[[ईशोपनिषत् Source: EB]]
[
॥ श्रीश्रीगौरहरिर्जयति ॥
शुक्लयजुर्वेदीयवाजसनेयसंहितोपनिषदित्यपरनाम्नी
ईशोपनिषद् ।
ॐ
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॐ
॥१॥
वेदास्तथा स्मृतिगिरो यमचिन्त्यशक्तिं
सृष्टिस्थितिप्रलयकारणमामनन्ति ।
तं श्यामसुन्दरमविक्रियमात्ममूर्तिं
सर्वेश्वरं प्रणतिमात्रवशं भजामः ॥
वेदेषु खलु कर्मणो निखिलपुमर्थहेतुत्वं विष्णोस्तु कर्माङ्गत्वं स्वर्गादेः कर्मफलस्य नित्यत्वं जीवस्य प्रकृतेश्च स्वतः कर्तृत्वं परिच्छिन्नस्य प्रतिबिम्बितस्य भ्रान्तस्य वा ब्रह्मण एव जीवत्वं चिन्मात्रब्रह्मात्मकत्वधीमात्रादेवास्य जीवस्य संसृतिविनिवृत्तिरित्यापाततोऽर्था दुर्मतिभिः प्रतीयन्ते । तानिमान्पूर्वपक्षान्विधाय परस्य विष्णोरिह स्वातन्त्र्यसर्वकर्तृत्वसार्वज्ञ्यपुमर्थत्वादिधर्मकत्वज्ञानसुखस्वरूपत्वं निरूप्यते ।
तथा हि—
ईश्वरजीवप्रकृतिकालकर्माख्यानि पञ्चतत्त्वानि श्रूयन्ते । तेषु विभुचैतन्यमीश्वरोऽणुचैतन्यं तु जीवः । नित्यज्ञानादिगुणकत्वमस्मदर्थत्वं चोभयत्र । ज्ञानस्यापि ज्ञातृत्वं प्रकाशस्य रवेः प्रकाशकत्ववदविरुद्धम् । तत्रेश्वरः स्वरूपशक्तिमान्प्रकृत्याद्यनुप्रवेशनियमनाभ्यां जगद्विदधन्क्षेत्रज्ञभोगापवर्गौ वितनोति । एकोऽपि बहुभावेनाभिन्नोऽपि गुणगुणिभावेन देहदेहिभावेन विद्वत्प्रतीतिर्विषयोऽव्यक्तोऽपि भक्तिव्यङ्ग्य एकरसः प्रयच्छति चित्सुखं स्वरूपम् ।
जीवास्त्वनेकावस्था बहवः । परेशवैमुख्यात्तेषां बन्धः,
तत्साम्मुख्यात्तु तत्स्वरूपतद्गुणावरणरूपद्विविधबन्धविनिवृत्तिस्तत्स्वरूपादिसाक्षात्कृतिः ।
प्रकृतिः सत्त्वादिगुणसाम्यावस्था तमोमायादिशब्दवाच्या । तदीक्षणावाप्तसामर्थ्या विचित्रजगज्जननी ।
कालस्तु भूतभविष्यद्वर्तमानयुगपच्चिरक्षिप्रादिव्यवहारहेतुः क्षणादिपरार्धान्तचक्रवत्परिवर्तमानः प्रलयसर्गनिमित्तभूतो द्रव्यविशेषः ।
ईश्वरादयश्चत्वारोऽर्था नित्याः । जीवादयस्तु तद्वश्याश्च । कर्म तु जडमदृष्टादिशब्दव्यपदेश्यमनादि विनाशि च भवति । चतुर्णामेषां ब्रह्मशक्तित्वादेकं शक्तिमद्ब्रह्मेत्यद्वैतवाक्येऽपि सङ्गतिरित्यादीनर्थान्निरूपयितुं स्वयमाचार्यस्वरूपा श्रुतिराह—
ईशा वास्यमिदं सर्वं
यत्किं च जगत्यां जगत।
तेन त्यक्तेन भुञ्जीथा
मा गृधः कस्य स्वित्धनम् ॥
ईशावास्यमित्यादीनां मन्त्राणामात्मयाथात्म्यप्रकाशकत्वेन विरोधादेव कर्मस्वविनियोगः,
किन्तूपासनायामविरोधात। उपासना तु जीवपरयोः सम्बन्धविशेषसाधनं भजनमेव । सम्बन्धो हि जीवे परसाम्मुख्यम् । अतः सङ्क्षेपतो व्याख्यास्यामः । ईशावास्येति तिस्रोऽनुष्टुभः ।
दध्यङ्ङाथर्वण ऋसिः स्वं शिष्यं पुत्रं च निष्कामधर्मनिर्मलचित्तं सत्प्रसङ्गलुब्धं श्रद्धालुं शान्त्यादिमन्तमधिकारिणमुपसन्नमाह—
ईशा वास्यमित्यादि । ईश ऐश्वर्ये क्विबन्तः ईष्टे इति ईट्सर्वस्येशिता परमेश्वरः । स हि सर्वजन्तूनामात्मत्वात्सर्वमीष्टे । तेनात्मना ईशा परमेश्वरेणेदं सर्वं प्रत्यक्षप्रमाणसिद्धं विश्वं वास्यं—
वस आच्छादने,
ऋहलोर्ण्यद्[पाण् ३.१.१२४] इति ण्यत्प्रत्ययः । णित्वात्स्वरितः आच्छादनीयमित्यर्थः । सर्वं तेन व्याप्तमिति शेषः । स एवाधस्तात्स एवोपरिष्टातन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः [छा.उ. ७.२५.१] इति श्रुतेः ।
यद्वा,
इदं सर्वमीशा परब्रह्मणा वास्यं वस निवासे इत्यस्य रूपं वासितमुत्पादितं स्थापितं नियमितं च । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति [तै.उ. ३.१.१],
यमयत्येष त आत्मान्तर्याम्यमृतः [बृ.आ.उ. ३.७.३] इत्यादिश्रुतेः ।
न केवलं प्रत्यक्षगम्यमीशा वास्यम्,
अपि तु सावरणं ब्रह्माण्डमित्याह—
यदिति । यत्किंचित्श्रुतिप्रमाणसिद्धं स्थापितं जगत्यां जगत्स्थावरजङ्गमात्मकं शेषं विश्वमीशेनोत्पादितं नियमितं चेत्यर्थः । अतः कारणात्तेनेशा त्यक्तेन विसृष्टेन स्वादृष्टानुसारिणा विषयेण भुञ्जीथाः भोगाननुभवेः ।
इतोऽधिकं मा गृधः । गृधु अभिकाङ्क्षायां मा काङ्क्षीः । इतो ममाधिकं भवत्विति बुद्धिं त्यजेत्यर्थः । परमात्माधीनत्वेन त्वदिच्छाया व्याहतत्वादिति भावः । एवं सत्धनं कस्य स्वित्,
स्विदिति निपातो वितर्के,
न कस्यापीत्यर्थः । स एष सर्वस्य वशी सर्वस्येशानः सर्वमिदं प्रशास्ति यदिदं किं च [बृ.आ.उ. ५.६.१] इत्यादिश्रुतेर्मुख्यदाता परमेश्वरो न स्वामिसम्बन्धालिङ्गितमन्यत्प्राणिजातमिति वैराग्येण भवितव्यमिति भावः ॥१॥
॥२॥
इदानीं चित्तशुद्ध्यर्थं विहितमवश्यमनुष्ठेयमित्याह—
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतां समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥
कर्मण्यग्निहोत्रादीनि निष्कामाणि कुर्वन्नेवेह लोके शतं शतसङ्ख्यकाः समाः संवत्सरान्शतवर्षपर्यन्तं जिजीविषेत्जीवितुमिच्छेत। एवं त्वयि जिजीविषति कर्म कुर्वति च नरे इतः एतस्मातग्निहोत्रादिकर्माणि कुर्वतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्ति । यद्वा,
तल्लिप्तत्वं नास्तीति भावः । तादृक्कर्म तु न लिप्यते ॥२॥
॥३॥
अथ काम्यपरान्निन्दति—
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥
असुर्या इति । ये के च ये केचित्जना आत्मानं घ्नन्ति संसारैः सम्बन्धयन्तीत्यात्महनः ते प्रेत्य मृत्वा तान्लोकानभिगच्छन्ति । लोकाः कथम्भूताः ?
इत्यपेक्षायामाह—
असुर्या नाम इत्यादि । असुर्या असुरप्राप्या नाम ते लोका अन्धेन गाढेन तमसा आवृताः संवृता इत्यर्थः । अविद्वांसः काम्यपराः आत्महन्तारो जना मृत्वा दुरन्ततमसावृतमसुरलोकं गच्छन्तीति भावः ॥३॥
॥४॥
ब्रह्मविज्ञानमेव मुक्तिसाधनमित्युक्तम् । तद्ब्रह्म किंविधमित्यत आह—
अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन्पूर्वमर्षत।
तद्धावतोऽन्यानत्येति तिष्ठत्
तस्मिन्नपो मातरिश्वा दधाति ॥४॥
त्रिष्टुप्छन्दस्केयं ऋक। अनेजदकम्पनमचलदभयमिति वा । एकं समाधिकरहितम् । यद्वा,
सर्वभूतेषु विज्ञानघनरूपेणैकम् । मनसो जवीयो वेगवत्तरं तदप्राप्यम् । देवा इन्द्रियाणि ब्रह्माद्या एनतेतत्ब्रह्म न आप्नुवन्न गोचरीकुर्वन्ति । तत्र हेतुः—
पूर्वमर्शदित्यादि । पूर्वमर्शत्पूर्वमेव गतं जवनान्मनसोऽपि । किं च,
लोकविलक्षणं लक्षणान्तरमाह—
तिष्ठदिति । तिष्ठतीति तिष्ठत्स्वस्थाने स्थितमपि सर्वगतत्वात्धावतः द्रुतं गच्छतः अन्यान्मनऽदीनत्येति अतिक्रम्य तिष्ठति,
अचिन्त्यशक्तित्वादित्यर्थः । किं च,
मातरिश्वा वायुः क्रियात्मकः अपः कर्माणि प्राणिनां चेष्टालक्षणानि दधाति धारयति । यद्वा,
मातरिश्वा यस्मिन्सर्वकर्माणि स्थापयतीति ॥४॥
॥५॥
रहस्यं सकृदुक्तं न चित्तमारोहतीति पूर्वमन्त्रोक्तमपि पुनर्वदति—
तदेजति तन्नैजति
तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य
तदु सर्वस्यास्य बाह्यतः ॥
अनुष्टुप। तत्प्रकृतमात्मतत्त्वमेजति चलति,
तदेव न एजति च स्वतो नैव चलति अचलमेव सत्मूढदृष्ट्या चलतीवेत्यर्थः । यद्वा,
नैजति नैजयति सदाचारान्परित्राणाय साधूनां [गीता ४.८] इत्युक्तेः । किं च तद्दूरे दूरदेशेऽस्ति वर्षकोटिशतैरप्यविदुषामप्राप्यत्वात्दूरे इवेत्यर्थः । तद्वन्तिके तदु अन्तिके विदुषां हृद्यवभासमानत्वादन्तिक इवात्यन्तं समीप इव । न केवलं दूरेऽन्तिके अस्ति किन्त्वस्य सर्वस्य नामरूपक्रियात्मकस्य जगतोऽन्तरभ्यन्तरे तदेवास्ति । अस्य सर्वस्य बाह्यतो बहिरपि तदु तदेवास्ति आकाशबद्ध्यापकत्वात॥५॥
॥६॥
अथोपासनाप्रकारमाह—
यस्तु सर्वाणि भूतानि
आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं
ततो न विजुगुप्सते ॥
अनुष्टुप। यः पुनरधिकारी सर्वाणि भूतानि अव्यक्तादिस्थावरान्तानि चेतनाचेतनानि आत्मनात्मन्येव अनुपश्यति,
ब्रह्मण्येव सर्वाणि भूतानि स्थितानीति जानाति,
आत्मानं ब्रह्म च सर्वभूतेषु अनुपश्यति,
ततस्तस्मात्दर्शनात्न विजुगुप्सते जुगुप्सां नाप्नोति,
मुक्तो भवतीत्यर्थः ॥६॥
॥७॥
इयमेवार्थं द्वितीयो मन्त्रो वदतीत्याह—
यस्मिन्सर्वाणि भूतानि
आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक
एकत्वमनुपश्यतः ॥
अनुष्टुप। यस्मिन्नवस्थाविशेषे विजानतः सर्वाणि भूतानि आत्मनि सन्त्यात्मा च सर्वभूतेष्वस्तीति विशेषेण ज्ञानवतः पुरुषस्य सर्वं खल्विदं ब्रह्म इत्यादिवाक्यार्थविचारेण सर्वाणि भूतान्यात्मैवाभूद्भवन्ति । तत्रावस्थाविशेष एकत्वमात्मैकत्वमनुपश्यतस्तस्य को मोहः कः शोकश्च मोहश्चाज्ञानतो भवतीति ॥७॥
॥८॥
एवम्भूतात्मज्ञानिनः फलमाह—
स पर्यगाच्छुक्लमकायमव्रणम्
अस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्
याथातथ्यतोऽर्थान्व्यदधात्
शाश्वतीभ्यः समाभ्यः ॥
जगती योऽधिकारी पूर्वोक्तप्रकारेणात्मानं पश्यति,
स ईदृशमात्मानं पर्यगात्पर्यगाप्नोति । कीदृशं ?
शुक्लं शुद्धविज्ञानानन्दस्वभावं,
अकायं न विद्यते भोगार्थं कायः शरीरं यस्य तम् । अव्रणमच्छिद्रं पूर्णं,
अस्नाविरं न विद्यन्ते स्नावाः शिरा यस्य सोऽस्नाविरस्तम् । अत्रैव हेतुगर्भविशेषणमाह—
शुद्धमनुपहतम् । तदेव स्पष्टयति—
अपापविद्धं धर्माधर्मवर्जितम् । कायादिरहितोऽपि परमात्मा जगत्सर्जनादि करोत्यचिन्त्यशक्तित्वादित्याह—
कविरिति । ज्ञानी यं पर्येति स आत्मा शाश्वतीभ्यः समाभ्यः शाश्वतीषु समासु याथातथ्यतो यथार्थस्वरूपानर्थान्पदार्थान्व्यदधात्विदधाति । कीदृशः सः ?
कविः सर्वज्ञः मनीषी मेधावी परिभूः सर्वस्य वशी स्वयम्भूः स्वतन्त्रः ॥८॥
॥९॥
इदानीं पूर्वोक्तप्रकारेणानात्मविदः कर्मनिष्ठाः सन्तः केवलं कर्म कुर्वन्ति एव ये जिजीविषन्ति तान्प्रत्युच्यते—
अन्धं तमः प्रविशन्ति
येऽविद्यामुपासते ।
ततो भूय इव ते तमो
य उ विद्यायां रताः ॥
षडनुष्टुभः । अत्र विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । ये जनाः अविद्यां विद्याया अन्या,
अविद्या कर्म,
तां केवलामुपासते कुर्वन्ति स्वर्गार्थानि कर्माणि केवलं तत्पराः सन्तः अनुतिष्ठन्ति,
ते प्राणिनः अन्धमदर्शनात्मकं तमः अज्ञानं प्रविशन्ति संसारपरम्परामनुभवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसः संसाराद्भूय इव बहुतरमेव तमस्ते प्रविशन्ति य उ ये पुनः विद्यायां केवलात्मज्ञाने एव रताः ॥९॥
॥१०॥
ज्ञानकर्मणोः फलभेदमाह—
अन्यदेवाहुर्विद्यया
अन्यदाहुरविद्यया ।
इति शुश्रूम धीराणां
ये नस्तद्विचचक्षिरे ॥
विद्यया ज्ञानेनान्यदेव फलमाहुः । अविद्यया कर्मणा साध्यमन्यदेव फलमाहुः । यद्वा विद्ययात्मज्ञानेनान्यदेव फलममृतरूपमाहुर्ब्रह्मवादिनः अविद्यया कर्मणा वान्यदेव फलं पितृलोकादिरूपमाहुर्विद्वांसः । कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति इत्यादि श्रुतेः । कथमेतदवगतमित्याह—
इतीति । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च स्वरूपफलतो विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इति भावः ॥१०॥
॥११॥
समुच्चयमाह—
विद्यां चाविद्यां च यस्
तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा
विद्ययामृतमश्नुते ॥
विद्यां च ज्ञानं च अविद्यां च कर्म च यत्तदेतदुभयं सह एकेन पुरुषेणानुष्ठेयं यो वेद जानाति । यद्वा विद्या आत्मज्ञानमविद्या तत्साधनभूतं कर्म च द्वयं परस्परसमुच्चयार्थहेतुत्वेन यो वेद एकेनैव पुरुषेणानुष्ठेयमिति जानाति सोऽविद्यया ईश्वरार्पणबुद्ध्या कृतानामग्निहोत्रादिकर्मणां मृत्युं मारकमन्तःकरणमलं तीर्त्वा अन्तःशुद्ध्या कृतकृत्यो भूत्वा विद्ययात्मज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥११॥
॥१२॥
अन्धं तमः प्रविशन्ति
येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो
य उ सम्भूत्यां रताः ॥
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । येऽसम्भूतिं सम्भवनं सम्भूतिः कार्यस्योत्पत्तिरुत्पत्तिविशिष्टा वा तस्या अन्या असम्भूतिः प्रकृतिः कारणं तामव्याकृताख्यामविद्याकामकर्मबीजभूतामदर्शनात्मिकामुपासते ते तदनुकार्यब्रह्मणि हिरण्यगर्भादौ उ एव रतास्ते ततस्तस्मादपि भूयः बहुतरमिव एव तमः प्रविशन्ति ॥१२॥
॥१३॥
अथोभयोरुपासनयोः समुच्चयकारणमवयवतः फलभेदमाह—
अन्यदेवाहुः सम्भवाद्
अन्यदाहुरसम्भवात।
इति शुश्रूम धीराणां
ये नस्तद्विचचक्षिरे ॥
सम्भवात्सम्भूतेः कार्यब्रह्मोपासनादन्यदेव पृथगेव अन्धतरतमः प्रवेशलक्षणं फलमाहुः कथयन्ति धीराः । तथा असम्भवादसम्भूतेरव्याकृतोपासनादन्यदेव फलमुक्तमन्धं तमः प्रविशन्तीत्याहुः । इत्येवंविधं धीराणां धीमतां वचः शुश्रूम वयं श्रुतवन्तः । ये धीरा नोऽस्माकं तत्पूर्वसम्भूत्यसम्भूत्युपासनफलं विचचक्षिरे व्याख्यातवन्तः ॥१३॥
॥१४॥
यत एवमतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्त एकैकपुरुषार्थत्वाच्चेत्याह—
सम्भूतिं च विनाशं च
यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा
सम्भूत्यामृतमश्नुते ॥
सम्भूतिमसम्भूतिं प्रकृतिं च,
अकारलोपश्छान्दसः । विनाशं विनश्वरं हिरण्यगर्भं च यस्तद्वेद उभयं सह । विनाशो धर्मो यस्य कार्यस्य तेन धर्मिणाभेदेनोच्यते विनाश इति । तेन विनाशेन हिरण्यगर्भोपासनेनामृतमापेक्षिकं प्रकृतिलयलक्षणमश्नुते समुच्चयोपासनायां तु अणिमाद्यैश्वर्यलक्षणं शुभफलं भावीति बोध्यम् ॥१४॥
॥१५॥
एवं प्राप्ताधिकारशिष्यं प्रति परमात्मस्वरूपं निरूप्य तत्साक्षात्कारो मोक्षसाधनमित्यतीतग्रन्थेनोक्तम् । स चेश्वरसाक्षात्कारो न श्रवणादिमात्रेण भवति,
नापि मोक्षः साक्षात्कारमात्रेण,
किन्तु भगवदनुग्रहादेव । अतोऽनुष्ठितश्रवणमननादिकेनापि साक्षात्कारार्थं प्राप्तसाक्षात्कारेणापि च मोक्षार्थं यथा भगवत्प्रार्थनं कार्यं,
तत्प्रकारप्रदर्शनार्था हिरण्मयेन पात्रेणेत्याद्युत्तरमन्त्राः । तत्रादित्यरूपोपासनमाह—
हिरण्मयेन पात्रेण
सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु
सत्यधर्माय दृष्टये ॥
अनुष्टुप। हिरण्मयं इव हिरण्मयं ज्योतिर्मयं यत्पात्रं पिबन्ति यत्र स्थिता रश्मयो यत्र स्थितानिति वा पात्रं सूर्यमण्डलं,
तेन तेजोमयेन मण्डलेन सत्यस्य आदित्यमण्डलस्थस्य अविनाशिनः पुरुषोत्तमस्य श्रीभगवतः मुखं,
मुखमिति सर्वविग्रहोपलक्षणं लीलाविग्रहस्वरूपमपिहितमाच्छादितं वर्तते तत्,
तन्मुखं,
हे पूषन्पुष्णातीति पूषा,
तत्सम्बोधनं,
हे भक्तपोषक परमात्मन्! त्वमपावृणु अपावृतमनाच्छादितं कुरु । किमर्थं ?
सत्यधर्माय दृष्टये सत्यधर्मस्य मदादिभक्तजनस्य दर्शनाय साक्षात्कारायेति ऋषिप्रार्थनम् ॥१५॥
॥१६॥
तदेव स्पष्टीकृत्य ऋषिर्याचते—
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि,
योऽसावसौ पुरुषः सोऽहमस्मि ॥
उष्णिक। हे पूषन्! हे एकर्षे ! हे यम ! हे सूर्य ! हे प्राजापत्य ! रश्मीन्प्रकाशयन्व्यूह त्वदीयं तेजः समूहं च स्वरूपं सङ्कोचयन्मदीयं ज्ञानं विस्तारयेत्यर्थः । यद्वा,
हे पूषनेकर्षे यम सूर्य प्राजापत्य रश्मीन्मच्चक्षुष उपघातकान्स्वान्रश्मीन्व्यूह विगमय,
तेज आत्मीयं ज्योतिः समूहमुपसंहर मद्दर्शनयोग्यं कुरु । तथा यत्ते तव रूपं कल्याणतममत्यन्तशोभनं परममङ्गलं वा तत्ते तव प्रसादादहं पश्यामि । केन प्रकारेण पश्यसीत्यत आह—
य इति योऽसौ पुरुषो मण्डलान्तरस्थः असौ तदितरः प्रतीकस्थितश्च सोऽहमस्मि भवामि ॥१६॥
॥१७॥
इदानीं मरिष्यतो मम वायुरध्यात्मपरिच्छेदं हित्वाधिदैवतात्मानमनिलं प्रविशत्विति प्रार्थयते—
वायुरनिलममृतं
अथेदं भस्मान्तं शरीरम् ।
ॐ क्रतो स्मर कृतं स्मर
क्रतो स्मर कृतं स्मर ॥
गायत्री । हे परमात्मन्! मरिष्यतो मम वायुः सप्तदशात्मकलिङ्गशरीररूपः प्राणः अध्यात्मपरिच्छेदं हित्वाधिदैवरूपं सर्वात्मममृतं सूत्रात्मानमनिलं मुखप्राणं प्रतिपद्यतामिति वाक्यशेषः । ज्ञानकर्मसंस्कृतं लिङ्गमुत्क्रमयत्वित्यर्थः । अथानन्तरमिदं स्थूलशरीरमग्नौ हुतं सत्भस्मान्तं भस्मावसानं भूयात। ओमिति यथोपासनमोम्प्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । ॐ हे क्रतो ! हे सङ्कल्पात्मकं मनः स्मर यन्मम स्मर्तव्यं तस्यायं कालः समुपस्थितोऽतः स्मर त्वं ब्रह्मचर्ये गार्हस्थ्ये च मया परिचरितः तत्स्मर । तथा कृतं यन्मया बाल्यप्रभृत्यद्ययावदनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् ॥१७॥
॥१८॥
साक्षात्कारप्रार्थनानन्तरमग्निप्रतीकं भगवन्तं मोक्षं प्रार्थयते—
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वायुनानि विद्वान।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमौक्तिं विधेम ॥
आग्नेयो त्रिष्टुप। हे देव ! क्रीडादिगुणविशिष्ट ! हे अग्ने ! अग्निप्रतीक ! भगवन्! अस्मान्सुपथा शोभनेन मार्गेण देवयानलक्षणेन नय गमय । किमर्थं ?
राये धनाय मुक्तिलक्षणाय । कीदृशस्त्वं ?
विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वान्जानन। किं च जुहुराणं कुटिलं प्रतिबन्धकं वञ्चनात्मकमेनः पापमस्मतस्मत्तः सकाशात्युयोधि पृथक्कुरु वियोजय नाशयेत्यर्थः । ततो विशुद्धाय ते तुभ्यं भूयिष्ठां बहुतरां नमौक्तिं नमस्कारवचनं विधेम कुर्याम । ईदृशाभीष्टसाधकस्य तव प्रतिकरणं नमस्कारपरम्परैव न त्वन्यत्प्रत्युपकरणमस्तीति भावः ॥१८॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥
]