अवधूतोपनिषत्

[[अवधूतोपनिषत् Source: EB]]

[

अवधूतोपनिषत् ।

गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।

तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं

परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं

लक्ष्म किं संसरणमिति । तं होवाच भगवो दत्तात्रेयः

परमकारुणिकः ॥

अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् ।

तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥ १॥

यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः सदा ।

अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥ २॥

तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः ।

प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते ॥ ३॥

गोपालसदृशां शीर्षे नापि मध्ये न चाप्यधः ।

ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् ॥ ४॥

एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ ५॥

स्वैरं स्वैरविहरणं तत्संसरणम् । सांबरा वा दिगंबरा वा ।

न तेषां धर्माधर्मौ न मेध्यामेधौ । सदा

सांग्रहण्येष्ट्याश्वमेधमन्तयागं यजते ।

स महामखो महायोगः । कृत्स्नमेतच्चित्रं कर्म।

स्वैरं न विगायेत्तन्महाव्रतम् । न स मूढवल्लिप्यते ।

यथा रविः सर्वरसान्प्रभुङ्क्ते

हुताशनश्चापि हि सर्वभक्षः ।

तथैव योगी विषयान्प्रभुङ्क्ते

न लिप्यते पुण्यपापैश्च शुद्धः ॥ ६॥

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रविशन्ति यद्वत् ।

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी ॥ ७॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८॥

ऐहिकामुष्मिकव्रातसिद्धै मुक्तेश्च सिद्धये ।

बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् ॥ ९॥

तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् ।

अनुसन्दधदेवायमेवं तृप्यति नित्यशः ॥ १०॥

दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ।

परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ ११॥

अनुतिष्ठन्तु कर्माणि परलोकयियासवः ।

सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ १२॥

व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ।

येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ १३॥

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च ।

द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् ॥ १४॥

गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना ।

नान्यारोपितसंसारधर्मा नैवमहं भजे ॥ १५॥

शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माञ्छृणोम्यहम् ।

मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ १६॥

विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये ।

देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ १७॥

अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् ।

विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥ १८॥

आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ।

कर्मक्षये त्वसौ नैव शामेद्ध्यानसहस्रतः ॥ १९॥

विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते ।

बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥ २०॥

विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम ।

विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ।

नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् ॥ २१॥

कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः ।

व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा ।

ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २२॥

अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया ।

शास्त्रीयेणैव मार्गेन वर्तेऽहं मम का क्षतिः ॥ २३॥

देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः ।

तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् ॥ २४॥

विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् ।

साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥ २५॥

कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः ।

तृप्यन्नेवं स्वमनसा मन्यतेसौ निरन्तरम् ॥ २६॥

धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि ।

धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥ २७॥

धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य ।

धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्

w

आपि ॥ २८॥

धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् ।

धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र संपन्नम् ॥ २९॥

धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके ।

धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥ ३०॥

अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ।

अस्य पुण्यस्य संपत्तेरहो वयमहो वयम् ॥ ३१॥

अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ।

अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥ ३२॥

इति य इदमधीते सोऽपि कृतकृत्यो भवति । सुरापानात्पूतो भवति ।

स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति ।

कृत्याकृत्यात्पूतो भवति । एवं विदित्वा स्वेच्छाचारपरो

भूयादोंसत्यमित्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इत्यवधूतोपनिषत्समाप्ता ॥


]