अमृतनादोपनिषत् कृष्णयजुर्वेदीया

[[अमृतनादोपनिषत् कृष्णयजुर्वेदीया Source: EB]]

[

अमृतनादोपनिषत् ।

अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् ।

त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम् ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।

परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥

1

ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् ।

ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥

2

तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः ।

स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥

3

मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ।

अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ॥

4

शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ।

चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥

5

प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ।

तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥

6

यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः ।

तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥

7

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।

प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान् ॥

8

किल्बिषं हि क्षयं नीत्वा रु

c

इरं चैव चिन्तयेत् ॥

9

रुचिरं रेचकं चैव वायोराकर्षणं तथा ।

प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥

10

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥

11

उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् ।

शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् ॥

12

वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः ।

एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥

13

नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् ।

एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् ॥

14

अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु ।

काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥

15

मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् ।

धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥

16

आगमस्याविरोधेन ऊहनं तर्क उच्यते ।

समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥

17

भूमिभागे समे रम्ये सर्वदोषविवर्जिते ।

कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले ॥

18

पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा ।

बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥

19

नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ।

आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥

20

ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।

दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥

21

पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः ।

स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः ॥

22

तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः ।

स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥

23

तालमात्राविनिष्कम्पो धारणायोजनं तथा ।

द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥

24

अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च ।

अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित्

25

येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति ।

अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै ॥

26

हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् ।

मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥

27

भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् ।

अत्याहरमनाहरं नित्यं योगी विवर्जयेत् ॥

28

अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् ।

स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥

29

चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः ।

इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥

30

पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः ।

आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः ॥

31

एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् ।

सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥

32

त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः ।

एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥

33

अशीतिश्च शतं चैव सहस्राणि त्रयोदश ।

लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः ॥

34

प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे ।

समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥

35

व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति ।

अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥

36

रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः ।

अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥

37

समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः ।

आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः ॥

38

यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि ।

यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते ।

न स भूयोऽभिजायत इत्युपनिषत् ॥

39

ॐ सह नाववत्विति शान्तिः ॥

॥ इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ॥


]