[[बृहज्जाबालोपनिषत् Source: EB]]
[
बृहज्जाबालोपनिषत् ।
अथ प्रथमं ब्राह्मणम् ।
यज्ज्ञानाग्निः स्वातिरिक्तभ्रमं भस्म करोति तत् ।
बृहज्जाबालनिगमशिरोवेद्यमहं महः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं
पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा
{\\
म्+
}
सस्तनूभिः । व्यशेम देवहितं
यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ आपो वा इदमसत्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे
समभवत् ।
तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति ।
तस्माद्यत्पुरुषो
मनसाभिगच्च्हति । तद्वाचा वदति । तत्कर्मणा करोति ।
तदेषाभ्यनूक्ता ।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो
मनीषेति ।
उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद । स
तपोऽतप्यत ।
स तपस्तप्त्वा । स एतं भुसुण्डः कालाग्निरुद्रमगमदागत्य भो
विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचद्भुसुण्डं
वक्ष्यमाणं किमिति
विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्पलादेन
सहोक्तमिति
तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति ।
बृहज्जाबालाभिधां मुक्तिश्रुतिं
ममोपदेशं कुरुष्वेति । ॐ तदेति । सद्योजातात्पृथिवी ।
तस्याः स्यान्निवृत्तिः ।
तस्याः कपिलवर्णानन्दा । तद्गोमयेन विभूतिर्जाता ।
वामदेवादुदकम् ।
तस्मात्प्रतिष्ठा । तस्याः कृष्णवर्णाभद्रा । तद्गोमयेन
भसितं जातम् ।
अघोराद्वह्निः । तस्माद्विद्या । तस्या रक्तवर्णा सुरभिः ।
तद्गोमयेन भस्म जातम् ।
तत्पुरुषाद्वायुः । तस्माच्च्हान्तिः । तस्याः श्वेतवर्णा
सुशीला । तस्या
गोमयेन क्षारं जातम् । ईशानादाकाशम् ।
तस्माच्च्हान्त्यतीता ।
तस्याश्चित्रवर्णा सुमनाः । तद्गोमयेन रक्षा जाता ।
विभूतिर्भसितं भस्म
क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि ।
पञ्चभिर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः । भस्म
सर्वाघभक्षणात् ।
भासनाद्भसितम् । क्षारणदापदां क्षारम् ।
भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षण
अद्रक्षेति ॥
प्रथमं ब्राह्मणम् ॥ १॥
अथ द्वितीयं ब्राह्मणम् ।
अथ भुसुण्डः
कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं
पप्रच्च्ह ।
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकं भस्म सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो
बहिश्च ॥
अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते ।
रौद्री घोरा या तैजसी तनूः । सोमः शक्त्यमृतमयः
शक्तिकरी तनूः ।
अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् ।
स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी ॥ १॥
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥ २॥
वैद्युदादिमयं तेजो मधुरादिमयो रसः ।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ ३॥
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।
अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत् ॥ ४॥
ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः ।
ताभ्यां संपुटितस्तस्माच्च्हश्वद्विश्वमिदं जगत् ॥ ५॥
अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् ।
यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः ॥ ६॥
अत एव हि कालाग्निरधस्ताच्च्हक्तिरूर्ध्वगा ।
यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत् ॥ ७॥
आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः ।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ ८॥
शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः ।
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥ ९॥
असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् ।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥ १०॥
यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना ।
अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥ ११॥
अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः ।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १२॥
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।
शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥ १३॥
अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् ।
शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः ॥ १४॥
यो वेद गहनं गुह्यं पावनं च तथोदितम् ।
अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते ॥ १५॥
शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः ।
प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत
इति ॥ १६॥
द्वितीयं ब्राह्मणम् ॥ २॥
]