अन्नपूर्णोपनिषत्

[[अन्नपूर्णोपनिषत् Source: EB]]

[

अन्नपूर्णोपनिषत् ।

सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् ।

त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवा

{\\

म्+

}

सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् ।

प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः ॥

1

आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् ।

कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥

2

तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम् ।

निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् ॥

3

यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि ।

मूलशृङ्गाटमध्यस्था बिन्दुनादकलाश्रया ॥

4

नित्यानन्दा निराधारा विख्याता विलसत्कचा ।

विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तथा ॥

5

भगवत्यन्नपूर्णेति ममाभिलषितं ततः ।

अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता ॥

6

सप्तविंशति वर्णात्मा योगिनीगणसेविता ॥

7

ऐं ह्रीं सौं श्रीं क्लीमोन्नमो भगवत्यन्नपूर्णे

ममाभिलषितमन्नं देहि स्वाहा ।

इति पित्रोपदिष्टोऽस्मि तदादिनियमः स्थितः ।

कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ॥

8

एवं गते बहुदिने प्रादुरासीन्ममाग्रतः ।

अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ॥

9

तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः ।

अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् ॥

10

एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव ।

आत्मतत्त्वं मनसि मे प्रादुर्भवतु पार्वति ॥

11

तथैवास्थिति मामुक्त्वा तत्रैवान्तरधीयत ।

तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् ॥

12

भ्रमः पञ्चविधो भाति तदेवेह समुच्यते ।

जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥

12

आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः ।

शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः ॥

13

जगत्कारणरूपस्य विकारित्वं चतुर्थकः ।

कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो भ्रमः ।

पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥

15

बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः ।

स्फटिकलोहितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः ।

घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः ।

रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः ।

कनकरुचकदर्शनेन विकारित्वभ्रमो निवृत्तः ।

तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् ।

निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥

16

निदाघः प्रणतो भूत्वा ऋभुं पप्रच्छ सादरम् ।

ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् ॥

17

तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञां वदामि ते ।

महाकर्ता महाभोक्ता महात्यागी भवानघ ।

स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव ॥

18

नित्योदितं विमलमाद्यमनतरूपं

ब्रह्मास्मि नेतरकलाकलनं हि किंचित् ।

इत्येव भावय निरञ्जनतामुपेतो

निर्वाणमेहि सकलामलशान्तवृत्तिः ॥

19

यदिदं दृश्यते किंचित्तत्तन्नास्तीति भावय ।

यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥

20

यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् ।

मनःषष्ठेन्द्रियातीतं तन्मयो भव वै मुने ॥

21

अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् ।

नीरन्ध्रं भूरिवाशेषं तदस्मीति विभावय ॥

22

यदा संक्षीयते चित्तमभावात्यन्तभावनात् ।

चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥

23

नूनं चैत्यांशरहिता चिद्यदात्मनि लीयते ।

असद्रूपवदत्यच्छा सत्तासामान्यता तदा ॥

24

दृष्टिरेषा हि परमा सदेहादेहयोः समा ।

मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा ॥

25

व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ ।

ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा ।

अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ॥

26

चिरकालपरिक्षीणमननादिपरिभ्रमः ।

पदमासाद्यते पुण्यं प्रज्ञयैवैकया तथा ॥

27

इमं गुणसमाहारमनात्मत्वेन पश्यतः ।

अन्तःशीतलया यासौ समाधिरिति कथ्यते ॥

28

अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च ।

तदेव केवलीभानं शान्ततैव च तत्सदा ॥

29

तनुवासनमत्युच्चैः पदायोद्यतमुच्यते ।

अवासगं मनोऽकर्तृपदं तस्मादवाप्यते ॥

30

घनवासनमेतत्तु चेतःकर्तृत्वभावनम् ।

सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥

31

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।

सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ॥

32

यथा विपणगा लोका विहरन्तोऽप्यसत्समाः ।

असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः ॥

33

अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन्पठन् ।

पुरं जनपदं ग्राममरण्यमिव पश्यति ॥

34

अन्तःशीतलतायां तु लब्धायां शीतलं जगत् ।

अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ॥

35

भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥

36

यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः ।

न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥

37

आत्मवत्सर्वभूतानि परद्रव्याणि लोष्ठवत् ।

स्वभावादेव न भयाद्यः पश्यति स पश्यति ॥

38

अद्यैव मृतिरायातु कल्पान्तनिचयेन वा ।

नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥

39

कोऽहं कथमिदं किं वा कथं मरणजन्मनी ।

विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि ॥

40

विचारेण परिज्ञातस्वभावस्य सतस्तव ।

मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् ॥

41

विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु ।

न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वारणः ॥

42

कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति ।

कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा ॥

43

यावद्यावन्मुनिश्रेष्ठ स्वयं संतज्यतेऽखिलम् ।

तावत्तावत्परालोकः परमात्मैव शिष्यते ॥

44

यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते ।

सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ॥

45

आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।

सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव ॥

46

सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् ।

चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् ॥

47

समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी ।

ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥

48

अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी ।

प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः ॥

49

निश्चिता विगताभीष्टा हेयोपदेयवर्जिता ।

ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः ॥

50

केवलं चित्प्रकाशांशकल्पिता स्थिरतां गता ।

तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः ॥

51

अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते ।

मनोहंकारविलये सर्वभावान्तरस्थिता ॥

52

समुदेति परानन्दा या तनुः पारमेश्वरी ।

मनसैव मनश्छित्त्वा सा स्वयं लभ्यते गतिः ॥

53

तदनु विषयवासनाविनाश

स्तदनु शुभः परमः स्फुटप्रकाशः ।

तदनु च समतावशात्स्वरूपे

परिणमनं महतामचिन्त्यरूपम् ॥

54

अखिलमिदमनन्तमनन्तमात्मतत्त्वं

दृढपरिणामिनि चेतसि स्थितोऽन्तः ।

बहिरुपशमिते चराचरात्मा

स्वयमनुभूयत एव देवदेवः ॥

55

असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् ।

सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् ॥

56

अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।

बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥

57

इति प्रथमोऽध्यायः ॥

1


अथ द्वितीयोऽध्यायः।

निदाघ उवाच ॥

सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् ।

कश्च मोक्षाय कथितः कथं त्वेष चिकित्स्यते ॥

1

देहदेहिविभागैकपरित्यागेन भावना ।

देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते ॥

2

सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् ।

इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् ॥

3

नाहमस्मि न चान्योस्ति न चायं न च नेतरः ।

सोऽसङ्ग इति संप्रोक्तो ब्रह्मास्मीत्येव सर्वदा ॥

4

नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते ।

सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥

5

सर्वकर्मफलादीनां मनसैव न कर्मणा ।

निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥

6

असंकल्पेन सकलाश्चेष्टा नाना विजृंभिताः ।

चिकित्सिता भवन्तीह श्रेयः संपादयन्ति हि ॥

7

न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु ।

न गमागमचेष्टासु न कालकलनासु च ॥

8

केवलं चिति विश्रम्य किंचिच्चैत्यावलंब्यपि ।

सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥

9

व्यवहारमिदं सर्वं मा करोतु करोतु वा ।

अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः ॥

10

अथवा तमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः ।

जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि ॥

11

चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् ।

सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ॥

12

एषा निदाघ सौषुप्तस्थितिरभ्यासयोगतः ।

प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥

13

अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् ।

आनन्दैकान्तशीलत्वादनानन्दपदं गतः ॥

14

अनानन्दमहानन्दकालातीतस्ततोऽपि हि ।

मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः ॥

15

परिगलितसमस्तजन्मपाशः

सकलविलीनतमोमयाभिमानः ।

परमरसमयीं परात्मसत्तां

जलगतसैन्धवखण्डवन्महात्मा ॥

16

जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् ।

अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ॥

17

दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते ।

द्रव्यदर्शनसंबन्धे यानुभूतिरनामया ॥

18

तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् ।

सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु ॥

19

आत्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः ।

न चेतनो न च जडो न चैवासन्न सन्मयः ॥

20

नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः ।

यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् ॥

21

दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।

तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् ॥

22

न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।

सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते ॥

23

मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः ।

मननोत्थे मनस्यैष बन्धः सांसारिको दृढः ॥

24

आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा तते ।

को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥

25

अध्यात्मरतिराशान्तः पूर्णपावनमानसः ।

प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति ॥

26

सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि ।

यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥

27

नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति ।

न संस्मरत्यतीतं च सर्वमेव करोति च ॥

28

अनुबन्धपरे जन्तावसंसर्गमनाः सदा ।

भक्ते भक्तसमाचरः शठे शठ इव स्थितः ॥

29

बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् ।

युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः ॥

30

धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः ।

प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः ॥

31

अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते ।

मनः प्रशममायाति निर्वाणमवशिष्यते ॥

32

यतो वाचो निवर्तन्ते विकल्पकलनान्विताः ।

विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते ॥

33

अनाद्यन्तावभासात्मा परमात्मैव विद्यते ।

इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः ॥

34

यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये ।

यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता ॥

35

सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ ।

क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते ॥

36

सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता ।

ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् ॥

37

दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना ।

सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ॥

38

मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः ।

आदावन्ते च संशान्तस्वरूपमविनाशि यत् ॥

39

वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा ।

द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः ॥

40

स्फुरत्यात्मभिरात्मैव चित्तैरब्धीव वीचिभिः ।

आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ॥

41

शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया ।

यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः ॥

42

कृतस्फारविचारस्य मनोभोगादयोऽरयः ।

मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥

43

नानात्वमस्ति कलनासु न वस्तुतोऽन्त

र्नानाविधासु सरसीव जलादिवान्यत् ।

इत्येकनिश्चयमयः पुरुषो विमुक्त

इत्युच्यते समवलोकितसम्यगर्थः ॥

44

इति द्वितीयोऽध्यायः ॥

2


अथ

तृतीयोऽध्यायः।

विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः ।

कं योगं समुपस्थाय प्राप्तवान्परमं पदम् ॥

1

सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः ।

कौण्डिन्यात्तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ ॥

2

जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्मवित्तमः ।

सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः ॥

3

बद्धपद्मासनस्तिष्ठन्नर्धोन्मीलितलोचनः ।

बाह्यानाभ्यान्तरांश्चैव स्पर्शान्परिहरञ्छनैः ॥

4

ततः स्वमनसः स्थैर्यं मनसा विगतैनसा ।

अहो नु चञ्चलमिदं प्रत्याहृतमपि स्फुटम् ॥

5

पटाद्घटमुपायाति घटाच्छकटमुत्कटम् ।

चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥

6

पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम् ।

बुद्धीन्द्रियाभिधानानि तान्येवालोकयाम्यहम् ॥

7

हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः ।

चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥

8

तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः ।

परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः ॥

9

स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् ।

अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः ॥

10

ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः ।

तदितोऽस्तं गत इव ह्यस्तं गत इवोदितः ॥

11

समः समरसाभासस्तिष्ठामि स्वच्छतां गतः ।

प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान् ॥

12

तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः ।

सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि ॥

13

त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविनिर्मितान् ।

सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ॥

14

जहाविन्द्रियतन्मात्रजालं खग इवानलः ।

ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम् ॥

15

सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः ।

जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः ॥

16

चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः ।

सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥

17

सुषुप्तस्थैर्यमासाद्य तुर्यरूपमुपाययौ ।

निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः ॥

18

ततस्तु संबभूवासौ यद्गिरामप्यगोचरः ।

यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥

19

विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् ।

पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ॥

20

शिवः शैवागमस्थानां कालः कालैकवादिनाम् ।

यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥

21

यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः ।

यदनुक्तमनिष्पन्दं दीपकं तेजसामपि ॥

22

स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः ।

यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् ।

यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसु स्थितः ॥

23

अजममरमनाद्यमाद्यमेकं

पदममलं सकलं च निष्कलं च ।

स्थित इति स तदा नभःस्वरूपा

दपिविमलस्थितिरीश्वरः क्षणेन ॥

24

इति तृतीयोऽध्यायः ॥

3


अथ चतुर्थोऽध्यायः।

जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् ।

तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते ॥

1

अनात्मविदमुक्तोऽपि नभोविहरणादिकम् ।

द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव स द्विजः ॥

2

नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् ।

आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥

3

ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः ।

त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति ॥

4

यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति ।

सिद्धिसाधनैर्योगैस्तानि साधयति क्रमात् ॥

5

द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः ।

परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥

6

यस्येच्छा विद्यते काचित्सा सिद्धिं साधयत्यहो ।

निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् ॥

7

सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने ।

स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः ॥

8

अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले ।

अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥

9

अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् ।

कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥

10

ये हि विज्ञातविज्ञेया वीतरागा महाधियः ।

विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थितः ॥

11

सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् ।

निश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥

12

आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः ।

यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥

13

द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च ।

जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः ॥

14

चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च ।

चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥

15

मनस्तां मूढतां विद्धि यदा नश्यति सानघ ।

चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् ॥

16

मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् ।

भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥

17

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।

निदाघाऽरूपनाशस्तु वर्तते देहमुक्तिके ॥

18

विदेहमुक्त एवासौ विद्यते निष्कलात्मकः ।

समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ॥

19

विदेहमुक्तौ विमले पदे परमपावने ।

विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके ॥

20

चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते ।

न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोकता ॥

21

न चोदयो नास्तमयो न हर्षामर्षसंविदः ।

न तेजो न तमः किंचिन्न सन्ध्यादिनरात्रयः ।

न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् ॥

22

ये हि पारं गता बुद्धेः संसाराडम्बरस्य च ।

तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् ॥

23

संशान्तदुःखमजडात्मकमेकसुप्त

मानन्दमन्थरमपेतरजस्तमो यत् ।

आकाशकोशतनवोऽतनवो महान्त

स्तस्मिन्पदे गलितचित्तलवा भवन्ति ॥

24

हे निदाघ महाप्राज्ञ निर्वासनमना भव ।

बलाच्चेतः समाधाय निर्विकल्पमना भव ॥

25

यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ।

स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ॥

26

प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ।

तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वनम् ॥

27

एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः ॥

28

सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् ।

सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥

29

न तत्र चन्द्रार्कवपुः प्रकाशते

न वान्ति वातः सकलाश्च देवताः ।

स एव देवः कृतभावभूतः

स्वयं विशुद्धो विरजः प्रकाशते ॥

30

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥

31

द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ ।

तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥

32

केवलं साक्षिरूपेण विना भोगो महेश्वरः ।

प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ।

चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥

33

तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।

चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥

34

अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ।

अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥

35

स्वशरीरे स्वयंज्योतिस्वरूपं सर्वसाक्षिणम् ।

क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥

36

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।

नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥

37

बालेनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।

ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् ॥

38

अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् ।

संसृतिव्रततेर्बीजं शरीरं विद्धि भौतिकम् ॥

39

भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।

बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥

40

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।

एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥

41

यदा प्रस्पन्दन्ते प्राणो नाडीसंस्पर्शनोद्यतः ।

तदा संवेदनमयं चित्तमाशु प्रजायते ॥

42

सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते ।

संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम् ॥

43

योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।

प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥

44

चित्तोपशान्तिफलदं परमं विद्धि कारणम् ।

सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥

45

दृढभावनया त्यक्तपूर्वापरविचारणम् ।

यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥

46

यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् ।

स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥

47

अवासनत्वात्सततं यदा न मनुते मनः ।

अमनस्ता तदोदेति परमोपशमप्रदा ॥

48

यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ।

तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥

49

यदभावनमास्थाय यदभावस्य भावनम् ।

यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥

50

सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् ।

वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥

51

भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता ।

वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः ॥

52

सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः ।

अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥

53

संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने ।

समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ॥

54

पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते ।

संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ॥

55

तदमार्जनमात्रं हि महासंसारतां गतम् ।

तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते ॥

56

अजडो गलितानन्दस्त्यक्तसंवेदनो भव ॥

57

संविद्वस्तुदशालम्बः सा यस्येह न विद्यते ।

सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥

58

संवेद्येन हृदाकाशे मनागपि न लिप्यते ।

यस्यासावजडा संविज्जीवन्मुक्तः स कथ्यते ॥

59

यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।

बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥

60

तदा जाड्यविनिर्मुक्तमसंवेदनमाततम् ।

आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥

61

समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः ।

तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते ॥

62

तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः ।

अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥

63

एतां दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् ।

तरेद्दुःखाम्बुधेः पारमपारगुणसागरः ॥

64

विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् ।

एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥

65

कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि ।

विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥

66

सत्तासामान्यमेवैकं भावयन्केवलं विभुः ।

परिपूर्णः परानन्दि तिष्ठापूरितदिग्भरः ॥

67

सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् ।

पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥

68

तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति ।

भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् ॥

69

तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते ।

स सारः सर्वसाराणां तस्मात्सारो न विद्यते ॥

70

तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।

इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥

71

तदमलमरजं तदात्मतत्त्वं

तदवगतावुपशान्तिमेति चेतः ।

अवगतविगतैकतत्स्वरूपो

भवभयमुक्तपदोऽसि सम्यगेव ॥

72

एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् ।

तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥

73

सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि ।

पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥

74

स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् ।

क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥

75

सत्तासामान्यरूपे वा करोषि स्थितिमादरात् ।

तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥

76

संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि ।

तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥

77

वासनासंपरित्यागे यदि यत्नं करोषि भोः ।

यावद्विलीनं न मनो न तावद्वासनाक्षयः ॥

78

न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ।

यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ॥

79

यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ।

यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।

यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनक्षयः ॥

80

तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।

मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः ॥

81

भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाचर ॥

82

वासनाक्षयविज्ञानमनोनाशा महामते ।

समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥

83

त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः ।

निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥

84

वासनासंपरित्यागसमं प्राणनिरोधनम् ।

विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत् ॥

85

वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् ।

प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥

86

प्राणायामदृढाध्यासैर्युक्त्या च गुरुदत्तया ।

आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥

87

निःसङ्गव्यवहारत्वाद्भवभावनवर्जनात् ।

शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥

88

यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि ।

प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥

89

न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ।

शुद्धां संविदमाश्रित्यवीतरागः स्थिरो भव ॥

90

संवेद्यवर्जितमनुत्तममाद्यमेकं

संविदत्पदं विकलनं कलयन्महात्मन् ।

हृद्येव तिष्ठ कलनारहितः क्रियां तु

कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥

91

मनागपि विचारेण चेतसः स्वस्य निग्रहः ।

पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥

92

इति चतुर्थोऽध्यायः ॥

4


अथ पञ्चमोऽध्यायः।

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।

न विचारपरं चेतो यस्यासौ मृत उच्यते ॥

1

सम्यग्ज्ञानसमालोकः पुमा

~

ज्ञेयसमः स्वयम् ।

न बिभेति न चादत्ते वैवश्यं न च दीनताम् ॥

2

अपवित्रमपथ्यं च विषसंसर्गदूषितम् ।

भुक्तं जरयति ज्ञानी क्लिन्नं नष्ठं च मृष्टवत् ॥

3

सञ्ण्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता ।

सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥

4

भावाभावे पदार्थानां हर्षामर्षविकारदा ।

मलिना वासना यैषा साऽसङ्ग इति कथ्यते ॥

5

जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी ।

मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥

6

दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः ।

आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज ॥

7

दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् ।

चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् ॥

8

इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् ।

एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव ॥

9

नास्ति चित्तं न चाविद्या न मनो न च जीवकः ।

ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते ॥

10

देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता ।

यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥

11

अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् ।

जुह्वन्तोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः ॥

12

चिदात्मास्मि निरंशोऽस्मि परापरविवर्जितः ।

रूपं स्मरन्निजं स्फारं मा स्मृत्या संमितो भव ॥

13

अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका ।

क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥

14

परिज्ञाय परित्यागो वासानानं य उत्तमः ।

सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः ॥

15

यन्नास्ति वासना लीना तत्सुषुप्तं न सिद्धये ।

निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥

16

वासनायास्तथा वह्नेरृणव्याधिद्विषामपि ।

स्नेहवैरविषाण च शेषः स्वल्पोऽपि बाधते ॥

17

निर्दग्धवासनाबीजः सत्तासामान्यरूपवान् ।

सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥

18

एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः ।

एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः ॥

19

ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा ।

ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रबान्धवाः ॥

20

ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् ।

सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ॥

21

असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते ।

या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् ॥

22

प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् ।

विगताशेषसंरंभं चिदात्मानं समाश्रय ॥

23

एवं पूर्णधियो धीराः समा नीरागचेतसः ।

न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा ॥

24

प्राणोऽयमनिशं ब्रह्मस्पन्दशक्तिः सदागतिः ।

सबाह्याभ्यन्तरे देहेप्राणोऽसावूर्ध्वगः स्थितः ॥

25

अपानोऽप्यनिशं ब्रह्मस्पन्दशक्तिः सदागतिः ।

सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः ॥

26

जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः ।

प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु ॥

27

द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः ।

प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते ॥

28

अपानश्चन्द्रमा देहमाप्याययति सुव्रत ।

प्राणः सूर्योऽग्निरथ वा पचत्यनत्रिदं वपुः ॥

29

प्राणक्षयसमीपस्थमपानोदयकोटिगम् ।

अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥

30

अपानोऽस्तंगतो यत्र प्राणो नाभ्युदितः क्षणम् ।

कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय ॥

31

नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः ।

नासाग्रगमनावर्तं तच्चित्तत्त्वमुपाश्रय ॥

32

आभासमात्रमेवेदं न सनासज्जगत्त्रयम् ।

इत्यन्यकलनात्यागं सम्यग्ज्ञानं विदुर्बुधाः ॥

33

आभासमात्रकं ब्रह्मंश्चित्तदर्शकलङ्कितम् ।

ततस्तदपि संत्यज्य निराभासो भवोत्तम ॥

34

भयप्रदमकल्याणं धैर्यसर्वस्वहारिणम् ।

मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव ॥

35

चिद्व्योमेव किलास्तीह परापरविवर्जितम् ।

सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽवशिष्यते ॥

36

वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् ।

तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ॥

37

आशा यातु निराशात्वमभावं यातु भावना ।

अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥

38

वासनारहितैरन्तरिन्द्रियैराहरन्क्रिया ।

न विकारमवाप्नोषि खवत्क्षोभशतैरपि ॥

39

चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।

वासनाप्राणसंरोधमनुन्मेषं मनः कुरु ॥

40

प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।

तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ॥

41

मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।

तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः ॥

42

असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् ।

प्राणानां वा निरोधेन तदेव परमं पदम् ॥

43

दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।

तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्यावलोकय ॥

44

यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् ।

क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥

45

यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि ।

तदेव तुर्यावस्थायं तुर्यातीतं भवत्यतः ॥

46

संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः ।

संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥

47

सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् ।

न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥

48

सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना ।

सांख्य एवावबुद्धा ये ते सांख्या योगिनः परे ॥

49

प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः ।

अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ॥

50

उपादेयं तु सर्वेषां शातं पदमकृत्रिमम् ।

एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः ॥

51

एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् ।

अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ॥

52

आधाराधेयवच्चैते एकभावे विनश्यतः ।

कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥

53

सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।

तदाहंकारविलये त्वमेव परमं पदम् ॥

54

महाचिदेकैवेहास्ति महासत्तेति योच्यते ।

निष्कलंका समा शुद्धा निरहंकाररूपिणी ॥

55

सकृद्विभाता विमला नित्योदयवती समा ।

सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥

56

सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् ।

न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥

57

दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना ।

इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ॥

58

न स्तौमि न च निन्दामि आत्मनोऽन्यन्नहि क्वचित् ।

न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥

59

प्रशान्तचापलं वीतशोकमस्तसमीहितम् ।

मनो मम मुने शान्तं तेन जीवाम्यनामयः ॥

60

अयं बन्धुः परश्चायं ममायमयमन्यकः ।

इति ब्रह्मन्न जानामि संस्पर्शं न ददाम्यहम् ॥

61

वासनामात्रसंत्यागाज्जरामरणवर्जितम् ।

सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ॥

62

चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः ।

शिष्यते परमं शान्तमेकमगच्छमनामयम् ॥

63

अनन्तमजमव्यक्तमजरं शान्तमच्युतम् ।

अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् ॥

64

एकमाद्यन्तरहितं चिन्मात्रममलं ततम् ।

खादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः ॥

65

दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।

सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥

66

सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् ।

भावाभावमजं सर्वमिति मत्वा सुखी भव ॥

67

न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् ।

द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः ।

एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ॥

68

पदार्थवृन्दे देहादिधिया संत्यज्य दूरतः ।

आशीतलान्तःकरणो नित्यमात्मपरो भव ॥

69

इदं रम्यमिदं नेति बीजं ते दुःखसंततेः ।

तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः ॥

70

शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् ॥

71

ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ।

अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् ॥

72

तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।

न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥

73

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।

अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥

74

समाधिः संविदुत्पत्तिः परजीवैकतं प्रति ।

नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥

75

एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः ।

तस्मादद्वैत एवास्ति न प्रपञ्चो न संसृतिः ॥

76

यथाकाशो घटाकाशो महाकाश इतीरितः ।

तथा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥

77

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।

योगिनोऽऽव्यवधानेन तदा संपद्यते स्वयम् ॥

78

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।

सर्वभूतेषु चात्मानं ब्रह्म संपद्यते सदा ॥

79

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।

एकीभूतः परेणासौ तदा भवति केवलः ॥

80

शास्त्रसज्जनसंपर्कवैराग्याभ्यासरूपिणी ।

प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ॥

81

विचारणा द्वितीया स्यात्तृतीया साङ्गभावना ।

विलापिनी चतुर्थी स्याद्वासना विलयात्मिका ॥

82

शुद्धसंविन्मनानन्दरूपा भवति पञ्चमी ।

अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति ॥

83

असंवेदनरूपा च षष्ठी भवति भूमिका ।

आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः ॥

84

तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला ।

समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥

85

तुर्यातीता तु यावस्था परा निर्वाणरूपिणी ।

सप्तमी सा परा प्रौढा विषयो नैव जीवताम् ॥

86

पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् ।

चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥

87

आनन्दैकघनाकारा सुषुप्ताख्या तु पञ्चमी ।

असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा ॥

88

तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा ।

मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका ॥

89

अन्तः प्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् ।

मुक्त एव न सन्देहो महासमतया तया ॥

90

न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः ।

अहं न किंचिच्चिदिति मत्वा धीरो न शोचति ॥

91

अलेपकोऽहमजरो नीरागः शान्तवासनः ।

निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति ॥

92

अहंमत्या विरहितः शुद्धो बुद्धोऽजरोऽमरः ।

शान्तः शमसमाभास इति मत्वा न शोचति ॥

93

तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च ।

यत्तिष्ठति तदेवाहमिति मत्वा न शोचति ॥

94

भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः ।

अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय ॥

95

वाचामतीतविषयो विषयाशादशोज्झितः ।

परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि ॥

96

सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः ।

न पुण्येन न पापेन नेतरेण च लिप्यते ॥

97

स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् ।

तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ॥

98

विहरञ्जनतावृन्दे देवकीर्तन पूजनैः ।

खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥

99

निस्स्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः ।

संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः ॥

100

तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा ।

ज्ञानसंपत्तिसमये मुक्तोऽसौ विगताशयः ॥

101

संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज ।

मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु ॥

102

सावधानो भव त्वं च ग्राह्यग्राहकसंगमे ।

अजस्रमेव संकल्पदशाः परिहरञ्शनैः ॥

103

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।

भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥

104

किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ ।

न किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥

105

अस्मात्पदार्थनिचयाद्यावत्स्थावरजङ्गमात् ।

तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥

106

अहंभावानहंभावौ त्यक्त्वा सदसती तथा ।

यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥

107

या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः ।

साक्ष्यवस्था व्यवहृतौ सा तुर्या कलनोच्यते ॥

108

नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात् ।

सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः ॥

109

शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् ।

विलीनं तुर्यमित्याहुरबुद्धानां स्थितं स्थिरम् ॥

110

अहंकारकलात्यागे समतायाः समुद्गमे ।

विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥

111

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।

नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥

112

शान्त एव चिदाकाशे स्वच्छे शमसमात्मनि ।

समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे ॥

113

सर्वमेव परित्यज्य महामौनी भवानघ ।

निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः ॥

114

आत्मन्येवास्व शान्तात्मा मूकान्धबधिरोपमः ।

नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः ॥

115

जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज ।

अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् ॥

116

चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् ।

अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् ॥

117

दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्सदा ।

एतावतात्मयत्नेन जिता भवति संसृतिः ॥

118

वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् ।

नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः ॥

119

अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् ।

स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् ॥

120

इत्युपनिषत् ॥ इति पञ्चमोऽध्यायः ॥

5

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवा

{\\

म्+

}

सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इत्यन्नपूर्णोपनिषत्समाप्ता ॥


]