साङ्ख्यतत्त्वसमाससूत्रम्

[[साङ्ख्यतत्त्वसमाससूत्रम् Source: EB]]

[

प्रथमोऽध्यायः

अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । १.१ ।
(परमपुरुषार्थस्वरूपं)

न दृष्टात्तत्सिद्धिः, निवृत्तेऽप्यनुवृत्ति दर्शनात् । १.२ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

प्रात्यहिक क्षुत्प्रतीकारवत्तत्प्रतीकार चेष्टनात्पुरुषार्थत्वं । १.३ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

सर्वासम्भवात्, सम्भवेऽपि सत्तासम्भवाथेयः प्रमाणकुशलैः । १.४ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । १.५ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

अविशेषश्चोभयोः । १.६ ।
(वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता)

न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । १.७ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)

स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । १.८ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)

नाशक्योपदेशविधिः, उपदिष्टेऽप्यनुपदेशः । १.९ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)

शुक्लपटवत्बीजवच्चेत् । १.१० ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू

शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । १.११ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि

न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । १.१२ ।
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)

न देशयोगतोऽप्यस्मात् । १.१३ ।
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)

नावस्थातो देहधर्मत्वात्तस्याः । १.१४ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)

असङ्गो ह्ययं पुरुष इति । १.१५ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)

न कर्मणान्यधर्मत्वाततिप्रसक्तेश्च । १.१६ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)

विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । १.१७ ।
(बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः)

प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । १.१८ ।
(बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः)

न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । १.१९ ।
(बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः)

नाविद्यातोऽ प्यवस्तुना बन्धायोगात् । १.२० ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)

वस्तुत्वे सिन्धान्तहानिः । १.२१ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)

विजातीयद्वैतापत्तिश्च । १.२२ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)

विरुद्धोभयरूपा चेत् । १.२३ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू

न तादृक्पदार्थाप्रतीतेः । १.२४ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि

न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । १.२५ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू

अनियतत्वेऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । १.२६ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि

नानादिविषयोपराग निमित्तकोऽप्यस्य । १.२७ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)

न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावोऽपि देशव्यवधानात्स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । १.२८ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)

द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । १.२९ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)

अदृष्टवशाच्चेत् । १.३० ।
(बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू

न द्वयोरेककालयोगादुपकार्योपकारकभावः । १.३१ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि

पुत्रकर्मवदिति चेत् । १.३२ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू

नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । १.३३ ।
(बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि

स्थिरकार्यासिद्धेः क्षणिकत्वं । १.३४ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु

न प्रत्यभिज्ञाबाधात् । १.३५ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि

श्रुतिन्यायविरोश्र्वच्च । १.३६ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

दृष्टान्तासिद्धेश्च । १.३७ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

युगपज्जायमानयोः न कार्यकारणभावः । १.३८ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

पूर्वापाये उत्तरायोगात् । १.३९ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

तद्भावे तदयोगातुभयव्यभिचारादपि न । १.४० ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

पूर्वभावमात्रे न नियमः । १.४१ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

न विज्ञानमात्रं बाह्यप्रतीतेः । १.४२ ।
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)

तदभावे तदभावात्शून्यं तर्हि । १.४३ ।
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)

शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात्विनाशस्य । १.४४ ।
(सर्वशून्यतावादखण्डनं), पू

अपवादमात्रमबुद्धानां । १.४५ ।
(सर्वशून्यतावादखण्डनं), सि

उभयपक्षसमानक्षेमत्वादयमपि । १.४६ ।
(सर्वशून्यतावादखण्डनं)

अपुरुषार्थत्वमुभयथा । १.४७ ।
(सर्वशून्यतावादखण्डनं)

न गतिविशेषात् । १.४८ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

निष्क्रियस्य तदसम्भवात् । १.४९ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

मूर्तत्वात्घटादिवत्समानधर्मापत्तौ अपसिद्धान्तः । १.५० ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

गतिश्रुतिरपि उपाधियोगादाकाशवत् । १.५१ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

न कर्मणाप्यतद्धर्मत्वात् । १.५२ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)

अतिप्रसक्तिः अन्यधर्मत्वे । १.५३ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)

निर्गुणादि श्रुतिविरोधश्चेति । १.५४ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)

तद्योगोऽप्यविवेकान्न समानत्वं । १.५५ ।
(अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं)

नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । १.५६ ।
(विवेकस्यैव अविवेक नाशहेतुत्वं)

प्रधानाविवेकातन्याविवेकस्य तद्धाने हानं । १.५७ ।
(विवेकस्यैव अविवेक नाशहेतुत्वं)

वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । १.५८ ।
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)

युक्तितोऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । १.५९ ।
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)

अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । १.६० ।
(प्रकृतिपुरुषयोरानुमानिकत्वं)

सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातोऽहङ्कारः, अहङ्कारात्पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । १.६१ ।
(पञ्चविंशतितत्त्वसिद्धिः)

स्थूलात्पञ्चतन्मात्रस्य । १.६२ ।
(पञ्चविंशतितत्त्वसिद्धिः)

बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । १.६३ ।
(पञ्चविंशतितत्त्वसिद्धिः)

तेनान्तः करणस्य । १.६४ ।
(पञ्चविंशतितत्त्वसिद्धिः)

ततः प्रकृतेः । १.६५ ।
(पञ्चविंशतितत्त्वसिद्धिः)

संहतपरार्थत्वात्पुरुषस्य । १.६६ ।
(पञ्चविंशतितत्त्वसिद्धिः)

मूले मूलाभावादमूलं मूलं । १.६७ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)

पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । १.६८ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)

समाजः प्रकृतेर्द्वयोः । १.६९ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)

अधिकारित्रैविध्यात्न नियमः । १.७० ।
(विवेकमननस्य असार्वत्रिकत्वे हेतुः)

महदाख्यमाद्यं कार्यं तन्मनः । १.७१ ।
(महत्तत्वस्वरूपं)

चरमोऽहङ्कारः । १.७२ ।
(अहङ्कारतत्वस्वरूपं)

तत्कार्यत्वमुत्तरेषां । १.७३ ।
(तन्मात्रादीनामहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः)

आद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत् । १.७४ ।
(तन्मात्रादीनामहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः)

पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । १.७५ ।
(प्रकृतेरेव सर्वकारणत्ते नियामकं)

न परिच्छिन्नं सर्वोपादानं । १.७६ ।
(प्रकृतेरेव सर्वकारणत्वे नियामकं)

तदुत्पात्तिश्रुतेश्च । १.७७ ।
(प्रकृतेरेव सर्वकारणत्वे नियामकं)

नावस्तुनो वस्तुसिद्धिः । १.७८ ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)

अबाधातदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । १.७९ ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)

भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात्कुतस्तरां तत्सिद्धिः । १.८० ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)

न कर्मण उपादानत्वायोगात् । १.८१ ।
(कर्मणां जगदपादानाता निरासः)

नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । १.८२ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । १.८३ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । १.८४ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

काम्येऽकाम्येपि साध्यत्वाविशेषात् । १.८५ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । १.८६ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । १.८७ ।
(प्रमा स्वरूपं, प्रमाणेयत्ता च)

तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । १.८८ ।
(प्रमा स्वरूपं, प्रमार्णयत्ताच)

यत्संबद्धं सत्तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षं । १.८९ ।
(प्रत्यक्षलक्षणं)

योगिनामबाह्यप्रत्यक्षत्वात्न दोषः । १.९० ।
(प्रत्यक्षलक्षणं)

लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । १.९१ ।
(प्रत्यक्षलक्षणं)

ईश्वरासिद्धेः । १.९२ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । १.९३ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

उभयथाप्यसत्करत्वं । १.९४ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । १.९५ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

तत्सन्निधानातधिष्ठातृत्वं मणिवत् । १.९६ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

विशेषकार्येष्वपि जीवानां । १.९७ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

सिद्धरूप बोद्धृत्वात्वाक्यार्थोपदेशः । १.९८ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

अन्तः करणस्य तदुज्ज्वलितत्वात्लोहवतधिष्ठातृत्वं । १.९९ ।
(अन्तः करणस्यैव मुख्यमधिष्ठानत्वं)

प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । १.१०० ।
(अनुमान लक्षणं)

आप्तोपदेशः शब्दः । १.१०१ ।
(शब्द लक्षणं)

उभयसिद्धिः प्रमाणात्तदुपदेशः । १.१०२ ।
(प्रमाणस्वरूपविवेचन फलं)

सामान्यतो दृष्टादुभयसिद्धिः । १.१०३ ।
(सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं)

चिदवसानो भोगः । १.१०४ ।
(निर्दुष्टं प्रमास्वरूपं)

अकर्तुरपि फलोपभोगोऽन्नाद्यवत् । १.१०५ ।
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)

अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । १.१०६ ।
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)

नोभयं च तत्वाख्याने । १.१०७ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । १.१०८ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

सौक्ष्म्यात्तदनुपलरुब्धिः । १.१०९ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

कार्यदर्शनात्तदुपलब्धेः । १.११० ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । १.१११ ।
(सत्कार्यवाद निरूपणं), पू

तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । १.११२ ।
(सत्कार्यवाद निरूपणं), सि

त्रिविधविरोधापत्तेश्च । १.११३ ।
(सत्कार्यवाद निरूपणं)

नासदुत्पादो नृशृङ्गवत् । १.११४ ।
(असत्कार्यवादनिराकरणं)

उपादाननियमात् । १.११५ ।
(असत्कार्यवादनिराकरणं)

सर्वत्र सर्वदा सर्वासम्भवात् । १.११६ ।
(असत्कार्यवादनिराकरणं)

शक्तस्य शक्यकरणात् । १.११७ ।
(असत्कार्यवादनिराकरणं)

कारणभावाच्च । १.११८ ।
(असत्कार्यवादनिराकरणं)

न भावे भावयोगश्चेत् । १.११९ ।
(सतः कार्यत्वोपपत्तिः), पू

नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । १.१२० ।
(सतः कार्यत्वोपपत्तिः), सि

नाशः कारणलयः । १.१२१ ।
(नाशस्वरूपं)

पारम्पर्यतोऽन्वेषणा बीजाङ्कुरवत् । १.१२२ ।
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)

उत्पत्तिवददोषः । १.१२३ ।
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । १.१२४ ।
(कार्यस्वरूपं)

आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । १.१२५ ।
(कार्यस्वरूपं)

त्रिगुणाचेतनत्वादि द्वयोः । १.१२६ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)

प्रीत्यप्रीतिविषादाद्यैः गुणानामन्योन्यं वैधर्म्यं । १.१२७ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)

लध्वैदि धर्मैः साधर्म्यं च गुणानां । १.१२८ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)

उभयान्यत्वात्कार्यत्वं महदादेर्घटादिवत् । १.१२९ ।
(महदादेः कार्यत्वोपपत्तिः)

परिमाणात् । १.१३० ।
(महदादेः कार्यत्वोपपत्तिः)

समन्वयात् । १.१३१ ।
(महदादेः कार्यत्वोपपत्तिः)

शक्तितश्चेति । १.१३२ ।
(महदादेः कार्यत्वोपपत्तिः)

तद्धाने प्रकृतिः पुरुषो वा । १.१३३ ।
(महदादेः कार्यत्वोपपत्तिः)

तयोरन्यत्वे तुच्छत्वं । १.१३४ ।
(महदादेः कार्यत्वोपपत्तिः)

कार्यात्कारणानुमानं तत्साहित्यात् । १.१३५ ।
(कार्यैः कारणानुमानविधिः)

अव्यक्तं त्रिगुणाल्लिङ्गात् । १.१३६ ।
(कार्येभ्यः प्रकृतेः वैधर्म्यं)

तत्कार्यतस्तत्सिद्धेर्नापलापः । १.१३७ ।
(कार्येभ्यः प्रकृतेः वैधर्म्यं)

सामान्येन विवादाभावात्धर्मवन्न साधनं । १.१३८ ।
(पुरुषास्तित्व साधनं)

शरीरादिव्यतिरिक्तः पुमान् । १.१३९ ।
(पुरुषास्तित्व साधनं)

संहतपरार्थत्वात् । १.१४० ।
(पुरुषास्तित्व साधनं)

त्रिगुणादिविपर्ययात् । १.१४१ ।
(पुरुषास्तित्व साधनं)

अधिष्ठानाच्चेति । १.१४२ ।
(पुरुषास्तित्व साधनं)

भोतृभावात् । १.१४३ ।
(पुरुषास्तित्व साधनं)

कैवल्यार्थं प्रवृत्तेश्च । १.१४४ ।
(पुरुषास्तित्व साधनं)

जडप्रकाशायोगात्प्रकाशः । १.१४५ ।
(पुरुषस्य प्रकाशस्वरूपत्वं)

निर्गुणत्वान्नचिद्धर्मा । १.१४६ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)

श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । १.१४७ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)

सुषुप्त्याद्यसाक्षित्वं । १.१४८ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)

जन्मादुव्यवस्थातः पुरुषबहुत्वं । १.१४९ ।
(पुरुषबहुत्व साधनं)

उपाधिभेदेऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । १.१५० ।
(पुरुषबहुत्व साधनं)

उपाधिर्भिद्यते न तु तद्वान् । १.१५१ ।
(पुरुषबहुत्व साधनं)

एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । १.१५२ ।
(पुरुषबहुत्व साधनं)

अन्यधर्मत्वेऽपि नारोपात्तत्सिद्धिरेकत्वात् । १.१५३ ।
(पुरुषबहुत्व साधनं)

नाद्वैतश्रुतिविरोधो जातिपरत्वात् । १.१५४ ।
(आत्मैक्यवादोपपत्तिः)

विदितबन्धकारणस्य दृष्ट्यातद्रूपं । १.१५५ ।
(आत्मैक्यवादोपपत्तिः)

नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । १.१५६ ।
(आत्मैक्यवादोपपत्तिः)

वामदेवादिर्मुक्तो नाद्वैतं । १.१५७ ।
(आत्मैक्यवादोपपत्तिः)

अनादावद्यावदभावाद्भविष्यदप्येवं । १.१५८ ।
(आत्मैक्यवादोपपत्तिः)

इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । १.१५९ ।
(आत्मैक्यवादोपपत्तिः)

व्यावृत्तोभयरूपः । १.१६० ।
(आत्मनां सदैकरूपत्वं)

साक्षात्सम्बन्धात्साक्षित्वं । १.१६१ ।
(आत्मनां सदैकरूपत्वं)

नित्यमुक्तत्वं । १.१६२ ।
(आत्मनां सदैकरूपत्वं)

औदासीन्यं चेति । १.१६३ ।
(आत्मनां सदैकरूपत्वं)

उपरागात्कर्तृत्वं चित्सान्निध्यात्चित्सान्निध्यात् । १.१६४ ।
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः), प्रधानकार्य

——————————————————————-

द्वितीयोऽध्यायः

विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । २.१ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

विरक्तस्य तत्सिद्धेः । २.२ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । २.३ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

बहुभृत्यवद्वा प्रत्येकं । २.४ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । २.५ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

कार्यतस्तत्सिद्धेः । २.६ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

चेतनोद्देशान्नियमः कण्टकमोक्षवत् । २.७ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

अन्ययोगेऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । २.८ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

रागविरागयोः योगः सृष्टिश्च । २.९ ।
(सृष्टिं प्रति मुख्यं निमित्तकारणं)

महदादिक्रमेण पञ्चभूतानां । २.१० ।
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)

आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । २.११ ।
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)

दिक्कालावाकाशादिभ्यः । २.१२ ।
(दिक्कालयोः सृष्टिः)

अध्यवसायो बुद्धिः । २.१३ ।
(महत्तत्व स्वरूप कार्यादिः)

तत्कार्यं धर्मादि । २.१४ ।
(महत्तत्व स्वरूप कार्यादिः)

महदुपरागाद्विपरीतं । २.१५ ।
(महत्तत्व स्वरूप कार्यादिः)

अभिमानोऽहङ्कारः । २.१६ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)

एकादश पञ्चतन्मात्रं तत्कार्यं । २.१७ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)

सात्विकमेकादशकं प्रवर्तते वैकृतादहङ्कारात् । २.१८ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)

कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । २.१९ ।
(इन्द्रियाणां स्वरूपं)

आहङ्कारिकत्वश्रुतेः न भौतिकानि । २.२० ।
(इन्द्रियाणां स्वरूपं)

देवतालयश्रुतिर्नारम्भकस्य । २.२१ ।
(इन्द्रियाणां स्वरूपं)

तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । २.२२ ।
(इन्द्रियाणामनित्यता)

अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने । २.२३ ।
(गोलकानामेवेन्द्रियत्व निराकरणं)

शक्तिभेदेऽपि भेदसिद्धौ नैकत्वं । २.२४ ।
(एकेन्द्रियवादनिरासः)

न कल्पनाविरोधः प्रमाणदृष्टस्य । २.२५ ।
(एकेन्द्रियवादनिरासः)

उभयात्मकं च मनः । २.२६ ।
(मनसः ज्ञानकर्मोभयात्मकत्वं)

गुणपरिणामभेदान्नानात्वमवस्थावत् । २.२७ ।
(मनसः ज्ञानकर्मोभयात्मकत्वं)

रूपादिरसमलान्त उभयोः । २.२८ ।
(इन्द्रियाणां विषयाः)

द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । २.२९ ।
(इन्द्रियाणामात्मोकारकत्वं)

त्रयाणां स्वालक्षण्यं । २.३० ।
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः)

सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । २.३१ ।
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः)

क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः । २.३२ ।
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः)

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । २.३३ ।
(पञ्चविधाः धीवृत्तयः)

तन्निवृत्तावुपशान्तोपरागः स्वस्थः । २.३४ ।
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः)

कुसुमवच्च मणिः । २.३५ ।
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः)

पुरुषार्थं करणोद्भवोऽप्यदृष्टोल्लासात् । २.३६ ।
(इन्द्रियप्रवृत्त्युपाधिः)

धेनुवद्वत्साय । २.३७ ।
(इन्द्रियप्रवृत्त्युपाधिः)

करणं त्रयोदशाविधमवान्तरभेदात् । २.३८ ।
(करणानां त्रयोदशत्वं)

इन्द्रियेषु साधकतमत्वगुणयोगात्कुठारवत् । २.३९ ।
(करणानां त्रयोदशत्वं)

द्वयोः प्रधानं मनो लोकवत्भृत्यवर्गेषु । २.४० ।
(करणेषु गौणमुख्यभावव्यवस्था)

अव्यभिचारात् । २.४१ ।
(करणेषु गौणमुख्यभावव्यवस्था)

तथाशेषसंस्काराधारत्वात् । २.४२ ।
(करणेषु गौणमुख्यभावव्यवस्था)

स्मृत्यानुमानाच्च । २.४३ ।
(करणेषु गौणमुख्यभावव्यवस्था)

सम्भवेन्न स्वतः । २.४४ ।
(करणेषु गौणमुख्यभावव्यवस्था)

आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । २.४५ ।
(करणेषु गौणमुख्यभावव्यवस्था)

तत्कर्मार्जितत्वात्तदर्थमभिचेष्टा लोकवत् । २.४६ ।
(करणेषु गौणमुख्यभावव्यवस्था)

समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । २.४७ ।
(करणेषु गौणमुख्यभावव्यवस्था)

——————————————————————–

तृतीयोऽध्यायः

अविशेषात्विशेषारम्भः । ३.१ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)

तस्माच्छरीरस्य । ३.२ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)

तदीजात्संसृतिः । ३.३ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)

आविवेकाच्च प्रवर्तनमविशेषाणां । ३.४ ।
(संसृतेः विवेकपर्यन्तत्वं)

उपभोगादितरस्य । ३.५ ।
(संसृतेः विवेकपर्यन्तत्वं)

सम्प्रति परिमुक्तो द्वाभ्यां । ३.६ ।
(संसृतेः विवेकपर्यन्तत्वं)
मातापितृजं स्थूलं प्रायशः इतरन्न तथा । ३.७ ।
(स्थूलनदिनर शरीरयोः भेदः)

पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । ३.८ ।
(स्थूलनदिनर शरीरयोः भेदाः)

सप्तदशैकं लिङ्गं । ३.९ ।
(लिङ्गशरीरं तत्कार्यं च)

व्यक्तिभेदः कर्मविशेषात् । ३.१० ।
(लिङ्गशरीरं तत्कार्यं च)

तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । ३.११ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य)

न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । ३.१२ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)

मूर्तत्वेऽपि न सङ्घातयोगात्तरणिवत् । ३.१३ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)

अणुपरिमाणं तत्कृतिश्रुतेः । ३.१४ ।
(लिङ्गशरीरपरिमाणं)

तदन्नमयत्वश्रुतेश्च । ३.१५ ।
(लिङ्गशरीरपरिमाणं)

पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । ३.१६ ।
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं)

पाञ्चभौतिको देहः । ३.१७ ।
(स्थूलशरीरस्वरुपविषये मत भेदाः)

चातुर्भौतिकमित्येके । ३.१८ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

ऐकभौतिकमित्यपरे । ३.१९ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । ३.२० ।
(चैतन्यस्य भूतधर्मत्वा भावः)

प्रपञ्चमरणाद्यभावश्च । ३.२१ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

मदशक्तिवच्चेत्प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । ३.२२ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

ज्ञानान्मुक्तिः । ३.२३ ।
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)

बन्धो विपर्ययात् । ३.२४ ।
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)

नियतकारणत्वान्न समुच्चयविकल्पौ । ३.२५ ।
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)

स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । ३.२६ ।
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)

इतरस्यापि नात्यन्तिकं । ३.२७ ।
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)

सङ्कल्पितेऽप्येवं । ३.२८ ।
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)

भावनोपचयात्शुद्धस्य सर्वं प्रकृतिवत् । ३.२९ ।
(उपासनाफलं)

रागोपहतिः ध्यानं । ३.३० ।
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं)

वृत्तिनिरोधात्तत्सिद्धिः । ३.३१ ।
(ध्यानसिद्ध्युपायः)

धारणासनस्वकर्मणा तत्सिद्धिः । ३.३२ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

निरोधः छर्दिविधारणाभ्यां । ३.३३ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

स्थिरसुखमासनं । ३.३४ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । ३.३५ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

वैराग्यातभ्यासाच्च । ३.३६ ।
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः)

विपर्ययभेदाः पञ्च । ३.३७ ।
(बन्धहेतुविपर्ययविभागः)

अशक्तिरष्टविशतिधा तु । ३.३८ ।
(विपर्ययहेतूनामशक्तीनां भेदाः)

तुष्टिर्नवधा । ३.३९ ।
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)

सिद्धिरष्टधा । ३.४० ।
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)

अवान्तरभेदाः पूर्ववत् । ३.४१ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

एवमितरस्याः । ३.४२ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

आध्यत्मिकादि भेदात्नवधा तुष्टिः । ३.४३ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

ऊहादिभिः सिद्धिरष्टधा । ३.४४ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

नेतरादितरहानेन विना । ३.४५ ।
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः)

दैवादिप्रभेदा । ३.४६ ।
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)

आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । ३.४७ ।
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)

ऊर्ध्वं सत्वविशाला । ३.४८ ।
(गुणप्रभेदेन सृष्टिभेदाः)

तमोविशालामूलतः । ३.४९ ।
(गुणप्रभेदेन सृष्टिभेदाः)

मध्ये रजोविशाला । ३.५० ।
(गुणप्रभेदेन सृष्टिभेदाः)

कर्मवैचित्र्यात्प्रधानचेष्टा गर्भदासवत् । ३.५१ ।
(विचित्रसृष्टीनां निमित्तं)

आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । ३.५२ ।
(आमुक्ति सृष्टीनां हेयत्वं)

समानं जरामरणादिनं दुःखं । ३.५३ ।
(आमुक्ति सृष्टीनां हेयत्वं)

न कारणलयात्कृतकृत्यता मग्नवदुत्थानात् । ३.५४ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)

अकार्यत्वेऽपि तद्योगः पारवश्यात् । ३.५५ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)

स हि सर्ववित्सर्वकर्ता । ३.५६ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)

ईदृशेश्वरसिद्धिः सिद्धा । ३.५७ ।
(प्रकृतिलीनस्यैव जन्येश्वरत्वं)

प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वात् । ३.५८ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)

उष्ट्रकुङ्कुमवहनवत् । ३.५९ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)

अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य । ३.६० ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

कर्मवत्दृष्टेर्वा कालादेः । ३.६१ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

स्वभावाच्चेष्टितमनभिसन्धानात्भृत्यवत् । ३.६२ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

कर्माकृष्टेर्वानादितः । ३.६३ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

विविक्तबोधात्सृष्टिनिवृत्तिः प्रधानस्य सूदवत्पाके । ३.६४ ।
(सृष्टिनिवृत्तिहेतुः)

इतरैतरवत्तद्दोषात् । ३.६५ ।
(सृष्टिनिवृत्तिहेतुः)

द्वयोरेकतस्य वौदासीन्यमपवर्गः । ३.६६ ।
(सृष्टिनिवृत्तिहेतुः)

अन्यसृष्ट्युपरागेऽपि न विरज्य (म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । ३.६७ ।
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः)

कर्मनिमित्तयोगाच्च । ३.६८ ।
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः)

नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तं । ३.६९ ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)

नर्तकीवत्प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । ३.७० ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)

दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । ३.७१ ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)

नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । ३.७२ ।
(बन्धमोक्षयोः आत्मगतत्वाभावः)

प्रकृतेराञ्जस्यात्ससङ्गत्वात्पशुवत् । ३.७३ ।
(बन्धमोक्षयोः आत्मगतत्वाभावः)

रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । ३.७४ ।
(बन्धमोक्षनिमित्तानि)

निमित्तत्वमविवेकस्य न दृष्टहानिः । ३.७५ ।
(बन्धमोक्षनिमित्तानि)

तत्वाभ्यासान्नेति नेतीति त्यागात्विवेकसिद्धिः । ३.७६ ।
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)

अधिकारिप्रभेदान्न नियमः । ३.७७ ।
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)

बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः । ३.७८ ।
(विवेकविशेषस्यैव निस्तारोपायत्वं)

जीवन्मुक्तश्च । ३.७९ ।
(विवेकविशेषस्यैव निस्तारोपायत्वं)

उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । ३.८० ।
(जीवन्मुक्तिसाधनं)

श्रुतिश्च । ३.८१ ।
(जीवन्मुक्तिसाधनं)

इतरथा अन्धपरम्परा । ३.८२ ।
(जीवन्मुक्तिसाधनं)

चक्रभ्रमणवत्धृतशरीरः । ३.८३ ।
(जीवन्मुक्तिसाधनं)

संस्कारलेशतः तत्सिद्धिः । ३.८४ ।
(जीवन्मुक्तिसाधनं)

विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । ३.८५ ।
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)

———————————————————————

चतुर्थोऽध्यायः

आख्यायिका

राजपुत्रवत्तत्वोपदेशात् । ४.१ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)

पिशाचवदन्यार्थोपदेशेऽपि । ४.२ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)

आवृत्तिरसकृदुपदेशात् । ४.३ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)

पितापुत्रवदुभयोर्दृष्टत्वात् । ४.४ ।
(क्वचिदनुमानात्देहस्य भङ्गुरताज्ञानोपपत्तिः)

श्येनवत्सुखदुःखी त्याग वियोगाभ्यां । ४.५ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

अहिनिर्ल्वयिनीवत् । ४.६ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः)

छिन्नहस्तवद्वा । ४.७ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

असाधनानुचिन्तनं बन्धाय भरतवत् । ४.८ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण (शङ्ख) वत् । ४.९ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

द्वाभ्यामपि तथैव । ४.१० ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

निराशः सुखी पिङ्गलावत् । ४.११ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

अनारम्भेऽपि परगृहे सुखी सर्पवत् । ४.१२ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

बहुशास्त्र गुरूपासनेऽपि सारादानं षट्पदवत् । ४.१३ ।
(सारग्रहणावश्यकता)

इषुकारवन्नैकचित्तस्य समाधिहानिः । ४.१४ ।
(एकाग्रतावश्यकता)

कृतनियमलङ्घनादानर्थक्यं लोकवत् । ४.१५ ।
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता)

तद्विस्मरणेऽपि भेकीवत् । ४.१६ ।
(शास्त्रविहितनियमस्मरणावश्यकता)

नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । ४.१७ ।
(श्रुतार्थमननावश्यकता)

दृष्टस्तयोरिन्द्रस्य । ४.१८ ।
(श्रुतार्थमननावश्यकता)

प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात्तद्वत् । ४.१९ ।
(गुरुसेवा)

न कालनियमो वामदेववत् । ४.२० ।
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)

अध्यस्तरूपोपासनात्पारम्पर्येण यज्ञोपासकानामिव । ४.२१ ।
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)

इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । ४.२२ ।
(पुनरावृत्तिहेतुभूतान्युपासनानि)

विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । ४.२३ ।
(ज्ञाननिष्पत्त्यधिकारः)

लब्धातिशययोगाद्वा तद्वत् । ४.२४ ।
(ज्ञाननिष्पत्त्यधिकारः)

न कामचारित्वं रागोपहते शुकवत् । ४.२५ ।
(रागदोषाः तच्छमनोपायाश्च)

गुणयोगात्बद्धः शुकवत् । ४.२६ ।
(रागदोषाः तच्छमनोपायाश्च)

न भोगाद्रागशान्तिः मुनिवत् । ४.२७ ।
(रागदोषाः तच्छमनोपायाश्च)

दोषदर्शनादुभयोः । ४.२८ ।
(रागदोषाः तच्छमनोपायाश्च)

न मलिनचेतस्युपदेश बीजप्ररोहोऽजवत् । ४.२९ ।
(रागदोषाः तच्छमनोपायाश्च)

नाभासमात्रमपि मलिनदर्पणवत् । ४.३० ।
(रागदोषाः तच्छमनोपायाश्च)

न तज्जस्यापि तद्रपता पङ्कजवत् । ४.३१ ।
(रागदोषाः तच्छमनोपायाश्च)

न भूतियोगेऽपि कृतकृत्यता उपास्यसिद्धिवतुपास्यसिद्धिवत् । ४.३२ ।
(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)

———————————————————————-

पञ्चमोऽध्यायः

परमतनिर्जयः
मङ्गलाचरणं शिष्टाचारात्फलदर्शनात्श्रुतितश्चेति । ५.१ ।
(मङ्गलाचरणप्रयोजनं)

नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । ५.२ ।
(ईश्वरस्य फलदातृत्वाभवः)

स्वोपकारादधिष्ठानं लोकवत् । ५.३ ।
(ईश्वरस्य फलदातृत्वाभवः)

लौकिकेश्वरवदितरथा । ५.४ ।
(ईश्वरस्य फलदातृत्वाभवः)

पारिभाषिको वा । ५.५ ।
(ईश्वरस्य फलदातृत्वाभवः)

न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । ५.६ ।
(ईश्वरस्य फलदातृत्वाभवः)

तद्योगेऽपि न नित्यमुक्तः । ५.७ ।
(ईश्वरस्य फलदातृत्वाभवः)

प्रधानशक्तियोगाच्चेत्सङ्गापत्तिः । ५.८ ।
(ईश्वरस्य फलदातृवाभवः)

सत्तामात्राच्चेत्सर्वैश्वर्यं । ५.९ ।
(ईश्वरस्य फलदातृत्वाभवः)

प्रमाणाभावान्न तत्सिद्धिः । ५.१० ।
(ईश्वरे प्रमाणाभावः)

सम्बन्धाभावान्नानुमानं । ५.११ ।
(ईश्वरे प्रमाणाभावः)

श्रुतिरपि प्रधानकार्यत्वस्य । ५.१२ ।
(ईश्वरे प्रमाणाभावः)

नाविद्याशक्तियोगो निस्सङ्गस्य । ५.१३ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । ५.१४ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

न बीजाङ्कुरवत्सादिसंसारश्रुतेः । ५.१५ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः । ५.१६ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

अबाधे नैष्फल्यं । ५.१७ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

विद्याबाध्यत्वे जगतोऽप्येवं । ५.१८ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

तद्रूपत्वे सादित्वं । ५.१९ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । ५.२० ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

श्रुतिलिङ्गादिभिः तत्सिद्धिः । ५.२१ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

न नियमः प्रमाणान्तरावकाशात् । ५.२२ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

उभयत्राप्येवं । ५.२३ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

अर्थात्सिद्धिश्चेत्समानमुभयोः । ५.२४ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

अन्तः करणधर्मत्वं धर्मादीनां । ५.२५ ।
(धर्माधर्मयोः अन्तः करणधर्मत्वं)

गुणादीनां च नात्यन्तबाधः । ५.२६ ।
(सत्वादिगुणतद्धर्माणामत्यन्त निषेधस्यायुक्तता)

पञ्चावयवयोगात्सुखसंवित्तिः । ५.२७ ।
(सत्वादिगुणतद्धर्माणामत्यन्त निषेधस्यायुक्तता)

न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । ५.२८ ।
(व्याप्तिस्वरूपं तत्साधनं च), पू

नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । ५.२९ ।
(व्याप्तिस्वरूपं तत्साधनं च), सि

न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । ५.३० ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

निजशक्त्युद्भवमित्याचार्याः । ५.३१ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

आधेयशक्तियोग इति पञ्चशिखः । ५.३२ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । ५.३३ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

विशेषेणानर्थक्य प्रसक्तेः । ५.३४ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

पल्लवादिष्वनुपपत्तेश्च । ५.३५ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । ५.३६ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । ५.३७ ।
(शब्दप्रामाण्यसाधनं)

त्रिभिस्साम्बन्धसिद्धिः । ५.३८ ।
(लोकवेदयोः शक्तिग्रहणोपायाः)

न कार्ये नियमः उभयथा दर्शनात् । ५.३९ ।
(लोकवेदयोः शक्तिग्रहणोपायाः)

लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । ५.४० ।
(लोकवेदयोः शक्तिग्रहणोपायाः)

न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । ५.४१ ।
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू

न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । ५.४२ ।
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि

निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । ५.४३ ।
(वैदिकशब्दशक्तिग्रहव्यवस्था)

योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । ५.४४ ।
(वैदिकशब्दशक्तिग्रहव्यवस्था)

न नित्यत्वं वेदानां कार्यत्वश्रुतेः । ५.४५ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । ५.४६ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

मुक्तामुक्तयोरयोग्यत्वात् । ५.४७ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । ५.४८ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । ५.४९ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

यस्मिनदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । ५.५० ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । ५.५१ ।
(वेदानां स्वतः प्रामाण्यं)

नासतः ख्यानं नृशृङ्गवत् । ५.५२ ।
(गुणानां नात्यन्तासत्त्वमनिर्वचनीयत्वं वा)

न सतो बाधदर्नात् । ५.५३ ।
(गुणानां नात्यन्तासत्त्वमनिर्वचनीयत्वं वा)

नानिर्वचनीयस्य तदभावात् । ५.५४ ।
(गुणानां नात्यन्तासत्त्वमनिर्वचनीयत्वं वा)

नान्यथाख्यातिः स्ववचोव्याघातात् । ५.५५ ।
(अन्यथाख्यातिनिरासः)

सदसत्ख्यातिः बाधाबाधात् । ५.५६ ।
(सदसत्ख्याति निरासः)

प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । ५.५७ ।
(स्फोटनिरासः)

न शब्दनित्यत्वं कार्यताप्रतीतेः । ५.५८ ।
(वर्णनित्यत्वनिरासः)

पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । ५.५९ ।
(वर्णनित्यत्वनिरासः), पू

सत्कार्यसिद्धान्तश्चेत्सिद्धसाधनं । ५.६० ।
(वर्णनित्यत्वनिरासः), सि

नाद्वैतमात्मनो लिङ्गात्तद्भेदप्रतीतेः । ५.६१ ।
(आत्माद्वैत निरासः)

नानात्मापि प्रत्यक्षबाधात् । ५.६२ ।
(आत्माद्वैत निरासः)

नोभाभ्यां तेनैव । ५.६३ ।
(आत्माद्वैत निरासः)

अन्यपरत्वमविवेकानां तत्र । ५.६४ ।
(आत्माद्वैतनिरासः)

नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । ५.६५ ।
(आत्माद्वैतनिरासः)

नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । ५.६६ ।
(आत्माद्वैतनिरासः)

दुःखनिवृत्तेर्गौणः । ५.६७ ।
(आत्माद्वैतनिरासः)

विमुक्तिप्रशंसा मन्दानां । ५.६८ ।
(आत्माद्वैतनिरासः)

न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । ५.६९ ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)

सक्रियत्वात्गतिश्रुतेः । ५.७० ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)

न निर्भागत्वं तद्योगात्घटवत् । ५.७१ ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)

प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । ५.७२ ।
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)

न भागलाभो भागिनो निर्भागत्वश्रुतेः । ५.७३ ।
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)

नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । ५.७४ ।
(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः)

न विशेषगुणोच्छित्तिस्तद्वत् । ५.७५ ।
(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः)

न विशेषगतिः निष्क्रियस्य । ५.७६ ।
(मुक्तेः लोकान्तरगतिरूपत्वाभावः)

नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । ५.७७ ।
(मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः)

न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । ५.७८ ।
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)

एवं शून्यमपि । ५.७९ ।
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)

संयोगाश्च विभागान्ता इति न देशादिलाभोऽपि । ५.८० ।
(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः)

न भागियोगो भागस्य । ५.८१ ।
(मुक्तेः लयरूपत्वाभावः)

नाणिमादियोगोऽप्यवश्यंभावित्वात्तदुच्छित्तेरितरयोगवत् । ५.८२ ।
(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः)

नेन्द्रादिपदयोगोऽपि तद्वत् । ५.८३ ।
(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः)

न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । ५.८४ ।
(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः)

न षट्पदार्थनियमस्तद्बोधान्मुक्तिः । ५.८५ ।
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)

षोडशादिष्वप्येवं । ५.८६ ।
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)

नाणुनित्यता तत्कार्यत्वश्रुतेः । ५.८७ ।
(अणूनां नित्यत्वनिरासः)

न निर्भागत्वं कार्यत्वात् । ५.८८ ।
(अणूनां नित्यत्वनिरासः)

न रूपनिबन्धनात्प्रत्यक्षनियमः । ५.८९ ।
(परिमाणस्वरूपादि निर्णयः)

न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । ५.९० ।
(सामान्यसाधनं, तत्स्वरूपं च)

अनित्यत्वेऽपि स्थिरतायोगात्प्रत्यभिज्ञानं सामान्यस्य । ५.९१ ।
(सामान्यसाधनं, तत्स्वरूपं च)

न तदपलापस्तस्मात् । ५.९२ ।
(सामान्यसाधनं, तत्स्वरूपं च)

नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । ५.९३ ।
(साहश्यस्य तत्त्वान्तरता निराकरणं)

न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । ५.९४ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । ५.९५ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

न संज्ञासंज्ञि सम्बन्धोऽपि । ५.९६ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

न सम्बन्धनित्यतोभयानित्यत्वात् । ५.९७ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । ५.९८ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

न समवायोऽस्ति प्रमाणाभावात् । ५.९९ ।
(समवाय निरासः)

उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । ५.१०० ।
(समवायनिरासः)

नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । ५.१०१ ।
(क्रियायाः अनुमेयतानैयत्यनिरासः)

न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । ५.१०२ ।
(शरीरस्य पाञ्चभौतिकत्वनिरासः)

न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । ५.१०३ ।
(शरीरसामान्यस्य स्थूलत्वनिरासः)

नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्राप्तेः सर्वप्राप्तेर्वा । ५.१०४ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)

न तेजोऽपसर्पणात्तैजस चक्षुः वृत्तितस्तत्सिद्धेः । ५.१०५ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)

प्राप्तर्थप्रकाशलिङ्गात्वृत्तिसिद्धिः । ५.१०६ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)

भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । ५.१०७ ।
(वृत्तेः स्वरूपं)

न द्रव्यनियमस्तद्योगात् । ५.१०८ ।
(वृत्तेः स्वरूपं)

न देशभेदेऽप्यन्योपादानतास्मदादिवन्नियमः । ५.१०९ ।
(इन्द्रियाणामभौतिकत्वं)

निमित्तव्यपदेशात्तदव्यपदेशः । ५.११० ।
(इन्द्रियाणामभौतिकत्वं)

ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । ५.१११ ।
(स्थूलशरीरविशेषाः)

सर्वेषु पृथिव्युपादानमसाधारण्यात्तद्व्यपदेशः पूर्ववत् । ५.११२ ।
(स्थूलशरीरविशेषाः)

न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । ५.११३ ।
(प्रणस्य देहारम्भकत्वाभावः)

भोक्तुराधिष्ठानात्भोगायतननिर्माणमन्यथा पूतिभावप्रसङ्गात् । ५.११४ ।
(देहाधिष्ठातृ निर्णयः)

भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । ५.११५ ।
(देहाधिष्ठातृ निर्णयः)

समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । ५.११६ ।
(आत्मनो नित्यमुक्तत्वोपपादनं)

द्वयोः सबीजमन्यत्र तद्धतिः । ५.११७ ।
(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः)

द्वयोरिव त्रयस्यापि दृष्टत्वात्न तु द्वौ । ५.११८ ।
(मोक्षे प्रमाणं)

वासनया न स्वार्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वं । ५.११९ ।
(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं)

एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । ५.१२० ।
(जीवन्मुक्तेऽपि संस्कारानुवृत्तिः)

न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । ५.१२१ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)

स्मृतेश्च । ५.१२२ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)

न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । ५.१२३ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)

त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । ५.१२४ ।
(देहेषु चातुर्विध्यं)

न किञ्चिदप्यनुशयिनः । ५.१२५ ।
(देहेषु चातुर्विध्यं)

न बुद्ध्यादिनित्यत्वमाश्रयाविशेषेऽपि वह्निवत् । ५.१२६ ।
(बुद्धीच्छादीनां नित्यतानिरासः)

आश्रयासिद्धेश्च । ५.१२७ ।
(बुद्धीच्छादीनां नित्यतानिरासः)

योगसिद्धयोऽप्यौषधादिसिद्विवन्नापलापनीयाः । ५.१२८ ।
(सिद्धीनां सत्यता)

न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च । ५.१२९ ।
(भूतचैतन्यवाद निरासः)

———————————————————————————-

तन्त्राध्यायः

अस्त्यात्मा नास्तित्वसाधनाभावात् । ६.१ ।
(आत्मास्तित्व निरूपणं)

देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् । ६.२ ।
(आत्मास्तित्व निरूपणं)

षष्ठीव्यपदेशादपि । ६.३ ।
(आत्मास्तित्व निरूपणं)

न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । ६.४ ।
(आत्मास्तित्व निरूपणं)

अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । ६.५ ।
(आत्मनः कृतकृत्यतानिमित्तं)

यथा दुःखात्क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । ६.६ ।
(आत्मनः कृतकृत्यतानिमित्तं)

कुत्रापि कोऽपि सुखीति । ६.७ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)

तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । ६.८ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)

सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । ६.९ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)

निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः । ६.१० ।
(गुणबन्धस्यैव अविवेकमूलत्वं), पू

परमधर्मत्वेऽपि तत्सिद्धिरविवेकात् । ६.११ ।
(गुणबन्धस्यैव अविवेकमूलत्वं), सि

अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । ६.१२ ।
(अविवेकस्यानादित्वं)

न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । ६.१३ ।
(अविवेकस्यानादित्वं)

प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । ६.१४ ।
(मुक्तिकारणविवरणं)

अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् । ६.१५ ।
(मुक्तिकारणविवरणं)

प्रकारान्तरासम्भवादविवेक एव बन्धः । ६.१६ ।
(बन्धस्वरूपं)

न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्ति श्रुतेः । ६.१७ ।
(मुक्तेर्नित्यत्वं)

अपुरुषार्थत्वमन्यथा । ६.१८ ।
(मुक्तेर्नित्यत्वं)

अविशेषापत्तिरुभयोः । ६.१९ ।
(मुक्तेर्नित्यत्वं)

मुक्तिरन्तराय ध्वस्तेर्न परः । ६.२० ।
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)

तत्राप्यविरोधः । ६.२१ ।
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)

अधिकारित्रैविध्यान्न नियमः । ६.२२ ।
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः)

दार्ढ्यार्थमुत्तरेषां । ६.२३ ।
(नियमानामावश्यकता)

स्थिरसुखमासनमिति न नियमः । ६.२४ ।
(नियमानामावश्यकता)

ध्यानं निर्विषयं मनः । ६.२५ ।
(ध्यानस्वरूपं)

उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । ६.२६ ।
(योगस्यावश्कता)

निस्सङ्गेऽप्युपरागोऽविवेकात् । ६.२७ ।
(उपरागहेतुः)

जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । ६.२८ ।
(उपरागहेतुः)

ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । ६.२९ ।
(उपराग निरोधहेतुः)

लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । ६.३० ।
(उपराग निरोधहेतुः)

न स्थाननियमः चित्तप्रसादात् । ६.३१ ।
(उपराग निरोधहेतुः)

प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । ६.३२ ।
(प्रकृतेरेव जगन्मूलता)

नित्यत्वेऽपि नात्मनो योग्यत्वाभावात् । ६.३३ ।
(प्रकृतेरेव जगन्मूलता)

श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । ६.३४ ।
(प्रकृतेरेव जगन्मूलता)

पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत् । ६.३५ ।
(प्रकृतेरेव जगन्मूलता)

सर्वत्र कार्यदर्शनात्विभुत्वं । ६.३६ ।
(प्रकृतेरेव जगन्मूलता)

गतियोगेऽप्याद्यकारणताहानिरणुवत् । ६.३७ ।
(प्रकृतेरेव जगन्मूलता)

प्रसिद्धाधिक्यं प्रधानस्य न नियमः । ६.३८ ।
(प्रकृतेरेव जगन्मूलता)

सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । ६.३९ ।
(प्रकृतेः गुणरूपतासाधनं)

अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । ६.४० ।
(प्रधानप्रवृत्तिहेतुः)

कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । ६.४१ ।
(प्रधानप्रवृत्तिहेतुः)

साम्यवैषम्याभ्यां कार्यद्वयं । ६.४२ ।
(सृष्टिप्रलनिमित्ते)

विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । ६.४३ ।
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)

नान्योपसर्पणेऽपि मुक्तोपभोगः निमित्ताभावात् । ६.४४ ।
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)

पुरुषबहुत्वं व्यवस्थातः । ६.४५ ।
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)

उपाधिश्चेत्तत्सिद्धौ पुनर्द्वैतं । ६.४६ ।
(उपाधिभेदात्बन्धमोक्षव्यवस्थाभावः)

द्वाभ्यामपि प्रमाणविरोधः । ६.४७ ।
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः)

द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । ६.४८ ।
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः)

प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । ६.४९ ।
(आत्मनः प्रकाशस्वरूपत्वे दोषः)

जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । ६.५० ।
(आत्मनः प्रकाशस्वरूपत्वे दोषः)

न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । ६.५१ ।
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं)

जगत्सत्यत्वमदुष्टकरणजन्यत्वं बाधकाभावात् । ६.५२ ।
(जगत्सत्यत्वसाधनं)

प्रकारान्तरासंभवात्सदुत्पत्तिः । ६.५३ ।
(सत्कार्यवादस्यैव साधुता)

अहङ्कारः कर्ता न पुरुषः । ६.५४ ।
(अहङ्कारस्यैव कर्तृत्वं)

चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । ६.५५ ।
(भोगोपाधिः)

चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । ६.५६ ।
(पुनरावृत्तिहेतुः)

लोकस्य नोपदेशात्सिद्धिः पूर्ववत् । ६.५७ ।
(पुनरावृत्तिहेतुः)

पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । ६.५८ ।
(पुनरावृत्तिहेतुः)

गतिश्रुतेश्च व्यापकत्वेऽपि उपाधियोगात्भोगदेशकाललाभः व्योमवत् । ६.५९ ।
(आत्मनो गतिश्रुत्युपपत्तिः)

अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । ६.६० ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)

अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । ६.६१ ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)

निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । ६.६२ ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)

विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । ६.६३ ।
(जीवत्वोपाधिः)

अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । ६.६४ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)

अदृष्टोद्भूतिवत्समानत्वं । ६.६५ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)

महतोऽन्यत् । ६.६६ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)

कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादिः बीजाङ्कुरवत् । ६.६७ ।
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं)

अविवेकनिमित्तो वा पञ्चशिखः । ६.६८ ।
(तत्रैव मतभेदः)

लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । ६.६९ ।
(पुरुषार्थस्वरूपनिगमनं)

तत्त्वसमाससूत्राणि । ६.७० ।
(कपिलमहर्षिप्रणीतानि)

______________________________________________________

तत्त्वपादः

अथातस्तत्त्वसमासः । २.१.१ ।
अष्टौ प्रकृतयः । २.१.२ ।
षोडश विकाराः । २.१.३ ।
पुरुषः । २.१.४ ।
त्रैगुण्यं । २.१.५ ।
सञ्चरः । २.१.६ ।
प्रतिसञ्चरः । २.१.७ ।
अध्यात्मं । २.१.८ ।
अधिभूतं । २.१.९ ।
अधिदैवतं । २.१.१० ।

प्रकीर्णपादः

पञ्चाभिबुद्धयः । २.२.१ ।
पञ्च कर्मयोनयः । २.२.२ ।
अञ्च वायवः । २.२.३ ।
पञ्च कर्मात्मानः । २.२.४ ।
पञ्चपर्वाविद्या । २.२.५ ।
अष्टाविंशतिधाशक्तिः । २.२.६ ।
नवधा तुष्टिः । २.२.७ ।
अष्टधा सिद्धिः । २.२.८ ।
दशमूलिकार्थाः । २.२.९ ।
अनुग्रहः सर्गः । २.२.१० ।
चतुर्दशविधो भूतसर्गः । २.२.११ ।
त्रिविधो बन्धः । २.२.१२ ।
त्रिविधो मोक्षः । २.२.१३ ।
त्रिविधं प्रमाणं । २.२.१४ ।
त्रिविधं दुःखं । २.२.१५ ।
एतत्परं याथातथ्यं । २.२.१६ ।
एतत्ज्ञात्वा कृतकृत्यः स्यात् । २.२.१७ ।
नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । २.२.१८ ।\Z

]