आत्मबोधोपनिषत्

[[आत्मबोधोपनिषत् Source: EB]]

[

॥ आत्मबोधोपनिषत् ॥

श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् ।

स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥

ॐ वाङ्मे मनसीति शान्तिः ॥

ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार

मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते

योगी जन्मसंसारबन्धनात् । ॐ नमो नारायणाय

शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति

मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । अथ यदिदं

ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं

दीपवत्प्रकाशम् ॥

ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।

ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥

सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं

ब्रह्मोम् । शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति ।

द्वैताद्वैतमभयं भवति । मृत्योः स मृत्युमाप्नोति य इह

नानेव पश्यति । हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने

प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा

प्रज्ञानं ब्रह्म । स एतेन

प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके

सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् ।

यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् । तस्मिन्मां देहि

स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च

गच्छत्यों नमः ॥ १॥

प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् ।

अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥ १॥

प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् ।

समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥ २॥

साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् ।

अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥ ३॥

अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् ।

सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥ ४॥

निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् ।

कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥ ५॥

एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् ।

निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥ ६॥

निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् ।

विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥ ७॥

वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् ।

परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥ ८॥

शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् ।

शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥ ९॥

शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् ।

शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥ १०॥

विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् ।

तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥

निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।

सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।

प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥ १२॥

यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा ।

अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् ॥ १३॥

ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः ।

बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा ॥ १४॥

तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा ।

विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥ १५॥

दारिद्र्याशा यथा नास्ति संपन्नस्य तथा मम ।

ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥ १६॥

विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति

बुद्धिमान् ।

आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् ॥ १७॥

घटावभासको भानुर्घटनाशे न नश्यति ।

देहावभासकः साक्षी देहनाशे न नश्यति ॥ १८॥

न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।

मायामात्रविकासत्वान्मायातीतोऽहमद्वयः ॥ १९॥

प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।

आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् ॥ २०॥

आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् ।

कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २१॥

ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः ।

स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥ २२॥

क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।

लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि ॥ २३॥

जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ।

न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ २४॥

उलूकस्य यथा भानुरन्धकारः प्रतीयते ।

स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥ २५॥

चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते ।

तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ २६॥

यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।

न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः ॥ २७॥

स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।

स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः ॥ २८॥

कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ।

अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥ २९॥

चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।

आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् ॥ ३०॥

आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न स पुनरावर्तते न

स पुनरावर्तत इत्युपनिषत् ॥

ॐ वाङ्मे मनसीति शान्तिः ॥

इति आत्मबोधोपनिषत्समाप्ता ॥


]