ईशावास्योपनिषद् व्याख्यासहितः

[[ईशावास्योपनिषद् व्याख्यासहितः Source: EB]]

[

॥ श्रीगणेशाय नमः॥

ईशावास्योपनिषद्

अमरदासविरचित-

मणिप्रभाव्याख्यासमलङ्कृता ।

येन व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ।

तं वन्दे परमात्मानं कृष्णाख्यं भक्तवत्सलम् ॥

विद्याचार्यान्गुरून्भक्त्या नत्वाहं करुणाकरान।

ईशावास्यादिमन्त्राणां कुर्वे व्याख्यां समासतः ॥

पूर्णमदः पूर्णमिदं

पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय

पूर्णमेवावशिष्यते ॥*॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॐ ॥

अदः निरुपाधिकं परोक्षं तत्पदार्थरूपं ब्रह्म । पूर्णमाकाशवद्व्यापि निरन्तरं,

यदिदं नामरूपोपाधिविशिष्टं व्यवहारापन्नं त्वंशब्दार्थरूपं,

तदपि निरुपाध्यात्मरूपेणैव पूर्णं,

न तु विशिष्टरूपेण पूर्णम् । एवं तत्त्वंपदयोः क्रमेण लक्ष्यांशमुक्त्वा तयोरेव वाच्यांशं कथयन्त्वंपदार्थस्य पूर्णत्वे हेतुमाह—

पूर्णादिति । तदिदं विशेषरूपमापन्नं ब्रह्म पूर्णात्कारणात्मनः सकाशात्पूर्णमेवोदच्यते उद्रिच्यते उद्गच्छति । पूर्णात्मस्वभावस्य त्यागायोगात। एतज्ज्ञानफलं लक्ष्ययोरैक्यापत्तिरूपमाह—

पूर्णस्येति । पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्णं पूर्णत्वमेकरसत्वलक्षणमादाय गृहीत्वा विद्ययाविद्यकोपाधिसंसर्गतिरस्कारपूर्वकं पूर्णमेव निरन्तरं प्रज्ञानघनैकरसस्वरूपमेव केवलं ब्रह्मावशिष्यते इति स्पष्टार्थः । शान्तिरिति त्रिर्वचनमाध्यातिमिकाधिभौतिकाधदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थमिति वाच्यम् ॥*॥

ओ)०(ओ—

अथ शुक्लयजुर्वेदे वाजसनेयिसंहितायामीशावास्योपनिषत।

उपनिपूर्वं षद्ÿ

विशरणगत्यवसादनेष्विति धातोः क्विप्प्रत्ययान्तस्य रूपमुपनिषदिति । सामीप्यवाचिनोपसर्गेण प्रत्यगात्मनो ब्रह्मसामीप्यमुच्यते । सामीप्यं च तयोरभेदरूपं विवक्षितम् । निशब्दो निश्चयार्थकः । तथा चोपसर्गद्वयेन प्रत्यगात्मब्रह्मणोरभेदनिश्चयरूपा विद्योक्ता । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः । तथा च प्रत्यगात्मब्रह्मगोचरा विद्या विदुषामनर्थं शातयति शिथिलीकरोति अवसादयति नाशयति वा ब्रह्म गमयति वेत्युपनिषच्छब्दव्युत्पत्त्या सफला ब्रह्मविद्योच्यते ।

यद्वा,

उप सामीप्येन विषयतत्त्व्नि नितरां ब्रह्मस्वरूपं परमश्रेयोऽस्यां विद्यायां स्थितमित्युपनिषत्ब्रह्मविद्या । ग्रन्थे तु ब्रह्मविद्याप्रयोजकत्वाल्लक्षणयोपनिषच्छब्दप्रयोगः । एवं व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या मानान्तरानधिगतं ब्रह्म तस्य विषयः,

तद्विद्याद्वारा मुक्तिः प्रयोजनम्,

सम्बन्धस्तु विशेषित्याह—

सह ग्रन्थस्य प्रार्थ्यप्रार्थकलक्षणः चतुष्टयसाधनसम्पन्नोऽधिआरीत्यनुबन्धचतुष्टयं प्रेक्षावतां प्रवृत्त्यङ्गभूतं तावत्सिद्धम् ।

ननु ईशावास्यमित्यादयो मन्त्राः कर्मप्रार्थका मन्त्रत्वात्,

इषे त्वा इत्यादिमन्त्रवत्,

अतो न पृथग्विषयप्रयोजनादिसिद्धिरिति चेत्,

न,

विनियोजकप्रमाणाभावात्प्रकरणान्तरत्वाच्च । न हि इषे त्वेति शाखां छिनत्ति इत्यत्र यथा ब्राह्मणघटकीभूतशाखाशब्दोत्तरद्वितीया श्रुतिरङ्गप्रधानभावसम्बन्धबोधिका,

तथा ईशावास्यमित्यादि मन्त्रेषु किञ्चिद्विनियोजकप्रमाणमस्त्सि,

येन कर्मप्रार्थकाः स्युः । इषे त्वा [य.वे. १.१] इति मन्त्रभागः,

इति शाखां छिनत्ति इति ब्राह्मणविभागः । हे पलाशशाखे इषे अन्नाय त्वा त्वां छनद्मीति मन्त्रार्थः । इति उक्तमन्त्रेण शाखां छिनत्ति छिन्द्यादिति ब्राह्मणार्थः ।

न च कर्माङ्गात्मप्रकाशनरूपसामर्थ्यरूपलिङ्गादेषां कर्मणि विनियोग इति वाच्यं ?

शुद्धत्वादिविषयणानां कर्माङ्गत्वं मानाभावात्,

कर्मविरोधित्वाच्च । नाप्येते मन्त्रा जपमात्रोपयोगिनो न विवक्षितार्थबोधका इति शक्यं वक्तुमुपक्रमोपसंहारादिलिङ्गैरेकात्मतायां तात्पर्यावधारणात। अस्ति हि ईशावास्यमित्युपक्रमः,

सपर्यगातित्युपसंहारः,

अनेजदेकं,

तदन्तरस्य इत्यभ्यासः,

नैनद्देवा आप्नुवमित्यपूर्वतोक्तिः,

को मोहः कः शोकः इति फलोक्तिः,

कुर्वन्नेवेह कर्माणि इत्यविदुषः कर्मकरणानुवादेन असुर्या नाम ते लोकाः इति कर्मनिन्दयैक्यात्म्यविद्यायाः स्तुतिरुक्ता,

तस्मिन्नपो मातरिश्वा इत्युपपत्त्युक्तिः ।

न च ब्रह्मात्मैकत्वस्वीकारे कर्मकाण्डाधिकार्यभावात्कर्मकाण्डाप्रामाण्यप्रसङ्ग इति वाच्यं ?

अर्थित्वादिविशेषणवतामविदुषामेव कर्मण्यधिकारसम्भवात। एवं पृथग्विषयप्रयोजनादिमद्भिर्मन्त्रैर्दध्यङ्ङाथर्वण ऋषिः शिष्यं पुत्रं वा मुमुक्षुं विधिवदुपसन्नमुपदिशति—

ॐ,

ईशा वास्यमिदं सर्वं

यत्किं च जगत्यां जगत।

तेन त्यक्तेन भुञ्जीथा

मा गृधः कस्य स्वित्धनम् ॥१॥

ईष्टे इतीट्,

ईश ऐश्वर्ये इति धातोः क्विप्प्रत्ययान्तस्येदं रूपं,

तेनेशा ईश्वरेण तत्पदार्थलक्षणस्वरूपेण इदं नानाप्रतीतिविषयभूतं सर्वं निखिलं वास्यं,

वसाच्छादने,

आच्छादनीयं व्याप्तमिति यावत। सर्वशब्दार्थमेव स्फुटयति—

यत्किं चेति । जगत्यां चतुर्दशासु भुवनेषु यत्किञ्चित्कार्यकारणात्मकं जगत्चराचरलक्षणमीश्वररूपमेवेति बुद्धिः करणीयेत्यर्थः । एतादृशबुद्धिदार्ढ्ये साधनमाह—

तेनेति । तेन,

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः इत्यादि श्रुत्यन्तरप्रसिद्धेन त्यक्तेन ऐषणात्रयत्यागेन संन्यासेन भुञ्जीथाः,

इदं सर्वमीश्वर एवेति बुद्धिं पालयेथाः । उक्तसंन्यासिनो नियमविधिमाह—

मा गृध इति । कस्य स्वित्कस्यापि धनं भिक्षाकौपीनाच्छाद्नातिरिक्तं हिरण्यादिरूपं मा गृधः त्वं माकाङ्क्षीरित्यर्थः ॥१॥

ओ)०(ओ—

यस्तु धनाभिलाषी नेश्वरं ज्ञातुं शक्तस्तस्य त्यागेऽधिकाराभावात्कर्मकर्तव्यतां श्रुतिराह—

कुर्वन्नेवेह कर्माणि

जिजीविषेच्छतां समाः ।

एवं त्वयि नान्यथेतोऽस्ति

न कर्म लिप्यते नरे ॥

इह अस्मिन्कर्माधिकारे भूलोके कर्माणि नित्यान्यग्निहोत्रादीन्यन्यानि च कुर्वन्नेव आचरन्नेव,

एवकारेण फलाभिसन्धिर्व्यावर्त्यते । शतं समाः शतं संवत्सरान्जिजीविषेत्जीवितुमिच्छेत। एवं यथोक्तकर्मानुष्ठानेन त्वयि कर्माधिकारिणि नरे नराभिमानिनि कर्म अशुभं कर्म न लिप्यते न सम्बध्यते । इतः स्वविशेष्शास्त्रोचितकर्मानुष्ठानात। अन्यथा अशुभकर्मलेपाभावे विहितकर्मानुष्ठानातिरिक्तसाधनानन्तरं नास्ति न विद्यते । येन प्रकारेणाशुभकर्मलेपो न स्यादित्यर्थः ॥२॥

ओ)०(ओ—

इदानीमज्ञानां निन्दानेन मन्त्रेण क्रियते—

असुर्या नाम ते लोका अन्धेन तमसावृताः ।

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥

असुर्याः सुष्ठु रमन्ते इति सुरा आत्मारामा विद्वांसस्तेभ्योऽन्येभ्योऽन्येऽसुरास्तेषां योग्या नाम प्रसिद्धाह्ते ये लोकाः कर्मफलभूताः श्वसूकरादिदेहविशेषाः,

ईश्वरापेक्षयाज्ञदेवा अप्यसुरा एव,

अन्धेन आवरकेण तमसा स्वरूपाज्ञानेन आवृताः आच्छादिताः । तानुक्तासुर्यलोकान्ते आत्मज्ञानशून्याः जनाः संसारचक्रे पुनः पुनः प्रादुर्भाववन्तः प्रेत्य शरीरं त्यक्त्वा अभिगच्छन्ति सर्वतः प्राप्नुवन्ति । ते इति चच्छब्दार्थमाह—

य इति । ये के च ये केऽप्यज्ञाः आत्महनः आत्मानमजरामरलक्षणमप्यज्ञानेन जरामरणादिमन्तमिव मन्यमानाः ॥३॥

ओ)०(ओ—

यस्यात्मनोऽज्ञानादविद्वांसः संसरन्ति,

आत्मज्ञाश्च मुच्यन्ते तदात्मतत्त्वं कीदृशमित्याकाङ्क्षायां तदात्मतत्त्वमाह—

अनेजदेकं मनसो जवीयो

नैनद्देवा आप्नुवन्पूर्वमर्षत।

तद्धावतोऽन्यानत्येति तिष्ठत्

तस्मिन्नपो मातरिश्वा दधाति ॥४॥

अनेजत्चलनरहितम् । एकं देहादिभेदेन भेदशून्यं मनसः सङ्कल्पादिलक्षणमनसः जवीयो वेगवत्तरम् ।

ननु मनसा साक्षादप्राप्याणामपि रूपादीनां चक्षुरादिभिः प्राप्यत्वदर्शनादात्मतत्त्वमपि चक्षुरादिप्राप्यमस्तीत्यत आह—

नेति । एनत्प्रकृतमात्मतत्त्वं देवाः द्योतनाद्देवाश्चक्षुरादीन्द्रियाणि नाप्नुवन्नाधिगतवन्तः । यथा मनसि स्थितं परिमाणं मनसा न गृह्यते,

यथा वा चक्षुषो गोलके वर्तमानमञ्जनं चक्षुषा न गृह्यते,

अत्यन्तसान्निध्यात्,

तथात्मतत्त्वमपि मनऽदिष्वनुगतत्वात्,

न मनश्चक्षुरादिभिर्गृह्यते इति भावः ।

मनसा चक्षुरादीन्द्रियैश्चाप्राप्यत्वेनासत्त्वशङ्कां प्राप्तां वारयति—

पूर्वमिति । पूर्वं मनऽदेः प्राप्तेः प्रथममेव अर्षत्प्राप्तं व्यापकमिति यावत।

व्यापकत्वे हेतुमाह—

तद्धावत इति । ततात्मतत्त्वं धावतः द्रुतं गच्छतः अन्यान्कालवाय्वादीनत्येति उल्लङ्घ्य याति । तर्ह्येष्वेव किञ्चिदतिवेगवदित्यत आह—

तिष्ठत्स्वयमविक्रियमेव सत्स्थितमित्यर्थः ।

उक्तात्मतत्त्वस्य सम्भावनायोपपत्तिमाह—

तस्मिन्निति । तस्मिनात्मतत्त्वे सति मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छति सत्तां प्राप्नोतीति मातरिश्वा ज्ञानक्रियाशक्तिर्हिरण्यगर्भः अपः कर्माणि अग्निहोत्रादीनि श्रौतकर्माणि सोमाज्यपयःप्रभृतिभिरद्भिः सम्पाद्यन्ते इति सम्बन्धाल्लक्षणयाप्शब्दस्य कर्मसु प्रयोगः ।

यद्वा,

अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यादीनां ज्वलनवहनप्रकाशाभिवर्षणादिलक्षणानि च दधाति कर्तृषु विभागेन स्थापयति,

धारयतीति वा । मातरिश्वग्रहणं व्यष्टीनामुपलक्षणार्थं सर्वकार्यकरणसङ्घातानामधिष्ठातारं विना नियतप्रवृत्त्यनुपपत्त्या कश्चिदधिष्ठाता चेतना सिद्ध्यतीति भावः ॥४॥

ओ)०(ओ—

मन्त्राणामालस्याभावादुक्तमेवार्थं पुनराह—

तदेजति तन्नैजति

तद्दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य

तदु सर्वस्यास्य बाह्यतः ॥५॥

ततीश्वररूपमीन्द्रियमेजति वाय्वादिरूपेण चलति । ततीश्वररूपमीन्द्रियं नैजति स्वतो नैव चलति,

अक्रियत्वात। ततीश्वररूपमीन्द्रियं दूरे अविदुषामत्यन्तदूरे वर्तते,

अज्ञातत्वात। वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्वा । ततीश्वररूपमीन्द्रियमु एव,

अन्तिके विदुषामत्यतसमीपमेव । प्रत्यग्रपेण ज्ञातत्वात। ततीश्वररूपमीन्द्रियमस्य दृशस्य सर्वस्य चराचररूपस्य अन्तः आभ्यन्तरम् । ततीश्वररूपमीन्द्रियमु अपि सर्वस्य निखिलस्य अस्य नानाप्रतीतिविषयस्य जगतः बाह्यतः बहिश्च भवति । आकाशवद्व्यापकत्वादित्यर्थः ॥५॥

ओ)०(ओ—

ईश्वरात्मज्ञानस्य फलमाह—

यस्तु सर्वाणि भूतानि

आत्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं

ततो न विजुगुप्सते ॥६॥

यस्तु,

तुशब्दो एवार्थकः,

य एव विद्वान्,

सर्वाणि ब्रह्मादिस्तम्बपर्यन्तानि भूतानि प्राणिजातानि आत्मन्येव,

एवकारो भेदव्यावृत्त्यर्थः,

आत्मस्वरूपे परमेश्वरे एव अनुपश्यति साक्षाद्विजानाति । सर्वभूतेषु उक्तप्राणिजातेषु चात्मानं,

अहमेव सर्वभूतेष्ववस्थितः इत्यनुपश्यतीति क्रियानुवृत्त्यर्थश्चकारः । तत उक्ताभेदज्ञानानन्तरं न विजुगुप्सते उक्तो विद्वान्किमपि न निन्दति । स्वात्मनोऽन्यस्यादर्शनात। कस्यापि निन्दास्तुतिं न करोतीति भावः ॥६॥

ओ)०(ओ—

उक्तमेवार्थं पुनरप्याह—

यस्मिन्सर्वाणि भूतानि

आत्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोक

एकत्वमनुपश्यतः ॥

यस्मिन्काले ईश्वरस्वरूपे आत्मनीति वा विजानतः उक्ताभेदज्ञानवतः पुरुषस्य सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि आत्मैवाभूत्सर्वभूतात्माहमेवेति बोधेनात्मभावमेव गतानि स्युरित्यर्थः । तत्र तस्मिन्काले ईश्वरात्मविज्ञातृस्वरूपे इति वा एकत्वमनुपश्यतः सर्वत्रैकात्मज्ञानवतः पुरुषस्य को मोहः आत्मावरणलक्षणो मोहः,

कः शोकः विक्षेपात्मकः शोकः कः ?

किंशब्दः आक्षेपे । तस्य मोहशोकौ न भवतः । मूलाविद्यानिवृत्तौ तत्कार्ययोः शोकमोहयोरात्यन्तिकाभावादिति भावः ॥७॥

ओ)०(ओ—

ईश्वरस्य स्वरूपमिदं सर्वमहमस्मीति विजानतः आवरणविक्षेपयोरभाव उक्तः सोऽयमनुपपन्नः ईश्वरस्याप्यात्मत्वात्जीववच्छरीरादिसम्बन्धसत्त्वादित्याशङ्क्य दृष्टान्ते साध्यवैकल्यमाह—

स पर्यगाच्छ्रुतमकायमव्रणम्

अस्नाविरं शुद्धमपापविद्धम् ।

कविर्मनीषी परिभूः स्वयम्भूर्

याथातथ्यतोऽर्थान्व्यदधात्

शाश्वतीभ्यः समाभ्यः ॥

स ईश्वरस्वरूपाभिन्नः आत्मा पर्यगात्परितः समन्ता सर्वं व्याप्तवान। तं विशिनष्टि—

शुक्रमिति । शुक्रमित्याद्यपापविद्धमित्यन्तानि विशेषणानि पुंस्त्वेन विपरिणेयान। स इति पुंस्त्वेनोपक्रम्य कविरित्यादि पुंस्त्वेनोपसंहारात। शुक्रं दीप्तिमान। अकायं लिङ्गशरीररहितः । अव्रणं व्रणं छिद्रविशेषो न विद्यते यस्य सोऽव्रणः । अस्नाविरं स्नावाः शिरास्तद्वर्जितः । अव्रणमस्नाविरमिति विशेषणाभ्यां श्रुत्या स्थूलदेहस्य प्रतिषेधः कृतः । शुद्धमविद्यामलरहितः । अनेन कारणशरीरप्रतिषेधः कृतः । अपापविद्धं धर्माधर्मादिपापशून्यः । कविः सर्वद्रष्टा । मनीषी मनस ईषिता । परिभूः नानारूपैः परितः समन्ताद्भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति स्वयम्भूः कारणरहित इति यावत। शाश्वतीभ्यः निरन्तरेभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः सकाशात्याथाताथ्यतः साध्यसाधनादिनियतस्वरूपेण अर्थान्चेतनाचेतनरूपपदार्थान्व्यदधात्विविधं कल्पितवानित्यर्थः ॥८॥

ओ)०(ओ—

समाप्तं ज्ञानप्रकरणमिदानीं यस्तूक्तमात्मतत्त्वं न जानाति,

न च संन्यासेऽधिकारी संसारेऽत्यन्तं प्रीतिमान्तं प्रति कुर्वन्नेवेह कर्माणीत्यादिनोक्तस्य कर्मणो देवतोपासनायाश्च समुच्चयं विधित्सुः तयोरेकैकं निन्दति—

अन्धं तमः प्रविशन्ति

येऽविद्यामुपासते ।

ततो भूय इव ते तमो

य उ विद्याया रताः ॥९॥

ये अविद्वांसः धनाभिलाषिणः अविद्यां विद्याया भिन्ना अविद्या ज्योतिष्टोमादिलक्षणं केवलं कर्म उपासते अनन्यचित्ताः सन्तः अनुतिष्ठन्ति,

ते अन्धं तमः अहंममाभिमानलक्षणमदर्शनात्मकं तमः संसारमिति वा प्रविशन्ति,

प्रकर्षेण प्राप्नुवन्ति ।

ननु कर्म परित्यज्य किं देवता तैरुपासितव्या स्यादिति यत आह—

तत इति । ये उ ये तु अज्ञाः कर्मत्यागिनः विद्यायामुपास्यदेवोऽहमिति देवतोपासने रताः तत्पराः ते देवतोपासकाः ततः उक्ततमसः भूय इव अधिकमेव तमः अहंममाभिमानलक्षणमदर्शनात्मकं संसारमिति वा तत्तद्देवैश्वर्यप्राप्तेरधिकासक्तिहेतुत्वात्प्रविशन्तीत्यनुषङ्गः ॥९॥

ओ)०(ओ—

ननूभयोः प्रत्येकं निन्दया किमुभयोः फलं नास्तीत्याशङ्क्य तयोः फलभेदमाह—

अन्यदेवाहुर्विद्यया

अन्यदाहुरविद्यया ।

इति शुश्रूम धीराणां

ये नस्तद्विचचक्षिरे ॥१०॥

विद्यया देवतोपासनेन अन्यत्पितृयानप्राप्यलक्षणात्कर्मफलात्पृथगेव देवयानप्राप्यलक्षणं फलमाहुः कथयन्ति । एवकारेण विद्याकर्मणोरङ्गाङ्गिभावो व्यावर्त्यते । अविद्यया कर्मणा अन्यत्विद्याफलाद्देवलोकप्राप्तिलक्षणात्पृथग्भूतं पितृलोकप्राप्तिरूपं फलमाहुः कथयन्ति । अत्रैवकाराभावाच्चित्तशुद्धिद्वारात्मज्ञानोत्पादकत्वमपि कर्मणामवगम्यते इति उक्तप्रकारकं धीराणां धीमतां वेदविदां वचनं शुश्रुम वयं श्रुतवन्तः । के ते धीराः ?

इत्यत आह—

य इति । ये गुरवः नः अस्मभ्यं तत्कर्मोपासनं च विचचक्षिरे व्याख्यातवन्तः ॥१०॥

ओ)०(ओ—

एवं विद्याकर्मणोः सफलत्वमभिधाय इदानीं तयोः समुच्चयमाह—

विद्यां चाविद्यां च यस्

तद्वेदोभयं सह ।

अविद्यया मृत्युं तीर्त्वा

विद्ययामृतमश्नुते ॥११॥

यः अधिकारी विद्यां च देवतोपासनं च अविद्यां च अग्निहोत्रादिकर्म च तदुभयमुक्तविद्याकर्मरूपद्वयं सह मिलितमेकपुरुषानुष्ठेयं वेद जानाति,

ज्ञात्वा करोति च,

स पुरुषः अविद्यया उक्तकर्मणा मृत्युं स्वाभाविकं कर्मज्ञानात्मकं तीर्त्वा अतिक्रम्य विद्यया देवतोपासनेन अमृतमुपास्यदेवतास्वरूपमश्नुते प्राप्नोति ॥११॥

ओ)०(ओ—

इदानीं व्याकृताव्याकृतोपासनयोः समुच्चिचीर्षया प्रत्येकं तावन्निन्दति—

अन्धं तमः प्रविशन्ति

येऽसम्भूतिमुपासते ।

ततो भूय इव ते तमो

य उ सम्भूत्यां रताः ॥१२॥

ये अज्ञाः असम्भूतिमव्याकृताख्यां जगत्कारणभूतां प्रकृतिमुपासते,

जगत्कारणभूता प्रकृतिरहमिति निरन्तरं ध्यायन्ति,

ते अव्याकृतोपासकाः अन्धं तमः अहंममाभिमानरूपमदर्शनात्मकं संसारं वा प्रविशन्ति,

प्रकर्षेण प्राप्नुवन्ति । ये उ ये तु पुरुषाः सम्भूत्यां व्याकृते कार्यभूते हिरण्यगर्भे रताः प्रीतिमन्तः हिरण्यगर्भचिन्तनपरायणा इति यावत्,

ते हिरण्यगर्भोपासकाः,

तत उक्तान्धतमसः भूय इव अधिकमेव तमः अहंममाभिमानलक्षणमदर्शनात्मकं संसारमिति प्रविशन्तीत्यनुषङ्गः ॥९॥

ओ)०(ओ—

इदानीमुक्तोपासनयोरुभयोः फलभेदमाह—

अन्यदेवाहुः सम्भवाद्

अन्यदाहुरसम्भवात।

इति शुश्रूम धीराणां

ये नस्तद्विचचक्षिरे ॥१३॥

असम्भवात्कार्यरूपहिरण्यगर्भोपासनातन्यत्पृथगेव फलमणिमादैश्वर्यप्राप्तिलक्षणमाहुः कथयन्ति । असम्भवातव्याकृतोपासनातन्यत्पृथगेव प्रकृतिलयलक्षणं फलमेवाहुः कथयन्ति । इत्युक्तप्रकारकं वच्नं धीराणां धीमतां वेदविदां वचनं शुश्रुम वयं श्रुतवन्तः । ते धीराः के ?

इत्यत आह—

य इति । ये गुरवः नः अस्मभ्यं ततुक्तोपासनद्वयं च विचचक्षिरे व्याख्यातवन्तः ॥१३॥

ओ)०(ओ—

उक्तोपासनद्वयस्य समुच्चयार्थमाह—

सम्भूतिं च विनाशं च

यस्तद्वेदोभयं सह ।

विनाशेन मृत्युं तीर्त्वा

सम्भूत्यामृतमश्नुते ॥१४॥

सम्भूतिं चेत्यत्रासम्भूतिमित्यर्थलाभायाकारलोपो द्रष्टव्यः । विनाशं च विनाशधर्मकहिरण्यगर्भरूपं कार्यमित्यर्थः । तथा च यः उपासकः असम्भूतिं च अव्याकृतोपासनां विनाशं च विनाशधर्मकहिरण्यगर्भस्योपासनं च तदुभयमुक्तं कारणकार्योपासनद्वयं सह मिलितमेकपुरुषकर्तृकं वेद जानाति,

ज्ञात्वा करोति च,

स उपासकः विनाशेन विनाशवतः हिरण्यगर्भरूपकार्यस्योपासनेन मृत्युमनैश्वर्याधर्मकामादिदोषजातं तीर्त्वा अतिक्रम्य असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयरूपमश्नुते प्राप्नोतीत्यर्थः ॥११॥

ओ)०(ओ—

यः कार्यकारणात्मकः सूर्यमण्डलस्थः पुरुष एव अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते इत्युक्त समुच्चयेन सम्प्राप्यो भवति,

तं प्रार्थयते—

हिरण्मयेन पात्रेण

सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु

सत्यधर्माय दृष्टये ॥१५॥

हे पूषन्! जगतः पोषक ! सत्यस्य बाधरहितस्य तव मुखं प्राप्तिद्वारभूतं हिरण्मयेन ज्वलत्सुवर्णवद्देदीपमानेन पात्रेण पात्रसमेनापिधानरूपेण तेजोमण्डलेन अपिहितमाच्छादितं तद्मुखपिधायकतेजोमण्डलं त्वं सूर्यरूपस्त्वमपावृणु अपसारय । सत्यधर्माय सत्यस्य तवोपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मो तस्मै मह्यम् । यद्वा,

सत्यधर्माय यथाभूतधर्मानुष्ठात्रे मह्यं मदर्थमपावृणु इति पूर्वेण सम्बन्धः । अपसारणप्रयोजनमाह—

दृष्टये इति । तव दर्शनार्थमित्यर्थः ॥१५॥

ओ)०(ओ—

पुनरपि सूर्यं बहुधा संबोधयन्कार्यान्तरमाह—

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि,

योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥

हे पूषन्! सर्वस्य पोषक ! एकर्षे एक एव ऋषति गच्छतीत्येकर्षिः,

तत्सम्बुद्धौ,

हे एकर्षे ! यम हे सर्वनियामक ! सूर्य हे सर्वकर्मसु लोकप्रवर्तक ! हे आकाशगमनेति वा । प्राजापत्य हे प्रजापतेरपत्य ! रश्मीन्किरणान्व्यूह उपसंहर,

तेजः तापकज्योतिः समूह स्वस्मिन्नेकीभावं कुरु । तत्रापि प्रयोजनमाह—

यदिति । यत्प्रसिद्धं ते तव रूपं स्वयंज्योतिःस्वभावं कल्याणतममतिशयेन कल्याणमानन्दात्मरूपं,

ततुक्तरूपं ते तव प्रसादात्पश्यामि साक्षात्करोमि । न त्वहं भृत्यवदन्यः सन्त्वा या च इत्याह—

य इति

। यः प्रसिद्ध असौ आदित्यमण्डलस्थः परोक्षः,

असौ शास्त्रदृष्ट्या प्रत्यक्षः पुरुषः सर्वत्र परिपूर्णः स उक्तलक्षणः पुरुषः अहमस्मत्प्रत्ययगोचरोऽस्मि भवामीत्यर्थः ॥१६॥

ओ)०(ओ—

मरणकाले तूपासकेनैवमनुसन्धातव्यमित्याह—

वायुरनिलममृतं

अथेदं भस्मान्तं शरीरम् ।

ॐ क्रतो स्मर कृतं स्मर

क्रतो स्मर कृतं स्मर ॥

वायुः मम प्राणोऽनिलं बाह्यं वायुममृतं देवतात्मकं प्रविशत्विति शेषः । वायूपलक्षितं मम लिङ्गशरीरमुत्क्रामत्विति द्रष्टव्यम् । अथ वायुनिर्गमनानन्तरं इदं प्रत्यक्षं शरीरं स्थूलदेहो भस्मान्तमग्नौ हुतं सत्भस्मरूपं भूयात। ॐ हे ॐकाराभिधेयेश्वराभिन्न आदित्य क्रतो हे आदित्याभिन्नसङ्कल्पात्मन्हे यज्ञरूपेति वा स्मर त्वदुपासकं मां स्मरं,

कृतं मयानुष्ठितं ज्ञानं कर्म च स्मर स्पष्टम् । द्विरुक्तिरादरार्था ॥१७॥

ओ)०(ओ—

॥१८॥

एवमुपास्यां देवतां संप्रार्थ्य सुमार्गप्राप्त्यर्थं कर्मसाधनभूतां देवतां प्रार्थयते—

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥

हे अग्ने अस्मान्समुच्चयानुष्ठात्è

न्सुपथा शोभनेनोत्तरायणमार्गेण नय प्रापय,

राये धनाय कर्मफलभोगायेति यावत। हे देव दीप्तिमन्विश्वानि सर्वाणि वयुनानि कर्माणि उपासनानि च विद्वान्जानन्सन्त्वमस्मतुपासकेभ्यः जुहुराणं कुटिलं वञ्चनात्मकमेनः पापं युयोधि वियोजय,

हे तुभ्यं भूयिष्ठामधिकतरां नमौक्तिं नमस्कारवचनं विधेम कुर्म इत्यर्थः ॥१८॥

इति श्रीमदुदासीनवर्यामरदासपदपद्ममकरन्दतृप्तमानसेन श्रीमदमरदासाख्येन विरचिता ईशावास्योपनिषद्व्याख्या उत्तम्पूर्ण्मणिप्रभा समाप्तिं गता ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥

————– ———— ———— ————– ———-

]