[[अथर्व-शिरौपनिषत् Source: EB]]
[
अथर्वशिर-उपनिषद्
ॐ देवा ह वै स्वर्गलोकं आयंस्ते रुद्रं अपृच्छन्को भवानिति ।
सोऽब्रवीदहं एकः प्रथमं आसोद्वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ।
सोऽन्तरादन्तरं प्राविशत्दिशश्चान्तरं प्राविशत्सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणां च उदञ्चोऽहं अधश्चोर्ध्वश्चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान्स्त्रियश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुब्जगत्यनुष्टुप्चाहं छन्दोऽहं सत्योऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं गौरहं गौर्यहं ऋगहं यजुरहं सामाहं अथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहं आपोऽहं तेजोऽहं गुह्योऽहं अरण्योऽहं अक्षरं अहं क्षरं अहं पुष्करं अहं पवित्रं अहं उग्रं च बलिश्च पुरस्ताज्ज्योतिरित्यहं एव सर्वेभ्यो मां एव स सर्वः समायो मां वेद स देवान्वेद सर्वांश्च वेदान्साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्मणान्ब्राह्मण्येन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा ।
ततो ह वै ते देवा रुद्रं अपृच्छन्ते देवा रुद्रं अपश्यन्ते देवा रुद्रं अध्यायन्ते देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति । । १
ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः । । २
यो वै रुद्रः स भगवान्यश्च विष्णुस्तस्मै वै नमोनमः । । ३
यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः । । ४
यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमोनमः । । ५
यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमोनमः । । ६
यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः । । ७
यो वै रुद्रः स भगवन्यश्च सूर्यस्तस्मै वै नमोनमः । । ८
यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः । । ९
यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः । । १०
यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमोनमः । । ११
यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः । । १२
यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः । । १३
यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः । । १४
यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः । । १५
यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः ।
यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः । । १६
यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः । । १७
यो वै रुद्रः स भगवान्याश्चापस्तस्मै वै नमोनमः । । १८
यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः । । १९
यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः । । २०
यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः । । २१
यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः । । २२
यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः । । २३
यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः । । २४
यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः । । २५
यो वै रुद्रः स भगवान्यच्च स्थूलं तस्मै वै नमोनमः । । २६
यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः । । २७
यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै वै नमोनमः । । २८
यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः । । २९
यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः । । ३०
यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः । । ३१
यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः । । ३२
भस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतं अहुतं दत्तं अदत्तं सर्वं असर्वं विश्वं अविश्वं कृतं अकृतं परं अपरं परायणं च त्वं ।
अपां असोमं अमृता अभूं आगन्मे ज्योतिरविदाम देवान् ।
किं नूनं अस्मान्कृणवदरातिः ।
किं उ धूर्तिरमृतं मर्त्यस्य सोमसूर्यपुरस्तात्सूक्ष्मः पुरुषः ।
सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं स्ॐयं सूक्ष्मं पुरुषं ग्राह्यं अगुह्येन भावं भावेन स्ॐयं स्ॐयेन सूक्ष्मं सूक्ष्मेन वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमोनमः ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि त्वं असि यो नित्यं तिस्रो मात्राः परस्तु सः । । ३३
तस्योत्तरतः शिरोदक्षिणतः पादौ य उत्तरतः स ॐकारः य ॐकारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तच्छुक्लं यच्छुक्लं तत्सूक्ष्मं यत्सूक्ष्मं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः यः एकः स रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान्महेश्वरः । । ३४
अथ कस्मादुच्यते ॐकारः यस्मादुच्चार्यमाण एव प्राणानूर्ध्वं उत्क्रामयति तस्मादुच्यते ॐकारः ।
अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः ।
अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव यथा स्नेहेन पललपिण्डं इव शान्तरूपं ओतप्रोतं अनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी ।
अथ कस्मादुच्यतेऽनन्तः यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वं अधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः ।
अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारं ।
अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते क्लामयति च तस्मादुच्यते शुक्लं ।
अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मं ।
अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतं ।
अथ कस्मादुच्यते परं ब्रह्म यस्मात्परं अपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म ।
अथ कस्मादुच्यते एकः यः सर्वान्प्राणान्संभक्ष्य संभक्षणेनाजः संसृजति विसृजति तीर्थं एके व्रजन्ति तीर्थं एके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषां इह संगतिः ।
साकं स एको भूतश्चरति प्रजानां तस्मादुच्यते एकः ।
अथ कस्मादुच्यते रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतं अस्य रूपं उपलभ्यते तस्मादुच्यते रुद्रः ।
अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते ईशानीभिर्जननीभिश्च शक्तिभिः ।
अभित्त्वा शूरणो नुमो दुग्धा इव धेनवः ।
ईशानं अस्य जगतः स्वदर्शं ईशानं इन्द्रतस्थुष इति तस्मादुच्यते ईशानः ।
अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ताज्ञानेन भजत्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान्भावान्परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः तदेतद्रुद्रचरितं । । ३५
एको ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भ अन्तः ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ।
एको रुद्रो न द्वितीयाय तस्मै य इमांल्लोकानीशत ईशानीभिः ।
प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता ।
यो योनिं योनिं अधितिष्ठत्येको येनेदं सर्वं विचरति सर्वं ।
तं ईशानं वरदं देवं ईड्यं निचाय्येमां शान्तिं अत्यन्तं एति ।
क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या संचितं स्थापयित्वा तु रुद्रो रुद्रं एकत्वं आहुः ।
शाश्वतं वै पुराणं इषं ऊर्जेण पशवोऽनुनामयन्तं मृत्युपाशान् ।
तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजति पशुपाशविमोक्षणं या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्रह्मपदं ।
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदं ।
या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदं ।
या सार्धचतुर्थी मात्रा सर्वदेवत्याव्यक्तीभूता खं विचरति शुद्धा स्फटिकसंनिभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदं अनामयं ।
तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणं अयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परं अपरं परायणं चेति । । ३६
बालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यं ।
तं आत्मस्थं ये तु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषां । । ३७
यस्मिन्क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा हेतुजालस्य मूलं ।
बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रं एकत्वं आहुः । । ३८
रुद्रो हि शाश्वतेन वै पुराणेनेषं ऊर्जेण तपसा नियन्ताग्निरिति भस्म वायरिति भस्म जलं इति भस्म स्थलं इति भस्म व्योमं इति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतं इदं पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षणाय । । ३९
योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
य इमा विश्वा भुवनानि चक्लपे तस्मै रुद्राय नमोऽस्त्वग्नये ।
यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो रुद्र ओषधीर्वीरुध आविवेश ।
यो रुद्र इमा विश्वा भुवनानि चक्लपे तस्मै रुद्राय नमोनमः ।
यो रुद्रोऽप्सु यो रुद्र ओषधिषु यो रुद्रो वनस्पतिषु ।
येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी द्विधा त्रिधा धर्ता धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः ।
मूर्धानं अस्य संसेव्याप्यथर्वा हृदयं च यत् ।
मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः । । ४०
तद्वा अथर्वणः शिरो देवकोशः समुज्झितः ।
तत्प्राणोऽभिरक्षति शिरोऽन्तं अथो मनः ।
न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः यस्मिन्निदं सर्वं ओतप्रोतं तस्मादन्यं न परं किंच नास्ति । । ४१
न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् ।
सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदं आवरीवर्त्ति भूतं । । ४२
अक्षरात्संजायते कालः कालाद्व्यापक उच्यते । । ४३
व्यापको हि भगवान्रुद्रो भोगायमानो यदा शेते रुद्रस्तदा संहार्य्यते प्रजाः ।
उच्छ्वसिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोंकारः ॐकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।
अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्ध्रुवं ।
एतद्धि परमं तपः ।
आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति । । ४४
य इदं अथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति ।
प्रणवानां अयुतं जप्तं भवति ।
स चक्षुषः पङ्क्तिं पुनाति ।
आ सप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति ।
द्वितीयं जप्त्वा गणाधिपत्यं आप्नोति ।
तृतीयं जप्त्वैवं एवानुप्रविशत्यों सत्यं ॐ सत्यं ॐ सत्यं ।
इत्यथर्ववेदे शिरौपनिषत्समाप्ता । । ४५
]