चाक्षुषोपनिषत् ऋग्वेदीया

[[चाक्षुषोपनिषत् ऋग्वेदीया Source: EB]]

[

चाक्षुषोपनिषत्

अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः ।

गायत्री च्हंदः । सूर्योदेवता । च

क्षू

रोगनिवृत्तये विनियोगः ।

ॐ चक्षुः चक्षुः चक्षुः तेजस्थिरोभव । मां पाहि पाहि ।

त्वरितम् चक्शूरोगान् शमय शमय । ममाजातरूपं तेजो

दर्शय दर्शय । यथाहमंधोनस्यां तथा कल्पय कल्पय ।

कल्याण कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि च

क्षुः

प्रतिरोधक

दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।

ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।

ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय ।

ॐ नमो भगवते सूर्याय अक्शितेजसे नमः ।

खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ।

असतो मा सद्

_

गमय । तमसो मा ज्योतिर्गमय ।

मृत्योर्मा अमृतं गमय । उष्णो भगवान्च्हुचिरूपः ।

हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं

विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्शिरोगो भवति ।

न तस्य कुले अंधो भवति । न तस्य कुले अंधो भवति ।

अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।

विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं

तपंतं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः ।

ॐ नमो भगवते आदित्याय ।

ऋग्वेद

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।

चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे

चक्षुर्विख्ये तनूच्यः । संचेदं विच पश्येम ।

सुसंदृशंत्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्शसः ॥

ऋग्वेद १०

(

पुरूषसूक्त इन् ऋग्वेद

-

चक्शोः सूर्यो अजायत

।)

]