[[अथर्वणोपनिषत् मूलम् Source: EB]]
[
अर्थवणोपनिषत्
प्रथमखण्डः
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥1॥
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोङ्गिरसे परावराम् ॥2॥
शौनको ह वै महाशाƒोङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥3॥
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ॥4॥
तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥5॥
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥6॥
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केशƒोमानि तथाक्षरात् सम्भवतीह विश्वम् ॥7॥
तपसा चीयते ब्रह्म ततोन्नमभिजायते । अन्नात् प्राणो मनः सत्यं ƒोकाः कर्मसु चामृतम् ॥8॥
यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥9॥
॥ इति प्रथमखण्डः ॥
*******************************************************************************************
अर्थवणोपनिषत्
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥1॥
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोङ्गिरसे परावराम् ॥2॥
शौनको ह वै महाशाƒोङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥3॥
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ॥4॥
तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥5॥
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥6॥
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केशƒोमानि तथाक्षरात् सम्भवतीह विश्वम् ॥7॥
तपसा चीयते ब्रह्म ततोन्नमभिजायते । अन्नात् प्राणो मनः सत्यं ƒोकाः कर्मसु चामृतम् ॥8॥
यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥9॥
॥ इति प्रथमखण्डः ॥
तदेतत् सत्यम् ।
मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य ƒोके ॥1॥
यदा ƒेƒायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥2॥
यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य ƒोकान् हिनस्ति ॥3॥
काƒी कराƒी च मनोजवा च सुƒोहिता या च सुधूम्रवर्णा ।
स्फुिƒङ्गिनी विश्वरुची च देवी ƒेƒायमाना इति सप्त जिह्वाः ॥4॥
एतेषु यश्चरते भ्राजमानेषु यथाकाƒं चाहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोधिवासः ॥5॥
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवदन्त्योर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मƒोकः ॥6॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येतु कर्म । एतच्छ्रेयो येभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥7 ॥
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥8॥
अविद्यायां बहुधाः वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बाƒाः ।
यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणƒोकाश्च्यवन्ते ॥9॥
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेनुभूत्वा इमं ƒोकं हीनतरं वा विशन्ति ॥10॥
तपःश्रद्धे येभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥11॥
परीक्ष्य ƒोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥12॥
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥13॥
इति प्रथमाध्यायः ॥
तदेतत् सत्यम् ।
यथा सुदीप्तात् पावकात् विष्फुिƒङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥1॥
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥2॥
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥3॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥4॥
तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥5॥
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च ƒोकाः सोमो यत्र पवते यत्र सूर्यः ॥6॥
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥7॥
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः ।
इमे ƒोकाः येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥8॥
सर्वे समुद्राः गिरयश्च सर्वेस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा ॥9॥
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद् यो वेद निहितं गुहायां सोविद्याग्रन्थिं विकिरति ह सोम्य ॥10॥
इति प्रथमः खण्डः ॥
आविः सन्निहितं गुहाचरं नाम महत् पदम् । अत्रैतत् सर्वमर्पितमेजत् प्राणन्निमिषच्च यत् ॥1॥
एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद्वरिष्ठं प्रजानाम् । यदचिमद् यदणुभ्योणु च यस्मिंल्लोका निहिता ƒोकिनश्च ॥2॥
तदेतक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥3॥
धनुर्गृहीत्वोपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत । आयम्य तद्भावगतेन चेतसा ƒक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥4॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥5॥
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥6॥
अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोन्तश्चरते बहुधा जायमानः ॥7॥
ओमित्येवं ध्यायत आत्मानं स्वस्तिवः पराय तमसः परस्तात् ॥8॥
यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्यात्मा प्रतिष्ठितः ॥9॥
मनोमयः प्राणशरीरनेता प्रतिष्ठितोन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥10॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥11॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कƒम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥12॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥13॥
ब्रह्मैवेदममृतं पुरस्तात् पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥14॥
इति द्वितीयोध्यायः ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पƒं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥1॥
समाने वृक्षे पुरुषो निमग्नोनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥2॥
यदा पश्यः पश्यते रूग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥3॥
प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥4॥
सत्येन ƒभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥5॥
सत्यमेव जयति नानृतं सत्येन विततो देवयानः । येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥6॥
बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दूरात् सुदूरे तदिहान्तिके च पश्यस्त्विहैव निहितं गुहायाम् ॥7॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कƒं ध्यायमानः ॥8॥
एषोणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥9॥
यं यं ƒोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं ƒोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥10॥
इति तृतीयोध्यायः ॥
स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥1॥
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविƒीयन्ति कामाः ॥2॥
नायमात्मा प्रवचनेन ƒभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन ƒभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥3॥
नायमात्मा बƒहीनेन ƒभ्यो न च प्रमादात् तपसो वाप्यिƒङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥4॥
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीराः मुक्तात्मानः सर्वमेवापियन्ति ॥5॥
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगात् यतयः शुद्धसत्त्वाः । ते ब्रह्मƒोकेषु परान्तकाƒे परामृतात् परिमुच्यन्ति सर्वे ॥6॥
गताः कƒाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति ॥7॥
यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति नामरूपेविहाय ।
तथा विद्वान्नामरूपाद् विमुक्तः परात् परं पुरुषमुपैति दिव्यम् ॥8॥
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुƒे भवति ।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोमृतो भवति ॥9॥
तदेष श्ƒोकः ।
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षीन् श्रद्धयन्तः ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥10॥
तदेतत् सत्यमृषिरङ्गिराः पुरोवाच । नैतदचीर्णव्रतोधीते ॥11॥
ॐ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥
इति चतुर्थोध्यायः ॥
इति अथर्वणोपनिषत् ॥
****************************************************************
]