैतसापेक्षाद्वैतप्रपञ्चगतहेयांशापह्नवसिद्धं निष्प्रतियोगिकतया परमाद्वैतमवशिष्यते। तस्मात् ब्रह्मातिरिक्तः प्रपञ्चः प्रवृत्तो निवृत्तो वा न ह्यस्ति। ब्रह्ममात्रमेव सदा विजृंभत इत्यर्थः।

चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम्।
सर्ववर्जितचिन्मात्रं ब्रह्ममात्रमसन्न हि॥

इत्यादिश्रुतेः॥१७॥

अद्वैतज्ञाने सति द्वैतस्याभावः

विकल्पो विनिवर्तेत कल्पितो यदि केनचित्।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते॥१८॥

शास्त्रगुरुशिष्यादिविकल्पः कथं निवर्तते ? इत्यत आह— विकल्प इति। स्वातिरेकेण गुरुशिष्यादिप्रपञ्चो विकल्पितः चेत् प्रबोधसमकालं तद्विकल्पोऽपि निवर्तेत। यथा मायारज्जुसर्पवत् निवृत्तोऽयं प्रपञ्चः तथा शास्त्रगुरुशिष्यादिभेदविकल्पोऽपि स्वप्रबोधसमकालं निवर्तते। उपदेशात् उपदेशनिमित्तमयं शास्त्रगुरुशिष्यादिवादः उपदेशतः सर्वविकल्पापह्नवसिद्धे ब्रह्मणि निष्प्रतियोगिकस्वमात्रमिति ज्ञाते स्वाज्ञदृष्ट्यनुभूतद्वैतं,

द्वैतं यदि तथाद्वैतं द्वैताभावेऽद्वयं न च।

इति श्रुतिसिद्धद्वैतं तत्सापेक्षमद्वैतमपि न विद्यते।

सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते।

इति श्रुतेः। परमाद्वैतस्य निष्प्रतियोगिकत्वेन विद्यमानत्वात् तत्स्वातिरिक्तगन्धमपि न सहत इत्यर्थः॥१८॥

ओङ्कारविवरणम्

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति॥८॥

योऽयमभिधेयप्राधान्येन “सोऽयमात्मा चतुष्पात्” इति ओंकारो व्याख्यातः पुनरभिधानाभिधेययोरेकत्वाभिप्रायेण सोऽयमोंकारो व्याक्रियते— सोऽयं इति। योऽभिधेयप्राधान्येन वर्णितः सोऽयमात्मा ओङ्कारः अक्षरमधिकृत्याभिधानप्राधान्येन वर्ण्यमानः अध्यक्षरपदं भजति। किं पुनस्तदक्षरम्? इत्यत आह— ओङ्कार इति। मात्रामधिकृत्य सोऽयं ओङ्कारः पादशो विभज्यमानः सन् अधिमात्रपदं भजति। तत् कथम्? इत्यत आह— पादा इति। ओङ्कारार्थाभिधेयात्मानो ये विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तास्त्रिपञ्चदशपादाः त एव व्यष्टिसमष्टितदैक्योंकारस्य तथा स्थूलसूक्ष्मबीजार्धमात्रांशविशिष्टाकारोकारादिपञ्चदशमात्राः। पुनर्मात्रा अपि पादा इत्यर्थः। कास्ताः? इत्यत आह—अकार इति। स्थूलादिभेदेन अकारादिमात्राश्चतुश्चतुर्विधाः। स्थूलसूक्ष्मबीजभेदेनार्धमात्रापि त्रिधा भिन्ना। तत्तुर्यमात्रायाः स्वविकल्पितपञ्चदशमात्राग्रासतुर्यतुर्यस्वरूपत्वात्। आहत्य मात्राः पञ्चदशेत्यर्थः॥८॥

अकारमात्रास्वरूपम्

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राप्तेरादिमत्त्वा

द्वाप्नोति ह वै सर्वान् कामान् आदिश्च भवति य एवं वेद॥९॥

तत्रादौ अकारमात्रास्वरूपं व्यनक्ति— जागरितस्थान इति। पूर्वोक्तव्यष्टिसमष्ट्यात्मकजागरितस्थानःवैश्वानरोपलक्षितविश्वविश्वादिषोडशभेदःयस्य ओंकारावयवस्थूलादिचतुरंशाद्याकारः स हि प्रथमा मात्रा। केन साम्येन? इत्यत आह— आप्तेः इति। अकारेण सर्वा वाक् व्याप्ता इति आप्तिः व्याप्तिः। “अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति” इति श्रुतेः। तथा विश्वानरोपलक्षितविश्वविश्वादिषोडशभेदेन स्वाविद्यापदस्थूलांशो व्याप्तः। “तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ आस्यमाहवनीयः” इति श्रुतेः। आदिरस्य विद्यत इत्यादिमत्। यथा आदिमत् अकाराक्षरं

तथा वैश्वानरोपीत्यर्थः। इत्थं वा साम्याद्वैश्वानरस्याकारत्वम्। तदेकत्वविदः फलमाह— सर्वान् इति। सर्वान् कामान् आप्नोति ह वै महतां प्रथमश्चभवति य एवं वेद यथोक्तमेकत्वं वेदेत्यर्थः॥९॥

उकारस्वरूपम्

** स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति य एवं वेद॥१०॥**

उकारप्रपञ्चं विशदयति— स्वप्नस्थान इति। यथोक्तस्वप्नस्थानस्तैजसो यस्य उकारो द्वितीया मात्रा। केन साम्येन? इत्यत आह— उत्कर्षात् इति। अकारोपरि उत्कृष्टत्वेन विद्यमानत्वात्। तथा विश्वविश्वादेरपि तैजसविश्वादेः उत्कृष्टत्वात्। अकारमकारोभयमध्यस्थत्वाद्वा। तथा विश्वप्राज्ञयोमध्ये तैजस उत्कृष्टः। अत उभयभाक्त्वसामान्यात्। विद्याफलमाह— उत्कर्षति इति। ह वै ज्ञानसन्ततिं वर्धयतीत्यर्थः। शत्रुमित्रपक्षयोरपि समानः तुल्यो भवति। अस्य कुले अब्रह्मविन्न भवति य एवं वेद॥१०॥

मकारस्वरूपम्

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद॥११॥

अथ मकारप्रपञ्चः प्रपञ्चयते— सुषुप्तस्थान इति। योऽयं यथोक्तसुषुप्तस्थानः प्राज्ञः यस्स मकारः तृतीया मात्रा। तत्र सामान्यमिदं मितेः प्रलयोत्पत्योः विश्वतैजसौ मीयेत इवेति मितिः मानं प्रवेशनिर्गमनाभ्यां प्रस्थेनेव यवा इत्यर्थः। तथा ओङ्कारसमाप्तौ पुनः प्रयोगे च अकारोकारौ मकारे प्रविश्य

निर्गच्छत इवेत्यर्थः। हेत्वन्तरमाह— अपीतेः इति। अपीतिरप्यय एकीभावः। विशिष्टोङ्कारोच्चारणे तदवयवाकारोकारौ प्रणवान्त्यावयवमकारे यथैकीभूताविव भातःतथा सुषुप्त्यवस्थापन्नप्राज्ञे एकीभूत इवेति सामान्यात् प्राज्ञमकरयोरेकत्वम्। तज्ज्ञानफलमाह— मिनोति इति। इदं जगत् सर्वं ह वै मिनोति तदवस्तुत्वं जानातीत्यर्थः। अपीतिश्च जगत्कारणात्मैव भवति इत्यर्थः। एवं ओङ्कारावयवज्ञानफलं अवयव्योङ्कारसाधनस्तुत्यर्थम्॥११॥

विश्वादीनामोङ्कारावयवत्वम्

अत्रैतेश्लोका भवन्ति—

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम्।
मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च॥१९॥

तेजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम्।
मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम्॥२०॥

मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम्।
मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च॥२१॥

अत्रैतस्मिन्नुक्तार्थे एते श्लोका मन्त्रा भवन्ति— विश्वस्य इत्यादिना। विश्वविश्वादिषोडशभेदस्याकारमात्रैकत्वविवक्षायां आदित्वं हि सामान्यमुत्कटं उद्भूतं दृश्यत इत्यर्थः। अत्वविवक्षा कथम्? इत्यत आह— मात्रेति। विश्वविश्वादेरकारमात्रत्वं यत् संपद्यते तत् मात्रासंपत्ति। तस्यां तु आप्तिसामान्यमेव च उत्कटं द्रष्टव्यम्॥१९॥ आप्तिसामान्यमेव चेति चशब्दार्थं विवृणोति— तैजसस्य इति। तैजसस्योकारत्वविवक्षायां स्फुटमुत्कर्षो दृश्यते। शिष्टं स्पष्टमित्यर्थः॥२०॥ प्राज्ञमकारयोरेकत्वमाह— मकारभाव इति। प्राज्ञविश्वादेः मकारभावे मितिलयावुत्कटे सामान्ये इत्यर्थः॥२१॥

एतज्ज्ञानफलम्

त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः।
स पूज्यःसर्वभूतानां वन्द्यश्चैव महामुनिः॥२२॥

विशिष्टावयवज्ञानफलमाह— त्रिषु इति। यो जाग्रदादिस्थानत्रये आप्त्यादिसामान्यं तुल्यं वेत्ति एवमेवैतदिति निश्चिनोति स सर्वभूतानां पूज्यो वन्द्यश्च महामुनिः ब्रह्मविदित्यर्थः॥२२॥

अकारादीनां विश्वादिनेतृत्वम्

अकारो नयते विश्वमुकारश्चापि तैजसम्।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः॥२३॥

एवंविदः सामान्यविशेषफलमाह— अकार इति। य एवं ओङ्कारावयवान् उपास्ते तं उपासकं ओङ्काराद्यवयवःअकारः विश्वविश्वाद्योत्रविकल्पान्तं नयति प्रापयतीत्यर्थः। तथा उकारः तैजसं सविश्वाद्यनुज्ञात्रविकल्पं नयति। तथा मकारः प्राज्ञविश्वाद्यनुज्ञैकरसाविकल्पं नयतीत्यनुवर्तते। एवं व्यष्टिसमष्ट्यात्मकस्थूलादिचतुरंशाढ्याकारादिमात्रात्रये अर्धमात्रास्थूलादिभागत्रयेण तद्व्यष्टिसमष्टितदैक्याध्यक्षेण साकमपह्नवतां गते तदपह्नवसिद्धं निष्प्रतियोगिकामात्रम्। तस्मिन् अमात्रे तुर्यतुर्ये स्वमात्रमिति साक्षात्कृते तदा स्वातिरिक्तमस्ति नास्तीति गतिःव्यापृतिर्वार्तापि न विद्यते तुर्यतुर्यस्य निष्प्रतियोगिकब्रह्ममात्रत्वात्॥२३॥

तुरीय ओङ्कार आत्मैव

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार

आत्मैव संविशत्यात्मनात्मानं य एवं वेद॥१२॥

कथं पुनरमात्रत्वं तुर्यतुर्यस्य? इत्यत आह— अमात्र इति। स्थूलाकारादिपञ्चदशमात्रापह्नवसिद्धः अमात्रः ब्रह्मप्रणवार्थः। इत्थं तुरीयोङ्काराग्रविद्यो-

तनात् चतुर्थः। अभिधानादिव्यवहृतेस्तुरीयोङ्काराग्रविद्योतता कुतः? इत्यत आह— अव्यवहार्य इति। तुर्यतुर्यावगतेरभिधानादिव्यवहृत्यपह्नवपूर्वकत्वात्। अत एव प्रपञ्चोपशमः। स्वातिरिक्तप्रपञ्चाशिवग्रासत्वात् शिवः। निष्प्रतियोगिकत्वात् अद्वैतः। स स्वमात्रमिति प्रबोधसमकालं एवं यथोक्तव्यष्टिसमष्टिपञ्चदशमात्राविशिष्ट ओङ्कारः विश्वविश्वादित्रिपञ्चदशभेदात्मना साकं आत्मैव संविशति स्वात्मभावं गच्छति। य एवं वेद स मुनिः जाग्रज्जाग्रदादिचतुष्पञ्चदशकलना अस्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्ममात्रमवशिष्यते। न च ब्रह्ममात्रतयावशिष्टानामपि पुनः स्वातिरिक्तास्तितामोहात् जनिपरम्परा स्यादिति वाच्यं; पुनर्भववीजापह्नवात्। न हि रज्जुसर्पयाथात्म्येऽवगते पुरानुभूतसर्प उत्थास्यते। तथैव निष्प्रतियोगिकभावाभावयोर्ब्रह्मातिरिक्तयोर्याथात्म्येऽवगते पुनः स्वातिरिक्ततद्धिया न हि जनिपरम्परा सेद्धुं पारयति। यथोक्तमात्रापादसामान्यमात्रविदां मन्दानां तु यथावदुपास्यमान ओङ्कारो ब्रह्मप्रतिपत्त्यालम्बनो भवति॥१२॥

इति माण्डूक्योपनिषत् समाप्ता

प्रणवोपासनाफलम्

अत्रैतेश्लोका भवन्ति—

ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः।
ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत्॥२४॥

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम्।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥२५॥

अत्रैते श्लोका मन्त्रा भवन्ति— ओङ्कारं इत्यादिना।‘‘पादा मात्रा मात्राश्च पादाः” इति यथोक्तसामान्यपुरस्सरं ओङ्कारं पादशो विद्यात्। एवं ओङ्कारं पादशःब्रह्मातिरिक्तं नेति ज्ञात्वा दृष्टार्थमदृष्टार्थं वा न हि किंचित् चिन्तयेत् स्वस्य कृतार्थत्वेन चिन्तनीयार्थवैरल्यात्। यदि स्वाति-

रिक्तास्तिताधियाकृतार्थः त्वं तदा— युञ्जीत इति। यतः प्रणवो ब्रह्म निर्भयं अतः प्रणवतदर्थतुर्यतुर्ये चेतो युञ्जीत। तत्रैव सदा युक्तस्य क्वचिदपि भयं न विद्यते “विद्वान् न बिभेति कुतश्चन” इति श्रुतेः॥२४–२५॥

प्रणवस्य बहुधा भानम्

प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः॥२६॥

एको हि प्रणवः स्वाज्ञादिदृष्टिमाश्रित्य सप्रतियोगिकसकलनिष्कलवत् भातीत्याह— प्रणवो हि इति। विश्वविश्वाद्यनुज्ञैकरसाविकल्पान्तं अपरं ब्रह्म। तुर्यविश्वाद्यविकल्पानुज्ञैकरसान्तं परं ब्रह्म। प्रणव एव परापरब्रह्मरूपतया विभातः। परमार्थतो यथोक्तमात्रातदध्यक्षगतहेयांशापह्नवसिद्धनिष्प्रतियोगिकपरमात्मा अवशिष्यते। इत्थं स्वावशेषस्य कारणं किं? इत्यत आह— अपूर्व इति। यस्य पूर्वं कारणं न विद्यते सोऽयं अपूर्वः। यस्यान्तरं भिन्नजातीयं न विद्यत इति अनन्तरः। तथा स्वबाह्यं अन्यत् न विद्यते इति अबाह्यः। अपरं कार्यमस्य न विद्यते इति अनपरः। “तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्” इत्यादिश्रुतेः। स्वेन स्वातिरिक्तेन वा न व्येतीति अव्ययः पारमार्थिकसन्मात्रत्वात्॥२६॥

उपासकस्य तद्भावापत्तिः

सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्॥२७॥

स्वाज्ञादिदृष्टिप्रसक्तकार्यनिरूपितकारणत्वेन प्रणवं पश्यतस्तदभ्यासतस्तद्भ्रान्तौ नष्टायां तद्भावापत्तिं दर्शयति—सर्वस्य इति। स्वातिरिक्तस्वाविद्यापदतत्कार्यस्य सर्वस्य आदिः उत्पत्तिः। मध्यं स्थितिः। तथा अन्तः अवसानं

च। मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवत् उत्पाद्यमानस्य प्रणवः परमात्मा मायाविस्थानीयः। एवं हि प्रणवं आत्मानं निष्प्रतियोगिकम्वमात्रं ज्ञात्वा तत्समकालं तद्भावं अश्नुते इत्यर्थः॥२७॥

तद्रूपेश्वरज्ञानाच्छोकनिवृत्तिः

प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम्।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति॥२८॥

तदुपायेश्वरज्ञानाच्छोकात्ययंदर्शयति— प्रणवं इति। स्वाज्ञदृष्टिविकल्पितसर्वप्राणिस्मृतिप्रत्ययास्पदहृदये स्थितं ईश्वरं प्रणवं विद्यात्। घटशरावाद्यनुगतव्योमवत् सर्वव्यापिनमोङ्कारमसंसारिणमीश्वरं मत्वा धीरो न शोचति ईश्वरभावमापन्नस्य निरावृतक्रियाज्ञानशक्तित्वेन शोकनिमित्तवैरल्यात्। “तरति शोकमात्मवित्” इति श्रुतेः॥२८॥

प्रणवयाथात्म्यज्ञानफलम्

अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः॥

नेतरो जनः ॥२९॥

प्रणवयाथात्म्यज्ञानफलमुपसंहरति— अमात्र इति। पञ्चदशमात्रापह्नवसिद्धत्वात् अमात्रः। स्वाज्ञदशायां “अकारश्चायुतावयवान्वितः” इत्यादिश्रुत्यनुरोधेन यत्र इयत्ता केनापि ज्ञातुमशक्या सः अनन्तमात्रः। यद्वा— अन्तवत् पञ्चदशमात्रावत् पराभिधानतुर्यतुर्यमात्रान्तमवसानं नैतीति अनन्तमात्रःतस्य स्वातिरिक्तासद्ग्राससत्तामात्रत्वात्। अत एवायं सर्वद्वैतप्रपञ्चाशिवकलनापह्नवात् द्वैतस्योपशमः शिव इति यथा व्याख्यातः तथा येनोङ्कारः परमात्मा निष्प्रतियोगिकस्वमात्रमिति विदितः स एव परमार्थतत्त्वमननात् मुनिः

तत्त्वज्ञानी ब्रह्मीभूतः। नेतरो जन इति आवृत्तिःआगमप्रकरण परिसमाप्त्यर्था॥२९॥

इत्यागमप्रकरणं सम्पूर्णम्

_________

वैतथ्यप्रकरणम्

स्वप्नप्रपञ्चस्य वैतथ्यम्

वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः।
अन्तः स्थानात्तु भावानां संवृतत्वेन हेतुना ॥१॥

अदीर्घत्वाच्च कालस्य गत्वा देहान्न पश्यति।
प्रतिबुद्धश्चवै सर्वः तस्मिन् देशे न विद्यते॥२॥

अभावश्च रथादीनां श्रूयते न्यायपूर्वकम्।
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम्॥३॥

“ओं शान्तं शिवमद्वैतम्”, मायामात्रमिदं द्वैतम्”,“ज्ञाते द्वैतन्न विद्यते” इत्यागममात्रतः स्वातिरिक्तजाग्रज्जाग्रदादिचतुष्पञ्चदशकलनाविजृम्भितबौद्धमीमांसकद्वैत्यादिग्रहगतहेयांशापह्नवसिद्धं निष्प्रतियोगिकपरमाद्वैतं स्वमात्रमवशिष्यत इत्युक्तम्। तत्र उपपत्त्यापि ब्रह्मातिरिक्तस्य वैतथ्यमवधारयितुं द्वितीयं प्रकरणं आरभ्यते। तत्र कारिकात्रयेण स्वप्नप्रपञ्चस्य वैतथ्यं साधयति— वैतथ्यं इत्यादिना।स्वप्नयाथात्म्यविदो मनीषिणः स्वप्नविकल्पितबाह्याध्यात्मिकादिभावानां स्थावरजङ्गमादीनां वैतथ्यं असत्त्वं आहुः। यथा निष्प्रतियोगिकस्वमात्रं तथैव सदा वर्तत इति तथं ब्रह्ममात्रम्। तन्न भवतीति

स्वातिरिक्तं असत् वितथम्। तद्भावो वैतथ्यं असत्त्वमित्यर्थः। तत्र हेतुमाह— अन्तःस्थानात् इति। भावानां स्थिरचराणां शरीरान्तरुपलभ्यमानत्वात् न बहिःशरीरात्। तस्मात् ते वितथा भवितुमर्हन्ति। अपवरकावृतघटादिवत् अनैकान्तिको हेतुरित्यत आह— संवृतत्वेन हेतुना इति। अन्तःसंवृतस्थानान्न हि देहान्तर्विद्यमानकेशकोट्यंशैकभागसूक्ष्मनाडीप्रदेशे स्थिरचरायमाणपर्वतहस्त्यादिरस्ति। तस्माच्चित्तं तन्नाड्यवच्छिन्नचैतन्यं सम्यगावृत्य स्वप्नप्रपञ्चं कल्पयतीति तस्य वैतथ्यं युक्तमित्यर्थः॥१॥ स्वप्नकल्पितभावानामन्तःसंवृतत्वं यदुक्तं तदयुक्तम्। सर्वोत्तरदिशि सुप्तो दक्षिणदिशि स्वप्नान् पश्यन्निव दृश्यत इत्यत आह— अदीर्घत्वात् इति। यः कोऽपि न हि देहात् बाह्यदेशान्तरं गत्वा स्वप्नान् पश्यति। यतः शयनदेशात् योजनसहस्रप्राप्यदूरदेशे स्वप्नान् पश्यन्निव लक्ष्यते। न हि तद्देशप्राप्त्यागमनयोः दीर्घकालोऽस्ति। अतः कालस्यादीर्घत्वात् स्वप्नदृक् न देशान्तरं गच्छति। किञ्च प्रतिबुद्धश्च वै सर्वः स्वप्नदृक् न हि स्वप्नदर्शनदेशे विद्यते। यदि स्वप्ने देशान्तरं गच्छति तदा तद्देश एव प्रतिबुध्येत। न हि तदस्ति। तथा स्वप्नदृक् रात्र्यनुभूतस्वप्नदेशे बहुभिः संगतो अहनि स्वेप्सितभोगानदन् मोदमानमात्मानं पश्यति। पुरा यैः संगतस्तैर्गृह्येत। यदि गृहीतस्तदा ते स्वप्नवृत्तान्तं ब्रूयुः। न चैवमस्ति। तस्मान्न हि स्वप्नदृक् देशान्तरं गच्छति॥२॥ इतश्च स्वप्नदृष्टभावानां वैतथ्यं स्फोरयति— अभाव इति। “न तत्र रथा.न रथयोगा न पन्थानो भवन्ति। अथ रथान् रथयोगान् पथः सृजते” इत्यादिन्यायपूर्वकश्रुत्या रथादीनां देहान्तरभावश्च श्रूयते। स्वप्ने विकल्पितरथादीनां संवृतत्वहेतुना वैतथ्यं प्राप्तं प्रकाशितं इति स्वयंज्योतिष्ट्वानुवादिश्रुत्या ब्रह्मविद आहुः॥३॥

तद्वज्जाग्रत्यपि भावानां वैतथ्यम्

अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम्।
यथा तत्र तथा स्वप्नेसंवृतत्वेन भिद्यते॥४॥

स्वप्नदृष्टान्तेन जाग्रद्विलसितभावानां वैतथ्यमाचष्टे— अन्तःस्थानात् इति। जाग्रद्दृश्यभावा वितथा भवितुमर्हन्ति। कुतः? दृश्यत्वात्। स्वप्नदृश्यभाववत्। यथा स्वप्नदृश्यभावानां वैतथ्यं तथा जागरितभावानामिति। तस्माज्जागरितभावानामपि वैतथ्यं सिद्धम्। एवं अन्तःस्थानात् संवृतत्वेन च स्वप्नप्रपञ्चवत् जागरितप्रपञ्चस्यापि दृश्यत्वं असत्त्वं च समानमित्यर्थः॥४॥

जाग्रत्स्वप्नयोरेकत्वम्

स्वप्नजागरिते स्थाने ह्येकमाहुर्मनीषिणः।
भेदानां हि समत्वेन प्रसिद्वेनैव हेतुना॥५॥

जाग्रत्स्वप्नयोर्दृश्यत्वासत्त्वसमत्वेनैकत्वं विशदयति— स्वप्नजागरिते स्थान इति। प्रसिद्धेनैव ग्राह्यग्राहकहेतुना भावानां स्वप्नजागरितस्थानयोः विवेकिन एकत्वमाहुः। पूर्वकारिकाफलमित्येतत्॥५॥

स्थानद्वयस्थभावानां वैतथ्यम्

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥६॥

स्थानद्वयप्रविभक्तभावानां अदृष्टदृष्टनष्टस्वरूपत्वेन वैतथ्यमाचष्टे—आदाविति। यत् वस्तु शशशृंगवत् आदौ अन्ते च नास्ति लोके तत् मध्येऽपि नास्तीति निश्चितम्। तथा इमे जाग्रदादिविलसितभावाः। तेषां आद्यन्तयोः शशविषाणवत् अभावात्। एते वितथैः शशशृंगादिभिः सदृशाः सन्तः मूढैः अवितथा इव लक्षिताः॥६॥

जाग्रद्भावानामपि मिथ्यात्वम्

सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः॥७॥

स्वप्नदृष्टान्ततो जाग्रद्दृश्यानां यदुक्तं असत्त्वं तदसाधु। यतो जाग्रद्दृष्टान्नपानादयः क्षुत्पिपासादिनिवृत्ति कुर्वन्तः सप्रयोजना दृष्टाः। न हि तदस्ति स्वप्नदृश्यानाम्। ततः स्वाप्निकपदार्थवत् जाग्रद्दृश्यानामसत्त्वंदुर्लभमित्यत आह—सप्रयोजनतेति। यथा जाग्रद्दृष्टान्नपानादीनां सप्रयोजनता दृष्टा तथा सा विप्रतिपद्यते। स्वप्नेऽपि जाग्रति भुक्तितः तृप्तोऽपि स्वप्ने त्रिरात्रोपोषितमात्मानं मन्यते। तत्र भुक्त्वा पीत्वा तृप्तं आत्मानं मन्यते। तस्मात् आद्यन्तवत्त्वं उभयत्र समानम्। अतः खलु ते मिथ्येति स्मृताः इत्यर्थः॥७॥

स्वप्नदृष्टान्तस्य सद्भावः

अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम्।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः॥८॥

कथं पुनः स्वप्नदृष्टपदार्थासत्त्ववत् जाग्रद्दृष्टानां असत्त्वं? दृष्टान्तासिद्धेः इत्यत आह— अपूर्वमिति। न हि ये जाग्रद्दृष्टा भावाः स्वप्ने त एव दृश्यन्ते। किन्तु स्वप्ने चतुर्दन्तगजारूढं सहस्रभुजमात्मानं अन्यमप्येतादृशं अपूर्वं पश्यति। न तत् स्वतः सिद्धं तत्स्थानिधर्मत्वात्। यथा स्वर्गनिवासिनां इन्द्रादीनां सहस्राक्षत्वादि तथा स्वप्नस्थानिधर्मः। अयं स्वप्नदृक् स्वप्नस्थानं गत्वा यथैवेह लोके सुशिक्षितः तथा तत्स्थानप्रभवान् तानेवापूर्वान् स्थानी प्रेक्षते। यथा स्थानिधर्माणां रज्जुसर्पादिवदसत्त्वं तथा स्वप्नदृश्यापूर्वाणां स्थानिधर्मत्वेना सत्त्वम्। अतो न स्वप्नदृष्टान्तासिद्धिः॥८॥

जाग्रद्भेदानां स्वप्नतुल्यता

स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत्।
बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः॥९॥

जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत्।
बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः॥१०॥

स्वप्नदृष्टान्तप्रसक्तापूर्वत्वशंकां निराकृत्य जाग्रद्भेदानां स्वप्नतुल्यतां पुनः पञ्चयति— स्वप्नेति। स्वप्नवृत्तौ स्वप्नस्थानेऽपि अन्तः चेतसा कल्पितं आसत् संकल्पोक्तरक्षणादर्शनात्। स्वप्ने तावत् चक्षुरादिद्वारेण बहिश्चेतसा हीतं घटादिकं सदिति सदसद्विभागो दृष्टः। उभयोरप्यन्तर्बहिश्चेतःकल्पितयोः कल्पितत्वाविशेषात् वैतथ्यं दृष्टम्॥९॥ तथा च— जाग्रदिति। जाग्रति अन्तर्बहिश्चेतःकल्पितत्वाविशेषात्। शिष्टं व्याख्यातम् ॥१०॥

तद्भेदज्ञानस्य विकल्पः

उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि।
क एतान् बुध्यते भेदान्? को वै तेषां विकल्पकः?॥११॥

स्थानद्वयस्य वितथत्वे को वा तद्गतभेदान् बुध्यते? इति शङ्कते— योरिति। स्मृतिज्ञानालम्बनत्वेन को वै तेषां विकल्पकः। विकल्पकाभावेत्म्यं स्यादित्यर्थः॥११॥

आत्मन एव तद्भेदज्ञानम्

कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः॥१२॥

स्वात्मैव स्वमायया स्वस्मिन् सर्वं परिकल्प्य तद्भेदजातं स्वयं बुध्यत चष्टे— कल्पयतीति। यथा रज्ज्वादौ सर्पादि परिकल्प्य तत्त्वेन स्वयमेवावते तथैवमिति वेदान्तनिश्चयः। “नान्योऽतोऽस्ति विज्ञाता” इति श्रुतेः। निरास्पदे ज्ञानक्रिये संभवत इत्यर्थः ॥१२॥

आत्मनस्तद्भेदकल्पनम्

विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान्।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः॥१३॥

केन प्रकारेण कल्पयति? इत्यत आह— विकरोतीति। स्वेन रूपेणप्रभवतीति प्रभुःआत्मा।अन्तःश्चित्ते वासनारूपेण व्यवस्थितान् अपरान्नानाशास्त्रीयलौकिकवैदिकभावान् बहिश्चित्ते स्थानाव्यक्तादिपृथिव्यन्तरूपेण नियतांश्चान्तर्मनोरथादिलक्षणांश्चकल्पयतीत्यर्थः॥१३॥

स्वान्तर्बाह्यभावानामपि कल्पितत्वम्

चित्तकाला हि येऽन्तस्तु द्वयकालाश्चये बहिः।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः॥१४॥

स्वान्तर्बाह्यपरिच्छेद्यभावानां स्वप्नवत् कल्पितत्वं स्पष्टयति— चित्तेति। ये ह्यन्तर्विलसितवृत्तिविशेषाः ते तु चित्तकालाः चित्तपरिच्छेद्याः यावच्चित्तस्थायित्वात्। कल्पनाकाल एव उपलभ्यन्त इत्यर्थः। अन्योन्यपरिच्छेद्या हि द्वयकालाः। तद्यथा— आगोदोहनमास्ते। यावदयमास्ते तावत् गां दोग्धि। यावत् गां दोग्धि तावदास्ते। तावान् अयं। एतावान् सः— इति मिथः परिच्छेद्यपरिच्छेदकत्वमिति बाह्यभेदानाम्। ते हि द्वयकालाःअन्तः चित्तकालाः बाह्याद्वयकालाश्च।ते सर्वे कल्पिता एव। चित्तद्वयकालपरिच्छिन्नभावयोः कल्पितत्वव्यतिरेकेण न ह्यन्यहेतुकोऽस्ति। अत्रापि स्वप्नदृष्टान्तः उपपद्यत इत्यर्थः ॥१४॥

व्यक्ताव्यक्तभेदेन भावानां कल्पितत्वम्

अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः।
कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे॥१५॥

अव्यक्तव्यक्तभेदेन स्थानद्वये भावाः परिकल्पिता इत्याह— अव्यक्ता इति। येऽन्तर्विलसितमनोरथादिभावाः ते त्वव्यक्ताः तद्गतभावानामचाक्षुषत्वेनाव्यक्तत्वात्। ये देहात् बहिर्विलसितघटपटादिभावाः ते स्फुटा एव तेषां

चाक्षुषत्वेन स्फुटत्वात्। अन्तर्बाह्यविलसिताव्यक्तस्फुटभावा अपि कल्पिता एव ते सर्वे।विशेषस्त्विन्द्रियान्तरे चक्षुरादौ स्फुटत्वम्। इत्थं जाग्रद्भावा अपि स्वप्नभाववत् कल्पिता एवेत्यर्थः॥१५॥

कल्पनामूलनिरूपणम्

जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान्।
बाह्यानाध्यात्मिकांशचैव यथाविद्यस्तथास्मृतिः॥१६॥

सर्वकल्पनामूलं किम्? इत्यत आह— जीवमिति। पूर्वं आदौ सुखदुःखादिवैशिष्ट्यहेतुफलात्मकं जीवं निर्विकाररज्जुसर्पवत् निर्विकारात्मनि जीवं कल्पयते। ततः क्रियाकारकफलभेदेन पृथक् पृथग्विधान प्राणादिनानाविधभावान् बाह्यान् आध्यात्मिकांश्च एवं कल्पयते। अत्र कल्पनाहेतुः स्वयं जीवः। सर्वकल्पनायां अधिकृतत्वात्। कथंभूतः सन्? इत्यत आह— यथेति। यादृशी विद्या विज्ञानं अस्येति यथाविद्यः। तथाविधैव स्मृतिरस्येति तथास्मृतिः सन् हेतुकल्पनाबोधतः फलकल्पना स्मृतिः। ततः तद्विज्ञानम्। ततः तदर्थक्रियाकारकादिकल्पनम्। ततः तत्फलभेदविज्ञानम्। ततः स्मृतिः। पुनः तद्विज्ञानमित्येवं बाह्यानाध्यात्मिकांश्चेतरेतरनित्यनैमित्तिकभावेनानेकधा कल्पयत इत्यर्थः॥१६॥

आत्मविकल्पनम्

अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः॥१७॥

जीवकल्पनायाः सर्वमूलत्वमस्तु। तज्जीवकल्पना किन्निमित्ता? इत्यत आह दृष्टान्तपूर्वकम्—अनिश्चितेति। यथा लोके मन्दान्धकारे रज्जुस्वरूपाज्ञानतोऽनिश्चितेयं रज्जुः इत्यनवधारिता यदि तदा किं अयं सर्पः

उदकधारा स्रक् भूच्छिद्रं? इत्यादि बहुधा विकल्पिता भवति। ज्ञाते तु रज्जुयाथात्म्ये विकल्पानवकाशात्। विज्ञानतःस्वहस्ताङ्गुलिवत्। तद्वत् ब्रह्मयाथात्म्याज्ञानतः हेतुफलाभिनिवेशो जायते। ततो विश्वाद्यविकल्पानुज्ञैकरसभेदेन प्राणाद्यनन्तभेदेनात्मा विकल्पित इति सर्ववेदान्तसिद्धान्तः॥१७॥

विकल्पनिवृत्तिप्रदर्शनम्

निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते।
रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः॥१८॥

अधिष्ठानज्ञानात् विकल्पनिवृत्ति दर्शयति— निश्चितायामिति। यथा आप्तोक्तितो निश्चितायां रज्ज्वां तद्गतसर्पादिविकल्पो निवर्तते, तथा सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकाद्वैतमिति ज्ञानसमकालं स्वाज्ञानविकल्पितविश्वविश्वादिभेदनाकलनापि निवर्तते। न हि स्वाज्ञानकालमारभ्यानादिसिद्धविकल्पजालं स्थितिमेत्य स्वज्ञानतो निवर्तते। वस्तुतोऽवस्तुतो वापि विकल्पसामान्यस्य शशविषाणवत् अवस्तुत्वात्। तदपह्नवसिद्धं ब्रह्ममात्रं निष्प्रतियोगिकमवशिष्यत इत्यात्ममात्रविनिश्चयो भवतीत्यर्थः। “पश्यतेहापि सन्मात्रं असदन्यत्”, “ब्रह्मव्यतिरिक्तं न किंचिदस्ति”,

सर्वथा भेदकनं द्वैताद्वैतं न विद्यते।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
अनाख्यमनभिव्यक्तं सत् किंचिदवशिष्यते॥

इति श्रुतेः॥१८॥

विकल्पानां मायामूलत्वम्

प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः।
मायैषा तस्य देवस्य ययायं मोहितः स्वयम्॥१९॥

कथं पुनः परमाद्वैतरूपेण आत्मावशिष्यते प्राणाद्यनन्तविकल्पसत्त्वात्? इत्याशंक्य विकल्पस्य मायामात्रत्वात् तया विकल्पित इव भाति। वस्तुतः ब्रह्ममात्रमवशिष्यत इति शिष्टग्रन्थेनाह— प्राणादिभिरिति।

दैवी ह्येषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥

इति स्मृत्यनुरोधेन यैषा स्वाज्ञानरूपिणी माया देवस्यात्मनो भिन्ना अभिन्नतयैव स्वाज्ञानुभूतिप्रमाणसिद्धेव च विद्यते। वस्तुतः सा शाशश्रृंगवत् अलब्धसत्त्वा। यया मायया स्वयमप्यात्मा मोहितइव मोहितः सन् प्राणादिभिः अनन्तभावैः विकल्पित इव विकल्पितो भवति। वस्तुतोऽयमात्मा निष्प्रतियोगिकनिर्विकल्प इत्यर्थः॥१९॥

प्राणादिविकल्पानां प्रकारः

प्राण इति प्राणविदो भूतानीति च तद्विदः।

गुणा इति गुणविदस्तत्त्वानीति च तद्विदः॥२०॥

पादा इति पादविदो विषया इति तद्विदः।
लोका इति लोकविदो देवा इति च तद्विदः॥२१॥

वेदा इति वेदविदो यज्ञा इति च तद्विदः।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः॥२२॥

सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः।
मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः॥२३॥

काल इति कालविदो दिश इति च तद्विदः।
वादा इति वादविदो भुवनानीति तद्विदः॥२४॥

मन इति मनोविदो बुद्धिरिति च तद्विदः।
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः॥२५॥

पञ्चविंशक इत्येके षड्विंश इति चापरे।
षट्त्रिंशक इत्याहुरनन्त इति चापरे॥२६॥

लोकाल्ँलोकविदः प्राहुराश्रमा इति तद्विदः।
स्त्रीपुन्नपुंसकं लैङ्गाः परापरमथापरे॥२७॥

सृष्टिरिति सृष्टिविदो लय इति च तद्विदः।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥२८॥

प्राणादिविकल्पानुदाहरति— प्राण इत्यादिना। प्राणो हिरण्यगर्भः ईश्वरो वा जगत्कारणमिति प्राणविदोऽद्वैतिनः वैशेषिकादयश्च विदुः कल्पयन्तीत्यर्थः। पृथिव्यादिचत्वारि भूतानि जगत्कारणानीति लोकायतिकाः। गुणसाम्येन सह सत्त्वरजस्तमांसि त्रयो गुणाः जगत्कारणमिति सांख्याः। आत्मतत्त्वं विद्यातत्त्वं शिवतत्त्वं चेति त्रीणि तत्त्वानि जगत्कारणमिति शैवाः॥२०॥ कल्पनान्तरमाचष्टे पादा इति। विश्वविश्वादयः पादाः जगद्व्यापृतिहेतवः इति वेदान्त्येकदेशिनः। विविधविषयानुभूतिः पुरुषार्थ इति वात्स्यायनादयो मन्यन्ते। विषया इति शब्दादय इत्यर्थः।

विषयस्य विषाणां च दूरमत्यन्तमन्तरम्।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि॥

इति स्मृतेः। सत्यत्वेन भूरादिलोका विद्यन्ते इति लोकविदः इति पौराणिकाः। कर्मफलदाता नेश्वरः किन्तु अग्नीन्द्रादयो देवाः कर्मफलदातार इति देवयाजिनः॥२१॥ कल्पनान्तरमाह— वेदा इति। ऋगादयः चत्वारो वेदाःतत्त्वानीति वेदपाठकाः। ज्योतिष्टोमादियज्ञा वस्तुभूता भवन्तीति यज्ञविदो याज्ञिकाः। भोक्तैवात्मा न कर्ता इति सांख्याः। भोज्यं वस्त्विति

सूपकाराः॥२२॥ इतश्च कल्पनान्तरमाह—सूक्ष्म इति। अणुपरिमाणात्मा सूक्ष्म इति सूक्ष्मविदः अणुवादिनः। अहप्रत्ययविशिष्टः स्थूलदेहः आत्मा इति चार्वाकाः। मूर्तः त्रिशूली च चक्रीत्यागमिकाः। अमूर्तः सर्वशून्य इति शून्यवादिनः।काल एव परमार्थ इति ज्योतिर्विदः। दिशः परमार्था इति स्वरोदयविदः। धातुवादो मन्त्रवादो वेति रसवादिनो मन्त्रवादिनश्च। चदुर्दशभुवनान्येव वस्तूनि चेति भूगोलविदः। मनः एवात्मेति स्यमन्तभद्राः। बुद्धिरेवात्मेति योगाचाराः। बाह्याकारशून्यं चित्तमात्मेति विज्ञानवाद्येकदेशिनः। विधिनिषेधचोदनानिष्पन्नधर्माधर्मौ परमार्थौ इति मीमांसकाः॥२३-२५॥ इतश्च विकल्पान्तरमाह— पञ्चेति। प्रधानं मूलप्रकृतिः महदहंकारौ तन्मात्राणीति सप्त प्रकृतिविकृतयः कर्मज्ञानेन्द्रियाणि तद्विषयाः मनश्चैकं षोडशविकारपुरुषो दृशिस्वभाव इति पञ्चविंशतिसंख्याविशिष्टप्रपञ्चो वस्त्विति सांख्यैकदेशिनः। ईश्वरेण साकं षड्विंशतिपदार्था इति पातञ्जलाः। षड्विंशत्या सह पञ्चीकृतपञ्चमहाभूतानि आहत्य एकत्रिंशत्तत्त्वानीति शैवैकदेशिनः। यद्वा— षड्विंशत्या सह रागाविद्यानियतिकालकलामायादिकाः त एव एकत्रिंशत्पदार्था इति पाशुपताः। पदार्थभेदोऽनन्तः इति भेदवादिनः। लोकानुरञ्जनं तत्त्वमिति लौकिकाः। आश्रमाः परमार्था इति दक्षप्रभृतयः। स्त्रीपुंनपुंसकं शब्दजातं तत्त्ममिति वैय्याकरणाः। “द्वे ब्रह्मणी वेदितव्ये परं चापरं च” इति साकाराद्वैतिनः। स्थितिर्वा सृष्टिर्वालयो वा तत्त्वमिति पौराणिकाः। प्राणादिस्थित्यन्तत्वेन उदाहृताश्चानुदाहृताश्चकल्पनाभेदा यावन्तो विद्यन्ते कल्पनावस्थायां स्वात्मन्येव विकल्पिताः सन्तः स्वात्माधिगमहेतवो भवन्तीत्यर्थः। अधिष्ठानमन्तररा प्राणादिस्थित्यन्तकल्पनासंभवात्। कल्पनाया मायामात्रत्वेन तदधिष्ठानस्यापि स्वाधिष्ठेयकल्पनापह्नवतो निरधिष्ठानत्वेन ब्रह्ममात्रमवशिष्यत इति प्राणादिस्थित्यन्तकल्पनाया उपायत्वम्। तदपेक्षया तदधिकरणस्योपेयत्वम्। इत्थं उपायोपेयभूताधिष्ठेयाधिष्ठानगतहेयांशापह्नवसिद्धनिष्प्रतियोगिकस्य परमोपेयत्वं ब्रह्ममात्रस्येत्यर्थः॥२६-२८॥

भावानां शिष्यरक्षकत्वम्

यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति।

तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम्॥२९॥

यस्य यस्य गृहे यस्मिन् दृढावेशो भवेत्तराम्।
तत्तद्भ्रान्त्यनुरोधेन शास्त्रं भवति नान्यथा॥

इति स्मृत्यनुरोधेन प्राणादिस्थित्यन्तविकल्पा मायामात्रा अपि स्वाज्ञदृष्टिभिः प्राणादित्वेन विकल्पिताः। तत्र प्राणो बीजात्मा ईश्वरः। भूतादिस्थित्यन्ताः तद्भेदाः तत्तन्मताचार्यबुद्धिविकल्पिताः। तत्र येषां यन्मतं रोचते ते तत्तदाचार्यमुखतः पृथक् तत्र स्वाभिमतेयत्तां ज्ञात्वा तत्परतन्त्रा भवन्तीत्याह— यमिति। किं बहुना? प्राणादिस्थित्यन्तानामन्यतमं उक्तमनुक्तं वा यस्य कस्यचित् आचार्यो यं भावं दर्शयेत् अन्यो वा इदमेव तत्त्वमिति सोऽयं गुरुप्रदर्शितनिश्चयः शिष्यपूगः सोऽहं दासोऽहमिति वा तं भावं आत्मभूतं पश्यति। योऽयं तत्तन्मताचार्यदर्शितो भावरूपो भूत्वा प्राण ईश्वरःतं उपासकं अवति। इदमेव तत्त्वमिति तद्ग्रहः तदभिनिवेशः तं ग्रहीतारं उपैति। स्वात्मभावं प्रकाशयतीत्यर्थः॥२९॥

आत्मज्ञानफलम्

एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः।
एवं यो वेद तत्त्वेन कल्पयेत् सोऽविशङ्कितः॥३०॥

स्वग्रहातिरिक्तात्मज्ञानफलमाह— एतैरिति। रज्ज्वादिविकल्पितसर्पादिवत्स्वापृथग्भूतप्राणादिस्थित्यन्तभावैः पृथगेवेत्यविवेकिभिः लक्षितः न विवेकिभिः। न हि रज्ज्वाद्यतिरेकेण सर्पादयः सन्ति। तथा स्वात्मातिरेकेण प्राणादिविकल्पाः सन्ति ‘‘इदं सर्वंयदयमात्मा’’ इति श्रुतेः। वस्तुतः प्राणादिस्थित्यन्त-

कलनारोपापवादाधिकरणगतहेयांशापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति"सन्मात्रमसदन्यत्” इत्यादिश्रुतियुक्तिभ्यां तत्त्वेन यो वेद सोऽयं विद्वान् अविशंकितोऽशेषवेदार्थं साक्षात् परंपरया वा ब्रह्ममात्रपर्यवसन्नतया कल्पयेत् कल्पयतीत्यर्थः। न हि निष्प्रतियोगिकब्रह्ममात्रभावापन्नमुन्यतिरिक्तो वेदार्थं एवं ज्ञातुं शक्नोति। न चैवंवित् स्वातिरिक्तप्राणादिस्थित्यन्तविकल्पोऽस्ति नास्तीति विभ्रमाभिमुखो भवतीति भावः॥३०॥

प्रपञ्चस्यासत्त्वं ब्रह्मणःसत्त्वं च

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः॥३१॥

स्वातिरिक्तप्राणादिस्थित्यन्तप्रपञ्चस्यासत्त्वं तदपह्नवसिद्धब्रह्ममात्रस्य निष्प्रतियोगिकसत्त्वं स्पष्टयति— स्वप्नेति। ‘‘नान्यत् किंचन मिषत्”, ‘‘ब्रह्मव्यतिरिक्तं न किंचिदस्ति”, “ब्रह्ममात्रमसन्न हि “,

दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्।
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि॥

“नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्” इत्यादिवेदान्तेषु विलसितविद्वत्पटलसेव्यपरमाशयविचक्षणैः ब्रह्मविद्वरयोभिः यथा शशशृंगवत् अवस्त्वात्मके स्वप्नमाये विवेकविरलैः सद्वस्त्वात्मिके इव दृष्टे। यथा च नभःप्रसारितपुरगोपुरस्वपक्षपरपक्षचम्वाद्याकीर्णमिव गन्धर्वनगरं दृश्यमानं सत् अकस्मात् असत्पदं गतं दृष्टम्। तथा स्वाविद्यापदतत्कार्यजातं आत्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वा अस्तीति विश्वसनीयविश्वं शशशृंगवत् असत् दृष्टम्। ततस्तद्विश्वापह्नवसिद्धं ब्रह्ममात्रं स्वावशेषतया दृष्टमित्यर्थः॥३१॥

परमार्थदशाप्रपञ्चनम्

न निरोधो न चोत्पत्तिर्न बद्वोन च साधकः।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥३२॥

ततः परमार्थदशां प्रपञ्चयति— न निरोध इति। स्वातिरिक्तप्राणादिस्थित्यन्तविश्वकलना अस्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति ज्ञानसमकालं स्वातिरिक्तप्रपञ्चापह्नवतो न निरोधः कस्यापि न हि प्रलयोऽस्ति। तथा जायमानवस्तुवैरल्यात् न चोत्पत्तिः बुद्धितद्वृत्तिवैरल्यात्। न बद्धः संसारी जीवोऽस्ति बद्धवैरल्यात्। न हि मोक्षसाधको विद्यते बन्धसापेक्षमोक्षवैरल्यात्। न हि मोचनार्थी मुमुक्षुरस्ति निवर्त्तनीयबन्धवैरल्यात्। मुक्तोऽपि न विद्यत इति स्थितिः। सैषा परमार्थता।

केवलं ब्रह्ममात्रत्वं नास्त्यनात्मेति निश्चिनु।

इत्यादिस्वातिरिक्तप्रपञ्चतदुत्पत्तिप्रलयादिकलनापह्नवसिद्धं निष्प्रतियोगिकब्रह्ममात्रावशेषसिद्धान्तानुवादिश्रुतेः॥३२॥

सम्यक् परमार्थदर्शनम्

वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः।
निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः॥३३॥

परमार्थसम्यग्दर्शनं स्तूयते— वीतेति। रम्यवस्तुविषयको रागश्च स्वातिरिक्तास्तित्वजन्यं भयं च कांक्षितविषयालाभजः क्रोधश्च येभ्यो वीताः तैः वीतरागभयक्रोधैः ब्रह्ममात्रमननशीलैः मुनिभिः वेदान्तपारगैः सर्ववेदान्तसिद्धान्तब्रह्ममात्रसम्यज्ज्ञानिभिः प्राणदिस्थित्यन्तविकल्पापह्नवसिद्धनिष्प्रतियोगिकनिर्विकल्पोऽयमात्मा स्वमात्रमिति दृष्टः। द्वैतादिप्रपञ्चविकल्पे सति निर्वि-

कल्पकता कुतः? इत्यत आह— प्रपञ्चोपशम इति। द्वैतादिभेदविस्तारो हि प्रपञ्चः। तस्य उपशमः अपह्नवः।

एकाभावे द्वितीयं न न द्वितीये न चैकता।
द्वैतं यदि तदाद्वैतं द्वैताभावेऽद्वयं न च॥

इति सापेक्षश्रुतिसिद्धद्वयैकद्वैतादिगतहेयांशापह्नवसिद्धो ह्यद्वयः परमात्मा स्वमात्रमित्यवगर्तोभवतीत्यर्थः॥३३॥

स्वाज्ञानात्संसारोपरतेरभावः

तस्मादेवं विदित्वैनमद्वैते योजयेन्मतिम्।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत्॥३४॥

स्वाज्ञानात् संसारोपरतिः न स्यादित्याह— तस्मादिति। यस्मात् ब्रह्ममात्रज्ञानं विना स्वातिरिक्तभ्रमो न हि शाम्यति तस्मात् ब्रह्मातिरिक्तमसत् ब्रह्ममात्रं निष्प्रतियोगिकसत् इत्येवं विदित्वा एनं आत्मानं निष्प्रतियोगिकाद्वैते वस्तुनि तत् स्वमात्रमिति तन्मात्रां मतिं योजयेत्। एवमद्वैतं सम्यगनुप्राप्य स्वावशेषधियेत्यर्थः। ततः परं अहमेतादृश इति आत्मानं अप्रख्यापयन् स्वातिरिक्तलोकप्रसक्तौ यथा जडोऽयमिति जानीयुः तथा लोकमाचरेत्। पामरलोकवत् नित्यादिकर्माचरणं स्वाश्रमोचितं कुर्यादित्यर्थः॥३४॥

यतिचर्यानुक्रमः

निस्स्तुतिर्निर्नमस्कारो निस्स्वधाकार एव च।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत्॥३५॥

जडवत् लोकवञ्चकयतिचर्यामनुक्रामति— निःस्तुतिरिति।

स्तूयमानो न तुष्येत निन्दितो न शपेत् परान्।

इत्यादिश्रुत्यनुरोधेन स्तुतिनमस्कारस्वाहास्वधाकारादिसर्वकर्मविरलो यतिः चलो देहः। अचल आत्मतत्त्वम्। तत्र चलदेहस्थितिं विस्मृत्य अचलात्मतत्त्वनिकेतनंयस्य सोऽयं चलाचलनिकेतश्च भूत्वा यदृच्छाप्राप्तदेहमात्रधारणानुकूलकौपीनाच्छादनभिक्षादिपरिग्रहेतरपरिग्रहवैरल्येन यादृच्छिक।निरंकुशब्रह्ममात्रतयावतिष्ठेदित्यर्थः॥३५॥

मुनेर्ब्रह्ममात्रतयावस्थितिः

तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः।
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत्॥३६॥

स्वान्तर्बहिर्विजृंभिताध्यात्मिकादिप्रपञ्चे सति कथं वा मुनिः ब्रह्ममात्रतया तिष्ठेत्? इत्यत आह— तत्त्वमिति। स्वातिरिक्तव्यष्टिप्रपञ्चमधिकृत्य भवतीत्याध्यात्मिकम्। तद्बाह्यं समष्टिप्रपञ्चजातम्। तदारोपापवादाधिकरणविश्वविश्वाद्यविकल्पानुज्ञैकरसान्तजातं च रज्जुसर्पवत् वाचारम्भणमात्रम्। यद्वा— शशविषाणवत् असत्—

इदं प्रपञ्चं नास्त्येव नोत्पन्नं नोऽस्त्विदं जगत्।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥

इति श्रुतेः। तत्सर्वापह्नवसिद्धं तत्तत्वं स्वमात्रतया दृष्ट्वा तद्दर्शनसमकालं तत्त्वीभूतो ब्रह्मभूतो भवति। तद्रूपेण यदा राजते महीयते तदानीं आरामो निष्प्रतियोगिकनिर्विशेषचिद्रातुः स्वतत्त्वात् कदापि अप्रच्युतो भवेत्। यथा कश्चित् अतत्त्वदर्शी देहादौ चलेऽचले वा अतत्त्वीभूतस्तत्त्वीभूतो वेति मन्यते तद्योगायोगाभ्यां विकल्पवान् निर्विकल्पवानहमिति च मन्यमानः स्वतत्त्वात् प्रच्युतो भवति, न तथा ब्रह्ममात्रवित्। तस्य निष्प्रतियोगिकब्रह्ममात्रत्वेन न हि तत्त्वप्रच्युतिवार्तावकाश इत्यर्थः॥३६॥

ब्रह्मातिरिक्ततत्त्वम्

भावैरसद्भिरेवायमद्वयेन च कल्पितः।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा॥३७॥

पूर्वश्लोकोक्तब्रह्मातिरिक्ततत्त्वमाचष्टे— भावैरिति। यथा रज्जुतत्त्वज्ञानां एकैव रज्जुः सर्पधारादण्डादिरूपेण दृश्यते न ह्यत्र रज्जौ रज्ज्वादिरूपेण स्वेन रूपेण वा सर्पादिरस्ति रज्जुरेव तत्तद्दृष्ट्यनुरोधेन एवं विकल्प्यते, तथा प्राणादिस्थित्यन्तैरसद्भिर्भावैः एवायमात्मा तदास्पदाद्वयरूपेण विकल्पितः। तथा प्राणादिभावा अपि अद्वयेन आत्मना जीवभावमापन्नेनैव विकल्पितः। न हि निरास्पदा कल्पनोपलभ्यते। अतः प्राणादिकल्पनाया मायामात्रत्वेन तस्याधिष्ठेयतावैरल्यात्। अधिष्ठेयनिरूपिताधिष्ठानस्यापि तथात्वात्। यस्मान्निरधिष्ठानत्वेन निष्प्रतियोगिकाद्वैतमवशिष्यते तस्मादद्वयतैव शिवा। स्वातिरिक्तप्राणादिस्थित्यन्ताशिवापह्नवसिद्धत्वात् शिवत्वं उपपद्यत इत्यर्थः॥३७॥

प्रकरणार्थोपसंहारः

नात्मभावेन नानेदं न स्वेनापि कथंचन।
न पृथङ्नापृथक् किञ्चिदिति तत्त्वविदो विदुः॥३८॥

स्वातिरिक्तप्राणादिविकल्पानामपह्नवमुखेन ब्रह्ममात्रसिद्धिः अर्थात् सिध्यति इति वैतथ्यप्रकरणार्थमुपसंहरति—नात्मेति। प्राणादिस्थित्यन्तमिदं नाना शशविषाणवत् नास्त्येव। स्वात्मसत्तातिरिक्तसत्तावैरल्यात्। आत्मभावेन नाना स्यादित्यत आह— नेति। स्वात्मभावेनापि नाना न विद्यते। स्वात्मनो निष्प्रतियोगिकत्वेन ब्रह्ममात्रावगतेः प्राणादिनानापह्नवपूर्वकत्वात्। आत्माकारेण नानाभावेऽपि नानात्वाकारेण नाना स्यादित्यत आह— न स्वेनापि कथंचनेति। न हि कृच्छ्रात् स्वेन रूपेणापि नाना विद्यते। तस्य शशशृङ्गवत् अवस्तुत्वेन कालत्रयेऽप्यलब्धात्मकत्वात्। स्वात्मनः

पृथक्त्वेन वा किंचित् नानावस्तु अङ्गीकार्यमिति तत्राह— न पृथगिति। स्वात्मनो निष्प्रतियोगिकनिर्व्यवहार्यत्वेन प्रसक्तव्यावहारिकस्वपृथक्स्वापृथग्रूपनानागन्धोऽपि नास्तीत्येवं प्राणादिस्थित्यन्तकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति तत्त्वविदो विदुः “पश्यतेहापि सन्मात्रमसदन्यत्"इत्यादिश्रुतेः॥३८॥

______

अद्वैतप्रकरणम्

ब्रह्मनिरूपणम्

उपासनाश्रितो धर्मोजाते ब्रह्मणि वर्तते।
प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः॥१॥

अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्।
यथा न जायते किंचिज्जायमानं समन्ततः॥२॥

“प्रपञ्चोपशमं शान्तं शिवमद्वैतम्”,

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतं ज्ञाते द्वैतं न विद्यते॥

इति श्रुतितो निरासितस्वातिरिक्तप्रपञ्चस्य पुनः “स्वप्नमाये यथा दृष्टे”, “नात्मभावेन नानेदं” इत्यादिकेवलतज्जटिलवैतथ्यप्रकरणेनापि प्राणादिस्थित्यन्तप्रपञ्चस्य अवस्तुत्वेन अपह्नवः प्रतिपादितः। तथा स्वातिरिक्तापह्नवसिद्धं निष्प्रतियोगिकाद्वैतं किं आगममात्रेण प्रतिपत्तव्यं? न तत्तर्काक्षममित्याशंक्य तर्केणापि तत्सेद्धुं पारयतीति बहुलतरोपपत्तिभिः अद्वैतप्रकरणमा-

रभ्यते— उपासनेत्यादिना। उपासकोऽहं उपास्यं ब्रह्मेति ज्ञात्वा तदुपासनां आत्मनो मोक्षसाधनत्वेन आश्रित उपासनाश्रितो धर्मो जीवोऽस्मि। जीवधर्मविशिष्ट एवं मन्यते— इदानीं अहं एवं उपासनां कुर्वन् प्रपञ्चारोपास्पदत्वेन जाते ब्रह्मणि ईश्वरे वर्तमानो भवामि। स्वशरीरपतनादूर्ध्वं एवं अजं प्रपञ्चापवादास्पदं ब्रह्म प्रतिपत्स्ये। स्वातिरिक्तप्रपञ्चोत्पत्तेः प्राक् अहमिदं सर्वं चाजस्वरूपमेव। येन हेतुनाऽयं सविशेषब्रह्मवित् तेन हेतुनाऽयं निष्प्रतियोगिकनित्याजदर्शिभिः असौ सविशेषब्रह्मवित् कृपण इति स्मृतः—

यद्वाचानभ्युदितं येन वागभ्युद्यते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥

इति श्रुतेः॥१॥ यत एवं— अतो वक्ष्यामीति। “यो वा एतदक्षरं गार्ग्य विदित्वा अस्मात् लोकात् प्रैति स कृपणः” इति श्रुत्यनुरोधेन— जातोऽहं जाते ब्रह्मणि वर्ते। तदुपासनतः तत्पदं प्रतिपत्स्ये— इति यस्मात् एवं मन्यमानः कृपणो भवति तद्भावः कार्पण्यम्। आत्मसत्यव्यवहारप्रतिभासत्वेन स्वातिरिक्तप्रपञ्चास्तिताप्रतीतेः तद्विपरीतत्वेन तदपह्नवसिद्धं ब्रह्ममात्रं अकार्पण्यम्। “यो वा एतदक्षरं गार्गि विदित्वा अस्मात् लोकात्प्रैति स ब्राह्मणः”, “यत्र नान्यत्पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा” इत्यादिश्रुतिसिद्धमकार्पण्यं अतो वक्ष्यामि। स्वस्य स्वातिरिक्तस्य चाविद्यमानाजातीयस्य तदजाति असल्लौकिकाद्यष्टदृष्टिमोहे सत्यसति तद्गतवैषम्यापह्नवसिद्धत्वेन समतां गतं निरवयवत्वात्। यथा रज्जुसर्पवत् समन्ततो जायमानं सर्पादिभ्रान्त्यपनये किंचिदपि न जायते, तथा तं प्रकारं शृण्वित्यर्थः॥२॥

जातिनिदर्शनम्

आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः।
घटादिवच्च सङ्घातैर्जातावेतन्निदर्शनम्॥३॥

घटादिषु प्रलीनेषु घटाकाशादयो यथा।
आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि॥४॥

यदजात्यकार्पण्यं वक्ष्यामीति प्रतिज्ञातं तत्सिद्धिहेतुं विवृणोति— आत्मेति। अनात्मापह्नवसिद्धोऽयमात्मा निरवयवाकाशवत् केशकोट्येकांशवच्च सूक्ष्मो हि यथाकाशैराकाश उदितः तथा स आत्मा घटाकाशस्थानीयजीवैः उत्पन्न इव भाति। जीवात्मनां परस्मात् आत्मनः उत्पत्तिः श्रूयते “यतो वा इमानि भूतानि जायन्ते” इत्यादि। आकाशात् पटाकाशोत्पत्तिवत् परस्मात्जीवोत्पत्तिः समाना। न हि गोः वत्स इव महाकाशात् घटाकाशो जायते। घटाकाशात् महाकाशो वा जायते। न हि तथा परस्मात् जीवजातम्। जीवजातात् परोऽपि जायते। वस्तुतोऽवस्तुतो वापि ब्रह्मातिरिक्तयोः निष्प्रतियोगिकभावाभावरूपत्वेन न हि कस्यापि जातिःसेद्धुंपारयति। घटादिवत् करणसंघातैः उदित इति आत्मनो जातिःमन्दबुद्धिप्रतिपिपादयिषया जीवानां उच्यते। तत्र जातौ एतदाकाशं निदर्शनं न कस्यापि जातिरस्तीत्यर्थः॥३॥ जातावेतन्निदर्शनमित्युक्तार्थं विवृणोति— घटादिष्विति। यथा घटाद्युत्पत्तिप्रलयाभ्यां घटाद्यवच्छिन्नाकाशं उत्पन्नं प्रलीनमिव भाति तथा देहादिसंघातोत्पत्तिप्रलयाभ्यां तदवच्छिन्नचैतन्यमपि उत्पत्तिप्रलयवत् भाति न स्वतः। स्वस्य जडसंघातापह्नवसिद्धचिन्मात्रत्वादित्यर्थः॥४॥

जीवानां सुखादिसंबन्धाभावः

यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते।
न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः॥५॥

चिन्मात्रं निष्प्रतियोगिकमित्यजानन्तः केचित् चिन्मात्रस्य सर्वदेहव्यापकत्वेन तत्रैकदेहावच्छिन्नचितो जनिमृतिसुखदुःखादिसम्बन्धे सर्वदेहा-

वच्छिन्नचितामेकत्वेन तत्संबन्धतः क्रियाकारकफलसाङ्कर्यं च स्यादित्याहुः। तत्र सदृष्टान्तमिदमुच्यते— यथेति। यथा एकस्मिन् घटावच्छिन्नाकाशे रजोधूमादिभिः संयुते न हि तदितरघटाकाशादयो रजोधूमादिभिः संयुज्यन्ते, आकाशस्य
स्वविकल्पितघटादिसम्बन्धवैरल्यात्। तद्वत् जीवाः जनिमृति सुखदुःखादिभिः। जीवस्य स्वात्तोपाध्यपह्नवतः सन्मात्रत्वात् वस्तुत इत्यर्थः॥५॥

आकाशवज्जीवेषु भेदाभावः

रूपकार्यसमाख्याश्चभिद्यन्ते तत्र तत्र वैI
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः॥६॥

जीवस्य उपाध्यपायात् सन्मात्रत्वमस्तु, उपाधिसद्भावे कथं पुनः आत्मभेदव्यवहृतिः? इत्यत आह— रूपेति। यथा घटशरावापवरकाकाशानां अल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते तथा उदकादिहरणादिकार्यं भिद्यते। घटाकाशशरावाकाशादिसमाख्याश्च भिद्यन्ते। तत्र तत्र व्यवहारविषयत्वेनेत्यर्थः। एवं व्यवहृतिः रूपकार्यसमाख्यानिमित्ता। परमार्थतस्तु आकाशस्य न भेदोऽस्ति। तद्वत् देहोपाधिकृतजीवेषु रूपकार्यसमाख्या देहादेरेव मिथो भिद्यन्ते। न हि देहातिरिक्तजीवेषु तद्भेदोऽस्तीति निर्णयः निश्चयः। उपाध्यपाये जीवस्य ब्रह्ममात्रत्वात्॥६॥

आत्मनो जीवस्य चाभेदः

नाकाशस्य घटाकाशो विकारावयवौ यथा।
नैवात्मनः सदा जीवो विकारावयवौ तथा॥७॥

घटाद्याकाशगतरूपकर्मादिव्यवहृतिः पारमार्थिकी स्यात् इत्याशंक्य न हि महाकाशविकारावयवौघटाकाशादिः अतो न पारमार्थिकीत्याह—नाकाशस्येति। यथा सुवर्णघनस्य कटकमकुटादिरूपं (जलस्य) फेनबुद्बुदहिमादि वृक्षस्य शाखापर्णादिः विकारावयवश्च भवति, न तथा महाकाशस्य घटाद्याकाशो

विकारो अवयवो वा भवति यथा, तथा नैवात्मनो महाकाशस्थानीयस्य घटाकाशस्थानीयोजीवो न विकारो नाप्यवयवश्चभवति। अतो रूपकार्यादिव्यवहृतिः घटस्थानीयशरीरनिष्ठा, न तदवच्छिन्नाकाशस्थानीयजीवनिष्ठा। अतः सा न पारमार्थिकीत्यर्थः॥७॥

आत्मनोऽविलक्षणत्वम्

यथा भवति बालानां गगनं मलिनं मलैः।
तथा भवत्यबुद्धानामात्मापि मलिनो मलैः॥८॥

मरणे संभवे चैव गत्यागमनयोरपि।
स्थितौ सर्वशरीरेषु चाकाशेनाविलक्षणः॥९॥

यथा रूपकार्यादिव्यवहृतिः घटाकाशादिभेदबुद्धिनिबन्धना तथा जननमरणादिव्यवहृतिः देहोपाधिनिबन्धना। न हि निरुपाधिकात्मनः कंदाप्यस्तीत्येतमर्थंदृष्टान्तेन स्पष्टयति— यथेति। यथा बालानां गगनयाथात्म्याज्ञानां गगनं रजोधूमादिमलैः मलिनमिव भाति तथा स्वात्मयाथात्म्याज्ञानां अबुद्धानां अनात्मापह्नवसिद्धात्मापि विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तगतोपाधिमलैः मलिन इव भाति। तद्याथात्म्यविदां तु सर्वापह्नवसिद्धब्रह्ममात्रं भातीत्यर्थः॥८॥ उक्तार्थमेव पुनः द्रढयति— मरण इति। यथा घटाकाशजन्मनाशगमनादिः घटगतः तथा सर्वशरीरेष्वात्मनः जन्ममरणादिः आकाशेनाविलक्षणः। आकाशादेःजडत्वेन स्वस्य निष्प्रतियोगिकाजडत्वेन च विलक्षणत्वेऽपि औपाधिकभेदमादायाविलक्षणत्वं सिद्धमित्यर्थः॥९॥

देहादीनां स्वाविद्याकृतत्वम्

संघाताः स्वप्नवत्सर्वे आत्ममायाविवर्जिताः।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते॥१०॥

देहादिसंघाताः स्वाविद्याकृता न परमार्थतः सन्तीत्याह— संघाता इति। देहादिकार्यकरणसंघातानां तिर्यग्योन्याद्यपेक्षया आधिक्ये सर्वसाम्ये च उपपत्तिः न हि विद्यते। तेषां शशशृंगनिभमायाकार्यत्वेन कारणतुल्यत्वात् आधिक्यं साम्यं वा कुतः संभवति? न हि परमार्थतस्ते संभवन्तीत्यर्थः॥१०॥

आत्मतत्त्वस्य श्रुतिप्रामाण्यम्

रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके।
तेषामात्मा परो जीवः खं यथा संप्रकाशितः॥११॥

स्वात्मनः स्वाज्ञदृष्टिप्रसक्तसर्वविलक्षणत्वद्योतकवाक्यान्युपन्यस्यति— रसादय इति। ‘‘स वा एष पुरुषोऽन्नरसमयः’’ इत्यारभ्य ‘‘ब्रह्मपुच्छं प्रतिष्ठा” इत्यन्तं तैत्तिरीयके “अन्योन्तर आत्मा प्राणमयः” इत्याद्यन्नप्राणमनोविज्ञानानन्दमयकोशा अस्यादेरिव ये हि रसादयः कोशा व्याख्याताः, तेषामन्नादिकोशानां परः येनात्मनान्तरतमेन प्रतीचात्मवन्तः कोशा भवेयुः। तज्जीवननिमित्तत्वादात्मनः। स आत्मा पञ्चकोशानां पर एव। यः पूर्वं “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यभिहितः तस्मिन् स्वप्नमायावदाकाशादिक्रमेण रसादिकोशसंघाता विकल्पिताः। वस्तुतः परदृष्टेस्ते स्वात्ममायाविवर्जिताः। यथा खं घटाद्युपाधिसत्त्वासत्त्वाभ्यां वस्तुतः स्वमात्रं तथायमात्मा स्वातिरिक्तदेहादिसत्त्वासत्त्वाभ्यां आत्ममात्रमित्यस्माभिः व्याख्यातः प्रकाशित इत्यर्थः॥११॥

मधुब्राह्मणविवरणम्

द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम्।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः॥१२॥

व्यष्टिसमष्टिप्रपञ्चतदध्यक्षभेदे सति कथं निष्प्रतियोगिकतया आत्मप्रकाशः? इत्याशंक्य मधुब्राह्मणं संक्षिप्योपन्यस्यति—द्वयोरिति। “इयं पृथिवी सर्वेषां

भूतानां मधु। अस्यै पृथिव्यै सर्वाणि भूतानि मधु। यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव। स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वं” इत्यादि मधुब्राह्मणोक्तरीत्या यथा पृथिव्यामुदरे चैव अनुमानेनैकआकाशःप्रकाशितः तथा द्वयोः व्यष्टिसमष्टिप्रपञ्चयोः द्वयोः तदारोपापवादाधिकरणयोः तद्गतहेयांशापह्नवसिद्धमधुज्ञाने ब्रह्ममात्रज्ञाने जाते तज्ज्ञानसमकालं परं ब्रह्म निष्प्रतियोगिकस्वमात्रतया प्रकाशितं निरावृत सूर्यविम्बवदित्यर्थः॥१२॥

व्यष्टिसमष्टीशयोरैक्यम्

जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते।
नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम्॥१३॥

व्यष्टिसमष्ट्यधीशयोः भेदापेक्षया तयोरैक्यं युक्तमित्याह— जीवेति। “न तु तद्द्वितीयमस्ति”, “द्वितीयाद्वै भयं भवति”, “उदरमन्तरं कुरुते”, “अथ तस्य भयं भवति”, “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” इत्यादि श्रुतिभिः यतो नानात्वं निन्द्यते ततः“तत्त्वमसि”, “अहं ब्रह्मास्मि” इत्यादि श्रुतिभिः जीवात्मनोः अभेदेनानन्यत्वं प्रशस्यते स्तूयते। व्यष्टिसमष्ट्यनुगतचैतन्यभेदापेक्षया चैतन्यैक्यं युक्तमित्यर्थः। परमार्थदृष्ट्या व्यष्टिसमष्टिविभागः तदनुगतचैतन्यभेदोऽभेदो वा न हि युज्यते। वस्तुनः स्वमात्रत्वादित्यर्थः॥१३॥

गौणमुख्याभ्यां जीवात्मनोरभेदः

जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम्।
भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते॥१४॥

मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा।
उपायः सोऽवताराय नास्ति भेदःकथञ्चन॥१५॥

कथं पुनर्जीवात्मनोरनन्यत्वमुच्यते कर्मोपासनाकाण्डविरोधात्? इत्याशंक्य गौणमुख्याभ्यां उभयमपि संभवतीत्याह—जीवात्मनोरिति। “स यथाकामो भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत् कर्म कुरुते तदभिसंपद्यते”, “सदाधार पृथिवीं द्यां”, “मामेवोपासितव्यं” इत्यादि “यतो वा इमानि भूतानि जायन्ते”, “

आत्मन आकाशः संभूतः” इत्यादिकर्मोपासनाज्ञानकाण्डगोचरश्रुतिवाक्येभ्यः जीवात्मनोरुत्पत्तेः प्राक् पृथक्त्वं प्रकीर्तितमिति यत् तत् गौणम्। न हि घटाकाशमहाकाशभेदो मुख्यः। न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थत्वमुपपद्यते। जीवात्मभेदश्रुतीनां स्वाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वात्। इहोपनिषत्सु सृष्टिप्रलयवाक्यैः जीवपरयोः एकत्वपरमेव प्रतिपिपादयिषितम्। तथा च “अन्योऽसावन्योहमस्मीति न स वेद”, “तत्त्वमसि”, “अहं ब्रह्मास्मि” इति वाक्यैः भेदनिन्दापुरस्सरं अभेदस्य प्रकटितत्वात्। उत्पत्तेः प्रागेकत्वेऽपि भाविनीं वृत्तिमाश्रित्य ओदनं पचतीतिवत्यत् जीवात्मनोः उत्पत्तेः प्रागपि स्वाज्ञदृष्ट्या वाक्याभासयुक्त्याभासैः गम्यमानपृथक्त्वं गौणं तत् स्वज्ञदृष्ट्या एकत्वमेव मुख्यमित्यर्थः। परमार्थदृष्ट्या तु स्वातिरिक्तप्रपञ्चस्य शशविषाणवदलब्धात्मकत्वेन तत्सृष्टिप्रलयाद्यसंभवात्। न तन्निरूपितभेदाभेदौ आत्मनः सेद्धुं पारयत इत्यत्र “भेदाभेदौ सपदि गलितौ” इति श्रीशुकोक्तेः ब्रह्मातिरिक्तं न किंचिदप्यस्तीत्यर्थः। मिथः काण्डत्रयविरोधः स्वाज्ञादिदृङ्निष्ठः परमार्थदशायां न किंचिद्विरोधावकाश इति ज्ञेयम्॥१४॥ ‘‘एकमेवाद्वितीयं’’ इति श्रुत्योत्पत्तेः प्राक् अजं सर्वं उत्पत्त्यनन्तरं तु जगज्जीवेशा भिन्नाः सृष्टिप्रलयतावादिश्रुतेरित्याशंक्य त्वदुक्तशंकाया अन्यार्थत्वेन पूर्वमेव परिहृतत्वात् आकाशदृष्टान्तेन पुनरप्युत्पत्त्यादिश्रुतीनां अभेदपरतां प्रपञ्चयति— मृदिति। “एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् तथैकेन लोहमणिना”, “यथाग्नेः क्षुद्रा विस्फुलिङ्गा” इति मृल्लोहविस्फुलिङ्गादिदृष्टान्तैः सृष्टि या चोदिता विकल्पिता सा किमर्था? इत्यत आह— उपाय इति। मृल्लोहाग्निव्यतिरेकेण न हि घटासिविस्फुलिङ्गादयः सन्ति कार्यकारणयोरेकत्वात्। आत्मैकत्वबुद्ध्यवताराय सृष्ट्यादिश्रुतिपूग उपायः

स्यात्। अस्माकं उत्पत्त्यादिश्रुतीनां प्रतिसर्गं अन्यथान्यथा श्रूयमाणत्वात्। न ह्यात्मैकत्वोपायत्वसिद्धिरिति चेन्न; उत्पत्त्यादेर्मायिकत्वेन निष्प्रयोजनत्वात्। कार्यकारणैक्यबुध्यवतारप्रयोजनं विना न हि प्रयोजनान्तरं विद्यते। अतो न ह्यस्त्युत्पत्त्यादिकृतो भेदः कथंचनास्ति “इदं सर्वं यदयमात्मा” इति श्रुतेः॥१५॥

उपासनायाःकल्पनाप्रकारः

आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः।
उपासनोपदिष्टेयं तदर्थमनुकम्पया॥१६॥

परमार्थसद्रूप आत्मा एक एव। तदतिरिक्तमन्यत् असत् अनात्मा इति सिद्धेऽर्थे “अहरहस्सन्ध्यामुपासीत”, “यावज्जीवमग्निहोत्रं जुहुयात्”, “स क्रतुं कुर्वीत”, “आत्मेत्येवोपासीत”, “आत्मा वा अरे द्रष्टव्यः” इत्याद्युपासना किमर्थेयम्? इत्यत आह— आश्रमा इति। आश्रमाः आश्रमिणः सन्मार्गगा वर्णिनश्च त्रिविधाः दृष्टिभेदात्। कथम्? इत्यत आह— हीनेति। स्वातिरिक्तास्तित्वपूर्वकं तदात्मत्वतदुपाधित्वसत्यत्वरूपिणी हीना।स्वातिरिक्तं मिथ्येति ज्ञात्वापि तन्नात्यन्तासत् किन्तु व्यावहारिकी प्रातिभासिकी मध्यमा। स्वातिरिक्तापह्नवरूपिणी उत्कृष्ट दृष्टिः दर्शनं येषां स्वाज्ञस्वज्ञपरमार्थदृष्टीनां ते हीनमध्यमोत्कृष्टदृष्टयः। तत्र हीनदृष्ट्यर्धांशं बौद्धपञ्चकमपोह्य शिष्टहीनमध्यमदृष्टिप्रतिपत्त्यर्थम्। न हि “ब्रह्ममात्रमसन्न हि” इति श्रुत्यनुरोधेन निष्प्रतियोगिकब्रह्ममात्रपदमारूढोत्तमदृष्ट्यर्थंदयालुना वेदेन इयमुपासना उपदिष्टा। कथमेते हीनमध्यमदृष्टिं विहाय सर्वोत्तमनिष्प्रतियोगिकब्रह्ममात्रदृष्टिमाप्नुयुरित्यनुकम्पयेत्यर्थः।

इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत्।

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥

इति श्रुतेः॥१६॥

परमार्थदर्शिनो विरोधाभावः

स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम्।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते॥१७॥

तत्र स्वाज्ञानां मिथो विरोधाभावेऽपि स्वाज्ञस्वज्ञयोःमिथो विरोधःस्यात् इत्यत आह— स्वेति। अद्वैत्यतिरिक्ताः सर्वे द्वैतिनः। स्वस्वदृष्ट्यनुरोधेन स्वस्वसिद्धान्तव्यवस्थासु एवमेवैष परमार्थो नातः परमन्यत् अस्तीति दृढं विनिश्चितास्सन्तः रागद्वेषकलुषिता भूत्वा स्वस्वसिद्धान्तसाधनहेतोः परस्परं विरुध्यन्ते। तैरन्योन्यविरोधिभिरयं स्वज्ञदृष्टिरूपाद्वैतपक्षः तस्यात्मैकत्वदर्शनेन सर्वानन्यत्वात् रागद्वेषानास्पदत्वाच्च। यथा स्वहस्तपादादिभिः स्वयं तथा न विरुध्यते। मिथो विरोधहेतुस्वाज्ञानाभावात्। परमार्थदृष्टेस्तु विरोधोऽविरोधो वा न संभवतीत्यर्थः॥१७॥

द्वैताद्वैतविवरणम्

अद्वैतः परमार्थो हि द्वैतं तद्भेद उच्यते।
तेषामुभयथा द्वैतं तेनायं न विरुध्यते॥१८॥

स्वज्ञदृष्टेः स्वाज्ञदृष्ट्यविरोधे को हेतुः? इत्यत आह— अद्वैत इति। “एकमेवाद्वितीयं”, “तत्तेजोऽसृजत” इत्यादिश्रुत्यनुरोधेन आत्मैकत्वपक्षोऽयमद्वैतः परमार्थो हि द्वैतहेतुत्वात्। तद्विपरीतं नानात्वं द्वैतम्। तस्य अद्वैतस्य भेदः कार्यमुच्यते। यद्वा— सुषुप्तिमूर्छासमाधिषु स्वचित्तस्पन्दनाभावे द्वैतप्रपञ्चास्फूर्तेः। अतस्तस्य द्वैतस्य भेद उच्यते। कार्यकारणाभेदतोद्वैतमप्यद्वैतमेवेति हेतुना तेनायमद्वैतः पक्षः तैर्न विरुध्यते। तेषान्तु द्वैतं परमार्थतयापरमार्थतया वा भातु। अद्वैतात्मातिरेकेण द्वैतितद्ग्रहाभावात्। केन हेतुनायमद्वैती द्वैतिभिः विरुध्यते? न कदापि विरुध्यत इत्यर्थः। “ब्रह्मैवेदं सर्वम्” इति श्रुतेः॥१८॥

आत्मतत्त्वस्य परमार्थतोऽभेदः

मायया भिद्यते ह्येतन्नान्यथाजं कथंचन।
तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत्॥१९॥

अद्वैतकार्यं द्वैतमित्युक्ते अद्वैतवत् द्वैतमपि पारमार्थिकं स्यादित्यत आह— माययेति। यदेतदद्वैतं तैमिरिकदृष्टिदृष्टानेकचन्द्रवत् रज्वादिविकल्पितसर्पादिवत्स्वाज्ञानरूपया मायया भिद्यते निरवयवत्वात्। परमार्थतो निरवयवमजं नान्यथा कथंचन केनचित्प्रकारेणापि भिद्यते। तत्त्वतो भिद्यमाने हि अमृतं स्वभावतोऽजमपि मर्त्यतां व्रजेत्। स्वभावच्युतेः सर्वप्रमाणासम्मतत्वात्। अजं आत्मतत्त्वं माययैव भिद्यते न परमार्थत इत्यर्थः॥१९॥

आत्मनःस्वभाववैपरीत्याभावः

अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः।
अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति?॥२०॥

केचिदात्मनः स्वभाववैपरीत्यं कर्तुमिच्छन्ति। तत् मनोरथमात्रमित्याह— अजातस्येति। वादिनो वावदूकाः केचित् अजातस्यैवामृतात्मभावस्य परमार्थतो जातिं उत्पत्तिमिच्छन्ति। तद्दृष्ट्या एवं जातं चेत् तदेवावश्यं मर्त्यतामेष्यति। न हि स्वभाववैपरीत्यमेष्यतीत्यर्थः॥२०॥

प्रकृतेर्नान्यथाभावः

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति॥२१॥

यस्य या प्रकृतिः सा विकृतिं नैतीत्याह— न भवतीति। अग्निजलादेः पौष्णयशीतादिप्रकृतिः यथा सान्यथा न भवति तथेत्यर्थः॥२१॥

आत्मजातिपक्षे मोक्षाभावः

स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम्।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः?॥२२॥

यद्दृष्ट्या वस्त्वमृतं परमार्थतः तज्जायत इति च सिद्धान्तः तदमृतमेव न भवतीत्याह— स्वभावेनेति। यस्य पुनरात्मा स्वभावेनामृतोऽपि मर्त्यतां गच्छति। परमार्थतो जायते। जायमानवस्तुनोऽमृतमिति वार्तापि दुर्लभेत्याह —कृतकेनेति। कृतकत्वेन कल्पितामृतस्सन् निश्चलामृतस्वभावतया कथं स्थास्यति? एवमात्मजातिपक्षे न हि मोक्षोऽस्तीत्यर्थः॥२२॥

सृष्टिश्रुतेर्निश्चितत्वम्

भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः।
निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत्॥२३॥

सर्वमजमिति पक्षे सृष्टिप्रतिपादकश्रुतेः संकोचः स्यादित्यत आह— भूतत इति। सृष्टिप्रतिपादिका श्रुतिः न संकोचतामर्हति। तस्या जीवपरयोरेकत्वबुद्ध्यवतारहेतुतया “उपायः सोऽवताराय” इत्युक्तत्वात्। भूततः परमार्थतः अभूततो मायया वा मायां विनैव सृज्यमाने वस्तुनि सृष्टिश्रुतिः समा। सृष्टिस्सतीत्येव दृढभ्रमाणां तद्व्युत्क्रमेण प्रलयो निरुक्तः। सृष्टौ असत्यां प्रलयः क्व? “योऽजस्स रामचन्द्रोऽस्मि विदेहमुक्तः” इति प्रभोक्त्यनुरोधेन न हि सृष्टिः प्रलयो वास्ति। स्वाज्ञदृग्विकल्पितैव सृष्टिः गौणी। मुख्या सृष्टिः नास्त्येव। “ब्रह्मव्यतिरिक्तं न किंचिदस्ति” “मद्व्यतिरिक्तमणुमात्रं न विद्यते”, “सबाह्याभ्यन्तरो ह्यजः”, “न जायते म्रियते वा विपश्चित्” इत्यादिश्रुतिसहस्रनिश्चितं यत् सर्वापह्नवसिद्धब्रह्ममात्रं तत् निष्प्रतियोगिकनिर्विशेषत्वेन युक्तियुक्तं च। नेतरत् स्वातिरिक्तं किंचिदप्यस्ति। तस्यापि निष्प्रतियोगिकाभावरूपत्वादित्यर्थः॥२३॥

ब्रह्मणो माययैव जायमानत्वम्

नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि।
अजायमानो बहुधा जायते मायया तु सः॥२४॥

कथं पुनः श्रुत्या निश्चितम्? इत्याशंक्य स्वातिरिक्तनानापह्नवसिद्धतया स्वमात्रं ब्रह्म निश्चितं वस्तुतो निष्प्रतियोगिकाजत्वं मायया जायमानत्वं च स्यादित्यत आह— नेहेति। “एकमेवाद्वयं ब्रह्म”, “नेह नानास्ति किंचन” इयाम्नायात्स्वातिरिक्तनानाप्रपञ्चापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति निश्चितम्। न ह्यत्र निवर्त्यनिवर्तकभावः सेद्धुं पारयति—

या च प्रागात्मनो मे मा तथान्ते च तिरस्कृता।
ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः॥

इति,

मायाविद्याज्ञानविश्वाभावान्तःकरणादयः।
ब्रह्मातिरिक्तपर्याया ह्यत्यन्ताभावरूपिणः॥

इति श्रुतेः परमाक्षरविवेकोक्तेश्च। निर्वर्तनीयमायातत्कार्यस्य शशविषाणवदलब्धात्मकत्वेन निवर्तकतापि नास्तीत्यर्थः। “इन्द्रो मायाभिः पुरूरुप ईयते”, “अजायमानो बहुधा विजायते” इति श्रुत्यनुरोधेन स्वज्ञदृष्ट्या कदाप्यजायमानोऽपि यः परमात्मा स तु स्वाज्ञदृष्टिप्रसक्तमायया विश्वविश्वाद्यविकल्पानुज्ञैकरसान्ततत्कार्यजातरूपेण जायत इव जायते न परमार्थतः।

चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम्।
सर्ववर्जितचिन्मात्रं ब्रह्ममात्रमसन्न हि॥

इत्यादि श्रुतेः॥२४॥

कार्यकारणकलनाविरलं ब्रह्म

संभूतेरपवादाच्च संभवः प्रतिषिध्यते।
को न्वेनं जनयेदिति कारणं प्रतिषिध्यते॥२५॥

कार्यकारणकलनायां सत्यां कथं ब्रह्ममात्रता? इत्यत आह— संभूतेरिति। ‘‘न जायते म्रियते वा विपश्चित्”, ‘‘न निरोधो न चोत्पत्तिः” इत्यादिश्रुतितः संभूतेः उत्पत्तेः अपवादात् अपह्नवात् संभवः संभवनं जन्मकार्यं प्रतिषिध्यते अपह्नवपदमेव भजते। तथा “नायं कुतश्चिन्न वभूव कश्चित्”, “को न्वेनं जनयेत् पिता” इति श्रुतेराक्षेपार्थत्वेन कारणं प्रतिषिध्यते। न हि शशविषाणवदलब्धात्मकस्वातिरिक्तमायातत्कार्यस्य जनयितृकारणाकांक्षास्ति, कार्यसापेक्षकारणतायाः कार्यापह्नवसमकालं अपह्नवंगतत्वात्। कार्यकारणकलनाविरलं ब्रह्ममात्रमवशिष्यत इत्यर्थः।

कार्यं चेत् कारणं किंचित् कार्याभावे न कारणम्।

इति संभूत्यभावश्रुतितः समस्तकार्यादिविश्वस्य न संभवोऽस्ति कार्याद्यभावात्। “परमार्थतस्तन्न कारणं ब्रह्म तथा न कार्यं” इति श्रुतेः भिदामार्ताण्डोक्तेश्च॥२५॥

ब्रह्ममात्रावगतेः दुर्बोधत्वम्

स एष नेति नेतीति व्याख्यातं निह्नुते यतः।
सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते॥२६॥

निष्प्रतियोगिकब्रह्ममात्रावगतेः दुर्बोधत्वेनोक्तार्थमेव भङ्ग्यन्तरेण पुनः पुनराह— स इति। स्थूलादिचतुरंशाढ्यस्वाविद्यापदतत्कार्यव्यष्टिसमष्टितदैक्यारोपापवादाधिकरणविश्वविश्वाद्यविकल्पानुज्ञैकरसान्तभेदेन यद्यत् व्याख्यातं स्वाज्ञादिदृष्ट्या प्रपञ्चितं तत्सर्वं “अथात आदेशो नेति नेति”, “न ह्येतस्मादिति”, “नेत्यन्यत् परमस्ति” इत्यादिश्रुतिस्वातिरिक्ताविद्यापदतत्कार्यतदारोपापवादाधिकरणगतहेयांशजातं यतो निह्नुते अपह्नवमाचष्टे, अतः सर्वं अजं तद्गतयांशाग्राह्यभावेन हेतुना निष्प्रतियोगिकाजं ब्रह्म प्रकाशते। न हि स्वातिरेकेण ग्राह्यं त्याज्यं वा किंचिदस्तीत्यत्र—

किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम्।

वस्तुतोऽवस्तुतो वापि ब्रह्मभिन्नभिदाततेः।
अभावनिगमान्तालिमानात् सर्वमजं स्मृतम्॥

इति श्रुतेः चन्द्रिकोक्तेश्च॥२६॥

सतोऽजायमानत्वादि

सतो हि मायया जन्म युज्यते न तु तत्त्वतः।
तत्त्वतोजायते यस्य जातं तस्य हि जायते॥२७॥

असतो मायया जन्म तत्त्वतो नैव युज्यते।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते॥२८॥

‘‘पश्यतेहापि सन्मात्रमसदन्यत्’’ इत्यादिश्रुतिसहस्रतः स्वातिरिक्तासदपह्नवसिद्धं निष्प्रतियोगिकसन्मात्रमित्यवधृतम्। तत्र सदसद्वादिनो मिथः स्वस्वसिद्धान्तानुरोधेन अस्मत्सिद्धान्तरूपामजातिमेव ख्यापयन्तीत्याह— सत इति। सतः सन्मात्रस्य निष्प्रतियोगिकभावरूपत्वेन तत्त्वतो जन्म न हियुज्यते। जातिश्रुतेः का गतिः? इत्याशंक्य सा स्वाज्ञेषु गतिमर्हतीत्याह— माययेति। स्वाज्ञदृष्टिप्रसक्तसत्कारणात् मायया मायाविकल्पितहस्त्यादिवत् जन्म युज्यते। नासतः कारणात् कस्यापि जन्म युज्यते। यस्य पुनः सदेव तत्त्वतोजायत इत्यभिनिवेशः तस्य तु जातमेव जायत इति निश्चितम्। जातस्य जायमानत्वेन अनवस्थाप्रसङ्गः स्यात्। तस्मात् सन्न जायते तस्य निष्प्रतियोगिकसन्मात्ररूपत्वात्। तस्मादपि स्वातिरिक्तं न किंचित् जायते। तस्य शशविषाणवदवस्तुत्वात्॥२७॥ सन्मात्रस्याजत्वेन जन्मकारणत्वाभावेऽपि असतो जन्म स्वातिरिक्तसत्कारणत्वं च स्यादित्यत आह— असत इति। यथा न हि बन्ध्यापुत्रः परमार्थतो मायया वा कदापि जायते तथा कालत्रयेऽपि शशविषाणवत् असतोऽविद्यमानस्य तत्त्वतो मायया

वापि जन्म न युज्यते। स्वस्याविद्यमानत्वेनासद्धेतुत्वमेव नास्ति। सद्धेतुत्वं कुतः संभवति? तस्यापि निष्प्रतियोगिकाजत्वं सिद्धमित्यत्र वक्ष्यति च—

स्वतो वा परतो वापि न किंचिद्वस्तु जायते।
नास्त्यसद्धेतुकमसत् सदसद्धेतुकं तथा॥

इत्यादि। सदसत्कार्यवादिनः परस्परं विवदमानास्सन्तः अस्मदीयाजातिमेव ख्यापयन्तीत्यर्थः॥२८॥

मनस्स्पन्दनमेव जाग्रदादिहेतुः

यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः॥२९॥

निष्प्रतियोगिकभावाभावरूपसदसतोरजत्वेन स्वमात्रत्वे स्फुटास्फुटग्राह्यग्राहकायमाणजाग्रदादिव्यापृतिः कथम्? इत्याशंक्य “अदृश्यमव्यवहार्यमग्राह्यम्” इत्यादिश्रुत्यनुरोधेन व्यष्टिसमष्ट्यात्मकजाग्रज्जाग्रदादितुर्यस्वापान्ततदारोपापवादाधारविश्वविश्वाद्यविकल्पानुज्ञैकरसान्तव्यापृतिर्वा कथं सेद्धुंपारयति? तुर्यतुर्यावगतेः स्वातिरिक्तजाग्रज्जाग्रदादिचतुष्पश्ञ्चदशकलनातद्व्यावृत्त्यपह्नवपूर्वकत्वात्। इत्थं तुर्यतुर्ययाथात्म्याज्ञानतः स्वातिरेकेण मनः परिकल्प्य तत्स्पन्दनमेव जाग्रदादिव्यापृतिहेतुरिति कल्पयन्तीत्याह— यथेति। यथा स्वप्ने रज्ज्वज्ञानोत्थसर्पवत् स्वाज्ञानप्रभवं मनो ग्राह्यग्राहकरूपेणेव द्वयाभासं मायया स्पन्दते, तथा जाग्रज्जागरितादौ ग्राह्यग्राहकरूपद्वयाभासतया मायया स्पन्दते इत्यर्थः॥२९॥

स्वतो मनसोऽस्पन्दः

अद्वयं च द्वयाभासं मनः स्वप्नेन संशयः।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः॥३०॥

सर्पोरज्जुरूपेणेव स्वाधिष्ठानाद्वयरूपं सत् स्वप्नादौ मनः स्पन्दते न स्वत इत्याह—अद्वयमिति। स्वाधिकरणाद्वयं मनः स्वप्ने स्वविकल्पितस्थावरजङ्गमात्मकं जगत् ग्राह्यम्। तथा चक्षुरादीन्द्रियं ग्राहकम्। तदुभयं हि द्वयाभासं न हि स्वव्यतिरेकेणास्ति। जाग्रत्यपि तथैवेत्यर्थः॥३०॥

प्रपञ्चस्य भावाभावयोर्मनःकृतत्वम्

मनोदृश्यमिदं द्वैतं यत् किंचित् सचराचरम्।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते॥३१॥

स्वातिरिक्तप्रपञ्चभावाभावावन्वयव्यतिरेकाभ्यां मनःकृताविति निदर्शयति— मन इति। इदं परिदृश्यमानं व्यष्टिसमष्ट्यात्मकं यत्किंचिच्चराचरात्मकं विश्वं द्वैतं मनसा दृश्यते कल्प्यत इति सर्वं मनोदृश्यमुच्यते।

परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि।

इत्यादिश्रुत्यनुरोधेन मनस्तत्कार्यवृत्तिसहस्रापह्नवसिद्धं ब्रह्म स्वमात्रमिति प्रबोधसमकालं स्वाज्ञदृष्टिप्रसक्तमनसः सुषुप्तिमूर्छासमाधिषु विलयो ह्यमनीभावो भवति। तदा द्वैतं नैवोपलभ्यते। पुनः जाग्रत्स्वप्नयोः द्वैतं भवतीति विभ्रममूलं मनो निष्प्रतियोगिकामनीभावं ब्रह्ममात्रपदं भजति। तदा मनस्सत्त्वासत्त्वसिद्धद्वैताद्वैते स्तो न स्त इति वार्तापि नोपलभ्यत इत्यर्थः॥३१॥

मनसो ह्यमनीभावः

आत्मसत्यानुवोधेन न संकल्पयते यदा।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम्॥३२॥

मनसो ह्यमनीभावोपायः कः? इत्यत आह— आत्मेति। स्वातिरिक्तमनात्मा स्वयं त्वात्मा। तत्र स्वातिरिक्तानात्मापह्नवसिद्धतयात्मैव सत्यमिति यदा

श्रुत्याचार्यप्रसादतः बोधो जायते सोऽयमात्मसत्यानुबोधः। तेन कल्पनाविषयवैरल्यात्। न हि किंचिदपि संकल्पयते तदा स्वग्राह्यविषयाभावेतदग्रहं मनस्त्वमनस्तां चिन्मात्रतां स्वावशेषतया याति ब्रह्मैवभवतीत्यर्थः॥३२॥

ब्रह्मबोधनप्रकारः

अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते।
ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते॥३३॥

तादृशं ब्रह्म कथं बुध्यते? इत्यत आह— अकल्पकमिति। यत् सर्वकल्पनापह्नवसिद्धं तदकल्पकम्। तस्य परमार्थसत्यत्वेन केनाप्यजातत्वात् अजम्। ज्ञप्तिमात्रत्वात् ज्ञानम्। तद्भिन्नं ज्ञेयमित्यत आह— ज्ञेयाभिन्नमिति। चिन्मात्रज्ञानातिरिक्तज्ञेयवैरल्यात् ब्रह्मविदश्चिन्मात्रं ज्ञेयाभिन्नं प्रचक्षते। चिन्मात्रातिरिक्तज्ञेयाभावात्। ज्ञानमेव ज्ञेयमिति कथयन्तीत्यर्थः। “न हि विज्ञातुः विज्ञातेः विपरिलोपो विद्यतेऽविनाशित्वात्”, न तु तद्वितीयमस्ति”, “विज्ञानमानन्दं ब्रह्म”, “सत्यं ज्ञानमनन्तं ब्रह्म” इति श्रुतेः। किंरूपेण तत् ज्ञेयम्? इत्यत आह— ब्रह्मेति। स्वमात्रत्वेनोपबृंहणात् ब्रह्म। तद्रूपेणैव यत् ज्ञायते तत् ब्रह्म ज्ञेयम्। अत एव अजं निष्प्रतियोगिकनित्यं सत्तामात्रम्। अजेन निष्प्रतियोगिकब्रह्ममात्रज्ञानेन अजं आत्मतत्त्वं स्वयमेव स्वमात्रतया बुध्यते। न हि ज्ञानान्तरापेक्षा स्ववेदने अस्तीत्यर्थः॥३३॥

सुषुप्तिसमाध्योर्वैलक्षण्यं प्रचारभेदश्च

निगृहीतस्य मनसो निर्विकल्पस्य धीमतः।
प्रचारः स तु विज्ञेयः सुषुप्तोऽन्यो न तत्समः॥३४॥

लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते।
तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः॥३५॥

मनसो निर्विकल्पावस्था ह्यमनीभावः। सोऽयं सुषुप्तिसमाध्योः सम इत्याशंक्य तयोर्वैलक्षण्यं स्फोरयति—निगृहीतस्येत्यादिना। स्वातिरिक्तनैरपेक्ष्येण स्वमात्रे निगृहीतस्य मनसो निर्विकल्पस्य धीमतो विवेकवतोऽन्तःकरणस्य प्रचारणं प्रचारः ब्रह्ममात्रगोचरत्वेन ब्रह्मविद्भिः विज्ञेयः। सुषुप्तिसमाध्योः प्रत्ययाभावस्य तुल्यत्वमित्यत्र सुषुप्ते प्रचारस्त्वन्यः कारणाज्ञानकवलितत्वात्। समाधिस्थस्य मनसो ब्रह्माकारपरिणतत्वात् न हि सुषुप्तिसमः समाधौ मनःप्रचार इत्यर्थः॥३४॥ पुनस्तयोःप्रचारभेदमाचष्टे— लीयते इति। सुषुप्त्यवस्थां गतस्य मनः स्वाविद्यावृत्तिभिस्सह कारणाज्ञाने विलीयते हि वीजभावमापद्यते। जाग्रत्स्वप्नसुषुप्तिषु तत्त्वाग्रहणलक्षणस्वापस्य तुल्यत्वात्। स्वाज्ञं मनोऽवस्थात्रयेऽपि विलीयते। तदेव पुनर्मनः श्रुत्याचार्यप्रसादलब्धविवेकतो निगृहीतं सत् न लीयते। शुद्धसत्त्वरूपेण ब्रह्माकारपरिणतत्वात्। यद्वा— सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रप्रबोधसमकालं यत् मनोऽस्ति नास्तीति मननमपि नार्हति तत् मनः स्ववृत्तिभिस्साकं विरूपतया विलीयते अपह्नवपदं भजतीत्यत्र—

जाग्रत्स्वप्नसुषुप्तिमोहतमसि स्वान्तर्मुनेर्लीयते

तुर्याकल्पसमाधिनिष्ठमनसः सत्त्वाल्लयं नैति तत्।

तुर्यातीतपदे विरूपविलयाद्यस्मिन् समाप्तं भवेत्

इति मुक्तिशतकोक्तेः। स्वाज्ञादिदृष्ट्या समन्ततो विद्यमानं मनस्तत्कार्यजातं विलीयते अपह्नवं भजति। तदपह्नवज्ञानसमकालं यत् स्वमात्रतया अवलोक्यते तत् ज्ञानालोकं “द्वितीयाद्वै भयं भवति” इति श्रुतितः भयहेतुद्वैतादिवृत्त्यपह्नवसिद्धं यद् तदेव निर्भयं “तदेतदभयममृतं अशोकमनन्तं निर्बीजं” इति श्रुतेः। तद्रूपेण सर्वत्र बृंहणात् ब्रह्म स्वमात्रतयावशिष्यत इत्यर्थः। सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते तत् ‘‘अद्वयं ब्रह्म’’ इति श्रुतेः॥३५॥

अजस्वरूपनिरूपणम्

अजमनिद्रमस्वप्नमनामकमरूपकम्।
सकृद्विभातं सर्वज्ञं नोपचारः कथंचन॥३६॥

यदेवमवशिष्टं तत्स्वरूपं विशदयति—अजमिति।जन्मादिषड्भावविकारापह्नवसिद्धत्वात् अजं तुर्यस्वापादिपञ्चदशावस्थापह्नवात् अनिद्रं अस्वप्नं स्थूलादिशरीरापह्नवात् अनामकमरूपकं,

यतो वाचो निवर्तन्ते विकल्पकलनान्विताः।
विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते॥

इति श्रुत्यनुरोधेन विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तविकल्पकदम्बापह्नवसिद्धनिष्प्रतियोगिकनिरावृतब्रह्ममात्ररूपेण सदा यत् विभाति तत् सकृद्विभातं “सुविभातं सकृद्विभातम्” इति श्रुतेः। स्वाज्ञादिदृष्टिप्रसक्तसर्वमस्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्म स्वमात्रमिति यज्जानाति तत् सर्वज्ञम्।अजादिसप्तविशेषणं ब्रह्मण्यौपचारिकमित्यत आह—नेति। यत्प्रसादतो मुनिगणः यद्यत् स्मरति तत्तत् पर्यायेण जानातीति सर्वज्ञ उपचर्यते। तथा नेह निष्प्रतियोगिकब्रह्ममात्रे तादृशाजत्वादेरसंभवात्। निरुपचरिताजादिसर्वज्ञान्तशब्दार्थरूपत्वात् कथंचन कदापि नोपचारः अजत्वादिशब्दस्यापि तदाप्त्युपायत्वादेवमुपायत उपाये स्वमात्रमिति ज्ञाते तत्समकालमजत्वादिशब्दवाच्यलक्ष्यकलनापि अपह्नवपदं भजति। ब्रह्ममात्रं सदा विशिष्यत इत्यत्र—

सर्वंप्रशान्तमजमेकमनादिमध्य-
माभास्वरं स्वदनमात्रमचैत्यचिह्नम्।
सर्वं प्रशान्तमिति शब्दमयी च दृष्टि-
र्बोधार्थमेव हि मुधैव तदोमितीदम्॥

इति, “सत् किंचिदवशिष्यते” इति च श्रुतेः॥३६॥

अनामकत्वे हेतुनिरूपणम्

सर्वाभिलापविगतः सर्वचिन्तासमुज्झितः।
सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः॥३७॥

अनामकमित्यादि यदुक्तं तत्र हेतुमाह—सर्वेति। अनेन अभिलप्यत इत्यभिलापो वाक्करणं बाह्यकरणोपलक्षणार्थम्। “यतो वाचो निवर्तन्ते” इति श्रुत्यनुरोधेन सर्वाभिधानप्रपञ्चो यत्र विगतः अपह्नवं गतः सोऽयं सर्वाभिलापविगतः। चिन्त्यतेऽनयेति चिन्ता बुद्धिरन्तःकरणं यद्ज्ञानतः समुज्झितं सोऽयं सर्वचिन्तासमुज्झितः अन्तःकरणापह्नवसिद्धत्वात् “अप्राणो ह्यमनाः शुभ्रः”इति श्रुतेः। युगपद्यत्र व्यष्टिसमष्टिकरणजालं सुतरां प्रशान्तं सोऽयं सुप्रशान्तः “प्रपञ्चोपशमं शान्तं” इति श्रुतेः। निरावृतब्रह्ममात्रतया यः सकृद्दीप्यते सदा प्रकाशते सोऽयं सकृज्ज्योतिः “आत्मज्योतिरहं शुक्रः” इति श्रुतेः। विषमा धीरनात्मगोचरा आत्मगोचरा समाधिरपि यस्मिन् स्वमात्रमाधीयते सोऽयं समाधिः। निर्विकल्पकचिद्धातुः विक्रियावैरल्यादचलः स्वातिरिक्तापह्नववान् निष्प्रतियोगिकाभयः परमात्मा अवशिष्यत इत्यर्थः॥३७॥

समाधिशब्दार्थविवरणम्

ग्रहो न तत्र नोत्सर्गः चिन्ता यत्र न विद्यते।
आत्मसंस्थं तदा ज्ञानमजाति समतां गतम्॥३८॥

मनसः संकल्पादितानवं हि समाधिशब्दार्थो न ब्रह्मवाचक इत्याह—ग्रह इति। न हि यत्रात्ममात्रे चिन्तासामान्यं विद्यते आत्ममात्रावगतेः सर्वचिन्तापह्नवपूर्वकत्वात्। न हि तत्र स्वातिरिक्तमस्तीति ग्रहः ग्रहणं नेति स्वातिरिक्तमित्युत्सर्गोऽपवादो वा विद्यते। स्वमात्रसिद्धे स्वातिरिक्तमस्तित्वेन ग्राह्यं त्याज्यमिति वा। विभ्रमापह्नवपूर्वकत्वात् हानोपादानविरलं ब्रह्मेत्यर्थः।

अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे।
किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम्?॥

इति श्रुतेः। यदैवमनात्मापह्नवसिद्धात्मबोधो जायते तदानीमग्न्युष्णवदात्मन्येव मनोभावं विहाय मनोऽमनस्कभावमेत्य तिष्ठतीत्यात्मसंस्थं तदवस्थं मनो ज्ञानं ज्ञप्तिमात्रत्वात्।

अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्।

इति। प्रतिज्ञातं यदादौ तदिदानीमुपपत्तितः शास्त्रतश्च सम्यगुपपादितम्। तदुपसंहरति—अजातीति। स्वातिरिक्तयोरात्मानात्मनोः जातिरस्ति नास्तीति विभ्रमापह्नवसिद्धं यत् तत् अजाति। स्वातिरिक्तवैषम्यापह्नवसिद्धमपि समतां गतम्। एवं ज्ञानसमकालं विद्वत्पटलं ब्रह्ममात्रावस्थितिमापन्नमित्यर्थः। “य एवं निर्बीजं वेद निर्बीज एव स भवति”इति श्रुतेः॥३८॥

अस्पर्शयोगस्वरूपम्

अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिनाम्।
योगिनो बिभ्यति ह्यस्मादर्भये भयदर्शिनः॥३९॥

प्रशान्तवृत्तिकं चित्तं परमानन्ददीपकम्।
असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः॥

इति श्रुत्यनुरोधेन स्वतिरिक्तप्रपञ्चजातं आत्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन अस्ति नास्तीति विभ्रमास्पर्शासंप्रज्ञातसमाधिः परमात्मैवाभासपारमार्थिकयोगिनां स्वातिरिक्तास्तित्वधीदोषेण दुर्दर्शवत् स्वातिरिक्तापह्नवधिया स्वमात्रत्वेन च भातीत्याह—अस्पर्शयोग इति। जाग्रज्जाग्रदादिचतुष्पञ्चदशकलनास्ति नास्तीति विभ्रमस्पर्शो यत्रापह्नवतां गतः सोऽयं निष्प्रतियोगिकास्पर्शः परमात्मा। योगो नामायं तन्मात्रबोधः। सोऽयमस्पर्शयोगः जाग्रज्जाग्रदादिचतुष्पञ्चदशकलनापह्नवसिद्धनिष्प्रतियोगिकतुर्यतुर्यः। सोऽयं तुर्यतुर्यमात्र-

प्रबोधरहितानां विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तचैतन्यविषयकबोधवत् सर्वयोगिनां दुर्दर्शः दुष्प्राप इत्यर्थः। भयहेतुबौद्धमीमांसकादिग्रहापह्नवसिद्धनिष्प्रतियोगिकनिर्भयतुर्येऽपि तस्य निष्प्रतियोगिकैकत्वे सकुटुम्बशिष्यवर्गाणां अस्माकंका वा गतिः? इत्यस्मान्निर्विशेषतुर्यतुर्यात् भयदर्शिनो योगिनो बिभ्यति। इमं योगमात्मनाशकमिति भिया स्वातिरिक्तस्पर्शयोगमेव भजन्तीत्यत्र—

ब्रह्मातिरिक्तं नेत्यर्थे स्वनाशाशंकया ह्यमी।
वदन्तु विश्वसत्यत्वं व्यावहारिकतादिकम्॥

इति परमाद्वैतदर्शनोक्तेः। परमार्थदर्शिनः परमाद्वैतिनस्तु निर्भयास्सन्तः निष्प्रतियोगिकाद्वैततुर्यतुर्य स्वमात्रमिति निश्शंकं ज्ञात्वा तन्मात्रतया अवतिष्ठन्त इत्यत्र—

स्वेतरासहनं ब्रह्म स्वमात्रमिति यैर्यतः।
परमाद्वैतिनः प्राहुः निश्शंकं ब्रह्ममात्रकम्॥

इति॥३९॥

मोक्षस्य मनोनिग्रहायत्तता

मनसो निग्रहायत्तमभयं सर्वयोगिनाम्।
दुःखक्षयः प्रबोधाश्चाप्यक्षयाशान्तिरेव च॥४०॥

यद्दृष्ट्या ब्रह्मातिरेकेण मनस्तत्कार्यमस्तीति ब्रह्मणि रज्जुसर्पवत् कल्पितमपि इदानीं मनस्तत्कार्यस्य व्यावहारिकत्वं प्रातिभासिकत्वं वा अङ्गीकार्यमिति निश्चयोऽस्ति। तद्दृष्ट्या मनोनिग्रहायत्तो मोक्षः स्यादित्याह—मनस इति। यतो बाह्यान्तर्मनसो व्यापृत्या विश्रान्तं बन्धः सांसारिको भवति अतः कामसंकल्पादिवृत्तिमन्मनसो निग्रहायत्तं अभयं ब्रह्मेत्यस्पर्शयोग्यतिरिक्तसर्वयोगिनां मनसि निरुद्धे बाह्यान्तः संकल्पजदुःखक्षयः ब्रह्मविषयकप्रबोधः अक्षया शान्तिमुक्तिरेव चेति एतत्सर्वंमनोनिग्राहयत्तं भाति। परमार्थदृशां तु स्वातिरिक्तमनस्तत्कार्यसुखदुःनापह्वव सिद्धनिष्प्रतियोगिकब्रह्ममात्रमेव सदा विजृंभत इत्यर्थः।

तत्र स्वातिरेकेण मनस्सत्त्वे तद्व्यतिरेकान्वयतो बन्धमोक्षौ स्यातामिति निश्चयो भवेत् मनस्तत्कार्यवैरल्यात्। अतो मनोनिग्रहायत्तोक्तिः मन्दमध्यमविषयेत्यर्थः॥४०॥

सामान्यानां मनोनिग्रहस्यासाध्यत्वम्

उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिन्दुना।
मनसो निग्रहस्तद्भवेदपरिखेदतः॥४१॥

परमार्थदृष्टीतराणां मनोनिग्रहोक्तिरपि वाचारम्भणमात्रेत्याह—उत्सेक इति। यथा कश्चिदुदधिशोषणकामो बालकः तच्छोषणसाधनत्वेन कुशमेकं करे गृहीत्वा तदग्रं सागरेऽभ्यक्त्वा तत्कुशाग्रसंलग्नैकैकबिन्दुना सागरं शोषयितुमिच्छति कुशाग्रेणैककबिन्दुना उदधेरपरिखेदत उत्सेक इव तथा मन्दानां मनसो निग्रहोऽपरिखेदतो भवेत्। तन्निग्रहवार्तापि दुर्लभेत्यर्थः। यद्वा—कश्चित् पक्षिविशेषः स्वसन्तानग्रासमुदधिंमत्वा तुण्डेन कुशाग्रं गृहीत्वा तदग्रेण एकैकबिन्दुं पुनः पुनः वेलायां प्रक्षिपन् चिरव्यवसायी भवति। गरुत्मान् तद्व्यवसायं दृढनिश्चयं च नारदात् श्रुत्वा अस्मदीयोऽयं पक्षी तत्कार्यं साधनीयमिति मनीषया स्वपक्षवातेन सागरं शोषयितुं उद्युक्तं तं वीक्ष्य तत्समाधानार्थं तत्सम्बन्धिपक्षिसन्तानं दत्तवान् समुद्रः।एवं मनसो निग्रहव्यवसायिनो मुमुक्षोः ईश्वरसहायेनापरिखेदतो मनसो निग्रहो भवेत्। तस्मात् मनोनिग्रहोद्योगः कर्तव्यः॥४१॥

मनोनिग्रहोपायः

उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा॥४२॥

दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत्।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति॥४३॥

ये संवोधयेच्चित्तं विक्षिप्तं शमयेत् पुनः।
सकषायं विजानीयात् समप्राप्तं न चालयेत्॥४४॥

मनोनिग्रहोपायः कः? इत्यत आह—उपायेनेति। कामभोगयोः सदा विक्षितं क्षुभितं मनः ब्रह्मातिरिक्तं नेतीति ब्रह्मज्ञानोपायेन निगृह्णीयात् स्वात्मन्येव निरुन्ध्यादित्यर्थः। स्वातिरिक्तविषयध्यानजकामो यथा स्वानर्थहेतुः तथा जाग्रदाद्यवस्थात्रयतमसि लयोऽपीति ज्ञात्वा कामादिवृत्तितो निग्रहवत् लयवृत्तितोऽपि निग्रहोपायपूर्वकं आयासवर्जितं यथा भवति तथा ब्रह्माकारपरिणत्या मनः सुप्रसन्नं भवेत् तथा निरुघ्न्ध्यादित्यर्थः॥४२॥ तत्रोपायमाह—दुःखमिति। ब्रह्मातिरिक्तस्वाविद्याविजृंभितमनस्तत्कल्पितप्रपञ्चजातमस्तीति चिन्तनं दुःखमेवेत्यनुस्मृत्य स्वेप्सितकामभोगात् मनो निवर्तयेत्। स्वातिरिक्तं नेति नैराश्यभावनयेत्यर्थः। श्रुत्याचार्यप्रसादलब्धविवेकेन स्वाज्ञदशायां यत् स्वातिरेकेण भातं तत्सर्वं अजं ब्रह्मेत्यनुस्मृत्य तद्विपरीतजातं नैव तु पश्यति। तुशब्दतः स्वातिरिक्ताभावो द्योत्यत इत्यर्थः॥४३॥ “यथा कामो लयस्तथा” इत्यंशं विवृणोति—लय इति। ब्रह्मातिरिक्तं चित्तं अन्तःकरणतत्कार्यंनेति विवेकतः तत्त्वाग्रहणलक्षणावस्थात्रयस्वापे विलीनं संबोधयेत्। न पुनरवस्थात्रये योजयेदित्यर्थः। यदि कदाचित् कामभोगेषु विक्षिप्तं पुनः पुनः शमयेत्। एवं लयात् संबोधितं कामभोगतो व्यावर्तितमपि संस्पृष्टसाम्यभावं अन्तरालावस्थं सकषायं बीजयुक्तं अन्तःकरणं विद्यात् विजानीयात्। शनैस्ततः साम्यपदमापादयेत्। यदा तत्समं ब्रह्म प्राप्तं भवति तदभिमुखं भवति। तत्कदाचिदपि विषयाभिमुखं न चालयेत्। ब्रह्मणि स्थिरीकुर्यादित्यर्थः॥४४॥

निगृहीतमनसः सुखास्वादनाभावः

नास्वादयेत्सुखं तत्र निस्सङ्गः प्रज्ञया भवेत्।
निश्चलं निश्चरञ्चित्तमेकीकुर्यात्प्रयत्नतः॥४५॥

समाहितचेतसो भवसुखास्वादनमपि न कार्यमित्याह—नास्वादयेदिति। चित्तैकाग्र्यतः समाधौ यत् सुखं जायते प्रज्ञया तत्र निस्संगं तन्नास्वादयेत्। तत्र यत् सुखमनुभूयते तत् शशविषाणतुल्याविद्याकार्यंतत्कारणतुल्यं मत्वा तत्सुखलोलुपं चित्तमकुर्वन् ततः ब्रह्मविषयकप्रज्ञयैव भवेत्। तत्रत्यसुखास्वादने का हानिः? इत्यत आह—निश्चलमिति। ब्रह्मणि निश्चलस्वभावं चित्तं यदा तु पुनः सुखास्वादननिमित्तं स्वरूपतो निर्गच्छति, तदा ततस्ततो बहिर्निश्चरत्सत् बहिर्बहिरेव निर्गच्छद्भवति। ततः प्रयत्नतः सुखास्वादनेच्छां विहाय सत्तामात्रब्रह्मणि एकीकुर्यात्॥४५॥

लयविक्षेपविरलस्य चित्तस्यैव ब्रह्मत्वम्

यदा न लीयते चित्तं न च विक्षिप्यते पुनः।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा॥४६॥

निश्शेषतो लयविक्षेपविरलं चित्तं ब्रह्मैवेत्याह—यदेति। यथोक्तोपायतो निगृहीतं चित्तं यदा अवस्थात्रयतमसि न लीयते कामभोगनिमित्तं न च विक्षिप्यते, तदानीं चित्तं निवातप्रदेशस्थितदीपवत् अनिंगनमचलं विषयाकारेण नावभासत इत्यनाभासं च सत् ब्रह्मस्वरूपेण निष्पन्नं भवतीत्यर्थः॥४६॥

ब्रह्म सुखस्वरूपम्

स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम्।
अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते॥४७॥

ब्रह्मसुखस्वरूपं विशदयति—स्वस्थमिति। स्त्रे महिम्नि स्वयं तिष्ठतीति स्वस्थं “स्वे महिम्नि समासत” इति श्रुतेः। सर्वानर्थोपशान्तिसिद्धत्वात् शान्तम्। निर्वृतिः मुक्तिः तद्रूपेण सह वर्तनात् सनिर्वाणम्। इदमित्थमित्याख्यातुमशक्यत्वात् अकथ्यं वैषयिकसुखदुःखापह्नवसिद्धं पारमार्थिकसुखम्।

तस्यनिरतिशयत्वादुत्तमम्। तत् स्वतः परतो वा न जायत इत्यजम्। अजेन ज्ञेयेन स्वरूपेण स्वातिरिक्तसर्वस्वापह्नवसिद्धं स्वं जानातीति सर्वज्ञं ब्रह्म स्वमात्रमिति ब्रह्मविद्वरीयांसः परिचक्षते कथयन्तीत्यर्थः॥४७॥

ब्रह्मसंपत्तिः

न कचिज्जायते जीवः संभवोऽस्य न विद्यते।
एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते॥४८॥

प्रकरणार्थमुपसंहरति—न कश्चिदिति। मृल्लोहादिवत् सृष्टिरुपासना मनोनिग्रहोपायश्चापि ब्रह्ममात्रात्युपायत्वेन अभिहिताः। न तु परमार्थतस्ते विद्यन्ते। परमार्थन्तु स्वाज्ञादिदृष्टिप्रसक्तस्वातिरिक्तमस्ति नास्तीति विभ्रमापह्नवसिद्धं ब्रह्ममात्रमेव सदा विजृंभते। न हि तत्र कश्चिदपि जीवः प्रपञ्चो वा जायते। अस्य जीवादेरनुत्पन्नत्वेन तन्निरूपितसंभवो हेतुः कारणमपि न विद्यते। यत्र अणुमात्रमपि किंचित् न जायते तत् एतत् पूर्वमुपायत्वेनोक्तानां सत्यानां उत्तमं सत्यम्। तदेवासल्लौकिकादिमोहे सत्यसति सर्वदैकरूपेण विजृंभते। निष्प्रतियोगिकिमित्यर्थः।

ब्रह्मैवैकमनाद्यन्तं अब्धिवत् प्रविजृंभते।

इति श्रुतेः॥४८॥

____________________

अलातशान्तिप्रकरणम्

आचार्यवन्दनम्

ज्ञानेनाकाशकल्पेन धर्मान् यो गगनोपमान्।
ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम्॥१॥

अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः।
अविवादोऽविरुद्धश्च दर्शितस्तं नमाम्यहम्॥२॥

आगमप्रकरणप्रतिपादितनिष्प्रतियोगिकब्रह्ममात्रसिद्धान्ताद्वैतस्य स्वाज्ञादिदृष्टिप्रसक्तस्वातिरिक्तं अस्ति नास्तीति विभ्रममार्जनाय वेदान्तशास्त्रानुगृहीतबहुप्रकारोपपत्तिभिः स्वातिरिक्तप्रपञ्चस्य अपह्नवप्रदर्शनाय वैतथ्यप्रकरणमाम्नातम्। तथा श्रुत्यनुगृहीतयुक्तिभिः स्वातिरिक्तापह्नवसिद्धस्य स्वस्य निष्प्रतियोगिकाद्वैतत्वप्रदर्शनायाद्वैतप्रकरणमभिहितं,

एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते।

इत्युपसंहृतं च। इत्थंभूताद्वैतं पक्षप्रतिपक्षकलनापह्नवसिद्धमपि तत्रासल्लौकिकादीनां रागादिकलुषितत्वेन स्वस्वग्रहसिद्धान्तवैषम्यतः मिथश्चर्यांकुर्वन्तः सन्तोऽस्मत्सिद्धान्तरूपामजातिमेव ख्यापयन्ति। तत्र तत्र हेयांशनिरसनमुखतः तदपह्नवसिद्धं निष्प्रतियोगिकाद्वैतमिति प्रकटयितुमलातशान्तिप्रकरणमारभ्यते। तत्र ब्रह्मविद्यासंप्रदायप्रवर्तकस्वाचार्यवन्दनार्थोऽयमाद्यः श्लोक इत्याह—ज्ञानेनेति। यो ह्यस्मद्देशिकः श्रीशुकः घटाद्यवच्छिन्नगगनमुपमा येषां तान् गगनोपमान् धर्मान् जीवान् सर्वान् आकाशकल्पेन ज्ञानेनाग्न्युष्णवत् सवितृप्रकाशवच्च ज्ञेयात्मस्वरूपाभिन्नेन ज्ञानेन परमात्मना धर्मान् संबुद्धः यथा घटाद्युपाधिसत्त्वासत्त्वाभ्यां तद्गताकाशं महाकाशमात्रं तथा व्यष्टिसमष्ट्यात्मकशरीरत्रयसत्त्वासत्त्वाभ्यां तदवच्छिन्नवत् भातजीवचैतन्यं शुद्धचैतन्यमात्रमिति संबुद्धवान् तं द्विपदां वरं नारायणावतारं अस्मद्देशिकं वन्दे मुहुर्मुहुरभिवादये। स्वदेशिकनमस्कारमुखेनासल्लौकिकाद्यष्टदृष्टिग्रहज्ञानज्ञेयज्ञात्रादित्रिपुटीकरणापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति प्रतिज्ञातं भवतीत्यर्थः॥१॥ अधुना ब्रह्ममात्रज्ञानयोगस्तुत्यै तं नमस्करोति—अस्पर्शयोग इति। केनचित् कदाचिदपि स्वातिरिक्तसंस्पर्शो यत्रापह्नवतां गतः सोऽयं अस्पर्शयोगो वै नाम ब्रह्मस्वभावः। वेनामेतिशब्दाभ्यां सर्ववेदान्तार्थप्रसिद्धपरमात्मैवास्पर्शयोग इति द्योत्यते। आदिमध्यावसानेषु स्वातिरिक्तमस्ति नास्तीति

विभ्रमो दुःखरूपः। अयं अस्पर्शयोगो न तथा। किन्तु स्वाज्ञादिदृष्टिप्रसक्तसर्वसत्वानां जीवानामन्तरात्मत्वेन परमहितसुखरूपत्वात् विषयजन्याहितसुखदुःखापवादाधिष्ठानत्वाच्च सर्वसत्त्वसुखो हितश्च भवति। असल्लौकिकाद्यष्टदृष्टिनिष्टपरस्परविरुद्धवादो यत्रापह्नवतां गतः सोयमविवादः स्वमात्रदृष्टेरव्यभिचारित्वेन निर्विवादत्वात्। स्वातिरिक्तासल्लौकिकादेरपह्नवं गतत्वात् अविरुद्धश्च निष्प्रतियोगिकपरमात्मा येन प्रबोधेन प्रदर्शितः तं तत्त्वप्रबोधं अहं नमामि प्रर्णौमीत्यर्थः॥२॥

भूताभूतजातिवादः

भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि।
अभूतस्यापरे घीरा विवदन्तः परस्परम्॥३॥

स्वसिद्धान्तसाधननिमित्तं असल्लौकिकादयः परस्परं कथं विरुध्यन्ते? इत्युच्यते—भूतस्येति। सांख्यादिवादिनः केचिदेव भूतस्य सिद्धवस्तुनो जातिमुत्पत्तिमिच्छन्ति हि। न सर्व इत्यर्थः। अपरे धीराः पण्डितंमन्यमानाः वैशेषिका नैय्यायिकाश्चाभूतस्याविद्यमानवस्तुनो जातिमिच्छन्ति। एवं परस्परं विवदन्तोऽन्योन्यं जेतुमिच्छन्तीत्यर्थः॥३॥

अजातिख्यापनम्

भूतं न जायते किञ्चिदभूतं नैव जायते।
विवदन्तोऽद्वया ह्येवमजाति ख्यापयन्ति ते॥४॥

तैः किं ख्यापितम्? इत्यत आह—भूतमिति। असत्कार्यवादी सांख्यपक्षं प्रतिषेधति—भूतं विद्यमानं वस्तु कदाचिदपि न जायते, तस्य सदैव विद्यमानत्वात् आत्मवत्—इति। सांख्योऽप्यसद्वादिपक्षं असज्जातिपक्षं च प्रतिषेधति—अभूतंवस्तु नैव जायते, कालत्रयेऽप्यविद्यमानत्वात् शशविषाणवत्—इति।

एवं अद्वया द्वैतिनः परस्परं विवदन्तस्सन्तोऽस्मद्द्ग्रहाजातिसिद्धान्तमेव ख्यापयन्ति ते सांख्यादयः॥४॥

अजात्यनुमोदनम्

ख्याप्यमानामजातिं तैरनुमोदामहे वयम्।
विवदामो न तैः सार्धमविवादं निबोधत॥५॥

तैस्साधिताजातिमङ्गीकृत्य शिष्येभ्य उपदिशति—ख्याप्यमानामिति। तैरेवं ख्याप्यमानामजातिमेव त्वया सम्यगुक्तं त्वया सम्यगुक्तमिति अनुमोदामहे वयम्। यथा ते पक्षप्रतिपक्षाभिनिवेशेन अन्योन्यं विवदन्ति न हि तथा तैस्सार्धं विवदामः। अतस्तमजातिबोधमविवादं अस्मदङ्गीकृतं हे शिष्याः ! यूयमपि निबोधत॥५॥

मर्त्यामृतनिरूपणम्

अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः।
अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति?॥६॥

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा।
प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति॥७॥

स्वभावेनावृतो यस्य धर्मो गच्छति मर्त्यताम्।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः?॥८॥

पक्षप्रतिपक्षभूतवादिकोटिपरस्परविरोधं ख्यापयताचार्येणानुत्पत्त्यनुमोदनप्रदर्शनार्थमद्वैतप्रकरणपठितश्लोकानामिह पुनरुपन्यासः—अजातस्येत्यादिना॥६-८॥

प्रकृतिलक्षणम्

सांसिद्धिकी स्वाभाविकी सहजा अकृता च या।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या॥९॥

या कालत्रयेऽपि स्वभावं न जहाति सा प्रकृतिरित्याह—सांसिद्धिकीति। योगिनां सिद्धानां सम्यक् सिद्धिः संसिद्धिः। तद्भवा सांसिद्धिकी अणिमाद्यष्टैश्वर्यरूपा प्रकृतिः। सा कालत्रयेऽपि योगिनां न विपर्येति। अग्न्यादीनां स्वभावसिद्धोष्णप्रकाशादिलक्षणा स्वाभाविकी प्रकृतिः। सा न हि कालान्तरे देशान्तरे वा व्यभिचरति। पक्ष्यादीनां यथा जन्मना सहाकाशगमनादिलक्षणा या सा सहजा प्रकृतिः, तथा अपां निम्नप्रदेशगमनलक्षणा केनचित् कदाचिदप्यकृतेत्यकृता प्रकृतिः। तथान्यापि या काचित् स्वभावं न जहाति सा सर्वा प्रकृतिर्विज्ञेया। मिथ्यावस्तुनिष्ठप्रकृतिरपि कालत्रयेऽपि न हि स्वप्रकृतिमुत्सृज्य विकृतिं भजति। किमुत स्वातिरिक्तयोः? स्वभावसिद्धा जातिप्रकृतिः नान्यथा भवेदित्यर्थः॥९॥

देहादावात्मवुद्धिनिरसनम्

जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः।
जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया॥१०॥

यस्याः प्रकृतेः वादिभिरन्यथाभावः परिकल्प्यते तत्कल्पनायां को दोषः? इत्यत आह—जरेति। सर्वे धर्मा आत्मानः स्वभावप्रकृतित एव जरामरणादिसर्वविक्रियाविनिर्मुक्तास्सन्तो रज्वाद्यज्ञानजसर्पादिवदात्मनि तद्देवात्ममनीषया तद्गतजरामरणादिविक्रियामिच्छन्त इवेच्छन्तः पारमार्थिकाजस्वभावतः च्यवन्ते। तद्भावभावितत्वदोषेण स्वस्वरूपतः च्युता भवन्ति। अतएवमतो देहादावात्मबुद्धिः न कार्येत्यर्थः॥१०॥

सजातिवादिपक्षे ब्रह्मणो नाजत्वम्

कारणं यस्य वै कार्यंकारणं तस्य जायते।
जायमानं कथमजं? भिन्नं नित्यं कथं च तत्?॥११॥

कारणाद्यद्यनन्यत्वमतः कार्यमजं तव।
जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम्?॥१२॥

कारणमेव कार्याकारेण जायत इति सज्जातिवादिभिः उक्तं, तत्पक्षे अजं ब्रह्म न सिद्ध्यतीत्याह—कारणमिति। यस्य वादिनः कारणं वै कारणमेव कार्याकारेण परिणमते तस्य सांख्यस्य प्रधानादिकारणं अजमेव सत् महदादिकार्यरूपेण जायते। एवं जायमानं कथमजं भवति? जायते अजं चेति तैः विप्रतिषिद्धमुच्यते। कार्यरूपेण भिन्नं स्फुटितं प्रधानं तत् कथं एकदेशेन धर्मि सन्नित्यमजं भवितुमर्हति? न ह्येकदेशभिन्नवटो नित्यो दृष्टः। यदेवं विशीर्णं तदेवैकदेशेनाजं नित्यं चेति। न हि तत् विप्रतिषिद्धमित्यर्थः॥११॥ उक्तार्थं स्फुटयति—कारणादिति। कारणात् कार्यस्यानन्यत्वं यदि त्वयोच्यते तदा कार्यमप्यजमिति इदं चान्यद्विप्रतिषिद्धम्। कार्यकारणयोरनन्यत्वे जायमानादेव हि कार्यात् कारणमनन्यं नित्यं ते कथं भवेत्? “न ह्यश्वैकदेशः स्वस्थाने परः प्रवासाय कल्पते” इति वैशेषिकः॥१२॥

तत्र दृष्टान्तदुर्लभत्वम्

अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै।
जाताच्च जायमानस्य न व्यवस्था प्रसज्यते॥१३॥

त्वन्मतसिद्धदृष्टान्तोऽपि दुर्लभ इत्याह—अजादिति। यस्य वादिनो नित्यादजात् कार्यंजायत इत्यत्र तस्य न हि दृष्टान्तोऽस्ति। यत् कदापि

स्वतः परतो वा न जायते, यस्मात् किंचिदपि न जायते च तद्ध्यजम्। तत्र जातिदृष्टान्तवैकल्यात् अजं किंचिदपि न जायत इत्यर्थात् सिद्धं भवति। यदि पुनः जातात् कार्यरूपघटादेः जायमानघटादेरभ्युपगमे तदप्यन्यस्मात्, तदप्यन्यस्मादित्यनवस्था प्रसज्यत इत्यर्थः॥१३॥

कार्यकारणकलनाक्षेपः

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च।
हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते?॥१४॥

“पश्यतेहापि सन्मात्रमसदन्यत्” “ब्रह्मव्यतिरिक्तं न किंचिदस्ति” इति, “कार्यंचेत् कारणं किंचित् कार्याभावे न कारणम्।

इति च स्वातिरिक्तकार्यकारणकलनासदपह्नवसिद्धनिष्प्रतियोगिकसन्मात्रानुवादि श्रुत्यनुरोधेन कार्यकारणकलनापह्नवसिद्धं अजं स्वमात्रं अवशिष्यत इति वक्तुं कार्यकारणकलनामाक्षिपति—हेतोरित्यादिना। येषां पुनः वादिनां हेतोः धर्माधर्मादिः आदिः कारणं देहादिसंघातः फलम्। तथा फलस्य देहादिसंघातस्यादिः कारणं धर्मादिः। एवं हेतुफलयोरितरेतरकार्यकारणतावादिभिः एवं हेतोः फलस्य चानादित्वं तैः विप्रतिषिद्धमुपवर्ण्यते। न हि निष्प्रतियोगिकसन्मात्रस्य हेतुफलात्मकता संभवतीत्यर्थः॥१४॥

कार्यात्कारणोत्पत्तिविडम्बना

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च।
तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा॥१५॥

कार्यात् कारणोत्पत्ति विडंबयन्नाह—हेतोरिति। हेतुजन्यात् फलादेव तोः जातिमभ्युपगच्छतां तेषां यथा पुत्राज्जन्म पितुः तथेदृशो विरोध तो भवति॥१५॥

हेतुफलयोः कार्यकारणभावे क्रमापेक्षा

संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया।
युगपत्संभवे यस्मादसंबन्धो विषाणवत्॥ १६॥

यदि हेतुफलयोः कार्यकारणभावं ब्रवीषि तदा तत्क्रमस्त्वया वक्तव्य इत्याह—संभव इति। हेतुफलयोः संभवे उत्पत्तौ पूर्वंहेतु पश्चात् फलं चेति तत्क्रमोऽन्वयः त्वया एषितव्यः। युगपत् संभवत इत्यत्र सव्यतदितरगोविषाणयोरिव हेतुफलयोः कार्यकारणत्वेन युगपत् संभवतो असंबन्धो युक्तो न भवति॥१६॥

हेतुफलयोः कस्य पूर्वनिष्पन्नत्वम्

फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति।
अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति?॥१७॥

यदि हेतोः फलात् सिद्धिः फलसिद्धिश्च हेतुतः।
कतरत् पूर्वनिष्पन्नं? यस्य सिद्धिरपेक्षया॥१८॥

कथमसंबन्धः? इत्यत आह—फलादिति। यतः स्वतो लब्धात्मकशशविषाणकल्पफलादुत्पद्यमानस्सन् न ते हेतुः प्रसिध्यति जन्म न लभते, तस्माच्छशविषाणवदलब्धात्मको हेतुस्तव कथं फलं उत्पादयिष्यति? न हि शशविषाणतुल्यहेतुफलयोः कार्यकारणसंबन्धः सेद्धुं पारयति॥१७॥ किंच हेतुफलयोः कार्यकारणभावे असंबन्धत्वदोषेणापाकृतेऽपि यदि त्वया हेतुफलयोः परस्परमभ्युपगम्यते तदा हेतुफलयोः पूर्वसिद्ध्यपेक्षया पश्चाद्भाविनः सिद्धिः स्यादिति कतरत् पूर्वनिष्पन्नं? तद्वदेत्यर्थः॥१८॥

अजातिप्रकाशनम्

अशक्तिरपरिज्ञानं क्रमकोपोऽथवा पुनः।
एवं हि सर्वथा बुद्धैरजातिः परिदीपिता॥१९॥

यद्येवं त्वया वक्तुं न शक्यं तदा अस्मदजातिरेव सिद्ध्यतीत्याह—अशक्तिरिति। यद्येवं त्वमिदमित्थमिति पक्षं न शक्यमिति मन्यसे तदा तवेयमशक्तिर्यदि वापरिज्ञानं तव मूढता वा स्यात्। अथवा हेतुफलयोः कर्मदहयोरितरेतरानन्तर्यलक्षणक्रमस्य कोपो विपर्यासो विनाशो वा स्यात्। एवं हेतुफलयोः इतरेतरकार्यकारणानुपपत्त्या सर्वस्य अजातिरनुत्पत्तिः अन्योन्यपक्षविरोधवादिभिः बुद्धैः पण्डितैः परिदीपिता प्रकाशिता भवेदित्यर्थः॥१९॥

साध्यसमस्य हेतोरसाधुत्वम्

बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते॥२०॥

हेतुफलयोः कार्यकारणभावो मयोक्त इति शब्दमात्रमाश्रित्य “असंबन्धो विषाणवत्”, “पुत्राजन्म पितुः यथा” इति च किं मां चालयितुं इच्छसि? न ह्यस्माभिः असिद्धाद्धेतोः फलसिद्धिः असिद्धाद्वा फलात् हेतुसिद्धिरभिहिता।किं तर्हि बीजांकुरवत् कार्यकारणभावोऽभ्युपगम्यते? तत्र को विवादः? इत्यत्र त्वदुक्तदृष्टान्तस्य साध्यतुल्यत्वेनासाधुत्वं सिद्धमित्याह—बीजेति। अंकुरोबीजादिमान् बीजं अंकुरादिमदिति बीजांकुराख्यो दृष्टान्तः हेतुफलयोः कार्यकारणाभ्युपगमे यस्त्वयोक्तस्स दृष्टान्तस्तु साध्यसमस्तुल्य इत्यर्थः। बीजांकुरसन्ततेरनादित्वोक्तौ बीजांकुरव्यतिरेकेण न हि बीजांकुरसन्ततिरस्ति एकत्वानुपपत्तेः। हेतुफलसन्ततेरपि तथात्वात्। तस्मात् सुष्ठूक्तं,

हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते?

इति। न हि प्रमाणकुशलैः साध्यसमो हेतुः साध्यसिद्धिनिमित्ततया युज्यते। त्वदुक्तसिद्धान्तोऽपि न हि स्वसिद्धान्तहेतुतामर्हतीत्यर्थः॥२०॥

अजातिसाधनप्रकारः

पूर्वापरापरिज्ञानमजातेः परिदीपकम्।
जायमानो हि वै धर्मः कथं पूर्वं न गृह्यते?॥२१॥

एवं हेतुफलयोः पूर्वापरापरिज्ञानमस्मदीयाजातिसिद्धिसाधकमित्याह—पूवति। परिदीपकं अवबोधकमित्यर्थः। कथं जायमानो हि वै धर्मः स्वपूर्वकारणं न गृह्यते? कार्यनिष्पत्तेः कारणनिष्पत्तिपूर्वकत्वात्। तदपरिज्ञानं अजातिपरिदीपकमित्यर्थः॥२१॥

कस्याप्यजातत्वेनाजातिसिद्धिः

स्वतो वा परतो वापि न किंचिद्वस्तु जायते।
सदसत्सदसद्वापि न किंचिद्वस्तु जायते॥२२॥

इतश्च किंचिदपि न जायत इत्याह—स्वत इति। यत् जायमानं वस्तु तत् केनचिदपि प्रकारेण स्वतः परतः उभयतो वा सद्रूपेण असद्रूपेण सदसद्रूपेण वा न हि किंचिदपि जायते। न हि घटात् घटो जायते। घटात् पटो वा। घटपटाभ्यां घटः पटो वा जायते। मृत्पित्रादिसकाशात् घटपुत्रादयो जायन्त इति चेन्न; अविचारभातत्वात् मूढानां शब्दप्रत्ययविवेकवैरल्यात्। तेषां यदेवं सत्यत्वेन भातं तदेव विवेकिभिः—किं तत् सत्यं? मृषैव—इति विचारतः शब्दप्रत्ययविषयत्वेन भातघटपुत्रादिलक्षणं वस्तु शब्दमात्रपर्यवसानं भवेत् “वाचारम्भणं विकारो नामधेयम्” इति श्रुतेः। सच्चेत् प्रकृतं वस्तु न जायते मृत्पित्रादिवत् सत्यत्वात्। तदा यदि वस्त्वसत् तदा तदपि न जायते शशविषाणवदसत्त्वात्। तथा सदसदपि न जायते तयोस्तेजस्तिमिरवत् एकत्रावस्थितेरसंभवेऽपि तत्रैकस्यालब्धात्मकत्वात्। अतो न किंचिदपि जायत इति सिद्धम्। येषां पुनः क्रियाकारकफलैकत्वेन जातिरेव जायत इत्यभिमतं तेषामवगतेः क्षणिकत्वेन इदमित्थमित्यवधारणान्त-

रानवस्थानात् स्वाननुभूतस्य स्मृतेरपि असंभवाच्च। ततो वस्तुसामान्यस्याजातत्वेनाजातिरेव सिद्धेत्यर्थः॥२२॥

हेतुफलानादित्वे जातिप्रकाशनम्

हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः।
आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते॥२३॥

हेतुफलानादित्वमभ्युपगच्छता जातिरेव प्रकाशितेत्याह—हेतुरिति। अनादेःफलात् हेतुर्न जायते। अजाद्धेतोः फलमपि स्वभावतो निर्निमित्तात् न जायते। तस्माद्धेतुफलयोरनादित्वमभ्युपगच्छता त्वया जातिरेवाभ्युपगम्यतेलोके तावत् यस्यादिः कारणं न विद्यते तस्य ह्यादिः जातिरपि न विद्यते। कारणेन शशशृंगवत् असत्पदं यातेन हि कार्यंसत्पदमर्हति। तस्मात् कार्यकारणभावः कस्याप्यसंगत इत्यर्थः॥२३॥

परतन्त्रास्तित्वप्रकारः

प्रज्ञप्तेः सन्निमित्तत्वमन्यथा द्वयनाशतः।
संक्लेशस्योपलब्धेश्चपरतन्त्रास्तिता मता॥२४॥

पूर्वोक्तार्थद्रढिम्ने पुनरप्याक्षिपति—प्रज्ञप्तेरिति। प्रकर्षेण बाह्यं जानातीति ज्ञानं प्रज्ञप्तिः शब्दादिप्रमितिः। तस्याः प्रज्ञप्तेः सबाह्यविषयत्वेन सन्निमित्तबम्। न हि निर्विषया प्रज्ञप्तिरस्ति सन्निमित्तत्वात्। अन्यथा निर्निमित्तत्वे शब्दस्पर्शनीलपीतरक्तशुक्लादिविचित्रप्रत्ययजुष्टद्वयस्य नाशतो ह्यभावः प्रसज्यते। हि विचित्रप्रत्ययमभावमर्हति विचित्रप्रत्यययुग्द्वयस्य प्रत्यक्षतो दृष्टत्वात्। हि प्रज्ञप्तेर्बाह्यालम्बनवैचित्र्यमन्तरेण नीलरक्ताद्यसन्निहितस्फटिकवत् एतद्वैचित्र्यंसंभवति। परेषां तन्त्रं परतन्त्रं शास्त्रान्तरम्। तदाश्रयबाह्यार्थस्य निव्यतिरिक्तत्वेनास्वितासंक्लेशः। संक्लेशनं दुःखमित्यर्थः। अग्निदाह्यादिनिमित्तं

दुःखमुपलभ्यते हि। यदि दाहादिनिमित्तं दुःखं विज्ञानव्यतिरिक्तं न स्यात् ततो दाहादिदुःखं नोपलभ्येत। यतस्तदुपलभ्यते अत एवास्ति बाह्यार्थः। न हि विज्ञानमात्रे संक्लेशो युक्तः अदर्शनादित्यर्थः॥२४॥

सन्निमित्तोक्तिनिराकरणम्

विज्ञप्तेः सन्निमित्तत्वमिष्यते युक्तिदर्शनात्।
निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात्॥२५॥

परमार्थतः त्वदुक्तं न घटनां प्राञ्चतीत्याह—विज्ञप्तेरिति। द्वयनाशसंक्लेशादियुक्तिदर्शनात् त्वदुक्तप्रज्ञप्तेस्सन्निमित्तत्वमिष्यते। त्वया यदुक्तं तत्रैव त्वं स्थिरीभव।“ब्रह्ममात्रमसन्न हि” इति स्वातिरिक्तसर्वासदपह्नवसिद्धनिष्प्रतियोगिकभूतब्रह्ममात्रदर्शनात् त्वदुक्तप्रज्ञप्त्यादिलम्भनाभिमतनिमित्तस्य घटादेरनिमित्तत्वमनालम्बनत्वमवैचित्र्यहेतुत्वमस्माभिरिष्यते। स्वातिरिक्तसामान्यसन्निमित्तप्रज्ञप्त्यादेःशशविषाणव दलब्धात्मकत्वात् त्वदुक्तसन्निमित्तोक्तिःनिराकृतेत्यर्थः॥२५॥

चित्तातिरिक्तस्याभावः

चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च।
अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक्॥२६॥

स्वाज्ञविकल्पितचित्तातिरिक्तं न किंचिदस्तीत्याह—चित्तमिति। चित्तं तावत् बाह्यार्थमर्थाभासं च न हि स्पृशति सर्वस्य चित्तत्वात् स्वप्नचित्तवत्। यतो जागरितेऽपि बाह्यशब्दाद्यर्थः स्वप्नार्थवदभूतः असिद्धो हि ततः चित्तात् नाप्यर्थाभासः पृथगस्ति। यथा स्वप्ने चित्तमेव चराचरात्मकविश्ववत् अवभासतेः तथा जागरेऽपीत्यर्थः॥२६॥

चित्तस्वभावकथनम्

निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति?॥२७॥

असति बाह्यार्थे तदाकारपरिणामः चित्तस्य विपर्यासश्चेत् क्वचिदविपर्यासोऽपि वक्तव्य इत्यत आह—निमित्तमिति। भूतभविष्यद्वर्तमानाध्वसु त्रिष्वपि सदा चित्तं निमित्तं विषयजातं न हि संस्पृशति। यदि कदाचित् संस्पृशेत् तदा विपर्यासः परमार्थ एव स्यात्। अतः तदपेक्षया बाह्यान्तःप्रपञ्चे असति तद्वदवभासता हि विपर्यासः स्यात्। तस्मात् अनिमित्तो निर्विषयो विपर्यासः चित्तस्य कथं भविष्यति? न कथंचिदित्यर्थः। निमित्ताभावेऽपि तद्वदवभासनं चित्तस्वभाव इति भावः॥२७॥

विज्ञानवादिपक्षप्रतिषेधनम्

तस्मान्न जायते चित्तं चित्तदृश्यं न जायते।
तस्य पश्यन्ति ये जातिं ते वै पश्यन्ति खे पदम्॥२८॥

विज्ञानवादिवचनं “प्रज्ञप्तेस्सन्निमित्तत्वं” इत्याद्येतदन्तं बाह्यार्थास्तितादिमतनिराकरणमाचार्येणाप्यनुमोदितम्। तदेव हेतुं कृत्वा तत्पक्षमपि प्रतिषेधयति—तस्मादित्यादिना। यस्मादसत्येव बाह्येऽर्थे चित्तस्य तद्रूपावसिता विज्ञानवादिना अभ्युपगता अस्माभिरपि सा अनुमोदिता हि, तस्मात् भूतवस्तुदर्शनात् न हि कदाचिदपि जायते चित्तम्। यत एवं वत्तदृश्यं न जायते। तस्य चित्तस्य ये क्षणिकविज्ञानवादिनो जातिं पश्यन्ति ते वै खे पक्षिणां पदं पश्यन्ति। स्वेतरेभ्यो द्वैतिभ्यः त एव हसिका भवन्तीत्यर्थः। ये तु शून्यवादिनः स्वस्यापि शून्यतां मेनिरे मुष्टिना ताडयितुं इच्छन्ति केचन। ततोऽप्येते साहसिकतमा इत्यर्थः॥२८॥

प्रकृतेरन्यथाभावाभावकथनम्

अजातं जायते यस्मादजातिः प्रकृतिस्ततः।
प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति॥२९॥

पूर्वोक्तहेतुभिः निष्प्रतियोगिकाजैकं ब्रह्मेत्यवधृतम्। “अतो वक्ष्याम्यकार्पण्यं” इति यत् प्रतिज्ञातं तत्फलं उपसंहरति—अजातमिति। यस्मात् स्वातिरिक्ताविद्यापदतत्कार्यजातं भूतदर्शनात् अजातं ब्रह्मैव जायते तदवगतेः जातिमद्विभ्रमापह्नवपूर्वकत्वात्। तथाविधनिष्प्रतियोगिकब्रह्ममात्रस्याजातिर्हि प्रकृतिः। ततः तस्मात् अजातिप्रकृतेः अन्यथाभावो जन्म न हि कथंचित् भविष्यति॥२९॥

बन्धमोक्षयोः परमार्थत्वाभावः

अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति।
अनन्तता चादिमतो मोक्षस्य न भविष्यति॥३०॥

बन्धमोक्षौ परमार्थाविति ये मन्यन्ते तत्पक्षं शिथिलयति—अनादेरिति। यदि परमार्थतोऽनादिस्संसारः तस्यानादेरन्तवत्त्वं कदापि न सेत्स्यति श्रुतितो युक्तितोऽपीत्यर्थः। अनादिस्सन्नन्तवान्न हि कश्चित्पदार्थोदृष्टः। बीजांकुरसन्ततिविच्छेदो दृष्ट इति चेन्न ; बीजांकुरादेरेकत्वाभावेन अपोदितत्वात्। निर्विशेषज्ञानसमकालं मोक्षो जायत इति आदिमतो मोक्षस्यानन्ततापि न हि भवति भविष्यतीवेत्यर्थः। आदावन्ते च घटादिष्वदर्शनात्। घटादिविनाशवदवस्तुत्वात् अदोष इति चेन्न;मोक्षस्य परमार्थसन्मात्रत्वात्। तादृशस्य आदिमत्त्वे अन्तवत्त्वं किं न सेद्धुं पारयतीत्यर्थः॥३०॥

संसारमोक्षयोरभावः

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥३१॥

सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते।
तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः॥३२॥

अनाद्यादिमद्बन्धमोक्षौ न विद्येते इत्यत्र वैतथ्यप्रकरणोक्तश्लोकाविहोदाहरति—आदाविति॥३१-३२॥

जाग्रज्जाग्रदादिकलनाया अवस्तुत्वम्

सर्वे धर्मा मृषा स्वप्नेकायस्यान्तर्निदर्शनात्।
संवृतेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः?॥३३॥
न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ।
प्रतिबुद्धश्चवै सर्वस्तस्मिन् देशे न विद्यते॥३४॥

स्वप्नदृष्टान्तेन जाग्रज्जाग्रदादिचतुष्पञ्चदशकलनायाः शशविषाणवदस्तुत्वं स्फोरयितुं वैतथ्यप्रकरणार्थानुसारिण एते श्लोका उच्यन्ते—सर्व इत्यादिना॥३३-३४॥

ब्रह्मणः स्वमात्रत्वेनावशेषः

मित्राद्यैः सह संमन्त्र्य संबुद्धो न प्रपद्यते।
गृहीतं चापि यत्किचित्प्रतिबुद्धो न पश्यति॥३५॥
स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात्।
यथा कायस्तथा सर्वंचित्तदृश्यमवस्तुकम्॥३६॥

भूतदर्शनतो बाह्यान्तस्तत्प्रभवनिमित्तजातापह्नवसिद्धं निष्प्रतियोगिकानिमित्तं ब्रह्म स्वमात्रमवशिष्यत इति वक्ष्यमाणश्लोकसमुदायार्थः। स्वप्नदृक् स्वप्ने न देशान्तर गच्छति। कुतः? जागरितवत् गत्वा गमनादिदेशकालयोः

अनियतत्वात्। स्वप्ने मित्रादिभिस्सहालोचितं यत्किंचित् ग्रहीतं चापि न प्रतिबुध्यते न पश्यति॥३५॥स्वप्नदृष्टकायो यथा सन् तथा तत्र यद्यश्चित्तदृश्यं तत्तत्सर्वमवस्तु।परमार्थदृष्ट्या शशविषाणवत् चित्ततद्दृष्टपदार्थजातस्यापि अलब्धात्मकत्वात्॥३६॥

जाग्रद्दृश्यवस्तूनामसत्त्वम्

ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न उच्यते।
तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते॥३७॥

स्वप्नचित्तदृश्यवस्तुवत् जाग्रच्चित्तदृश्यवस्तूनां असत्त्वं विशदयति—ग्रहणादिति। स्वप्ने तावत् जागरितवत् ग्राह्यग्राहकरूपेण ग्रहणात् तज्जागरितं हेतुर्यस्य तद्धेतुः स्वप्न उच्यते स्वप्नस्य तद्धेतुत्वात्। जागरितकार्यत्वात्तस्य स्वप्नदृश एव जागरितं सत्त्वेन प्रतीयते नेतरेषाम्। यथा स्वप्नः स्वप्नदृशस्सत्तयावभासते तथा जागरितमपि तद्दृश एव सत्त्वेन प्रतीयते। वस्तुतस्तु स्वप्नप्रपञ्चवत् जाग्रत्प्रपञ्चोऽपि निष्प्रतियोगिकाभावरूप इत्यर्थः॥३७॥

जागरितस्याप्यसत्त्वम्

उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम्।
न च भूतादभूतस्य संभवोऽस्ति कथंचन॥३८॥

स्वप्नस्य जागरितकार्यत्वेऽपि स्वप्नः तावच्चलः। जागरितं तु स्थिरम्।तस्य स्वप्नवत् असत्त्वं कुतः? इत्याशंक्याह—उत्पादस्येति। स्वप्नजागरितयोः चलत्वस्थिरत्वे तु तत्रत्यवस्तुयाथात्म्याज्ञदृङ्निष्ठे।परमार्थदृष्ट्या तु “यत्र किंचिन्न जायते”, “न कश्चिज्जायते जीवः” इत्यादिप्रमाणतः स्वातिरिक्त

पदार्थोत्पादस्य शशविषाणवन्ध्यासूनुगगनकुसुमवत् अप्रसिद्धत्वात्। “आत्मैवेदं सर्वं”, “ब्रह्मैवेदं सर्वं”, “सबाह्याभ्यन्तरो ह्यजः” इति,

वस्तुतोऽवस्तुतो वापि ब्रह्मभिन्नभिदाततेः।
अभावनिगमान्तालिमानात्सर्वमजं स्मृतम्॥

इति श्रुतेः चन्द्रिकोक्तेश्च। किंच न च भूताद्विद्यमानात् सन्मात्रात् अभूतस्यासतः कथंचन संभवोऽस्ति तस्मात् सर्वमजमित्यर्थः॥३८॥

जागरितस्य स्वप्नहेतुत्वम्

असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः।
असत्स्वप्नेऽपि दृष्ट्वाच प्रतिबुद्धो न पश्यति॥३९॥

स्वप्नोजागरितकार्यमिति यदुक्तं कार्यकारणभावोऽस्मदभिप्रेत इति तद्वस्तुयाथात्म्यदृष्टिस्तु न पश्यतीत्याह—असदिति। कालत्रयेऽप्यविद्यमानं शशश्रृंगवत् व्यसद्वस्तु रज्जुसर्पवत् प्रातिभासिकं वा जागरिते दृष्ट्रा तत्संस्कारजनितस्वप्नेऽपि तद्वस्तु पश्यतीव पश्यति। एवं असत्स्वप्नेऽपि दृष्ट्वायदि स्वप्नात् प्रबुद्धस्तदा न किमपि पश्यति। परमार्थतः स्वातिरिक्तवस्तु वैग्ल्यात्॥३९॥

सदसतोर्मिथो हेतुत्वाभावः

नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा।
सच्च सद्धेतुकं नास्ति सद्धेतुकमसत् कुतः?॥४०॥

परमार्थदृष्टेः कस्यचित् कदाचिदपि कार्यकारणकलना न ह्यस्तीति विशदयत्ति—नास्तीति। असत् शशविषाणादिः हेतुः यस्य गगनारविन्दस्य तत् असद्धेतुकम्। असन्न विद्यते। तथा असद्धेतुकं सत् घटाद्यपि न भवति।

घटादिश्शशविषाणकार्यंन भवतीत्यर्थः। तथा च सत् घटादिकं घटेतरपटादिकार्यमपि नास्ति। तथा च सद्धेतुकं सत्कार्यं असत् कुतः? इत्यर्थः। वस्तुयाथात्म्याज्ञदृष्ट्या कार्यकारणभावः परमार्थदृष्टेः कस्यापि कार्यकारणभावगन्धोऽपि नास्तीति भावः॥४०॥

असज्जाग्रत्स्वप्नयोः कार्यकारणताभावः

विपर्यासाद्यथा जाग्रदचिन्त्यान् भूतवत्स्पृशेत्।
तथा स्वप्नेविपर्यासाद्धर्मांस्तत्रैव पश्यति॥४१॥

पुनरप्यसज्जाग्रत्स्वप्नयोः कार्यकारणता नास्तीत्याह—विपर्यासादिति। यथा अविवेकतः स्वाज्ञदृष्टिप्रसक्तजागरिते वस्तुविपर्यासात् रज्जुसर्पवत् शशविषाणवद्वा अचिन्त्यान् भावान् भूतवत् परमार्थवस्तुवत् स्पृशेत्। तथा स्वप्ने विपर्यासात् रथगजतुरगादिधर्मान् पश्यन्निव विकल्पयति। न हि ते जागरितात् उत्पन्ना इत्यर्थः॥४१॥

अजातिभीरूणां जातिदर्शनम्

उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम्।
जातिस्तु दर्शिता बुद्धैरजातेस्त्रसतां सदा॥ ४२॥

स्वात्मनाशशंकया अजातिभीरूणां जातिर्दर्शितेत्याह—उपलम्भादिति। उपलम्भनमुपलम्भः। तस्मादुपलब्धेः वर्णाश्रमधर्मसमाचारात् द्वाभ्यामुपलम्भसमाचाराभ्यां व्यावहारिकत्वेन प्रातिभासिकत्वेन वा स्वातिरिक्तं वस्तु अस्तीति वादिनां उपलम्भसमाचारविषयकदृढाग्रहवतां,

उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम्।

“यत्र किंचिन्न जायते” इत्यादिप्रमाणतोऽजातौ सिद्धायां सकुटुम्बानामस्माकं का वा गतिः? इति सदा निष्प्रतियोगिकब्रह्ममात्रादजातेस्त्रसतां भीरूणां स्वात्म-

नाशं मन्यमानानां मन्दविवेकिनां ब्रह्ममात्रपदारोहाय बुद्धैर्निष्प्रतियोगिकाद्वैतवादिभिः व्यावहारिकत्वेन प्रातिभासिकत्वेन वा जातिर्भवत्विति जातिः दर्शिता। न हि परमार्थतो व्यावहारिकं प्रातिभासिकं वा किंचिद्वस्तु अस्तीत्यभिप्रायः। “उपायः सोऽवताराय” इत्युक्तत्वात्॥४२॥

अजातिभीरूणां परमार्थतः च्युतिः

अजातेस्त्रसतां तेषां उपलम्भाद्वियन्ति ये।
जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति॥४३॥

अजातिभीरूणां परमार्थतः च्युतिं प्रकटयति—अजातेरिति। उपलम्भात् समाचारात् तत्सिद्धिप्रमाणाञ्च सर्वस्य जातिरस्त्येव। यद्यजातिः तदा न वयं स्थास्यामइत्यजातेत्रसतां तेषां का गतिः? इत्यत आह—वियन्तीति। अजातित्रासात् स्वातिरिक्तमात्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वा जायत इति ये मन्यन्ते ते त्वजातितो निष्प्रतियोगिकब्रह्ममात्रात् वियन्ति च्यवन्ते स्वातिरिक्तमेव प्रतिपद्यन्त इत्यर्थः। जातिदोषाक्रान्तविवेकानां अजातिज्ञाने जातेऽपि न हि तज्जातिदोषं ग्रसतीत्यत आह—जातीति। निष्प्रतियोगिकाजातिब्रह्ममात्रप्रबोधप्राक्कालीनजातिदोषाः तत्प्रबोधसमकालमेव स्वातिरिक्तोपलम्भनसमाचारप्रभवजातिदोषा न सेत्स्यन्ति न हि स्थातुं पारयन्ति। अजातिब्रह्ममात्रावगतेरुपलंभादिनिष्पन्नजात्यपह्नवावगतिपूर्वकत्वात्। “अजाति ब्रह्म” इत्युक्तिरपि दोषः स्यादित्यत आह—अल्प इति। तादृशोक्तिरपि दोष एव। अजातिचितो निरुक्तत्वात्। तथाविधाल्पदोषोऽपि सन्मार्गावलंबिनां अजातिब्रह्मप्रापकं भविष्यति। परमार्थतः तदभावादित्यर्थः॥४३॥

उपलम्भादिना स्वातिरिक्तस्यास्तित्वम्

उपलम्भात्समाचारान्मायाहस्ती यथोच्यते।
उपलम्भात्समाचारादस्ति वस्तु तथोच्यते॥४४॥

उपलम्भादिप्रमाणतोऽस्त्येव स्वातिरिक्तजातिरित्यत आह—उपलम्भादिति। उपलभ्यते हि मायाहस्तीत्युपलम्भात् तद्बन्धनारोहणादिस्समाचारः तस्मात्। ताभ्यां मायाहस्ती यथोच्यते तन्मायामात्रमित्यर्थः। तथोपलम्भसमाचाराभ्यां जातं वस्तु अस्तीत्युच्यते। यत उपलंभसमाचारयोर्व्यभिचारित्वं अतो वस्त्वाभासजातिरपि शशविषाणवत् असद्रूपेत्यर्थः॥४४॥

परमार्थसद्वस्तुस्वरूपम्

जात्याभासं चलाभासं वस्त्वाभासं तथैव च।
अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम्॥४५॥

असद्बुद्धयो यदाश्रित्य वर्तन्ते तदास्पदं सद्वस्तु कीदृशम्? इत्यत आह—जात्येति। यत् परतत्त्वं अजाति सत् स्वाज्ञदृष्ट्या देवदत्तादिर्जायत इति जातिवदवभासत इति जात्याभासम्। तथा यदचलमपि सत् देवदत्तादिः चलतीति चलवदवभासनात् चलाभासम्। वस्तु द्रव्यं तद्वदवभासत इति वस्त्वाभासम्। परमार्थतः तद्वस्त्वजमचलं अवस्तुत्वं तद्याथात्म्यमिति यत्प्रबोधतो ज्ञायते तद्विज्ञानम्। जात्याद्यपह्नववृत्तिरपि यत्रोपशाम्यति तच्छातम्। अत एव निष्प्रतियोगिकाद्वैतत्वेन निरास्पदं तदित्यर्थः॥ ४५॥

चित्तं न जायत इति ज्ञानफलम्

एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः।
एवमेव विजानन्तो न पतन्ति विपर्यये॥४६॥

न किंचिज्जायत इति ज्ञानफलमाह—एवमिति। एवं“यत्र किंचिन्न जायते” इत्युक्तरीत्या स्वातिरिक्तकल्पकचित्तं न जायते। तथैवं ब्रह्मविद्भिः धर्मा आत्मानो अजाः स्मृताः। धर्मा इति बहुवचनं विश्वविश्वादित्रिपञ्चदश चैतन्यव्यवहारनिमित्तम्ः। वस्तुतस्तुर्यतुर्यस्य निष्प्रतियोगिकाद्वयत्वात्। एवमेव

जात्याद्यपह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति विजानन्तो व्याविद्धस्वातिरिक्तभ्रमा ब्रह्मविद्वरीयांसो न पुनर्विपर्यये स्वातिरिक्तभ्रमे पतन्ति। “तमेवं विद्वांस इहैव अमृता भवन्ति” इति श्रुतेः॥४६॥

अचलविज्ञानस्य स्पन्दनाभावः

ऋजुवत्रादिकाभासमलातस्पन्दितं यथा।
ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा॥४७॥

कथं पुनरमृता भवन्तीत्युक्तं ग्राह्यग्राहकभेददर्शनात्? इत्यत आह—ऋज्विति। अलातस्पन्दनसमुद्भूतऋजुवकाद्याभासवत् तथा ग्रहणग्राहकाभासस्यापि विज्ञानस्पन्दितत्वम्। न ह्यचलविज्ञानस्य स्पन्दनमुपपद्यते अजाचलमित्युक्तत्वात्॥४७॥

स्पन्दनाभासे निराभासत्वम्

अस्पन्दमानमलातमनाभासमजं यथा।
अस्पन्दमानं विज्ञानमनाभासमजं तथा॥४८॥

स्पन्दनाभासे निराभासत्वं स्वतः सिद्धमित्याह—अस्पन्दमानमिति। यथा स्पन्दनवर्जितालातं ऋज्वाद्याभासरहितमनाभासं सदजं भवति तथा मायास्पन्दनविरलविज्ञानमनाभासं सदजं भवतीत्यर्थः॥४८॥

अलातवद्विज्ञानमात्रे जात्यादिबुद्धिर्मृषैव

अला स्पन्दमाने वै नाभासा अन्यतोभुवः।
न ततोऽन्यत्र निस्स्पन्दान्नालातं प्रविशन्ति ते॥४९॥

न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः।
विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः॥५०॥

विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः।
न ततोऽन्यत्र निःस्पन्दान्न विज्ञानं विशन्ति ते॥५१॥
न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः।
कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते॥५२॥

अन्यालातभवा ऋज्वाद्याभासा अस्मिन्नलाते स्पन्दनास्पन्दनाभ्यां प्रविश्य निर्गच्छन्तीत्यत आह—अलात इति। अन्यालातभुवो ऋज्वाद्याभासा न ह्यलातस्पन्दनास्पन्दनाभ्यां प्रवेशनिर्गमकलनां भजन्ति॥४९॥ एवं विज्ञानेऽपीत्याह—नेति। यथा ऋज्वाद्याभासाः पिशाचवत् न ह्यलातं प्रविश्य निर्गता भवन्ति आभासानां अद्रव्यत्वात्। द्रव्यस्य भावो द्रव्यत्वं तदभावो द्रव्यत्वाभावः। तद्योगतः तद्युक्तेरवस्तुत्वादित्यर्थः। वस्तुनो हि प्रवेशनिर्गमौ स्यातां न ह्यवस्तुनः। तथैव विज्ञानेऽपि जात्याद्याभासाः स्युः। आभासस्याविशेषतः तुल्यत्वात्॥५०॥ कथं तुल्यत्वम्? इत्यत आह—विज्ञान इति। अलातविषये यदुक्तं तत्सर्वं विज्ञानेऽपि समम्। विज्ञानस्याचलत्वं तु विशेषः॥५१॥ अचलविज्ञाने जात्याद्याभासाः किं कुर्वन्ति? इत्यत आह—कार्येति। जातिविज्ञानयोः कार्यकारणताया अभावात्। यत एवमतोऽचिन्त्याः सदैव ते यथैवालातमात्रे कालत्रयेऽपि ऋज्वाद्याभासाभावेऽपि तत्र ऋज्वादिबुद्धिः दृष्टा तथैव विज्ञानमात्रे जात्याद्याभासाभावेऽपि जात्यादिबुद्धिः शशविषाणवत् निष्प्रतियोगिकाभावरूपेत्यर्थः॥५२॥

आत्मनः कार्यकारणवैकल्यम्

द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि।
द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते॥५३॥
एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम्।
एवं हेतुफलाजातिं प्रशंसन्ति मनीषिणः॥५४॥

आत्मनो द्रव्यत्वान्यत्वापह्नवसिद्धत्वात् न कस्यचित् कार्यं कारणं वा आत्मा भवतीत्याह—द्रव्यमिति। निष्प्रतियोगिकाजेऽपि आत्मतत्त्वे कार्यकारणभावो यैः परिकल्प्यते तद्दृष्ट्या द्रव्यं द्रव्यस्य अन्यदन्यस्य हेतुः कारणं स्यात्। न हि कस्यचित् द्रव्यं कारणं दृष्टं केनचिदपीत्यर्थः। न हि धर्माणामात्मनां द्रव्यत्वमन्यभावो वा कदाप्युपपद्यते। यत एवमतो न कस्यचित् कार्य कारणं वा आत्मा भवितुमर्हतीत्यर्थः॥५३॥ इतश्चात्मनः कार्यकारणवैरल्यमाचष्टे—एवमिति। “विज्ञानमानन्दं ब्रह्म”, “सत्यं ज्ञानमनन्तं ब्रह्म”, इत्येवमादिश्रुतिसहस्रनिष्पन्नविज्ञानस्वरूपमेव चित्तमिति स्थितम्। सदा चिन्मात्ररूपेणोतत्वात् बाह्यान्तर्धर्माः न हि चित्तजाः। नापि तथाविधधर्मजं चित्तं बाह्यादिधर्माणां तावत् प्रज्ञानस्वरूपावभासमात्रत्वात्। एवं न हेतोः फलं जायते न कदापि फलाद्धेतुरिति हेतुफलयोरजातिं ब्रह्मविदः प्रशंसन्ति निश्चयेन प्रतिपद्यन्त इत्यर्थः॥५४॥

हेतुफलावेशयोः बन्धमोक्षत्वम्

यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः।
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः॥५५॥

हेतुफलाभिनिवेशानभिनिवेशाभ्यां बन्धमोक्षौ स्यातामित्याह—यावदित्यादि। हेतुरूपधर्माधर्मयोः अहं कर्ता कालान्तरे देशान्तरे लोकान्तरे वा जातिमेत्य पुराकृतधर्माधर्मफलं भोक्ष्य इति यावद्धेतुफलयोरावेशः अभिनिवेशः स्यात् तावद्धर्माधर्मतत्फलात्मकहेतुफल्योरुद्भवः अविच्छेदप्रवृत्तिः स्यात्। यथा ग्रहावेशो मन्त्रौषधादिना निवृत्तः तथा निष्प्रतियोगिकाजातिब्रह्ममात्रदर्शनसमकालंहेतुफलावेशक्षयोऽपह्नवो भवति। तस्मिन् क्षीणे हेतुफलयोरुद्भवो नास्ति॥५५॥

हेतुफलयोः संसारायत्तता

याक्द्धेतुफलावेशः संसारस्तावदायतः।
क्षीणे हेतुफलावेशे संसारं न प्रपद्यते॥५६॥

हेतुफलोद्भवे को दोषः? इत्यत आह—यावदिति। यावदजातिसम्यग्दर्शनेन हेतुफलावेशो न निवृत्तः तावत् संसार आयतो दीघों भवति। हेतुफलावेशे सम्यज्ज्ञानेन क्षीणे कारणवैरल्यात् संसारं न प्रपद्यते॥५६॥

सर्वस्याप्यविद्यया जायमानत्वम्

संवृत्या जायते सर्वंशाश्वतं नास्ति तेन वै।
सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै॥५७॥

इदानीं उत्पन्नो नष्ट इति व्यवहृतिः सर्वस्याजत्वे कथम्? इत्यत आह—संवृत्येति। संवरणं संवृतिः अविद्या। तया तद्दृशां सर्वं जायते। कालत्रयेऽप्यविद्यमानाविद्याकार्यत्वात्तत्कार्यंशाश्वतं नास्त्येव। एवं उत्पत्तिविनाशलक्षणः संसारोऽयमविद्यावृत्तदृष्टीनां सत्यं भवति। “ब्रह्ममात्रमसन्न हि”, “सन्मात्रमसदन्यत्” इति श्रुत्यनुरोधेन परमार्थसद्भावेन तु सर्वमजमेव। “सर्ववर्जितचिन्मात्रं” इति श्रुत्यनुरोधेन जातिसामान्यापह्नवज्ञानेन तेन कस्यचिदपि जातिवदुच्छेदोऽपि नास्ति वै नास्त्येव। न हि शशविषाणतुल्यजातेरुच्छेदः संभवतीत्यर्थः॥५७॥

मायाया अविद्यमानत्वम्

धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः।
जन्म मायोपमं तेषां सा च माया न विद्यते॥५८॥

आत्मनः सकाशाद्धर्मा जायन्त इति केचित्। तत्राह—धर्मा इति। मायया ये धर्मा जायन्ते मायाकार्यत्वान्न हि ते तत्त्वतो जायन्ते। तेषां जन्म कीदृशम्?इत्यत आह—तेषामिति। तज्जन्म मायोपमं प्रत्येतव्यमित्यर्थः। किं तन्माया अस्ति? इत्यत आह—सा चेति। या मा सा च माया कालत्रयेऽपि शशविषाणवत् न विद्यते॥५८॥

परमार्थतो धर्माणां जन्मनाशाभावः

यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः।
नासौ नित्यो न चोच्छेदी तद्धर्मेषु योजना॥५९॥

कथं तेषां जन्म मायोपमम्? इत्यत्र दृष्टान्तमाह—यथेति। यथा मायामयात् नानाविधबीजात् तन्मयोङ्कुरो जायते। नासौ नित्यो न चोच्छेदी विनाशी वा भवितुमर्हति। तस्य कालत्रयेऽप्यलब्धात्मकमायाकार्यत्वेन कारणतुल्यत्वात्। तथा जन्मनाशादिधर्मेष्वात्मसु योजना युक्तिः युज्यते। न हि धर्माणां परमार्थतो जन्म नाशो वा संभवतीत्यर्थः॥५९॥

आत्ममात्रे नित्यानित्यविवेकाभावः

नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा।
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते॥६०॥

आत्मा तावत् शाश्वतोऽशाश्वतो वापि वार्तापि न सहत इत्याह—नेति। न हि निष्प्रतियोगिकचिन्मात्रधर्मेषु स्वरूपेष्वजेष्वात्मसु सर्वोपाध्यपह्नवसिद्धात्ममात्रे अयं शाश्वतोऽशाश्वतो वेत्यभिधानं प्रवर्तते। अर्थसंकेतपरा वर्णा अकारादिक्षकारान्ता अपि यत्र न प्रवर्तन्ते तत्र आत्ममात्रे इदं नित्यमनित्यमित्यादिविवेको न ह्युच्यते “यतो वाचो निवर्तन्ते” इति श्रुतेः॥६०॥

आत्मनो वागाद्यपह्नवसिद्धत्वम्

यथा स्वप्नेद्वयाभासं चित्तं चलति मायया।
तथा जाग्रद्द्वयाभासं चित्तं चलति मायया॥६१॥

अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः॥६२॥

कथं पुनरात्मनोऽवाङ्मनसगोचरत्वम्? इत्यत्र स्वाज्ञदृष्टिविकल्पितमनस्तत्स्पन्दनास्पन्दननिमित्तेयं वागादिगोचरागोचरता। परमार्थतो वागाद्यपह्नवसिद्धोऽयमात्मेति उक्तार्थावेव श्लोकावनुवदति—यथेति॥६१-६२॥

स्वप्नजाग्रद्भावानां कल्पितत्वम्

स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान्।
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा॥
स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक्।
तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते॥६४॥
चरञ्जागरिते तद्वद्दिक्षु वै दशसु स्थितान्।
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा॥६५॥
जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक्।
तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते॥६६॥

स्वप्नजाग्रद्विलसितभावजातं स्वप्नादिदृक्चित्तकल्पितं, न तच्चित्तातिरिक्तम्। चित्तस्य मायामात्रत्वेन तत्कल्पितमपि तथेत्याह—स्वप्नदृक्चेति। यथा स्वप्नदृक्चित्तकल्पितजगज्जीवजातं तच्चित्तमात्रं तथा जाग्रच्चित्तेक्षणीयजीवजातमपि तच्चित्ताव्यतिरिक्तम्।उक्तार्थमन्यत्॥६३–६६॥

जीवचित्तयोः परस्परसापेक्षत्वाभावः

उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति चोच्यते।
लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते॥६७॥

जीवचित्ते परस्परसापेक्षरूपे अन्योन्यदृश्यत्वात्। वस्तुतस्तदुभयं नास्तीत्याह—उभे इति। जीवापेक्षं चित्तं चित्तापेक्षं जीवजातमिति ते उभे

जीवचित्ते अन्योन्यदृश्ये। प्रमाणदृष्टीनां तावत् तत्र चित्तं चित्तेक्षणीयजगज्जीवजातं वा किं तदस्तीत्युच्यते। न हि जाग्रदादौ परमार्थदृष्ट्या स्थिरचरात्मकं जगद्विद्यते तत्सिद्धिप्रमाणवैरल्यात्।

इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत्।
चित्तं प्रपञ्चमित्याहुः नास्ति नास्त्येव सर्वदा॥

इति श्रुतेः। तस्माच्चित्तं तदीक्षणीयं जगच्चैतदुभयमपि अनया लक्ष्यते इति लक्षणा प्रमाणम्। तच्छून्यं स्वसिद्धिप्रमाणगन्धविरलमिति तन्मतेन तच्चित्तेनैव गृह्यते। न हि स्वातिरिक्तं प्रत्याख्याय स्वातिरिक्तमतिरुदेति। किन्तु स्वमात्रमिति मतिः युक्तेत्यर्थः॥६७॥

जीवानां चित्तविकल्पनामात्रत्वम्

यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च॥६८॥

यथा मायामयोजीवो जायते म्रियतेऽपि च।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च॥६९॥

यथा निर्मितको जीवो जायते म्रियतेऽपि च।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च॥७०॥

कथं पुनः चित्तजीवयोः लक्षणाशून्यत्वं जायते म्रियते इति प्रतीतेः? इत्यत्र स्वप्नमायानिमित्तवत् तन्मृषेत्याह—यथेत्यादिना। स्वप्नविकल्पितजीवः स्वप्नमयः। मायाविना कृतो मायामयः। मन्त्रौषधादिभवो निर्मितकः। स्वप्नमायानिर्मितकाण्डजादयो जीवा यथा जायन्ते म्रियन्ते तथैवाविद्यमाना एव मनुष्यादिलक्षणा जीवाः चित्तविकल्पनामात्रा इत्यर्थः॥६८-७०॥

जीवस्याजत्वप्रकटनम्

न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते।
एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते॥७१॥

कथं जीवानां कल्पनामात्रत्वम्? इत्यत्र जीवस्थाजत्वं प्रकटयितुं अद्वैतप्रकरणान्तभूषणश्लोकमुदाहरति—नेति। जातिसत्त्वासत्त्वे तु स्वाज्ञस्वज्ञदृष्टिनिष्ठे।परमार्थदृष्टेः तत्प्रसक्तिरेव नास्तीत्यर्थः॥७१॥

चित्तस्यासङ्गत्वम्

चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम्।
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम्॥७२॥
योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ।
परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः॥७३॥

कथं “यत्र किंचिन्न जायते” इत्युक्तं ग्राह्यग्राहककलनासत्त्वात्? इत्यत्राह—चित्तेति। ग्राह्यग्राहकवत् इदं द्वयं चित्तस्पन्दितमेव परमार्थतः तत्सर्वमात्मैव “इदं सर्वं यदयमात्मा” इति श्रुतेः। प्रबोधतः चित्तं निर्विषयं चेत् तेनेदं चित्तमसङ्गं परिकीर्तितं “असङ्गो न हि सज्जते” इति श्रुतेः॥७२॥ कथं पुनश्चित्तस्य निर्विषयत्वेनासङ्गत्वं शास्त्रादिसङ्गदर्शनात्? इत्यत आह—योऽस्तीति। परमार्थात्युपायत्वेन कल्पिता च सा संवृतिश्चेति तया कल्पितसंवृत्या संवरणेन योऽस्ति शास्त्रादिव्यवहारः परमार्थतः असौ नास्त्येव।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते।

इति खिलश्रुतेरुक्तत्वात्। यः पुनः पदार्थः परतन्त्राभिसंवृत्या परशास्त्रव्यवहृत्या स्यात्, परमार्थतो निरूप्यमाणे सोऽपि नास्त्येव। यद्यस्तीति भ्रान्तिः तदा तत्रासङ्गं चित्तं भवतीति सम्यगुक्तम्॥७३॥

अज इति कल्पनाया असत्यत्वम्

अजः कल्पितसंवृत्या परमार्थेन नाप्यजः।
परतन्त्राभिनिष्पत्या संवृत्या जायते तु सः॥७४॥

शास्त्रादीनां कल्पितसंवृत्या असत्वेऽपि सत्यत्वेनाज इति कल्पना स्यादित्यत आह—अज इति। निष्प्रतियोगिकाजब्रह्ममात्रपदारोहाय “अजो नित्यः शाश्वतः” “सबाह्याभ्यन्तरो ह्यजः” “सन्मात्रमसदन्यत्”, “ब्रह्ममात्रमसन्नहि” इत्यादिश्रुतिपटलकल्पितसंवृत्या केवलचिन्मात्रे अज इत्यभिधारोपिता। तया वस्तुनि स्वमात्रमिति ज्ञाते परमार्थतो नाप्यज इत्यभिधाप्रसरेत्। “बोधार्थमेव हि मुधैव तदोमितीदम्” इति श्रुतेः। निष्प्रतियोगिकाद्वैततन्त्रापेक्षया असल्लौकिकाद्यष्टदृष्ट्यालम्बनपरतन्त्राभिनिष्पत्या परशास्त्राभिनिवेशरूपसंवृत्या पुरा योऽजत्वेन प्रसिद्धः स एव जायते। तस्मात् अज इत्यभिधाकल्पनापि वस्तुमात्रं न स्पृशतीत्यर्थः॥७४॥

असल्लौकिकादेरभिनिवेशस्थानाभावः

अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते।
द्वयाभासं स बुद्धैव निर्निमित्तो न जायते॥७५॥

असल्लौकिकादिर्यत्राभिनिविष्टः तदेव नास्तीत्याह—अभूतेति। वस्तुमात्रदृष्ट्या कालत्रयेऽपि यत् स्वाविद्यापदतत्कार्यजातमभूतमसिद्धं तत्रासल्लौकिकादीनां आत्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वा सुतरामभिनिवेशमात्रं विद्यते। अस्ति तद्दृष्ट्या तत्र वस्तुमात्रे अभूतं अविद्यापदतत्कार्यम्। तत्राभिनिवेशनमित्येतद्द्द्वयमपि शशविषाणवत् वन्ध्यापुत्रवत् गगनारविन्दवच्च कालत्रयेऽपि न विद्यते। यस्मात् अभूताभिनिवेशो जातिहेतुः तस्मादेतद्द्द्वयमाभासमात्रमिति बुध्वा तज्ज्ञानसमकालं जातिनिमित्तद्वयापह्नवात् निर्निमित्तो न जायते। स्वयमजमात्रतयावशिष्यत इत्यर्थः॥७५॥

हेत्वभावे फलाभावः

यदा न लभते हेतूनुत्तमाधममध्यमान्।
तदा न जायते चित्तं हेत्वभावे फलं कुतः?॥७६॥

अधममध्यमोत्तमहेत्वभावात्तत्कार्यत्वेन चित्तं न जायत इत्याह—यदेति। निष्कामबुद्ध्यानुष्ठीयमाना धर्मा उत्तमाः चित्तशुद्धिसालोक्यादिमुक्तिहेतुत्वात्। केवलधर्माधर्मव्यामिश्ररूपा मध्यमा मानुषत्वाप्तिहेतुत्वात्। अशास्त्रीयानुष्ठानलक्षणा अधमाः तिर्यगादिप्राप्तिहेतुत्वात्। स्वातिरिक्तप्रवृत्तिनिवृत्तिलक्षणा हि धर्माः। तान् उत्तमाधममध्यमान् अविद्यापरिकल्पितान् जन्मादिहेतून् ब्रह्मव्यतिरिक्तं न किंचिदस्तीति ब्रह्मव्यतिरिक्तहेतुत्रयापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रानुवादिश्रुत्यर्थज्ञानसमकालं यदा न लभते न हि पश्यति तदा उत्तममध्यमाधमात्मकदेवमनुष्यतिर्यगादिफलरूपेण चित्तं न जायते। न कदाप्युत्पद्यते, बीजाभावेऽङ्कुरसस्यादिवत्। न ह्यसति हेतौ फलमुत्पद्यते॥७६॥

चित्तस्याजातिकथनम्

अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया।
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः॥७७॥

“हेत्वभावे फलं कुतः” इत्यत्र चित्तस्याजातिरुक्ता। सा कीदृशी? इत्यत्रोच्यते—अनिमित्तस्येति। ब्रह्ममात्रप्रबोधसमकालं अपहृवंगतधर्माधर्मनिमित्तत्वेनानिमित्तस्य चिन्मात्रतामितस्य चित्तस्य यानुत्पत्तिरजातिः सा सर्वावस्थास्वपि समा निष्प्रतियोगिकाद्वया च। एवमजातस्यैव सर्वस्य ब्रह्ममात्रज्ञानात् प्रागपि यतस्तत्सर्वं चित्तदृश्यमतः चित्ततद्दृश्यस्य मायामात्रत्वात्। स्वातिरिक्तयोः ब्रह्ममायातत्कार्ययोः निष्प्रतियोगिकभावाभावरूपत्वेनाजातिः समेत्यर्थः॥७७॥

समभावानां जातिज्ञानफलम्

बुद्धानिमित्ततां सत्यां हेतुं पृथगनाप्नुवन्।
वीतशोकं तदाकाममभयं पदमश्नुते॥७८॥

एवं समभावानां जातिज्ञानफलं प्रकटयति—बुद्धेति। जातिनिमित्तस्वातिरिक्तवैरल्यात् अनिमित्ततां सत्यां सद्रूपामजातिं निष्प्रतियोगिकस्वमात्रतया बुद्ध्वा देवमनुष्यतिर्यगादियोनिप्रापकधर्माधर्मात्मकहेतुं पृथक् पृथगनाप्नुवन्सन् संत्यक्तस्वातिरिक्तेषणो विद्वान् शोचनीयकांक्षणीयधीवृत्त्यपह्नवसिद्धं वीतशोकं अकामं अभयं पदं स्वावशेषधिया तदानीं अश्नुते। ब्रह्ममात्रतयावतिष्ठत इत्यर्थः॥७८॥

वस्त्वभावज्ञानेन निस्सङ्गनिवृत्तिः

अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते।
वस्त्वभावं स बुध्चैव निस्सङ्गं विनिवर्तते॥७९॥

कथमसौ ब्रह्ममात्रतयावशिष्यते जायत इति प्रतीतेः? इत्यत्राह—अभूतेति। अविद्यमानत्वेनाविद्यापदं अभूतम्। तदात्मसत्यव्यवहारप्रतिभासरूपेण वा अस्तीत्यभिनिवेशाद्धि तत्सदृशव्यष्टयविद्यापदशरीरादौ स्वात्मधिया चित्तं प्रवर्तते। यदा श्रुत्याचार्यप्रसादतो भूतवस्त्वविद्यापदात्मकवस्त्वभावं बुध्वा तदा भूताभिनिवेशात् निस्सङ्गं निरपेक्षं सत् चित्तं निवर्तते॥७९॥

निवृत्तस्वातिरिक्तानां स्थितिः

निवृत्तस्याप्रवृत्तस्य निश्वला हि तदा स्थितिः।
विषयः स हि बुद्धानां तत्साम्यमजमद्वयम्॥८०॥

एवं निवृत्तस्वातिरिक्तानां स्थितिः कीदृशी? इति तत्राह—निवृत्तस्येति। स्वातिरिक्तान्निवृत्तस्य पुनर्विषयान्तरं परिकल्प्य तत्राप्यप्रवृत्तस्य चित्तस्य चलनविरलात् निश्चला स्थितिः ब्रह्ममात्रावस्थानरूपा या हि चिन्मात्ररूपा, सैव बुद्धानां परमाद्वैतिनां विषयो भवतीति यत् तत् निष्प्रतियोगिकसाम्यं अजमद्वयं च॥८०॥

बुद्धानां विषयः

अजमनिद्रमस्वप्नंप्रभातं भवति स्वयम्।
सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः॥८१॥

कीदृशो हि बुद्धानां विषयः? तत्राह—अजमिति। अजं स्वरूपतः अनिद्रमस्वप्नं तुर्यस्वापादिपञ्चदशावस्थापह्नवसिद्धत्वात्। प्रज्ञानमात्रतया भातत्वात् प्रभातं ज्योतिर्मात्रस्वरूपत्वात्। तत्स्वरूपो हि परमात्मा सदाद्यावृतित्रयापह्नवसिद्धत्वात् सकृद्विभातः। धातुस्वभावतो वस्तुस्वभावतः एष ब्रह्ममात्रात्मको धर्मः सदावशिष्यते॥८१॥

सर्वैर्ब्रह्मणोऽगृह्यमाणत्वम्

सुखमाव्रियते नित्यं दुःखं विव्रियते सदा।
यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ॥८२॥

सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति सर्ववेदान्तैः प्रतिपादितमपि सर्वैः किं न गृह्यते? इत्यत आह—सुखमिति। अभूताभिनिवेशात्मकद्वयोपलब्धिनिमित्तेन यस्य कस्यचिद्धर्मस्य ग्रहेण मिध्याभिनिवेशेन स्वात्मसुखमाव्रियते लीलयाच्छाद्यते। अनायासेन सदानात्प्नरूपं विव्रियते विजृंभते वस्तुयाथात्म्यज्ञानवैरल्यात्। यो हि वस्तुयाथात्म्यज्ञानगोचरोऽसौ भगवानात्मा समस्तवेदान्तैराचार्यैश्च बहुधा प्रतिपादितोऽपि श्रुत्यर्थयाथात्म्यानभिज्ञैः न हि ज्ञातुं शक्यः “आश्चर्यो वक्ता कुशलोऽस्य लब्धा” इति श्रुतेः॥८२॥

विविधग्रहाणामात्मावरणत्वम्

अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः।
चलस्थिरोभयाभावैरावृणोत्येव बालिशः॥८३॥

“अस्तीत्येके नायमस्तीति चैके” इति श्रुत्यनुरोधेनास्ति नास्तीति सूक्ष्मसूक्ष्मतरसुक्ष्मतमविषयाः पण्डितानां ग्रहा अप्यात्मावरणा एव। किं वक्तव्यं मूढजनश्लाघनीयदिगंबरग्रहस्य? इत्याह—अस्तीति। कश्चिद्वादी आत्मास्तीति प्रतिपद्यते। अपरो वैनाशिको नास्तीति। अर्धवैनाशिकस्तु अस्ति नास्तीति सदसद्वादीत्यर्थः। अत्यन्तशून्यवादी दिग्वासा नास्ति नास्तीति। तत्रास्तिभावश्चलो घटादिः तस्य नित्यविलक्षणत्वात्। नास्तिभावः स्थिरः सदा निर्विशेषत्वात्। सदसद्भावोभयात्मकः तयोरेकत्रावस्थानासंभवात्। नास्ति नास्तीत्यत्यन्ताभावः। प्रकारचतुष्टयैः चलस्थिरोभयाभावैः अयं वादिपूगो बालिशः विवेकगन्धविरलो भूत्वा भगवन्तमात्मानं आवृणोत्येव। यदि वा पण्डितः सोऽपि परमार्थाजाति न जानाति चेत्तदा बालिश एवेत्यर्थः॥८३॥

परमार्थपण्डितलक्षणम्

कोट्यश्चतस्रएतास्तु ग्रहैर्यासां सदावृतः।
भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक्॥८४॥

बालिशपण्डितौ कीदृशौ? इत्यत्र आवृतानावृतात्मदर्शिनौ बालिशपण्डिताकित्याह—कोट्य इति। उक्ता ह्येता शास्त्रनिर्णयान्ताः प्रावादुकाः अस्ति नास्तीत्याद्याः कोट्यश्चतस्रः। यासां कोटीनां ग्रहैः उपलब्धिनिश्चयैः तद्दृष्ट्या भगवानावृतः। व्यावृतात्मदर्शिनो हि बालिशाः। प्रावादुकानां अस्ति नास्तीत्यादिकोटिभिः भगवानस्पृष्टो वेदान्तेष्वौपनिषदः पुरुषः स्वमात्रतया दृष्टः स मुनिः सर्वदृक् पण्डितः। स्वातिरिक्तसर्वमस्ति नास्तीति विभ्रमापह्नवद्रष्टृत्वात्।

पण्डा परशिवज्ञानमस्ति यस्य स पण्डितः।

इति स्मृतेः॥८४॥

पण्डितेन कांक्षणीयकथनम्

प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम्।
अनापन्नादिमध्यान्तं किमतः परमीहते?॥८५॥

पण्डितस्य कांक्षणीयं किम्? इत्यत आह—प्राप्येति। एवं सर्वज्ञताञ्चितंस्वावशेषतया प्राप्य “एष नित्यो महिमा ब्राह्मणस्य। न कर्मणा वर्धते नो कनीयान्।”,

किं करोमि क गच्छामि किं गृह्णामि त्यजामि किम्।

इत्यादिश्रुतिसिद्धं यत् पदं अनापन्नादिमध्यान्तं उत्पत्तिस्थितिलयकलनापह्नवसिद्धं नित्यतृप्तिरूपं तद्ब्राह्मण्यं पदमपि स्वावशेषतया प्राप्य अतः परं किं वास्तीत्ययमीहते ईहाविषयापह्नवबोधतः कृतकृत्यत्वात्।

नैव तस्य कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः।
निर्मन्दर इवांभोधिः स तिष्ठति यथास्थितः॥

इति श्रुतेः॥८५॥

विदुषा शमप्राप्तिः

विप्राणां विनयो ह्येष शमः प्राकृत उच्यते।
दमः प्रकृतिदान्तत्वादेवं विद्वान् शमं व्रजेत्॥८६॥

स्वातिरिक्तनिरीहस्वमात्रं भजतीत्याह—विप्राणामिति। विरूपविलयं प्रपन्नबाह्यान्तःकलनानां विप्राणां ब्रह्मविद्वर्याणामेष विनयो विनीतत्वम्। ब्रह्ममात्रतयावस्थानं हि विनयः। स्वातिरिक्तकलनाशमोप्येष एव प्राकृतः स्वभावसिद्धत्वात्। प्रकृत्या स्वभावतो दान्तत्वात् दमोप्येष एव। य एवं यथोक्तस्वभावं स्वातिरिक्तकलनाशान्तं ब्रह्म विद्वान् सोऽयं शमं उपशान्तिलक्षणां ब्रह्ममात्रावस्थितिं व्रजेत् ब्रह्ममात्रतयावतिष्ठत इत्यर्थः॥८६॥

स्वाज्ञस्वज्ञदृष्टिस्थितिः

सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते।
अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते॥८७॥

स्वाज्ञस्वज्ञदृष्टिस्थिति प्रपञ्चयति—सवस्त्विति। यथा जागरणपरिदृश्यमानकलनाजातं वस्तुत्वेनोपलब्धिविषयवत् भाति तथा असल्लौकिकादिषड्दृष्टेः संप्रति वस्तुना सह वर्तत इति स्वातिरिक्ताविद्यापदतत्कार्यजातं सवस्तु। सत्यत्वेन भातत्वात् तथोपलंभनं तेन सह वर्तत इति सोपलम्भं च। यत्र स्वातिरिक्तं वस्तुत्वेनोपलब्धिविषयतां अर्हति तदेतदुभयं तत्तन्मताचार्यमतिविकल्पितं द्वयं स्वातिरिक्तं सत्यत्वेन यत्र लोक्यते तल्लौकिकं लोकादनपेतत्वात् इष्यते। यथा स्वाप्निकप्रपञ्चोऽवस्त्वपि उपलब्धिविषयो भवति तथाऽसल्लौकिकादिषड्दृष्ट्यतिरिक्तदृष्टिद्वयस्य स्वातिरिक्तमवस्त्वपि व्यवहारमात्रोपयोगिव्यावहारिकत्वेन प्रतीतिकालमात्रस्थायिप्रातिभासिकत्वेन चोपलब्धिविषयो भवति। अवस्तु सोपलम्भं च सत्यत्वेन वाह्यान्तर्विषयविरलत्वं शुद्धत्वम्। तदपि व्यावहारिकप्रातिभासिकदृष्टिभ्यां लोक्यत इति लौकिकमिष्यते॥८७॥

परमार्थदृष्टिस्वरूपम्

अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम्।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम्॥८८॥

पारमार्थिकदृष्टिः कीदृशी? इत्यत आह—अवस्त्विति। परमार्थदृष्टेः यथास्वापे ग्राह्यग्राहककलनावैरल्यात् तत्प्रपश्चजातस्यावस्तुत्वेनानुपलब्धि विषयत्वं तथा ‘स्वातिरिक्तं शशविषाणवदवस्तुत्वेन प्रतीत्यभावात् अनुपलंभं च तत्रदृष्टं तत्पारमार्थिकदर्शनम्। “ब्रह्ममात्रमसन्न हि”इति श्रुत्यनुरोधेन चातिरिक्तासल्लौकिकापह्नवसिद्धत्वात् लोकोत्तरमिति,

इदं प्रपञ्चं यत्किंचित् यद्यज्जगति वीक्ष्यते।
दृश्यरूपं च दृग्रूपं सर्वंशशविषाणवत्॥

इत्यादिश्रुतिषु स्मृतं प्रकटितमित्यर्थः। किं च,

अधमं विश्वसत्त्वं हि मध्यमं व्यावहारिकम्।
प्रातिभासिकमुत्कृष्टं विश्वासत्त्वं ततोऽधिकम्॥

इति परमाक्षरोक्तेः। एवं लौकिकशुद्धलौकिकलोकोत्तरभेदेन यत् ज्ञायते तत् ज्ञानं शास्त्रजन्यमित्यर्थः। स्वातिरिक्तमस्ति तत्र तदारोपाधिकरणं ज्ञेयं स्वातिरिक्तं नेतीति तदपवादाधिकरणं च ज्ञेयम्। तद्व्यतिरेकेण ज्ञेयानुपपत्तेः। स्वातिरिक्तमस्ति नास्तीति विभ्रमापह्नवसिद्धब्रह्ममात्रं विज्ञेयम्। तत्र जाग्रज्जाग्रदादिचतुष्पञ्चदशकलनापह्नवसिद्धनिष्प्रतियोगिकतुर्यतुर्यरूपेण ज्ञेयत्वात्। इदमित्थमित्येतत्सर्वं सदा बुद्धतत्त्वैः ब्रह्मविद्वरीयोभिः प्रकीर्तितं प्रकाशितमित्यर्थः॥८८॥

एतज्ज्ञानफलम्

ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम्।
सर्वज्ञता हि सर्वत्र भवत्येव महाधियः॥८९॥

एवं ज्ञानफलमाह—ज्ञान इति। महत् ब्रह्म तन्मात्रधीर्यस्य तस्य महाधियः ब्रह्मविद्वरीयसः लौकिकादिविषये ज्ञाने चादौ सवस्तुसोपलम्भात्मकद्वयात्मकाशुद्धलौकिकं तावत् अत्यन्तहेयत्वेन ज्ञेयम्। तदशुद्धलौकिकाभावेन ततो वस्तुसोपलम्भात्मकशुद्धलौकिकं ज्ञेयम्। पश्चादशुद्धशुद्धलौकिकतत्कार्यापह्नवसिद्धं लोकोत्तरमित्येवं त्रिविधे च ज्ञेये क्रमेण ज्ञाते तज्ज्ञानसमकालं स्वातिरिक्तमस्ति नास्तीति विभ्रमापह्नवज्ञः परमात्मा सर्वज्ञः तद्भावः सर्वज्ञता। स्वयमेव सर्वत्र भवत्येवेत्यत्र संशयो न कार्य इत्यर्थः॥८९॥

सत्त्वस्यैव ज्ञेयत्वम्

हेयज्ञेाप्यवाक्यानि विज्ञेयान्यग्रयाणतः।
तेषामन्यत्र विज्ञेयमुपलम्भस्त्रिषु स्मृतः॥९०॥

अशुद्धशुद्धलौकिकयोरपि ज्ञेयत्वेन सत्त्वं स्यादित्यत आह—हेयेति। अशुद्धशुद्धलौकिकतत्कार्याणि हेयानि। शशविषाणवदवस्तुतया स्मर्तुमप्यक्षमाणीत्यर्थः। तदपह्नवसिद्धं यद्वस्तु तत् स्वमात्रतया ज्ञेयं सत्तामात्रत्वात्। तद्वाम्युपायत्वेन पाण्डित्यबाल्यमौनानि व्याविद्धसर्वेषणावन्मुनिनाप्यानि। “ब्रह्ममात्रमसन्न हि” इत्यादिश्रुत्यर्थश्रवणमनननिदिध्यासनं विना ब्रह्ममात्रस्य ज्ञातुमशक्यत्वात्। तदाप्त्युपायत्वेन साधनत्रयमाप्तव्यमित्यर्थः।

कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः।

“शान्तो दान्त उपरतस्तितिक्षुः”, “आत्मा वा अरे द्रष्टव्यः श्रोतव्योमन्तव्यो निदिध्यासितव्यः”, “तत्त्वमसि”, “अहं ब्रह्मास्मि”,“पश्यतेहापि सन्मात्रमसदन्यत्” इत्यादीनि वाक्यानि तानि हेयज्ञेयाप्यवाक्यानि व्यक्तस्वातिरिक्तेषणेन भिक्षुणा अप्रयाणतः प्रथमतः यथोक्तज्ञेयात्युपायत्वेन ज्ञेयानीत्यर्थः। तेषां हेयाप्यवाक्यानां उपायभूतानामन्यत्र यदेतत्कलनापह्नवसिद्धं निष्प्रतियोगिकचिन्मात्रमेव स्वावशेषतया विज्ञेयम्। यथोक्तज्ञेयप्रबोधसमकालमपह्नोतव्ययाप्यवाक्येषु त्रिष्वपि उपलंभनं उपलम्भो वाचारंभणतया हेयादित्रयमस्ति नास्तीति कल्पनामात्रपर्यवसानतया च ब्रह्मविद्भिः स्मृतः। त्रयाणां शशविषाणवदवस्तुत्वात्॥९०॥

सर्वधर्माणां नानात्वाभावः

प्रकृत्याकाशवज्ज्ञेयाः सर्वधर्मा अनादयः।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चन॥९१॥

विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तात्मनां विद्यमानत्वात् भवदभिमतज्ञेयस्य निष्प्रतियोगिकब्रह्ममात्रता कुतः? इत्यत आह—प्रकृत्येति। यथा मृद्विकल्पितघटशरावादिसत्त्वासत्त्वाभ्यां तदाकाशेयत्ता ज्ञदृष्ट्या तत्तदुपाध्यवच्छिन्नाकाशं तद्याथात्म्यज्ञदृष्ट्या आकाशमात्रप्रकृति तथा प्रकृत्या स्वाज्ञादिदृष्टिविकल्पितविश्वविश्वादयः सर्वधर्माः। एवंरूपेण व्यष्टिसमष्ट्यात्मकस्वाविद्यापदतत्कार्यसत्त्वासत्त्वाभ्यां अजातत्वात् अनादयः अजा इत्यर्थः। तेषां ब्रह्ममात्रप्रकृतित्वात्। सर्वधर्मा इति बहुवचनतो नानात्वं विनैकत्वं कुतः? इत्यत आह—न हीति। तेषां विश्वविश्वादीनां क्वचन क्वचिदपि किंचनाल्पमपि नानात्वं न हि विद्यते। स्वाज्ञदृष्ट्या व्यक्तीनां विद्यमानत्वात्। तद्भ्रान्त्यनुरोधेन बहुवचनमुक्तम्। तद्भान्तिमात्रापगमे तेषां ब्रह्ममात्रत्वं सिद्धमित्यर्थः॥९१॥

सर्वधर्मपरिज्ञानफलम्

आदिबुद्धाः प्रकृत्यैव सर्वधर्माः सुनिश्चिताः।
यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते॥९२॥

एवं सर्वधर्मपरिज्ञानफलमाह—आदीति। यथा प्रकाशप्रकृतिकः सविता तथा विश्वविश्वादयः सर्वधर्मा आत्मानः स्वप्रकृत्या आदावेव बुद्धाः पूर्णबोधस्वरूपा इति सुनिश्चिताः पण्डितैः नित्यनिश्चितस्वरूपा इत्यर्थः। यथा सविता प्रदीपादिप्रकाशान्तरमनपेक्ष्य स्वार्थंपरार्थं वा प्रकाशयति तथा एवं नैवमिति यस्य मुमुक्षोरेवं यथोक्तप्रकारेण सर्वदा आत्मार्थं परार्थं वा बोधनिश्चयनिरपेक्षतया क्षान्तिः स्वातिरिक्तनिरपेक्षता भवति सोऽयमेवं धर्मजातं विद्वान् निष्प्रतियोगिकामृतत्वाय ब्रह्ममात्रभावाय कल्पते समर्थो भवतीत्यर्थः॥९२॥

शान्तेः कर्तव्यताभावः

आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः।
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम्॥९३॥

बोधकर्तव्यताभावेऽपि शान्तिकर्तव्यता स्यादित्यत आह—आदीति। सर्वेविश्वविश्वादयो धर्माः प्रकृत्यैव साधनान्तरनैरपेक्ष्येण आदावेव शान्ताः स्वोद्वेजनीयस्वातिरिक्तवैरल्यात्। वस्तुतो विश्वविश्वादिरूपेण अनुत्पन्ना अजाश्च। प्रकृत्यैवसुनिर्वृताः नित्यमुक्तस्वभावा इत्यर्थः। वैषम्यभेददृष्टिवैरल्यात् स्वाज्ञदृष्ट्या स्वातिरिक्तसर्वप्रसक्तौ सर्वसमाः सर्वाभिन्ना इव भान्ति।वस्तुनोऽवस्तुतो वाप्येते निष्प्रतियोगिकाजं साम्यं स्वातिरिक्तजातिवैषम्यापह्नवसिद्धनित्यशुद्धबुद्धमुक्तसत्यस्वभावेन विशारदं ब्रह्मैव यतो भवन्ति अतः शान्तिः मोक्षो वा नास्ति कर्तव्यः। न हि निष्प्रतियोगिकचिन्मात्रस्य कृतं किंचिदपि अर्थवत्तामर्हति वस्तुस्वभावस्याकृतत्वात्॥९३॥

कृपणलक्षणम्

वैशारद्यं तु वै नास्ति भेदे विचरतां सदा।
भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः॥९४॥

उक्तार्थवैपरीत्येनात्मानं ये पश्यन्ति ते कृपणा इत्याह—वैशारद्यन्त्विति। अजं साम्यं ब्रह्म स्वमात्रमिति ये जानन्ति ते ह्यकृपणाः। तद्विपरीता असल्लौकिकादिषङ्दृष्टयः। तेषां भेदे विचरतां असल्लौकिकादीनां यत् ब्रह्ममात्रतयावस्थानलक्षणं वैशारद्यं तत्तु नास्ति वै कदापि नास्त्येवेत्यर्थः। यस्मान् एते स्वातिरिक्तास्तित्वप्रसक्तभेदेन निम्नाः सांसारिका अधोगतिं प्रविष्टाः। स्वातिरिक्तैकदेश आत्मेति केचन। तद्विलक्षणो जीव इत्यपरे। स्वातिरिक्तजगज्जीवेश्वरादिकं सत्यमित्यन्ये। तत्सर्वं व्यावहारिकं प्रातिभासिकं इति केचन विचक्षणाः। इत्येव वदनं येषां ते पृथग्वादा असल्लौकिकादयः। अस्मात्ते कृपणाः क्षुद्राः स्मृताः। अतः तेषां कार्पण्यं युक्तमित्यर्थः॥९४॥

कृपणैः परमार्थतत्त्वस्यागम्यमानत्वम्

अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते॥९५॥

य एवं कृपणाः तैः परमार्थतत्त्वं अनधिगम्यमेव। तद्विपरीताकृपणैस्तु गम्यमित्याह—अज इति। निष्प्रतियोगिकाजे साम्ये ब्रह्ममात्रे ये केचिदिह स्त्र्यादयोऽपि सर्वापह्नवसिद्धं ब्रह्म स्वमात्रमिति निश्चिता भविष्यन्ति चेत् त एव हि लोके निरतिशयब्रह्ममात्रज्ञानिनो महाज्ञानाः कृतकृत्या भवन्तीत्यर्थः।

प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये।
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः॥

इति श्रुतेः। तादृशैर्विदितं परमार्थतत्त्वं पामरलोकोऽयं न गाहते न हि साक्षात्करोतीत्यर्थः।

सर्वभूतात्मभूतस्य समैकात्म्यं प्रपश्यतः।
देवाप्यमार्गे मुह्यन्ति ह्यपदस्य पदैषिणः॥

इति स्मरणात्॥९५॥

ज्ञानस्यासङ्गत्वम्

अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते।
यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम्॥९६॥

तेषां महाज्ञानत्वं कुतः? इत्यत आह—अजेष्विति। यथा मार्ताण्ड औष्ण्यप्रकाशकत्वं स्वभावसिद्धं तथा अनुत्पन्नधर्मात्मस्वजेषु अजमचलं च ज्ञानमिष्यते यतः तस्मात् ज्ञानं न हि स्वातिरिक्तकलनासंक्रान्तम्। अत एव स्वातिरिक्तार्थान्तरे तादृशाजज्ञानं न क्रमते। तेन कारणेनाकाशवदसंगं तत् प्रकीर्तितम्॥९६॥

आवरणच्युतेरभावः

अणुमात्रेऽपि वैधर्म्ये जायमाने विपश्चितः।
असङ्गतापि नास्त्येव किमुतावरणच्युतिः?॥९७॥

स्वातिरिक्तसंगतः स्वमात्रावरणच्युतिः नास्तीत्याह—अण्विति। निष्प्रतियोगिकब्रह्ममात्रं हि प्रकृतिः धर्मः। तद्विपरीतो विधर्मः। तद्भावो वैधर्म्यंस्वातिरिक्ताविद्यापदतत्कार्यजातम्। तस्मिन् वैधर्म्येतदेकदेशात्मत्वसत्यत्वव्यावहारिकत्वप्रातिभासिकत्वादिरूपेण वा तदस्तीत्यणुमात्रेऽपि जायमाने सति अथ तत्र विपश्चितो मेधाविनोऽप्यसंगतापि नास्त्येव। तस्य स्वमात्रावरणरूपस्वातिरिक्तच्युतिः स्यान्नवेति किं वक्तव्यम्? कदाप्यावरणच्युतिः नास्तीत्यर्थः॥९७॥

धर्मस्वरूपम्

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः॥९८॥

यतो धर्माः स्वातिरिक्तसंगमात्रेणावृता अतः स्वातिरिक्तमस्तीत्यभ्युपगन्तव्यमित्यत्र स्वातिरिक्तापह्नवसिद्धं ब्रह्म स्वमात्रमिति ज्ञानसमकालं धर्माणामावरणमस्ति नास्तीति विभ्रमो वा कथं सेद्धुं पारयति ? इत्याह—अलब्धेति। स्वातिरिक्तावरणग्रासब्रह्ममात्रज्ञानसमकालं अलब्धं आवरणं कालत्रयेऽपि येषां ते अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः स्वभावतः परिशुद्धा इत्यर्थः। तेषां नित्यशुद्धबुद्धमुक्तस्वभावत्वात् आदावेव बुद्धाः तथा मुक्ताः। तथा चेत् ते कथं बुध्यन्ते ? इति तत्राह—नायका इति। यत एते बोधशक्तिमत्स्वभावा अतस्ते निष्प्रतियोगिकं ब्रह्म स्वमात्रमिति बोद्धुं ज्ञातुं नायकाः ईश्वराः समर्था इत्यर्थः। यथा नित्यनिवृत्तगतयः पर्वतास्तिष्ठन्तीति तथा नित्यप्रकाशरूप आदित्यः प्रकाशयतीत्युच्यते। तथा नित्यबोधस्वरूपा अपि धर्मा बुध्यन्त इत्युच्यन्ते॥९८॥

अद्वैतप्रशंसा

क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः।
सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम्॥९९॥

कालविशेषेण तज्ज्ञानं धर्मान्तरे क्रमत इत्यत आह—क्रमत इति। यथा सूर्यस्वाभाविकप्रकाशः सूर्यातिरिक्तघटादौ न क्रमते तथा स्वमात्रप्रबोधस्तायोऽस्य सहजतयास्तीति तायी बुद्धः तस्य बुद्धस्य तायिनो यत् पारमार्थिकज्ञानं स्वातिरिक्तधर्मेषु स्वाज्ञविकल्पितस्वाविद्यापदतत्कार्येषु आत्मसत्यव्यवहारप्रतिभासरूपेण कदाचिदपि न हि क्रमते। तथा सर्वे धर्मा आत्मानः क्वचिदपि स्वातिरिक्तार्थान्तरे नक्रमन्तो ब्रह्ममात्रप्रकृतिका भवन्ति। “ज्ञानेनाकाशकल्पेन” इत्यादि यदादावुपन्यस्तं तदिदानीमुपसंहृतं आकाशकल्पज्ञानं कुत्रापि न क्रमत इति। किं तत् ज्ञानं त्रिपुट्यात्मकं? नेत्याह—नैतदिति। बुद्धेन परमार्थदर्शिना भाषितज्ञानं नैतत् त्रिपुट्यात्मकम्। किन्तु त्रिपुट्यपह्नवसिद्धज्ञप्तिमात्रं ज्ञानमिति भाषितं प्रकाशितं आख्यातमित्यर्थः॥९९॥

परमार्थतत्त्वबोधो नमस्कारश्च

दुर्दर्शमतिगम्भीरं अजं साम्यं विशारदम्।
बुद्ध्वापदमनानात्वं नमस्कुर्मो यथाबलम्॥१००॥

शास्त्रप्रतिपाद्यं वस्तु स्वमात्रमित्युपसंहरति—दुर्दर्शमिति। अस्ति नास्तीत्यादिचतुष्कोटिकलनापह्नवसिद्धत्वात् स्वातिरिक्तास्तित्वदृष्टिभिः दुर्दर्शम्। तेषां स्वमात्रावृतदृष्टित्वेन तत् दुर्विज्ञेयमित्यर्थः। अत एव निस्तरंगसमुद्रवत् अतिगम्भीरं,

ततस्तिमितगम्भीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत् किंचिदवशिष्यते॥

इति श्रुतेः। कारणान्तरेण स्वयं न जायते स्वस्मादपि किंचित् कार्यान्तरं न जायत इत्यजम्। स्वातिरिक्तजाग्रजाग्रदादिपञ्चदशावस्थातद्व्यष्ट्यभिमानिविश्वविश्वादितत्समष्ट्यभिमानिविराड्विराडादितदुभयैक्याभ मान्यो-त्रोत्रादिचतुष्पञ्चदशकलनावैषम्यापह्नवसिद्धं साम्यम्। निष्प्रतियोगिकस्वमात्रतया अवस्थातुं विशारदं समर्थम्।

इत्थंरूपेण पद्यत इति पदम्। तत् किं दुर्दर्शमित्यादिनानाविशेषणवैशिष्ट्यात् नानात्मकं? तत्राह—अनानात्वमिति। यद्बोधसमकालं जाग्रज्जाग्रदादिनानात्वस्य अपह्नवंगतत्वात् अनानारूपं पदं श्रुत्याचार्यप्रसादतो बुद्ध्वा तद्भावभावितधिया सम्यगवगम्य तादृक्पदं स्वमात्रमिति यथाबलं यावत्कालं वयं नमस्कुर्मः निष्प्रतियोगिकैक्यानुसन्धानं कुर्मः “नमस्त्वैक्यं प्रवदेत्” इति श्रुतेः। दुर्दर्शमित्यादिनानाविशेषणस्य ब्रह्मातिरिक्तनानापह्नवोपायत्वेन अनानात्वं सिद्धमिति प्रकरणार्थः॥१००॥

सर्वापह्नवसंसिद्धपरमाद्वैतवैभवम्।
येनादौ ख्यापितं तस्मै देशिकाय नमस्सताम्॥

माण्डूक्योपनिषद्गूढतात्पर्यंकारिकाशतैः।
येनप्रकाशितं गौडपादाचार्याय ते नमः॥

इत्यलातशान्तिप्रकरणं संपूर्णम्

श्रीवासुमुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।
लिखितं स्याद्विवरणं माण्डूक्यस्य स्फुटं लघु॥

सर्ववेदान्तसारिष्ठमाण्डूक्यविवृतेरिह।
ग्रन्थस्त्रिचत्वारिंशाधिषट्शताधिसहस्रकम्॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे षट्संख्यापूरकं
माण्डूक्योपनिषद्विवरणं संपूर्णम्

तैत्तिरीयोपनिषत्

शं नो मित्रः—इति शान्तिः

शीक्षावल्ली

प्रथमोऽनुवाकः

मङ्गलाचारः शान्तिपाठः

ॐ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः।

कोशानां पञ्चकं यत्र यात्यपह्नवमञ्जसा।
सत्यज्ञानानन्तसुखं तदहं कलयेऽक्षरम्॥

इह खलु कृष्णयजुर्वेदान्तर्गततैत्तिरीयशाखायां अग्निहोत्रदर्शपूर्णमासादिवाजिमेधान्तं कर्मजातं सम्यक् प्रकाशितम्। समस्तकर्माश्रयभूतेश्वरोपासनानि चाभि हितानि। तत्र सकामस्य प्रातिस्विकेन कर्म ज्ञानं वा कर्मसमुच्चितज्ञानं वा

किंचित् विकलं कर्म फलोपधायकं न भवतीति भिया यथावदनुष्टितं सत् पुनरावृत्त्यर्हधूमादिमार्गप्रापकं भवति। निष्कामस्य मुमुक्षोस्तु धूमादिमार्गविपरीतार्चिरादिना ब्रह्मलोकाप्तिः सालोक्यादिचतुर्विधमुक्तिर्वा चित्तशुद्धिप्राप्यसंन्यासपूर्वकब्रह्मजिज्ञासा वा उदेति। तथाविधजिज्ञासोःजिज्ञास्यब्रह्मप्रतिपत्तये तैत्तिरीयोपनिषदारभ्यते। यदि निरतिशयसुखप्रतिपत्त्यर्थोऽयं उपनिषदारंभः तस्य कर्मणैव संपादयितुं सुशकत्वात्। तथाहि— काम्यप्रतिषिद्धकर्माननुष्ठाय प्रत्यवायग्रासनित्यादिकर्मानुष्ठातुः मोक्षसंभवात्। यद्वा—स्वर्गादिसुखसामान्यस्य कर्मनिमित्तत्वात् मोक्षस्यापि सुखरूपत्वाविशेषात् कर्मैव मोक्षहेतुरिति चेन्न; मोक्षस्यानारभ्यत्वेन नित्यत्वात्। न हि नित्यं किंचिदारभ्यते। स्वातिरिक्तकलनापह्नवसिद्धब्रह्ममात्रावस्थानं हि मोक्षः। तदवगतेः कर्मजाततद्धेतुकामतद्धेतुस्वाविद्यापह्नवपूर्वकत्वात्। उपनिषदो ब्रह्मविद्यास्वरूपत्वेन ब्रह्ममात्रावृतिभेदनपटुत्वात् तदर्थंउपनिषदारंभो युज्यते। किं च स्वाज्ञानप्रभवस्वातिरिक्तस्य स्वज्ञानमन्तरा क्षयासंभवात्। “ब्रह्मविदाप्नोति परं”, “अभयं प्रतिष्ठां विन्दते“ एतमानन्दमयमात्मानमुपसंक्रामति”, “तमेवं विद्वानमृत इह भवति” इत्यादिश्रुतेः। क्वचिदवान्तररूपेण क्वचिदाख्यायिकारूपेण च प्रवृत्तिर्विद्यास्तुत्यर्था। वक्ष्यमाणसच्चिदानन्दमात्रब्रह्मप्रतिपत्तिहेतुतैत्तिरीयोपनिषदः सुखप्रतिपत्त्यर्थं अल्पग्रन्थतो विवरणमारभ्यते। उपनिषच्छब्देन ब्रह्मविद्या उच्यते। तच्छरणानां जन्मादिविशरणात् तद्धेतुस्वाविद्यावसादनात् निष्प्रतियोगिकब्रह्ममात्रगमकत्वाच्च तादर्थ्येन ग्रन्थस्याप्युपनिषत्त्वं युज्यते। ब्रह्मविद्यार्थिनां तद्विद्याप्रतिबन्धकतापत्रयापनोदनाय आदौ शान्तिः उच्यते—शमिति। अहः प्राणयोरभिमानिदेवतात्मको मित्रः। नः अस्माकं शं सुखं भवतु तनोतु। तथा रात्र्यपानाभिमानिदेवतात्मको वरुणो नः अस्माकं शं भवतु \। चक्षुष्यर्यमा बले इन्द्रः वाचि बुद्धौ च बृहस्पतिः पादाभिमान्युरुक्रमो विष्णुश्च एवमाध्यात्मिकदेवताः शं नो भवत्विति सर्वत्रानुषज्यते। मित्रादिदेवतासु सुखकृत्सु सतीषु विद्याश्रवणधारणादिप्रतिबन्धो न भवेदिति तत्सुखकृत्त्वं शं नो भवत्विति प्रार्थ्यते। किं च—विद्योपसर्गशान्त्यर्थंविविदिषुणा ब्रह्मवायुनमस्कारः कार्य इत्याह—नम इति। ब्रह्मणे

चतुराननाय नमोऽस्तुहे वायो! ते तुभ्यं नमोऽस्तु प्रह्वीभावं करोमीत्यर्थः। यद्वा—सूत्रविराड्भेदेन ब्रह्मणे वायो! इति वायुरेव अभिधीयते। यतः स्वान्तर्बाह्ये सूत्रवैराजभावतः त्वमेव प्रत्यक्षं ब्रह्मासि, अतः त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। यथा शास्त्रकर्तव्यार्थं ऋतं त्वां वदिष्यामि वागादिकरणग्राह्यार्थंसत्यमपि त्वां वदिष्यामि, तथा वाय्वाख्यं ब्रह्म सर्वात्मकत्वेन मया स्तुतं सत् विद्यासंयोजनेन विद्यार्थिनं मां अवतु। तदेव वक्तृत्वसंयोजनेन वक्तारं आचार्यं अवतु। “अवतु मां अवतु वक्तारं” इति पुनर्वचनमादरार्थम्। विद्याप्राप्त्यन्तरायकाध्यात्मिकादितापत्रयनिरसनार्थंशान्तिः शान्तिः शान्तिरिति त्रिर्वचनम्।

इति प्रथमोऽनुवाकः

_____________

द्वितीयोऽनुवाकः

वर्णस्वरादिशिक्षणम्

ॐ शीक्षां व्याख्यास्यामः। वर्णः स्वरः। मात्रा बलम्। साम संतानः। इत्युक्तः शीक्षाध्यायः।

उपनिषदोऽर्थज्ञानप्रधानत्वेन पाठप्रयत्नोपरमः स्यादित्याशंक्य तन्मा भूदिति शिक्षाध्याय आरभ्यते—शीक्षामिति। यया वर्णाद्युच्चारणं शिक्ष्यते सेयं शिक्षा।सैव शीक्षा। यद्वा—दैर्ध्यं छान्दसम्। तां शीक्षां विस्पष्टं आ समन्तात् व्याख्यास्यामः। ख्याङित्यादिष्टस्य चक्षिङः व्याङ्पूर्वस्य व्यक्तवाक्कायकर्मणः एतद्रूपमिति। तत्र अकारादिः वर्णः। उदात्तादिः स्वरः। ह्रस्वाद्या मात्राः। प्रयत्नविशेषो बलम्। मध्यमवृत्त्या वर्णोच्चारणं साम सन्ततिः सन्तानः संहितेत्यर्थः।

यस्मिन्नध्याये अर्थाः शिक्षितव्याः सोऽयं शीक्षाध्यायः उक्तः उदितः। इतिशब्द उपसंहारार्थः॥

इति द्वितीयोऽनुवाकः

_____________

तृतीयोऽनुवाकः

अधिलोकादिस्वरूपं तज्ज्ञानफलं च

सह नौ यशः। सह नौ ब्रह्मवर्चसम्। अथातः सहिताया उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु। अघिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम्। ता महासँरहिता इत्याचक्षते। अथाधिलोकम्। पृथिवी पूर्वरूपम्। द्यौरुत्तररूपम्। आकाशः संधिः॥१॥ वायुः संधानम्। इत्यधिलोकम्। अथाधिज्यौतिषम्। अग्निः पूर्वरूपम्। आदित्य उत्तररूपम्। आपः संधिः। वैद्युतः संधानम्। इत्यधिज्यौतिषम्। अथाधिविद्यम्। आचार्यः पूर्वरूपम्॥२॥ अन्तेवास्युत्तररूपम्। विद्या संधिः। प्रवचन‍ँ संधानम्। इत्यधिविद्यम्। अथाधिप्रजम्। माता पूर्वरूपम्। पितोत्तररूपम्। प्रजा संधिः। प्रजनन‍ँ संधानम्। इत्यधिप्रजम्॥३॥अथाध्यात्मम्। अधरा हनुः पूर्वरूपम्। उत्तराहनुरुत्तररूपम्। वाक् संधिः। जिह्वा संधानम्। इत्यध्यात्मम्। इतीमा महासँहिताः। य एवमेता महासँहिता व्याख्याता वेद। संघीयते प्रजया पशुभिः। ब्रह्मवर्चसेनान्नाद्येन सुवर्येण लोकेन॥४॥

अधुना संहितोपनिषदाम्नायते—सह नाविति। तत्र संहितोपनिषत्परिज्ञाननिमित्तं यद्यशः प्राप्यते तत् नौ आचार्यशिष्ययोः सहैवास्तु। तन्निमित्तत्वेन यत् ब्रह्मवर्चसं तेजः सहैवास्तु इति शिष्यवचनमाशीः। नाचार्यस्य, कृतार्थत्वात्। यतोऽर्थज्ञानं विना ग्रन्थभाविता बुद्धिः न शक्यत इति तदर्थम्ग्रन्थसन्निकृष्टामेव संहितोपनिषदं तद्विषयदर्शनं व्याख्यास्यामः। तेष्विति पञ्चस्विति पञ्चसु ज्ञानविषयाधिकरणेषु आश्रयेष्वित्यर्थः। तानि कानि? इत्यत आह—अधिलोकमिति। यद्दर्शनं लोकेष्वधि तदधिलोकम्। तथा अधिज्योतिरधिज्यौतिषम्। अधिविद्यमधिप्रजमध्यात्ममिति लोकादिमहावस्तुविषयत्वात्। ता एताः पञ्चविषया उपनिषदो महत्यश्च तास्संहिताश्चेति वेदविदो महासंहिता इत्याचक्षते कथयन्तीत्यर्थः। तत्राद्यमधिलोकस्वरूपमाह—अथेति। यथोक्तोपन्यस्तानां उपनिषदां अथशब्दा दर्शनक्रमविषयाः। संहितायाः पूर्ववर्णरूपं पृथिवी। पूर्ववर्णे पृथिवीदृष्टिः कर्तव्येत्यर्थः। तथा उत्तरवर्णे द्युदृष्टिः कार्या। पूर्वोत्तरवर्णयोः आकाशोऽन्तरिक्षलोकः सन्धिः सन्धीयतेऽस्मिन् वर्णद्वयमिति सन्धिः मध्यमित्यर्थः। अनेन सन्धीयत इति। वायुस्सन्धानमिति अधिलोकदर्शनमुक्तम्। अथाधिज्योतिरादिदर्शनमुच्यते—अथेत्यादि। अधिलोकमित्यादौ योऽर्थोऽभिहितः तथाधिज्यौतिषमित्यादिषु सोऽर्थः समान इति ज्ञेयः। संहितापूगज्ञानफलमाह—इतीति। इतिशब्दः उक्तोपपदप्रदर्शनार्थः। यः कश्चिदेताः महासंहिता : “पृथिवी पूर्वरूपं” इत्यादिना व्याख्याता वेद “यथावदुपास्ते”, “इति प्राचीनयोग्योपास्स्व” इति वक्ष्यमाणानुरोधेन वेदनस्य ज्ञानार्थत्वेऽपि अत्र वेदेत्युपासनं स्यात्। शास्त्रोक्तविषयालम्बनासंकीर्णतुल्यप्रत्ययसंततिरुपासनमित्युच्यते। यस्तु देशिकमुपचरति स उपास्त इत्युच्यते स तु तत्फलमाप्नोति। अतोऽत्रापि य एवं वेद सन्धीयते प्रजया पशुभिः स्वर्गान्तफलं प्राप्नोतीत्यर्थः॥ १-४ ॥

इति तृतीयोऽनुवाकः

_____________

चतुर्थोऽनुवाकः

मेधाश्रीकामजपहोमौ

यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव। मेन्द्रो मेधया स्पृणोतु \। अमृतस्य देव धारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय \। आवहन्ती वितन्वाना॥१॥ कुर्वाणाचीरमात्मनः। वासाँसि मम गावश्च। अन्नपाने च सर्वदा। ततो मे श्रियमावह। लोमशां पशुभिः सह स्वाहा। आमायन्तु ब्रह्मचारिणः स्वाहा। विमायन्तु ब्रह्मचारिणः स्वाहा। प्रमायन्तु ब्रह्मचारिणः स्वाहा। दमायन्तु ब्रह्मचारिणः स्वाहा। शमायन्तु ब्रह्मचारिणः स्वाहा॥२॥यशो जनेऽसानि स्वाहा \। श्रेयान् वयसोऽसानि स्वाहा। तं त्वा भग प्रविशानि स्वाहा। स मा भग प्रविश स्वाहा। तस्मिन् सहस्रशाखे। निभगाहं त्वयि मृजे स्वाहा। यथापः प्रवता यन्ति। यथा मासा अहर्जरम्। एवं मां ब्रह्मचारिणः। धातरायन्तु सर्वतः स्वाहा। प्रतिवेशोऽसि प्रमा भाहि प्रमा पद्यस्व॥३॥

“स मेन्द्रो मेधया स्पृणोतु “, “ततो मे श्रियमावह” इति मेधाश्रीकामयोः तत्प्राप्तिसाधनजपहोमावुच्येते—यश्छन्दसामिति। यः छन्दसां वेदानां प्राधान्यात् ऋषभ इव ऋषभः। तद्यथा “शंकुना सर्वाणि पर्णानि संतृण्णान्येवमेवोङ्कारेण सर्वा वाक् संतृण्णा”, “ओंकार एवेदं सर्व”

इति श्रुत्यनुरोधेन सर्ववाग्व्याप्तेः अयमोंकारो विश्वरूपः। अत एवोंकारस्य ऋषभत्वं उपपद्यते। ओंकारस्य ऋषभादिशब्दैः स्तुतिः न्याय्येत्यर्थः। छन्दांस्यमृतम्। तस्मात् छन्दोभ्यः ह्यमृतात् अधि संबभूव प्रजापतिर्लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत् तामभ्यतपत् तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त भूर्भुवःस्वरिति। तान्यभ्यतपत् तेभ्योऽभितप्तेभ्यः ओंकारः संप्रास्रवत्” इतिश्रुत्यनुरोधेन विश्वसिसृक्षोः प्रजापतेः तपस्तप्यतः सर्वलोकसर्वदेव सर्वव्याहृतिभ्यः सारिष्ठत्वेन ओंकारः प्रादुर्बभूव [किन्तु] नोत्पन्नः। तस्य नित्यत्वात्। न हि नित्यं किंचित् उत्पद्यते।

ओंकारस्य तु नित्यत्वात् नाञ्जसोत्पत्तिरिष्यते।

इति वार्तिकोक्तेः। सोऽयं ओंकार इन्द्रः परमेश्वरः मा मां आत्मविषयकमेधया प्रज्ञया स्पृणोतु बलयत्विति ब्रह्मविषयकप्रज्ञाबलं हि प्रार्थ्यते। हे देव! अमृतत्वहेतुभूतब्रह्मज्ञानस्य धारणो धारयिता भूयासम्। किं च शरीरं मे विचर्षणं वेदान्तश्रवणमनननिदिध्यासनविचक्षणं योग्यं भूयात्। जिह्वा मे मधुमत्तमा मधुरभाषिणीत्यर्थः। कर्णाभ्यां भूरि वेदान्तजातं विश्रुवं श्रोता भूयासम्।असेरिव ब्रह्मणः परमात्मनः कोशोऽसि। तव ब्रह्मोपलब्धिहेतुत्वात्। स त्वं सामान्यलौकिकमेधया पिहितः सम्यगाच्छादितः वैदिकमेधां दत्वा स्वावृतिंउद्घाटयेत्यर्थः। श्रुतं शास्त्रजन्यज्ञानं मे गोपाय रक्ष। यावज्जीवं सकृत् श्रुतमपि तदविस्मरणपूर्वकं धारणायोग्यं मां कुर्विति भावः। मेधाकामस्य जपार्थोऽयं मन्त्र उक्तः। अधुना श्रीकामस्य होमार्थो मन्त्र उच्यते—आवहन्तीति। हे देव! त्वद्दत्तया मेधया विशिष्टस्य मम श्रियमावहेत्यन्वयः। किंविशिष्टम्? इत्यत आह—आवहन्तीतिआवहन्ती आनयन्ती वितन्वाना विस्तारयन्ती। तनोतेः कर्मार्थत्वात्। अचीरं अचिरं क्षिप्रं कुर्वाणा। किम्? इत्यत आह—वासांसीति। वस्त्राणि गावश्च सर्वदा निरवधिकान्नपाने च कुर्वाणा श्रीः। तां लोमशां अजाविकादियुक्तां अन्यैश्च पशुभिरपि युक्तां श्रियं आवह।अमेधसः श्रीरनर्थकारिण्यपि मेधावतो मम चित्तशुद्धिहेतुकर्मनिर्वर्तनानुकूला स्यात्। “वित्तं मे स्यात् अथ कर्म कुर्वीय”

इति श्रुतेः। मन्त्रान्तश्रूयमाणस्वाहाकारो होमार्थः। अयं संपत्सारस्वतज्ञानसार्वभौम इति मम सर्वत्र यशः प्रसारणार्थं दिगन्तरेभ्यो विद्यार्थिनो मामायान्त्विति प्रार्थयति — आमायन्त्विति। मामिति व्यवहितेन सम्बन्धः। आ समन्तात् ब्रह्मचारिणो मामायन्तु। यशस्विजने बहु यशस्वि असानि भवानि। वस्यसो महद्भिः श्लाघनीयसाधुवर्त्मनि वसीयसः वसुमत्तमाद्वा तदतिशयेन श्रेयान् प्रशस्यतमोऽहमसानि। कि च हे भगवन्! ओंकार ब्रह्मणः कोशभूतं तं त्वा त्वामनन्यभावेन प्रविशानि त्वदात्मैव भवामीत्यर्थः। हे भगवन्! स त्वमपि मा मां प्रविश आवयोरैक्यमेवास्त्वित्यर्थः। तस्मिन् सहस्रशाखे बहुसहस्त्र शाखास्थानीयाकाराद्यवयवविशिष्टे “अकार अयुतावयवान्वितः उकारः सहस्रावयवान्वितो मकारश्शतावयवोपेत अर्धमात्रोऽनन्तावयवाकारः” इति श्रुतेः, एतादृशे त्वयि मत्कृतपुण्यपापजातं निमृजे शोधयामीत्यर्थः। आपो यथा निम्नवता प्रवता देशे नयन्तियथा मासा अहानि यस्मिन् जीर्यन्ते सोऽहर्जरः संवत्सरः। तं यन्ति। हे धातः! ओङ्कार एवं सर्वदिग्भ्यो मां ब्रह्मचारिण आयन्तु आगच्छन्तु। प्रतिवेशः श्रमापनयनासन्नगृहरूपोऽसि। त्वदुपासकानां यतः सर्वदुःखापनयनस्थानं असि अतो मां प्रति स्वात्मानं प्रभाहि प्रकाशय। मां प्रपद्यस्व यथा स्पर्शबोधिरसविद्धलोहजातमिव दुर्वर्णतां विसृज्य सुवर्णघनवत् त्वदात्मानं कुर्वित्यर्थः। मेधाविशिष्टश्रीकामोऽस्मिन् प्रकरणेऽधिक्रियते धनार्थम्। धनं हि कर्मार्थम्।कर्म च श्रेयः परिपन्थिदुरितक्षयार्थम्। तत्क्षयाद्धि ज्ञानं प्रकाशत इत्यत्र—

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः।
यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि॥

इति स्मृतेः॥१३॥

इति चतुर्थोऽनुवाकः

_________

पञ्चमोऽनुवाकः

स्वाराज्यफलकोपासनम्

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः। तासामुह स्मैतां चतुर्थीम्। माहाचमस्यः प्रवेदयते। मह इति। तद्ब्रह्म। स आत्मा। अङ्गान्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम्। सुवरित्यसौ लोकः॥१॥मह इत्यादित्यः। आदित्येन वाव सर्वे लोका महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः। मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीँषि महीयन्ते। भूरिति वा ऋचः। भुव इति सामानि। सुवरिति यजूंषि॥२॥ मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा महीयन्ते। भूरिति वै प्राणः। भुव इत्यपानः। सुवरिति व्यानः। मह इत्यन्नम्। अन्नेन वाव सर्वे प्राणा महीयन्ते। ता वा एताश्चतस्त्रश्चतुर्धा। चतस्रश्चतस्रो व्याहृतयः। ता यो वेद। स वेद ब्रह्म। सर्वेऽस्मै देवा बलिमावहन्ति॥३॥

संहिताविषयमुपासनमुक्तम्। मेधाश्रीकामयोः जपहोमार्थौ मन्त्रावप्यभिहितौ। अधुना स्वाराज्यफलकं व्याहृत्यात्मन उपासनमुच्यते—भूर्भुवस्सुवरिति। भूर्भुवस्सुवरिति इत्युक्तोपप्रदर्शनार्थः। वा इति तित्र इति प्रदर्शितानां परामर्शार्थिः। इतिवैशब्दाभ्यां एता व्याहृतयः स्मर्यन्ते। तासां मह इति व्याहृतिः चतुर्थी। तामेतां महाचमसस्यापत्यं माहाचमस्यो नाम प्रवेदयते मुनिः। उ ह स्म इति निपातौ वृत्तानुस्मारणार्थौ। माहाचमस्यस्य ऋषित्वेन ऋषिस्मरणमपि उपासनाङ्गं इत्यवगम्यते। तेन दृष्टा व्याहृतिः का?

इत्यत आह—मह इति। यत् महत्वेनाभिमतं तदेव ब्रह्म। किं तत्? यस्सर्वत्राप्नोति स आत्मा। अर्धमात्रायमानमह इत्यनेन व्याहृत्यात्मना आदित्यचन्द्रब्रह्मान्नभूतेन यतो व्याप्यन्तेऽतोऽङ्गान्यवयवानि। अन्या देवता इति देवताग्रहणं सर्वभूतभौतिकोपलक्षणार्थम्। लोकदेववेदप्राणादीनां व्याहृत्यवयवत्वं कुतः ? इत्यत आह—भूरिति। अयं लोकः अग्निः ऋग्वेदः। प्राण इति प्रथमा व्याहृतिः। एवमुत्तरा अपि एकैकाः चतुर्धा भवन्ति। मह इति ब्रह्म। शब्दाधिकारेऽन्यस्यासंभवात्। ब्रह्मशब्देन ह्योंकारो विज्ञेयः। उक्तार्थमन्यत्। ता वा एता भूर्भुवः सुवः मह इति चतस्र एकैकाश्चतुर्धा चतस्रश्चतस्रः सत्यः चतुर्धा भवन्तीत्यर्थः। ता यथोक्ता व्याहृतीः यो वेद स ब्रह्म ओंकाराख्यं ब्रह्म वेद विजानाति। अस्मै विजानते सर्वे देवा यथा ब्रह्मणे तथा बलिं हरन्ति कुर्वन्ति इत्यर्थः। तद्ब्रह्म स आत्मेति “ब्रह्मण्यात्मत्वेन ज्ञाते कथं पुनरविज्ञातवत् यो वेद स वेद ब्रह्म इत्युक्तिरिति चेन्न; तद्विशेषस्याज्ञातत्वात्। व्याहृत्यात्मा ब्रह्मेति ज्ञातेऽपि हृदयान्तर्मनोमयत्वादि शान्तिसमृद्धमित्यन्तविशेषधर्मपूगस्याज्ञातत्वात्तद्विवक्षया शास्त्रं पारिप्लवतो ज्ञानमये विशेषेण दर्शयति—स वेद ब्रह्मेति॥१-३॥

इति पञ्चमोऽनुवाकः

____________

षष्ठोऽनुवाकः

सर्वात्मभावप्रतिपत्तिमार्गकथनम्

स य एषोऽन्तर्हृदय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य एष स्तन इवावलम्बते। सेन्द्रयोनिः। यत्रासौ केशान्तो विवर्तते। व्यपोह्य शीर्षकमाले। भूरित्यग्नौ प्रतितिष्ठति। भुव इति वायौ॥१॥

सुवरित्यादित्ये। मह इति ब्रह्मणि। आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्। वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः। एतत्ततो भवति। आकाशशरीरं ब्रह्म। सत्यात्म प्राणारामं मन आनन्दम्। शान्तिसमृद्धममृतम्। इति प्राचीनयोग्योपास्स्व॥२॥

वक्ष्यमाणधर्मपूगविशिष्टं ब्रह्म यो वेद स वेद ब्रह्मेत्यभिप्रायः। उक्तवक्ष्यमाणानुवाकयोः एकमुपासनं विज्ञेयम्। अत एव स्वाराज्यप्राप्तौ “सर्वेऽस्मै देवा बलिमावहन्ति” इत्युक्तम्। पूर्वानुवाकोक्तव्याहृत्यात्मन एव मनोमयत्वादि। धर्मवैशिष्ट्येन करतलविन्यस्तामलकवत् सर्वात्मभावप्रतिपत्तिमार्गोवक्तव्य इति उत्तरानुवाक आरभ्यते—स य इति। हृदयस्य मध्ये लोहितं मांसपिण्डं तस्मिन् यद्दहरं पुण्डरीकम्।“कुमुदमिवानेकधा विकसितं” इति श्रुत्यनुरोधेन पुण्डरीकाकारोऽयं मांसपिण्डः अनेकनाडीजटिल ऊर्ध्वनालोऽधोमुखो हृदयमित्युच्यते। य एषोऽन्तर्हृदये तदवच्छेदेन करकाकाशवदाकाशो वर्तते। तस्मिन् हृदयावच्छिन्नाकाशे पुरिशयनात् भूरादिलोकपूरणाद्वा सोऽयं पुरुषः। मनुतेऽनेनेति मनः अन्तःकरणं तन्मयः। तत्रोपलभ्यत्वात् तदभिमानाद्वा तन्मयः। तल्लिंगो वा “लिंगं मनो यस्य” इति श्रुतेः। अमृतः अमरणधर्मा। हिरण्मयः ज्योतिर्मय : “हिरण्मयः पुरुषो दृश्यते” इति श्रुतेः। तस्यैवंविधस्य पुरुषस्य प्रतिपत्तिमार्ग उच्यते। मूलाधारत्रिकोणाग्रमारभ्य ब्रह्मरन्ध्रान्तगामिनी सुषुम्नेति काचन नाडी योगशास्त्रप्रसिद्धास्ति। सा च तालुकयोर्मध्ये गता। यश्चैष तालुकयोरन्तरे मांसखण्डः स्तन इवावलम्बते, तदन्तरेण मध्यपथा यत्र च केशानामन्तोऽवसानं विवर्तते। या शीर्षकपाले व्यपोह्य निर्गता सेन्द्रयोनिः इन्द्रस्य ब्रह्मणः प्राप्तियोनिः मार्गः स्वरूपप्रतिपत्तिद्वारभूतेत्यर्थः। विद्वानेव तन्नाडीवदनं केवलकुम्भकेन निष्पन्नप्राणापानाग्न्यैक्यसन्तप्तकुण्डलिन्या विभिद्य ततो ब्रह्मविष्णुरुद्रग्रन्थ्यन्वितषडाधारचक्रं विभिद्य मोक्षद्वारात् सहस्रारचक्रं प्रविश्य तत्रापि व्याहृत्यवयवात्मानं ध्यात्वा तत्प्रसादतः तदपि विभिद्य तदधिष्ठाता महद्ब्रह्मणोऽङ्गत्वेन भूरिति व्याहृतिरूपो योऽग्निः तस्मिन्नग्नौ

प्रतितिष्ठति अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः। तथा द्वितीयतृतीयादि व्याहृत्यात्मसुवाय्वादित्यब्रह्मसु क्रमात् प्रतितिष्ठति। तेषु आत्मभावं गत्वा सविशेषब्रह्मभावापत्तिलक्षणं स्वाराज्यं स्वराड्भावं आप्नोति। अङ्गभूत देवा यथा अङ्गिब्रह्मणे बलिमावहन्ति तथा अङ्गिभावमापन्नाय विदुषे बलिंआवहन्तीत्यर्थः। तथा मनसस्पति ईशितारं ईश्वरं चाप्नोति। किं चसमस्तप्राणिवाक्चक्षुःश्रोत्रज्ञानविज्ञानादीनामपि पतिर्भवति। सर्वात्मकत्वेन तत्तत्प्राणिकरणग्रामस्वव्यापारप्रवृत्तिनिमित्तत्वात्। ततोऽप्यधिकव्यापकतामाह—आकाशशरीरं ब्रह्मेति। निरवयवाकाशवत् सूक्ष्मं शरीरं स्वरूपमस्येश्वरस्येन्याकाशशरीरं च तत् सर्वत्रोपबृंहणात् ब्रह्म चेति। तथोक्तं स्वाज्ञदृष्ट्या सत्यवत् भाऩमूर्तामूर्तविशिष्टविश्वं आत्मा उपाधिः यस्य तदिदं सत्यात्म। प्राणारामं सूत्रात्मनः प्राणेषु क्रीडमानत्वात्। यन्मन आनन्दभूतं तन्मन आनन्दम्। वस्तुतः स्वातिरिक्तशान्त्या समृद्धं संपन्नम्। अत एव अमृतं अमरणधर्मि। एवं मनोमयत्वादिधर्मैर्विशिष्टं ब्रह्म हे प्राचीनयोग्य! उपास्स्वेति आचार्योक्तिः॥

इति षष्ठोऽनुवाकः

___________

सप्तमोऽनुवाकः

ब्रह्मणः पा तस्वरूपेणोपासनविधिः

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः। अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि। आप ओषधयो वनस्पतय आकाश आत्मा। इत्यधिभूतम्। अथाध्यात्मम्। प्राणो व्यानोऽपान उदानः समानः। चक्षुः श्रोत्रं मनो वाक् त्वक्। चर्म माँसँस्नावास्थिमज्जा। एतदधिविधाय ऋषिरवोचत्। पाङ्क्तं वा इदँ सर्वम्।पाङ्क्तेनैव पाङ्क्तँस्पृणोतीति॥

यदेतद्व्याहृत्यात्मकं ब्रह्म उपास्यत्वेनाभिहितं तस्यैव पृथिव्यादिपाङ्क्तस्वरूपेण उपासनविधित्सया अनुवाकान्तरमारभ्यते— पृथिवीति। तत्र लोकपाङ्क्तमाह—पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः इति। देवतापाङ्क्तमाह—अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणीति। भूतपाङ्क्तमाह—आप ओषधयो वनस्पतय आकाश आत्मेति। आत्मेति विराट् भूताधिकारात्। अधिभूतमिति ग्रहणमधिलोकाधिदेवतापाङ्क्तयोरुपलक्षणार्थम्। अथ अनन्तरं अध्यात्मपाङ्क्तत्रयमुच्यते। तत्र प्राणादिवायुपाङ्क्तं प्राणो व्यानोऽपान उदानस्समान इति। अथ चक्षुरादीन्द्रियपाङ्क्तं चक्षुः श्रोत्रं मनो वाक् त्वक् इति। अथ चर्मादिधातुपाङ्क्तं चर्म मांसं स्नावास्थिमज्जेति। एतावद्धि खलु सर्वमध्यात्मं बाह्यं च। एतदेवमधिविधाय परिकल्प्य स्वच्छन्दं ऋषति चरतीति ऋषिः वेदः। तद्दर्शनसंपन्नो वा कश्चिदृषिरवोचत्। किं तत्? इत्याह—पाङ्क्तं वा इदं सर्वमिति। पञ्चसंख्यायोगात् पङ्क्तिश्छन्दः। पाङ्क्तश्च यज्ञः। “पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः” इति श्रुतेः। एवं पञ्चसंख्यासामान्यात् पाङ्क्तेनैवाध्यात्मिकेन पाङ्क्तं बाह्यं स्पृणोति तदात्मतयां उपलभत इत्यर्थः। इदं परिदृश्यमानं सर्वंपाङ्क्तमिति यो वेद स हि प्राजापत्यं पदं अश्नुत इत्यर्थः ॥

इति सप्तमोऽनुवाकः

__________

अष्टमोऽनुवाकः

ओङ्कारोपासनम्

ओमिति ब्रह्म। ओमितीदँसर्वम्। ओमित्येतदनुकृतिर्हस्म वा अप्यो श्रावयेत्याश्रावयन्ति। ओमिति सामानि गायन्ति। ओँशोमिति शस्त्राणि शँसन्ति। ओमित्यध्वर्युः प्रतिगरं

प्रतिगृणाति। ओमिति ब्रह्मा प्रसौति। ओमित्यग्निहोत्रमनुजानाति। ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपानवानीति। ब्रह्मैवोपाप्नोति॥

यत् पुरा व्याहृत्यात्मन उपासनमुक्तं तस्यैव पाङ्क्तस्वरूपेण उपासनमभिहितं च। अथेदानीं सर्वोपासनाङ्गभूतोङ्कारोपासनमुच्यते—ओमिति। ओमिति इति शब्दः तदर्थपरिच्छेदार्थः। ओमित्येतच्छब्दात्मकं ब्रह्मेति मनसा धारयेत्। यतः ओमितीदं सर्वं शब्दप्रपञ्चस्य ओंकारेणैव व्याप्तत्वात्। “ओंकारेण सर्वा वाक् संतृण्णा” इति श्रुतेः। अभिधेयस्याभिधानतन्त्रत्वेनाभिधानात्मक ओंकारशब्दमात्रोऽपि परापरब्रह्मदृष्ट्योपास्यमानस्सन् परापरब्रह्माप्तिसाधनं भवति। परापरब्रह्मणोः स ह्योंकार एवालम्बनं प्रतीकमपि भवति विष्णुप्रतीकसालग्रामवत्। “एतेनैवायतनेनैकतरमन्वेति” इति श्रुतेः। उत्तरग्रन्थस्तु ओंकारस्तुत्यर्थः। तस्योंकारस्यैवात्रोपास्यत्वात्। ओमित्येतदेव अनुकृतिः अनुकरणम्। एतदेवमनुकरोत्यन्यः। अत ओंकारोऽनुकृतिः “अनुज्ञानुकृतिस्तारः” इति व्यावहारिकप्रणवोक्तेः। ह स्म वा इति प्रसिद्धार्थद्योतकाः। ओंकारस्यानुकृतित्वं प्रसिद्धं हि। ओ श्रावयेति प्रैषपूर्वकमाश्रावयन्ति प्रतिश्रावयन्ति। तथा सामगायकाः ओमिति सामानि गायन्ति। तथा शास्त्रशंसितारः ओं शोमिति शास्त्राणि शंसन्ति। तथा ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्रह्म प्रसौति अनुजानाति। जुहोमीत्योमिति अग्निहोत्रमनुजानाति ओमित्येवानुज्ञां प्रयच्छतीत्यर्थः। ओमिति ब्राह्मणः प्रवक्ष्यन् प्रतिवचनं करिष्यन् अध्येष्यमाण ओमित्येवाह। अध्यापितुमोमिति प्रपद्यते। ब्रह्म वेदमाप्नवानि ग्रहीष्यामीति ब्रह्मोपाप्नोति। यस्मादोंकारपूर्वं प्रवृत्तकर्मणां फलवत्त्वं तस्मात् ओंकारं ब्रह्मेत्युपासीतेत्यर्थः॥

इत्यष्टमोऽनुवाकः

_____________

नवमोऽनुवाकः

अपरविद्योपासनम्

ऋतं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्यायप्रवचने च। तपश्च स्वाध्यायप्रवचने च। दमश्च स्वाध्यायप्रवचने च \। शमश्च स्वाध्यायप्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च। मानुषं च स्वाध्यायप्रवचने च। प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च। सत्यमिति सत्यवचा राथीतरः। तप इति तपोनित्यः पौरुशिष्टिः। स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः। तद्धि तपस्तद्धि तपः॥

विज्ञानादेव स्वाराज्यसिद्धेः किं कर्मणा? इत्याशंक्य चित्तशुद्ध्यभावे ज्ञानानुदयात् तदर्थं कर्मोपन्यास इत्याह—ऋतमित्यादिना। ऋतं सत्यं च व्याख्यातम्। स्वाध्यायोऽध्ययनम्। प्रवचनमध्यापनं ब्रह्मयज्ञो वा। तपः कृच्छ्रचान्द्रायणादिकम्। बाह्यकरणोपशमो दमः। अन्तःकरणोपशमः शमः। अग्नयः आधातव्याः। अग्निहोत्रं च यावज्जीवं होतव्यम्। अतिथयः पूजनीयाः। लौकिकं वैदिकं च मानुषं यथाशास्त्रमनुष्ठेयम्। प्रजा चोत्पाद्या। प्रजनश्चप्रजननं ऋतौ भार्यागमनम्। पौत्रोत्पत्तिः प्रजातिः। एवं सर्वकर्मभिः युक्तस्यापि यत्नतोऽनुष्ठेये स्वाध्यायप्रवचने इत्येवमर्थं सर्वकर्मभिः स्वाध्यायप्रवचनग्रहणं समानं, तन्निर्वर्त्यकर्मणां स्वाध्यायाधीनत्वात्। स्वाध्यायतदर्थानुष्ठानजनितचित्तशुद्धिप्राप्यज्ञानायत्तं परं श्रेय इति। एतत्सर्वाविस्मरणार्थंप्रवचनं धर्मवृद्ध्यर्थं च। अतः स्वाध्यायप्रवचनयोरादरः कर्तव्यः। सत्यमेवानुष्ठातव्यमिति सत्यमेव वचो यस्य सोऽयं सत्यवचाः योगतो रथीतरगोत्रो राथीतरः

आचार्यो मन्यते। तप एव सदा कर्तव्यमिति तपोनित्यः नामतः पुरुशिष्टस्यापत्यं पौरुशिष्टिः आचार्यो मन्यते। स्वाध्यायप्रवचने एवानुष्ठेये इति नाको नामतो मुद्गलस्यापत्यं मौद्गल्यः आचार्यो मन्यते। उक्ते अपिस्वाध्यायप्रवचने पुनर्ग्रहणमादरार्थमवगम्यते। यतः स्वाध्यायप्रवचने सर्वमूलभूते अतः तद्धि तपस्तद्धि तपः। तस्मात् स्वाध्यायोऽध्येतव्यः। “यं यं ऋतुमधीते तेन तेनास्येष्टं भवति” इति श्रुतेः।

इति नवमोऽनुवाकः

__________

दशमोऽनुवाकः

परविद्योपासनम्

अहं वृक्षस्य रेरिखा। कीर्तिः पृष्ठं गिरेरिव। ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि। द्रविणँसवर्चसम्। सुमेधा अमृतोऽक्षितः। इति त्रिशङ्कोर्वेदानुवचनम्॥

अपरविद्याविषयं ऋतं चेत्याद्युक्त्वा परविद्याविषय उच्यते—अहमिति। स्वाध्यायतदर्थानुष्ठानविशुद्धसत्त्वस्य परविद्योत्पद्यते। एतत्प्रकरणस्य विद्यार्थत्वात्। तथा च वक्ष्यति “यो वेद निहितं गुहायां परमे व्योमन्” “ब्रह्मपुच्छं प्रतिष्ठा”, “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादि। स्वाज्ञानविजृंभितस्वाविद्यापदतत्कार्यवृक्षस्य स्वज्ञानमात्रोच्छेद्यस्य तदारोपापवादाधिकरणतया अहमहं अस्मत्प्रत्ययभावाभावप्रकाशकपरचिद्धातुर्मूलासूक्ष्मांशासंगान्तर्याम्यात्मना रेरिवा प्रेरयिता स्यां “यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यमयत्येष

त आत्मा” इति श्रुतेः। कीर्तिः ख्यातिः संवित् मम गिरेः पृष्ठमिवोच्छ्रिता। निर्विशेषब्रह्मविज्ञानस्य सर्वोच्छ्रितनिर्विशेषब्रह्मगमकत्वात् सर्वोच्छ्रितत्वमुपपद्यते। सर्वाधिकरणत्वेनोर्ध्वपवित्राधिष्ठेयसम्बन्धवैरल्यात् पवित्रं यन्मम स्वरूपं स्यात् सोऽहमूर्ध्व पवित्रः। वाजमन्नं तद्वति वाजिनि सवितरि यथामृतमात्मतत्त्वं विशुद्धं, तथा स्वसृतं शोभनामृतं विशुद्धतत्त्वमस्मि भवामि “स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः” इति श्रुतेः। तथा प्रत्यगभिन्नं द्रविणं सवर्चसं दीप्तिमत् आत्मतत्त्वं अस्मीत्यनुवर्तते। सर्वज्ञत्वसर्वेश्वरत्वसर्वकारणत्वसर्वप्रकाशकत्व सर्वप्रासत्वादिसुमेधा सम्यज्ज्ञानलक्षणा यस्य सोऽहं सुमेधाः। अत एवाहममृतः अमरणधर्मा अक्षितः अक्षीणः। अमृतेन स्वभावेनोक्षितः अन्वित इति वा अमृतोक्षितः। एवं “अहं वृक्षस्य रेरिवा” इत्यादि त्रिशंकुर्नाम ब्रह्मभावमापन्नेो मुनिः तस्य वेदनं ब्रह्मज्ञानं तदनुभववचनं वेदानुवचनम्। आत्मनः कृतकृत्यताख्यापनार्थ वामदेवादिवत् त्रिशंकुना दृष्ट आम्नायः स्वात्मविद्याप्रकाशकः। “अहं वृक्षस्य” इत्यादिषड्डाक्यजपो विद्योत्पत्स्यर्थः। “ऋतं च” इत्यादिकर्मोपन्यासानन्तरं त्रिशंकु वेदानुवचनपाठात्निष्कामबुद्धयानुष्ठितश्रौतस्मार्तसत्कर्मतो विशुद्धचित्तस्य मुमुक्षोः ब्रह्मविद्या प्रादुर्भवेदित्यवगम्यते। ब्रह्मविद्योत्पत्तेः प्राक् श्रौतस्मार्तानि कर्माणि कर्तव्यान्येव। निष्कामकर्मणां चित्तशुद्धिहेतुत्वात्। विशुद्धचित्तस्य हि विज्ञानमुत्पद्यते। तथा च श्रुतिस्मृती भवतः—

तपसा प्राप्यते सत्त्वं सत्त्वात् संप्राप्यते मनः।
मनसा प्राप्यते त्वात्मा ह्यात्मापत्त्या निवर्तते ॥ इति,

तपसा कल्मषं हन्ति विद्ययामृतमश्नुते।

इति दशमोऽनुवाकः

___________

एकादशोऽनुवाकः

ज्ञानोत्पत्त्यर्थनियमानुशासनम्

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर।स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्॥१॥ देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि। यान्यस्माकँ सुचरितानि। तानि त्वयोपाम्यानि॥२॥नो इतराणि। ये के चास्मच्छ्रेयाँसो ब्राह्मणाः। तेषां त्वयासने न प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धयादेयम्। श्रिया देयम्। ह्रिया देयम्। भिया देयम्। संविदा देयम्। अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्॥३॥ ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्। तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु। ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तेषु वर्तेरन्। तथा तेषु वर्तेथाः। एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एवमुचैतदुपास्यम्॥४॥

उदिते ब्रह्मविज्ञाने न हि किंचित् कर्तव्यमस्ति। विद्योत्पत्त्यन्तरायपरिहाराय “ऋतं च” इत्यादीनि पूर्वमुपदिष्टानि। इह तु ज्ञानोत्पत्तिहेतुत्वेन कर्तव्यनियमजातं आचार्योऽनुशास्तीत्याह—वेदमित्यादिना। आचार्योऽन्तेवासिनं वेदमनूच्य अध्याप्य तद्ग्रहणादनु पश्चात् अनुशास्ति तदर्थं ग्राहयामासेत्यर्थः। कथमनुशास्ति? इत्याह—सत्यमित्यादि। यथाप्रमाणावगतं सत्यं वक्तव्यम्। तथा धर्मंचरस्व धर्मानुष्ठानं यथावदाचरेत्यर्थः। स्वाध्यायात् अध्ययनात् मा ते प्रमादो भवतु। तद्विस्मृतिः ते मास्त्वित्यर्थः। आचार्याय प्रियं धनमाहृत्य दत्वा आचार्येणानुज्ञातः स्वकुलानुरूपां अभिमतकन्यां उद्वाह्य प्रजातन्तुं मा व्यवच्छेत्सीः। यदि प्रतिबन्धवशात् पुत्रो न जायते तदा पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्यः। प्रजाप्रजननप्रजातित्रयनिर्देशात्। किं च—सत्यादिति। सत्यात् न कदापि प्रमदितव्यम्। अनृतं प्रमादशब्दार्थः। विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः। तथा धर्मान्निप्रमदितव्यम्। तत्र धर्माननुष्ठानं प्रमादः। यावत् प्रबोधो जायते तावत् धर्मोऽनुष्ठातव्य एवेत्यर्थः। कुशलात् आत्मरक्षणकर्मणः न प्रमदितव्यम्।भूतिः विभूतिः तस्यै भूत्यर्थात् कर्मणो न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं नियमेन स्वाध्यायप्रवचने कर्तव्ये इत्यर्थः। तथा दैवे पित्र्ये कर्मणि न प्रमदितव्यम्। किं च—मात्रादयो देवा यस्य स त्वं मात्रादिदेवो भव। एते देवतावदुपास्या इत्यर्थः। किं च—शिष्टाचारानुगृहीतत्वेन अनवद्यानि उदाराणि कर्माणि यानि विद्यन्ते तान्येव त्वया सेवितव्यानि। तदितराणि कर्माणि त्वया नो कर्तव्यानि। शिष्टकृतान्यपि सावद्यानि न कार्याणीत्याह—यानीति। श्रुतिस्मृत्यविरोधेन यान्यस्माकमाचार्याणां सुचरितानि तान्येव त्वयोपास्यानि। नो इतराणि। आचार्याणां कृतार्थत्वेन सावद्यकर्माचरणे प्रत्यवायाभावात्। तवाकृतार्थत्वात् तथा त्वया न कर्तव्यानीत्यर्थः। किं च—आचार्यत्वादिधर्मैः ये के चाविशेषिता अस्मत्तः श्रेयांसः प्रशस्यतमाः। ते च ब्राह्मणाः न क्षत्रियादयः। तेषामासनादिना प्रश्वसितव्यम्। तेषां श्रमाः त्वया अपनेतव्या इत्यर्थः। यद्वा—तेषां आसने संगतिनिमित्ते समुदिते

न हि त्वया प्रश्वसितव्यं तन्निकटे प्रश्वासोऽपि न कर्तव्यः। तदुक्तसार ग्राहिणा त्वया तूष्णीं भवितव्यम्। किं च यस्मै कस्मैचित् यत्किचित् यदिदातुमिच्छसि तत् श्रद्धयैव देयम्अश्रद्धया कदाप्यदेयम्। श्रिया संपदर्थय देयम्। मत्तुल्या मदवरा अपि दास्यन्तीति हिया लज्जया वा देयम् पारलौकिकभिया वा देयम्। संवित् मित्रादिकार्यम्। तया वा देयम् एवमादिकर्मानुष्ठाने संशीतिश्चेत् किं कर्तव्यम्? इत्यत आह—अथेति। अथैववर्तमानस्य श्रौते स्मार्ते वा कर्मणि वृत्ते आचरणे यदि कदाचित् विचिकित्ससंशयः स्यात् तदा ये तत्र तद्देशे तत्काले वा ब्राह्मणाः—कर्मादौ युक्त इति व्यवहितेन संबन्धः—सम्मर्शिनो विचारक्षमाः कर्मणि वृत्ते वाचारलक्षणे युक्ताः अभियुक्ताः। आयुक्ताः अपरप्रयुक्ताः। अलूक्षाः अक्रूरमतयः। धर्मकामाः अदृष्टार्थिनः। अकामहता इत्येतत्ते यथा तस्मिन् कर्मणि वृत्ते वा वर्तेरन तथा त्वमपि तत्र वर्तेथाःअथाभ्याख्यातेषु येन केनचिद्दोषेणाभ्याख्याता अभ्युक्ताः तेषु यथोक्तं समुपनयेत्। ये तत्रेत्यादिः उक्तार्थः। “सत्यं वद्” इत्यादि “तथा तेषु वर्तेथाः” इत्यन्तं मुमुक्षुभिरप्रमादेनोपासितव्यमित्युपसंहरति—एष इति। एष आदेशो विधिः। पित्रादीनां पुत्रादिभ्यः एष एवोपदेशः। एतस्य वेदरहस्यार्थत्वात्। एषा वेदोपनिषत् \। एतदेवानुशासनं ईश्वरवचनं आदेशवाच्यस्य विधेरुक्तत्वात्। सर्वप्रमाणानां अनुशासनं एतत्। यत एवं अतः सर्वमुपासितव्यम्। एवमु चैतदुपास्यं उपास्यमेव चैतत्। पुनर्वचनमादरार्थंसाधनप्रश्नसमाफ्त्यर्थंवा॥१-४॥

इत्येकादशोऽनुवाकः

__________

द्वादशोऽनुवाकः

विघ्ननिरासाय शान्तिपाठः

शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्मावादिषम्। ऋतमवादिषम्। सत्यमवादिषम्। तन्मामावीत्। तद्वक्तारमावीत्। आवीन्माम्। आवीद्वक्तारम्॥ ॐ शान्तिः शान्तिः शान्तिः॥

अतीतविद्याप्राप्तिविघ्नोपशमनार्था शान्तिरुक्ता। इदानीं वक्ष्यमाणपरविद्यात्यन्तरायोपशमनार्थं शान्तिरुच्यते—शं नो मित्र इति। अवादिषं उक्तवान्। उक्तार्थमन्यत्।

इति शीक्षावल्लयां द्वादशोऽनुवाकः

इति शीक्षावल्ली

____________

ब्रह्मानन्दवल्ली

प्रथमोऽनुवाकः

शिष्यप्रार्थनम्

ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।

वक्ष्यमाणविद्याप्रतिपाद्यं ब्रह्म यावत् विद्याधिगमः तावदावयोः क्षेम अस्त्विति शिष्यः प्रार्थयति—सह नाविति। वक्ष्यमाणविद्याप्रतिपाद्यं नौ शिष्याचार्यौ सहैवावतु। सह नौ विद्याफलं भुनक्तु भोजयतु। विद्यानिमित्तं वीर्यं सामर्थ्यं करवावहै निर्वर्तयावहै इत्यर्थः। तेजस्वि आवयोः अधीतं स्वधीतमस्तु।ब्रह्मयाथात्म्यज्ञानयोग्यमस्तु आवयोर तेजस्वि वास्तु।आवयोः स्वाध्यायप्रवचननिमित्तं यदि प्रमादकृतापराध विद्वेषो भवेत् तदा तन्मास्त्विति तच्छमनायेयमाशीः प्रार्थना। मा विद्विष मैवेतरेतरविद्वेषं आपद्यावहै। एवमविघ्नेन ब्रह्मविद्याप्राप्तिराशास्यते। वक्ष्यम विद्यावृतिशान्तिः स्यादिति। त्रिर्वचनमादरार्थम्।

ब्रह्मणः सृष्टिक्रमः

ॐ ब्रह्मविदाप्नोति परम्। तदेषाऽभ्युक्ता। सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्नुते सर्वान् कामान् सह। ब्रह्मणा विपश्चितेति। तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यःपृथिवी। पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्।अन्नात्पुरुषः। स वा एष पुरुषोऽन्नरसमयः। तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति॥

नित्यादिकर्माविरुद्धसंहिताविषयोपासनान्युक्तानि। ततो व्याहृतिद्वारेण सोपधिकात्मदर्शनतत्फलस्वाराज्यमभिहितम्। न ह्येतावता स्वातिरिक्तास्तित्वभ्रमनिरासः संभवति। इदानीं निश्शेषतः तन्निरसनार्थं“अहं वृक्षस्य रेरिवा” इत्ययद्व्याविद्धसर्वोपाधिविशेषतया प्रत्यक्तत्त्वं प्रदर्शितं तदेव स्वातिरिक्ताविद्यापद

तत्कार्यापह्नवतो निष्प्रतियोगिकतया ब्रह्ममात्रमवशिष्यते। तज्ज्ञानसमकालं विद्वान् तन्मात्रमवशिष्यत इति च प्रकटयितुं इयं आनन्दवल्ली आरभ्यते—ब्रह्मविदाप्नोति परं इति। स्वातिरिक्तकलनापह्नवतः स्वमात्रतयोपबृंहणात् ब्रह्म \। तत् स्वावशेषतया वेत्तीति ब्रह्मवित् विद्वान्। तद्वेदनसमकालं परं निष्प्रतियोगिकनिर्विशेषं ब्रह्म स्वमात्रमित्याप्नोति। “स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति” इति वेदनसमकालमेव ब्रह्मभावापत्तिश्रुतेः। सर्वस्य वल्ल्यर्थस्य “ब्रह्मविदाप्नोति परम्” इति वाक्यं सूत्रभूतम्। कथं पुनः सूत्रवाक्यसूचितं ब्रह्म स्वमात्रमवशिष्यते स्वातिरिक्तानृतजडदुःखदेशकालवस्तुपरिच्छेदात्! इत्याशंक्य अनृतादिकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमवशिष्यत इत्यर्थे ऋगेषा मानमित्याह—तदिति। तस्मिन् सूत्रभूतब्राह्मणवाक्योक्तेऽर्थे एषा ऋक् अभ्युक्ता तादृशं ब्रह्मास्तीत्याम्नातेत्यर्थः। तत् ब्रह्म कीदृशम्? इत्यत आह—सत्यमिति। नीलं महत् सुगन्धि उत्पलमित्यत्र यथा नीलादिपदत्रयं विशेषणं उत्पलपदं विशेष्यं तथा सत्यादिपदत्रयं विशेषणं ब्रह्मपदं विशेष्यमिति चेन्न ; ब्रह्मणो निर्विशेषसामान्यत्वेन सजातीयविजातीयस्वगतभेदवैरल्यात् न हि विशेषणविशेष्यभावः संभवति। निस्सामान्यविशेषकं “एकमेवाद्वितीयं” इति श्रुतेः।

स्वविशेष्यं सजातीयमात्रात् यद्विनिवर्तकम्।
स्वविशेष्यव्यापकं तद्विशेषणमिति श्रुतम्॥
स्वविशेषणतो यत्तु सजातीयान्निवर्तितम्।
विशेषसामान्ययुक्तं विशेष्यं तन्निगद्यते॥

इति चन्द्रिकानिर्दिष्टविशेषणविशेष्याभावेऽपि,

सजातीयाद्विजातीयाद्व्यावृत्त्यैव स्वलक्ष्यकम्।
तत्र यत् पर्यवसितं तल्लक्षणमितीर्यते॥
स्वलक्षणेन सर्वस्मात् विकाराद्विनिवर्तितम्।
सर्वदैकस्वरूपं यत् तल्लक्ष्यमिति कीर्तितम्॥

इति चन्द्रिकोक्त्यनुरोधेन लक्ष्यलक्षणभावः स्यादिति चेन्न; निष्प्रतियोगिक ब्रह्ममात्रत्वात्। न हि ब्रह्ममात्रे निवर्तनीयप्रवर्तनीयविकारपूगोऽस्ति नास्तीति विभ्रमोऽस्ति। येन लक्ष्यलक्षणभावः सेद्धुं पारयति। तस्मात् विशेषणविशेष्य लक्ष्यलक्षणादिकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रतयावशिष्यत इत्यत्रअग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यं पश्यतेहापि सन्मात्रमसदन्यत् ‘ब्रह्ममात्रमसन्न हि “,

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥
अनाख्यमनभिव्यक्तं सत् किंचिदवशिष्यते।

इत्यादिश्रुतेः। वाक्यार्थस्तु स्वाज्ञादिदृष्टिप्रसक्तानृतप्रपञ्चे सत्यसति यत् सत्तामात्रेणावशिष्यते तत् सत्यं तस्य स्वातिरिक्तानृतप्रपञ्चापह्नवसिद्धत्वात्। सत्तामात्ररूपेण येनकेनाप्यदृष्टत्वात्। एवमभानतो जडं ब्रह्मेत्यत आह—ज्ञानमिति।यत् अनृतापह्नवसिद्धसत्तामात्रेण परमार्थदृशां प्रतिभाति तत् जडापह्नव सिद्धं ज्ञानं उच्यते “विज्ञानमानन्दं ब्रह्म” इति श्रुतेः। न हि यथा दिवाभीतादिदृष्टाहः—प्रपञ्चो ध्वान्तपदं भजति तथा असल्लौकिकादिदृष्ट्यभातसन्मात्रं जडभावं भजति। तस्य निष्प्रतियोगिकाजडमात्रस्वरूपत्वात्।

चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम्।

इति श्रुतेः। यदि ज्ञानं ब्रह्म तदा लौकिकज्ञानवत् अन्तवत् स्यादित्यत आह—अनन्वमिति। लौकिकज्ञानस्य देशकालवस्तुजातपरिच्छिन्नत्वात् ब्रह्मणः परिच्छेदत्रयतद्विषयकज्ञानापह्नवसिद्धत्वात् निष्प्रतियोगिकानन्तत्वं सिद्धमित्यर्थः।
अनृतजडदुःखानां देशकालवस्तूनां भिन्नभिन्नत्वात् तदपह्नवसिद्धब्रह्मापि भिद्यत इति चेन्न; ब्रह्मणो निष्प्रतियोगिकैकरूपत्वात्। अनृतजडदुःखानां देशकालवस्तूनां च स्वातिरिक्तत्वेन निष्प्रतियोगिकाभावरूपत्वात्। तदपह्नवसिद्धब्रह्मणो निष्प्रतियोगिकभावरूपत्वेन पारमार्थिकसत्यरूपत्वात्। यत् पारमार्थिकसत्यत्वेन ज्ञायते तद्धि ज्ञानम्। यत् स्वमात्रतया ज्ञातं तत् परिच्छेदत्रयापह्नवसिद्धं अनन्तम्।

एवमनृतजडदुःखापह्नवसिद्धसत्यज्ञानानन्तब्रह्ममात्रतयोपबृंहणात् ब्रह्मेति वाक्यार्थः। “ब्रह्मविदाप्नोति परम्” इति सूत्रवाक्यगतब्रह्मशब्दार्थो वर्णितः। अथ सूत्रवाक्यस्थविच्छदार्थ उच्यते—यो वेद निहितं गुहायां परमे व्योमन्निति। “ब्रह्मविदाप्नोति परम्” इति सूत्रस्थं ब्रह्म “सत्यं ज्ञानमनन्तं ब्रह्म” इति यथा व्याख्यातं तदेव सच्चिदानन्दमात्रं स्वमात्रमिति यो वेद विजानाति तस्य निष्प्रतियोगिकनिर्विशेषत्वेन तदुपलब्धिः कथम्? इत्यत आह—गुहायामिति। गूहतेः संवरणार्थत्वेन स्वातिरिक्ताविद्यापदतत्कार्यजातगूहनात् गुहा बुद्धिः। तस्यां गुहायां तूलाविद्यारूपायां संवृतत्वेन विकल्पिते परमे प्रकृष्टे व्योमन् व्योम्नि अव्याकृताकाशे तत्र विकल्पितव्यष्टिसमष्ट्यात्मकप्रपञ्चवृत्तिकदम्बभावाभावप्रकाशकतया तदारोपापवादाधिकारतया वस्तुतो निराधारब्रह्ममात्रतया च निहितं उपलब्धं यो वेद इति विच्छब्दार्थो व्याख्यातः। कथं पुनः हृदयावच्छिन्नव्योम्नः परमत्वम्? व्याकृतव्योमापेक्षया अव्याकृतव्योम्नः सूक्ष्मत्वेन व्यापकत्वेन च परमत्वं सिद्धमित्यत्र “एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च” इत्यक्षरसन्निकर्षात्। “यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो यो वै सोऽन्तर्हृदय आकाशः” इति श्रुतिप्रकटितहार्दस्य व्योम्नः परमत्वं सिद्धमित्यर्थः।

यत् स्वाज्ञविकल्पितगुहायां स्वज्ञादिदृष्ट्या प्रत्यक्तदभिन्नतद्भेदैक्यकलनाग्रासब्रह्ममात्रावगतिरुपलभ्यते। न ह्यन्यत्र तादृशप्रदेशान्तरवैरल्यात्तत्र सत्यज्ञानानन्तब्रह्म स्वमात्रमिति विज्ञानतः किं फलम्? इत्यत्र सूत्रवाक्यस्थाप्नोतीति धात्वर्थंव्याचष्टे—स इति। यस्तु गुहायां निहितं अनृतजडदुःखापह्नवसिद्धं स्वमात्रमिति वेद तद्वदनसमकालं सोऽयं विद्वान् ब्रह्मणा विपश्चिता ब्रह्मभूतस्वरूपेण सह युगपत् ग्रसति। न हि प्राकृतवत्। प्राकृतपशुपुत्रस्वर्गान्तकामान् पर्यायेण ग्रसति। युगपत् सर्वापह्नवं करोति। निष्प्रतियोगिकब्रह्ममात्रावगतेः स्वातिरिक्तजाग्रज्जाग्रदादिचतुष्पञ्चदशकलनागोचरकामनापह्नवपूर्वकत्वात् विद्वान् वेदनसमकालं ब्रह्ममात्रमवशिष्यत इति। “ब्रह्मविदाप्नोति परं” इति सूत्रवाक्यं पदचतुष्टयात्मकं “सत्यं ज्ञानम्” इत्यादिवाक्यचतुष्टयेन व्याख्यातम्। एवंविद्वान् कृतकृत्यो भवति।

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुते॥

“तमेवं विद्वांस इहैवामृता भवन्ति” इत्यादिश्रुतेः। इतिशब्दो मन्त्रपरिसमाप्त्यर्थः।

आदौ तावत्“ब्रह्मविदानोति परं” इति ब्राह्मणवाक्येन योऽयसूत्रितः सोऽयं मन्त्रेण संक्षेपतो व्याख्यातः। एतावता ग्रन्थेन शास्त्रार्थस्यचरितत्वात् नातःपरं वक्तव्यमवशिष्यते ब्रह्मणो निरुत्तरत्वात्।

यतो वाचो निवर्तन्ते विकल्पकलनान्विताः।
विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते॥ इति श्रुतेः।

अत्र केचन असल्लौकिकादयः प्रत्यवतिष्ठन्ते—कथं पुनः सत्यज्ञानानन्तात्मकं ब्रह्म स्वमात्रतया निष्प्रतियोगिकमवशिष्यते अदर्शनात्? यत् प्रत्यक्षमवगम्यते तदेव सत्यं “चक्षुषा यत्पश्यति तदेव सत्यम्” इति श्रुतेः यदेवं न दृश्यते तदसत्यमिति सिद्धम्। तस्मात् तथाविधं ब्रह्म नास्तीत्याशंकाय यत् प्रत्यक्षादिप्रमाणं पुरस्कृत्यैतेषां ब्रह्म नास्तीति विपरीतमतिर्जाता तदवष्टभ्तद्भान्तिः परिह्रीयते। तथा हि—यथा दिवान्धदृष्टाहःप्रपञ्चश्चक्षुष्मतां यथा वद्दृश्यते तथा दिवान्धस्थानीयासल्लौकिकाद्यदृष्टं ब्रह्म परमार्थदृशां असल्लौकिकादितद्ग्रहकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रतया दृश्यते। तस्मात् भवदभिप्रेतप्रत्यक्षप्रमाणेनापि ब्रह्मास्ति। कि च यत् व्यष्टिशरीर त्रयमात्रमात्मत्वेन निश्चित्य ब्रह्म नास्तीति मन्यध्वे त्वदात्मभूतशरीरत्रयं यत्कार्यमित्युक्ते वियदादिपञ्चभूतकार्यमित्येव वक्तव्यम्। त्वदुपास्यात्मकारणाकाशादिप्रपञ्चोऽदृष्टदृष्टनष्टात्मकतया विद्यते। तदुपलब्ध्यपेक्षया तत्कारणं ब्रह्मास्तीत्यभ्युपगन्तव्यम्। न हि मृदादिकारणं विना घटादिकार्यमुत्पन्नं दृष्टं लोके। तस्मात् विचित्ररचनाशोभिप्रपञ्चोपलब्धेः तत्कारणं ब्रह्मास्त्येवेत्यनुमानेनापि सिद्धम्। “को ह्येवान्यात् कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति”, “कारणेन विना कार्यंनोदेति” इत्यादिश्रुतेः ब्रह्मणो निष्प्रतियोगिकत्वेन

निरुपमत्वात्। ब्रह्मणो निष्प्रतियोगिकत्वेन सन्मात्रत्वे “अनेजदेकं”, “अन्यदेव तद्विदितादथो अविदितादधि”,

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते?

“पश्यतेहापि सन्मात्रमसदन्यत्”, ब्रह्ममात्रमसन्न हि” सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते तदद्वयं ब्रह्म” इत्यादीशाद्यष्टोत्तरशतवेदान्ता अपि प्रमाणपदं भजन्ते। अतः ब्रह्ममात्रसिद्धिनिरंकुशेत्ययमर्थः पुरोक्तब्राह्मणमन्त्रयोरर्थः सम्यक्प्रपञ्चितः। पुनस्तन्मन्त्रस्य विस्तरेणार्थो वर्णनीय इति उत्तरो ग्रन्थ आरभ्यते—तस्माद्वा इत्यादिना। “सत्यं ज्ञानमनन्तं ब्रह्म” इति मन्त्रादौ अनन्तत्वमभिहितम्। तत्राकाशोऽपि देशतोऽनन्तः। तस्य सर्वदेशपरिच्छेदवैरल्यात् तदेव ब्रह्मेति चेन्न; तस्य देशतः परिच्छेदाभावेऽपि तस्य कार्यत्वेन कालतो वस्तुतश्च परिच्छिन्नत्वात्। न तथा ब्रह्मणः कालतो वस्तुतश्च अन्तवत्त्वम् \। स्वाज्ञदृष्टिप्रसक्तकार्यरूपकालादिकारणत्वात् स्वातिरिक्तवस्त्वन्तराभावाच्च सर्वकारणं ब्रह्म। कार्यापेक्षया कारणस्य वस्तुतोऽन्तवत्त्वमिति चेन्न; कार्यमात्रस्यानृतत्वेनावस्तुत्वात्। न हि कारणव्यतिरेकेण कार्यंनाम वस्त्वस्ति, “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं”, “सदेव सत्यं” इत्यादिश्रुतेः। तस्मान्निरतिशयानन्त्यं ब्रह्मण एव “देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म” इति श्रुतेः। न ह्यसर्वगतात् सर्वगतं किंचिदुत्पद्यते। अत एव निरतिशयसत्यत्वमानन्त्यं ब्रह्मणः सिद्धम। ब्राह्मणवाक्यसूत्रितं ब्रह्म तस्मादिति परामृश्यते। एतस्मादिति सत्यं ज्ञानमनन्तं ब्रह्मेति विवक्षितम्। तस्मादेतस्मात् आत्मशब्दवाच्यात् स्वाज्ञदृष्टिप्रसक्तसर्वात्मकात्। वाशब्दोऽवधारणार्थः “ब्रह्मैवात्मेति सत्यमात्मा ब्रह्मैव ब्रह्मात्मैव” इति श्रुतेः। तस्मादेतस्मात् ब्रह्मणः अजात् स्वाज्ञदृष्ट्या कारणात्मभावमापन्नात् सर्वमूर्तद्रव्याण अवकाशप्रदः शब्दगुणक आकाशो रज्जुसर्पवत् संभूतः। तस्मात् चैतन्यानुस्यूतात् आकाशात् कारणशब्दगुणसहितस्पर्शगुणो वायुः संभूत इत्यनुवर्तते चैतन्याधिष्ठितवायोः सकाशात् स्वकारणगुणाभ्यां सह रूपगुणोऽग्निः संभूतः तथाऽग्नेः स्वकारणत्रिगुणसहितरसगुणवत्य आपः संभूताः। चैतन्याधिष्ठिताद्भ्य

स्वकारणचतुर्गुणसहितगन्धगुणवती पृथिवी संभूता। ततः किं जातम्? इत्यत आह—पृथिव्या इति। पृथिव्याः नानाविधा ओषधयः संभूताः। ओषधीभ्यः तत्तत्प्राणिभोज्यमन्नम्। तस्मात् रेतोरूपेण परिणतात् अन्नात् शिरःपाण्यादिमान् पुरुषः संभूतः। स कीदृशः? इत्यत आह—स वेति। स वा एष पुरुषोऽन्नरसमयः अन्नरसायमानरेतोविकारः। रेतसः तत्तत्पुरुषाकृतिभावितत्वात् “सर्वेभ्योऽङ्गेभ्यः तेजः संभूतं तद्यदा स्त्रियां सिञ्चति अथैनं जनयति तदस्य तृतीयं जन्म” इति श्रुतेः। सर्वजातिषु जायमानानां जनका कृतित्वे अन्नरसविकारवत्त्वे ब्रह्मवंश्यत्वे च अविशिष्टेऽपि कस्मात् राधान्यतः पुरुष एव गृह्यते? इति चेत्तत्र कर्मज्ञानाधिकारित्वात् पुरुषस्यैव प्राधान्यमित्यत्र” पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं इति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौमर्त्येनामृतमीप्सति एवं संपन्नोऽथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानं” इति पुरुषस्यैव प्रधानतावादिश्रुतेः। तादृशपुरुषस्य व्यष्ट्यात्मकतूलाविद्यातत्कार्येषु आत्मविता बुद्धिः प्रत्यगात्मविषया कर्तुमशक्येति असल्लौकिकग्रहशरीरत्रयात्मकल्पनया शाखारुन्धतीन्यायेन अन्तरतमप्रत्यगवगतिद्वारा परमार्थतत्त्वेऽन्तः शियन्नाह—तस्येति। तस्य अन्नरसमयपुरुषस्य इदं परिदृश्यमानं मस्तकमेव रः। पूर्वाभिमुखस्य अयं दक्षिणो बाहुः दक्षिणः पक्षः। अयं सव्यो हुः उत्तरः पक्षः। अयं अङ्गानां मध्यमो भागः आत्मा “मध्यं मङ्गानां आत्मा” इति श्रुतेः। इदमिति नाभेरधस्तात् यदंगं पुच्छं तिष्ठत्यनयैवेति प्रतिष्ठा। गोः पुच्छमिव अधोलम्बनसामान्यात्। एवमुत्तरेषां मियादीनां अशिरःपक्षपुच्छानामपि मूषानिषिक्तद्रुतताम्रादिप्रतिमावत् रूपत्रसिद्भिः स्यादित्यस्मिन्नर्थे ब्राह्मणोक्ते अन्नमयप्रकाशक एष श्लोको मन्त्रो इतीन्याह—तदप्येष श्लोको भवतीति।

इति प्रथमोऽनुवाकः

____________

द्वितीयोऽनुवाकः

अन्नब्रह्मोपासनम्

अन्नाद्वै प्रजाः प्रजायन्ते। याः काश्च पृथिवीँश्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपि यन्त्यन्ततः। अन्न‍ँहि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते। सर्वं वै तेऽन्नमाप्नुवन्ति। येऽन्नं ब्रह्मोपासते। अन्नँहि भूतानां ज्येष्ठम्। तस्मात्सर्वैषधमुच्यते। अन्नाद्भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति। तस्माद्वा एतस्मादन्नरसमयात्। अन्योऽन्तर आत्मा प्राणमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा। पृथिवी पृच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥

कथम्? इत्यत आह—अन्नादिति। रसादिभावमापन्नात् अन्नात् स्थावरजङ्गमरूपाः प्रजाः प्रजायन्ते। वैशब्दः तत्स्मरणार्थः। याः काश्च विशिष्टाः प्रजाः पृथिवीं श्रिता आश्रिताः ताः सर्वा अन्नादेव जायन्ते। अथो अपि एवं जाताः प्रजाः अन्नेनैव जीवन्ति प्राणान् धारयन्तीत्यर्थः। भोगक्षयादथाप्येनदन्नं अपि यन्ति अन्नं प्रति लीयन्त इत्यर्थः। अन्ततो जीवनपरिसमाप्तितः अन्नमयादीनामितरेषां भूतानां अन्नमेव हि ज्येष्टं तस्य प्रथमजत्वात्। यत एवमतः सर्वाः प्रजाः अन्नजा अन्नजीवनाः अन्नमात्रपर्यवसन्नाः। यस्मादेवं तस्मात् सर्वप्राणिदाहप्रशमनमन्नं औषधमुच्यते। अन्नब्रह्मविदः फलमाचष्टे—सर्वमिति। येऽन्नं ब्रह्मेत्युपासते ते सर्वान्नभावमाप्नुवन्ति। यस्मात् जन्मस्थितिभङ्गहेतुरन्नं तस्मादन्नं ब्रह्मैवास्मि। कथं पुनः सर्वान्नप्राप्तिः? अन्नात्मोपासनात्। अन्नस्य भूतेभ्यः पूर्वनिष्पन्नत्वात्

अन्नमेव भूतानां ज्येष्ठं हि यस्मात् तस्मात् सर्वौषधमुच्यते। तस्मात् अन्नात्मोपासकस्य सर्वान्नप्राप्त्युपपत्तिः। अन्नात् भूतानि जायन्ते। जातान्यनेन वर्धन्ते इति पुनर्वचनं उपसंहारार्थम्। इदानीं अन्नपदं व्युत्पादयति—अद्यते इति। यस्मात् भूतैरद्यते भूतान्यत्ति चेति तस्मात् अन्नं तदुच्यत इति। इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः।

अन्नमयाद्यानन्दमयान्तकोशान्तेभ्य आत्मम्यः तद्भावाभावप्रकाशकप्रत्यग्रूपेणान्तरतमं ब्रह्म अनेककञ्चुकविशिष्टकोद्रववितुषीकरणतः तण्डुलनिष्पत्तिवत् निदर्शयति—तस्मादिति। तस्मात् एतस्मात् यथोक्तात् पिण्डभूतान्नरसमयात् अन्योऽन्तर आत्मा अन्नकोशविलक्षणत्वात् पिण्डवत् मिथ्यात्वेन परिकल्पितः। प्राणमयः प्राणवायुविकार : अन्नमयात् अन्तर इत्यर्थः। तेन प्राणमयेन एषॊऽन्नरसमय आत्मा वायुना पूरितभस्त्रिव पूर्णः। स वा एष प्राणमय आत्मा शिरःपक्षपुच्छादिभिः पुरुषविध एव। किं स्वतः! तत्राह—अन्विति। प्रसिद्धं? तावदन्नमयस्य पुरुषविधत्वम्। तदनुसृत्यायं प्राणमयो मूषानिषिक्तप्रतिमावत् पुरुषविधतामर्हति न स्वत इत्यर्थः। एवं पूर्वपूर्वस्य पुरुषविधतामनुसृत्य उत्तरोत्तरकोशात्मनां पुरुषविधत्वम्। तथा पूर्वपूर्वस्तूत्तरोत्तरेण पूर्णः। प्रकृते प्राणमयस्य पुरुषविधतामाह—तस्येति। तस्य प्राणमयस्य प्राण एव शिरः। मुखनासिका निस्सरणो वृत्तिविशेषः शिर इति परिकल्प्यते। श्रुतिवचनादेव पक्षादिकल्पनापि युज्यते। सर्वशरीरालयव्यानवृत्तिः दक्षिणः पक्षः। गुदालयापानवृत्तिः उत्तरः पक्षः। आकाशशब्देन नाभ्याकाशस्थसमानवायुरुच्यते। स एवात्मा समानस्य मध्यस्थत्वात् आत्मत्वम्। “मध्यं ह्येषामंगानामात्मा” इति श्रुतिप्रसिद्धेः। पृथिवी पुच्छं प्रतिष्ठा आध्यात्मिकप्राणस्थितिहेतुत्वात् “सैषा पुरुषस्यापानमवष्टभ्य” इति श्रुतेः। अन्यथा शरीरस्य गुरुत्वात् उदानवृत्त्या ऊर्ध्वाकर्षणतः पतनं स्यात्। तस्मात् प्राणमयस्य पृथिवी देवता पुच्छं प्रतिष्ठेति युज्यते। तस्मिन्नुक्तार्थे एष श्लोको मन्त्रो भवतीत्याह—तदप्येष श्लोको भवति इति।

इति द्वितीयोऽनुवाकः

___________

तृतीयोऽनुवाकः

प्राणमयमनोमयकोशविवरणम्

प्राणं देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यते। सर्वमेव त आयुर्यन्ति। ये प्राणं ब्रह्मोपासते। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यत इति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मात्प्राणमयात्। अन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य यजुरेव शिरः। ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति॥

अग्नयादयो देवा अध्यात्माधिकारात् देवा इन्द्रियाणि। तथा ये मनुष्याः पशवश्च ते प्राणं प्राणनशक्तिमन्तं मुख्यप्राणं वा अन्तर्यामिणं अनु अनुसृत्य तदात्मभूतास्सन्तः प्राणन्ति प्राणनक्रियया क्रियावन्तो भवन्ति। न हि परिच्छिन्नान्नमयेनात्मवन्तः प्राणिनो भवन्ति। किन्तु तदन्तर्गतप्राणमयेनान्नमयव्यापिनात्मवन्तो मनुष्यादयः। एवं मनोमयादिभिः पूर्वपूर्वं व्यापिभिः उत्तरोत्तरतः सूक्ष्मैः स्वाविद्याकार्याकाशादिभूतारब्धैः अन्नमयान्तैः सर्वे प्राणिन आत्मवन्तो भवन्ति। यथा अनेककञ्चुकान्वितः कोद्रवः सम्यगवघाततः तण्डुलावशिष्टो भवति तथा कञ्चुकस्थानीयपञ्चकोशापवादतदधिकरणहेयांशापह्नवतो ब्रह्ममात्रमवशिष्यत इत्यर्थादुक्तं भवति। “प्राणं देवा अनु प्राणन्ति” इत्युक्तं, तत् कथम्? इत्यत आह—प्राणो हीति। हि यस्मात् भूतानां

प्राणिनां प्राण एवायुः जीवनं “यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः”इत्यादिश्रुतेः। तस्मात् सर्वेषां आयुरेव सर्वायुषमुच्यते। प्रसिद्धं हि लोके प्राणस्य सर्वायुषत्वम्। प्राणापगमतो मरणप्रसिद्धेः। अतोऽन्नमयात्मानमपोह्यतदन्तरं प्राणमयात्मानं अहमस्मीति य उपासते प्राणस्य सर्वप्राण्यायुःस्वरूपत्वेन तदुपासनया अस्मिन् लोके ते सर्वमेव आयुर्यन्ति। न हि प्राक् प्राप्तादायुषः अपमृत्युना म्रियन्ते “शतायुः पुरुषः शतेन्द्रियः” इति श्रुतेः। तत् कथंप्राणो हि भूतानामायुः। तस्मात् सर्वायुषमुच्यते इति पुनर्वचनम्? यो यद्गुणकं ब्रह्मोपास्ते स तद्गुणभाक् भवतीति हेत्वर्थम्। पूर्वस्यान्नमयस्य शरीरे भवः शारीरः आत्मा इत्येवं प्राणमयकोशो व्याख्यातः। अथ मनोमयकोशं विवृणोति—तस्मादिति। तस्माद्वा एतस्मात्प्राणमयात्। अन्योऽन्तर आत्मा इत्यर्थो व्याख्यातः। सङ्कल्पादिवृत्तिमत् अन्तःकरणं मनः। तन्मयो मनोमयः। यथा अन्नमयान्तरात्मा प्राणमयः तथा प्राणमयान्तरात्मा मनोमयः। सङ्कल्पादिवृत्तिप्राचुर्यात् तस्य मनोमयस्य यजुरेव शिरः। यजुश्शब्देनानियताक्षरपदावसानो मन्त्रविशेषः। मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषयसङ्कल्पात्मिका वृत्तिः श्रोत्रादिकरणद्वारा यजुस्संकेतविशिष्टा सती यजुरित्यभिधीयते। यजुषस्तावत् यागादौ सन्निपत्योपकारकत्वात्। स्वाहाकारवषट्कारादिना यजुषा हीह हविर्दीयते। अतः प्राधान्यात् शिरस्त्वं युक्तम्। एवं ऋग्दक्षिणः पक्षः।सामोत्तरः पक्षः। एवमुक्सामयोरपि मानसवृत्तित्वेनावर्तनीयत्वात् मानसो जप उपपद्यते। नो चेदविषयत्वात् घटादिवत् मन्त्रो नावर्तयितुं शक्यते। एवं चेत् मानसो जपो नोपपद्यते। कर्मसु तावत् बहुलं मन्त्रावृत्तिश्चोद्यते। अक्षरविषयस्मृत्या मन्त्रावृत्तिः भवेत् इत्यत्र गौण्या वृत्त्या। एवमपि मुख्यार्थस्यासंभवात् “त्रिः प्रथमामन्वाह। त्रिरुत्तमाम्” इति ऋगावृत्तिः श्रूयते। तस्मात् मनोवृत्त्युपाधिपरिच्छिन्नात्मविज्ञानं मन्त्र इत्युच्यते। एवं चेत् वेदानां नित्यत्वमुपपद्यते। “सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा” इति श्रुतेः। कृत्स्नवेदस्य नित्यात्मना एकत्वमुपपद्यते “ऋचो अक्षरे परमे व्योमन्। यस्मिन् देवा अधि विश्वे

निषेदुः” इति मन्त्रवर्णात्। कृत्स्नवेदप्रकाशितोऽर्थ एवात्रादेशः। स ह्यात्मा आत्मनो वेदार्थत्वात्।

वेदार्थः परमाद्वैतं नेतरत् सुरपुङ्गवाः।

इति स्मृतेः। अथर्वणा अङ्गिरसा दृष्टा मन्त्राः शान्तिकपौष्टिकवश्याकर्षणादयः षट्कर्मप्रधाना अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा॥

इति तृतीयोऽनुवाकः

______________

चतुर्थोऽनुवाकः

विज्ञानमयकोश विवरणम्

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कदाचनेति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मान्मनोमयात्। अन्योऽन्तर आत्मा विज्ञानमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः। ऋतं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति॥

पूर्ववत् मनोमयात्मप्रकाशक एष श्लोको मन्त्रो भवतीत्याह—यत इति। यतो ब्रह्मणः सकाशात् मनसा सह वाचो निवर्तन्ते तदप्राप्येत्यर्थः। यत् ब्रह्मण आनन्दं ब्रह्मानन्दं स्वमात्रमिति विद्वान् न बिभेति कदाचन भयहेतुः स्वातिरिक्तवैरल्यादित्येवमज्ञानविकल्पितं यन्मनः तन्मयो मनोमयः।

एष एव पूर्वस्य प्राणमयस्य शरीरे भवः शारीरः आत्मा। तस्माद्वा एतस्मात् इत्यादि पूर्ववत्। मनोमयकोशो व्याख्यातः। अथ विज्ञानमयकोशं विवृणोति—वेदात्मा मनोमयः। वेदार्थविषया निश्चयात्मिका अध्यवसायलक्षणा बुद्धिर्ज्ञानम्। प्रमाणभूतनिश्चयविज्ञाननिर्वर्तित आत्मा विज्ञानमयः। मनोमयादन्योऽन्तरात्मा विज्ञानमयः। तेनैष इत्यादिरुक्तार्थः। प्रमाणविज्ञानपूर्वकं हि यज्ञादिस्स्तूयते। वक्ष्यति हि श्लोकेन यज्ञादिहेतुत्वं “विज्ञानं यज्ञं तनुते” इति। कर्तव्यविषयनिश्चयविज्ञानवतो हि श्रद्धोत्पद्यते। तस्याः प्राथम्यात् शिरस्त्वम्। पुरा व्याख्याते ऋतसत्ये दक्षिणोत्तरपक्षौ भवतः। योगो युक्तिः समाधानं आत्मैवात्मा आत्मवतो हि युक्तियुक्तस्य श्रद्धादीनि प्रतिपत्तिक्षमाणि भवन्ति। तस्मात् विज्ञानमयस्य योग एवात्मा। “महद्यक्षं प्रथमजं वेद” इति श्रुत्यनुरोधेन महत् महत्तत्वं पुच्छं प्रतिष्ठा। महतो बुद्ध्यादिकारणत्वात्। तयप्येष श्लोको भवति इति पूर्ववत्।

इति चतुर्थोऽनुवाकः

__________

पञ्चमोऽनुवाकः

आनन्दमयकोशविवरणम्

विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च। विज्ञानं देवाः सर्वे। ब्रह्म ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्वेद। तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हित्वा। सर्वान्कामान्समश्नुत इति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्मानन्दमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्।अन्वयं पुरुषविधः।

तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति \।\।

कोऽयं श्लोकः? इत्यत आह—विज्ञानमिति। विज्ञानं विज्ञानवान् विज्ञं श्रद्धादिपूर्वकं तनुते तनोति। अतो विज्ञानकर्तृत्वं तनोतेः कर्त्रर्थकत्ययान्तत्वात्। यज्ञाङ्गकर्माणि तनुतेऽपि चेति। यस्मात् विज्ञानकर्तत्वं सर्वंतस्मात् विज्ञानमय आत्मा स्वगतोपाधिवैरल्यात् ब्रह्मेति युक्तम्। किं च विज्ञानं प्रथमजं सर्वे इन्द्रादयो देवाः सर्वप्रवृत्तीनां विज्ञानपूर्वकत्वेन तदेव ब्रह्म ज्येष्ठं हिरण्यगर्भमित्युपासते। विज्ञानमयस्य वस्तुतो ब्रह्मत्वात् तदुपासनमुचितमित्यर्थः। तस्मात् विज्ञानोपासनात् ज्ञानवैराग्यैश्वर्यवन्तो भवन्ति। विज्ञानं ब्रह्मेति वेद चेत् यदि तस्मात् विज्ञानमयात् अन्नमयादिकोशत्रये त्वात्मभावतो न प्रमाद्यति। अन्नमयादिष्वात्मभावं हित्वा विज्ञानमये ब्रह्मणि आत्मभावनया युक्तश्चेत् तदा शरीराभिमाननिमित्ता हि सर्वे पाप्मानः।शरीर एव हित्वा विज्ञानमयप्रभवान् सर्वान् कामान् विज्ञानमयेनैव आत्मना समश्नुते। स्वपूर्वस्य तस्य मनोमयस्य शरीरे भवः एष एव विज्ञानमयः शारीर आत्मेति विज्ञानमयकोशो व्याख्यातः। अथ आनन्दमयकोशं विवृणोति—तस्मादित्यादिना। तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्मानन्दमयः इत्यत्र मयड्विकारार्थे। तस्य कार्यात्मप्रतीतेः कोशानां भौतिकत्वाविशेषात्। तस्मादानन्दमयोऽपि कार्यात्मत्वेन प्रत्येतव्यः। “एतमन्नमयमात्मानमुपसंक्रामति एतमानन्दमयमात्मानमुपसंक्रामति” इति वक्ष्यमाणानुरोधेन संक्रमणस्य तुल्यत्वात्। कार्यादिसामान्यस्यानादित्वेन संक्रमणकर्मत्वेन च आनन्दमयः श्रूयते। न हि मुख्यात्मनः संक्रमणं सेद्धुं पारयति असंभवात्। न हि स्वेनैव स्वसंक्रमणमुपपद्यते, कर्मकर्तृभेदवैरल्यात् शिरआदिकल्पनानुपपत्तेश्च। न ह्याकाशादिसर्वकारणे वस्तुतः कार्यकारणकलनापह्नवसिद्धब्रह्ममात्रे शिरआद्यवयवकल्पना न्याय्या “अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने”, “अशब्दमस्पर्शमरूपमव्ययं”, “अस्थूलमनण्वह्रस्वमदीर्घं”,

“निरवयवं निराकारं”, “नेति नेति” इत्यादिविशेषापह्नवश्रुतेः। “तदप्येष श्लोको भवति” इति मन्त्रोदाहरणानुपपत्तेश्च। प्रियशिरस्त्वाद्यवयवविशिष्ट आनन्दमयात्मनि नास्ति ब्रह्मेत्याशंका नोपपद्यते। “असन्नेव स भवति” इत्यादि तस्य प्रत्यक्षतोऽनुभूयमानत्वात्। आनन्दमयस्यैव ब्रह्मत्वे “ब्रह्मपुच्छं प्रतिष्ठा” इति प्रतिष्ठात्वेन पृथग्ग्रहणं अनुपपन्नम्। तस्मात् कार्यमध्यपतित एवानन्दमयः परं ब्रह्म न हि भवितुमर्हति। विद्याकर्मणोः फलं ह्यानन्दः। तद्विकार आनन्दमयः। तस्य यज्ञादिहेतोः स च विज्ञानमयादन्तरः विद्याकर्मफलभूतः। प्रियादिप्रयुक्ते हि विद्याकर्मणी। तस्मात् प्रियादिफल भूतात्मसन्निकर्षात् विज्ञानमयात् अस्याभ्यन्तरत्वमुपपद्यते। प्रियादिवासनानिवृत्त ह्यानन्दमय एव विज्ञानमयत्वमवलम्ब्य इष्टपुत्रादिदर्शनं स्वप्ने उपलभ्यत इति यत् तद्धि प्रियम्। प्राधान्यात् तदेव शिर इव शिरः। प्रियलाभनिमित्तहर्षं एव मोदः। अस्य दक्षिणः पक्षः। स एव प्रकृष्टश्चेत् प्रमोदः उत्तरः पक्षः आनन्दशब्देन सुखसामान्यात्मा उच्यते। प्रियादिसुखावयवानामात्मन्यनुस्यूतत्वात् आनन्दात्मा ब्रह्मैव। तद्धि स्वदेहदारपुत्रधनक्षेत्राहंममाभिमतितमसा वृतं सद्वैषयिकसुखं भवति तदुपाधेरनवस्थितत्वात्। तदवच्छिन्नसुखस्यक्षणिकत्वात्।तद्यदावरणं निष्कामकर्मानुष्ठानजनितचित्तशुद्धिसहकृतसाधनचतुष्टय संपत्त्यासादितपारमहंस्यधर्मपूगवदनुष्ठितवेदान्तश्रवणादिजनितसम्यज्ज्ञानासिना विशीर्णंभवति तदा ब्रह्मसुखरसो निरावृततया उपलभ्यते। विद्वान् तदुपलब्धि समकालं तन्मयो भवतीत्यत्र वक्ष्यति। “रसो वै सः। रसं ह्येवायं लब्ध्वानन्द भवति” इति, “एष ह्येवानन्दयाति, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति श्रुत्यन्तरात्। एवं च तत्तद्विषयगतकामक्षयापेक्षय शतगुणोत्कर्षतः परमानन्दोऽवशिष्यते। सोऽयमानन्दः परं ब्रह्मैव। यत् प्रकृतं “सत्यं ज्ञानमनन्तं ब्रह्म” इति मन्त्रादौ यत्प्रतिपत्त्यर्थं सोपानक्रमेणान्नमयादिपञ्चकोशा उपन्यस्ताः यत्तेभ्योऽन्तरतमं येनान्नमयादय आत्मवन्ते भवन्ति यत् वस्तुतः एतत्सर्वकलनापह्नवसिद्धं तदेव ब्रह्म पुच्छं प्रतिष्ठा यदज्ञानतो व्यष्टिसमष्ट्यात्मकान्नमयाद्यानन्दमयकोशान्ताविद्यापदतत्कार्यजातं विजृं-

भितं यज्ज्ञानसमकालं एतदपह्नवतामर्हति ततो निष्प्रतियोगिकब्रह्ममात्रोपब्रह्मणात् ब्रह्म।

ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते।

इति श्रुतेः। निष्प्रतियोगिकविपुलाच्छप्रकाशमात्रं पुच्छमुच्यते। एवंरूपा या चित् स्वातिरिक्तपञ्चकोशतत्कार्यभ्रमे सत्यसति स्वमात्रतया प्रतितिष्ठति मा चित् प्रतिष्ठा। “अभयं प्रतिष्ठां विन्दते”,

प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः।

इति श्रुतेः,

तदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम्।

इति स्मृतेश्च।

इति पञ्चमोऽनुवाकः

______________

षष्ठोऽनुवाकः

ब्रह्मणो जगत्सृष्टिस्तदनुप्रवेशश्च

असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य। कश्च न गच्छती ३। आहो विद्वानमुं लोकं प्रेत्य। कश्चित्समश्नुता ३ उ। सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तत्वा। इदँसर्वमसृजत। यदिदं किंच। तत्सृष्ट्वा।

तदेवानुप्राविशत्। तदनुप्रविश्य। सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च। विज्ञानं चाविज्ञानं च। सत्यं चानृतं च। सत्यमभवत्। यदिदं किंच। तत्सत्यमित्याचक्षते। तदप्येष श्लोको भवति॥

एतादृशं पुच्छप्रतिष्ठारूपं ब्रह्म अस्तीत्यस्मिन्नर्थेऽप्येष श्लोको मन्त्रो भवति—असन्नेवेति। “सन्मात्रमसदन्यत्” इति श्रुत्यनुरोधेन स्वातिरिक्तसर्वापह्नवसि सन्मात्रं ब्रह्म असत् अविद्यमानमिति वेद चेत् यद्यदविद्यमानं ब्रह्म यो विजानाति तदा सोऽयमविद्वान् असन्नेव अविद्यमानात्मैव भवति स्वयम अभावपदं भजतीत्यर्थः। तद्विपर्ययेणासदपह्नवसिद्धं सन्मात्रं ब्रह्म स्वावशेषधि अस्तीति वेद चेत् तदा ब्रह्मविद्वरीयांस एवंविदमेनं सर्वापह्नवसिद्धब्रह्ममात्रत सन्तं वर्तमानं विदुः। ततः तस्मात् एवं अस्तित्ववेदनात् सोऽयं ब्रह्मविद्वरि ब्रह्मविद्विज्ञेयो भवतीत्यर्थः। यद्वा—यो ब्रह्म नास्तीति मन्यते स हि ब्रह्मप्रत्युपायभूतनित्यादिकर्मतज्जसत्त्वशुद्धितन्निष्पन्नसाधनचतुष्टयतद्भूषणपारमहंस्यधर्मादि सत्सेवनीयमार्गस्यापि नास्तित्वं प्रतिपद्यते। तत्प्रात्युपायानां तत्प्रतिपत्त्यर्थत्वात् अतः सोऽयं लोके नास्तिकोऽसाधुरुच्यते। तद्वैपरीत्येन योऽस्ति ब्रह्मेति चेद्वेवतदा तत्प्रतिपत्तिहेतुवर्णाश्रमधर्मादिकमप्यस्तित्वेन प्रतिपद्यते। ततः तस्मात् साधवसन्तमेनं विदुः। तस्मादस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः। यः पूर्वस्यविज्ञानमयस्य शरीरे भवः शारीरः। य एष आनन्दमयः तस्य स्वाज्ञदृष्ट्यनुभूति प्रमाणात्तद्दृष्ट्या स नास्तीति शंका न युज्यते। ब्रह्मणः तत्सर्वापह्नवसिद्धत्वात् स्वाज्ञानां तन्नास्तित्वं प्रत्याशंका युक्ता। यस्मात् एवं तस्मात्। अथाऽनन्त श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्तिमनूद्य प्रश्नाः अनुप्रश्नाः सामान्याः सामान्यं हि सर्वकोशापह्नवसिद्धं ब्रह्म विदुषोऽविदुषश्चापि समानम्। तस्मात् विदुष इवाविदुषोऽपि ब्रह्मप्राप्तिः शंक्यते—उतेति। उत कश्चनाप्यविद्वान्विद्वानिव परमात्मानं इतः पञ्चकोशास्तित्वाभिमानात् प्रेत्य प्रावृत्य गच्छतिप्राप्नोति। किं वा न गच्छति? इति द्वितीयः प्रश्नो ज्ञातव्यः, अनुप्रश्ना इति

बहुवचनात्। विद्वांसं प्रत्यन्यौ प्रश्नौ स्यातामिति द्योत्यत इत्याह—आहो इति। सर्वसामान्यमपि ब्रह्म यथाविद्वान् न गच्छति तथा विद्वानपि कश्चित् स्वातिरिक्तास्तिताभ्रान्त्यपह्नवसिद्धं अमुंलोकं ब्रह्ममात्रं इतः प्रेत्य समश्नुते, इत्येवं स्थिते अयादेशे यलोपे च कृते अकारस्य प्लुतिः समश्नुता ३ उ इति। विद्वानप्यमुं लोकं न समश्नुते इत्यपरः प्रश्नः। यद्वा—द्वावेव प्रश्नौ विद्वदविद्वद्विषयौ। बहुवचनन्तु प्रश्नान्तरापेक्षया। “असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद” इति श्रवणादस्ति नास्तीति प्रथमोऽनुप्रश्नः ब्रह्मणस्त्वपक्षपातित्वात्। अविद्वान् गच्छति नवेति द्वितीयोऽनुप्रश्नः। आहोस्वित् ब्रह्मणः समत्वेन अविद्वानिव विद्वानपि न गच्छति। किं वा विद्वान् समश्नुते? इति तृतीयोऽनुप्रश्नः। एतेषां प्रश्नानां प्रतिवचनार्थंउत्तरो ग्रन्थ आरभ्यते—सोऽकामयतेति। ननु “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यत्र सत्यत्वं कथम्? इत्याशंक्य ब्रह्मणः सर्वकारणत्वेन विद्यमानत्वात् सत्यत्वं निरंकुशम्। वक्ष्यति च “तत्सत्यमित्याचक्षते” इति। एतदर्थानुरोधेनोत्तरत्र वाक्यानि दृश्यन्ते “यदेष आकाश आनन्दो न स्यात्” इत्यादीनि। तिष्ठन्त्वेतादृशवाक्यानि। लोके तावद्यदस्ति तत् घटादिवद्विशेषतो गृह्यते। यन्नास्ति शशविषाणवत् तन्नोपलभ्यते। तस्मात् ब्रह्मणोऽपि विशेषतोऽग्रहणात् ब्रह्म नास्तीति चेन्न; ‘ब्रह्मणस्तावदाकाशादिकारणत्वात् नास्ति ब्रह्मेति न हि शक्यं वक्तुम्।ब्रह्मकार्यत्वेन विपदादिप्रपञ्च दृश्यते यथा घटाङ्कुरादिकं मृद्बीजादिकार्यम्। यस्मात् यज्जायते तत्कारणमस्तीत्यंगीकार्यम्। तस्मात् परिदृश्यमानाकाशादिकारणं ब्रह्मास्त्येव। न ह्यसज्जातं किंचिदपि सत्त्वेनोपलभ्यते। तस्मादस्ति ब्रह्म। यदि हि मृद्वीजादिवत् कारणं स्यात् तदाचेतनं ब्रह्मेति चेन्न; कामयितृत्वश्रवणात्। न ह्यचेतनं कामयितृ भवति। स्वाज्ञविकल्पितमूलाविद्याबीजांशासंगब्रह्मणः सर्वज्ञत्वेन कामयितृत्वोपपत्तेः। ब्रह्मणः कामयितृत्वे अस्मदादितुल्यता स्यात् इति चेन्न; तस्य निरंकुशस्वतन्त्रत्वात्। न हि कामास्तं वशीकृत्य प्रवर्तयितुं पारयन्ति तत्कामान स्वात्मभूतत्वेन सत्यज्ञानानन्दस्वरूपत्वात्। न हि तैः ब्रह्म प्रवर्त्यते। किन्तु स्वाज्ञविकल्पितकामजातप्रवृत्तिनिमित्तत्वमपि प्राणिकर्मापेक्षम्। तस्मात् नानाप्त-

कामं ब्रह्म। यथान्येषां अनात्मावृतदृष्टित्वेनस्वातिरिक्तकार्यकारणधर्माधर्मनिमित्तसाधनान्तरापेक्षा भवेयुः, न तथा ब्रह्मणो निमित्ताद्यपेक्षत्वं प्राण्यदृष्टानुरोधेन कामयितृत्वं स्यादित्याह—स इति। “सबाह्याभ्यन्तरो ह्यजः” इति श्रुत्यनुरोधेन निष्प्रतियोगिकाजरूपेणात्मा विजृंभते। स्वाज्ञदृष्ट्या यस्मात् अजात् आत्मनः गगनारविन्दवत् अव्यक्तादिस्थावरान्तं जगदाविर्भूतं सोऽयमात्मा बहु स्यां बहुप्रकारेण प्रजायेय उत्पद्येय इत्यकामयत। “एको देवो बहुधा निविष्टः” इति श्रुतेः। पुत्राद्युत्पत्तिवत् बहुभवनं अर्थान्तरमिति चेन्न; उत्पत्स्यमानस्वातिरिक्तपदार्थस्य स्वाभिन्नत्वात् नार्थान्तरं—

स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः।

इति श्रुतेः। कथं पुनः ब्रह्मणो बहुभवनम्? अनभिव्यक्तनामरूपप्रपञ्चस्य नामरूपाभिव्यक्ततया व्याकरणं बहुभवनमुच्यते। न ह्यन्यथा निरंशस्य बहुत्वापत्तिः परिच्छिन्नत्वं वा उपपद्यते। यथा व्योम्नः परिच्छिन्नत्वं बहुत्वं वोपाधिकृतं तथा ब्रह्मण इत्यर्थः। न ह्यात्मातिरेकेण नात्मभूतं वस्तु क्षणमपि स्थातुं पारयति वस्तुतः आत्ममात्रत्वात्।

आत्ममात्रमिदं सर्वं आत्मनोऽन्यन्न किञ्चन।

इति श्रुतेः। नामरूपप्रपञ्चे ब्रह्मात्मके। न तद्ब्रह्म तदात्मकम्। वस्तुतो नामरूपे न स्तः। स्वाज्ञविकल्पितनामरूपाभ्यां ज्ञात्रादित्रिपुटीरूपेण एतत्सर्वंव्यवहारार्हं भवति। तथा व्यावहारिकदृष्ट्या सोऽयमात्मा विज्ञानरूपं तपोऽतप्यत “यस्य ज्ञानमयं तपः” इति श्रुतेः। सृज्यमानविश्वविषयकालोचनं कृतवानित्यर्थः। सोऽयमीश्वरः एवं तपस्तप्त्वा प्राणिकर्मानुरोधेन स्रष्टव्यविश्वालोचनं कृत्वा अथ यदिदं किंच यत्किञ्चेदमवशिष्टं जगत् सृष्ट्वापुनः स्वसृष्टं जगदनुप्राविशत्। कथमेतद्ब्रह्म स्वसृष्टजगति वदने हस्तवत् बिले पिपीलिकावच्च प्राविशत्? यदि तदा मूर्तत्वं स्यादिति चेन्न; अनुप्रवेशवाक्यस्यान्यार्थत्वात्। “ब्रह्मविदाप्नोति परं” इति सूत्रस्थविच्छब्दार्थो “यो वेद निहितं गुहायां” इति मन्त्रेण वर्णितः। तद्वृत्त्यर्थत्वादनुप्रवेशवाक्यस्य तद्विज्ञानमेवात्र प्रकृतं तदधिगमार्थम्।अन्न-

शब्देन स्वाविद्यापदस्थूलांश उक्तः। मयशब्देन तदवच्छिन्नात्मा विराडभिहितः। एतद्विशिष्टं अन्नमयकोश इत्युच्यते। कर्मेन्द्रियपञ्चकेन प्राणादिपञ्चकं मनोमयकोशः। बुद्धिश्च ज्ञानेन्द्रियपञ्चकं च विज्ञानमयकोशः। एतत् कोशत्रयं स्वाविद्यापदसूक्ष्मांश उच्यते। तदवच्छिन्नात्मा सूत्रात्मेत्यभिहितः। स्वाविद्यापदबीजांशायमानकारणशरीरमानन्दमयकोशः। तदवच्छिन्नात्मा बीजात्मोच्यते। स्वाविद्यापदतुर्याशो अर्धमात्रात्मकः। तत्राप्यसंगात्मा व्यष्टिसमष्टिसाक्षीत्युच्यते। “स आनन्द आत्मा” इति श्रुत्या प्रदर्शित इत्यर्थः। “ब्रह्म पुच्छं प्रतिष्ठा” इति वाक्येन स्वाविद्यापदस्थूलादिचतुरंशाढ्यपञ्चमकोशतदवच्छिन्नचैतन्यानुगतहेयांशापह्नवसिद्धं ब्रह्ममात्रं निष्प्रतियोगिकमवशिष्यत इति यत् तदेव विज्ञानमय गुहायां अधिगन्तव्यं नान्यत्रेति प्रवेशः कल्प्यते निर्विशेषत्वात्। विशेषसंबन्धेऽपि गुहायां निर्विशेषतया उपलभ्यते। यथा चन्द्रार्कविशेषसंबन्धादाह्वाद्यधिगमः तथा अन्तःकरणसंबन्धवैरल्येन तद्वृत्तिसहस्रभावाभावप्रकाशकतया प्रत्यक्तद्वृत्तिसहस्रापवादतस्तदधिकरणं प्रत्यगभिन्नं ब्रह्म तद्वृत्तितत्कार्यापह्नवसिद्धं ब्रह्ममात्रं च तदुपलब्धिहेतौ गुहायां निहितमिति मन्त्रे यत् प्रकृतं तद्वृत्तिस्थानीये त्विह पुनः “तत्सृष्ट्वा। तदेवानुप्राविशत्” इत्युक्तम्। तत्र यदुपलब्धं तदेव ब्रह्म स्वाज्ञदृष्ट्याकाशादिकार्यंसृष्ट्वा तद्गुहायां अन्तःप्रविष्टमिव द्रष्टृश्रोतृमन्तृविज्ञातृत्वादिनैवमुपलभ्यते। तदेव हि तत्प्रवेशः। तस्मादस्ति तत्कारणं ब्रह्मेत्यर्थः। एवं कार्ये सृष्ट्वा तदनुप्रविश्य किं वा तदभवत्? इत्यत्राह—सच्चेति। सच्च मूर्तंत्यञ्च अमूर्तंअभवत्। पञ्चीकृतापञ्चीकृतभूततत्कार्यमभवदित्यर्थः। इदं तदिति यत् निरूपणक्षमं तन्निरुक्तम्। तद्विपरीतमनिरुक्तम्। निरुक्तानिरुक्ते मूर्तामूर्तधर्मौ। तथा निलयनं नीडं आश्रयः। तद्विपरीतमनिलयनम्।ते अपि मूर्तमूर्तधर्मौ भवतः। विज्ञानं चेतनं जंगमम्।अविज्ञानं अचेतनं स्थावरम्।सत्यं व्यवहारार्हं आपेक्षिकमृगतृष्णिकाद्यपेक्षया उदकादेः सत्यत्वात्। मृगतृष्णिकादितुल्यं अनृतम्। पुनरेतत्सर्वं तद्गतहेयांशापह्नवतः परमार्थसत्यमभवत्। पारमार्थिकसत्यस्यात्र “सत्यं ज्ञानमनन्तं ब्रह्म” इति प्रकृतत्वात्। स्वाज्ञदृष्टिप्रसक्तं यदिदं किञ्च सच्च त्यच्चेत्यादि स्वातिरिक्तविकारजातं ब्रह्मैवाभवत्। यत

एवं अतः तद्ब्रह्म ब्रह्मविदः सत्यमित्याचक्षते। पुरा ब्रह्मास्ति नास्तीत्यनुप्रश्नः कृतः। तत्प्रतिवचनमुक्तं सोऽकामयतेत्यादिना। सत्यादिलक्षणं जगत् सृष्ट्वातदनुप्रविश्य दर्शनश्रवणादिलिङ्गैः अविद्योपाधितो बह्वभवत्। तदेतदकारणमप्याकाशादिकारणतया कार्यरूपपरमे व्योम्नि हृदयाकाशे तत्रत्यान्तःकरणवृत्त्यवभासकतया प्रत्यगादिरूपेणास्त्येवेति विजानीयात् इत्युक्तम्।

इति षष्ठोऽनुवाकः

___________

सप्तमोऽनुवाकः

ब्रह्मयाथात्म्यज्ञानम्

असद्वा इदमग्र आसीत्। ततो वै सदजायत। तदात्मानँस्वयमकुरुत। तस्मात्तत्सुकृतमुच्यत इति। यद्वै तत्सुकृतम्। रसो वै सः। रसँ ह्येवायं लब्ध्वानन्दी भवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति। यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषो मन्वानस्य। तदप्येष श्लोको भवति॥

तदेतस्मिन् ब्राह्मणोक्तेऽर्थे अन्नमयादिष्विव एष श्लोको मन्त्रो भवति—असदिति। अव्याकृतनामरूपोपाध्यसङ्कं ब्रह्मोच्यते। उपाधेरव्याकृतत्वेन अदृश्यत्वात् असत्त्वम्। न हि तदवच्छिन्नं ब्रह्म असद्भवितुमर्हति। न ह्यसतः

सज्जन्मास्ति। इदमिति नामरूपविशेषवत् जगदग्रे असच्छब्दवाच्यं ब्रह्मैवासीत्। ततो असतो ब्रह्मणः सकाशात् प्रविभक्तनामरूपविशेषजातं सदजायत। किं तत् पितुरिव पुत्रः? तत्राह—तदिति। तत् असच्छब्दवाच्यं ब्रह्म सर्वरूपेण स्वयमात्मानमेवाकुरुत कृतवदित्यर्थः। यस्मादेवं तस्मात् तद्ब्रह्म सुकृतमुच्यते। इति शब्दस्त्वारोपितकर्तृत्वद्योतकः। यस्माद्वै सर्वकारणपुण्यरूपेण कार्यजातं सुकृतं तस्मादस्ति तत्सुकृतकृत् ब्रह्म। इतश्च अस्ति तद्ब्रह्म रसत्वप्रसिद्धेः। यद्वै तत् ब्रह्मैव सुकृतं भवति। रसो वै सः लोकप्रसिद्धमधुराम्लादिरसवत् नित्यतृप्तिरूपसच्चिदानन्दरसमात्र हि सः अस्ति भाति प्रियात्मकसच्चिदानन्दरसातिरेकेण नामरूपप्रपञ्चवैरल्यात्। लोके विद्वान् सच्चिदानन्दरसं ब्रह्म स्वमात्रमिति लब्ध्वा आनन्द्येव सुखी भवति। तस्मादस्ति विद्वत्पटलानुभूतानन्दरसात्मकं ब्रह्म। इतश्च लोकव्यापृतिहेतु ब्रह्मास्तीत्याह—को हीति। वैषयिकानन्दबहिष्कृतानिरीहानिरेषणब्राह्मणाः स्वस्वहृदयगुहावच्छिन्नपरमे व्योम्नि निहितं उपलब्धं यं आनन्दात्मानं स्वावशेषधिया पश्यन्तः सन्तः आनन्दिनो भवन्ति। यद्येवं स एष आनन्दो न स्यात् न भवेत् तदा लोके को होवान्यात् अपानचेष्टां कुर्यात्। कः प्राण्यात् प्राणचेष्टां कुर्यात्। यदर्थाः कार्यकारणप्राणनादिचेष्टाः तत्प्राणेन्द्रियादिचेष्टानिमित्तत्वेन परमानन्दरूपं ब्रह्म आत्मत्वेन विद्यते लोकं स्वस्वदृष्ट्यनुंरोधेन एष ह्येवानन्दयाति आनन्दयति सुखयतीत्येतत्। एवमात्मानन्दरूपोऽपि स्वाज्ञानावृतचेतसां परिच्छिन्नत्वेन विभाव्यते। परमार्थदृशां स्वेन रूपेणेत्यर्थः। विदुषामभयहेतुत्वेनाविदुषां भयहेतुत्वेन च ब्रह्मास्ति। कथं पुनः ब्रह्मणो भयाभयहेतुत्वम्? इत्यत आह—यदेति। यदा हि यस्मिन् काले एष साधको ब्रह्मविद्वरीयान् एतस्मिन् स्थूलादिचतुरंशाढ्यस्वाविद्यापदतत्कार्यजातापह्नवसिद्धब्रह्ममात्रे स्वाविद्यापदस्थूलांशप्रविभक्तजाग्रज्जाग्रदादिजाग्रत्तुरीयान्ततद्व्य ष्ट्यभिमानिविश्वविश्वादिविश्वतुर्यान्ततत्समष्ट्यभिमानिविराड्विराडादिविराट्तुरीयान्त तदुभयैक्याभिमान्योत्रोत्राद्योत्रविकल्पान्तभेदानां व्यक्तत्वेन दृश्यत्वात्। तदपह्नवसिद्धं अदृश्यं स्वाविद्यापदसूक्ष्मांशप्रविभक्तस्वप्नजाग्रदादिषोडशभेदानां प्रविभक्त-

दृष्ट्या आत्मरूपत्वात्। “स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति” इत्यत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति—

स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक्।

इति श्रुतेः गौडपादाचार्योक्तेश्च।आत्मनो भावः आत्म्यम्। तद्गतहेयांशापह्नवसिद्धमनात्म्यम्। स्वाविद्यापदवीजांशप्रविभक्तस्वापजाग्रदादिषोडशभेदानां सविशेषत्वेन निर्वक्तुं शक्यत्वात् निरुक्तमित्युक्तम्। तद्गतहेयांशापह्नवसिद्धमनिरुक्तं “यतो वाचो निवर्तन्ते”, “तद्वक्तुं केन शक्यते” इति श्रुतेः। स्वाविद्यापदतुर्यांशप्रविभक्ततुर्यजाग्रदादिद्वादशभेदानां जाग्रज्जाग्रदाद्यष्टाचत्वारिंशन्निलयनत्वेनाश्रयत्वेन विद्यमानत्वात् निलयनमुच्यते। तत्रत्यहेयांशापह्नवसिद्धमनिलयनम्। तस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने एतस्मिन् स्वाविद्यापदस्थूलसूक्ष्मबीजार्धमात्रांशापह्नवसिद्धे ब्रह्ममात्रे अभयं यथा भवति तथा स्वावशेषधिया प्रतितिष्ठतीति प्रतिष्ठा। तां प्रतिष्ठां स्वमात्रतया स्थितिं विन्दते लभते। अथ तदा तद्वेदनसमकालं भयहेतुस्वातिरिक्ताविद्यापदतत्कार्यापह्नवसिद्धं निष्प्रतियोगिकाभयं स्वमात्रमिति गतो भवति विद्वान् ब्रह्ममात्रमवशिष्यत इत्यत्र “स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति” इति वेदनसमकालब्रह्मभावापत्तिश्रुतेः। यदा हि यस्मिन् काले एष साधकः एतस्मिन् ब्रह्ममात्रे तदतिरिक्तस्वाविद्यापदतत्कार्यजातं आत्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेन वास्तीत्युदरमल्पमपि स्वातिरिक्तास्तित्वं अन्तरं कुरुते करोति जानातीत्येतत्। अथ एवं वेदनोत्तरक्षणं तस्याविदुषः असल्लौकिकादिदृष्टित्रयसिद्धान्तलक्षणं भयं भवति। इदं जगत् अन्यत्, अहमन्यः, ईश्वरोप्यन्य इत्येवं विदुषो मन्वानस्य मननं कुर्वतः यत् स्वातिरिक्तापह्नवसिद्धं ब्रह्म परमाभयत्वेन ब्रह्मविद्वरीयांसो मन्यन्ते तत्तु ब्रह्ममात्रमेव भयं भवति। एवं ब्रह्मयाथात्म्यं यो न पश्यति सोऽयं विद्वानप्यविद्वानेवेत्यर्थः।

इति सप्तमोऽनुवाकः

_____________

अष्टमोऽनुवाकः

आनन्दस्य मीमांसा तत्फलञ्च

भीषास्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्द्धावति पञ्चम इति। सैषानन्दस्य मीमाँसा भवति। युवा स्यात्साधुयुवाध्यायकः। आशिष्ठो दृढिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुषाआनन्दः। ते ये शतं मानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः। स एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवगन्धर्वाणामानन्दाः। स एकः पितॄणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः। स एक आजानजानां देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानां देवानामानन्दः। ये कर्मणा देवानपि यन्ति। श्रोत्रियस्य चाकामहतस्य। ते ये शतं कर्मदेवानां देवानामानन्दाः। स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवानामानन्दाः। स एक इन्द्रस्यानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः। स एको बृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः। श्रोत्रियस्य चाका-

महतस्य। ते ये शतं प्रजापतेरानन्दाः। स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य। स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः। स य एवंवित्। अस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रामति। एतं प्राणमयमात्मानमुपसंक्रामति। एतं मनोमयमात्मानमुपसंक्रामति। एतं विज्ञानमयमात्मानमुपसंक्रामति। एतमानन्दमयमात्मानमुपसंक्रामति। तदप्येष श्लोको भवति॥

तस्य स्वातिरिक्तास्तिताभ्रमारूढत्वेन स्वातिरिक्तप्रपञ्चजातं भयवत् दृश्यते। तस्मात् तद्दृष्ट्या सर्वत्र भयदर्शनात् नूनं भयकारणं ब्रह्मास्तीत्यवगम्यत इत्येतस्मिन्नर्थे एष श्लोको मन्त्रो भवतीत्याह—भीषेति। वात सूर्याग्नीन्द्रमृत्युप्रभृतयः स्वावरलोकदृष्ट्या स्वतन्त्रा ईश्वरा अपि भयहेतोः अस्मादीश्वरात् सर्वप्रशास्तुः भीषा भयेन बह्वायाससाध्यपवनादिकार्येष्वप्रमत्ता नियमेन प्रवर्तन्ते। न हि प्रशास्तर्यसति तेषां नियमेन प्रवृत्तिरुपपद्यते। तस्मात्तेषामस्ति भयकारणं प्रशास्तृ ब्रह्म। यतस्ते दण्डोद्यतकरराजभृत्या इव यद्भयादनवरतं प्रवर्तन्ते तदेतत् भयकारणं परमानन्दरूपं ब्रह्म अस्तीत्युक्तम्। तत्स्वरूपं किम्? इत्याशंक्य अकामहतश्रोत्रियप्रत्यक्षतया तदियत्तां विशदयति—सैपेति। किमयमानन्दो लौकिकानन्दवत् विषयविषयिसम्बन्धजनितः आहोस्वित् स्वाभाविक इति? सैषानन्दस्य मीमांसा भवति। तत्र लौकिकानन्दस्य बाह्यसाधनसंपत्तिनिमित्तत्वेन निष्प्रतियोगिकनिरतिशयस्वभावब्रह्मानन्दावगत्युपायार्थं स एष बाह्यानन्दो निर्दिश्यते। न हि लौकिकानन्दोऽपि ब्रह्मानन्दातिरिक्तोऽस्ति। ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भावात्। “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति श्रुतेः। सोऽयमानन्दः आवृतित्रयापद्दवसिद्धोऽपि स्वाज्ञदृष्ट्या समावृत इव भाव्यमानः तत्तत्प्राणिकर्मवशात् यथाविज्ञानं विषयादिसाधनसंबन्धवशाच्च विभाव्यमानः चलोऽव्यवस्थित इव च लक्ष्यते।नित्यादिसत्कर्मानुष्ठानजनितचित्तशुद्धिप्राप्यसाधनचतुष्टयसंपन्नकृतश्रवणादिसाधननिष्पन्न-

ज्ञानासिना स्वानन्दावृतिर्यावद्यावत् विशीर्णा भवेत् तावत्तावदेव सार्वभौमादिचतुर्मुखान्तोत्तरोत्तरभूमिषु शतगुणोत्तरोत्तरेण अकामहतविद्वच्छ्रोत्रियपटलप्रत्यक्षतया विभाव्यते। यदा “ब्रह्ममात्रमसन्न हि” इति श्रुत्यर्थानुभवसंजातसर्वासदपह्नवसिद्धब्रह्ममात्रज्ञानं जायते तदा तज्ज्ञानसमकालं विषयविषयिसम्बन्धप्रभवेयं परमानन्दावृतिरपह्नवपदं भजति। ततः स्वाभाविकानन्दः परमात्मा निष्प्रतियोगिकस्वमात्रतया अवशिष्यत इत्येतमर्थंप्रकाशयिष्यन्नाह—युवेति। युवा प्रथमवयाः। युवाप्यसाधुः साधुरप्ययुवा चेत् प्रमादचिन्तनाय भवतीति साधुश्चासौ युवा चेति साधुयुवा। अध्यायको अधीतसाङ्गोपाङ्गवेदार्थत्वात्। आशिष्ठो युक्तायुक्तकार्यकरणाकरणे आशुकृत्तमत्वात्। दृढिष्ठो दृढगात्रत्वात्। बलिष्ठो बलोत्साहशक्तिमत्त्वात्। इत्यादिसाधनसंपत् यस्यास्ति तस्येयं सप्तद्वीपवती पञ्चाशत्कोटियोजनविस्तीर्णा सर्वा पृथिवी वित्तस्य दृष्टादृष्टेहामुत्रार्थसाधनविज्ञेन पूर्णा स्ववशे स्याद्यदि तदायं राजा सार्वभौम इत्युच्यते। तस्य य आनन्दः। स एको मानुष आनन्दः। स्वेतरमनुष्यदुर्लभत्वात्। ते ये शतं मानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः। सार्कभौमानन्दापेक्षया शतगुणोत्कृष्टो मनुष्यगन्धर्वाणामानन्दो भवतीत्यर्थः। ये हि मनुष्याः सन्तः कर्मविद्यावैशिष्ट्यात् गन्धर्वत्वं प्राप्ताः ते ह्यन्तर्धानादिविचित्रशक्तिसंपन्ना मनुष्यगन्धर्वा इत्यर्थः। तेषां सार्वभौमापेक्षया मनुष्यगन्धर्वाणां चित्तप्रसादः सुखाभिव्यक्तिश्च शतगुणोत्तराधिकं भवेदित्यर्थः। एवं पूर्वपूर्वभूमिकापेक्षया उत्तरोत्तरभूमिकायां शतगुणोत्तरचित्तप्रसाद आनन्दोत्कर्षश्चोपपद्यते। प्रथमपर्यायाकामहतग्रहणं मानुषविषयकामभोगानभिभूतश्रोत्रियस्य मानुषानन्दात् शतगुणाधिकमनुष्यगन्धर्वतुल्यचित्तप्रसादानन्दाभिव्यक्तिः स्यादित्येवमर्थम् \। साधुयुवाध्यायक इति श्रोत्रियत्वाव्रजिनत्वे गृह्येते। सर्वत्र विषयोत्कर्षापकर्षतः अकामहतत्वं विशेष्यते। अत एवाकामहतग्रहणं परमानन्दाप्त्तिसाधनद्योतनार्थम्। व्याख्यातमन्यत्। जातित एव देवगन्धर्वाः। पितॄणां विशेषणं चिरलोकलोका इति। यावत् कर्मफलक्षयावधि स्थायित्वात् आजान इति देवोपभोगलोकः। तस्मिन् जाता आजानजा देवाः स्मार्तकर्मविशेषतो देवस्थानेषु जातत्वात्।

ये केवलाग्निहोत्रादिकर्मणा वैदिकेन देवानपियन्ति त्रयस्त्रिंशत्कोटिसंख्याका देवाः श्रौतस्मार्तकर्मजहविर्भागत्वात्। इन्द्रस्तु तेषां स्वामी। तदाचार्यो हि बृहस्पतिः। प्रजापतिर्विराट्। स्वाविद्याण्डकायत्वात्। यत्र आनन्दभेदाः सर्वधर्माः तन्निमित्तज्ञानं अकामहतत्वं च पर्यवस्यन्ति। स हि हिरण्यगर्भो ब्रह्मा। तन्निष्टानन्दविशेषः श्रोत्रियेणावजिनेनाकामहतेन प्रत्यक्षमुपलभ्यते। अधीतवेदवेदान्तार्थः श्रोत्रियः। निर्लेपधिया पापपुण्यविरलोऽव्रजिनः स्वातिरिक्तकामनारहितो कामहतः। एतानि त्रीणि साधनानि यत्र श्रोत्रियत्वावजिनत्वे नियते तत्राकामहतत्वं तूत्कृष्यते। अत एवाकामहतत्वं उत्कृष्टसाधनमित्यवगम्यते। तदुत्कर्षोपलभ्यमानश्रोत्रियप्रत्यक्षो योऽयं ब्रह्मण आनन्दः सोऽयं परमानन्दस्य मात्रा एकदेश इत्यर्थः। तथा च श्रुतिः “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति। सार्वभौमादिचतुर्मुखान्तगतानन्दानां परमानन्दसागरकणमात्रत्वात्। सोऽयं परमानन्दो हि स्वाभाविकः निष्प्रतियोगिकाद्वैतरूपत्वात्। सार्वभौमाद्यानन्दतारतम्यपर्यवसानचतुर्मुखानन्दोऽपि परमानन्दलवांशोक्तिः भूमानन्दावतरणोपायार्थेत्यर्थः। मीमांसाफलमुपसंहरति—स य इति। स यश्चायं पुरुष इत्यत्र यो हृदयगुहायां अव्याकृताकाशे तत्रत्यलिङ्गशरीरवृत्तिकदम्बभावाभावप्रकाशकत्वेन तत्प्रवृत्तिनिमित्तत्वेन च कोशपञ्चकं सृष्ट्रा तदनुप्रविष्ट इव भातः पुरुषे स य इति निर्दिश्यते। कोऽसावयं पुरुषे प्रत्यक्त्वेन स्थितः? यश्वासावादित्ये ब्रह्मादीनि सुखार्हाणि भूतानि यस्य आनन्दलवैकदेशत आनन्दिनो भवन्ति। यस्तु पारमार्थिकाकामहतब्रह्मविद्वरिष्ठैः स्वमात्रमित्यवगतः स “यश्चासावादित्य” इति निर्दिश्यते। पुरुषादित्यगतनीचोत्कृष्टकलनापह्नवसिद्धो यः स एकः निष्प्रतियोगिकाद्वितीयत्वात् सत्यमात्मा ब्रह्मैव ब्रह्मात्मैव। अत्र ह्येव न विचिकित्स्यं “यदा ह्येवैष एतस्मिन्नभयं प्रतिष्टां विन्दते। अथ सोऽभयं गतो भवति” इति श्रुतेः। आकाशादिकार्यरसलाभप्राणनाभयप्रतिष्ठातिदर्शनोपपत्तिभिः अस्तिनास्तीत्यनुप्रश्नो व्याख्यातः। विदविदुषोः ब्रह्मप्राप्त्यप्राप्तिविषयानुप्रश्नोऽपि विद्वान् समश्नुते नाविद्वानिति अपाकृतो भवति। तृतीयप्रश्ननिराकरणाय इदमुच्यते—स य इति। स यः कश्विदेवं “ब्रह्मविदाप्नोति परं” इति सूत्रस्थं“सत्यं

“ज्ञानमनन्तं ब्रह्म” इत्यादिमन्त्रप्रकटितं पुनस्तद्वृत्तिस्थानीयपञ्चकोशविवेकान्ते “ब्रह्मपुच्छं प्रतिष्ठा” इति वाक्यप्रकटितं च ब्रह्म निष्प्रतियोगिकस्वमात्रमिति वेत्तीत्येवंवित्। एवंशब्दस्य प्रकृतपरामर्शार्थित्वात्। वेदनसमकालं अयं ब्रह्ममात्रतया अवशिष्यत इत्यत्र न हि संशयोऽस्ति। तथापि स्वाज्ञदृष्ट्या प्रसक्ता इमे अन्नमयादयः पञ्च कोशाः। स्वज्ञदृष्टिमनुसृत्य तत्प्रविलापनं करोति— एतमिति। कोशपञ्चकत्वेन लोक्यत इति लोकः पञ्चकोशः। यस्मादयं अदृष्टदृष्टनष्टात्मकः तस्मात् अस्मात् लोकात् प्रेत्य व्यावृत्य तत्र पुरानुभूतस्वात्माभिमानं त्यक्त्वा यथाव्याख्यातमेतं अन्नमयमात्मानमुपसंक्रामति। स्थूलप्रपञ्चजातं सर्वंवैराजरूपेण पश्यतीत्यर्थः। तथा प्राणमयं मनोमयं विज्ञानमयं आनन्दमयं च उपसंक्रामति सर्वं सूत्रात्माविशेषं पश्यति। तथा अन्नाद्यानन्दमयान्तकोशपञ्चकमुपसंक्रामति बीजेश्वरावशेषं पश्यति। तद्गतहेयांशप्रविलापनाधिकरणं प्रत्यगभिन्नं ब्रह्मैव पश्यति। स्वातिरिक्तान्नमयादिकोशापह्नवतः परमाभयप्रतिष्ठो भवतीत्यत्र “यदा ह्येवैष एतस्मिन्नभयं प्रतिष्ठांविन्दते” इत्युक्तम्। संक्रमणकर्ता परस्मात् भिद्यते इति चेन्न; पर एव स्यात् न हि परस्मात् संक्रमणकर्ता भिद्यते। तद्विज्ञानेन परमात्मभावस्य विवक्षितत्वात्। “ब्रह्मविदाप्नोति परम्” इत्यादि। न ह्यन्यस्यान्यज्ञानादन्यभावापत्तिरिष्यते। यदि पर एवं संक्रमणकर्ता तदा कर्मकर्तृत्वानुपपत्तिरिति चेन्न, संक्रमणस्य विज्ञानमात्रत्वात् संक्रमणश्रुतेर्विज्ञानार्थत्वात्। स्वादृष्ट्यनुरोधेनाकाशाद्यन्नमयान्तं कार्यं सृष्टा हृदयगुहासंबन्धतः अन्नमयाद्यनात्मस्वात्मधीभ्रान्तिनिरसनपूर्वकं ब्रह्ममात्रपर्यवसायिज्ञानं संक्रमणमित्युपचर्यते। न ह्यन्यथा जलूकावदात्मनः संक्रमणं उपपद्यते। तस्मात् सच्चिदानन्दमात्रब्रह्मप्रतिपत्त्युपायत्वेनाकाशाद्यन्नमयान्तसृष्टिप्रवेशबहुभवनरसाभयानन्दतारतम्यसंक्रमणादिः विकल्प्यते। परमार्थतो न हि निष्प्रतियोगिकब्रह्ममात्रे यथोक्त विकल्पजालमस्ति नास्तीति विभ्रमोऽपि सेद्धुं पारयति।

इत्यष्टमोऽनुवाकः

____________

नवमोऽनुवाकः

उक्तार्थसंक्षेपः

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चिनेति। एतँह वाव न तपति किमह‍ँ साधु नाकरवम्। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मानँस्पृणुते। उभे ह्येवैष एते आत्मानँस्पृणुते। य एवं वेद। इत्युपनिषत्॥

अतः एवंक्रमेण सर्वविकल्पापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमित्युपसंक्रम्य विदित्वा तद्वेदनसमकालं विद्वान् तन्मात्रतया अवशिष्यत इत्यत्रास्मिन्नर्थे सर्वस्यानन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशकोऽयमेव श्लोको मन्त्रो भवतीत्याह—यत इति। वाचोऽभिधानानि सविशेषवस्त्वाश्रयाण्यपि प्रयोक्तृभिः निर्विशेषब्रह्ममात्रेऽपि तद्याथात्म्यप्रकाशनाय प्रयुक्तानि। मनश्शब्देनान्तःकरणं विज्ञानमुच्यते। तदतीन्द्रियेऽपि प्रवर्तत इति तदियत्ताप्रकाशनाय तदपि प्रयुक्तम्। तेन मनसा सह प्रयोक्तृभिः प्रयुज्यमाना वाचो निष्प्रतियोगिकब्रह्ममात्रमप्राप्य अप्रकाश्य यतो यस्मात् ब्रह्ममात्रात् निवर्तन्ते वाङ्मनसयोः सर्वप्रकाशनसमर्थत्वेऽपि तत्स्वेतरापह्नवसिद्धमिति भिया तदस्पृश्य यथायथं स्वाज्ञजातं प्रति पलायन्त इत्यर्थः। तमेतं व्याविद्वेषणात्रयश्रोत्रिया व्रजिनाकामहतमुन्यात्मभूतं विषयविषयितत्कलनापह्नवसिद्धं स्वाभाविकं ब्रह्मण आनन्दं ब्रह्ममात्रानन्दं स्वावशेषधिया विद्वान् भयनिमित्तस्वातिरिक्तापह्नवात् कुतश्चनापि न बिभेति। कथं पुनः विद्वान् कुतश्चन न बिभेति भयहेतुसाध्वसाध्वकरणकरणयोः प्रसक्तत्वात्? इत्यत आह—एतमिति। यथोक्तमेवंविदं एतं साध्वसाध्वकरणकरणप्रत्युक्तपारलौकिकभीतिनिमित्तः सन्तापः न तपति नोद्वेजयति। ह वा वेतिशब्दतः तथा स्वाज्ञवत् सन्तापप्रसक्तिरेव नास्तीति द्योत्यते। स्वाज्ञस्तु

किमहं साधु कर्म नाकरवं न कृतवानस्मि? किमहं पापमकरवं कृतवानस्मि? इति नानाविधनरकपतनसमये सन्तप्यते। न तथा ब्रह्ममात्रवित्। तस्मात् साध्वकरणपापकरणे एतं न तपतः “नैनं कृताकृते तपतः” इति श्रुतेः। ब्रह्ममात्रावगतेः कृत्याकृत्यतत्फलापह्नवपूर्वकत्वात्। यतो विद्वान्साध्वसाधुनी एते तापहेतू इत्यात्मानं स्पृणुते प्रीणयति। ब्रह्मातिरिक्तसाध्वसाधुवैरल्यात् ब्रह्मभावेनोभे पश्यतीत्यर्थः। यस्मादेष विद्वान् उभे ह्येवैष एते पुण्यपापे स्वात्मरूपेणैवात्मानं स्पृणुते। य एवं निष्प्रतियोगिकाद्वैतानन्दब्रह्म स्वमात्रमिति वेद तद्वेदनसमकालं साध्वसाधुतत्फलापह्नवसिद्धब्रह्ममात्रतया अवशिष्यते। अस्यां वल्ल्यां ब्रह्मविद्यासर्वस्वस्य निषण्णत्वेन बन्धमोक्षमुमुक्षूणां ब्रह्ममात्रपदगमकत्वात् आनन्दवल्ल्युपनिषदित्युच्यते। इतिशब्द आनन्दवल्लीपरिसमाप्त्यर्थः। आनन्दवल्ल्यर्थो “ब्रह्मविदाप्नोति परम्” इत्यादौ ब्राह्मणवाक्येन सूत्रितः। ततस्तदर्थस्तु “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिमन्त्रेण संक्षेपतः प्रपञ्चितः। सोऽपि “तस्माद्वा एतस्मात्” इत्यादितद्वृत्तिस्थानीयेन ब्रह्ममात्राप्त्युपायत्वेन आकाशाद्यन्नमयान्तसृष्टितदनुप्रवेशादिरुक्तः। एवमुपायत उपेयज्ञानं जायते। तज्ज्ञानसमकालं विद्वान् तन्मात्रमवशिष्यत इत्यानन्दवल्ली उपरराम। समाप्ता च ब्रह्मविद्या। नातः परं वेदितव्यं विद्यते। “एतावदेवाहं एतत् परं ब्रह्म वेद नातः परमस्ति” इति, “नातः परं वेदितव्यं हि किञ्चित्” इति च श्रुतेः।

इति नवमोऽनुवाकः

इति ब्रह्मानन्दवल्ली

_____

भृगुवल्ली

प्रथमोऽनुवाकः

ब्रह्मणस्तटस्थलक्षणम्

भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तस्मा एतत्प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति। त‍ँ होवाच। यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥

आनन्दवल्यां तु तपआदिसाधनपुरस्सरं अन्नादिविषयोपासनानि नोक्तानीति तदर्थमियं भृगुवल्ली प्रारभ्यते। प्रियपुत्राय पित्रोक्तेत्याख्यायिका तु विद्यास्तुत्यर्था। पुत्रः ससाधनब्रह्मविद्यां मे ब्रूहीति पितरमुपससादेत्याह—भृगुरिति। भृगुर्वै वरुणस्यापत्यं वारुणिः प्रसिद्ध्यनुस्मारको वैशब्दः। ब्रह्मजिज्ञासया वरुणं पितरमुपससार। अधीहि भगवो हे भगवन्! ब्रह्म इत्युपगतवान्। एवं विधिवदुपसन्नाय पिता उवाचेत्याह—तस्मा इति। उपसन्नाय पुत्राय एतत् वचनं अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति प्रोवाच। व्यष्टिसमष्ट्यात्मकस्थूलशरीरं अन्नं तदभ्यन्तरत्वेन अत्तारं प्राणं ब्रह्मोपलब्धौ चक्षुरादीन्युपलब्धिसाधनानि उक्त्वा तं भृगुं प्रति ब्रह्मणः तटस्थलक्षणमप्युवाच। तत् किम्? इत्यत आह—यत इति। यतश्चिद्धातोः स्वाज्ञदृष्ट्या रज्जुसर्पवत् सर्वाणि ब्रह्मादिस्तम्बान्तभूतानि जायन्ते। येन जातानि जीवन्ति यावदायुषं वर्धन्त इत्यर्थः। प्रारब्धभोगक्षयतो यत् ब्रह्म प्रयन्ति गच्छन्ति अभिसंविशन्ति तादात्म्यं प्रतिपद्यन्त इत्यर्थः। एवं उत्पत्तिस्थितिप्रलयेषु भूतानि यदात्मतां न जहति तदेतद्ब्रह्मेत्यन्नादिद्वारेण विजिज्ञासस्व

यथावत् प्रतिपद्यस्वेत्यर्थः। “प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ते निचिक्युर्ब्रह्म पुराणमप्रियं” इति ब्रह्मोपलब्धिप्रदर्शनश्रुतेः। ब्रह्मणस्तटस्थलक्षणं ब्रह्मोपलब्धिद्वारं च श्रुत्वा किं कृतवान्? इत्यत आह—स इति। स भृगुः ब्रह्मोपलब्धिसाधनत्वेन तपोऽतप्यत ब्रह्मलक्षणविचारं कृतवान्। उपदिष्टे वस्तुनि साधनाकांक्षा कुतः? इति चेन्न; सावशेषोक्तेः। जिज्ञासवे निरवशेषतया उपदेष्टव्यमिति चेन्न; तस्य तादृशाधिकारवैरल्येन साधनाकांक्षत्वात। लोके तपसस्साधकतमत्वप्रसिद्धेः। पित्रानुपदिष्टमपि भृगुः ब्रह्मावगतिसाधनत्वेन तपः प्रतिपन्नवान्। किं तत्तपः बाह्यान्तःकरणग्रामसमाधानं? ब्रह्मावगतेः तद्द्वारकत्वात् “तपसा प्राप्यते सत्त्वं” इत्यादि,

मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः।
स ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते॥

इति श्रुतेः स्मृतेश्च।

इति प्रथमोऽनुवाकः

——————

द्वितीयोऽनुवाकः

अन्नब्रह्मविज्ञानम्

अन्नं ब्रह्मेति व्यजानात्। अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तँ होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥

स च तपः तप्त्वा “यतो वा” इति पित्रा उक्तलक्षणं अन्नं ब्रह्म इति विज्ञातवान्। तद्धि यथोक्तलक्षणोपेतं अन्नम्। तस्मादेव भूतोत्पत्तिस्थितिलयदर्शनात् अन्नस्य ब्रह्मत्वं युक्तमित्यर्थः। तेनैवायं कृतार्थतां गतः किम्? इत्यत आह—तदिति। उक्तलक्षणोपपत्तिभ्यां अन्नं तत् ब्रह्मेति विज्ञाय अन्नस्योत्पत्तिदर्शनात् नेदं ब्रह्म भवितुमर्हतीति सन्दिहानस्सन् पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति यावत् ब्रह्मलक्षणं निरतिशयं न भवति यावत् ते तद्विषयकजिज्ञासा निवर्तते तावत् तप एव ते परा गतिरिति तं होवाच पिता। तपसैव ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति ब्रह्मावगतिसाधनत्वात् तपस इत्यर्थः। स तपोऽतप्यत इत्याद्युक्तार्थमन्यत्॥

इति द्वितीयोऽनुवाकः

——————

तृतीयचतुर्थपञ्चमानुवाकाः

प्राणादिब्रह्मविज्ञानम्

प्राणो ब्रह्मेति व्यजानात्। प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते। प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।तँहोवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥

मनो ब्रह्मेति व्यजानात्। मनसो ह्येव खल्विमानि भूतानि जायन्ते। मनसा जातानि जीवन्ति। मनः प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।

तँहोवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥

विज्ञानं ब्रह्मेति व्यजानात्। विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति। विज्ञानं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तँहोवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥

ततः किम्? इत्यत आह—स इत्यादि। एवं पित्रा आदिष्टो भृगुः अन्नरूपवैराजादप्यन्तरं प्राणं मनो विज्ञानं च सूत्रात्मभूतं ब्रह्मेति प्रतिपद्य तत्रापि सन्दिहानस्सन् सर्वोत्तमसाधनेन तपसा यत्सकाशादाकाशाद्यन्नमयान्तं उत्पत्तिस्थितिभङ्गं अगमत् यत् सर्वान्तरतमं करणोपाध्यसङ्गं ईश्वरचैतन्यं यत्वस्तुतः कार्यजातनिरूपितकारणतापह्नवसिद्धं परमानन्दमात्रं ब्रह्म स्वावशेषतयाव्यजानात् विज्ञातवान् तद्वेदनसमकालं तन्मात्रतामियादित्यर्थः। “तमेवं विद्वानमृत इह भवति” इति श्रुतेः। तस्मात् ब्रह्ममात्रावगतये तप एव परमं साधनमिति प्रकरणार्थः॥

इति तृतीयचतुर्थपञ्चमानुवाकाः

——————

षष्ठोऽनुवाकः

भार्गवीवारुणीविद्यावगतिफलम्

आनन्दो ब्रह्मेति व्यजानात्। आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्य-

भिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या। परमे व्योमन्प्रतिष्ठिता। य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥

अधुना श्रुतिराख्यायिकामुपसंहृत्य स्वेन वचसा आख्यायिकानिर्वृत्तमर्थ व्याचष्टे—सैषेति। यैषा भृगुणा विदिता सैषा भार्गवी। वरुणेन प्रोक्ता वारुणी विद्या। परमे व्योमन व्योम्नि परमाकाशे निष्प्रतियोगिकाद्वैते प्रतिष्ठिता परिसमाप्ता पर्यवसन्ना तन्मात्रतयेत्यर्थः। य एवं भृगुवत् तपसैव साधनेन स्वाभाविकानन्दं ब्रह्म वेद सोऽयं विद्वान् तद्वेदनसमकालं परमानन्दे स्वमात्रतया प्रतितिष्ठति ब्रह्मैव भवतीत्यत्र “ब्रह्म वेद ब्रह्मैव भवति” इति श्रुतेः। यस्त्वानन्दं ब्रह्म कारणत्वेन जानाति तस्य मुख्यफलं सालोक्यादिकम्।आन्तरालिकफलं इदमेव स्यात्। अन्नशब्देन मानुषैश्वर्यमुच्यते। तद्वान्अन्नवान् महदैश्वर्यसंपन्न इत्यर्थः। तथाविधमन्नमत्तीत्यन्नादः सर्वभोगभुग्भवतीत्यर्थः। पुत्रादिप्रजया गवादिपशुभिः शमदमज्ञानादिनिमित्तब्रह्मवर्चसेन दिगन्तविश्रान्तकीर्त्या च महान् भवति।

इति षष्ठोऽनुवाकः

——————

सप्तमोऽनुवाकः

ब्रह्मविज्ञानद्वारकान्नप्रशंसा

अन्नं न निन्द्यात्। तद्व्रतम्। प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रति-

तिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥

यद्द्वारतो ब्रह्म विज्ञातं तत् कदापि न निन्द्यादित्याह—अन्नमिति। यस्मात् द्वारभूतेन अन्नेन ब्रह्म ज्ञातं तस्मात् गुरुमिव अन्नं न निन्द्यात्। तद्धि ब्रह्मविदो व्रतमित्युपदिश्यते। अन्नस्तुत्यर्थो हि व्रतोपदेशः। अन्नस्य ब्रह्मोपलब्ध्युपायत्वेन स्तुतिभाक्त्वं युज्यते। प्राणस्य शरीरान्तः पातित्वात्। प्राणो वा अन्नं यत् यस्यान्तः प्रतिष्ठितं तत् तस्य अन्नं भवतीति। शरीरे च प्राणः प्रतिष्ठितः। अतः प्राणोऽन्नं शरीरमन्नादम्। तथा शरीरमप्यन्नं प्राणोऽन्नादः। तत् कथं प्राणे शरीरं प्रतिष्ठितम्? शरीरप्रतिष्ठितेः प्राणनिमित्तत्वात्। ततोऽन्नान्नादलक्षणमुभयमपि अन्नमेव। येनान्योन्यस्मिन् प्रतिष्ठितावन्नान्नादौ तस्मात् प्राणः शरीरं चोभयमन्नमन्नादं च। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति इत्युक्तार्थमन्यत्।

इति सप्तमोऽनुवाकः

——————

अष्टमनवमानुवाकौ

अन्नस्य कदापि परिहरणाभावः

अन्नं न परिचक्षीत। तद्व्रतम्। आपो वा अन्नम्। ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन।महान्कीर्त्या॥

अन्नं बहु कुर्वीत। तद्व्रतम्। पृथिवी वा अन्नम्। आकाशोऽन्नादः। पृथिव्यामाकाशः प्रतिष्ठितः। आकाशे पृथिवी प्रतिष्ठिता। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥

एवं प्रभाववदन्नं कदापि न परिहरेदित्याह**—**

अन्नमिति। अन्नं नपरिचक्षीत न परिहरेत्। तद्वृतमित्युक्तार्थम्। “प्राणो वा अन्नम्” इत्यादिवत्आपो वा अन्नं ज्योतिरन्नादमित्यादि योजनीयम्। गुणित्वेनोपासकस्य अन्नबहुकरणं व्रतम् \।

इति अष्टमनवमानुवाकौ

——————

दशमोऽनुवाकः

ब्रह्मोपासनाप्रकारभेदः

न कञ्चन वसतौ प्रत्याचक्षीत। तद्व्रतम्। तस्माद्यया कया च विधया वह्वन्नं प्राप्नुयात्। अराध्यस्मा अन्नमित्याचक्षते। एतद्वै मुखतोऽन्नँराद्धम्। मुखतोऽस्मा अन्नँ राध्यते। एतद्वै मध्यतोऽन्नँराद्धम्। मध्यतोऽस्मा अग्नँ राध्यते। एतद्वा अन्ननोऽन्नँराद्धम्। अन्ततोऽस्मा अन्नँराध्यते। य एवं वेद। क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः। कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिति पायौ। इति मानुषीः

समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ। बलमिति विद्युति। यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृतमानन्द इत्युपस्थे। सर्वमित्याकाशे। तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान् भवति। तन्मह इत्युपासीत। महान् भवति। तन्मन इत्युपासीत। मानवान्भवति। तन्नम इत्युपासीत। नम्यन्तेऽस्मै कामाः। तद्ब्रह्मेत्युपासीत। ब्रह्मवान् भवति। तद्ब्रह्मणः परिमर इत्युपासीत। पर्येणं त्रियन्ते द्विषन्तः सपत्नाः। परि येऽप्रिया भ्रातृव्याः। स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः। स य एवंवित्। अस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रम्य। एतं प्राणमयमात्मानमुपसंक्रम्य। एतं मनोमयमात्मानमुपसंक्रम्य। एतं विज्ञानमयमात्मानमुपसंक्रम्य। एतमानन्दमयमात्मानमुपसंक्रम्य। इमाल्ँलोकान्कामान्नी कामरूप्यनुसंचरन्। एतत्साम गायन्नास्ते। हा ३ वु हा ३ वु हा ३ वु। अहमन्नमहमन्नमहमन्नम्। अहमन्नादो ३ ऽहमन्नादो ३ ऽहमन्नादः। अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत्। अहमस्मि प्रथमजा ऋता ३ स्य। पूर्वं देवेभ्योऽमृतस्य ना ३ भायि। यो मा ददाति स इदेव मा ३ वाः। अहमन्नमन्नमदन्तमा ३ द्मि। अहं विश्वं भुवनमभ्यभवा ३ म्। सुवर्णज्योतीः। य एवं वेद। इत्युपनिषत्॥

पृथिव्याकाशोपासकस्य वसतिनिमित्तमिदमुच्यते**—**

न कश्चनेति। वसतौ वसतिनिमित्तं समागतं ब्राह्मणं तद्वसने च तस्याशनं दातव्यमिति भिया न हि कञ्चन प्रत्याचक्षीत प्रत्याख्यानं न कुर्यात्। तदनिराकरणपूर्वकं अशनं दातव्यमिति यत्तद्रुतम्। यस्मादागतेभ्योऽतिथिभ्योऽन्नं दातव्यं तस्मात्

यया कया च विधया येन केनोपायेन बह्वन्नं प्राप्नुयात्। यो यत्कालेऽर्थिने अन्नं ददाति तत्कालमनतिक्रम्य तं प्रति तं भजतीत्याह**—**

अराधीति। अस्मा अर्थिने कदाराधि प्रयच्छत्यन्नं तदा तं भजतीत्यन्नमित्याचक्षते अन्नदानमाहात्म्यविदः। तत् किम्? इत्यत आह — एतदिति। एतद्वै अन्नं मुखतो मुख्यया वृत्त्या प्रथमवयसि पूजापुरस्सरं अभ्यागताय राद्धं सिद्धं प्रयच्छतीति वाक्यशेषः। तत्फलं किम्? इत्यत आह**—**

मुखत इति। मुखतः मुख्यया वृत्त्या पूर्ववयसि अस्मा अन्नदाय अन्नं राध्यते यथा दत्तं तथोपतिष्ठत इत्यर्थः। एवं मध्यतो मध्यमोपचारेण मध्यमे वयसि तथान्ते वयसि जघन्योपचारेण अस्मै राध्यते। य एवमन्नस्य माहात्म्यं वेद तस्य यथादत्तं फलं भवतीत्यर्थः। इदानीं ब्रह्मोपासनाप्रकारभेदमाह—क्षेम इत्यादिना। उपात्तकार्यसंरक्षणं क्षेमः। तद्रूपेण वाचि प्रतिष्ठितमित्युपास्यम्। अनुपात्तागमनं योगः। उपात्तरक्षणं क्षेमः। प्राणापानयोः सतोः योगक्षेमौ भवतः। तथापि न प्राणापाननिमित्तौ। किं तर्हि ब्रह्मनिमित्तौ? तस्मात् योगक्षेमात्मना ब्रह्म प्राणापानयोः प्रतिष्ठितमित्युपास्यम्। एवमुत्तरत्र योजनीयम्। हस्तयोः कर्मात्मना ब्रह्म प्रतिष्ठितं इत्युपास्यम्। गत्यात्मना पादयोरुपास्यम्। विमुक्तिरिति पायावुपास्यम्। एता मनुष्येषु भवाः मानुषीः समाज्ञाः।समाज्ञाया आध्यात्मिकत्वात्ज्ञानपूर्वकं उपासनानि कर्तव्यानीत्यर्थः।

ज्ञानपूर्वमुपास्तिर्या सा समाज्ञेति गीयते।

इति स्मृतेः। आध्यात्मिकसमाज्ञानन्तरं दैवी समाज्ञा उच्यते**—**

अथेति। अथ देवेषु भवा दैव्यः समाज्ञा देवीः। वृष्टेः अन्नद्वारेण तृप्तिहेतुत्वात्। ब्रह्मैव तृप्त्यात्मना वृष्टौ व्यवस्थितमित्युपास्यम्। तथान्येषु तेन तेनात्मना ब्रह्मैवोपास्यमिति ज्ञेयमित्यर्थः। विद्युति बलरूपेण पशुषु यशोरूपेण नक्षत्रेषु ज्योतीरूपेण उपस्थे प्रजातिः पुत्रः पुत्रादेः पितृऋणमोचकत्वेनामृतत्वप्राप्तिहेतुत्वात्। अमृतं सुखाभासो ह्यानन्दः। विषयविषयिसम्बन्धनिष्पन्नत्वादाभासत्वम्। एतत्सर्वस्योपस्थनिमित्तत्वात्। ब्रह्मैव प्रजापत्यात्मनोपस्थे प्रतिष्ठितमित्युपास्यम्। सर्वस्याप्याकाशावारकत्वात्। सर्वमाकाशे प्रतिष्ठित-

ख्यातम्। मन्त्रे तावत् ब्राह्मणोक्तमाप्नोतीत्यर्थः। “सोऽश्नुते सर्वान् कामान्सह। ब्रह्मणा विपश्चितेति” इति व्याख्यातः। तत्पुनः “अभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति” इत्यादिविस्तरेणोक्तः। तत्र के ते सर्वकामाः? कथं वा विद्वान् सह ब्रह्मणा अश्नुते? इत्यत्र इदमारभ्यते। भृगुवल्ल्या आनन्दवल्लीशेषभूतत्वात् ब्रह्मविद्यासाधनत्वेन तपो दर्शयित्वा प्राणाद्याकाशान्तकार्यस्य अन्नान्नादत्वेन विनियोगश्च प्रकटितः। निष्कामसकामभेदेन सालोक्याद्यैहिकान्तफलकब्रह्मोपासनान्यभिहितानि। सर्वकामानामनेकसाधनसाध्यत्वेन ब्रह्ममात्रविदेकः सन् युगपत् सर्वकामान् कथं समश्नुते? इत्यत्र सर्वकामानां स्वातिरिक्तत्वेन युगपत् अपह्नोतुं शक्यत्वात् स्वमात्रावगतेः स्वातिरिक्तापह्नवपूर्वकत्वाच्च। यद्वा—यद्ययं सर्वारोपापवादाधिकरणब्रह्मवित् तदा तस्य सर्वात्मभावोपपत्तेः सर्वस्योत्कर्षापकर्षात्मकत्वेन विदुषः सर्वभावापत्तौ तथात्वं स्यादिति चेन्न; सर्वभूतानुस्यूतात्मनः एकत्वेन सर्वोपाधिगतोत्कर्षापकर्षात्मकान्नमयाद्यानन्दमयान्तान् क्रमेण संक्रम्य मिध्यात्वेनापह्नवत्वेन वा ज्ञात्वा तज्ज्ञानसमकालं सत्यज्ञानानन्दं ब्रह्म स्वमात्रमित्यापन्नस्सन् स्वाज्ञदृष्ट्या प्रसक्तान्इमान्लोकन्संचरन् कामजातं स्वातिरिक्तधिया अत्तीति कामान्नी तत्तद्दृष्ट्यनुरोधेन कामरूपी वा अनुसञ्चरन् ब्रह्ममात्रस्य विषयग्रामापह्नवसिद्धत्वेन निष्प्रतियोगिकसमत्वात् इत्येतत् साम गायन् स्वाज्ञदृष्टिप्रसक्तलोकानुग्रहार्थं ब्रह्ममात्रसिद्धान्तं स्वकृतार्थतां च गायन्नास्ते तिष्ठतीत्यर्थः। कथम्? इन्यत आह—हेति। हा ३ उ अहो इत्यस्मिन्नर्थे। अत्यन्तविस्मयख्यापनार्थम्। किमसौ विस्मयः? इत्यत आह**—**

अहमिति। पुरा स्वाज्ञदशायां कस्यचिदहमन्नम्। कस्यचिदहमन्नादः। किञ्च**—**

ईशभावेन अहमेव चेतनावान्सन् अन्नान्नादसंघातम्य श्लोककृत् कर्ता। त्रिरुक्तिः विस्मयत्वख्यापनार्था। किञ्च**—**

हिरण्यगर्भात्मना स्वाज्ञदृष्टिप्रसक्तस्यर्तस्य जगतः प्रथमजा हिरण्यगर्भोऽस्मि। किञ्च**—**

सर्वापवादाधिकरणब्रह्मरूपेण देवादिभ्योऽमृतस्य अमृतत्वस्य नाभिः मध्यम्। सर्वप्राणिनां अमृतत्वमहमित्यर्थः। सर्वास्पदत्वात्। किञ्च विराडात्मनान्नभावम्प्रपद्येदमाह—यं इति। यः कश्चित् मां अन्नं अर्थिभ्यो

ददाति सोऽन्नवान् भवति। आ ३ वाः। अथवा पुनरन्योऽर्थिभ्यो मां अदत्वा स्वयमेवात्ति तं अहं अन्नमेव सन्नद्मि। एवं तर्हि सर्वात्मभावात्बिभेमि। अतस्संसार एवास्तु। यतो मुक्तोऽप्यहं अन्नस्याद्यः स्यामित्यत्र सर्वकामाशनस्य संव्यवहारविषयत्वात्। व्यावहारिकधिया अन्नान्नादलक्षणविराड्ब्रह्मभावमापन्नस्य न हि स्वातिरिक्तवस्त्वन्तरमस्ति। यत एवमतः सर्वात्मभावान्मा भैषीः। तथा चेत् किमहमन्नमन्नाद इति अन्नान्नादलक्षणसंव्यवहारस्य व्यवहारमात्रत्वात् न हि तत्परमार्थवस्तुतां भजति। तस्य ब्रह्मसत्तातिरिक्तपृथक्सत्तावैरल्यात्। अहमन्नमन्नाद इत्युक्तेः ब्रह्मविद्यास्तुत्यर्थत्वात्। न हि तत्र भयादिदोषगन्धोऽप्यस्ति, भयादेः स्वाविद्यानिमित्तत्वेन कारणतुल्यत्वात्। स्वाज्ञदृष्टिप्रसक्तस्वातिरेकेण किञ्चिदस्तीति विश्वसनीयविश्वं तथाभूतेरात्मसत्यव्यवहारप्रतिभासरूपेण संभजनीयं भुवनं अभ्यभवामहं अभिभवामि ब्रह्ममात्रधियापह्नवं करोमीत्यर्थः। यतो दुर्वर्णतया अनुभूतस्वातिरिक्तमपवतां गतं अतोऽहं सुवरादित्यः स्वाज्ञदृष्ट्या प्रकाशस्वरूप इव भातः। तथा परमार्थदृष्ट्या निष्प्रतियोगिकपूर्णज्योतीः ज्योतिः, स्वावृतित्रयापह्नवसिद्धत्वेन सकृद्भानस्वरूपत्वात्। योऽयं भृगुवत् शान्त्यादिगुणसंपन्नो भूत्वा वल्लीद्वयविहितपरमात्मविद्यां उपनिषदं यथावत् वेद सोऽपि तद्वेदनसमकालं ब्रह्ममात्रतया अवशिष्यत इति सिद्धम्॥

इति भृगुवल्ल्यां दशमोऽनुवाकः

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।
तैत्तिरीयविवरणं लिखितं स्यात् स्फुटं लघु॥
तैत्तिरीयविवरणग्रन्थसंख्या निगद्यते।
चतुष्पञ्चाशदधिकसहस्रं पर्यकीर्त्यत॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविकरणे सप्तसंख्यापूरकं
तैत्तिरीयोपनिषद्विवरणं संपूर्णम्

———————

ऐतरेयोपनिषत्

वाङ्मे मनसि—इति शान्तिः

प्रथमोऽध्यायः100

ब्रह्मप्रापकमार्गकथनम्

एष पन्था एतत्कर्मैतद्व्रह्मैतत्सत्यम्। तस्मान्न प्रमाद्येत्तन्नातीयात्। न ह्यत्यायन् पूर्वे येऽत्यायंस्ते परा बभूवुः। तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे। बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आविवेश। प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः। न्यन्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्। बृहद्ध तस्थौ भुवनेष्वन्तरित्यदउ एव बृहद्भुवनेष्वन्तरसावादित्यः। पवमानो हरित आविवेशेति वायुरेव पवमानो दिशो हरित आविष्टः॥१॥

कर्मज्ञानमयी दृष्टिः यत्प्रज्ञाने समाप्यते।
तत् प्रज्ञानं परं ब्रह्म स्वमात्रं न स्वतः पृथक्॥

इह खलु ऋग्वेदप्रविभक्तबहूवृचशाखायां दर्शपूर्णमासाद्यश्वमेधान्तं कर्म तदाश्रयभूतमुख्यप्राणोपासनं चाभिहितम्। तत्र सकामस्य यथावदनुष्ठितं कर्म ज्ञानं वा कर्मसमुच्चितज्ञानं वा चन्द्रलोकप्रापकं भवति। निष्कामस्य अर्चिरादिना ब्रह्मलोकाप्तिः चित्तशुद्धिप्राप्य ब्रह्मजिज्ञासा वोदेति। तादृशजिज्ञासोः जिज्ञास्यवस्तुप्रतिपत्तये ऐतरेयोपनिषदारभ्यते। उपनिपूर्वस्य सदेः क्विवन्तस्य विशरणगत्यवसादनार्थस्य रूपं उपनिषदिति, ब्रह्मविद्योच्यते। स्वनिष्टानां संसारबीजं अवसादयति परमात्मानं निगमयति अवबोधयति गर्भजन्मादींश्च शातयतीत्यात्मविद्या उपनिषत्। प्राणादिविद्यानामपि तदुपकारकत्वेनोपनिषत्त्वं युज्यते। वक्ष्यमाणात्मविद्योपयोगित्वेनैष पन्था इति ब्राह्मणोपनिषदः सुखप्रतिबोधार्थं अल्पग्रन्थतो विवरणमारभ्यते—एष पन्था इति। तस्मात् “स एतेन प्रज्ञेनात्मना अस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानात्वामृतस्समभवत्” इत्युपसंहरिष्यति। तस्मादमृतत्वप्रापक आत्मज्ञानलक्षणोऽयमेष पन्था नान्यः “नान्यः पन्था अयनाय विद्यते” इति श्रुतेः। यज्ज्ञानाधिकारजनकसत्त्वशुद्धिप्रदं एतदेव कर्म ईश्वरार्पणधिया अनुष्ठिताग्निहोत्रादिकर्म। यमनियमादीनां सत्त्वशुद्धिद्वारा ज्ञानहेतुत्वात्। एतदपि ज्ञानसाधकःपन्थाः क्रमेणामृतत्वहेतुत्वात्। एतज्ज्ञानं कर्म वा ब्रह्म साक्षात् परंपरया वा ब्रह्मप्रापकत्वात्।

तद्ध्यग्र्यं सर्वधर्माणां प्राप्यते ह्यमृतं यतः।

इति स्मृतेः। एतदेव सत्यं परंपरया सदात्मप्रापकत्वात्। यस्मात् एतदतिरिक्तसाधनानां बन्धहेतुत्वं तस्मात् आत्मज्ञानतत्साधनान्न प्रमाद्येत्। तदकरणं हि प्रमादः। तन्न कुर्यादित्यर्थः। कर्मपथः प्रमादतः किं स्यात्? इत्यत आह—तदिति। तं पन्थानं नावीयात् नातिक्रामेत्। यतः पूर्वे

ह्यतिक्रान्ता ब्राह्मणा न जातु तं मार्गं अत्यायन् नातिक्रमन्त इत्यर्थः। अस्मात्पथो ये अत्यायन् ते पराबभूवुः कर्मज्ञानमार्गात् भ्रष्टा भवेयुः इत्यर्थः यत एवं अतो ज्ञानकर्मानुष्ठानं अप्रमादेन कार्यमित्यर्थः। ब्राह्मणोक्तमर्थजातऋषिणा मन्त्रेणाप्युक्तमित्याह—प्रजा इति। वयआदितिस्रः प्रजा कर्मज्ञानमार्गात् अत्यायं अतिगमनमीयुः कर्मज्ञानायोग्यतां गता इत्यर्थः वयआदिभ्यो याः पुनरन्या मनुष्यादिप्रजाः ता एवाभितः कर्मणा ज्ञानेन च अर्कमग्निं विविश्रॆआश्रिता इत्यर्थः। येषु भवन्ति भूतानीति भुवनानि लोकाः तेष्वन्तर्मध्ये बृहत् महान् सर्वलोकप्रकाशकृत् सविता तस्थौ स्थितवान् इत्यर्थः। तं च काश्चित् प्रजा अभिनिविविश्रॆइत्यनुषज्यते। पवमानो वायुः हरितो दिश आविवेश। तं च काश्चिदभिविविश्रे। काः पुनरत्यायमीयुः ? इति। मन्त्रोक्तार्थं ब्राह्मणमनुवदति— प्रजा हेति। प्रजा ह तिस्रो अत्यायमीयुः इति। या वै ता इमास्तिस्रो अत्यायमायन् ता वक्ष्याम इत्याह—तानीति। विधातोर्गत्यर्थत्वात् तानीमानि वयांसि पक्षिविशेषाः। पुनर्यान्यपि गतिमन्ति भूतानि वयश्शब्देन कर्मज्ञानायोग्यानीत्युच्यन्ते। खेचरभूचरखभूचरत्रयाणामेको राशिः। वङ्गा इत्यत्र वनगा वनस्पतयो महास्थावराणि। अवगंधा अवगाधाः क्षुद्रस्थावराः। व्रीह्यादय ओषधयः। अवतेः पालनार्थत्वात्। अन्यस्य जङ्गमावनहेतुत्वाच्च। चशब्दः समुच्चयार्थः। एवं स्थावराश्चैको राशिः। इरपादा इत्युरःपादाः। इकारस्यो कारमापाद्य विसर्जनीयोपसर्जनं कृत्वोरःपादा इति सर्पादयो गृह्यन्ते। एवमेतास्तिस्रः प्रजाः अत्यायमीयुः कर्मज्ञानमार्गात् भ्रष्टा भवन्तीत्यर्थः। यतः पापकर्मणः एतादृशं जन्म अतः पापकर्माप्रवृत्तिपूर्वकं श्रेयोमार्गात् न प्रमाद्येदिति वैराग्यहेतोरिदंवचनं न्यन्या अर्कमभितो विविश्र इति। ता इमाः प्रजाः अर्कमभितो निविष्टाः कर्मज्ञानपरा इति व्याख्यातं कर्मणः सर्वसाधारणत्वेनार्कगत्वात्। सन्निहितत्वात् अर्कशब्देन कर्म ज्ञेयम्। सवितुर्महत्त्वं प्रसिद्धम्। अभिव्याख्यातं अन्यत्। पवमानो हरित आविवेश इति वायुरेव पवमानो दिशो हरित आविष्टःव्याख्यातार्थः॥१॥

महदुक्थस्य ज्ञानसमुच्चितकर्मत्वम्

उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च। तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते। अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते। असावेव द्यौरुक्थममुतः प्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते। इत्यधिदैवतमथाध्यात्मम्। पुरुष एवोक्थमयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात्। तस्य मुखमेवोक्थं यथा पृथिवी तथा। तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते। नासिके एवोक्थं यथान्तरिक्षं तथा। तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते। तदेतद्ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव। ललाटमेवोक्थं यथा द्यौस्तथा तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते। समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेवान्नेन हीमानि सर्वाणि भूतानि समनन्ती ३ अन्नेनेमं लोकं जनयत्यन्नेनामुं तस्मात्समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव। तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च। यद्ध किञ्चेदं प्रेत्ता101 ३ इ तदसौ सर्वमत्ति यदु किञ्चातः प्रैती ३ तदियं सर्वमत्ति सेयमित्याद्यात्त्री। अत्ता हाद्योभवति। न तस्येशे यन्नाद्याद्यद्वैनं नाद्युः॥२॥

कर्मज्ञानानधिकृताधिकृतत्वेन स्थावरजङ्गमस्थितिरुक्ता। तदधिगन्तव्यंकर्मज्ञानं कीदृशम्? इत्याशंक्यातीतग्रन्थे महाव्रताख्यं यत् कर्माधिगतं यत्र बृहत सहस्रलक्षणं महदुक्थं शस्यते तदेतत् ज्ञानसमुच्चितं कर्मेत्याह—उक्थमिति अनिर्धारितार्थयाथात्म्यं उक्थमुक्थमितीदं पदं ऋग्वेदपारगाः प्रजा वदन्ति उक्थशब्दस्यार्थवैरल्येन शब्दमात्रत्वेऽपि उक्थमिति केवलयाजकैरवगम्यते वैशब्दो याजकप्रसिद्धिद्योतकः। किं पुनस्तदुक्थम्? इत्यत आह—इदमिति इदमेव तावत् इयमेव पृथिवी। उक्थशब्दः शस्त्रे प्रसिद्धः सन् पृथिव्यां युज्यते तत्र किं सामान्यम्? इत्यत आह—इत इति। यतो ऋच ऋक्स्थे पृथिव्यास्सामान्यमितोऽस्या हि परममेवेदं स्थावरजङ्गमं चोत्तिष्ठति उत्पद्यते यदिदं किञ्च यत्किञ्चेदमुकारथकारयोगतः पृथिव्या उक्थस्य च सामान्यमस्ति किञ्च तस्य पृथिव्युक्थस्यास्याग्निरर्कस्तथोक्थसम्बन्धिन्यपि महाप्रलये अग्निरेवाकं भवति भस्मीकरणसामर्थ्यात्। किञ्च अन्नमशीतयस्तिस्रः त्रिचाशीतयः स्तुत उक्थे तथाप्यत्राप्यन्नमेवाशीतयः। तत् कथं? यस्मात् प्राणिजातं हीदमन्ने नाश्नुते व्याप्नोति। अन्नवानिह लोके हि प्रभविष्णुः भवति। अशीतयोऽन्नमिन्द्र स्याशीतीनामन्नत्वं वक्ष्यति “सहान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस” इति तथान्तरिक्षमेवोक्थम्। तत्र को हेतुः? इत्यत आह—अन्तरिक्षमिति अन्तरिक्षमेवानुपतन्ति। अन्तरिक्षोद्देशेन गच्छन्ति। तथा अन्तरिक्षमेव अनुधावयन्ति। तदुभयं उत्थानपूर्वकमिति उक्थशब्दलाभहेतुरन्तरिक्षमित्यर्थः। तस्य वायुरकऽन्नमशीतयोऽनेन हीदं सर्वमश्नुते इत्युक्तार्थमेतत्। असावेव द्यौरुक्थममुतः अमुष्या दिवः प्रदानात् दृष्ट्यादिलक्षणात्। यस्मादिदं स्थावरं जङ्गमं च सर्वमुत्तिष्ठति यदिदं किश्व तस्मात् द्यौरुक्थशब्दवाच्या। तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते इति पूर्ववत्। एवमधिदैवतं देवताविषयदर्शनमुक्तम्। अथानन्तरं अध्यात्मदर्शनमुच्यते—अथेति। यः शिरःपाण्यादिमत्त्वेन प्रसिद्धः सोऽयं पुरुषः एवोक्थम्। कथं पुरुषस्योक्थत्वं? तत्राह—अयमेव महानिति। तस्य प्रजापतित्वात् महत्त्वम्। तथा च वक्ष्यति “अथातो विभूतयोऽस्य पुरुषस्य” इत्यादि। यस्मादयं

महान् प्रजापतिः कर्मज्ञानसाधनत्वेन जगदुत्पादको भवति तस्मादात्मानमेव पुरुषोऽहमुक्थमस्मीति विद्यात्। पुरुषावयवेष्वपि उक्थदृष्टिमनुक्रामति। तस्य मुखमेवोक्थमिति। यथा उक्थशब्दः पृथिव्यादौ स्थूले प्रयुक्तः तथा तदभ्यन्तरतमे पुरुषे तदवयवे च प्रयुज्यते। “इयमेव पृथिवी” इत्युपक्रम्य “तदेतदुक्थं प्राण एव” इति निर्धारणश्रुतेः पुरुषादेरुक्थत्वे अर्काशीतिसम्बन्धः कथम्? इत्यत आह—तस्येति। तस्य पुरुषस्य वागर्कोऽन्नमशीतय इत्याद्यवयवानां उक्थत्वविशेषणाभिधानं बाह्यार्थसामान्यसंपादनार्थम्। तथा चाध्यात्मिकपुरुषोक्थस्य त्रैलोक्यात्मनः प्रजापतेः मुखमुक्थमित्युक्तं तस्याग्निरर्कोमुखेनोक्थसंबन्धात्। अन्नमशीतय इत्यादि व्याख्यातम्। यदेतदन्तरिक्षावसाने स्वर्गलोको वै ब्रघ्नः तस्य ब्रध्नस्य विष्टपं स्थानं यदिहाध्यात्ममेतत् नासिकायै नासिकाया अवसाने भ्रुवोरधस्ताच्च विनतं विशेषेण नतमिव। इवशब्दोऽनर्थकः। ललाटमेवोक्थमिति सामान्यात् उक्थभेदानुरोधेन अर्कभेददर्शनात्। अशीतिष्वपि तथा इत्यत आह—समानमशीतय इत्यादि वक्ष्यति। किं पुनः तत्समानम्? अन्नमेवाध्यात्मं चाधिदैवतं च समानतया प्राणाविष्टानि भूतानि समं चेष्टन्ते प्राणनं कुर्वन्तीत्यर्थः। यथा द्यौः प्रकाशात्मिका तथा तस्य चक्षुरर्कोऽन्नमशीतयो अन्नेन हीदं सर्वमश्नुते व्याप्नोति। अन्नेन हीमानि सर्वाणि भूतानि पार्थिवत्वेन समनन्ति समानतां यन्ति। अन्नेनेमं लोकं जयति। अन्नेनामुं पश्वादिभिः धनवान् यागदानादिभिश्च सुकृती सन् जयति व्याप्नोति। लोके तावदन्नवत उभयलोकव्याप्तिः प्रसिद्धेत्यर्थः। तस्मात्समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव बाह्याध्यात्मलक्षणं जगत्। तत्र स्थावरमन्नम्। जङ्गमं तदत्तीत्यन्नादम्। अस्य जगतोऽन्नान्नादत्वम्। तत्कथम्? इत्यत आह—इयमिति। इयमेव तावत् पृथिवी अन्नम्। इतोऽस्याः पृथिव्याः इदं स्थावरं जङ्गमं च सर्वमुत्तिष्ठत्युत्पद्यते सर्वस्य पार्थिवत्वाविशेषात्। यदिदं किञ्च कर्तृसाधनविशेषरूपं यत्किचेदम्। तत् किं स्यात्? इत्यत आह—यदिति। यद्ध किञ्चेदं सकर्तृकं चरुपुरोडाशादेः कर्तृनिष्पन्नत्वात्। पञ्चमो लकारः प्रेत्तेत्यस्य अघादेशे यलोपे च इदं रूपं

प्रेतीत्यर्थे प्रेत्तेति। यत्किञ्चिदितोऽमुतः तं प्रैति गच्छतीत्यर्थः। तत् सर्वमसौ द्यौरित्यात्मसात्करोति। यदु किञ्चातोऽमुष्मात् द्युलोकात् प्रेत्यागच्छति क्षीणलोको यजमानः तदियं तत्सर्वं पृथिव्यत्ति। तथान्तरिक्षं यथा पृथिव्यन्तरिक्षयोरुपकार्योपकारकत्वं तथा प्राणिनामन्योन्योपकार्योपकारकत्वं तदिदं जगदन्नमन्नादं चेति। यत् प्रस्तुतं तदिदानीं उपसंहरति—सेयमिति। इयं पृथिवी अद्या च अत्त्रीचेति। तथासावपि द्यौरद्या अत्त्री च। एवमद्यात्त्रीत्वेन द्यावापृथिवीग्रहणं सर्वेषामुपलक्षणार्थम्। य एवमद्यात्तृरूपप्रजापतिरुक्थमहमस्मीति वेद तस्येदं फलमाह—अत्तेति। सर्वस्यान्नजातस्य अत्ताद्यश्च भवति। प्रजापतेरुभयात्मकत्वेन प्रजापतिरेव भवतीत्यर्थः। यथा सर्वो हि लोकः परस्परं अत्ता चाद्यश्च भवति तथायं विद्वानपीत्यत आह—नेति। न हि तस्य विदुषः स्वामी कश्चित् भवति विदुषः सर्वात्तृत्वात्। वाशब्दः चार्थे। एवंविदमेनं परे नाद्युः। तस्मात् विद्वान् स्वात्मभूतस्याद्यस्य अत्ता सर्वात्मको भवति। यस्तु अविद्वान् परेषां अद्यो भवति। न च सर्वस्यात्तेत्येवं विदुषोऽविदुषश्च विशेष उक्त इत्यर्थः॥ २ ॥

हिरण्मयपुरुषलक्षणम्

अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽन्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग्वाचो रेतः कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः। स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः। हिरण्मयो यो ह वा अमुष्मिन् लोके संभवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद॥ ३ ॥

अन्नान्नादलक्षणं जगत् प्रजापतिरित्युक्तम्। तस्य न हि वृष्ट्यात्मकत्वं अवधारितम्। तदर्थमिदमुच्यते—अथेति। अथ अन्नान्नादस्वरूपकथनानन्तरं

यतो रेतःकार्यात्मसृष्टिं विना न हि संव्यवहारः सिध्यति अतः कर्मज्ञानाधिकृतस्य प्रजापते रेतसः सृष्टिरुच्यते। इत्थंभूतप्रजापतेः रेतःकार्यंवागाद्यभिमानिनोऽग्न्यादयो देवाः संभूताः। देवानां रेतो वृष्टिः वर्षम्। वृष्टेः कार्यं ब्रह्माद्योषधयः। ओषधीनां रेतः प्रसिद्धं अन्नम्। पुरुषभुक्तान्नस्य रेतः नृबीजं रेतः कार्यम्। स्त्रीयोनिनिषिक्तरेतसो रेतः प्रजाः इत्यनेन क्रमेण प्रजानां सृष्टत्वात् प्रजापतित्वं पुरुषस्येत्यर्थः। केन साधनेन अन्नमयींप्रजां सृजति? इत्यत्र प्रजापतित्वमापन्नप्रजानां रेतःकार्यं हृदयम्। सर्वज्ञानाधारेयं बुद्धिः।तद्धृदयस्य रेतो मनो ज्ञानम्। मनसो रेतः चोदनालक्षणा वाक्। वाचो रेतः कर्म। “वाचा चोदितं कर्म क्रियते” इति “मनोवाक्प्रसूतं पाङ्क्तं कर्म” इति च श्रुतेः, “विज्ञानं यज्ञं तनुते” इति मन्त्रवर्णाच्च। तदिदं हृदयाधारं शरीरं मनोवाक्प्रसूतकर्मणा कृतम्। तेनेदं विनाशि चलम्। तथापि ह्ययं पुरुषः शिरःपाण्यादिमान् प्रज्ञानलक्षणप्राणाख्यब्रह्मणः लोक्यते लोकयतीति वा लोकः। स चायमिरामयोऽन्नमयो यस्माद्धीरामयोऽन्नमयस्तस्माद्धिरण्मयः। हिरण्यज्योतिरमृतं सोमस्य देवानामन्नामृतभूतत्वात्। यतस्तन्मयमन्नं अतो बाह्यपिण्डोऽयं हिरण्मयः कर्मकृतो ब्रह्मणो लोकः “यत्किञ्चिद्रेतसोऽसृजत तदु सोमः”, ’ एतावद्वा इदमन्नं " इति च श्रुतेः। एवंविदः फलमाह—

हिरण्मय इति। हिरण्मयो ह वै सोमात्मा एवामुष्मिन् स्वर्गे लोके संभवति सोमवदुपास्यो भवतीत्यर्थः। एवं यो वेद उपास्ते स हि सर्वेभ्यो भूतेभ्यो हिरण्मयत्वेन ददृशे सोमवत् प्रियदर्शनो भवतीत्यर्थः॥३ ॥

हिरण्मयपुरुषस्य ब्रह्मेन्द्रप्राणादिवाच्यत्वम्

तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते शफाः खुरा इत्यन्येषां पशूनाम्। तदूर्ध्वमुदसर्पत्ता ऊरू अभवताम्। उरु गृणीहीत्यब्रवीत्तदुदरमभवत्। उर्वेव मे कुर्वित्यब्रवीत्तदुरोऽभवत्।

उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्माहैव ता ३ इ। ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वम्। ता वा एताः शीर्षञ्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः। श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद। ता अहिंसन्ताहमुक्थमस्म्युक्थमस्मीति ता अब्रुवन् हन्तास्माच्छरीरादुत्क्रामाम तद्यस्मिन्न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति। वागुदक्रामदवदन्नश्नन् पिबन्नास्तैव चक्षुरुदक्रामदपश्यन्नश्नन् पिबन्नास्तैव श्रोत्रमुदकामदशृण्वन्नश्नन्पिबन्नास्तैव मन उत्क्रामन्मीलित इवाश्नन् पिबन्नास्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत।

तदशीर्यताशारीती ३ तच्छरीरमभवत्तच्छरीरस्य शरीरत्वम्। शीर्यते ह वा अस्य द्विषन् पाप्मा भ्रातृव्यः परास्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद। ता अहिंसन्तैवाहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन् हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति। वाक् प्राविशदशयदेव चक्षुः प्राविशदशयदेव श्रोत्रं प्राविशदशयदेव मनः प्राविशदशयदेव प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठदुक्थमभवत्। तदेतदुक्थां ३ प्राण एव। प्राण उक्थमित्येव विद्यात्। तं देवा अब्रुवन्त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति। तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति॥ ४ ॥

प्राजापत्यरेतःसृष्टितो हिरण्मयः पुरुष उक्तः। तस्य ब्रह्मेन्द्रप्राणादिशब्दवाच्यतां स्फोरयितुमिदमारभ्यते—तमिति। यो हि ब्रह्मणो लोक इति प्रकृतोऽन्नमयः तं प्रपदाभ्यां चारभूताभ्यां प्रापद्यत। किं? तत्राह—ब्रह्मेति। प्राणाख्यब्रह्मणो बृहत्त्वात् इदं शिरःपाण्यादिमन्तं पुरुषं यस्मात् प्रपदाभ्यां पादाग्राभ्यां मस्तकपर्यन्तं प्रापद्यत, तस्मात् पदाग्रे प्रपद इति संवृत्ते। तस्मादेव च लौकिकाः प्रपदे इत्याचक्षते। मनुष्यातिरिक्तपशूनां चतुष्पदामश्वप्रभृतीनां शफाः खुरा इत्याचक्षते इत्यनुषज्यते। तत् ब्रह्म प्राणाख्यं प्रपदाभ्यां प्रपन्नं सत् ऊर्ध्वमुदसर्पत् विषमिवोद्गतवत्। यस्मात् ऊर्ध्वमुदसर्पत् ता ऊरुशब्दवाच्यावभवताम्। तत् ब्रह्मरुदेशं प्राप्य उरु विस्तीर्णं गृणीहि ग्रसनं विपुलच्छिद्रं कुर्वित्यब्रवीत्। इति ब्रह्मवचनात् तत् शरीरमध्यमुदरं अभवत्। पुनस्तदुदरादूर्ध्व उर्वेव विस्तीर्णतरमेव कुरु म इत्यब्रवीत्। तत एवोरो हृदयप्रदेशोऽभवत्। तस्य वैश्वानरब्रह्मणाधिष्टितत्वात् तद्ब्रह्मेति ब्रह्मदृष्ट्या शर्कराक्षस्यापत्यानि शार्कराक्ष्या ऋषय उपासते। उदरादूर्ध्वप्रदेशं हृदयम्। तस्य ब्रह्मोपलब्धिस्थानत्वेन तदेव ब्रह्मेति अरुणस्यापत्यानि आरुणयः उपासत इत्यनुषज्यते। ब्रह्मा हैवेत्यत्र ब्रह्मण्येवेति इडादेशे एतद्रूपं द्रष्टव्यम् \। ब्रह्मा व ब्रह्मण्येव ता इतः हृदयप्रदेशात्पुनरप्यूर्ध्वंत्वेवोदसर्पत्। तदेतद्ब्रह्मोर्ध्वमुद्गम्य तच्छिरोऽश्रयत। तच्छिरसि हि चक्षुरादिकरणानि तत्तद्गोलके निक्षिप्य दर्शनादिव्यापारं कुर्वत् सत्तत्रास्ते।यस्मात् ब्रह्म तच्छिरोऽश्रयत ब्रह्माश्रयणात्तच्छिरोऽभवत्। एवं लोके तावत्शिरसः शिरस्त्वं प्रसिद्धम्। तत्रत्यवृत्तयः काः? इत्यत आह—ता इति। ता वा एता वृत्तयः शीर्षन् शिरसि श्रिताः। श्रियः चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयन्ते। प्राणानां श्रीहेतुत्वेन श्रयणात् श्रीत्वम्। यश्शिरसः शिरस्त्वं वेदास्मिन् विदुषि श्रियः श्रयन्ते। श्रिय एकत्वेऽपि पश्वादिसाधनभेदेन बहुवचनं युक्तम्। यद्वा—चक्षुरादिवृत्तयो वा श्रीशब्देनोच्यन्ते। अस्मिन् पक्षे विषयग्रहणदक्षादक्षेन्द्रियत्वं विद्वदविदुषोर्विशेषः। शरीराश्रयप्राणानां संकीर्णत्वेन तत्प्रविष्टब्रह्मनिर्धारणार्थमिदमुच्यते—ता इति। ताः

प्रकृताः चक्षुराद्याः अहिंसन्त स्पर्धां कृतवत्य इत्यर्थः। किं निमित्तम्? इत्यत आह—अहमुक्थमस्म्यहमुक्थमस्मीति। अहमहं श्रेयानित्यर्थः। उक्थशब्दार्थो ब्रह्म। अत इदं विचार्यम्। तत्र चक्षुरादिश्रियः श्रेष्ठताया निष्पत्तिमपश्यंत्यः वाङ्मात्रेणाहमुक्थमस्मीति प्राणमन्तरेणान्योन्यममन्यन्त। तत्कथं! हन्त वयमस्मात् शरीरात् क्रमेणोत्क्रामाम। नोऽस्माकं मध्ये यस्मिन्नन्यतम उत्क्रान्ते इदं शरीरं पत्स्यति पतिष्यति तदिह श्रेष्ठत्वेनोक्थं भविष्यतीत्येवमुक्त्वा तत्र वाक् प्रथममुदक्रामत्। ततो वाच्युत्क्रान्तायां अवदन् वचनव्यापारमकुर्वन्नश्नन् पिवन्नास्तव। देहो यदि हि वागपेतं पतेत् तदा वाक् उक्थतां भजेत्। न हि तदस्ति। वचनव्यापारमन्तरेण यथावत् देहस्य स्थितेः। समानमन्यत्। क्रमेण चक्षुरादिरुदक्रामत्। निमीलित इवात्र यथा अन्वश्चक्षुर्निमीलनोन्मीलनमात्रं कुर्वन् विषयविषयिविवेकमकुर्वन् आस्ते तथेत्यर्थः। स्वातिरिक्तकरणग्रामोत्क्रमणानन्तरं प्राण उदक्रामत्। तदिदं शरीरं अपद्यत पतति। न हि केवलं पतितमेव। किन्तु तच्छरीरं अशीर्यत। विमुक्तसन्धिबन्धभावमगमत्। यस्मात् चेतनाशाली प्राणापगमतः अचेतनं भवतीत्यर्थः तस्मात् तच्छरीरमभवत्। यत् प्राणापगमे विशरणभावमापद्यते तस्मात् शरीरस्य शरीरत्वम्। प्राणयोगतः पुनः चेतनवत् भवतीतिप्राणमाहात्म्यं यो वेद अस्य तस्य विदुषः प्राणशरीराविवेकत्वेन केवलं शरीराभिमानलक्षणः पाप्मा पारलौकिकसंपदसहमानतो द्विषन् भ्रातृव्यः अत्यन्तानर्थयोजनात् न केवलं शीर्यत एव किन्त्वस्याभिमुखतः पराभवति। पुनस्ता वागादयः अहमुक्थमस्म्यहमुक्थमस्मीति अहिंसन्तः स्पर्धामकुवत्यः सत्यः ता अब्रुवन्। पुनः शरीरं प्रविशामेति। नः अस्माकं मध्ये यस्मिन प्रपन्ने प्रविष्टे तदिदं शरीरं चेतनवदुत्थास्यति तदुक्थं भविष्यतीति। एवं वदतां करणानां मध्ये वाक् प्राविशत्। तत्प्रवेशेऽपीदं शरीरं नोत्थितम्। सुषुप्तवत् अशयदेव पतितमेवास्ते। तथा चक्षुः श्रोत्रमनांसि प्रविष्टानि। तथापि पूर्ववत् अशयदेव शरीरम्। ततः प्राणः प्राविशत्। तच्छरीरं प्रति प्राणे प्रपन्ने प्रविष्टे सुप्तोत्थितवत् तच्छरीरमुदतिष्ठत्। यतः प्राणः

शरीरोत्थानहेतुः अतः तत्प्राणाख्यं ब्रह्म उक्थमभवत्। “उक्थमुक्थं वै प्रजा वदन्ति” इत्यत्र उक्थशब्दार्थः कः? इति विचार्यमाणे प्राण एवोक्थशब्दार्थ इति निर्धारित इत्यर्थः। यस्मादेवं तस्मात् प्राणोऽहमुक्थमस्मीत्येवं विद्यात्इति पूर्ववत्। वागादयो देवाः तं उक्थत्वेन प्रस्तुतं प्राणं “प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणस्सर्वाणि भूतानि” इत्यादिश्रुत्यनुरोधेन स्तुवन्तीत्याह—तमिति। उक्थत्वेन निर्धारितयाथात्म्यं तं प्राणं पराजिताः सन्तो वागादिदेवाः सार्वभौमं प्रति तद्विषयवर्तिराजानः करं प्रयच्छन्त इव अब्रुवन्।त्वमुक्थमसि त्वमिदं सर्वमसि। किञ्च—यथा स्वामिनो भृत्याः तथा वयं स्मः भृत्या भवामः। तव रूपादिवल्युपहारकत्वात्। त्वं अस्माकं भृत्यानां प्रभुरुपस्वाम्यसि। यत् ब्राह्मणेनोक्तं तदृषिणा मन्त्रेणाप्युक्तं प्रकाशितम्। त्वमेव ह्यस्माकं स्थितिव्यापारकृत्। तव वयं प्रेष्याः स्मः। इतिशब्दो मन्त्रपरिसमाप्त्यर्थः॥४॥

तस्य वागादिस्तुतिः

तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीतीं ३ तत्प्रातरभवत्समागादितीं ३ तत्सायमभवदहरेव प्राणो रात्रिरपानः। वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति। एतद्धस्म वै तद्विद्वानाह हिरण्यदन्वैदो न तस्येशे यं मह्यं न दद्युरिति प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध तत्। अनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद। तत्सत्यं सत् इति प्राणः ति इत्यन्नं यं इत्यसावादित्यस्तदेतत्त्रिवृत्त्रिवृदिव वै चक्षुः शुक्लंकृष्णं कनीनिकेति। स यदि ह वा

अपि मृषा वदति सत्यं हैवास्योदितं भवति य एवमेतत्सत्यस्य सत्यत्वं वेद॥५ ॥

पुनस्तं वागादयः स्तुन्वन्तीत्याह—तमिति। तं प्राणमेवानुसृत्य वागादयो देवाः प्राणयन्त माहात्म्यं गतवन्तो वयमित्यर्थः। स हि प्राणो वागादिभिः प्रभुत्वे प्रणीतः प्रार्थितः सन् स हि स्वामीव भृत्यान् देवान् पालयन्प्रातायत प्रातःकालः अभवत्। वागादिलोकचेष्टामुपसंहृत्य स्वापस्थानं प्रति समागादिति यत् तत् सायंकालः अभवत्। अहोरात्रयोः प्राणापानवृत्तिनिमित्तत्वेन अहरेव प्राणो रात्रिरपानः। प्राणापानवृत्तिभ्यां अहोरात्रादिकालात्मकः देवतात्मा च भवतीत्याह—वागिति। प्राणस्य या वाक्सोऽभिश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं यदेतद्वागादीनामभिमानसंस्थानं प्रहितां प्रगतानां वागादीनां संयोगः। स एष संयोग आत्मनो भोगार्थमधिकृत्य भवतीत्यध्यात्ममिमा वागाद्यभिमानिन्यो देवता अद उ आविः प्रकाशरूपं यदग्न्यादि तदधिदैवतमित्येतत् तदुक्तं भवतीति वक्ष्यमाणऋषिवाक्येन संबन्धः। कोऽसावृषिः? इत्यत्र श्रुतिरेव देवतासंयोगलक्षणमहमुक्थमस्मीति। वैशब्दो वृत्तानुस्मारकः। हिरण्यं ददातीति हिरण्यदन् नाम्ना वा बिदस्यापत्यं बैद ऋषिस्सन् विद्वानाह। किमिति? न तस्येति। कश्चिदपि तस्य पदार्थजातस्य प्राणमृते भोक्तुं नेशे न समर्थो भवति। प्राणात्मभूताय मह्यं पदार्थजातं केचिन्न दद्युस्ते स्थावरभावमीयुः। यद्वा—सर्वावस्थाय मह्यं पदार्थजातं के वा न दद्युः? सर्वेऽपि दद्युरित्यर्थः। सर्वतः सर्वैरुपनीयमानभोगजातस्य अहमेव भोक्ता स्वामी। सर्वे मम बलिहारकाः। अत्र हेतुः प्रहितां वागादीनां मयि निविष्टं संयोगमध्यात्ममित्यहं वेद जानामि। यत एतद्ध यथोक्तप्राणदर्शनं योऽन्योऽपि वेद तस्यैतत्फलम्। अस्मा एवंविदे प्राणात्मभूताय अनीशानान्यस्वतन्त्राणि भूतानि सर्वाणि बलिमुपहारं हरन्ति दिशन्तीत्यर्थः। यत् पुरोक्तं अध्यात्ममधिदैवतं च तदेतत्सर्वमेकेन सत्यशब्देनोच्यते—सत्यमिति। यदेकया वाचा अभिव्याहियते तद्धि खलु

सत्यमिति विज्ञातुं युक्तं अनेकधा व्याहरणस्यासत्यत्वात्। किं पुनस्तदेकशब्दवाच्यं? तत्राह—सदिति। यत् पारमार्थिकं तदेव सत् “सन्मात्रमसदन्यत्” इति श्रुतेः। प्राणगतहेयांशापाये प्राणस्य सन्मात्रत्वात्। स्वाज्ञजातमत्तीत्यन्नं—

अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते।

इति श्रुतेः। यं इत्यसावादित्यः सर्वात्मा। तत्र सच्छब्दयंशब्दवाच्यप्राणादित्यौ सत्पदवाच्यौ। मध्यस्थतकार इकारस्तु अनृतशब्दवाच्यः। तस्य उभयतः सत्येन छन्नत्वात् तदपि सत्यमेवेत्यत्र “तदेतत् त्र्यक्षरं सत्यं” इति, “सत् इत्येकमक्षरं ति इत्येकमक्षरं यं इत्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतस्सत्येन परिगृहीतं सत्यभूयमेव भवति” इति श्रुतेः। यस्मात् तदेवं सर्व जगत् सत्यं त्रिवृदेव। नातोऽतिरिक्तं तदेतत् त्रिवृत्त्वं चक्षुषीह प्रत्यक्षं दृश्यते। बाह्यान्तरन्तरालं सर्वमादित्यात्मकं सर्वंत्रिवृत्त्रिवृदिव। इववैशब्दौ अवधारणस्मरणार्थौ। तत् कथं चक्षुषि त्रिवृत्त्वं? तत्राह—शुकुं कृष्णं कनीनिकैति। चक्षुर्मध्ये यत्तेजः तच्छ्रुक्लं प्राणस्वरूपम्। तत्परितो यत् कृष्णं तदनृताभिधानान्नरूपम्। तत्परितो या कनीनिका रोहितशुक्लमिश्रद्युतिः सैवाग्न्यभिन्नादित्यरूपेति त्रिवृत्त्वम्। तदेतत् सत्यस्य सत्यत्वं यो वेद सोऽयं विद्वान् प्रमादेन यदि कदाचित् अनृतं वदत्यपि तस्य ह वै विदुषः तदनृतं सत्यमेवोदितं भवति। अनृतदोषो नैनं हिनस्तीत्यर्थः। “नैनं विद्वांसमनृतं हिनस्ति” इति श्रुतेः। वागादिसमर्पितबलिभुक् प्राण एव सत्यैकशब्दवाच्यो भवतीत्युपसंहृतं भवतीत्यर्थः॥५ ॥

प्राणस्य विभूत्यन्तराभिधानम्

तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितं सर्वं हीदं नामनीं ३ सर्वंवाचाभिवदति। वहन्ति ह वा एनं तन्तिसंबद्धा य एवं वेद। तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो

बृहती स छन्दोभिरछन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते। छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यचिद्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद। तदुक्तमृषिणा। अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति। अनिपद्यमानमिति न ह्येष कदाचन संविशति। आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति। स सध्रीचीःस विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः। आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति। अप्रक्षितं वसु बिभर्षि हस्तयोरषाल्हं सहस्तन्वि श्रुतो दधे। आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः। अथो आवृतासोऽवतासो न कर्तृभिरिति। सर्वं हीदं प्राणेनावृतम्। सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथायमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात्॥६॥

पुनः प्राणस्य विभूत्यन्तराभिधित्सया इदमारभ्यते—तस्येति। तस्य प्राणस्य वाक्करणं तन्तिरिव तन्तिर्यथा वत्सान् बध्नाति तन्तुभिः तथा वाक्तन्तिः। तत्संभूतानि हि नामानि अभिधानानि। दामानीव दामानि तैः नामभिः सर्वं जगदभिधेयभूतं अभिधानप्रकाश्यं दामभिः बद्धवत्समिव तदिदं जगदस्य प्राणस्य वाचा तन्त्या दामस्थानीयनामभिः सर्वमशेषं सितं बद्धम्। यस्माद्दामस्थानीयनाम्नि सर्वं बद्धं अभिधेयस्य अभिधानप्रकाश्यमानत्वात्, तस्मात् नामभिः दामभिः सर्वं सितमिति युक्तमुक्तम्। लोके सर्वं वाचाभिवदतीति प्रसिद्धम्। ते अभिधानाभिधेयलक्षणनामरूपे प्राणस्य

ममात्मभूतेन हि मत्तोऽतिरिच्यते। एवं यो वेद तमेनं एवंविदं वाक्तन्तिसम्बन्धा वहन्ति। राजानं प्रति बलिकरप्राणिन इव स्वार्थं प्रापयन्तीत्यर्थः। यथा बाह्यनामरूपाभ्यामावृतस्सन् प्राणश्छन्न एवं प्राणस्थानीयबृहत्यपि इतरैः छन्दोभिः छन्ना। तस्याः प्राणवत् व्यापकत्वात् सैव बृहती। अस्मिन् क्रतौ तस्यां शस्यमानायां सर्वाणि छन्दांसि बृहत्यङ्गत्वेनोपात्तानि भवन्ति। यथा मुख्यप्राणेन नामरूपात्मकं जगद्व्याप्तं तथा बृहत्येत्याह — तस्येति। तस्य बृहत्यात्मनः प्राणस्य पुरुषस्य लोमानीवोष्णिग्लोमानि उष्णिक् सप्ताक्षरा। अष्टाक्षरा गायत्री त्वक् त्वचो लोम्नामन्तरत्वात्। एकादशाक्षरा त्रिष्टुप् मांसं तस्य त्वचोऽभ्यन्तरत्वात्। अनुष्टुप् द्वात्रिंशदक्षरा स्त्रावानि तस्य मांसाभ्यन्तरत्वात्। द्वादशाक्षरा जगती अस्थि तस्य स्त्रावाभ्यन्तरत्वात्। दशाक्षरा पङ्क्तिर्मज्जा तस्या अस्थ्यन्तरत्वात्। सर्वाभ्यन्तरत्वात् बृहती प्राणः तस्याः प्राणत्वेन स्तुतत्वात्। सा हि षट्त्रिंशदक्षरा हि बृहती। षट्छन्दांस्याप्नोति। शरीरगतधातूनां छन्दस्त्वेन संस्तावे प्राणसंस्तवस्य विवक्षितत्वात्। सोऽयं प्राणो ब्रह्मसूत्रात्मनो ब्रह्मत्वप्रसिद्धेः। तस्येतरधा तु भूतछन्दोभिः छन्नत्वात्। यद्येवमयं प्राणः छन्दोभिः छन्नः तस्मात् शिष्टाः छन्दांसीत्याचक्षते। यतो धात्वायमानोष्णिगादिछन्दांसि छादयन्ति गोपायन्त्यतश्छादनाच्छन्दसां छन्दस्त्वं यो वेद तमेनमेवंविदं छन्दांसि छादयन्ति पापात् कर्मणो रक्षन्ति। यस्यां कस्यांचिद्दिशि पापं कर्म कर्तुं कामयते वर्मस्थानानि योद्धेव छन्दांस्येनं रक्षन्तीति विद्याफलमेतदुक्तम्। प्राणाख्यं वस्तु ऋषिणा मन्त्रेणाप्युक्तं प्रकाशितम्। प्राणात्मदर्शनेऽवस्थितो दीर्घतपा नाम ऋषिरेव मन्त्रं ददर्श। स कीदृशः? इत्यत आह—अपश्यमिति। गोपां गोपायितारं प्राणमपश्यं अदर्शम्। कथं भूतम्? इत्यत्र वागादिकरणग्रामोपरमो हि स्वापः। तत्र नीचैर्वागादिभिः अनिपद्यमानं अनस्तमितस्वभावं “य एष सुप्तेषु जागर्ति” इति श्रुतेः। सर्वप्राण्युपकाराय स्वसदनहृद्देशादर्वाक् भूतनाडीसुषिरपथिभिः आ च आचरन्तं स्वालयोर्ध्वगैः तिर्यग्भूतैश्च नाडीसुषिरपथिभिः मार्गैश्च परा च परा चरन्तं अनेकधा गच्छन्तम्। एवंभूतो

यः प्राणः सर्वा दिशोऽन्तर्यामिरूपेण ध्रियमाणस्सन्नञ्चतीति स सध्रीर्च सध्रीचीः तथा ध्रियमाणः सन् सर्वा दिशो विष्वङ्ङञ्चतीति स विषूर्च भुवनेष्वन्तर्मध्ये मणिषु सूत्रमिव वसानस्सन् आसमन्तात् वरीवर्ति सूत्रात्मना सदा वर्तत इत्येवंमहिमा यस्तमहं अपश्यं इति दीर्घतपसा दृष्टोऽयं मन्त्रः यद्वा—पूर्वादिदिशः सध्रीच्यः आग्नेयादिदिशो विषूच्यश्च ताः सधीचीर्विषूचीः दिशः प्रत्यधिदेवतात्मना वसानो वस्ते शिष्टं समानम्। अन्येनापि मन्त्रे तमेतं प्राणं स्तौति—अप्रक्षितमिति। गोपामित्यादिपदं ब्राह्मणं व्याचष्टे— एष वै प्राणो गोपा इति। प्राणस्य गोप्तृत्वं प्रसिद्धमित्यर्थः। अनिपद्यमानमितिस्वापादौ वागादिकरणग्रामेण विलयमनिपद्यमानं अवस्थात्रयेप्येकरूपेण तिष्ठन्तमित्यर्थः। पादादिमस्तकान्तगतनाडीसुषिरपथिभिः आ च परा च मार्गैश्चरन्ससध्रीचीस्सविषूचीः दिश अधिदेवतात्मना वसानः भुवनेष्वन्तरावरीवरि अन्तर्यामिरूपेण सदा वर्तत इत्यर्थः। हे इन्द्र प्राण! प्राणापानायमान दक्षिणोत्तरहस्तयोः अप्रक्षितं अप्रक्षीणं सर्वप्राणिजीवनलक्षणकर्मफलात्मकं वसुवनं बिभर्षि धारयसि। किञ्च स्वेतरैरषाल्हमप्रसह्यं सहो बलं तवैवास्ति तेनदं जगद्धारयितुं उत्सहस इत्यर्थः। किञ्च स्वात्मनस्तन्वि तनौ श्रुतो श्रवणज्ञान्दधे धारयसि ज्ञानस्य त्वदाश्रयत्वात्। “प्राणबन्धनं हि सोम्य मनः” इति श्रुतेः। किञ्च अवतासः अवता अवटा नृत्तरंगनटा इवावृतास आवृताः। न कर्तृभिरित्यत्र नकारो न निषेधार्थः। किन्तु नकारस्योपरि उपचारादुपमार्थः। यथा अवटे बिले निधि निक्षिप्य कर्तृभिः पाषाणादिन तत् बिलमाच्छाद्यते तथा ते तनूषु निधिस्थानीयाः क्रतवः सङ्कल्पाज्ञानानि च स्वाज्ञानवृत्तिभिरावृताः तिष्ठन्ति। क्रतवो यज्ञविशेषा वा “अयं वै यज्ञोऽयोऽयं पवते” इति श्रुतेः। किञ्च भूरयोऽनेके बहवो ज्ञानभेदाः त्वय्येव वर्तन्ते। अतस्त्वं सर्वज्ञोऽसीत्यर्थः। ब्राह्मणमावृतास इत्येकपदमेव व्याचष्टे। यथा सोऽयमाकाशः बृहत्या बृहतीछन्दोरूपेण प्राणेन विष्टब्धो व्याप्तः तथा ज्ञानकर्मफलात्मकमिदं जगत् प्राणेनावृतं व्याप्तम्। एव जीवाविष्टसर्वाणि भूतान्यापिपीलिकाभ्यः पिपीलिकादिभिः सह बृहत्या प्राणेन मया विष्टब्धा-

नीत्येवं विद्यात्। प्रकृतो विधिस्सर्वत्रानूद्यते। “अहमुक्थमस्मि” इत्येव विद्यादिति॥६ ॥

ज्ञानकर्मभ्यां पुरुषस्य सर्वसृष्टिः

अथातो विभूतयोऽस्य पुरुषस्य। वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च। यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिंवेद। प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनुशृण्वन्ति वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यन्तेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद॥

चक्षुषा सृष्टौ द्यौश्चादित्यश्च द्यौर्हास्मै वृष्टिमन्नायं संप्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चादित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते दिवश्चादित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद॥

श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमायतीं ३ दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय

कर्मण एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च यावदनुदिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिंवेद। मनसा सृष्टा आपश्च वरुणश्चापो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधारैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद॥७॥

“आत्मा वा इदमेक एवाग्र आसीत्” इत्यतः प्राक् प्राणविषयमेव हि दर्शनम्। तत्रानेकगुणफलसम्बन्धो मन्दानामनेकदर्शनभ्रान्तिकारणम्। यत्र वागग्न्यादीनां संयोगोऽध्यात्मसम्बन्धो निविष्ट उक्तः। तत्कारणभ्रान्तिनिराकरणाय सर्वं प्राणविभूतिरेवेति आम्नायते इत्याह—

अथेति। अथ प्राणस्य बृहतीछन्दःस्वरूपकथनानन्तरं यतस्सर्वं मुख्यप्राणायत्तं अतोऽस्य ज्ञानकर्माधिकृतस्य पुरुषस्य प्रजापतेः विभूतयो विस्तराः अग्न्यादयो देवताः तेषां ज्ञानकर्मभ्यां सृष्टत्वात्। कारणे हि कार्यं भवति। तस्य पुरुषस्य ज्ञानकर्मसंस्कारतः कारणभूतया वाचा पृथिवी चाग्निश्च सृष्टौ। स्वपित्रर्थं ताभ्यां किं कृतम्? इत्यत्र अस्यां पृथिव्यामोषधयो जायन्ते। ता एना ओषधयः भक्ष्यभोज्यादिरूपेणाग्भिः पक्वंकुर्वन् स्वदयति स्वादुयुक्ताः करोतीत्यर्थः। तत्पितृभावमापन्नवाक् तु स्वादुतरमिदमाहरतेदमाहरतेत्याहृदयं संभक्ष्य तृप्तिमेति। एवं ओषधिपक्तृक्रिययैतौ पृथिव्यग्नी वाचं स्वपितरं परिचरतः सेवां कुर्वाते इत्यर्थः। मदीयवाग्विभूतिविस्तररूपौ पृथिव्यग्नी इत्येवं एतां वाचो विभूतिंयो वेद तद्विद्याफलमुच्यते। यावदनु पृथिवी यावदन्वग्निश्च सद्रूपेण वर्तते तावानस्य विदुषो लोको भवति। तावदस्यात्मा तद्भोगतृप्तिमेत्य

वर्तते। नास्य तावल्लोको जीर्यते। न हि क्षीयते। कियन्तं कालम्? यावदेतयोः पृथिव्यग्न्योः स्वरूपं जीर्यते तावदित्यर्थः। अन्तरिक्षं च वायुश्च प्राणेन सृष्टौ तौ पितुर्हितं किं कुर्वाते? इत्यत्र अन्तरिक्षं लक्षयित्वा खलु पितरश्चरन्ति। तथान्तरिक्षमालक्ष्य शृण्वन्ति। न हि मूर्तद्रव्येण निरुद्धास्सन्तः सर्वतश्चरन्ति श्रृण्वन्ति वा। अस्मै स्वपित्रे वायुः पुण्यं गन्धमावहति। अपुण्यमपि गन्धमावहतीति चेन्न; गन्धसामान्यस्य पुण्यरूपत्वात्। प्राणस्यामूर्तत्वेन पुण्यं पुण्यसम्बन्धवैरल्याच्च। एवं अन्तरिक्षवायू प्राणं पितरं प्रत्युपकुर्वाते। उक्तार्थमन्यत्। द्यौश्वादित्यश्च चक्षुषा सृष्टौ तौ स्वपित्रे द्यौर्ह वृष्टिमन्नाद्यं संप्रयच्छति। आदित्योऽस्य चक्षुषो रूपोपलब्धये ज्योतिरेव प्रकाशः तमुपकारं करोति। अन्यदुक्तार्थम्। दिशश्च चन्द्रमाश्च श्रोत्रेण सृष्टाः दिग्भ्यः समुत्थितभोगाः स्वपितरं आयान्ति। तदुक्तशब्दान् शृणोति। चन्द्रमा अस्मै पुण्याय कर्मणे पूर्वपक्षापरपक्षान् विचिनोति स्वकलावृद्धिक्षयतो विभागं करोतीत्यर्थः। दिशश्च चन्द्रमाश्चैवं श्रोत्रं पितरं परिचरन्तीत्यायुक्तार्थम्। आपश्च वरुणश्चमनसा सृष्टाः। आपो हास्मै पित्रे पुण्यकर्मश्रद्धां सन्नमन्ते। वरुणोऽस्य प्रजां धर्मेण दाधार अस्य प्रजां नीरोगां धर्मयुक्तां करोति। एवमापश्च वरुणश्च पुण्यश्रद्धोत्पादनप्रजारक्षणाभ्यां पितरमुपकुर्वन्तीत्यादि समानमन्यत्॥७॥

सर्वसृष्टेर्मूलनिर्धारणम्

आपा ३ इत्याप इति तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति। एतद्धस्म वै तद्विद्वानाह महिदास ऐतरेय अहं मां देवेभ्यो वेद ओ मद्देवान्वेदेतः प्रदाना ह्येत इतः संभूता इति। स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्या

चक्षते। गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं परास्य द्विषन्

पाप्मा भातृव्यो भवति य एवं वेद। स एषोऽप्सु स एष प्राणः स एष भूतिश्चाभूतिश्च। तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति। अभूतिरित्यसुरास्ते ह पराबभूवुः। भवत्यात्मना परास्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद। स एष मृत्युश्चैवामृतं च। तदुक्तमृषिणा। अपाङ् प्राङेति स्वधया गृहीत इत्यपानेन ह्ययं यतः प्राणो न पराङ्भवति। अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणी ३ अमृतैषा देवता। ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवेमानि शरीराणी ३ अमृतैषा देवता। अमृतो ह वा अमुष्मिन्लोके संभवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद॥८॥

एवं ज्ञानकर्मभ्यां पुरुषस्य सर्वसृष्टित्वमभिहितम्। किमुपादाय सर्वंसृजति? इत्यत्र तन्मूलनिर्दिधारयिषया इदमाम्नायत इत्याह—आपा इति। “आपो वा इदमासन् सलिलमेव। स प्रजापतिरेकः पुष्करपर्णे समभवत्। तस्यान्तर्मनसि कामस्समपद्यत इदं सृजेयमिति” इतिश्रुत्यनुरोधेनादावन्तेचाब्बाहुल्याज्जगत अपामेव कारणत्वम्। स्रष्टुकामोऽयं प्रजापतिः सृष्ट्युपादानत्वेन या अवापत् ता एवाप आप इति प्रस्तूयन्ते तदोपादानान्तरासंभवात्। तदिदं जगत् आप एव। अबतिरिक्तेतराणि भूतानि यद्यपि विद्यन्ते तथापि अब्भूयस्त्वेनाप एवेह जगदादित्वेन निश्चीयन्ते। इतरभूतानि कनीयांसि। आप एव भूयस्यः। लोके तावत् कनीयसामपेक्ष्य आरम्भकत्वं भूयसः प्रसिद्धम्। तस्मादाप एव जगतो मूलं उपादानकारणं इत्यर्थः। अदस्तत्पृथिव्यग्निवाय्वादिलक्षणं तूलमयं

कर्मज्ञानाधिकृतोऽन्नमयः पुरुषः पिता। एते पृथिव्यादयः पुत्राः। विभूतिखण्डे तथा व्याख्यातत्वात्। यत्र ह क्क च पुत्रस्य यद्वस्तु स्वात्मभूतं तथा पितुरपि भवति। पुत्रस्य पितुरात्मभूतत्वात् “आत्मा वै पुत्र नामासि” इति श्रुतेः। लोके यत् पितुः स्वं तत् पुत्रस्येति प्रसिद्धम्। तथेहापि यत्पुरुषस्य स्वं तत् पृथिव्यग्न्यादीनामध्यात्माधिदैवात्मकपितापुत्रयोरेकत्वं यावदनुपृथिवीत्यादिना व्याख्यातम्। एतदुक्तं भवति—देवेभ्यो देवैस्सहैकत्वेनात्मानं मामहं वेदेति। नामतो महिदास ऐतरस्यापत्यं ऐतरेयः एतद्ध स्म वै पितृपुत्रयोरेकत्वं यत्तद्विद्वानाह। किं वेद? इत्यत आह—ओ मदिति। आ उ मत् ओ मत् मत्तो मया सहैकत्वेन देवान्वेद। इतोऽस्मादध्यात्मं कर्तृप्रयुक्तचरुपुरोडाशादिकमेषां देवानां ते प्रदानास्तस्मादेते हि देवाः पित्रा जातकर्मादितः पुत्रा इव सम्भूताः। तस्मात् “मूलमदस्तूलम्” इति मम च देवानां चैकत्वं यदुक्तं तद्युक्तमेवेत्यर्थः। एवमितो यद्देवानां सोमाज्यापःपश्वादि संप्रदीयते तस्मादब्बाहुल्यादप्त्वमग्निहोत्रादिकर्म तत्साधनत्वेन जगतो मूलमित्यवधृतम्। अतो जगत्कारणमाप एवेत्युक्तम्। यत्पुरुषस्य प्रजापतित्वनिरूपणप्रसङ्गतः अप्साधनं कर्म पुरुषनिर्वर्त्यमित्युक्तमेतत्सर्वं प्राणस्यैव गुणविस्तारः। लोके यद्यत्कार्यंकारणं वास्ति तत्तत्सर्वं प्राण एव। प्राणातिरिक्तवस्त्वन्तराभावात्। यस्मादेवं तस्मात् सोऽयं प्राणो ब्रह्मोक्थमेव। तस्य बृहत्यात्मकत्वात्। तदुपलब्धिकारणं किम्? इत्यत आह—स इति। चक्षुः श्रोत्रं मनो वाक् प्राण इतीन्द्रियसमुदाय एष गिरिरिव गिरिः। यथा गिरिरुदकरत्नादीनुद्गिरति तथा चक्षुरादीन्द्रियगिरिरपि परापरब्रह्मोद्गिरणात् गिरिरित्याचक्षते शिष्टाः। चक्षुरादिव्यापारप्रसक्तबाह्यदृष्टिलोको ब्रह्म न लभते। यस्त्विन्द्रियव्यापारमुत्सृज्य तज्जपाप्मानमात्मनो द्विषन्तं भ्रातृव्यं गिरति विनाशयति सोऽयं ब्रह्म वेद। अनुरूपमेवास्य विद्याफलम्। अस्मिन् प्रकरणे प्राणस्योपास्यत्वात् तत्स्तुतिरियमारभ्यते—स एष इति। स एषोऽप्सु तिष्ठन्प्राणिनां जीवनरुपो भवति स एष प्राणः प्रस्तुतः। यस्तु स्वानामस्वानां भूत्यभूतिहेतुर्भवति स एष प्राणो भूतिश्चाभूतिश्च भवति।

प्राणवतो हि भूतिरुपपद्यते नाप्राणवतः। तं भूतिरिति देवा उपासांचक्रिरे। भूतिगुणोपासनात् ते देवा भूतिवद्भान्ति। यस्माद्भूतिगुणवानसौ प्राणस्तस्माद्धाप्येतर्हि एतस्मिन्नपि काले सुप्तः पुरुषो भूर्भूरित्येव शब्दानुकरणं कुर्वन् भूतिगुणत्वमात्मनो दर्शयन्निव प्रश्वसिति। प्राणोत्क्रमणे अभूरभूतिहेतुत्वादभूतिर्लोके प्रसिद्धा। अतोऽभूतिरित्यसुरा उपासाञ्चक्रिरे। तेन हि ते पराबभूवुः। तस्माद्भूतिगुणवान् प्राणः। उपास्यो हि भूतिगुण एवाहं प्राणोऽस्मीति यो वेद उपास्ते तस्यैतद्विद्याफलम्। एतद्भूतिगुणवत्प्राणो भवति। तस्य द्विषन् पाप्मा भ्रातृव्योऽसुरवत् परा भवति। किञ्च स्वोत्क्रमणानुक्रमणाभ्यां स एष प्राणो मृत्युश्चैवामृतं च। तदुक्तमृषिणा—

अपानवृत्त्या मूत्रपुरीषाद्यपनयनं कुर्वन् अपाङेत्यधो गच्छति। तथा प्राङ् प्राणवृत्त्या प्राणित्यवति। एवं प्राणापानवृत्तिभ्यां लोकस्य जीवनं कुर्वन्नास्ते शरीरेष्वित्यर्थः। तस्य स्थितिः किन्निबन्धना? इत्यत आह—

स्वधयेति। अस्मच्छरीरे स्वधया अन्नेन गृहीतो वन्धः। कोऽसौ? दाम्ना वत्सवत्प्राणः। तस्यान्नपानग्राहकमपानशब्दवाच्यं स्थितिकारणं भवतीत्येतदर्थं ब्राह्मणमाह—

अपानेनेति। अपानेन तद्गृहीतान्नादिना प्राणो न पराङ् भवति। शरीरं त्यक्त्वा न हि गच्छतीत्यर्थः। अमरणधर्मत्वादयममर्त्यः प्राणो मर्त्येन शरीरेणावृतः। प्राणशरीरयोः स्थाननिबन्धनो योनिरन्नम्। तेन सह यस्मादिदं शरीरजातं सर्वंसयोनिरिति। तत्र मर्त्यानि हीमानि शरीराणि। अमृतैषा प्राणदेवतेति। तास्तौ शरीरप्राणौ शश्वन्ताशश्वन्तौ नित्यसहभूतप्राणेन शरीरस्य शश्वदिव भातत्वात्। विषूचीनाविषूचीनौ परिणामे विरुद्धं भजन्तौ। वियन्तावियन्तौ विश्लेषवन्तौ। तत्र शरीरमधो याति। तस्य मर्त्यत्वात्। प्राणस्यामृतत्वात् स ह्यूर्ध्वं याति। नन्वन्यं देहं चिक्युरुपचितवन्तः वर्धितवन्तः न निचिक्युः न वर्धितवन्तः देवाः। अन्नयोगायोगाभ्यामित्यर्थः। प्राणन्तु शरीरेभ्योऽन्यं निचिन्वन्तीत्युक्तार्थम्। ब्राह्मणमाह—

हैवेति। हैवेमानि शरीराणि मर्त्यानि। तद्विपरीतप्राणस्य नित्यचैतन्यत्वादमृतैवैषा प्राणदेवता। इत्थंभूता प्राणदेवतास्मीति यो वेद तद्विद्याफलं

विद्वानितो मर्त्यलोकात्प्रेत्यामुष्मिन् हिरण्यगर्भलोकेऽमृतो भवति। मुख्यप्राण एवासौ भवति। तथायं सर्वेभ्यो भूतेभ्यो ददृशे सर्वभूतात्मत्वेन दृश्यत इत्यर्थः। द्विर्वचनमध्यायपरिसमाप्त्यर्थम्॥८ ॥

इति प्रथमोऽध्यायः

——————

द्वितीयोऽध्यायः

प्राणसम्पत्त्या सर्वसम्पन्नत्वम्

एष इमं लोकमभ्यार्चत् पुरुषरूपेण य एष तपति प्राणो वाव तदभ्यार्चत् प्राणो ह्येष य एष तपति शतं वर्षाण्यभ्यार्चत्तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनः तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम्। स इदं सर्वं मध्यतो दधे यदिदं किंच स यदिदं सर्वं मध्यतो दधे यदिदं किंच तस्मान्माध्यमास्तस्मान्माध्यमा इत्याचक्षते एतमेव सन्तम्। प्राणो वै गृत्सोऽपानो मदस्स यत्प्राणो गृत्सोऽपानो मदस्तस्माद्गृत्समदस्तस्माद्गृत्समद इत्याचक्षते एतमेव सन्तम्। तस्येदं विश्वं मित्रमासीद्यदिदं किंच तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किंच तस्माद्विश्वामित्रः तस्माद्विश्वामित्र इत्याचक्षते एतमेव सन्तम्। तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः

सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षते एतमेव सन्तम्। य इदं सर्वं पाप्मनोऽत्रायत यदिदं किंच स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किंच तस्मादत्रयस्तस्मादत्रय इत्याचक्षते एतमेव सन्तम्॥१॥

यः सर्वात्मकः प्राणः सोऽहमुक्थमस्मीति विद्यादिति कर्मज्ञानाधिकृतः पुरुषः प्रजापतिरवधृतः। अत्र च महाव्रताख्यक्रतौ तु बृहतीसहस्रं प्रतिपिपादयिषितम्। तस्मिंश्च क्रतौ संपद्यमाने वत्सरसहस्रान्तं कर्म संपादितं भवति। न हि सहस्रायुषोऽभावे तत्कर्म कर्तुं शक्यम्। न चाल्पायुषस्तस्मिन्क्रतावधिकारोऽस्ति। कथं पुनर्बृहतीसहस्रनिष्पत्त्या सहस्रसंवत्सरनिर्वर्त्यंकर्म संपन्नं भवति? इति चेन्न; बृहतीसहस्रस्य पुरुषायुस्सम्मितत्वात्। तथा च वक्ष्यति—“षट्त्रिंशतमक्षराणां शतानि भवन्ति। तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति” इति। प्राणस्य बृहतीस्वरूपत्वात् बृहतीसहस्त्रे संपन्ने प्राणसम्पत्तिर्भवति। कर्माङ्गभूतोऽयमहोरात्रादिः कालः “अहरेव प्राणो रात्रिरपानः” इत्युक्तत्वात्। कर्तृमन्त्रक्रियाफलानां प्राणव्यतिरेकेणाभावात्। प्राणसम्पत्त्या सर्वंसम्पन्नं भवतीत्यादिप्रकटनाय द्वितीयाध्याय आरभ्यते—एष इत्यादिना। यः प्रकृतस्स एष प्राण इमं शिरःपाण्यादिलक्षणं पुरुषमभ्यार्चदभितः प्रविष्ट इत्यर्थः। उक्तं चैतत् “तं प्रपदाभ्यां प्रापद्यत” इति। केन रूपेण? इत्यत आह—पुरुषरूपेणेति। कोऽसौ? तत्र य एषोऽसावादित्यस्तपति। प्राणादित्ययोरेकत्वात्। प्राणो वाव प्राण एव तदभ्यार्चत्। यस्मात्प्राणो हि सविता य एष तपति तस्मात्प्राणकर्तृक एव प्रवेशः। एवं चेत् “प्राणो वा अहमस्म्यृषे तद्योऽहम्” इत्यादिवक्ष्यमाणमुपपन्नं भवेत्। तमिमं पिण्डं शतं वर्षाण्यभ्यार्चत्। तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति। आयुष इत्यत्र आयूंषीत्यर्थः। यस्माच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनः ऋष्यनुक्रमणे प्रथममण्डलदृश ऋषयः शतर्चिन इति प्रसिद्धाः। तान् मण्डलदृश ऋषीन्शतर्चिन इत्याचक्षते। एवमेव प्राणं सन्तं न ह्यप्राणस्य मन्त्रदर्शनमुपपद्यते।

स एष प्राण ऋषिशरीरः सन् शतं वर्षाण्यभ्यार्चत्। शतर्चिशब्दवाच्यो हि मुनिपूगः प्रथममण्डलसंस्थमन्त्रानेवं ददर्श। उत्तरत्राप्येवमेव योज्यम्। तस्माद्ब्रह्मैव सर्वमन्त्राणामृषिः। स हि प्राण इदं सर्वंमध्यतो दधे स्वात्ममध्ये धृतवान्। यदिदं किञ्चयस्मादेवं धृतवान् तस्मान्माध्यमा ऋषयः। द्वितीयमण्डलदृगृषिभूतप्राणस्य माध्यमा इति नित्यबहुवचनम्। त एव शब्दो दाधारेतिवत्। केचित्तु मध्यममण्डलद्रष्टारो माध्यमा इत्युच्यन्ते। तेषां बहुत्वात्। विशेषपक्षस्तु प्रथमोक्त एव। इतरपक्षे तु क्षुद्रसूक्तमहासूक्तानां पावमान्यत्वं सामान्यम्। समानमन्यत्। प्राणो वै गृत्सः स्वापकाले वागादीनां गिरणात्। रेतोविसर्गादेः मदहेतुत्वादपानो मदः स यत्प्राण इत्यादि पूर्ववत्। तस्य प्राणस्येदं भोज्यजातं सर्वं मित्रं स्वस्थितिहेतुत्वात्। स्वभोज्य विश्वमित्रः सन् विश्वामित्र उच्यते प्राणः। तमेतमेव सन्तं देवा वागादयः तेन पराजिताः पूजयन्तः सन्तोऽब्रुवन्। अयं नः सर्वेषामस्माकं वामो देवानामिति। यस्माद्वननीयस्तस्माद्वामदेवः प्राण उच्यते। स हि प्राणो यदिदं किञ्चयत्किञ्चेदं प्राणिजातं सर्वंस्वात्मप्रतीपञ्च पाप्मनोऽनर्थरूपादत्रायत पालितवान्। तस्मादत्रयः प्राण उच्यते॥१॥

प्राणस्य सर्वात्मकत्वम्

एष उ एव विभ्रद्वाजः प्रजा वै वाजः ता एष बिभर्ति यत् बिभर्ति तस्माद्भरद्वाजः तस्माद्भरद्वाज इत्याचक्षते एतमेव सन्तम्। तं देवा अब्रुवन् अयं वै नः सर्वेषां वसिष्ठ इति तं यद्देवा अब्रुवन् अयं वै नः सर्वेषां वसिष्ठ इति तस्माद्वसिष्ठः तस्माद्वसिष्ठ इत्याचक्षत एतमेव सन्तम्। स इदं सर्वं अभिप्रागाद्यदिदं किञ्च स यदिदं सर्वमभिप्रागाद्यदिदं किञ्च तस्मात्प्रगाधास्त-

स्मात्प्रगाधा इत्याचक्षत एतमेव सन्तम्। स इदं सर्वं अभ्यपवयत यदिदं किञ्च स यदिदं सर्वमभ्यपवयत यदिदं किञ्च तस्मात्पावमान्यस्तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम्। सोऽब्रवीदहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च तस्मात्क्षुद्रसूक्तास्तस्मात् क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम्। सूक्तं बतावोचतेति तत्सूक्तमभवत् तस्मात्सूक्तं सूक्तमित्याचक्षत एतमेव सन्तम्। एष वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मादृक् तस्मादृगित्याचक्षते एतमेव सन्तम्। एष वा अर्धर्च एष ह्येभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत स यदेतत् सर्वेभ्योऽर्धेभ्योऽर्चत तस्मादर्धर्चस्तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम्। एष वै पदमेष हीमानि सर्वाणि भूतानि पादि स यदिमानि सर्वाणि भूतानि पादि तस्मात्पदं तस्मात्पदमित्याचक्षते एतमेव सन्तम्। एष वा अक्षरमेष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव सन्तम्। ता वा एताः सर्वा ऋचः सर्वे देवाः सर्वे घोषाः एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्॥२॥

किंच एष उ एव प्राणो बिभ्रद्वाजः प्रजा वै वाजः अन्नभूतत्वात्। स्वात्मप्रवेशनेन ता एष बिभर्ति। प्रजाभूतवाजस्य भरणात्प्राणो भरद्वाजः। पूर्ववत्तं देवा अब्रुवन्। अयं प्राणो नः सर्वेषां वसिष्ठो वसुतमो वसुमत्तमो

वा। यस्माद्वसिष्ठ इत्ययं देवैरुक्तः तस्माद्वसिष्ठः प्राणः। सोऽयं प्राणः स्वाभिप्रवेशेनेदं सर्वमभिप्रागात्प्रकर्षेण गतवान् यस्मात्तस्मात्प्रगाधाः प्राणः। सोऽयं प्राण इदं सर्वं अभ्याभिमुख्येन पवयत सर्वस्य पावनात्पावमान्यः प्राणः। तदभेदेन ऋषिनिर्देशप्रकरणात् स हि प्राणः सर्वप्राणिशरीरेषु आत्मानं पश्यन् इदमब्रवीत्। किम्? इत्यत्र प्राणोऽहमिदं सर्वमसानि भवानीति। किञ्च तदिदं यच्च क्षुद्रं क्रिमिकीटादि यच्च महन्मनुष्यादि तस्मात्स प्राणः क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च। तत्र तत्र तन्नाम्ना ऋषिरप्याचक्षते। यस्मादेवं तस्मात्सर्वमन्त्राणां प्राण एव द्रष्टा। न केवलमृषय एव प्राणः किन्तु मन्त्राश्च सूक्तादिरूपाः। कथं तत्? इत्यत्र शोभनमुक्तं सूक्तम्। बतेत्यनुकम्पां कुर्वन् बागादिस्तुतिमवोचत उक्तवन्तो यूयमित्युक्तवान्। तस्मात्तत्सूक्तमभवत्। प्राणः मन्त्राद्याकारेण परिणत इत्यर्थः। तस्मान्मन्त्रपटलं सूक्तमित्याचक्षते एतमेव प्राणं सन्तम्। सूक्तावयवभूता ऋगप्येष प्राणः। एष हि सर्वेभ्यो भूतेभ्योऽर्थायार्चत गतवान्। तस्मादचनादृगेष प्राणो मन्त्रोप्येष एवार्धर्चः। यस्मात्सर्वेभ्योऽर्धेभ्यः स्थानेभ्योऽर्चतेत्युक्तार्थमेतत्। अर्धेभ्योऽनादर्धर्चः। प्राणमेव सन्तमर्धर्च इत्याचक्षते। पदपादयोस्तुल्यत्वात्समानं निर्वचनम्। एष वै पदं पादः। पदं च प्राण एव। यस्मादेव हीमानि आत्मभावेन पादि अगच्छत् तस्मात्पदं प्राणः। प्राणमेव सन्तं पदमाचक्षते। एष वै प्राणोऽक्षरं वर्णों वा। यस्मादेव सर्वेभ्यो भूतेभ्योऽर्थाय फलसाधनरूपेण क्षरति भूतानि न चैनं प्राणमतीत्य क्षरन्ति भूतानि। तावत्प्राणमतीत्य न प्रयच्छन्तीत्यर्थः। “प्राणः प्राणाय ददाति” इति श्रुतेः। तस्मादक्षरवर्णस्वरूपेण सन्तमक्षरमित्याचक्षते। ता वा एताः सूक्तादिरूपाः सर्वा ऋच उक्ताः सर्वे वेदाः। सर्वे ध्वन्यात्मका घोषाः। न हि घोषवन्तो वर्णाः सर्वशब्दराशेः प्राणत्वेन विवक्षितत्वात्। एकैव व्याहृतिः व्याहरणस्यैकत्वात्। एकेन प्राणपदेन सर्वमभिहितं भवतीत्यभिप्रायः। यस्मादेवं तस्मात् प्राण ऋच एव विद्याद्विजानीयात्। उक्तानुक्तोपलक्षणार्थमृग्ग्रहणम्। यत एवमतस्सर्वं प्राण इत्येव विद्यादित्यर्थः॥२॥

बृहतीसहस्रसम्पत्त्या पुरुषनिर्वर्त्यकर्मसम्पत्तिः

** विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषसाद स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय। तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे तृतीयं शंसेति सहान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय। तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय। तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति स होवाच त्वामेव विजानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि तस्य मेऽन्नं मित्रं दक्षिणं तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच॥३॥**

** **यद्यपि प्राणत्वेन सर्वा ऋचो वेदितव्याः तथापि प्राणस्य बृहत्यात्मकत्वात्तद्बृहतीसहस्रेसंपन्ने यत्पुरुषायुस्सम्मितत्वेन पुरुषनिर्वर्त्यंकर्मजातं संपन्नं भवतीत्येतत्प्रदर्शनार्थमिदमारभ्यते—विश्वामित्रं हीति। कस्यचिद्यजमानस्य महाव्रताख्ये ऋतौ बृहतीसहस्रं शंसिष्यामीत्युपक्रामन्तं विश्वामित्रमृषिमिन्द्रः समीपमुपनिषसाद प्रभुत्सितो भोजयितुः समीपमिवोपनिविष्टवान्। स च विश्वामित्रो होता इयं त्रिचाशीतिरिन्द्रस्यान्नमिति मनसाभिव्याहृत्य सङ्कल्प्य बृहतीसहस्रैकदेशप्रथमत्रिचाशीतिं शशंस शंसितवान्। तेनान्नाभिध्यानयुक्तत्रिचाशीतिशंसनेनेन्द्रस्य प्रियं धाम प्रियं स्थानं उपेयाय विश्वामित्र उपगतवान्। अन्नदस्य भोक्तुः प्रीतिभाजनत्वात्। स हेन्द्रो विश्वामित्रं

प्रति प्रीतः सन् उवाच। किमिति? हे ऋषे! ममेष्टं धामोपागा उपगतवानसि। स त्वं हे ऋषे! द्वितीयं त्रिचाशितिलक्षणं ममान्नं शंसेति स हान्नमित्याद्युक्तार्थमेतत्। इन्द्रनियोगमन्तरेणापि बृहतीसहस्रसंपादनाय त्रिचाशीतयः शंस्यन्त इति चेत्तथापि द्वितीयं तृतीयं शंसेति नियोगरूपं वचनमन्नाभिधानकर्तव्यतास्तुतिपरम्। यथा लोके भुञ्जाने इष्टव्यञ्जनप्राप्तौ द्वितीयं तृतीयं प्रयच्छेत्युक्तिस्तथा इन्द्रतुष्टिकरास्त्रिचाशीतय इति स्तूयन्ते। एवं त्रिवारदर्शनेन तुष्टेन्द्रस्तं विश्वामित्रं प्रत्युवाच। किमिति? ते तुभ्यं वरं ददामीति। स होवाच—यथावत्त्वामेवेन्द्रं विजानीयाम्। त्वद्विज्ञानमेव मे वरं देहीत्यर्थः। तं प्रतीन्द्रः प्रत्युवाच। प्राणो वा अहमस्म्यृषे प्राणस्त्वं न केवलं त्वमेव प्राणः। किन्तु सर्वाणि भूतानि प्राण एव। एतदुक्तं भवति। तद्यथा—“अयमाकाशः प्राणेन बृहत्या विष्टब्धः” इत्यादि। किञ्च य एष तपति सविता सोऽयं प्राण एव। सोऽहमिन्द्रः प्राणादित्यरूपेण प्राच्यादिसर्वा दिशो विष्टोऽस्मि। पवमानो हरित आविवेश” इति पुरस्तादेवोक्तम्। तथा चाथर्वणे—“अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति” इत्यादि। तस्य मे सर्वात्मनः प्राणस्येन्द्रस्यान्नं मित्रं सोमात्मकं स्थितिकारणत्वात्। “जगदन्नमथातो रेतसः” इत्यादिना तद्व्याख्यातम्। वर्धयितृत्वेन दक्षिणं विश्वामित्रेणर्षिणा त्रिचाशीतिरूपं दृष्टमिति वैश्वामित्रमिति। तथा चोक्तं—“तस्येदं विश्वं मित्रमासीत्” इत्यादि। य एष तपन्नुदेति सोऽहमभ्यादीत्यात्मा प्राण एवास्मीति तद्याथात्म्यं विजानीहि इत्युवाच उक्तवानित्यर्थः॥३॥

प्राणव्यञ्जनसम्पत्प्रदर्शनम्

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य उष्माणः स प्राणः। एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभे। एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदिहैवेन्द्रो भरद्वाजाय प्रोवाच तस्मात्स तेन

बन्धुना यज्ञेषु हूयते। तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि। तद्वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयो अमृतमयः सम्भूय देवता अप्येति य एवं वेद। तद्योऽहं सोऽसौ योऽसौ सोऽहम्। तदुक्तमृषिणा—सूर्य आत्मा जगतस्तस्थुषश्चेति। एतदु हैवोपेक्षेतोपेक्षेत॥४॥

** “**एष इमं लोकमभ्यार्चत्” इत्यादिनेन्द्रस्यादित्याद्यात्मकत्वमुक्तम्। “प्राणो वा अहम्” इत्यादिना किमर्थं पुनरुच्यते? सकामनिष्कामयोः फलभेदस्य वक्तव्यत्वात्। अत्र तु निष्कामेन कृतं यथावत् श्रौतं कर्म ज्ञानोत्पत्तिकारणमिति इन्द्रसकाशाद्विश्वामित्रेण ज्ञानवरो लब्धः। न हि पुनर्वचनदोषः सेद्धुंपारयति। यथा त्रिचाशीतिष्वन्नदर्शनमुक्तं तथा प्राणस्य बृहतीसहस्रविषये प्राणव्यञ्जनसम्पत्प्रदर्शनार्थमिदमारभ्यते तद्वा इति। महाव्रतब्राह्मणे तद्द्बृहतीसहस्रम्। यथासंपादितमर्थं वैशब्दः स्मारयति। तदिदं बृहती सहस्रं वक्ष्यमाणकल्पनाभिः संपादयितव्यमिति बुद्धौ सन्निहितमाह—तस्येति। तस्य बृहतीसहस्रस्य शस्त्रविहिताक्षराणां स्वव्यञ्जकत्वाद्यानि व्यञ्जनानि तानि बृहतीसहस्रात्मनः इन्द्रस्य। यथा शरीरे रूपजात्यादयो व्यज्यन्ते तथैवं कादिषु स्वरा व्यज्यन्ते। तस्मात्तानि शरीरावयवत्वेन प्रविभज्यन्ते। तस्मात्तान्यवयवत्वेन विभज्यन्ते। अङ्गादिषु व्यज्यमानो यो घोषः स ह्यात्मा मध्यमत्वसामान्यात्। शषसादिषु व्यज्यमाना य ऊष्माणः इन्द्रस्य प्राणरूपत्वात् स प्राणः। तदेतद्बृहतीसहस्रदर्शनमित्येवं विद्वान् स वसिष्ठऋषिर्बभूव। ह स्म वै इति दर्शनस्य स्तुत्यर्थः। वसिष्ठत्वगुणयोगात् तत एतन्नामधेयं लेभे लब्धवान्। लोके वसिष्ठो वसिष्ठ

इति प्रथितत्वात्। एतदेव च दर्शनं उ हैवेन्द्रो विश्वामित्राय भरद्वाजाय च प्रोवाचेति यत्तद्विद्यास्तुत्यर्थम्। यस्मादिन्द्रविश्वामित्रयोः विद्यासंप्रदानग्रहणनिमित्तः संबन्ध आसीत्तस्मात्स इन्द्रस्तेन बन्धुना यज्ञेषु सुब्रह्मण्यायां हूयते कौशिकब्राह्मण इति। तद्वा इदं बृहतीसहस्रं संपन्नम् \। तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य यथोक्तविशेषणविशिष्टस्य षट्त्रिंशत्सहस्राक्षराणि गण्यमानानि भवन्ति। षट्त्रिंशदक्षरा हि बृहती। सा हि तावत् सहस्रगुणिताक्षरशः षट्त्रिंशत्सहस्रैवेति प्रसिद्धा। तावन्त्यक्षरतुल्यान्येव पुरुषस्य शतसंवत्सरस्याह्नां सहस्राणि भवन्ति “शतायुः पुरुषः” इति श्रुतेः। तत्राक्षराणि स्वरव्यञ्जनभेदेन द्विधा विभज्यन्ते। पुरुषायुषोऽहोरात्रसंख्यासामान्यात्। तस्य व्यञ्जनैरेव रात्रीराप्नुवन्ति। व्यञ्जनानां रात्रीणां च संख्यासामान्यात्। स्वरैरहानि व्यक्तत्वसामान्यात्। तत्रैवं सति बृहतीसहस्रसंपत्त्या षट्त्रिंशत्सहस्राण्यग्नयश्चिता भवन्ति। सहस्रसंख्यायां सर्वसंख्यान्तर्भावात्। सर्वजगतः प्राण इव बृहत्यां सर्वं संपन्नं भवति। साक्षात्सर्व प्राण इत्युक्तं वक्ष्यमाणं च। तद्वा इदमित्यादि पूर्ववत्। तस्यैतस्य बृहती सहस्रस्यैवं संपन्नस्य नित्यात्मभूतया प्रज्ञया युक्त इति प्रज्ञामयः प्राण इत्यर्थः। तथा कौषीतकीनामुपनिषद्याम्नातम्—“प्राणोऽस्मि प्रज्ञात्मा यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः” इति। तथा अग्न्यादिदेवतामयः सर्वात्मकत्वात्। वेदमय ब्रह्ममयः \। अमृतमयः पारमार्थिकरूपेणामृतत्वात्। अमृतैवैषा देवतेत्येते चत्वार आत्मानः प्रज्ञानमय इत्याद्युक्ताः। यस्त्वेवमुक्तं वक्ष्यमाणं बृहतीसहस्रं वेद सोऽयं विद्वानेतांश्चतुरः प्रज्ञादिमयानिहैवात्मत्वेनोपगम्य शरीरपातानन्तरं स्वात्मत्वेन सर्वदेवता अप्येति। “देवो भूत्वा देवानप्येति” इति श्रुतेः। तद्दर्शनमुपसंहरति — य इति। योऽहं देहे प्रज्ञा प्राणोऽध्यात्मं सोऽसावादित्यमण्डलाभिमानी नान्यः। यश्चासावादित्ये स एवाहं नान्यः। पुरुषादीत्यागतहेयांशापायसिद्धचैतन्यस्यैकत्वात्। “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्यादिश्रुतेः। विशेषांशात्यागेऽपि “एष इमं लोकमभ्यार्चत्” इत्याद्युक्तानुरोधेनैतत्सर्वं प्राणादित्यात्मकमेव। तद्दर्शनमृषिणा मन्त्रेणाप्युक्तम्। सर्वासां हि देवतानां

सारभूतः सविता सूर्यः। सर्वात्मकत्वात् जगतः सूर्य एवात्मा। तस्मिन्दृष्टे सर्वा देवता दृष्टा भवन्ति। तेन हि सर्वंपश्यति लोकः सर्वलोकचक्षुरनुग्राहकत्वात्। यदि नोदीयात्सूर्यः तदा जगदान्ध्यं भजेत्। तस्माल्लोकचक्षुः। रसरश्मिप्रज्ञाप्राणानां स्वीकरणात्सूर्यः। स ह्यात्मा सर्वप्राणिनां तस्थुषो जङ्गमस्य स्थावरस्य चेति। मन्त्रप्रकाशितप्राणादित्यात्मैकत्वं बृहतीसहस्रात्मरूपं यथामति आदित्यमात्मभावेनोपेत्योपेक्षेतोपेक्षेत। स्वातिरिक्तवस्त्वदर्शनपूर्वकं निवातस्थितदीपवत्तैलवारावच्चाविच्छिन्नमाप्राणमोचनं दर्शनं कुर्यादित्यर्थः। द्विर्वचनमुक्तवक्ष्यमाणबृहतीसहस्रसंपदुपसंहारदर्शनार्थम्॥४॥

इति द्वितीयोऽध्यायः

—————

तृतीयोऽध्यायः

उक्थस्य पञ्चविधगुणविशेषसंबन्धः

यो ह वा आत्मानं पंचविधमुक्थं वेद यस्मादिदं सर्वमुत्तिष्ठति स संप्रतिवित् पृथिवी वायुराकाश आपो ज्योतींषीत्येष वा आत्मोक्थंपञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद। तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्याव-

पनमाकाशः। आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद। तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन् हि प्राणभृतोऽदन्ति। तेषां य उभयतो दन्ताः पुरुषस्यानुविधां विहितास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान् पशून्अधीव हि चरन्त्यधीव ह्यनेनान्नादो भवति। अधीव हि समानानां जायते य एवं वेद॥१॥

उक्थस्य पाञ्चविध्यगुणविशेषसंबन्धार्थमिदमारभ्यते—यो ह वा इति। यो ह वै कश्चिदात्मानं पञ्चप्रकारमहमुक्थमस्मीति वेद विद्यादिति सर्वत्र विधिरनुवर्तते। पाञ्चविध्यगुणविशेषसंबन्धमात्रमिह वेदेत्युच्यते। यो वेद स संप्रतिवित् सम्यग्दर्शीत्यर्थः। सम्यग्दर्शनस्य पुरुषार्थसाधनहेतुत्वादित्यागोपाङ्गनं प्रसिद्धम्। प्रलोभनार्थमेतत्। संप्रतिविदित्युक्तं यस्मात्पञ्चविधादुक्थात्सर्वमिदं स्थावरजङ्गमं चोत्तिष्ठति तदुक्थं यो वेद स संप्रतिविदिति प्रलोभ्याभिमुखीकृत्याह—पृथिवीति। पृथिवी वायुराकाश आपो ज्योतींषीत्येष भूतानां संघातो वै प्राणिनामात्मा प्रत्यगात्मभूतत्वात्। आत्मा चोक्थं च तदित्यात्मोक्थं पंञ्चविधमुक्थत्वहेतुप्रदर्शनार्थमेतस्माद्धीदं सर्वमुत्तिष्ठति। न केवलंमुत्पत्तिः किन्तु विलयकाले भूतसंघातमेवाप्येत्यपि गच्छति। एवं सर्वप्राणिभूतजातस्यैवं पञ्चविधो भूतसंघात उत्पत्तिप्रलयवद्धायनमिति यो वेद सोऽयनं ह वै समानानां तुल्यजातीयानां भवतीति पूर्ववत्पञ्चविधेऽप्युक्थे तस्मिन् योऽन्नं चान्नादं च वेद तस्यैतत्फलम्। अस्मिन्नुक्थेऽन्नादो जायते दीप्ताग्निर्जायते। आमयावी न भवतीत्यर्थः। फलेन प्रलोभयन्नाह—भवतीति। अस्यान्नमिच्छातो भवति। आपश्च पृथिवी चान्नं अप्पृथिवीसंयोगतो व्रीहियवादीन्यन्नानि भवन्तीति प्रसिद्धेः। ज्योतिश्च वायुश्चान्नादं वायुसंयोगस्य

ज्योतिषो दीपकत्वात्। हिशब्दोऽवधारणार्थः। एताभ्यां वायुज्योतिर्भ्यामेव सर्वप्राणिजातमन्नमत्ति। तत्राप्पृथिव्योरन्नत्वेन वायुज्योतिषोरत्तृत्वेन च विनियोग उक्तः। अस्मिन्नाधीयते सर्वमित्यावपनमाकाशः। आकाशस्य सर्वाधारत्वे “आकाशे वैसूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्यादिश्रुतेः। अवकाशप्रदात्वाकाशस्यावपनगुणविज्ञानफलं य एवं वेद स ह्यावपनं समाश्रयो वै समानानां भवति। भूतविषयेऽन्नान्नादत्वमुक्तं, भौतिकेऽपि तदुच्यते। अस्मिन् प्राणिजाते योऽन्नं चान्नादं च वेदेत्युक्तार्थम्। ओषध्यादिस्थावरमन्नं चक्षुरादिप्राणव्यक्तिं विभर्तीति प्राणभृज्जङ्गममन्नादं एतदोषधिवनस्पतीन् हि प्राणभृतोऽदन्ति। कृष्यादिनोत्पाद्य तेषामन्नादानां मध्ये येऽश्वादय उभयतोदन्ताः पुरुषस्यानुविधामनुप्रकारतां विहिताः पुरुषानुवर्तित्वेनेत्यर्थः। तेऽन्नादा अन्नमितरे आरण्यादयः पशवः। यस्मात्पुरुषानुवर्तित्वेनान्नादत्वं तस्मात्त इतरान् पशूनधीव चरन्ति। अधीवोपर्येव। इवशब्दो अवधारणार्थः। हि यस्मादन्नेनान्नादो भवति। अधीव हि समानानां जायते य एवं वेदेति पूर्ववत्॥१॥

पुरुषस्य ज्ञानादेव कर्तव्यत्वम्

तस्य य आत्मानमाविस्तरां वेदाश्नुते। हाविर्भूय य ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् स आत्मानमाविस्तरां वेदौषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु। प्राणभृत्सु त्वेवाविस्तरामात्मा तेषु हि रसोऽपि दृश्यते न चित्तमितरेषु। पुरुषेष्वेवा विस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौमर्त्येनामृतमीप्सत्येवं संपन्नः। अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः॥२॥

स्थावरजङ्गमयोः पुरुषावसानमात्रत्वमुक्तम्। पुरुषस्य कर्मज्ञानाधिकारित्वात् तदितरेषां तत्रानधिकारात् पुरुषस्य ज्ञानादेव तत्कर्तव्यताप्राप्तावपि फलेन प्रलोभयन्नाह—

तस्येत्यादिना। अयमेव महान् प्रजापतिः अहमुक्थमस्मीति ज्ञानकर्मकर्तव्यताविधिर्नेतरपशून्प्रति। नापि देवर्षीन्प्रति। किन्तु तस्यान्नात्तृसमुदायस्य मध्ये य आत्मानमाविः प्रकाशादपि प्रकाशतरं आविस्तरामाविस्तरमात्मानं वेदसोऽयं महान् बहुतरमावृत्याश्नुते व्याप्नोति। यस्तु जगत्स्रष्टा सोऽव्याकृते नामरूपे व्याकुर्वन् पञ्चभूतान्युत्पाद्यान्नात्तत्वविभागार्थं स्थावरजङ्गमलक्षणं भौतिकं चोत्पाद्य स्वात्मप्रकाशनाय तत्राविर्भूय “रूपं रूपं प्रतिरूपो बभूव” इति श्रुतेः। तत्रौषधिवनस्पतयो यच्चकिञ्च प्राणभृत् तत्रात्माविर्भूत इति यो वेद स आत्मानं आविस्तरां वेद। ओषध्यादिषु दर्शनाद्यभावादात्मनः आविस्तरता नेतीति चेन्न ; ओषध्यादिषु रसदर्शनात्। दृश्यते ह्योषधिवनस्पतिषु रसः। यत्र रसस्तत्र चित्तमनुमीयते। यत्र यावन्मात्रं चित्तं तत्र तावदाविस्तरामात्मा। तस्मादोषधिवनस्पतिषु आत्मन आविस्तरत्वं सिद्धम्। प्राणभृत्स्वधिकाविस्तरत्वे रसत्वं हेतुः। न चित्तमितरेषु स्थावरेषु। तस्मात्प्राणभृत्स्वेवाविस्तरामात्मा। स हि पुरुषो यस्मात् प्रज्ञानेन संपन्नतमो भवति। प्रकृष्टज्ञानसंपन्नत्वात् यत्पूर्वमिदमहमज्ञासिषमिति तदेव वदति। तथैव विज्ञातं पश्यति न केवलमतीतस्मरणमेव। श्वो म इदं भविष्यतीति भविष्यदपि वेद श्वस्तनम्। किञ्च दर्शनादर्शनविषयौ लोकालोकौ च वेद जानाति। किञ्च मर्त्येन विनाशिना कर्मज्ञानसाधनेनामृतं नित्यं प्राप्तुमिच्छति। इत्थंभूतप्रज्ञानातिशयेन संपन्नः। पुरुषस्य पशुत्वेऽपि ज्ञानसम्पत्तिःविशेषः। अथेतरेषां पुरुषादन्यपशूनामशनापिपासे एव हि विज्ञानं भवति। तेषामुत्पत्तितो विशेषज्ञानवैरल्यात्। यस्मादेवं तस्मात्ते पुरुषवद्विज्ञातं न वदन्ति। तथा न हि विज्ञातं पश्यन्ति। श्व एवं भविष्यतीति श्वस्तनं न विदन्ति। नापि लोकालोकज्ञानवन्तो भवन्ति। यथाप्रज्ञं तदनुरूपमेव हीतरपशूनां सम्भवाः। पुरुषस्य प्रज्ञानातिशयवत्त्वेन सर्वफलार्थित्वात् स हि कर्मज्ञानाधिकारीति युक्तम्॥२॥

पुरुषस्य सर्वकर्मफलप्राप्त्युपायः

** स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेत्येनं मन्यते यद्यन्तरिक्षलोकमश्नुतेत्येनं मन्यते यद्यमुं लोकमश्नुवीतेत्येवैनं मन्यते। स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा. रेतः ता आपो यच्छरीरं सा पृथिवी यः प्राणः स वायुः। स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानस्समानः ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति प्राणस्य ह्यन्वपायमेता अपियन्ति। स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमस्स एष यज्ञानां संपन्नतमो यत् सोम एतस्मिन् हेताः पञ्चविधा अधिगम्यन्ते। यत्प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी॥३॥**

** **“सुकृतं बत” इति, “पुरुषो वाव सुकृतम्” इति वक्ष्यमाणश्रुत्यनुरोधेन तस्य ज्ञानकर्मानुष्ठानसमर्थत्वात्। स ह्युपायेन सर्वकर्मफलमाप्नोतीत्येतत्प्रदर्शनार्थंमिदमुच्यते—स एष इति। सोऽयमेष पुरुषः समुद्र इवापारानन्तकामत्वात्समुद्रः समुद्र इव हि कामः। नैव हि कामस्यान्तोऽस्ति न समुद्रस्येति। “कामं समुद्रमाविश” इति मन्त्रलिङ्गात्। तमेतमर्थं दर्शयति — सर्वमिति। कामयितव्यसर्वंलोकमतिक्रम्य वर्तते। यत्किञ्च ह क्षेत्रं धनं राज्याद्यश्नुते व्याप्नोति ततोऽप्ययमतिशेते। यद्यन्यमपि प्रार्थयते तस्मात्स्वीकृतकामादप्यधिकतरमेवैनं लोको मन्यते। यदि पृथिवीलोकं व्याप्यान्तरिक्षलोकमश्नुते केनचिदुपायेन व्याप्नोति ततोऽप्येवैनं मन्यते। अपरिसमाप्तत्वादिच्छायाः।

तथा तृतीयमपि यद्यमुं लोकमश्नुवीत तदुचितसाधनेन प्राप्नुयात्ततोऽप्यधिकतरं प्राप्तुं योग्य इत्येवैनं मन्यते। लोके एवमेव यावत्कामा अपरिसमाप्ता भूतभौतिकविषयास्तावदिच्छा अपरिसमाप्तैव। तेनासौ समुद्रः पुरुषः। कानि पुनस्तानि भूतानि येषु सर्वे कामाः परिसमाप्तिं गताः? यानि कामयन् तदुचितोपायतस्तान्यात्मभावमापादयति तानीमानि पञ्चभूतानि उक्थशब्देन प्रस्तुतानि। एवमन्नान्नादपरिणतभूतविकारोऽयं पुरुषः पञ्चविधो भवति। कथम्? इत्यत आह—तस्येति। तस्य पुरुषस्य देहे यदुष्णं तज्ज्योतिरग्निः। यानि तद्देहे खानि सुषिराणि तान्याकाशः। अथ तद्देहे यल्लोहितं श्लेष्मा रेतस्ता आप एतेषां द्रवात्मकत्वेनाब्विकारत्वात्। तस्य यच्छरीरं सा पृथिवी। तस्य यः प्राणः स वायुः। प्राणापानव्यानोदानसमानभेदेन स एष वायुः
पञ्चविधः पुरुषः सर्वज्ञानकर्मणामाश्रयभूतत्वात्। “तं प्रपदाभ्यां प्रापद्यत” पुरुष एवोक्थम्” इत्युक्तत्वात्। चक्षुः श्रोत्रं मनो वागिति याः सर्वज्ञानहेतुभूताः स्वस्वविषयद्योतनाद्देवताः प्राणापानयोरेव निविष्टाः। चक्षुरादिग्रहणं सर्वकरणोपलक्षणार्थम्। प्राणापानवृत्तिर्हि जीवनं चक्षुरादीनां तदनुवृत्तित्वात्। प्राणस्य ह्यन्वपायं अपगमनमेताश्चक्षुरादिदेवता अपियन्ति प्राणमेवापि गच्छन्तीत्यर्थः। चक्षुरादिवृत्तीनामन्वयव्यतिरेकाभ्यां प्राणायत्तत्वात्। यतः प्राणो ज्ञानकर्महेतुरतः स एष यज्ञो मन्त्रोच्चारणादिव्यापृताया वाचश्चित्तस्यान्तःकरणस्य चोदनाद्यर्थालोचनव्यापृतत्वेन तस्योत्तरोत्तरक्रमः उत्तरोत्तरव्यापारो यद्यज्ञो यो यज्ञ इत्यर्थः। वाक्चित्तव्यापृतेः प्राणनिमित्तत्वात्। स एष यज्ञः पञ्चविधः प्राणकार्यत्वात्। तत्कथम्? इत्यत्राग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः प्रकृतीनां पञ्चत्वात्पञ्चवविध एव यज्ञः। शिष्टयज्ञानां तद्विकृतित्वेन तत्रान्तर्भूतत्वात्। स एष सोमोऽग्निहोत्रादियज्ञानां संपन्नतमः। यत् यस्मात्पञ्चविधा अपि एतस्मिन् सोम एव अधिगम्यन्ते। यत्प्राक् पूर्वं प्रातस्सवनादिभ्यो दीक्षणीयादिकर्मजातं सैकाविधा। त्रीणि सवनानि तिस्रो विधाः। यदूर्ध्वं सवनेभ्य उदवसानीयान्तं सा पञ्चमी पञ्चविधा इत्यर्थः॥३॥

पुरुषबुद्धिप्ररोचनाय यज्ञस्तवः

यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूल्हं स संप्रतिवित् एष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोध्यूल्हो यदेतन्महदुक्थम्। तदेतत्पञ्चविधं त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतो गायत्रं रथन्तरं बृहद्भद्रं राजनमिति सामतो गायत्र्युष्णिक् बृहती त्रिष्टुप् द्विपदेति छन्दस्तः तच्छिरो दक्षिणः पक्षः उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्। पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति तत्स्तोभसहस्रं भवति। एवं ह्येताः पञ्चविधा अनुशंस्यन्ते यत्प्राक्त्रिचाशीतिभ्यः सैका विधा तिस्रस्त्रिचाशीतयो यदूर्ध्वं सा पञ्चमी। तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावती हि सङ्ख्या दश दशतस्तच्छतं दशशतानि तत्सहस्रं तत्सर्वं तानि त्रीणि छन्दांसि भवन्ति त्रेधा विहितं वा इदमन्नमशनं पानं खादः तदेतैराप्नोति॥४॥

पुरुषबुद्धिप्ररोचनाय वक्ष्यमाणयज्ञं स्तौति—यो ह वा इति। यकश्चिद्ध वै हस्तिपृष्ठारूढराजानमिव यज्ञे यज्ञमध्यूल्हं अधिरूढं वेद प्रकृतेर्व्यापकत्वेन विकृत्यारूढत्वात्। यद्वा—एष वै यज्ञे सहस्रसत्रान्तकर्मणिश्रेष्ठतया हस्तिपृष्ठगतराजवदध्यूल्हसत्रमेव सर्वाहःसंपन्ने महाव्रतीयेऽहनि श्रेष्ठतयाअहरद्वयूल्हम्। तथा वागाद्यस्यादिदेवेषु श्रेष्ठतया प्राणाख्यो देवोऽध्यूल्हः “प्राण उक्थमित्येव विद्यात्” इत्युक्तम्। तदेतदुक्थं पञ्चविधं कार्यपञ्चविधस्कारणानुविधायित्वात्। एवं यो वेद स संप्रतिविदित्युक्तार्थम्। यो ह यज्ञेऽहनि देवेषु च यज्ञोऽहर्देवोऽद्ध्यूल्हःयदेतन्महत्प्राणाख्यं ब्रह्मोक्थं सर्वस्यप्राणतन्त्रत्वात्। चित्तोत्तरव्यापारनिष्पन्नयज्ञाधिरूढं तदेतत्पञ्चविधम्। पाञ्च

विध्यं कथम्? इत्यत्र स्तोमतस्सामतश्छन्दस्तश्च पाञ्चविध्यसिद्धिरित्याह—त्रिवृदित्यादि। त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमनः। कतिपयमन्त्रसमुदायस्य स्तोमाख्येत्यत्र छन्दोगदर्शने “त्रिवृच्छिरः पञ्चदशं दक्षिणः पक्षः सप्तदशमुत्तरः पक्षः एकविंशं पुच्छं पञ्चविंशमात्मा” इति स्तोमतः पाञ्चविध्यमुक्तम्। सामतः पाञ्चविध्यमुच्यते। गायंत्रं रथन्तरं बृहद्भद्रं राजनमिति सामतः पाञ्चविध्यम्। पूर्ववद्गायत्रादेः शिरस्त्वादिः कल्पनीयः। छन्दस्तः पाञ्चविध्यमुच्यते। गायत्र्युष्णिग्बृहती त्रिष्टुप् द्विपदेति छन्दस्तोऽपि पाञ्चविध्यम्। अत्रापि पूर्ववच्छिरआदिकल्पना युज्यते। त्रिवृदादीनां क्रमदर्शनार्थं तच्छिरो दक्षिणः पक्षः उत्तरः पक्षः पुच्छमात्मेति ब्राह्मणवचनात्कृत्याख्यानमाकृतिवचनम्। किञ्च राजने साम्नि स्तोभसहस्रकल्पनापि पञ्चविधेत्याह—पश्चेति। पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति। उद्गात्रादित्रयाणां व्यापारभेदतः सर्वे पञ्चकृत्वो निधनमुपयन्तीति बहुवचनसामर्थ्यात्। तथैतत्पाञ्चविध्यं यथोक्तं स्तोभसहस्रं भवति। एवं ह्येताः पञ्च विधाः बृहतीसहस्रे होत्राप्यनुशस्यन्ते। ऋत्विग्भिर्यत् प्राक् त्रिचाशीतिभ्यः शस्यन्ते सैकाविधा। गायत्री बृहदुष्णिगिति तिस्रस्त्रिविधाः त्रिचाशीतयः। यदूर्ध्वंशंसनं सा पञ्चमी विधा। एवं बृहतीसहस्रशंसता पञ्चविधा एव शस्यन्ते। स्तोभतो यदेतत्सहस्रं बृहत्युक्थं तत्सर्वं “क्रियाकारकफलं नामरूपकर्मात्मकं द्वैतं संख्येयत्वेन च द्विधा विभक्तं परामृष्टैः त्रिभिः संख्यापर्वरूपैः सर्वं व्याप्यते” इति श्रुत्यनुरोधेनैकादिसंख्यायामावर्तमानायां प्रथमपर्वरूपं दश पर्यवस्यति। दशदशसंख्यायाः पुनरावर्तमानाया दशदशतो यद्वितीयं पर्वरूपं तच्छतमवशिष्यते। शतसंख्यायाः पुनरावर्तमानायास्तृतीयं पर्वरूपं दश शतानि यत्प्रतिज्ञातं तत्सहस्रं भवतीत्याह—तानीति। तानि दश दशेति वै सर्वमेतावती हि संख्या दश दशतः तच्छतं दश शतानि तत्सहस्रमिति तत्सहस्रं तानि गायत्र्यादीनि त्रीणि छन्दांसि भवन्ति। त्रिधा विभक्तसामान्यात्। किञ्च बृहतीसहस्रात्मनेन्द्रेण त्रेधा विहितं प्राणेनाद्यमानमन्नं अशनमोदनादि पानीयादि पानं लड्डुकादि

खादः तत्सर्वमन्नंगायत्रादित्रिचाशीतिप्रकारैरेतैराप्नोति। एवं संख्याव्याप्त्या विराट्संपत्तेः॥४॥

सर्वात्मना बृहतीसहस्रस्तुतिः

तद्वा इदं बृहतीसहस्रं संपन्नम्। तद्वैतदेके नानाछन्दसां सहस्रं प्रतिजानते किमन्यत्सदन्यत् ब्रूयामेति। त्रिष्टुप्सहस्रमेके जगतीसहस्रमेके अनुष्टुप्सहस्रमेके। तदुक्तमृषिणा। अनुष्टुभमनु चचूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं न्यचाय्यन्नित्येतत्तदुक्तं भवति। स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः। ईश्वरो ह तु पुरायुषः प्रेतोरिति ह स्माहाकृत्स्नो ह्येष आत्मा यद्वागभिहिता प्राणेन मनसेऽस्यमानो वाचा नानुभवति। बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती। सोऽयमात्मा, सर्वतः शरीरैः परिवृतः तद्यथायमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता। मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहती। स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माह कृत्स्नो शेष आत्मा यत् बृहती तस्मादबृहतीमेवाभिसंपादयेत्॥५॥

पक्षान्तरनिरसनपूर्वकं बृहतीसहस्रं स्तौति—तद्वा इति। तद्वा इदं बृहतीसहस्रं संपन्नमिति पूर्ववद्बृहतीमेवाभिसंपादयेदित्युत्तरत्र संबन्धार्थम्। एवं स्थिते पक्षान्तरमुपन्यस्योपन्यस्य निन्दनं बृहतीसहस्रस्तुत्यर्थम्। तद्धेतिशब्दः पक्षान्तरद्योतनार्थः। तद्वैतदेके शाखिनः नानाछन्दसामृचां सहस्रं संपादयितयमिति प्रतिजानते। तत्सहस्रसंपादनार्थे छन्दोनियमेन हि मन्यन्त

इत्यर्थः। बृहतीसहस्रसंपादनेन सर्वंसंपन्नमिति स्थितम्। किं तत्पक्षान्तरं? सच्छोभनं प्रकृतादन्यत्। द्वितीयोऽन्यच्छदः सच्छदेन संबध्यते। इतरच्छोभनतरमन्यत्किं ब्रूयाम? इत्यत्र त्रिष्टुप्सहस्रमेके शाखिनः प्रतिजानते। तथा केवलं जगतीसहस्रमेके। अनुष्टुप्सहस्रमे। एते हि चत्वारः पक्षा बृहतीसहस्रस्तुत्यर्थमुपन्यस्यापविविदिषिताः। तत्रानुष्टुप्सहस्रसंपादनं ऋषिणा मन्त्रेणाप्युक्तम्। अनुष्टुप्पक्षस्य मन्त्रब्राह्मणबद्धत्वात्तदेव दृढतरं मन्यमाना आहुः। अनुष्टुभं स्तनयित्नुलक्षणां वाचं अनु चचूर्यमाणं चञ्चूर्यमाणमिन्द्रं प्राणं निचिक्युर्दृष्टवन्तः। कवयो मनीषा ज्ञानेनात्रानुष्टुभमनुचचूर्यमाणमिन्द्रं निचिक्युरित्येतावदुदाहरणम्। तेषां मन्त्रार्थस्य तिरोहितत्वेन यथाभूतार्थमाह—अनुष्टुभमिति। “वाग्वा अनुष्टुप्” इति श्रुत्यनुरोधेन स्तनयित्नुलक्षणायां वाचि तदैन्द्रं प्राणं निचिक्युः न्यचाय्यन्नित्येतत्तदुक्तं भवति। अध्यात्ममपि वाचमीरयन्तं निचिक्युरिति व्याख्येयमित्यर्थः। एवंविदः फलं किम्? इत्यत्र स हि विद्वानीश्वरः यशस्वी कल्याणकीर्तियस्य सोऽयं कल्याणकीर्तिर्भवितोर्भवितुं स हेश्वरः समर्थ इत्यर्थः। किञ्च पुरा पूर्वनियतादायुषः प्रैतोः पुनरधिकायुः गन्तुमीश्वरो जितमृत्युर्भवतीत्यर्थः। इत्येवमनुष्टुपसंपद्वाद्याह। तस्मादनुप्रुप्सहस्रं प्रशस्तं मन्यन्त इति यत्तन्न, अनुष्टुप्पक्षनिराकरणात्। कुतः? इत्यत्र यस्माद्वाचमनुष्टुभं प्रति लक्ष्यमाण ऐन्द्रः प्राण आत्मा अकृत्स्नोऽसंपूर्णो भवति। वाचि प्राणस्याकृत्स्नत्वे हेतुमाह—यद्वागिति। यदकृत्स्नकेवलवाक्संयुक्तप्राणेन मनसा चेस्यमानोऽस्यमानः प्रेर्यमाणो वदनालयः पुरुषो वाचा वक्तुं नानुभवति, तस्माद्बृहतीमेवाभिसंपादयेत्। एष वै कृत्स्न आत्मा यदेतद्येयं बृहती तदा पुनः स्वात्मस्थस्वतन्त्रप्राणेन प्रेर्यमाणया वाचा मनसा चेस्यमानो वदनक्रियामनुभवति। सेयं प्राणत्वेन संस्कृता बृहती। स हि प्राणः कृत्स्नः। तस्य कुतः कृत्स्नत्वं? आत्मवत्त्वात्। बृहत्याः कुत आत्मत्वम्? इत्यत्र सोऽयं बृहतीरूपप्राणात्मा शिरःपाण्यादिमत्पिण्डे सर्वतः आपादमस्तकं परिवृतः। तद्यथायमात्मा सर्वतः शरीरैः परिवृतमध्यशरीरं दृष्टान्तत्वेनोपमीयते। तथैवमेव बृहती सर्वतः स्वावयवभूतगायत्र्यादि-

छन्दोभिः परिवृता भवति। मध्यं ह्येषा बृहती यथाङ्गानामात्मा मध्यं तथा छन्दसां बृहती मध्यम्। कथं बृहत्या मध्यत्वम्? इत्यत्र गायत्र्यादिछन्दसां चतुर्थत्वात्पूर्वाणि त्रीणि गायत्र्यादीनि तथा पङ्क्त्यादित्रीण्युत्तराणि भवन्ति। मध्ये स्वयं तिष्ठतीति मध्यत्वमुपपद्यते। तस्माद्गायत्र्यादिछन्दसामात्मा प्राणो हि बृहतीत्युक्तम्। तस्मादाकाशमिव सर्वाणि भूतानि बृहत्या विष्टब्धानीति बृहत्याः कृत्स्नत्वं यो वेद तस्यैतत्फलमुच्यते। स हेश्वरो यशस्वीत्युक्तार्थम्।महिदास ऐतरेयो ह स्माह। किम्? इत्यत्र कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभिसंपादयेत् इत्युपसंहारवचनमेतत्॥५॥

बृहतीसहस्रसंपत्त्या सर्वसंपत्तिः

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पञ्चविंशतिश्चानुष्टुभ आत्तं वै भूयसा कनीयः। तदुक्तमृषिणा। वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति। नवस्रक्तिमिति बृहती संपद्यमाना नवस्त्रक्ति। ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा। इन्द्रात्परि तन्वं ममेति तद्यदेवैतद्द्वृहतीसहस्रमनुष्टुप् संपन्नं भवति तस्मात्तदैन्द्रात्प्राणाद्बृहत्यै वाचमनुष्टुभं तन्वं सन्निर्मिमीते। स वा एष वाचः परमो विकारो यदेतन्महदुक्थं तदेतत्पंचविधं मितममितं स्वरः सत्यानृते। इत्यृग्गाथा कुंब्यातन्मितं यजुर्निंगदो वृथा वाक् तदमितं सामाथो यः कश्च गेष्णः स स्वर ओमिति सत्यं नेत्यनृतम्। तदेतत्पुष्पं फलं वाचो यत्सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिः भवितोः पुष्पं हि फलं वाचस्सत्यं वदति। अथैतन्मूलं वाचो यदनृतं तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत

एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते तस्मादनृतं न वदेत् दयेत त्वेनेन। पराग्वा एतद्वृत्तमक्षरं यदेतदो ३ मिति तद्यत्किंचोमित्याहात्रैवास्मै तद्रिच्यते स यत्सर्वमोङ्काराद्विच्यादात्मानं स कामेभ्यो नालं स्यात्। अथैतत्पूर्णमभ्यात्तं यन्नेति स यत्सर्वं नेति ब्रूयात्। पापिकास्य कीर्तिः जायेत। सैनं तत्रैव हन्यात्। तस्मात्काल एव दद्यात् काले न दद्यात्तत्सत्यानृते मिथुनीकरोति तयोर्मिथुनात्प्रजायते भूयान्भवति। यो वै तां वाचं वेद यस्या एव विकारः स संप्रतिविदकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति। तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तत्तिर इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तदाविराविर्हि शरीरम्॥६॥

बृहतीसहस्रसंपादनेन सर्वं संपादितं भवतीति वक्तुमिदमारभ्यते—तद्वा इति। तद्वा इदमित्यादि पूर्ववत्। उत्तरसंबन्धार्थं कथमनुष्टुप् संपन्ना भवति? इत्यत्र बृहतीसहस्रस्य संपन्नस्यानुष्टुप्त्वमापद्यमानस्य एकादशशतान्यनुष्टुभां भवन्ति। पञ्चविंशतिश्चानुष्टुभोऽभ्यधिका भवति। यत्सहस्रादूर्ध्वं पञ्चविंशोत्तरं शतमनुष्टुभां तद्बृहतीसहस्रेसंपद्यमाने बृहतीसहस्र एवान्तर्भवति। एतदुच्यते—आत्तं परिगृहीतं भूयसा महता कनीयोऽल्पतरं भवतीति वै प्रसिद्धम्। सहस्रे शतं शते दशादि नवतिपर्यन्तं दशस्वेकादिनवान्तमानं भवतीति। तदेतद्वाचः संपादनं बृहतीसहस्रमुक्तमृषिणा मन्त्रेणापि। वाचमनुष्टुभमष्टापदीं स ह्यनुष्टुप् चतुरक्षरत्वेन विभज्यमानाष्टापदी भवति। तामष्टापदीमहं ममेति व्यवहितेन संबन्धो भवति।

पुनश्चतुरक्षरप्रक्षेपेण सा वाक् बृहती संपद्यमाना नवस्रक्तिर्भवति। स्रुक्तयस्तु कोणा नव चतुरक्षराणि स्रक्तय इव वाचोऽनुष्टुभो भवन्ति। येन यदा बृहती संपद्यमाना तदा बृहत्या ऋचा स्पृष्टा वाक् सत्यं संपद्यते। यथा रसेन स्पृष्टो लोहः सुवर्णत्वमापद्यते। ऋतं सत्यं मूर्तीमूर्ताख्यं प्राणस्तदा स्पृशति तां वाचमष्टापदीं नवस्रक्त्यृतस्पृशं इन्द्रात् बृहत्यात्मनः प्राणादेवोपादाय तस्यैवेन्द्रस्य तन्वं तनुं शरीरं अहं परिममे निर्मितवान्। वाचमष्टापदीमित्यष्टौ हि चतुरक्षराणि भवन्तीति व्याख्यातमेतत्। नवस्रक्तिमिति बृहती संपद्यमानेति च व्याख्यातमेव। नवस्रक्त्यृतस्पृशमित्यस्मिन्पदे व्याख्येये कथ व्याख्यातस्य पुनर्व्याख्यानम्? इत्यत्र बृहती संपद्यमाना नवस्रक्तिर्भवतीत्यर्थसंबन्धविवक्षया व्याख्येयमित्यर्थः। सत्यं वै वागृचा स्पृष्टा ऋतस्पृशमिति तथा व्याख्यातम्। “इन्द्रात्परि तन्वं ममेति तद्यदेवैतत् बृहतीसहस्रं”, “आत्तं वै भूयसा कनीयः” इत्यनेनानुष्टुप् संपन्ना भवतीत्युक्तम्। तत्र यद्बृहती सहस्रेऽन्तर्भूतं प्राणमिन्द्रे पञ्चदशोत्तरं शतमनुष्टुभां तस्मात्तदैन्द्रात्प्राणाद्बृहत्यापादाय वाचमष्टापदीं नवस्र्क्त्यृतस्पृशमनुष्टुभं तस्यैवेन्द्रस्य तन्वं विद्वान्शरीरं निर्मिमीते निर्मितवानित्यर्थः। योऽहंकारेणाहं निर्मम इत्यब्रवीत्। तथा च व्याख्यातम्। येन्द्रस्य शरीरत्वेन कल्पितानुष्टुभि वाक् तस्या वाच एष परमो विकारः प्रकृष्टः सारभूत इत्यर्थः। कोऽयं विकारः? इत्यत्र यदेतन्महदुक्थं व्याख्यातं तदेतत्पश्वविधम्। यः सारिष्ठो वाग्विकारस्तस्योक्थस्य पंचविधत्वं त्रिवृत् पञ्चदशमित्यादि व्याख्यातम्। कथं? मितममितं स्वरस्सत्यानृते इति। मितादीनां स्वरूपं श्रुतिः स्वयमेव व्याचष्टे—इतीति। तत्र मितशब्दार्थमाह—इत्यृग्गाथा कुम्ब्या तन्मितमिति। पदबद्वा ऋक्। “अग्निमीले” इत्याद्या गाथा। “प्रातः” इत्याद्या कुम्ब्या। तदेतन्मितमित्यर्थः। अमितशब्दार्थमाह—यजुर्निगदो वृथावाक् तदमितमिति। “इषे त्वा” इत्याद्यनियताक्षरावसानं यजुः। “इन्द्राय सोमम्” इत्यादि निगदः। अध्वर्योरुक्तिः ब्राह्मणजातं यदसंबद्वप्रलपितं तदनियतपादाक्षरावसानममितम् \। स्वरशब्दार्थमाह—सामाथोयः कश्च गेष्णः स स्वर इति पाञ्चभक्तिकं साप्तभक्तिकं वा साम। अथो अपि यः कश्चित्सामसन्धिपर्वाख्यो गेष्णः स स्वरः

ड्जादेरप्यत्रान्तर्भूतत्वात्। सत्यस्वरूपमाह—ओमिति सत्यमिति। ओङ्कारस्य सर्वात्मकत्वेन सर्ववाग्व्याप्तेरोमिति यत्तदेव सत्यम्। अनृतस्वरूपमाह—अनृतमिति। यन्नेतीति निषिध्यते तदनृतम्। एवं मितादिपञ्चके वर्णलक्षणा वागन्तर्भवति। “सर्वा वाचो वदन्ति” इति श्रुतेः। एवं महाव्रते पञ्चविधहदुक्थमेषा विकारलक्षणा वागपि सदसदात्मकार्थवशाद्विधा विभज्यते। तत्प्राणात्मकं सत्यम्। प्राणातिरिक्तविकारजातं असदनृतम्। यदुक्तं वाचो काररूपं तत्पुष्पं फलम्। तत्र यज्ञकर्म पुष्पं देवताप्तिः फलम्। वाङ्मयक्षस्य पुष्पफले परिकल्प्येते। पुष्पफलयोः प्राणात्मकत्वमिति यत्तत्सत्यम्। द्वा—याज्ञं कर्म ज्ञानं च समुच्चितं पुष्पं, देवताप्ययलक्षणं फलमिति यो वेद द्वेदनफलं स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरित्यायुक्तार्थम्। वाचोक्षस्य यन्नेत्यनृतं तन्मूलं किम्? इत्यत्र तत्तत्र लोके यथा वृक्ष आविर्मूलः अविद्यकप्रकाशमूलः सन् शुष्यति। न केवलं शुष्यति किन्तूद्वर्तते विनश्यति। एवं वाग्विकाररूपं वृक्षमात्मानमाविर्मूलं करोति यः अनृतं वदति। तस्मादनृतवक्ता हीयते तस्माज्जात्वप्यनृतं न वदेत्। अनृतवदनदोषत आत्मानं दयेत रक्षेत।तुशब्दोऽवधारणार्थः। एनेन अनेनानृतविरलसत्यवदनेन परात्परं ब्रह्म गच्छतीति। पराग्वा एतदनृतरिक्तं शुद्धमक्षरं किं तत्? यदेतमिति। ओमित्यभिधानेन परमपरं वा ब्रह्माभिधीयते। अत एव विद्वांस्तुरीयोङ्कार्थब्रह्म प्रतिपद्यते। “तुरीयोङ्काराप्रविद्योतं तुर्यतुर्यम्” इति श्रुतेः। तथैवोमिति इत्यमेवानुजानते। अत्रैवास्मिन्नेव काले गृहक्षेत्रादिलक्षणगर्तपूरणं सद्रिच्यते। तदकादिना गर्तपूरणमिव स्वात्मनः पूर्णत्वेन पूरणाभावाद्यावद्वस्त्वोमित्यनुजानाति, हि तावता रिच्यते। तत्रैवं सति स यः कश्चिद्यदात्मनः आपूरणार्थं वस्तु सर्वङ्कुर्यात् ओमित्यनुजानीयात्। किम्? अतिरिक्तमात्मानं निस्स्वं कुर्यादित्यर्थः। अस्मादोमिति प्रतिपत्ता कामेभ्यो नालं न पर्याप्तः स्यात्। यतो लोके निस्स्वोऽज्ञो मतिर्भवत्यत आत्मानं सर्वस्वेन रिच्यात्। अथैतत्पूर्णमभ्यात्तं कामगर्तासदाकमध्यात्ममात्तम्। किं तत्? यन्नेत्यनृतं तद्धि कामगर्तात्मपूर्णतापरिपालनरूपम्। सह्यसंपत्पूर्णो यः कश्चित्केनचिद्याच्यमानोऽपि स्वपूर्णता पालनाय स्वनिकटे किं-

चिन्नेति ब्रूयात्। अनृतमात्मनः प्रकटयेत्। लुब्धः खल्वसौ। अनृतं ब्रुवतोऽस्य कीर्तिः पापिका जायेत। अस्यात्मंभरित्वेन पापिष्ठत्वात्। सत्यां संपदि नेत्यनृतवादिनं पापिका कीर्तिः सैनं तत्रैव तदानीमेव हन्यात्। आविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते इत्युक्तं हि। न केवलं सत्येनानृतेन वा संसारस्थितिः, किन्तु सत्यानृताभ्यां संसारस्थितिमनुवर्तयन् यथोचितकाले दद्यादितरकाले न दद्यात्।

देशकालपात्रलाभे देयं वित्तं यथाविधि।

इति स्मृतेः। तस्मात्सत्यं नेति सत्यानृते मिथुनीकरोति। सत्यानृतमिथुनात्संसारवृक्षः प्रजायते। पुत्रपौत्रपश्वादिभिः भूयान्भवति। दिने दिने वर्धत इत्यर्थः। प्रसङ्गादेष सत्यानृतगतो वाग्विकार उक्तः। इदानीं प्रकृतमालम्ब्योच्यते—यस्या इति। स वा एष वाचः परमो विकार इति यदेतन्महदुक्थं यो वै कश्चैतां वाचं वेद यस्या वाच एष विकार उक्तः। संसारमूलपरिज्ञानात्सोऽयं संप्रतिवित्। वाग्विकारो हि कर्म। कर्ममूलश्च संसारः। का सा वाक्? इत्युच्यते—अकार इति। यमाहुः स्फोटमिति सर्ववर्णसामान्यमाकाशकल्पमिति च स हि बुद्धिस्थो ह्यकारः सर्वा वाक्। या काचिच्छ्रोत्रविषयापन्ना सा पुनरेकैकरूपाकाशकल्पा सती सैव स्पर्शोष्मभिः स्थानवर्णधर्मैः व्यज्यमाना बह्वी नानारूपा विलक्षणोपाधिभिः आकाशवदेव भवति।

द्वे ब्रह्मणी हि मन्तव्ये शब्दब्रह्म परं च यत्।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥

इति परंब्रह्माप्त्युपायभूतायास्तस्या एतस्या वाचो यत्स्थानकरणवशादुपांशु भवति स हि प्राणः। अथ वाचो यदुच्चैरूपं तच्छरीरम्। यस्माद्वाचो यदुपांशुरूपं तत्तिर इव तिरोभूतमिवान्यदपि लोके तिर इव शरीरमशरीरो हि प्राणः प्रज्ञात्मा। तस्मादुच्चैर्घोषस्य शरीरत्वहेतोस्तदाविः प्रकाशरूपं वाचोरूपं आविर्हि शरीरम्॥६॥

प्राणात्मवेदनफलम्

तद्वा इदं बृहतीसहस्रं संपन्नं तद्यशस्स इन्द्रस्स भूतानामधिपतिस्स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात्प्रतीति ह स्माह महिदास ऐतरेयः प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति। तदाहुर्यदनेन रूपेणामुं लोकमभिसंभवतीं३ अथ केन रूपेणेमं लोक्रमाभवतीं३? तद्यदेतत् स्त्रियां लोहितं भवति अग्नेस्तद्रूपं तस्मात्तस्मान्न बीभत्सेताथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत सोऽयमात्मेममात्मानममुष्मा आत्मने संप्रयच्छत्यसावात्मामुमात्मानमिममस्मा आत्मने संप्रयच्छति तावन्योन्यमभिसंभवतोऽनेनाह रूपेणामुंलोकमभिसंभवत्यमुना रूपेणेमं लोकमाभवति॥७॥

उक्थमुक्थमित्यारभ्य प्राणस्योक्थत्वं वागग्निनामरूपाद्यात्मकानेकगुणवत्त्वं पुष्पफलायमानकर्मज्ञानसमुच्चयदेवताप्ययं चोपपद्यत इत्युक्तम्। पुनस्तस्यैवोपहारार्थमिदमुच्यते—तद्वा इति। तद्वा इदं बृहतीसहस्रं संपन्नमिति तत्फलरूपं तत्संपन्नम्। यमात्मानमापन्नो विद्वान् तद्यश इत्यात्मनो नाम। तस्य नाम महद्यशः” इति श्रुतेः। किञ्च स इन्द्रः परमेश्वरः समस्तभूतानामधिपतिस्तस्य सर्वाधारत्वेन पालयितृत्वात्। यः कश्चिदिन्द्रं भूतानामधिपतिमहमस्मीति वेद सोऽयं विद्वान् “वाक्पतिः चक्षुष्पतिः। श्रोत्रपतिः विज्ञानपतिः। एतत्ततो भवति” इति श्रुत्यनुरोधेन विस्रसा निश्शङ्केनेहैवास्माल्लोकात्प्रैति प्राणातिरिक्तलोकाभिमानमुत्सृज्य प्राणात्मनावतिष्ठत इत्याह स्म महिदास इतरेय आहेत्यर्थः। विदुषः सर्वात्मभावफले संशयो न कार्य इत्याह—प्रेत्येति। तथा प्रेत्येन्द्रो हिरण्यगर्भो भूत्वा कर्मफलभूतेष्वेषु लोकेष्वात्म-

भावेनैव राजति दीप्यते। तत्तत्राहुर्ब्रह्मवादिनः। योऽयमेवंवित् स एवेन्द्रः अनेन स्वेन रूपेण प्रज्ञात्मनाधिदैवलक्षणममुं लोकमभिसंभवति। अधिकेन रूपेणात्यन्तनिकृष्टमिमं लोकमाभवति प्रतिपद्यते। तत्केन खलु? इति विचारयन्नविद्याकामकर्मबीजं तद्यदेतत्त्रियां लोहितमुद्भूतं भवति अग्नेस्तद्रूपं लोहितो ह्यग्निः। यस्मात्तस्माल्लोहितादमेध्यबुद्ध्यान बीभत्सेत विजुगुप्सेत। तथा यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं शुक्लत्वसामान्यात्। यस्मादेतद्रेत आदित्यरूपं तस्माद्धेतोस्तस्मात्तत्रामेध्यधिया न बीभत्सेत। सोऽयं पृथिव्यग्यात्मामुं त्वङ्मांसरुधिरात्मकममुष्मै पितृभूतादित्यात्मने संप्रयच्छति। यदा भार्या भर्तारमृतुकाले संप्रयच्छति तदासावप्यादित्यात्मा स्वमात्मरूपं स्नाय्वस्थिमज्जात्मकममुमात्मानं पितृजं शुक्लरूपेणेममस्मै मातृभूताय पृथिव्यग्न्यात्मने संप्रयच्छति। तौ द्यावापृथिव्यात्मानावधिष्ठातृभ्यामग्न्यादित्याभ्यां सहभूतावन्यो न्यमितरेतरमभिसंभवतो मिथुनीभवतः। यत्तत्पृष्टं केन रूपेण इमं लोकमाभवति? इत्यत्रानेन पृथिव्यग्निरूपेण मातृजेन पितृजं रूपमादित्यात्मानममुं लोकमभिसंभवति अभिसंयुज्यते। अमुना ह्यादित्यात्मरूपेण पितृजेन त्रयेणेमं लोकं पार्थिवमाग्नेयं पिण्डमाभवति। कोऽसाविन्द्रः? सर्वभूतात्मा स्वाविद्याकामकर्मोद्भूतशुक्रशोणितमयं शरीरमुपचयापचयधर्ममशनापिपासाद्यनेकोपद्रवालयं प्रतिपद्यते। स यदा शास्त्राचार्योपदिष्टमैन्द्रमशरीरं प्राणात्मानमहमस्मीति वेत्ति तद्रायं विद्वान् स्वेन रूपेणेन्द्रो भूत्वैषु लोकेषु राजत इत्युक्तम्॥७॥

एवं विदुषः सर्वत्र संचारः

तत्रैश्लोकाः—

यदक्षरं पञ्चविधं समेति युजो युक्ता अभि यत्संवहन्ति।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवास्सर्व एकं भवन्ति॥१॥
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति॥२॥

यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु।
तद्विधूय कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्च्छृतेऽधि॥३॥

यस्मिन्नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति।
तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गलोकमप्येति विद्वान्॥४॥

नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान् ब्रुवन्।
पुमांसमब्रुवन्नेनं वदन् वदति कश्चन॥५॥

** अः इति ब्रह्म तत्रागतमहमिति। तद्वा इदं बृहतीसहस्रं संपन्नं तस्यैवैतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति जीवाक्षरेणैव जीवा अहराप्नोति जीवाह्ना जीवाक्षरमिति। अनकाममारोऽथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः संग्रहीता तदयं प्राणोऽधितिष्ठति। तदुक्तमृषिणा—तेन यातं मनसो जवीयसा निमिषश्चिज्जवीयसेति जवीयसेतीति॥८॥**

** **विद्वानिन्द्ररूपेण सर्वत्र राजत इत्यत्रास्मिन्नर्थ एते श्लोका मन्त्रा भवन्तीत्याह—तत्रेति। यत् न क्षरतीति प्राणाख्यमक्षरं ब्रह्म पृथिव्यादिपञ्चविधं भौतिकशरीरजातं च समेति। विषयैर्युज्यन्त इति युज इन्द्रियाणि रथे युक्ताश्वा इव यच्छरीरं संवहन्ति। सत्यस्य मूर्तीमूर्तात्मनः प्राणस्य सत्यं तद्विकारास्पृष्टमपि क्षेत्रज्ञरूपेण प्राणप्रवेशमनु यत्र युज्यते। प्राणप्रवेशादात्मापि प्रविष्ट इव पश्यञ्च्छृण्वन्मन्वानो विजानन्विज्ञानक्रियाव्यापारारूढो यस्मिञ्च्छरीरे लक्ष्यते तत्र शरीरावच्छिन्नप्राणे वागादयः तदभिमानिनोऽग्यादयश्च सर्वे देवाः सहैकं भवन्ति। स्वापमूर्च्छामरणध्यानादिकालेष्वभिन्नरूपतां भजन्ति। पुनः प्रबोधकाले त एव विस्फुलिङ्गा इव प्रविभज्यन्ते। यदक्षरं

प्राणाख्यमक्षरात्परमात्मनोऽभिन्नं सदिन्द्रिययुक्तशरीरमेति। व्याख्यातमन्यत्। पुष्पफलरूपवाङ्मयवृक्षस्य यद्वाच ओमिति यच्च नेतीत्युक्तं यच्चास्या अकारात्मिकाया वाचः छिन्धि भिन्धीत्यादिलक्षणं क्रूरं यदु चोल्बणिष्णु अत्युल्बणमाक्रन्दितं तत्सर्वं विधूय परित्यज्य कवयः प्राणमन्वविन्दन्लब्धवन्तः। अकारलक्षणायां वाचि नामायत्ता नामात्मभावं गता इत्यर्थः। उपलब्धारं प्रज्ञात्मानमैन्द्रमाकाशशरीरं समतृप्यन् श्रुते पक्वविज्ञान ईश्वरभावेन यस्मिन्नामायत्तास्समतृप्यन् शृतेऽधि तत्र तस्मिन्निन्द्रे प्रज्ञात्मनि वागादयोऽग्न्यादयश्च देवाः सर्वे युजो युक्ता भवन्ति तदात्मतां गच्छन्तीत्यर्थः। “एतमग्निरित्यध्वर्यव उपासते” इत्यादिश्रुतेः। अधुनापि विद्वांस्तेनैव मार्गेण नामायत्तस्सन् पाप्मानमाविद्यकमपहत्य ब्रह्मणात्मभूतेन स्वर्गंलोकमप्यैन्द्रं हैरण्यगर्भमात्मानं प्रतिपद्यत इत्यर्थः। एनमात्मानं स्त्रीशरीरसंबन्धिनं स्त्रीशब्देन वदन्नपि न वदति। तथा नपुंसकदेहसंबन्धिनं न स्त्री नापि पुमान्नपुंसकोऽयमिति ब्रुवन्नप्येनं नपुंसकशब्देन न वदत्येव। तथा पुंशरीरसंबन्धित्वात्पुमानयमिति वदन्न वदत्येव। न हि देहधर्मैः कदापि संबध्यते। केन शब्देनासौ बुध्यते? इत्यत्र यथा अकारात्मिका वागुक्ता तथैव वाचा अः इत्युच्यते ब्रह्म। तदतिरिक्तस्य विसर्जनीयत्वेन निर्देशात्। अत्रास्मिन्नाम्न्यकारात्मिकायां वाचि स्वगृहप्राप्तातिथिरिवागतमहं प्रत्ययवेद्यमहमहंशब्दस्याकारपूर्वकत्वे “अहमुक्थमस्मि” इत्युक्तत्वात्। तथा चोक्तं “अकारो वै सर्वा वाक्” इति। सर्वंच ब्रह्म। तस्मादोङ्कार एव ब्रह्मोच्यते। तत्केनचिच्छब्दान्तरेण प्रस्तुतं भवतीत्यत्र तद्वा इदं बृहतीसहस्रं इत्याद्युक्तार्थमेतत्। तद्विज्ञानफलं किम्? इत्यत्र जीवाक्षरेणैव सर्वप्राणिजीवनहेतुत्वात्” अशरीरः प्राणः प्रज्ञात्मा”, “यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः” इत्यादिश्रुतेः। तस्य नामाक्षरमकाराक्षरमुक्तं हि ब्रह्नेति। तेन जीवाक्षरेणैव यस्मिन्महाव्रतीयाहनि सर्ववाग्रूपेण जीवः स्तूयते। तेन कारणेन जीवहर्महाव्रताख्यं कृत्वात्मानमाप्नोति। तेन जीवाह्ना कृत्वात्मना स्वात्मन्येव सर्वान् विधूयाकाराक्षरं जीवनभूतं सर्वप्राणिनामिन्द्रमाप्नोति। कामतः सर्वो लोको म्रियत इति काममारः।

न काममारोऽकाममारः। अयन्तु न तथाऽनकाममारः। अर्थादयं काममार एव। वागग्न्यादियुक्तो देवरथः। कथं तस्य रथस्य वागुद्धिः? ऊर्ध्वं नीयते तस्मिन्भरद्वाजमित्युद्धिः। चिबुकसंबन्धेन वागुद्धिः संकोचसामान्यात्। श्रोत्रे पक्षसी रथचक्रेऽवस्थानसामान्याच्छन्दःसंबन्धाद्वा। अश्वाविव रथयुक्ते चक्षुषी ताभ्यां रथो नीयते। मार्गदर्शनहेतुत्वात्। मनः संग्रहीता सारथिः। तत्रायं प्राणो जीवोऽधितिष्ठति। तदेतद्देवरथकल्पनारूपमृषिणा मन्त्रेणाप्युक्तम्। अनेन यातं मनसो जवीयसा वेगवत्तरेण यं रथं वां युवाभ्यामर्थाय ऋभवो देववर्धकिनश्चक्रुःहे अश्विनौ! तेन यातमित्यर्थः। किञ्चान्योऽपि मन्त्रः निमिषश्चिज्जवीयसा रथेन यातमश्विनेति। द्विर्वचनमध्यायपरिसमाप्त्यर्थम्॥८॥

इति तृतीयोऽध्यायः

———————

चतुर्थोऽध्यायः

अकर्मिण आत्मयाथात्म्यावगतिः

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति। स इमांल्लोकानसृजत अम्भो मरीचीर्मपोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः। पृथिवी मरो या अधस्तात्ता आपः। स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति। सोऽद्भ्यएवपुरुषं समुद्धृत्यामूर्च्छयत्। तमभ्यपतत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः। प्राणाद्वायुरक्षिणी

निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वनिरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः॥१॥

** **“एष पन्थाः” इत्याद्येतावता ग्रन्थेन ज्ञानकर्मसमुच्चयानुष्ठातॄणामपरब्रह्म विद्या सम्यगभिहिता। नातः परमस्तीति मेनिरे केचित्। तन्निराकरणाय परब्रह्म विद्येयमारभ्यते—आत्मा वा इति। यतोऽपरविद्यायां बृहतीसहस्रं प्रस्तुत्यानन्त्“आत्मा वा” इत्यात्मज्ञानविधानादत आत्मविद्यायां कर्म्येवाधिक्रियत इति चेन्न ब्रह्मविद्यावगतेरपरब्रह्मतज्ज्ञानतत्फलनिराकरणपूर्वकत्वात्परविद्यायामकर्म्येवाधिक्रियते। “दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता” इति प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणं,

ब्रह्मविज्ञानलाभाय परहंससमाह्वयः।

इति च श्रुतेः। अकर्मिणस्तावदात्मयाथात्म्यावगतय इदमाम्नायते—आत्म वा इदमिति। अनात्मतत्कार्यापह्नवसिद्धोऽयमात्मा “अज आत्मा महान् ध्रुवः इति श्रुतेः। वैशब्दः कालत्रयेऽपि निष्प्रतियोगिकत्वद्योतकः “आत्म नोऽन्यन्न किञ्चन” इति श्रुतेः। आत्मातिरेकेण जगतस्सत्वान्निष्प्रतियोगिक‍ता कुतः? इत्याशंक्य परमार्थदृष्ट्यात्मा निष्प्रतियोगिक एव। तथापि स्वाज्ञादृष्टिविकल्पितनामरूपकर्मात्मकमिदं जगदग्रे सृष्टेः प्राक् तत् स्थितिप्रलययोरपिस्वज्ञदृष्ट्या आत्मैक आसीत्। एक एवाग्रआसीत् इत्युक्त्या ततो नास्तीति द्योत्यत इत्यत्रोत्पत्तेः प्रागव्याकृतनामरूपभेदात्मभूतात्मैकत्वशब्दप्रत्ययगोचरमिदंजगत्। इदानीं तु व्याकृतनामरूपभेदवदनेकप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचर चेति विशेषः। यथा फेनादिव्याकरणात्प्राक् फेनादिकं सलिलैकशब्दप्रत्यय गोचरं यदा सलिलात्पृथक्त्वेन फेनं व्याकृतं तदा फेनं सलिलं चेति

व्यवह्रीयते। वस्तुतः फेनादिकं जलमात्रम्। तद्वत्फेनस्थानीयजगत् सत्त्वासत्त्वाभ्यामात्ममात्रम्। तदतिरेकेण नान्यत्किञ्चन किञ्चिदपि मिषद्व्यापारवन्नास्त्येव। “मद्व्यतिरिक्तमणुमात्रं न विद्यते” इति श्रुतेः। तथापि स्वाज्ञविकल्पितमूलाविद्याबीजांशावष्टम्भतः सर्वज्ञेशो भूत्वा स ईक्षत प्राणिकर्मफलोपभोगस्थानभूतान् लोकान्नुसृजेयमित्येवमालोचनं कृतवान्। एवमीक्षित्वा सोऽयमात्मा इमान् लोकानसृजत सलिलविकल्पितफेनादिवत् स्वविकल्पितनामरूपोपादानभूतस्सन् जगन्निर्मिमीत इत्यर्थः। यद्वा—मायाविवदात्मानमेव जगद्रूपेण निर्मिमीते।

स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः।

इति श्रुतेः। कान् लोकानसृजत? इत्यत आह—अम्भो मरीचीर्मरमाप इति। ‘आत्मन आकाशः संभूतः” इत्यादिक्रमेणाण्डमुत्पाद्याम्भःप्रभृतीन् लोकानसृजत। श्रुतिरम्भःप्रभृतीनि चत्वारि पदानि स्वयमेव व्याचष्टे—अद इति। तदन्तः शब्दवाच्यो लोकः। परेण दिवं द्युलोकात्परस्तात् सोऽम्भः शब्दवाच्यः। तस्याम्भसो लोकस्य द्यौः प्रतिष्ठा आश्रयत्वात्। द्युलोकादधस्ताद्यदन्तरिक्षं तन्मरीचयः स्थानभेदाद्बहुवचनमन्तरिक्षस्य मरीचि संबन्धाद्वा। म्रियन्तेऽस्मिन्भूतानीति पृथिवी मरः। याः पृथिव्या अधस्ताद्विद्यन्ते ता आप उच्यन्ते। यद्यपि लोकानां पञ्चभूतात्मकत्वं तथाप्यबाहुल्यादम्भो मरीचीर्मरमाप इत्यबादिनामभिः निर्देशः कृतः। अथ स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति। मत्सृष्टाम्भःप्रभृतिलोकानां पालयित्रभावे तानि नश्येयुरिति तत्पालनार्थंलोकानां पालयितॄनिन्द्रादीन्नु सृजै सृजेयमितीक्षित्वा योऽद्भ्यःपञ्चभूतेभ्योऽम्भःप्रभृतिलोकान् सृष्टवान्। सोऽद्भ्यएवाप्प्रधानपञ्चभूतेभ्यः शिरः पाण्यादिमन्तं पुरुषं समुद्धृत्य कुलालो मृत्पिण्डमिवामूर्च्छयत् स्वावयवसंयोजनेन पिण्डितवानित्यर्थः। तं पिण्डमुद्दिश्याभ्यतपत् अभिधानं सङ्कल्पं कृतवान्। “यस्य ज्ञानमयं तपः” इति श्रुतेः। तस्येश्वरसङ्कल्परूपतपसाभितप्तस्य मुखं निरभिद्यत। मुखाकारं सुषिरमजायत। यथा पक्षिणोऽण्डं तथा तस्मान्निर्भिण्णमुखाद्वागिन्द्रियं निरवर्तत। वाचोऽग्निर्वागधिष्ठाता लोकपालः। तथा

नासिके निरभिद्येताम्। नासिकाभ्यां प्राणः प्राणाद्वायुरिति। सर्वत्राधिष्ठानं करणं देवता चेति त्रयं क्रमेण निर्भिण्णमिति ज्ञातव्यम्। तथाक्षिणी कर्णौ तथा त्वक् तथा हृदयं अन्तःकरणमित्यर्थः। तथा नाभिस्तस्यास्सर्वप्राणबन्धनस्थानत्वात्। अपानशब्देन पाय्विन्द्रियमुच्यते। तदधिष्ठाता मृत्युः। तथा शिश्नं निरभिद्यत। तस्माद्रेतस्तस्मादाप इति॥१॥

अन्नान्नादशक्तिसृष्टिः

ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत्। ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति। ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति। ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति। ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतम्। ता अब्रवीद्यथायतनं प्रविशतेति। अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्। तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहि इति। ते अब्रवीदेतास्वेव वां देवतात्वाभजाम्येतासु भागिन्यौ करोमीति। तस्माद्यस्यै कस्यै च देवतायै हविर्दीयते भागिन्यावेवास्यामशनापिपासे भवतः॥२॥

स्वसृष्टलोकपालादीनामन्नमन्नादशक्तिं च सृष्टवानित्याह—

ता इति। ता एता अग्न्यादयो देवता ईश्वरेण लोकपालत्वेन सङ्कल्प्य सृष्टाः सत्यः

अस्मिन्महति संसारार्णवे बन्धमोक्षहेतुकामादिशमादिसंकुले प्रापतन् पतितवत्य इत्यर्थः। यतः अग्न्यादिदेवा अपि संसारार्णवे पतिता अतः कर्मज्ञानसमुच्चयानुष्ठानफलभूतदेवताप्ययलक्षणा या अपरविद्या व्याख्याता सापि स्वातिरिक्तसंसारोपशमनायन पर्याप्ता। तस्मात् “आत्मा वा इदम्” इत्यारभ्य “प्रज्ञानं ब्रह्म” इत्यन्तश्रुत्यर्थाविष्करणसिद्धपरमात्मविद्यातत्त्वज्ञानं स्वमात्रावस्थानलक्षणकैवल्याप्तये पर्यातम्। ‘नान्यः पन्था विद्यतेऽयनाय” इति मन्त्रवर्णात्। स्थानकरणदेवतोत्पत्तिबीजभूतं तं पिण्डात्मानं पुरुषमशनापिपासाभ्यामन्ववार्जत् संयोजितवानियर्थः। स्वकारणभूतस्याशनायादिदोषवत्त्वेन तत्कार्यभूतदेवतानामप्यशनायादिमत्त्वात्ततस्ता अशनायापिपासाभ्यां पीड्यमानाः सत्यः एवं स्वस्थितिकारणपिण्डस्रष्टारमीश्वरमब्रुवन्नुक्तवत्यः। किम्? इत्यत आह—

आयतनमिति। वयं यस्मिन्नायतने प्रतिष्ठिताः सत्यः अन्नमदाम नोऽस्मभ्यं तदायतनमधिष्ठानं प्रजानीहि विधत्स्व। ताभिरेवमुक्त ईश्वरस्ताभ्यो देवताभ्यो गां पूर्ववदद्भ्यएव गवाकृतिपिण्डमुद्धृत्यानयद्दर्शितवान्। ताः पुनर्गवाकृतिपिण्डं दृष्ट्वा न वै नोऽस्मदर्थमधिष्ठायान्नमत्तुमयं गवाकृतिपिण्डः अलमेतदधिष्ठायात्तुं न पर्याप्तो न योग्य इत्यर्थः। ताभिः प्रत्याख्याते गवि ततस्तथैवाश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति। पूर्ववत्ताभिरश्वेऽपि प्रत्याख्याते पुनस्ताभ्यः पुरुषमानयत्ताः स्वयोनिभूतं पुरुषं दृष्ट्रा हृष्टाः सत्यः सुकृतं शोभनकृतं इदमधिष्ठानं बतेत्यब्रुवन्। तस्मात्पुरुषो वा स एव सुकृतं पुण्यकर्महेतुत्वात्। स्वकृतत्वात्सुकृतमिति वा। ता देवताः प्रतीश्वर एवमब्रवीत्। किमिति? यथायतनं प्रविशतेति। यद्यस्य यथायोग्यमायतनं प्रविशतेतीश्वरेणाज्ञप्ताः सत्यः नगर्यांप्रभुभृत्या इव यथायोग्यं प्रविष्टा इत्याह—अग्निरिति। वागभिमान्यग्निर्वागेव भूत्वा मुखं प्राविशदित्युक्तार्थमन्यत्। वायुर्नासिके आदित्योऽक्षिणी दिशः कर्णौ ओषधिवनस्पतयस्त्वचं चन्द्रमा हृदयं मनो मृत्युर्नाभिं आपः शिश्नं प्राविशन्। एवं लब्धायतनासु देवतासु निरधिष्ठाने अशनापिपासे तमीश्वरमब्रूतामावाभ्यामधिष्ठानं अभिप्रजानीहि विधत्स्वेत्यर्थः। सोऽयमीश्वरस्ताभ्यामेवमुक्तस्सन् ते अशनापिपासे अब्रवीत्। न हि युवयोरमूर्तत्वेन

मूर्तवच्चेतनावद्वस्त्वनाश्रित्य अन्नात्तृत्वं संभवति। तस्मादग्न्यादिदेवतास्वेव वां युवामध्यात्माधिदेवतासु आभजामि तद्विभागेनानुगृह्णामि। हविरादिलक्षणो यद्दैवत्यो यो भागस्तद्भागेन भागिन्यौ युवां करोमीतीश्वरः सृष्ट्यादावेवं व्यदधात्। यस्मात्तस्मादिदानीमपि यस्यै कस्यै च देवतायै चरुपुरोडाशादिलक्षणं हविर्दीयते गृह्यते तत्र भागिन्यावेवास्यां देवतायामशनापिपासे भवत इति॥२॥

अन्नसृष्ट्या लोकार्तिमोचनम्

स ईक्षतेमे नु लोकाश्च लोकपालाः चान्नमेभ्यः सृजा इति। सोऽपोऽभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिरजायत। या वै सा मूर्तिः अजायतान्नं वै तत्। तदेनत्सृष्टं पराङत्यजिघांसत् तद्वाचाजिघृक्षत् तन्नाशक्नोद्वाचा ग्रहीतुम्। स यद्वैनद्वाचाग्रहष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्। तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत् प्राणेन ग्रहीतुम्। स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत्। तच्चक्षुषाजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम्। स यद्वैनच्चक्षुषाग्रहैष्यदूदृष्ट्वा हैवान्नमत्रप्स्यत्। तच्छ्रोत्रेणा जिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम्। स यद्धैनच्छ्रोत्रेणाग्रहैप्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्। तत्त्वचाजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुम्। स यद्वैनत्त्वचाग्रहष्यत्स्पृष्ट्रा हैवान्नमत्रप्स्यत। तन्मनसाजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम्। स यद्वैनन्मनसाग्रहैष्यत् ध्यात्वा हैवान्नमत्रप्स्यत्। तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुम्। स यद्वैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत्। तदपानेनाजिघृक्षत् तदावयत्। सैषोऽन्नस्य ग्रहो

यद्वायुरन्नमायुर्वा एष यद्वायुः। स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति। स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत। सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्। तस्य त्रय आवसथाः त्रयः स्वप्नाः अयमावसथोऽयमावसथोऽयमावसथ इति। स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिष्यदिति। स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती ३। तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः॥३॥

मत्सृष्टलोकलोकपालानामशनायाद्यर्दितत्वेन तत्स्थितिनिमित्तमन्नं सृष्ट्वा चसृष्टलोकानुप्रवेशपूर्वकं तदार्ति मोचयतीत्याह—

स ईक्षत इति। सोऽयमीश्वर ईक्षत। किमिति? मया इमे लोका लोकपालाश्च सृष्टाः अशनायापिपासाभ्यां संयोजिताश्च। तेषां स्थितिरन्नमन्तरेण यतो न भवेदतः एभ्यो लोकपालेभ्योऽन्नं सृजा इत्येवमीक्षितवानित्यर्थः। सोऽयं स्वतन्त्रेश्वर एभ्योऽन्नं सिसृक्षुः सन् पूर्वोक्ता अपः उद्दिश्याभ्यतपत्। ताभ्योऽभितप्ताभ्यः उपादानभूताभ्यः चराचरलक्षणेयं मूर्तिरजायत। या वै सा मूर्तिरजायत। तदेनदन्नमन्नार्थ्याभिमुखे सृष्टं सन्मार्जारदृष्टिगोचरमूषिकवदयमन्नादो मम मृत्युरिति मत्वात्तारमतीत्य परागञ्चतीति पराङ्। तद्गोचरमतीत्य अजिघांसत् पालयितुमैच्छत्। तदन्नाभिप्रायं मत्वा लोकलोकपालाश्रयः सोऽयं पिण्डस्तस्य प्रथमजत्वेन स्वातिरिक्तान्नादवैरल्येन च तदन्नं वाचा वचनक्रिययाजिघृक्षत् ग्रहीतुमैच्छत्।

तदन्नं वाचा ग्रहीतुं नाशक्नोत् न समर्थः अभवत्। स यद्धैनदन्नं वाचाग्रहैष्यत् यदि गृहीतवान् स्यात्तदा तत्कार्यलोकोऽप्यन्नमन्नमित्यभिव्याहृत्यात्रप्स्यत्तृप्तोऽभविष्यत्। न चैतदस्ति। अतो वाचा ग्रहीतुं नाशक्नोदित्यन्यत्रैवं योजनीयम्। तत्प्राणेन तचक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिश्नेनेति तत्तत्करणव्यापारेणान्नं ग्रहीतुमशक्नुवन् सन् पश्चान्मुखच्छिद्रगतापानवायुना तदन्नमभिजिघृक्षत्। तदावयत्तदेवान्नं जग्राहाशितवान्। तेनासावप्मनोऽन्नग्राहको भवति। यद्वायुः यो वायुर्लोकोऽयमन्नायुर्वा एष यद्वायुः लोकजीवनस्यान्ननिमित्तत्वादिति। लोकप्रसिद्धिद्योतको वैशब्दः। पुनः सोऽयमीश्वरो लोकलोकपालस्थितिमन्ननिमित्तां विधाय पुरपौरतत्पालयितृस्थितिवत्तत्स्वामी ईक्षत। नु इति वितर्कयन् कथं नु केन प्रकारेणेदं मदृते सङ्घातपुरस्वामिनं मां विना स्पन्दितुमिदं समर्थंभवेत्? मदतिरिक्तस्य पदार्थत्वेनाचेतनत्वान्मां स्वामिनं चेतनमन्तरेणैतत्सङ्घातं यदि वाचाभिव्याहृतमित्यादि व्यापृतिसमर्थंभवेत्तदा कोऽहं कस्य वा स्वामी? यद्यहं सङ्घातमनुप्रविश्य वागाद्यभिव्याहृतादिफलं नोपलभेयं तदा न कोऽपि मां जानीयात्। यद्यहं संवाते प्रविश्य तत्तत्करणप्रवृत्तिनिमित्तं स्यां तदा खलुमुमुक्षुभिर्ज्ञातुं शक्यो भवेयमितीक्षित्वाथ कार्यकरणसंघातान्तःप्रवेशमार्गौ प्रपदं मूर्धा चेति द्वावेव खलु। अनयोः कतरेण मार्गेण संघातलक्षणं पुरं प्रपद्य इतीक्षित्वा तत्र प्रपदयोः मद्भृत्यप्रवेशद्वारत्वात्तद्द्वारप्रवेशनं न हि रमणीयम्। किन्तत्? पारिशेष्यादस्य पिण्डस्य मूर्धन्यसीमानं केशविभागावसानं विदार्य छिद्रं कृत्वा एतया द्वारेमं पिण्डं प्रापद्यत प्रविवेश। सेयं द्वार्हि प्रसिद्धा। अत एव मूर्ध्नि तैलधारणतः तत्सारमन्तः प्रविशतीत्यनुभवात्। सैषा विदारितत्वाद्विदृतिः। विदृतिर्नाम प्रसिद्धा द्वाः पुरस्वामिप्रवेशहेतुत्वात्। भृत्यादिस्थानानि हि श्रोत्रादिद्वाराणि नानन्दहेतूनि। इदं परमेश्वरस्येति यत्तदेतन्नान्दनम्। नन्दनमेव नान्दनमित्यत्र दीर्घंछान्दसम्। एतद्द्वारतो निर्गच्छतोऽमृतत्वश्रवणात्। “तयोर्ध्वमायन्नमृतत्वमेति” इति श्रुतेः। पुरं निर्माय राजप्रवेशवदेवं समस्तलोकलोकपालान् सृष्ट्वाजीवात्मना प्रविष्टस्य तस्यात्मनो जाग्रत्स्वप्नसुषुप्तिभेदेन त्रय आवसथाः पुरुषनेत्रकण्ठहृदयाश्रया ह्यवस्थाः—

नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत्।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम्॥

इति श्रुतेः। यद्वा—पितृशरीरं मातृगर्भाशयं स्वशरीरं च त्रय आवसथाः। स्थूलसूक्ष्मबीजप्रपञ्चाः त्रयः स्वप्नाः। स्थूलप्रपञ्चादेःप्रबोधरूपत्वात्स्वप्नत्वं कथं? इति चेन्न; तदावृतदृष्टेः परमार्थप्रबोधाभावात्स्वप्नत्वं सिद्धमित्यर्थः। दक्षिणं चक्षुर्मुखञ्च प्रथमावसथः। मनोऽन्तरं द्वितीयः। हृदयमाकाशश्चायं तृतीयावसथः। इत्युक्तावसथत्रयेऽपि पर्यायेणात्मानुवर्तते। दीर्घकालं स्वाविद्यां गाढमालिंग्य प्रसुप्तस्सन्नात्मा स्वात्मानं यथावन्न प्रतिबुध्यते। सोऽयमात्मानेकशो जातो भूतान्यभिव्यैख्यत् बहुधा व्याकरोत्। स कदाचिदनेकजन्मार्जितसुकृतपरिपाकलब्धचरमजन्मनि देशिकमुखोदितवेदान्तजातश्रवणमनननिदिध्यासनप्रभवसम्यज्ज्ञानसमकालं निष्प्रतियोगिकब्रह्ममात्रातिरिक्तं किमिहान्यमन्यद्वावदिष्यत् वक्तव्यमासीदिति निश्चित्य यः“आत्मा वा इदमेक एवाग्र आसीत्” इत्युक्तः सोऽयं खातिरिक्तानात्मापह्नवसिद्धपरमात्मा हि स्वाज्ञदृष्टिप्रसक्तसृष्ट्यादिकर्तृत्वेन यः प्रकृतः तमेव पुरिशयनात्सर्वत्र पूर्णत्वाद्वा पुरुषं ब्रह्म बृहत्तमत्वात्ततमं तततमं व्यापकतमं तकारलोपः छान्दसः तमेतमेव पुरुषं स्वमात्रमिति प्रत्यबुद्ध्यतापश्यत्। कथमपश्यत्? इत्यत्र इदं सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति अदर्शं दृष्टवानस्मि। इतिशब्दतो अहो! मद्वन्यतेति द्योत्यते। यस्मादात्मानमपरोक्षतयापश्यत् तस्मादिदं पश्यतीति इदन्द्रो नाम परमात्मा। लोके इदन्द्रो ह वै नामेति प्रसिद्धः परमात्मा। तमेवमिदन्द्रं सन्तं ब्रह्मविद इन्द्र इत्याचक्षते। व्यावहारिकदृष्ट्येत्यर्थः। परोक्षनामग्रहणप्रिया हि यस्माद्देवाः। किमु सर्वदेवानामपि देवो महेश्वरः? “तमीश्वराणां परमं महेश्वरम्” इति श्रुतेः। द्विर्वचनमध्यायपरिसमाप्त्यर्थम्॥३॥

इति चतुर्थोऽध्यायः

———————

पञ्चमोऽध्यायः

आत्मोत्पत्तिः कैवल्यस्वरूपं च

अपक्रामत गर्भिण्यः। पुरुषे ह वा अयमादितो गर्भो भवति। यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यः तेजः संभूतमात्मन्येवात्मानं बिभर्ति तद्यदास्त्रियां सिञ्चत्यथैनं जनयति तदस्य प्रथमं जन्म। तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावयति। सा भावयित्री भावयितव्या भवति तं स्त्री गर्भं विभर्ति सोऽय एव कुमारं जन्मनोग्रेऽविभावयति स यत्कुमारं जन्मनोऽग्रेऽविभावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म। सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते। अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म। तदुक्तमृषिणा

—गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा। शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच। स एवं विद्वानस्मच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवदमृतः समभवत्॥

“आत्मा वा इदम्” इति चतुर्थाध्यायप्रकृत आत्मा स्वातिरिक्तानात्मापह्नवसिद्धोऽपि स्वाज्ञादिदृष्ट्या जगदुत्पत्तिस्थितिभङ्गकृदीश्वरः सर्वज्ञो भूत्वा किञ्चिदप्यनुपादायाकाशादिक्रमेणेमं लोकं सृष्ट्वा स्वात्मप्रबोधार्थंस्वाप्रविष्टप्रदेशाभावेऽपि

सर्वप्राणादिमच्छरीरजातं प्रविश्य स्वात्मानं ब्रह्माहमस्मीति यथाभूतं प्रत्यबुध्यत। तस्मात्सर्वशरीरेष्वेक एवात्मा न ह्यात्मान्तरमस्ति। एवं यो मन्योऽप्यात्मानं ब्रह्माहमस्मीति वेद चेत्सोऽपि ब्रह्मैव भवतीत्यत्र “आत्मा वा इदम्” इत्युपक्रम्य स एतमेव पुरुषं ब्रह्म ततममपश्यत्” इत्युक्तम्। स्वात्मनः स्वाप्रविष्टदेशवत्त्वे कथमात्मा पिपीलिकेव सुषिरं सीमानं विदार्य प्रापद्यत? इति चेन्न; प्रवेशस्यात्मैकत्वप्रबोधार्थत्वात्। न हि तस्यानन्तशक्तेरिदं चोद्यं भवितुमर्हति। बह्वत्र चोदयितव्यस्य विद्यमानत्वात्। तत्कि न जानीषे? पश्यैतदीश्वरे चोद्यजातम्। अकरणः सन्नीक्षत। किञ्चनानुपादाय लोकानसृजत। सोऽद्भय एवं पुरुषं समुद्धृत्यामूर्च्छयत्। तस्याभिध्यानान्मुखादि निर्भिण्णम्। मुखादिभ्यश्चान्यादयो लोकपालास्तेषांमशनायादिसंयोजनं तदायतनप्रार्थनं तदर्थं वागादिप्रदर्शनं तेषां तदायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागादिभिः तज्जिघृक्षेत्यादिचोद्यजातम्। ईश्वरे न हि चोद्यम्। एतत्सर्वं सीमाविदारणप्रवेशवदनुपपन्नमिति चेन्न; तस्य महामायावित्वेन तत्कृतैतादृशचोद्यानां तत्पदाप्तिहेतुबोधार्थत्वादेतत्सर्वं युक्ततममेव। एतच्चोद्यपरिज्ञाने किं फलमिति चेन्न; सर्वभूतेष्वात्मैकत्ववेदनपूर्वकं सर्वभूतगतहेयांशापह्नवसिद्धात्ममात्रावबोधसमकालं कैवल्यफलसिद्धेः। तथा च श्रुतिः—ब्रह्म वेद ब्रह्मेव भवति”, “नेति नेति”, “न ह्येतस्मादिति”, “नेत्यन्यत्परमस्ति”, “तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्”, “अयमात्मा ब्रह्म सर्वानुभूः”, “यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्” इत्यादिवेदान्तशास्त्रमात्ममात्रावगत्यर्थं प्रवृत्तम्। यावदेवं स्वात्मयाथात्म्यं न वेत्त्ययं लोकस्तावत्स्वाविद्याविजृम्भितोपाधिषु ब्रह्मादिस्तम्बान्तेषु घटीयन्त्रवत् पुनः पुनरावर्तमानः सन्नविश्रान्तं संसरति। मुहुर्मुहुः स्वात्तोपाधिं परित्यज्य पुनः पुनः प्राप्यान्नभूतः सन् पुरुषाग्नौ हुत इत्याद्यर्थप्रदर्शनार्थंपञ्चमाध्याय आरभ्यते—अपक्रामतेति। यथास्थानं गर्भिण्यः। अयमध्यायोऽसंपूर्णगर्भिणीभिः न जात्वपि श्रोतव्यः। श्रुतश्चेद्गर्भपातो भवेत्। इति वेदपाठकानां संप्रदायवचनमेतत्। पुरा योऽन्नभूतः पुरुषाग्नौ हुतः सोऽयं तस्मिन्पुरुषे ह वै अन्नरसादिक्रमेणादितः प्रथमं रेतोरूपेण गर्भो भवति। यदेतत्पुरुषे रेतः तदेतदन्नमयपिण्डस्य सर्वेभ्योऽङ्गेभ्यः

तेजः सारभूतं संभूतं परिनिष्पन्नमित्यर्थः। तस्य पुरुषात्मभूतत्वात्तं रेतोरूपात्मानं आत्मन्येव स्वशरीरे बिभर्ति। तद्रेतो यदा यस्मिन्काले योषाग्नौ स्त्रियां भार्यायां सिञ्चति अथ तदेवद्रेत आत्मनो गर्भं जनयति। पितृजठरेऽस्य संसारिणः प्रथमं जन्म प्रथमाभिव्यक्तत्वात्। तदेतदसावात्मामुमात्मानमित्यादिना पुरस्तादेवोक्तम्। तद्रेतो यस्यां सिक्तं सत्तस्याः स्त्रियाः रेतोरूपेण पितुः शरीरे इवात्मभूयमात्मा व्यतिरिक्ततां गच्छति। यथा स्तनादिकं स्वमङ्गं तथा गर्भ एनां मातरं न हिनस्ति पिटकादिवत्। यथा मध्यनिष्पन्नस्तनमात्मभूयं गत्वा न हिनस्ति तथैनामयं गर्भ इत्यर्थः। सान्तर्वत्ती अस्य भर्तुः रेतोरूपमात्मानमत्र स्वजठरे गतं बुद्धा भावयति। गर्भविरोध्यशनवर्जनपूर्वकं तदनुकूलान्नाद्युपायतः पालयतीत्यर्थः। सा भावयित्री वर्धयित्री स्वभर्तास्वरेतः संबन्धतया भावयितव्या भवति। न ह्युपकारः प्रत्युपकारमन्तरा भवति। यथोक्तेन विधिना तं स्त्री गर्भ बिभर्ति। सोऽयं पिता यत्कुमारजन्म तस्याग्रे पूर्वं जातकर्मादिना भावयति। यद्भावयत्येवं तदात्मानमेव तद्भावयति। पितुरात्मैव हि पुत्ररूपेण जायते। पत्युर्जायायां रेतारूपेण प्रविश्य पुत्ररूपेण निर्गतत्वात् “आत्मा वै पुत्र नामास” इति श्रुतेः। किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयति? इत्यत्र एषां लोकानां सन्तत्यै सन्तत्यभावे लोका विच्छिद्यन्त इति। तदर्थमेवं पुत्राद्युत्पादनपूर्वकं हीमे लोकाः सन्तताः तस्मात्सन्तत्यविच्छेदः कर्तव्यः। तस्य संसारिणः कुमाररूपेण मातुरुदराद्यन्निर्गमनं तद्रेतरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः। अस्य पितुः सकाशात् यो जातः सोऽयं पुत्रात्मा शास्त्रीयपुण्येभ्यः कर्मभ्यस्तन्निष्पादनार्थं प्रतिधीयते। पितुः स्थाने पित्रा यत्कर्तव्यं तत्करणाय तत्स्वाय च प्रतिधीयते। अथानन्तरमात्मनो भारं पुत्रे निवेश्य अस्य पुत्रस्येतरो यः पित्रात्मा कृतकृत्यः सन् वयोगतः जीर्णः सन्प्रैति म्रियते। स इतोऽस्मात्प्रयन्नेव शरीरं परित्यजन्नेव तृणजलूकावद्देहान्तरमुपाददानस्सन् पुनर्जायते। मृत्वा प्रतिपत्तव्यं यत्तदस्य तृतीयं जन्म। पितुः सकाशाद्रेतोरूपेण प्रथमं जन्म। तस्यैव मातृगर्भाशयात्

द्वितीयं जन्मोक्तम्। तस्यैव तृतीये जन्मनि वक्तव्ये मृतस्य पितुर्यज्जन्म तदेव तृतीयं जन्मेति कथमुच्यते? इति चेन्न; पितापुत्रयोरेकात्मत्वस्य विवक्षितत्वात्। सोऽपि पुत्रः स्वपुत्रे भारं निवेश्येतः प्रयन्नेव पुनर्जायते यथा पिता। अन्यतरत्रोक्त इतरत्राप्युक्तमेव भवतीति मन्यते श्रुतिः। पितापुत्रयोरेकात्मत्वविवक्षा हि श्रुतेरभिप्रायः। एवं घटीयन्त्रवज्जननमरणादिसंसारे लोकोऽयं परिभ्रमति। एवमनेकेषु सत्सु कश्चिदनन्तकोटिजन्मसुकृतपरिपाकलब्धचरमजन्मा श्रुत्याचार्यप्रसादतः स्वात्मयाथात्म्यं विदित्वा तद्वेदनसमकालं कृतकृत्यो भवतीत्येतमर्थमृषिणा मन्त्रेणाप्युक्तमित्याह—तदुक्तमृषिणेति। वामदेवो मुनिर्महानुभावोऽनेकजन्मार्जितपुण्यपुञ्जप्रभावतः श्रुत्याचार्यप्रसादलब्धविज्ञानं गर्भ एव लब्धवानित्याह—गर्भ इति। अनेकजन्मभावनापरिपाकवशात् नु इति वितर्के। मातुर्गर्भ एव वसन् वामदेवः एवं प्रत्यबुध्यत। एषां वागग्न्यादिदेवानां जनिमानि जन्मानि विश्वा विश्वानि सर्वाणि अवेद महमनुप्रबुद्धवानस्मि। शतमनेका आयसीरायस्यो लोहमय्य इव शरीरावृतयः पुरः पुरा मां मा अरक्षन् रक्षितवत्यः। इतः परमथ संसारनिर्गमनाय श्येन इवावारकजालं भित्त्वा जवसा आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि। अहो! गर्भ एव शयानो वामदेव ऋषिरेवमुवाच। सोऽयं वामदेव ऋषिरात्मयाथात्म्यं स्वातिरिक्तानात्मापह्नवसिद्धमात्ममात्रं स्वावशेषतया विद्वान् सन् तद्वेदनसमकालमस्मात्स्वाज्ञदृष्टिविजृम्भितशरीरबीजभेदादपह्नवतां गतादूर्ध्वं उत्क्रम्य सर्वोर्ध्वरूपब्रह्ममात्रनिश्चयमासाद्यामुष्मिन् सच्चिदानन्दलक्षणाखण्डैकरसे स्वर्गे लोके स्वात्मनि ब्रह्ममात्रे स्वज्ञदृष्टिविकल्पितजीवन्मुक्तिदशायामेव स्वातिरिक्तसर्वान्कामान्ब्रह्ममात्रपर्यवसन्नतयाप्त्वा निष्प्रतियोगिकामृतः परमात्मा समभवत्। विदेहमुक्तोऽभवदित्यर्थः। द्विर्वचनमध्यायपरिसमाप्त्यर्थम्॥

इति पञ्चमोऽध्यायः

—————

षष्ठोऽध्यायः

ब्रह्मयाथात्म्यविचारः

** कोऽयमात्मा? इति वयमुपास्महे कतरः स आत्मा? येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति। यदेतद्धृदयं मनश्चैतत्। संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेघा धृष्टिः धृतिः मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति। एष ब्रह्मैष इन्द्र एष प्रजापतिः एते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतीषीत्येतानि इमानि च क्षुद्रमिश्राणीव। बीजानि इतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्विज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म। स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवदमृतः समभवत्॥**

ब्रह्मविद्यासाधननिष्पन्नब्रह्ममात्रावस्थानलक्षणकैवल्यस्वरूपं वामदेवाद्याचार्यपरम्परया श्रुत्वाधुना ब्रह्मजिज्ञासवो मुमुक्षवो ब्रह्मयाथात्म्यं विचारयन्तः सन्तोऽन्योन्यं बुभुत्सवः पृच्छन्ति—कोऽयम्? इति। व्यष्टिसमष्ट्यात्मकदेहेन्द्रियादिसंघातेष्वनात्मसु वयं कोऽयमात्मा? इति साक्षादुपास्महे। कतरः

स आत्मा कीदृशः? यमात्मानं वामदेवः स्वमात्रमिति ज्ञात्वामृतः समभवत्तमेव मुमुक्षवो वयमुपास्महे। को नु खलु स आत्मा? इत्येवं जिज्ञासापूर्वकमन्योन्यं च्छतामतिक्रान्तदर्शिनां श्रुतिरियं प्रादुर्बभूव।

येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च।
स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम्॥
चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि॥

इति श्रुतिसंस्कारजनितस्मृतिरजायत। “तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्” इति, “स एतमेव सीमानं विदार्येतया द्वारा प्रापद्यत” इति, इतरेतरप्रातिकूल्येन द्वे ब्रह्मणी हि कार्यकरणसंघातलक्षणपिण्डस्यात्मभूते भवतः। तयोरन्यतर आत्मास्माभिरुपास्यो भवितुमर्हतीति विशेषनिर्धारणार्थमन्योन्यं पप्रच्छुः। एवं विचारयतां परमात्मगोचरेयं मतिरभूत्। अस्मिन्पिण्डे द्वे ब्रह्मणी उपलभ्येते। तत्र यश्च सर्वकरणप्रवृत्तिकर्तृतयोपलभ्यते यश्च सर्वकरणप्रवृत्तिनिवृत्तिभावाभावप्रकाशकतयोपलभ्यते तावुभौ, चक्षुषा रूपं पश्यतीति प्रतिसन्धानात्। तत्र न हि तावदाद्यः कर्तोपलब्धा भवितुमर्हति। द्वितीयस्य प्रत्यगात्मनः उपलब्धत्वं युक्तमित्याह**—**

निति। “श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः चक्षुषः वक्षुरतिमुच्य धीराः” इति श्रुत्यनुरोधेन येन वा चक्षुषा चक्षुर्भूतेन रूपजातं पयति। येन वा श्रोत्रभूतेन शृणोति शब्दजातमित्यर्थः। येन वा घ्राणभूतेन अन्धानाजिघ्रति। येन वा वाकरणभूतेन साध्वसाधुरूपां वाचं व्याकरोति। येन वा जिह्वाभूतेन स्वादु चास्वादु च विजानाति। किं पुनः करणमेकमनेकधा भिन्नम्? इत्यत्र “प्रजानां रेतो हृदयं हृदयस्य रेतो मनः” इति “मनसा सृष्टा आपश्च वरुणश्च” इति “हृदयान्मनो मनसश्चन्द्रमाः” इति च श्रुतेः यदेतद्धृदयं मनश्चैकमेव तदनेकधा विकल्प्यते। तथा चैकेनान्तःकरणेन वक्षुर्भूतेन रूपं पश्यति। तथा श्रोत्रभूतेन शृणोति। घ्राणभूतेन जिघ्रति। वाग्भूतेन वदति। जिह्वाभूतेन रसयति। स्वेनैव विकल्परूपेण मनसा संकल्पयति।

हृदयरूपेणाध्यवस्यति। तस्मात्सर्वविषयव्यापकमेकं करणम्। तस्योपलब्धुरात्मनः उपलब्ध्यर्थत्वात्। तथा च “प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति” इत्यादिश्रुतेः। तस्माद्धृदयमनोवाच्यस्य सर्वोपलब्धिकरणत्वं प्रसिद्धम्। तदात्मको हि प्राणः। “यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः” इति हि श्रुतितः प्राणस्य करणसन्ततिरूपत्वं सिद्धमित्यर्थः। नैतद्वस्तु ब्रह्म भवितुमर्हति। पारिशेध्याद्यस्योपलब्धुः उपलब्ध्यर्थं हृदयमनोरूपकरणस्य वृत्तयो वक्ष्यमाणा योऽयं करणग्रामत्वेन तत्तद्विषयत्वेन तत्तत्प्रवृत्त्यसंगतया तन्निमित्तत्वेन तद्भावाभावप्रकाशकत्वेन परमार्थतो निष्प्रतियोगिकस्वमात्रत्वेन च सर्वदा व्यवस्थितः सोऽयमात्मा स्वावशेषधियोपास्यो भवितुमर्हतीति निश्चित्य तदन्तःकरणोपाधिकस्यैवोपलब्धुः प्रज्ञानरूपब्रह्मण उपलव्ध्यर्था या या अन्तःकरणवृत्तयो ब्राह्मान्तर्वृत्तिविषयास्सत्यो वर्तन्ते तास्ता वृत्तय इहोपन्यस्यन्ते**—**

संज्ञानमिति। संज्ञप्तिश्चेतनभावः संज्ञानम्। आज्ञप्तिरीश्वरभावः आज्ञानम्। विशेषकल्पनापरिज्ञानं विज्ञानम्। प्रज्ञप्तिः प्रज्ञानम्। ग्रन्थधारणसामर्थ्यंमेधा। इन्द्रियद्वारा सर्वविषयोपलब्धिः दृष्टिः। धारणं धृतिः तया शरीरधारणात्। मननं मतिः। तत्र स्वातन्त्र्यं मनीषा। जूतिचेतसो रुजादिदुःखित्वभावः। स्मरणं स्मृतिः। रूपादीनां शुक्लकृष्णादिभेदेन सम्यक्कल्पनं सङ्कल्पः। अध्यवसायः क्रतुः। प्राणनादिजीवनक्रियानिमित्तवृत्तिरसुः। असन्निहितविषयाकांक्षा कामः। स्त्रीव्यतिकराद्यभिलाषो वशः। इत्येवमाद्यन्तःकरणवृत्तयो ह्युपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपाधिभूताः। तदुपाधिजनितगुणा नामधेयानि संज्ञानादीनि सर्वाण्येवैतानि प्रज्ञप्तिमात्रस्य प्रज्ञानस्य नामधेयानि भवन्ति। न स्वतः। तथाचोक्तं**—“**

प्राणनेव प्राणो नाम भवति” इति। स एष प्रज्ञानरूप आत्मा परब्रह्मत्वेनं सर्वशरीरेषु प्रसिद्धः प्राणः प्रज्ञात्मा जलभेदगतसूर्यप्रतिबिम्बवदन्तःकरणोपाधिष्वनुप्रविष्टोऽयं हिरण्यगर्भः प्राणः प्रज्ञात्मा ब्रह्मैष एव। महदैश्वर्यसंपन्नत्वादेव एवेन्द्रः। यन्मुखादिनिर्भेदनद्वारेणाम्यादयो लोकपाला जाताः सोऽयमेष प्रजापतिः। तस्य प्रथमशरीरत्वात्। येऽप्यग्न्यादयः सर्वे देवा एष एव इमानि च सर्वशरीरोपादानभूतानि। एष एव अन्नान्नादलक्षणत्वेन पृथिवी

वायुराकाश आपो ज्योतींषीत्येवैतानि पञ्च महाभूतान्यप्येष एव। किञ्चेमानि क्षुद्रैरल्पकैर्मिश्राणि क्षुद्रमिश्राणीव सर्पादीनि बीजानि। इवशब्दोऽनर्थकः। द्वैराश्येन निर्दिश्यमानानि यानि तानीतराण्युच्यन्ते। पक्ष्यादीन्यण्डजानि। जरायुजादीनि मनुष्यादीनि जारुजानि। यूकमशकादीनि स्वेदजानि। वृक्षादीन्युद्भिज्जानि। अश्वा गावः पुरुषा हस्तिनः अन्यच्च यत्किचिदिदं प्राणिजातम्। किन्तत्? जङ्गमं यच्च पद्म्यां गच्छति, यच्चाकाशपतनशीलं पतत्रि च यच्च स्थावरमचलं तत्सर्वमशेषतः प्रज्ञानेत्रम्। अनेनोपायेन ब्रह्म नीयते बोध्यत इति प्रज्ञानेत्रत्वं युज्यते। स्वाज्ञदृष्टिप्रसक्तप्रपञ्चजातमुत्पत्तिस्थितिप्रलयेषु यस्मिन्नधिकरणे प्रज्ञानरूपे ब्रह्मणि प्रतितिष्ठतीत्येतत्सर्वं स्वज्ञदृष्ट्या प्रज्ञाने प्रतिष्ठितम्। विकल्पितस्य प्रज्ञानाश्रयत्वात्। प्रज्ञैव नेत्रं यस्य लोकस्य सोऽयं प्रज्ञानेत्रो लोकः। यस्मात् स्वातिरिक्तसर्वजगतः प्रज्ञा प्रज्ञप्तिरेव प्रतिष्ठा। तस्मात्प्रज्ञानं प्रज्ञप्तिरेव ब्रह्म। प्रज्ञानं ब्रह्मेत्यत्र प्रज्ञानशब्देन प्रत्यग्ब्रह्मशब्देन परस्तयोरपि प्रत्यस्तमितविशेषत्वात्। एवं विभागस्तयोरैक्यं वा परमार्थतो न युज्यते। तस्य निष्प्रतियोगिकब्रह्ममात्रज्ञप्तिरूपत्वात्। तदेव स्वमात्रमवशिष्यत इत्यत्र—“एकमेवाद्वयं ब्रह्म”, “नेह नानास्ति किञ्चन”, “ब्रह्मव्यतिरिक्तं न किञ्चिदस्ति”, “पश्यतेहापि सन्मात्रमसदन्यत्”,

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम्॥
सर्ववर्जितचिन्मात्रं ब्रह्ममात्रमसन्न हि।
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत् किञ्चिदवशिष्यते॥

इत्यादिश्रुतेः। एतादृशं ब्रह्ममात्रं स्वाज्ञादिदृष्टिमोहे सत्यसत्यपि निष्प्रतियोगिकमित्यत्र न विवादः। तथापि स्वाज्ञादिदृष्टिविकल्पितव्यष्टिसमष्ट्यात्मकजाग्रजाग्रदादितुर्यस्वापावस्थान्तभेदारोपापवादाधिकरणविश्वविश्वाद्यविकल्पानुज्ञै-करसान्तभेदवद्भाति। स्वाज्ञादिदृष्टिवैषम्येऽपह्नवतां गते सत्यथ कालत्रयेप्येकरूपेण

ब्रह्म स्वमात्रमवशिष्यते। योऽयं वामदेवोऽन्यो वा संज्ञानादिवृत्तिकदम्बब्रह्मेन्द्राद्युपाधिगतहेयांशापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति वेद तद्वेदनसमकालं सोऽयं विद्वानेतेनैव प्रज्ञात्मना ये पूर्वं विद्वांसोऽमृता अभूवंस्तथैतेन प्रज्ञेनात्मना स्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवदमृतः समभवदित्युक्तार्थमेतत्। द्विर्वचनमध्यायपरिसमाप्त्यर्थम्॥

इति षष्ठोऽध्यायः

——————

सप्तमोऽध्यायः

परापरविद्याप्राप्त्यन्तरायनिवर्तकशान्तिपाठः

वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि। वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु।तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम्॥ ॐ शान्तिः शान्तिः शान्तिः॥

“एष पन्थाः इत्याद्यपरविद्यायाः आत्मा वा” इति परविद्यायाश्च प्राप्त्युपसर्गशमनाय शान्त्यध्याय आरभ्यते—वागिति। समाहितदशायां मे मम वागादीन्द्रियततिः मनसि प्रतिष्ठिता “यच्छेद्वाङ्मनसी प्राज्ञः” इति श्रुतेः। व्यावहारिकदशायान्तु मे मनोऽन्तःकरणं वाचि वागादिकरणसमूहे प्रतिष्ठितम्। वागादिव्यापृतेरन्तःकरणाधीनत्वात्। “अन्यत्रमना अभूवंनादर्शम्” इत्यादिश्रुतेः।वागादिव्यापृतेरन्तःकरणाधीनत्वात्। मे मम वाचि मनसि च हे बृहत्यात्मकप्राण! त्वं आविः प्रज्ञाप्रकाशरूपेणैधि सदा सन्निधिं कुरु। हे परमात्मन्! मे मनस्य-

खण्डाकारवृतिरूपे आविराविः स्वातिरिक्तानात्मतिमिरग्रासात्ममात्रज्योतीरूपेणैधि स्वातिरिक्तकलनाविस्मरणपूर्वकं सन्निधिं कुरु। मे मम वाङ्मनोभ्यामधीतवेदस्य वेदशास्त्रजातस्य परापरब्रह्मगोचरतया अञ्चतीत्याणी तत्र परापरब्रह्मरूपेण तिष्ठतीत्याणीस्थः सन् मे मया देशिकमुखतः श्रुतमधीतं कदापि मा प्रहासीः विस्मृतिं मा कार्षीरित्यर्थः। अनेन मयाधीतेन परापरविद्याजातेनाहोरात्रानहोरात्रं सदा त्वां सन्दधामि अपररूपेण पररूपेण वा त्वामहमस्मीत्यनुसन्धानं करोमीत्यर्थः। हे प्रज्ञात्मन्! यथाशास्त्रकर्तव्यार्थंऋतं व्यावहारिकसत्यं वा वदिष्यामि। वागादिकरणग्रामतो यथावद्ग्राह्यं सत्यं त्वद्रयांशापाये पारमार्थिकसत्यस्वरूपं वा त्वां वदिष्यामि। तत्परमपरं वा ब्रह्म परापरविद्यासंयोजनेन विद्यार्थिनं मामवतु। तदेव पुनः परमपरं वा ब्रह्म मद्विद्यावक्तारमाचार्यमवतु। अवतु मामवतु वक्तारमिति पुनर्वचनमादरार्थम्। परापरविद्याप्राप्त्यन्तररायकाध्यात्मिकादितापत्रयनिरसनाय शान्तिः शान्तिः शातिरिति त्रिर्वचनम्। इत्थं शान्तिः विद्याप्रारम्भावसानयोः कार्या। कृतायामस्यां विद्या प्रसीदतीति सिद्धम्। विद्याप्रादुर्भावसमकालमयं विद्वान् कृतकृत्यो भवति॥

इति सप्तमोऽध्यायः

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना।
ऐतरेयविवरणं लिखितं स्यात् स्फुटं लघु॥
ऐतरेयविवरणग्रन्थसंख्या निगद्यते।
सप्तत्यधिद्विशतेद्वसहस्रं परिकीर्तिता॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे अष्टसंख्यापूरकं
ऐतरेयोपनिषद्विवरणं संपूर्णम्॥

नामधेयपदसूची

यत्र पुटसंख्यानन्तरं तिर्यग्रेखायाः परं संख्या वर्तते तत्रतावती पदावृत्तिः बोध्या

पदम्
अग्निः
अङ्गिराः
अत्रयः
अथर्वा
अथर्वाङ्गिरसः
अदितिः
अपानः
अनन्दाः
अर्कः
अर्यमा
असुर्याः
आदित्यः
आरुणयः
आरुणिः
आश्वलायनः
ईन्द्रः
ईशानः
उदानः
उष्णिक्
एकविंशम्
ऐतरेयः
पदम्
औद्दालकिः
कबन्धी
कराली
कात्यायनः
काली
कौसल्यः
गायत्रम्
गायत्री
गार्ग्यः
गृत्समदः
गौतमः
चन्द्रमाः
जातवेदाः
त्रिणाचिकेताः
त्रिवृत्
त्रिष्टुप्
द्विपदा
नचिकेताः
नाकः
नाचिकेतम्
पञ्चदशम्
पञ्चविंशम्
पर्जन्यः
पवमानः
पौरुशिष्टिः
प्राणः
बृहत्
बृहती
बृहस्पतिः
बैदः
ब्रह्मा
भद्रम्
भरद्वाजः
भारद्वाजः
भार्गवः
भार्गवी
भृगुः
मघवान्
मनोजवा
महाशालः
महिदासः
मातरिश्वा
माहाचमस्यः
मित्रः
मौद्गल्यः
रथन्तरम्
राजनम्
राथीतरः
रुद्रः
पदम्
वरुणः
वसिष्ठः
वाजश्रवसः
वामदेवः
वायुः
वारुणिः
वारुणी
विश्वरुची
विश्वामित्रः
विश्वेदेवाः
विष्णुः
वैदर्भिः
वैवस्वतः
वैश्वानरः
व्यानः
शार्कराक्ष्याः
शैब्यः
शौनकः
शौनकः
सत्यकामः
सप्तदशम्
समानः
सुकेशा
सुधूम्रवर्णा
सुलोहिता
सूर्यः
सोमः
सौर्यायणिः
सौर्यायणी
स्फुलिङ्गिनी
हिरण्यनाभः

विशेषपदसूची

यत्र पुटसंख्यानन्तरं तिर्यग्रेखायाः परं संख्या वर्तते तत्र तावती पदावृत्तिः बोध्या

पदम्
अः
अकथ्यम्
अकलः
अकल्पकम्
अकामाः
अकायम्
अकारः
अकार्पण्यम्
अकृतः
अकृता
अक्रतुः
अक्षया
शान्तिः
अक्षरम्
अक्षिणी
अग्निहोत्रम्
अग्रयाणतः
अग्रहम्
अग्राह्यम्
अङ्गुष्ठमात्रः
अचलः
अचिन्त्यम्
अचीर्णव्रतः
अच्छायम्
अजम्
अजः
अजरम्
अजाः
अजाचलम्
अजातम्
पदम्
अजातः
अजाति
अजातिः
अजायमानः
अणीयान्
अणु
अणुः
अण्डजानि
अतिगम्भीरम्
अतिथिः
अतिथिदेवः
अत्यायम्
अथर्ववेदः
अदृश्यम्
अद्रिजाः
अदेश्यम्
अद्वयम्
अद्वियः
अद्वयता
अद्वयाः
अद्वैतम्
अद्वैतः
अधिज्योतिषम्
अधिदैवतम्
अधिप्रजम्
अधिभूतम्
अघिमात्रम्
अधिलोकम्
अधिविद्यम्
अध्यक्षरम्
अध्यात्मम्
अध्यायकः
अध्यूल्हः
अध्वर्युः
अनकाममारः
अनन्तम्
अनन्तः
अनन्तताः
अनन्तमात्र
अनन्तरः
अनपरः
अनवद्यानि
अनविप्रयुक्ताः
अनश्नन् ब्राह्मणः
अनादिः
पदम्
अनानात्वम्
अनापन्नादिमध्यान्तम्
अनाभासम्
अनामकम्
अनिङ्गनम्
अनिद्रम्
अनिपद्यमानम्
अनिरुक्तम्
अनिर्देश्यम्
अनिलयनम्
अनुत्पत्तिः
अनुपलम्भम्
अनुप्रश्नाः
अनुशासनम्
अनुष्टुप्
अनुष्टुप्सहस्रम्
अनृतम्
अन्तः प्रश्नाः
अन्तरात्मा
अन्तरिक्षम्
अन्तरिक्षसत्
अन्तर्यामी
अन्तवत्त्वम्
अन्धाः
आन्नम्
अन्नमयम्
अन्नरसमयः
अन्नवान्
अन्नादम्
अन्नादः
अन्नादाः
अन्यभावः
अन्योन्यदृश्ये
अन्वपायम्
अन्वाहार्यपचनः
अपरं ब्रह्म
अपरा
अपरिखेदतः
अपरिज्ञानम्
अपानः
अपापविद्धम्
अपीतिः
अपूर्वम्
अपूर्वः
अप्रक्षितम् .
पदम्
अप्रमत्तः
अप्राणः
अबाह्यः
अब्जाः
अब्रह्मवित्
अभयम्
अभयः
अभावः
अभिविज्ञानम्
अभूतम्
अभूताभिनिवेशः
अभूतिः
अमनस्कः
अमनाः
अमात्रः
अमितम्
अमूर्तः
अमृतम्
अमृतः
अमृतत्वम्
अमृतमयः
अमृता
अयनम्
अराः
अरूपकम्
अर्चिमत्
अर्चिषः
अर्थाः
अर्थाभासः
अर्धर्चः
अलक्षणम्
अलब्धावरणाः
अलातम्
अलातस्पन्दितम्
अलिङ्गः
अलूक्षाः
अलोहितम्
अवस्तु
अवस्तुकम्
अवस्तुत्वम्
अवाक्शाखः
अविज्ञातम्
अविज्ञानम्
पदम्
अविज्ञानवान्
अवितथाः
अविद्या
अविद्वान्
अविलक्षणः
अव्यक्तम्
अव्यपदेश्यम्
अव्ययः
अव्यवहार्यम्
अव्यवहार्यः
अव्रणम्
अशक्तिः
अशनम्
अशनापिपासे
अशरीरम्
अश्वत्थः
अषाल्हम्
अष्टादश
असङ्गम्
असङ्गता
असत्
असद्धेतुकम्
असन्
असुः
अस्नाविरम्
अस्पर्शयोगः
अस्वप्नम्
अहः
अहर्जरम्
अहोरात्रः
आकाशः
आकाशशरीरम्
आख्यानम्
आचार्यदेवः
आज्ञानम्
आणीस्थः
आत्मक्रीडः
आत्ममायाविवर्जिताः
आत्मरतिः
आत्मविदः
आत्मविनिश्चयः
आत्महनः
आत्मा
पदम्
आत्मेन्द्रियमनोयुक्तम्
आत्मोक्थम्
आदिः
आदिबुद्धाः
आदिशान्ताः
आदिसामान्यम्
आदेशः
आध्यात्मिकम्
आनन्दः
आनन्दभुक्
आनन्दमयम्
आनन्दमयः
आनन्दरूपाः
आनन्दस्यमीमांसा
आनन्दी
आपः
आप्तिसामान्यम्
आभासाः
आयतनम्
आयुः
आयुक्ताः
आलम्बनम्
आवपनम्
आवरणच्युतिः
आवसथाः
आविः
आविरावीः
आवृत्तचक्षुः
आशाप्रतीक्षे
आशिष्ठः
आश्चर्यः
आश्रमाः
आहवनीयः
आहुतयः
इदन्द्रः
इन्द्रयोनिः
इन्द्रियाणि
इरपादाः
इरामयः
इष्टकाः
इष्टफलम्
पदम्
इष्टापूर्तम्
ईशावास्यम्
उकारः
उक्थम्
उच्छेदः
उच्छेदी
उत्कर्षः
उत्क्रान्तः
उत्तमंसत्यम्
उत्तरम्
उत्पत्तिः
उत्सर्गः
उत्सेकः
उदरम्
उदरं ब्रह्म
उदानः
उद्भिः
उद्भिज्जानि
उपचारः
उपदेशः
उपनिषदम्
उपपत्तिः
उपलम्भः
उपसेचनम्
उपायः
उपासना
उपासनाश्रितः
उपासानिशितम्
उभयतोदन्ताः
उभे
उरः
उष्णिक्
ऊरू
ऊर्णनाभिः
ऊर्ध्वपवित्रः
ऊर्ध्वमूलः
ऊष्माणः
ऋक्
ऋग्वेदः
ऋचः
ऋतम्
ऋतजाः
ऋतस्पृशम्
ऋषभः
एकः
एकत्वम्
एकमात्रम्
एकर्षिः
एकात्मप्रत्ययसारम्
पदम्
एकादशद्वारम्
एकोनविंशतिमुखः
एजत्
एतद्वै तत्
ओम्
ओङ्कारः
ओतम्
ओदनः
ओषधयः
ओषधिवनस्पतयः
औपनिषदम्
कनीनिका
कनीयः
कर्णौ
कर्म
कर्मलोकाः
कर्माणि
कर्मिणः
कलाः
कल्पः
कल्पिता
कल्याणतमम्
कवयः
कविः
कामः
कामरूपी
कामाः
कामान्नी
कायः
कारणम्
कारणबद्धः
कार्यम्
कालः
कालचिन्तकाः
काष्ठा
कुम्ब्या
कुशलः
कृतम्
कृतात्मनः
कृपणः
कृपणाः
कृष्णम्
कृष्णपक्षः
कोट्यश्चतस्रः
पदम्
कोशः
कोशाः
क्रतयः
क्रतुः
क्रमः
क्रमकोपः
क्रीयावन्तः
क्रीडार्थम्
क्षत्रम्
क्षान्तिः
क्षुद्रमिश्राणि
क्षुद्रसूक्ताः
क्षेमः
खादः
खानि
खुराः
खे पदम्
गकारः
गतिः
गन्धर्वनगरम्
गर्भः
गाथा
गायत्री
गार्हपत्यः
गुणाः
गुहाचरम्
गुहाशयाः
गुह्यम्
गूढात्मा
गेष्णः
गोजाः
गोपाः
गौणम्
ग्रहः
घटाकाशः
घटाकाशादयः
घनप्रज्ञः
घोषाः
चक्षुः
चक्षुष्पतिः
चतुर्थः
चतुष्पात्
चलाचलनिकेतः
चलाभासम्
चाक्षुषम्
चातुर्मास्यानि
चान्द्रमसम्
चित्तम्
पदम्
चित्तकालाः
चित्तदृश्यम्
चित्तस्पन्दितम्
चिन्ता
चेतोमुखः
छन्दः
छन्दस्तः
छन्दांसि
छाया
छायातपौ
जगती
जगतीसहस्रम्
जङ्गमम्
जङ्घन्यमानाः
जडवत्
जन्म
जागरितस्थानः
जागरितान्तम्
जाग्रच्चित्तेक्षणीयाः
जाग्रत्
जाग्रतश्चित्तम्
जातम्
जातवेदाः
जातिः
जातिदोषाः
जात्याभासम्
जारुजानि
जिह्मम्
जीवः
जीवाः
जीवाक्षरम्
जीवात्मनोःपृथक्त्वम्
जीवात्मनोरनन्यत्वम्
जीवेषु निर्णयः
जुहुराणम्
जूतिः
ज्ञः
ज्ञानम्
ज्ञानतृप्ताः
ज्ञानमयम्
ज्ञानालोकम्
ज्ञेयम्
ज्ञेयाभिन्नम्
ज्योतिः
ज्योतिर्मयः
ज्योतिषम्
ततमम्
पदम्
तत्त्वम्
तत्त्वभावः
तत्त्वविदः
तत्त्वादप्रच्युतः
तत्त्वानि
तत्त्वीभूतः
तथास्मृतिः
तद्ग्रहः
तन्तिः
तन्तिसंबद्धाः
तन्मयः
तन्वि
तपः
तपः श्रद्धे
तमः
ततायिनः
ततेरः
तुरीयं पदम्
तृतीयं जन्म
तृतीयः पादः
तृतीया मात्रा
तृप्तिः
तेजः
तेजस्वि
तैजसम्
तैजसः
त्यत्
त्रिकर्मकृत्
त्रिवृत्
त्रिष्टुप्
त्रिष्टुप्सहस्रम्
त्वक्
दक्षिणम्
दक्षिणाः
दन्द्रम्यमाणाः
दमः
दर्शनम्
दर्शपूर्णमासौ
दामानि
दिवे दिवे
दिव्यम्
दिव्यः
दिशः
दीक्षाः
दुःखम्
दुःखक्षयः
दुरोणसत्
दुर्दर्शम्
दुष्टाश्वाः
पदम्
दृढिष्ठः
दृष्टान्तः
देवः
देवगन्धर्वाणामानन्दः
देवताः
देवतामयः
देवयानः
देवरथः
देवाः
दैवीः
द्यौः
द्रव्यम्
द्रव्यत्वाभावयोगतः
द्वयकालाः
द्वयनाशतः
द्वयाभासम्
द्वाः
द्वितीयं जन्म
द्वितीयः पादः
द्वि तीया मात्रा
द्वेतम्
द्वेतस्याग्रहणम्
द्वैतस्योपशमः
द्वैतिनः
धर्मः
धर्मकामाः
धर्माः
धर्माधर्मौ
धातुस्वभावतः
धाम
धारा
धीरः
धीराः
धृतिः
धृष्टिः
ध्रुवम्
नप्रज्ञम्
नप्रज्ञानघनम्
नबहिः प्रज्ञम्
नमः
नवस्रक्ति
नाड्यः
नातिवादी
पदम्
नानात्वम्
नान्तः प्रज्ञम्
नान्दनम्
नाप्रज्ञम्
नाभिः
नामायत्ताः
नायकाः
निगदः
निगृहीतम्
निग्रहः
नित्यः
निदर्शनम्
निधानम्
निमित्तम्
निमिषत्
निरञ्जनः
निरुक्तम्
निरोधः
निर्नमस्कारः
निर्निमित्तः
निर्भयम्
निर्मितकः
निर्विकल्पः
निलयनम्
निश्चितम्
निश्चिताः
निष्कलम्
निस्सङ्गः
निस्स्तुतिः
निस्स्वधाकारः
नृषत्
नोभयतःप्रज्ञम्
न्यन्या
न्यायपूर्वकम्
पक्षसी
पङ्क्तिः
पञ्चपादम्
पञ्चविधाः
पञ्चविंशकः
पञ्चाग्नयः
पदम्
पन्थाः
परम्
परः
परतन्त्रास्तिता
परमार्थता
परा
परापरम्
परामृतम्
परामृताः
पदम्
परायणम्
परिभूः
परिमरः
परोक्षप्रियाः
पशुः
पश्यः
पाङ्क्तम्
पादाः
पादोदरः
पानम्
पावमान्यः
पिता
पितृदेवः
पितृयाणः
पिप्पलम्
पुरम्
पुराणः
पुरुषः
पुरुषविधः
पुरुषायुषः
पुष्पम्
पूर्णम्
पूर्वापरपरिज्ञानम्
पृथग्वादाः
पृथिवी
प्रकृतिः
प्रकृतेरन्यथाभावः
प्रगाधाः
प्रचारः
प्रजनः
प्रजा
प्रजाः
प्रजातिः
प्रजापतिः
प्रजापतिव्रतम्
प्रज्ञानम्
प्रज्ञानघनः
प्रज्ञानंब्रह्म
प्रज्ञानेत्रम्
प्रज्ञामयः
प्रणवः
प्रतिगरम्
पदम्
प्रतिबुद्धः
प्रतिबोधविदितम्
प्रतिरूपः
प्रतिष्ठा
प्रतिष्ठावान्
प्रथमं जन्म
प्रथमः पादः
प्रथमजाः
प्रथममात्रा
प्रपञ्चः
पञ्चोपशमम्
प्रपञ्चोपशमः
प्रपदे
प्रबोधः
प्रभवः
प्रभवाप्ययौ
प्रभातम्
प्रभुः
प्रमूढाः
प्रमोदः
प्रविविक्तः
प्रविविक्तभुक्
प्रसवम्
प्राज्ञः
प्राणः
प्राणत्
प्राणमयम्
प्राणमयः
प्राणशरीरनेता
प्राणाग्नयः
प्राणानामायतनम्
प्राणापानौ
प्राणारामम्
प्रातः
प्रायणान्तम्
प्रियम्
प्रेयः
प्लवाः
फलम्
फलसिद्धिः
पदम्
बद्धः
बलम्
बलिष्ठः
बहिः प्रज्ञः
बहिश्चेतोगृहीतम्
बालाः
बालिशः
बाह्यम्
बाह्यः प्राणः
बीजनिद्रायुतः
बीजाड्कुराख्यः
बुद्धाः
बुद्धिः
बृहत्
बृहती
बृहतीसहस्रम्
ब्रह्म
ब्रह्मगिरिः
ब्रह्मचर्यम्
ब्रह्मजज्ञम्
ब्रह्मणो रूपम्
ब्रह्मधाम
ब्रह्मनिष्ठाः
ब्रह्मपराः
ब्रह्मप्राप्तः
ब्रह्ममयः
ब्रह्मलोकः
ब्रह्मवर्चसम्
ब्रह्मवान्
ब्रह्मवित्
ब्रह्मविदः
ब्रह्मिष्ठः
ब्राह्मणः
पदम्
ब्राह्मण्यम्
भगवः
भगवान्
भयम्
भयदर्शिनः
भस्मान्तम्
भावः
भावाः
भीषा
भुञ्जानः
भुवः
भुवनम्
भुवनानि
भूः
भूतम्
भूतानांदर्शनम्
भूतानि
भूतिः
भूत्तिकामः
भूयान्
भूर्भूः
भेदः
भोक्ता
भोगार्थम्
भोज्यम्
भ्रातृव्याः
मकारः
मतम्
मतिः
मदामदम्
मधुमत्तमा
मध्वदम्
मनः
मनः प्रग्रहवान्
मनआनन्दम्
मनसो
निग्रहायत्तम्
मनीषा
मनीषी
मनुष्यगन्धर्वाणामानन्दः
मनोदृश्यम्
मनोमयम्
मनोमयः
मन्त्राः
मरम्
मर्त्यम्
पदम्
मर्त्यः
मलिनः
महः
महत्पदम्
महदुक्थम्
महाज्ञानाः
महाधियः
महान्
महाभूतानि
महामुनिः
महासंहिताः
महासूक्ताः
महिमा
महीयान्
मतरिश्वा
मतृदेवः
मात्रा
माध्यमाः
मानवान्
मानसामान्यम्
मानुषआनन्दः
मानुषी
माययाजन्म
माया
मायामयः
मायामात्रम्
मायाहस्ती
मासः
मितम्
मिथ्या
मुक्तः
मुखम्
मुख्यत्वम्
मुनिः
मुमुक्षुः
मुह्यमानः
मूढाः
मूर्तः
मूर्तिः
मृत्युः
मृषा
मेधा
मेधावी
मोदः
यक्षम्
यजमानः
यजुः
यजुर्वेदः
यजूंषि
यज्ञः
पदम्
यज्ञरूपाः
यज्ञाः
यतयः
यतिः
यथाकर्म
यथाप्रज्ञम्
यथाबलम्
यथाविद्यः
यथाश्रुतम्
यशः
यादृच्छिकः
युक्ताः
युक्तियुक्तम्
युवा
योगः
योगक्षेमः
योगिनः
योनिः
रज्जुः
रयि
रसः
रसादयः
रात्रिः
रुक्मवर्णम्
रूपकार्यसमाख्याः
रेतः
रेरिवा
लक्षणाशून्यम्
लयः
लयसामान्यम्
लैङ्गाः
लोकः
लोकाः
लोकिनः
लोकोत्तरम्
लोमानि
लोहितम्
लौकिकम्
वङ्गावगधाः
वनम्
वन्ध्यापुत्रः
वयुनानि
वरः
वरसत्
वरिष्ठम्
वरिष्ठः
वर्णः
वर्णाः
वर्षम्
वशः
पदम्
वसुः
वस्तु
वह्नितमः
वाक्
वाक्पतिः
वाजः
वादः
वादाः
वादिनः
विकल्पः
विकल्पकः
विकारावयवौ
विक्षिप्तम्
विचर्षणम्
विजयः
विज्ञातम्
विज्ञानम्
विज्ञानपतिः
विज्ञानमयम्
विज्ञानमयः
विज्ञानवान्
विज्ञानसारथिः
विज्ञानस्पन्दितम्
विज्ञानात्मा
विज्ञेयम्
विदृतिः
विद्या
विद्वान्
विधिः
विनयः
विनष्टिः
विपश्चित्
विभुः
विभुत्वम्
विभूतयः
विमृत्युः
विरजः
विवेकः
विशारदम्
विशुद्धसत्त्वः
विशेषः
विश्वम्
विश्वः
विश्वतैजसौ
विश्वरूपम्
विश्वरूपः
विषयाः
पदम्
विषाणवत्
विषूची
वीतरागः
वीतशोकः
वीर्यम्
वृथावाक्
वेदाः
वेदानुवचनम्
वेदान्तनिश्चयः
वेदिषत्
वेदोपनिषत्
वेद्धव्यम्
वैतथ्यम्
वैशारद्यम्
वैश्वामित्रम्
व्यञ्जनानि
व्यवस्थाः
व्याकरणम्
व्यानः
व्यापकः
व्याहृतयः
व्याहृतिः
व्योमन्
व्योमसत्
व्रतम्
व्रात्यः
शतम्
शतर्चिनः
शफाः
शमः
शरीरम्
शस्त्राणि
शान्तम्
शान्तः
शान्तिः
शान्तिसमृद्धम्
शारीरः
शाश्वतम्
शाश्वतंसुखम्
शाश्वतः
शाश्वताशाश्वताभिधा
शिक्षा
शिरस्त्वम्
शिरोव्रतम्
शिवम्
शिवः
शीक्षाध्यायः
शुक्रम्
शुक्लम्
पदम्
शुक्लः
शुचिषत्
शुद्धम्
शुद्धसत्त्वाः
शुभ्रम्
शुभ्रः
शोकातिगः
श्रद्धा
श्रुतिः
श्रेयः
श्रोत्रम्
श्रोत्रपतिः
श्रोत्रियाः
श्लेष्मा
श्लोककृत्
श्वोभावाः
षट्त्रिंशकः
षड्विंशकः
षोडशकलाः
संज्ञानम्
संप्रतिवित्
संबुद्धः
संयोगः
संवत्सरः
संसारः
सकषायम्
सकृज्ज्योतिः
सकृद्विभातम्
सखाया
सङ्कल्पः
सङ्ग्रहीता
सङ्घाताः
सज़ागरितम्
सत्
सत्तियम्
सत्यम्
सत्यकामाः
सत्यधृतिः
सत्यात्म
सत्यानृते
सत्त्वम्
सदश्वाः
सदसद्वरेण्यम्
सद्धेतुकम्
सनातनम्
पदम्
सनिर्वाणम्
सन्तः
सन्तानः
सन्धानम्
सन्धिः
सन्निमित्तत्वम्
सन्निहितम्
सप्त सप्त
सप्ताङ्गः
सप्तार्चिषः
सप्रयोजनता
सबाह्याभ्यन्तरः
समनस्कः
समप्राप्तम्
समाज्ञाः
समाधिः
समानः
समाभिन्नाः
समिधः
समुद्रः
सम्भवः
सम्भवाः
सम्मर्शिनः
सम्राट्
सयुजा
सर्वचिन्तासमुज्झितः
सर्वज्ञम्
सर्वज्ञः
सर्वज्ञता
सर्वदृक्
सर्वधर्माः
सर्वभूतान्तरात्मा
सर्ववित्
सर्ववेदसम्
सर्वसंशयाः
सर्वसत्त्वसुस्वः
सर्वाङ्गानि
सर्वाभिलापविगतः
सर्वेन्द्रियाणि
सर्वेश्वरः
सर्वौषधम्
सवनानि
सवस्तु
सहः
सहजा
सहस्रम्
साधकः
पदम्
साधु
साधुयुवा
साध्यसमः
साध्याः
साम
सामतः
सामवेदः
सामानि
सामान्यम्
साम्परायः
साम्यम्
सायम्
सांसिद्धिकी
सितम्
सुकृतम्
सुखम्
सुपर्णा
सुप्रशान्तः
सुसन्नम्
सुवः
सुषुप्तः
सुषुप्तस्थानः
सूक्तम्
सूक्ष्मः
सृष्टिः
सेतुः
सोपलम्भम्
सोमः
स्तोभसहस्रम्
स्तोमतः
स्थानम्
स्थानिधर्मः
स्थावरम्
स्थितिः
स्थूलम्
स्थूलः
स्थूलभुक्
स्फुटाः
स्मृतिः
स्वधा
स्वप्नः
स्वप्नाः
स्वप्नजागरिते
स्वप्नदृक्
स्वप्नदृक्चित्तम्
स्वप्नदृक्चित्तदृश्याः
स्वप्ननिद्रायुतौ
पदम्
स्वप्नमयः
स्वप्नमायासरूपा
स्वप्नमाये
स्वप्नवत्
स्वप्नस्थानः
स्वप्नान्तम्
स्वभावः
स्वमृतम्
स्वयम्भूः
स्वरः
स्वाध्यायप्रवचने
स्वाभाविकी
स्वाराज्यम्
स्वेदजानि
हंसः
हरिणम्
हिरण्मयः
हृदयम्
हृदयंब्रह्म
हृदयग्रन्थिः
हेतुः
हेतुफलावेशः
हेतुफलोद्भवः
हेयज्ञेयाप्यवाक्यानि
होता
होमाः

]


  1. “तत्समष्ट्य—उ १” ↩︎

  2. “स्मातद्भव—उ १” ↩︎

  3. “पूर्वमर्शत् – उ, मु, मर्षत्—उ १,क” ↩︎

  4. “आत्तवद्भाति—उ १” ↩︎

  5. “सर्व ग्रास—उ १” ↩︎

  6. “प्राप्तवद्भाति—उ” ↩︎

  7. “तन्नेजति — क, उ १” ↩︎

  8. “द्रष्टा—उ १.” ↩︎

  9. “यतो वयं—नास्ति उ १. " ↩︎

  10. “वैरल्याद्यदि—उ १.” ↩︎

  11. “प्राणस्योपासनानि—उ १.” ↩︎

  12. “परिप्रश्न” ↩︎

  13. “यस्मिन्नु—उ १.” ↩︎

  14. “दृश्येत —उ १.” ↩︎

  15. “प्रभवैक्य” ↩︎ ↩︎

  16. “विषयभावात् " ↩︎

  17. " जगद्वापि” ↩︎

  18. “तत्ततः” ↩︎

  19. “परिच्छिन्नपरिच्छेद–उ” ↩︎

  20. “नाहं मन्ये— मु.” ↩︎

  21. “तद्वितीयम् " ↩︎

  22. “तत्कार्यात्मत्व - उ” ↩︎

  23. “न चानन्दता-उ” ↩︎

  24. “परिभूय -उ १.” ↩︎

  25. “व्यजानन्त मु” ↩︎

  26. “‘तदुपप्रयाय - क.” ↩︎

  27. “सर्वमाददीय—क,” ↩︎

  28. “देशगत " ↩︎

  29. “इतीति - मु, इति - क.” ↩︎

  30. “चैनदुप-क.” ↩︎

  31. “उपनिषदमत्रमेति – उ, मु” ↩︎

  32. “व्यक्तघर्मि” ↩︎

  33. “आनन्दा - उ १” ↩︎

  34. “स्वानाक्तप्रजानन - उ १.” ↩︎

  35. “व्याविद्धप्रजानन – उ १.” ↩︎

  36. “परिपालय- उ १” ↩︎

  37. “साधुकृत्यान्नमश्नन्—उ १” ↩︎

  38. “इह वैवस्वतः-उ १.” ↩︎

  39. “करोतु -नास्ति उ १” ↩︎

  40. “मुद्गलाचार्यवचनेन - उ १.” ↩︎

  41. “एवं -नास्ति उ १” ↩︎

  42. " शान्तः - ३१” ↩︎

  43. “दर्शिवान् —क, ददर्शिवान् १.” ↩︎

  44. “येन उ १.” ↩︎

  45. “ददानिक, उ १” ↩︎

  46. “च मां— उ” ↩︎

  47. “तत्प्रापणीयं -उ १” ↩︎

  48. “स्वर्गलोकः—उ” ↩︎

  49. “काम्यकामिस्पर्श-उ” ↩︎

  50. “नाचिकेतसमग्निं” ↩︎

  51. “शोकादिगो - उ १” ↩︎

  52. “अपि-नास्ति-उ १.” ↩︎

  53. “हि-नास्ति- उ १.” ↩︎

  54. “सुज्ञेयं— उ” ↩︎

  55. “सुज्ञेयं -अ " ↩︎

  56. “‘यत्-नास्ति क,उ १, अ २.” ↩︎

  57. “स्याच्चेत्” ↩︎

  58. “धीरो हि-अ” ↩︎

  59. “महदन्तरेण— उ.” ↩︎

  60. “तमःप्रकाशाविव—उ १.” ↩︎

  61. “स्वज्ञाः–उ १.” ↩︎ ↩︎

  62. “सुज्ञेयो–अ २.” ↩︎

  63. “शेवधिरित्यनन्त्यं–अ २.” ↩︎

  64. “क्रतोरनन्त्यं– अ २.” ↩︎

  65. “स्थापितात्मनस्ततो–उ १.” ↩︎

  66. “हातव्येत्येतन्नि– उ १.” ↩︎

  67. “त्वादृक्तुल्यो धन्यः– उ १.” ↩︎

  68. “ह्येतदेवाक्षरं– उ, ब्रह्मेतद्ध्येवाक्षरं– उ १.” ↩︎

  69. " तमक्रतुं–क.” ↩︎

  70. “ब्रह्मरूपेण–उ १.” ↩︎

  71. “वृणुते– उ १.” ↩︎

  72. “हयानाहुः–क्र.” ↩︎

  73. “सह–उ १.” ↩︎

  74. “इदं–अ २.” ↩︎

  75. “अतो–क, उ १., अथो–अ २.” ↩︎

  76. “श्रोत्रादीनीन्द्रियाणि–उ १.” ↩︎

  77. “ईशानो–अ २.” ↩︎

  78. “भूतेषु–अ २.” ↩︎ ↩︎

  79. “सूर्योपलक्षितं जगत्–उ १.” ↩︎

  80. “वेदार्थेन– उ १.” ↩︎

  81. “सर्वज्ञेश्वरः–उ १.” ↩︎

  82. "” ↩︎

  83. " प्रत्यक्षं नास्ति-उ १” ↩︎

  84. “निष्प्रतियोगिकमिति स्वमात्रनिर्देशस्य–उ १.” ↩︎

  85. “विद्युतोऽपि–उ१.” ↩︎

  86. “भावमात्रं–उ १.” ↩︎

  87. “ऊर्ध्वमूलोऽर्वाक्शाखः– मु.” ↩︎

  88. “भावरूप– उ १.” ↩︎

  89. “विसर्गलोपः– उ १.” ↩︎

  90. “सर्वेषु.– अ २.” ↩︎

  91. “स्वज्ञानात्–उ १.” ↩︎

  92. “मनीषी– मु.” ↩︎

  93. “एतद्विदुः–उ, मु, अ २.” ↩︎

  94. “केवलनिर्विकल्पायमान– उ १.” ↩︎

  95. “स्थिताः–अ २.” ↩︎

  96. “उत्क्रामने– उ १.” ↩︎

  97. “नाचिकेतः– अ २.” ↩︎

  98. “कृत्स्नाम्– अ २.” ↩︎

  99. “पुरीषिणं– मु.” ↩︎

  100. “आदितोऽध्यायत्रयमत्राधिकतया व्याख्यातमिति विशेषः।” ↩︎

  101. " “प्रेर्ता” इति आनन्दाश्रममुद्रितपुस्तके दृश्यते।” ↩︎