अक्ष्युपनिषत्

[[अक्ष्युपनिषत् Source: EB]]

[

॥ अक्ष्युपनिषत् ॥

यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।

विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

ॐ सह नाववतु सह नौ भुनक्तु

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ ह सांकृतिर्भगवानादित्यलोकं जगाम ।

तमादित्यं नत्वा चाक्षुष्मतीविद्यया

तमस्तुवत् । ॐ नमो भगवते श्रीसूर्या

याक्षितेजसे नमः । ॐ खेचराय नमः ।

ॐ महासेनाय नमः । ॐ तमसे नमः ।

ॐ रजसे नमः । ॐ सत्त्वाय नमः ।

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।

मृत्योर्माऽमृतं गमय । हंसो भगवा

ञ्छुचिरूपः प्रतिरूपः । विश्वरूपं घृणिनं

जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् ।

सहस्ररश्मिः शतधा वर्तमानः पुरुषः

प्रजानामुदयत्येष सूर्यः । ॐ नमो

भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि

वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतः

श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती

विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो

भवति । न तस्य कुलेऽन्धो भवति । अष्टौ

ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति ।

य एवं वेद स महान्भवति ॥

1

अथ ह सांकृतिरादित्यं पप्रच्छ भगवन्

ब्रह्मविद्यां मे ब्रूहीति । तमादित्यो होवाच ।

सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् ।

येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ॥

1

सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् ।

पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् ॥

2

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।

योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु ॥

3

विरागमुपयात्यन्तर्वासनास्वनुवासरम् ।

क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥

4

ग्राम्यासु जडचेष्टासु सततं विचिकित्सते ।

नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥

5

अनन्योद्वेगकारीणि मृदुकर्माणि सेवते ।

पापाद्बिभेति सततं न च भोगमपेक्षते ॥

6

स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।

देशकालोपपन्नानि वचनान्यभिभाषते ॥

7

मनसा कर्मणा वाचा सज्जनानुपसेवते ।

यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ॥

8

तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।

एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति ॥

9

स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः ।

विचारनाम्नीमितरामागतो योगभूमिकाम् ॥

10

श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः ।

मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥

11

पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।

जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥

12

मदाभिमानमात्सर्यलोभमोहातिशायिताम् ।

बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् ॥

13

इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया ।

सरहस्यमशेषेण यथावदधिगच्छति ॥

14

असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् ।

ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥

15

यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् ।

तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः ।

शिलाशय्यासनासीनो जरयत्यायुराततम् ॥

16

वनावनिविहारेण चित्तोपशमशोभिना ।

असङ्गसुखसौख्येन कालं नयति नीतिमान् ॥

17

अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।

जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥

18

तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥

19

द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु ।

द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥

20

नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ।

इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् ॥

21

प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा ।

सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥

22

भोगाभोगा महारोगाः संपदः परमापदः ।

वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥

23

कालश्च कलनोद्युक्तः सर्वभावाननारतम् ।

अनास्थयेति भावानां यदभावनमान्तरम् ।

वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः ॥

24

अनेन क्रमयोगेन संयोगेन महात्मनाम् ।

नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥

25

कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।

यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥

26

सन्तोषामोदमधुरा प्रथमोदेति भूमिका ।

भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥

27

एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः ।

द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥

28

श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि ।

भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥

29

भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।

समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥

30

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ।

पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥

31

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ॥

32

चित्तं तु शरदभ्रांशविलयं प्रविलीयते ।

सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः ॥

33

जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् ।

पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ।

शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥

34

गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् ।

सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः ॥

35

अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् ।

परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥

36

कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ।

षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥

37

यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः ।

केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥

38

निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः ।

अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥

39

षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ॥

40

विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका ।

अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ॥

41

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥

42

ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् ।

वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः ॥

43

अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः ।

प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥

44

समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः ।

स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥

45

चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः ।

परमानन्दसन्देहो वासुदेवोऽहओमिति ॥

46

आदिमध्यावसानेषु दुःखं सर्वमिदं यतः ।

तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ॥

47

अविद्यातिमिरातीतं सर्वाभासविवर्जितम् ।

आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥

48

प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् ॥

49

इत्युपनिषत् ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ तत्सत् ॥

इत्यलक्ष्युपनिषत् ॥


]