[[चैतन्योपनिषद् Source: EB]]
[
चैतन्योपनिषद् ।
अथ पिप्पलादः समित्पाणिर्भगवन्तं ब्रह्माणमुपसन्नो ।
भगवन्मे शुभं किमत्र चक्ष्वस्वेति. ॥१॥
स होवाच भूय एव तपसा ब्राह्मचर्येण शश्वत्रमस्व मनो वशेति ॥२॥
स तथा भूत्वा भूय एनमुपसाद्याह भगवान्कलौ पापाच्छन्नाः प्रजाः कथं मुच्येरनिति ॥३॥ को वा देवता को वा मन्त्रो ब्रूहीति ॥४॥
रहस्यं ते वदिष्यामि जाह्नवीतीरे नवद्वीपे गोलोकाख्ये धाम्नि गोविन्दो द्विभुजो गौरः सर्वात्मा महापुरुसो महात्मा महयोगी त्रिगुणातीतः सत्त्वरूपो भक्तिलोके काश्यतीति । तदेते श्लोका भवन्ति ॥५॥
ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥६॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम् ॥७॥
एको देवः सर्वरूपी महात्मा
गौरो रक्तश्यामलश्वेतरूपः ।
चैतन्यात्मा स वै चैतन्यशक्तिर्
भक्ताकारो भक्तिदो भक्तिवेद्यः ॥८॥
नमो वेदान्तवेद्याय
कृष्णाय परमात्मने ।
सर्वचैतन्यरूपाय
चैतन्याय नमो नमः ॥९॥
वेदान्तवेद्यं पुरुषं पुराणं
चैतन्यात्मानं विश्वयोनिं महन्तम् ।
तमेव विदित्वातिमृत्युमेति
नान्यह्पन्था विद्यतेऽ यानाय ॥१०॥
स्वनाममूलमन्त्रेण सर्वं ह्लादयति विभुः ।
द्वे शक्ती परमे तस्य ह्लादिनी संविदेव च ॥१०॥ इति ।
स एव मूलमन्त्रं जपति हरिरिति कृष्ण इति राम इति ॥११॥
हरति हृदयग्रन्थिं वासनारूपमिति हरिह।
कृषिः स्मरणे तच्च नष्टादुभयमेलनमिति कृष्णः ॥१२॥
रमयति सर्वमिति राम आनन्दरूपः ॥१३॥
अत्र श्लोको भवति ।
मन्त्रो गुह्यः परमो भक्तिवेद्यः
नामान्यष्टावष्ट च शोभनानि ।
तानि नित्यं ये जपन्ति धीरास्
ते वै मायामतितरन्ति नान्याः ॥१४॥
परमं मन्त्रं परमरहस्यं नित्यमवर्तयन्ति ॥ चैतन्य एव सङ्कर्षणो वासुदेवः परमेष्ठी रुद्रः शक्रो बृहस्पतिः सर्वे देवाः सर्वाणि भूतानि स्थावराणि चराणि च यत्किञ्चित्सदसत॥१५॥
कारणं सर्वम्,
तदत्र श्लोकः
यत्किञ्चिदसद्भुङ्क्ते क्षरं तत्कार्यमुच्यते ।
सत्कारणं परं जीवस्तदक्षरमितीरितम् ॥१७॥
क्षराक्षराभ्यां परमः स एव पुरुषोत्तमश्चैतन्याख्यं परं तत्त्वं सर्वकारणकारणम् ॥१८॥
य एनं रसयति भजति ध्यायति स पाप्मानं तरति ।
स पूतो भवति,
स तत्त्वं जानाति,
स तरति शोकम् ।
गतिस्तस्यास्ते नान्यस्येति ॥१९॥
]