[[साङ्ख्यदर्शनम् साङ्ख्यप्रवचनभाष्यसहितम् Source: EB]]
[
THE
KASHI-SANSKRIT- SERIES
( HARIDAS SANSKRIT GRANTHAMALA)
NO.67
( SANKHYA SECTION, NO.I)
** THE
सांख्यदर्शन
WITH
सांख्य प्रवचन भाष्य**
** BY
श्री विज्ञान भिक्षु**
** EDITED BY
पण्डित् धुण्धिराज शास्त्री
न्यायोपाध्याय & काव्यतीर्थ,**
** HEAD PANDIT OF
NITYANAND VEDAVIDYALAYA, D.A.V.
HIGH SCHOOL, BENARES**
************************
** हरिदाससंस्कृतग्रन्थमालासमाख्य-
काशीसंस्कृतसीरिजपुस्तकमालायाः**
** 67
सांख्यविभागो(1) प्रथमं पुष्पम्।**
** सांख्यदर्शनम्।
श्रीमद्विज्ञानभिक्षुकृतसांख्यप्रवचनभाष्य-
समलङ्कृतम्।**
** तर्कतीर्थोपाधिविभूषित बटुकनाशशास्त्रिण आत्मजेन न्यायो-
पाध्याय–काव्यतीर्थ पं
ढुण्ढिराजशास्त्रिणा
संशोधितम्।**
** ************************************************************************
** भूमिका।**
अथेदं प्रकाश्यते मुद्रयित्वा साङ्ख्यदर्शनं सप्रवचनभाष्यम्। न चैवं भ्रमितव्यम्--कस्यामपि विद्यायामस्य दर्शनस्याऽऽख्याया अनुपलब्ध्या विद्यात्वस्यैवासम्भवात्कथं शास्त्रत्वसम्भव--इति ।
अङ्गानि वेदश्चात्वारो मामांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥ (मनुस्मृ0)
पुराणन्यायमीमांसा--धर्मशास्त्राङ्गमिश्चिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥ (याज्ञ 0 स्मृ0)
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति च त्रयम्।
अर्थशात्रं चतुर्थन्तु विद्या ह्यष्टादशैव ताः॥ (विष्णुपुराण)
इत्युक्तासु चतुर्दशसु अषाटादशसु वा विद्यास्वनेकात्मप्रतिपादकत्वसाम्यान्न्यायशास्त्रवद्वैशेषिकसाङ्ख्ययोगादिशास्त्राणामपि न्यायविस्तरपदेन संगृहीतत्वाद्भवत्येवोक्तविधाविद्यान्तर्गतशास्त्रत्वमिति । अत एव च छान्दोग्योपनिषदुक्तिः– ‘तद्वैतद्धोर आङ्गिरसः कृष्णाय देवकी पुत्रायोक्त्वोवाच इति,–
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥
तत्कारणं साङ्ख्ययोगाधिगम्यम्।
इत्यादीनि भगवद्गीतावाक्यानि च सङ्गच्छन्ते. न च तदानीं कापिलं साङ्ख्यशास्त्रं नातीदिति वाच्यम्। तत्रैवोपनिषदि ( 5 अध्यायेः) ‘ऋषि प्रसूतं कपिलं यस्तमग्रे’ गीतायां च ( 10 अ0) ‘सिद्धानां कपिलो मुनिः’ इत्याद्युक्त्या कापिलस्यैव साङ्ख्यशास्त्रस्य श्रद्धेयत्वेन सर्वसम्मतत्वात्। समाससूत्रस्य समस्ततत्त्वानां सकलषष्ठितन्त्रार्थानां च सूचकत्वात् सकलसाङ्ख्यतीर्थमूलत्वं तीर्थान्तरणि चैतत्प्रपञ्चभूतान्येवेति वृद्धाः।
लुप्तप्रचारोपि–
समाससूत्रमालम्ब्य व्याख्यां पञ्चशिखस्य च ।
भावागणेशः कुरुते तत्त्वयाथार्थ्यदीपनम्॥
इत्युक्त्या महर्षिप्रवरकपिलप्रशिष्यपञ्चशिखाचार्यानुसृतोऽयं
समाससूत्रग्रन्थः बहुभिर्व्याख्यानैः समलङ्कृतश्चौखम्बासंस्कृतपुस्तकमालायां सांख्यसंग्रहेऽस्माभिः संशोध्य मुद्रापितः। केचित्तु समाससूत्रमेव महर्षिकपिलप्रकणीतं सांख्यशास्त्र, षडध्यायी तु विज्ञानभिक्षुप्रणीतैवेति वदन्ति। तदसत्। विज्ञानभिक्षुसमयाद्बहुपार्वं भोजराजेन षड्ध्याय्या व्याख्यातत्वात्।
द्वितीयन्तु षड्ध्याय्यात्मकं सांख्यशास्त्रं सर्वत्र पठनपाठनादौ प्रवचनभाष्यसमेतमेव विशेषतस्समुलब्धप्रचारमिति मत्वा वारणसेय चौखम्बासंस्कृतपुस्तकमालायां पं0 रत्नगोपालभट्टद्वारा संशोध्य तदध्यक्षैः प्राग्प्रकाशितमभूत । अवासिते च प्रथमसंस्कारणेऽहं द्वितीयसंस्कारणशोधनार्थमुक्तपुस्तकमालाध्यक्षैः श्रेष्ठिकुलावतंसबाबूजकृष्णदासगुप्तमहोदयैः प्रोत्याहितस्तत्कार्ये प्रावर्तिषम्। स्थलविशेषषुविज्ञानभिक्षोर्लेखस्य दुरवगाहत्वान्मादृशां मन्दमतीनान्तत्संशोधनस्य काठिन्येपि गुरुकृपया कथञ्चिदकार्षम्।
विज्ञानभिक्षोर्यत्पाण्डित्यं तत्तेषां गभीरार्थवाग्वैभवप्रदर्शनेनैवानुभाविष्यते दार्शनिकैर्वि द्वाद्भिः। तेनात्र प्रवचनभाष्ये प्राचीनार्वाचीनदार्शनिकमतान्यनुभवता सांख्यवेदान्तयोर्विरोधं परिहृत्य तयोरैक्यं व्यञ्जयतेदं वेदान्तदर्शनस्यैवैकं रूपमाकारो वेति प्रदर्शितमिति नाव्यक्तं सांख्यप्रवचनभाष्यरहस्यवेतृणाम्। अनेन सांख्यसारनामा सांख्यशास्त्रार्थसंक्षिप्तसारभूतो ह्यको निबन्धोपि विरचितः। येनैतच्छास्त्रपरिभाषाः सिद्धान्ताश्च सरलतयाऽस्मिन् शास्त्रे प्रविविक्षुमिर्ज्ञायन्ते । स चायं विद्वद्वरेण्यो ई0 सप्तदशशताद्व्यां शोडषशताद्व्यां वा बभूवेति इतिहासविज्ञानं प्राच्यविदुषां मतम् ।
अस्मिंश्च षड्ध्याय्यात्मके सांख्यदर्शने सूत्रकारेण प्रथमे विषयाध्याये आत्यन्तिकदुःखनिवृत्तिरूपपरमपुरुषार्थस्यादौ विवेचनं कृत्वा तदुपयोगित्वात् बन्धहेतुपरीक्षां विधायाविवेकोच्छेदहेत्वादि निरूपितम्। ततश्च प्रासङ्गिक सांख्याभिमतप्रमेयभूतप्रकृत्याद्यनुमानं प्रदर्श्योपादानानिरूपणान्ते प्रासङ्गिक पुनरपि मोक्षविवेचनं कृतम्। अथ प्रमेयसिध्यङ्गं प्रमाणवर्णनं विधाय सांख्यसिद्धान्तमूलसत्कार्यवादस्थापनपूर्वकं पुरुषस्य भोक्तृत्वं विवेचितम्। एवं चात्राध्याये नव प्रकारणानि सङ्गृहीतानि।
द्वितीये प्रकरणत्रयात्मके प्रधानकार्याध्याये सृष्टिप्रयोजनवर्णन दर्शयित्वा सृष्टिप्रक्रिया स्वसिद्धान्तानुसारिणी स्फुटीकृताऽन्ते चेन्द्रियाणां भोतिकत्वं निरस्तम्।
तृतीय वैराग्याध्याये महाभूतवर्णनं स्थूलसूक्ष्मभेदेन द्विविधशरीराणामुपादानवर्णनं च विधाय तद्द्वायत्संसृतिं व्यवस्थाप्य तयोर्विशेषः समर्थितः. ततः सामान्यतो विशेषतश्च मुक्तिसाधनविवेचनपूर्वकं बन्धहेतुविपर्ययस्य तत्कारणाशक्त्यादीनां च स्वरूपमुक्तम्। पश्चाच्च कर्मविशेषाद्व्यक्तिभेदानुसारिणी दैवादिप्रभोदा व्याष्टिसृष्टिः प्रपञ्चिता। परमप्रयोजनसमाप्तौ स्वत एव प्रधाननिवृत्त्या मोक्षसिद्धिरिति वक्तुं सृष्टिनिवृत्तिकरणनिरूपणान्ते विवेकसिध्युपायाश्च वर्णिताः।
चतुर्थे आख्यायिकाध्याये विवेकज्ञानसाधनवर्णनात्मकमेकमेव प्रकरणम्। तत्र च तत्त्वोपदेशादिभिर्विवेकादीनामुत्पत्तौ हृदयग्राहिण्यो राजपुत्रादीनामाख्यायिका अध्यायसमाप्तिपर्यन्तामुक्ताः।
पञ्चमे परपक्षनिर्जयाध्याये मङ्गलाक्षेपं समाधाय कर्मफलदातृतयेश्वरं मन्यमानानां मतं खण्डयित्वाऽविद्यातो बन्धमंगीकुर्वतां वेदान्तिनां सिद्धान्तो दूषितः। ततश्च धर्माधर्मयोः सिद्धिम्प्रमाणयित्वा शब्दप्रामाण्ये परेषां बाधकं निरस्य वेदानां नित्यत्वं खण्डितम्। अत्र च मध्ये एव सुखादिसिद्धिम विधाय प्रसङ्गातशब्दविचारे वैचाकरणाभिमतस्फोटवादं निरस्य शब्दस्यानित्यत्वं व्यवस्थापितम्। ततशचात्माद्वैतनिरासपूर्वकं मनसो विभुत्वावादिनां मतं खण्डितं नवमे प्रकरणे। अथ मतान्तराभिमतपदार्थखण्डनं
कृत्वा पुनरपि द्वितीयाध्यायोक्तशरीरप्रकारणस्याविशिष्टांशो विशेषो विवेचितः। द्वादशे प्रकरणे तृतीयाध्यायोक्तानामिन्द्रियाणामप्राप्तकारित्वं निरस्तम्। ततः शरीरारम्भक विचारं कृत्वा मध्ये प्रासङ्गिकीं नित्यमुक्तिमुपपाद्योद्भिज्जशरीरं व्यवस्थाप्य नैयायिकाभिमतज्ञानेच्छादिनित्यत्वनिरासाय पुनरप्यन्ते ईश्वरासिद्धिः समर्थिता। एवं चात्र शोडष प्रकरणानि सङ्गृहीतानि ।
षष्टे तन्त्राध्याये सारभूतशास्त्रार्थस्य सङ्कवनं कृतम्। तत्र च प्रथममात्मास्तित्वोपसंहरो विहितः। ततश्च पुरुषापरिणामित्वप्रदर्शनाय जगत्कारणं विचार्य पुरुषबहुत्वस्थापनपूर्वकं तस्त्वरूपोपसंहारःप्रादर्शि सूत्रकारेण । अन्ते सृष्टिकार्योपसंहारं विधाय शास्त्रवाक्यार्थोपसंहारः कृतः। इत्थं चात्र पञ्च प्रकरणानि । तथाच षडध्याय्यात्मकेऽत्र सांख्यशास्त्रे द्विचत्वारिंशत्प्रकरणानि सूत्रकारेण संगृहीतानि।
अत्र शास्त्रे प्रत्यक्षानुमानागमभेदेन त्रिविधं प्रमाणं
स्वीकृतम्। प्रधानं स्वतन्त्रं नित्यं जगत्कारणं कार्यकर्तृ महदादिपरिणामद्वारा। अत्र मते कार्यं सदेवोत्पद्यते । पुरुषो नाना भोक्ता च । वस्तुतस्तूदासीनोऽसंगः सच्चिद्रूपश्च। सुखादिकं च प्रकृतेरेव धर्मः। प्रकृतिमहत्तत्त्वाहंकारपच्चतन्मात्राणि शोडष विकाराः पुरुषश्चेति पञ्चविंशतितत्त्वानि सांख्यैः स्वीकृतानि। तत्र पुमान् कार्यकारणभाववर्जितः सदाशुद्धः प्रकृतिः कारणमेव महदाद्याः सप्त प्रकृतयो विकृतयश्च शोडषकस्तु गणो विकार एवेति । सत्त्वपुरुषान्यताख्यात्याऽऽत्यन्तिकदुःखनिवृत्तिरेव मोक्षः। स एव च मुमुक्षुभिः शास्त्राध्ययनेन चित्तशुद्धिद्वारा यत्नतः संपाद्य इति ।
षडध्याय्यात्मकञ्चेदं पठतां पाठयतां चात्र कुत आरम्भकियत्पर्यन्तं किन्नामकं प्रकरणमिति बोद्धुमशक्यमासीत् प्रथमसंस्करणेऽतस्तत्सौकर्यायास्मिन् संस्कारणे पुस्तकमुद्रणान्ते प्रकरणसूच्यपि मुद्रिता न तु ग्रन्थे दत्तेति तत एवाध्येतृभिः प्रकरणानि बोध्यानि।
तदेवं कृतेपि संशोधनश्रमे दृष्टिदोषाद्बुद्धिदौर्बल्याद्वा जाता अशुद्धीः क्षाम्यन्तो गुणगृह्या विद्वांसो मानकीनं श्रमं सफलयिष्यन्ति, भविष्यति चानेन प्रीतो भगवान् सर्वान्तर्यामी कमलापतिरित्याशास्ते–
काश्याम् ई0 1928 विदुषामनुचरः
मार्गसितनवभ्यां बुधे
ढुण्ढिराजशास्त्री
—————————————————————————————-
** ऊँ नमः श्रीमपमात्मने ॥
अथ सांख्यप्रवचनभाष्यम्।
रश्रीमद्विज्ञानभिक्षुविरचितम्।
**
एकोऽद्वितीय इति वोदवचांसि पुंसि
सर्वाभिमानविनिवर्त्तनतोऽस्य मुक्त्यै॥
वैधर्म्यलक्षणभिदाविरहं वदन्ति
नाखण्डतां ख इव धर्मशताविरोधात्॥ 1॥
तस्य श्रुत्सय मननार्थताविरोधात्॥
सद्युक्तिजालमिह सांख्यकृदाविरासीत्॥
नारायणः कपिलमूर्त्तिरशेषदुःख–
हानाय जीवनिवहस्य नमोऽस्तु तस्मै॥ 2॥
नानोपाधिषु यन्नानारूपं भात्यनलार्कवत्॥
तत् समं सर्वभूतेषु चित्सामान्यमुपास्महे॥ 3 ॥
ईश्वरानीश्वरत्वादि चिदेकरसवस्तुनि ॥
विमूढा यत्र पश्यन्ति तदस्मि परमं महः॥ 4 ॥
कालार्कभक्षितं सांख्यशास्त्रं ज्ञानसुधाकरम्॥
कलाविशिष्टं भूयोऽपि पूरयिष्ये वचोऽमृतैः॥ 5॥
चिदचिद्ग्रन्थिभेदेन मोचयिष्ये चितोऽपि च ॥
सांख्यभाष्यमिषेणास्मात् प्रीयतां मोक्षदो हरिः॥ 6 ॥
तत् त्वमेव त्वमेवैतदेवं श्रुतिशतोदितम्॥
सर्वात्मनावैधर्म्यं शास्त्रस्यास्यैव गोचरः॥ 7 ॥
" आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" ( बृह0 द्वि0 अ0 प्र0 4 मं0 5 ) इत्यादिश्रुतिषु परमपुरुषार्थसाधनस्याऽऽत्मसाक्षात्कारस्य हेतुतया श्रवणादित्रयं विहितम्। तत्र श्रवणादावुपायाकाङक्षायां स्मर्यते–
श्रोतव्यः श्रुतिवाक्येभ्यो, मन्तव्यश्चोपपत्तिभिः,।
मत्वा च सततं ध्येयं, एते दर्शनहेतवः॥ इति ।
ध्येयो योगशास्त्रप्रकारेणेति शेषः। तत्र श्रुतिभ्यः श्रुतेषु पुरुषार्थतद्धेतुज्ञानतद्विषयात्मस्वरूपादिषु श्रुत्यविरोधिनीरूपपत्तीः षडध्यायीरूपेण विवेकशास्त्रेण कपिलमूर्त्तिभगवानुपदिदेश। ननु न्यायवैशेषिकाभ्यामप्येतेष्वर्थेषु न्यायः प्रदर्शित इति ताभ्यामस्य गतार्थत्वं , सुगुणनिर्गुणत्वादिविरुद्धरूपैरात्मसाधकतया तुद्युक्तिभिरत्रत्ययुक्तीनां विरोधेनोभयोरपि दुर्घटं च प्रामाण्यमिति। मैवम्। व्यावहारिकपारमार्थिकरूपविषयभेदेन गतार्थत्वविरोधयोरभावात्। न्यायवैशेषिकाभ्यां हि सुखिदुःखोद्यनुवादतो देहादिमात्रविवेकनात्मा प्रथमभूमिकायामनुमापितः, एकदा परसूक्ष्मे प्रवेशासम्भवात्, तदीयं च ज्ञानं देहाद्यात्मतानिरसनेन व्यावहारिकं तत्त्वज्ञानं , यथा पुरुषे स्थाणुभ्रमनिरसकतया करचरणादिमत्त्वज्ञानं व्यवहारतस्तत्त्वज्ञानम् तद्वत्। अत एव—
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥
इति गीतायां कर्तृत्वाभिमानिनस्तार्किकस्य अकृत्स्नवित्त्वमेव कृत्स्नवित्सांख्यापेक्षयोक्तं, न तु सर्वथैवाज्ञज्ञत्वमिति। तथा तदीयमपि ज्ञानमपरवैराग्यद्वारा परम्परया मोक्षसाधनं भवत्येवेति तज्ज्ञानापेक्षयापि च सांख्यज्ञानमेव पारमार्थिकं, परवैराग्यद्वारा साक्षान्मोक्षसाधनं च भवति। उक्तगीतावाक्येनात्माकर्तृत्ववित्त्वस्यैव
कृत्स्नवित्त्वसिद्धेः “तीर्णो हि तदा भवति हृदयस्य शोकान् कामादिकं मन एव मन्यमान्ः सन्नुभोलोकावनुसञ्चरति ध्यायतीव लेलायतीव स यदत्र कञ्चित् पश्यत्वनन्वागतस्तेन भवति” (बृह0) इत्यादि तात्त्विकश्रुतिशतैः,
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः।
दुःखाज्ञानमयां धर्माः प्रकृतेस्ते तु नात्मनः॥
इत्यादितात्त्विकस्मृतिशतैश्च । न्यायवैशेषिकोक्तज्ञानस्य परमार्थभूमौ बाधितत्वाच्च । न चैतावता न्यायाद्यप्रामाण्यम् । विवक्षितार्थे देहाद्यतिरेकांशे बाधाभावाद्, “यत्परः शब्दः स शब्दार्थ”
इति न्यायात्। आत्मनिसपखादिमत्त्वस्य लोकसिद्धतया तत्र प्रमाणान्तरानपेक्षणेन तदंशस्यानुवादत्वान्न शास्त्रतात्पर्यविषयत्वमिति॥
स्यादेतत्। न्यायवैशेषिकाभ्यामत्राऽविरोधो भवति । ब्रह्ममीमांसायोगाभ्यां तु विराधोऽस्त्येव, ताभ्यां नित्येश्वरसाधनात्, अत्र चेश्वरस्य प्रतिषिद्धमानत्वात्। न चाऽत्रापि व्यावहारकपारमार्थिकभेदेन सेश्वरनिरीश्वरवादयोरविरोधोऽस्तु , सेश्वरवादस्योपासनापरत्वसम्भवादिति वाच्यम्। विनिगमकाभावात् । ईश्वरो हि दुर्ज्ञेय इति निरीश्वरत्वमपि लोकव्यवहारसिद्धमैश्वर्यवैराग्यायानुवदितं शक्यते, आत्मनः सगुणत्वमिव , न तु क्वाऽपि श्रुत्यादावीश्वरः स्फुटं प्रतिषिद्ध्यते, येन सेश्वरवादस्यैव व्यावहारिकत्वमवधार्येतेति।
अत्रोच्यते । अत्रापि व्यावहारिकपारमार्थिकभावो भवति–
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्॥
इत्यादिशास्त्रैर्निरीश्वरवादस्य निन्दितत्वात्ष अस्मिन्नेव शास्त्रे व्यावहारिकस्यैवेश्वरप्रतिषेधस्यैश्वर्यवैराग्याद्यर्थमनुवादत्वौचित्यात्। यदि हि लौकायतिकमतानुसारेण नित्यैश्वर्यं न प्रतिषिद्ध्येत् तदा परिपूर्णनित्यनिर्दोषैश्वर्यदर्शनेन तत्र चित्तावेशतो विवेकाभ्यासप्रतिबन्धः स्यादिति सांख्याचार्याणामाशयः । सेश्वरवादस्य न क्वापि निन्दादिकमस्ति। येनोपासनादिपरतया तच्छास्त्रं सङ्कोच्येत । यत्त–
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम्।
अत्र वः संशयो माभूज्ज्ञानं सांख्यं परं मतम्॥
इत्यादिवाक्यं, तद् विवेकांश एव सांख्यज्ञानस्य दर्शनान्तरेभ्य उत्कर्षं प्रतिपादयति , न त्वीश्वरप्रतिषेधांशेऽपि । तथा पराशराद्यखिलशिष्टसंवादादपि सेश्वरवादस्यैव पारमार्थिकत्वमवधार्यते। अपि च–
अक्षपादप्रणीते च काणादे सांख्ययोगयोः।
त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः॥
जैमिनीये च वैयासे विरुद्धांशो न कश्चन्।
श्रुत्यां वेदार्थविज्ञाने श्रुतिपारं गतौ हि तौ॥
इति पराशरोपुराणादिभ्योऽपि ब्रह्ममीमांसाया ईश्वरांशे बलवत्तम्। तथा–
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः।
हेत्वागमसदाचारैर्यद्युक्तं तदुपास्यताम्॥
इतिमोक्षधर्मवाक्यदपि पराशराद्यखिलशिष्ट्यवहारेण ब्रह्ममीमांसान्यायवैशेषिकाद्युक्त ईश्वरसाधकन्याय एव ग्राह्यो बलवत्त्वात्। तथा–
यं न पश्यन्ति योगोन्द्राः सांख्या अपि महेश्वरम्।
अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥
इत्यादिकौर्मादिवाक्यैः साङ्ख्यनामीश्वराज्ञानस्यैव नारायणादिना
प्रोक्तत्वाच्च। किञ्च ब्रह्ममीमांसाया ईश्वर एव मुख्यो विषय उपक्रमादिभिरवधृतः । तत्रांशे तस्य बाधे शास्त्रस्यैवाप्रमाण्यं स्याद्, ‘यत्परः शब्दः स शब्दार्थ’ इति न्यायात्। साङ्ख्यशस्त्रस्यच तु पुरुषार्थतत्साधनप्रकृतिपुरुषविवेकावेव मुख्यो विषय इति ईश्वरप्रतिषेधांशाबाधेऽपि नाप्रामाण्यम् “यत्परः शब्दः सशब्दार्थः” इति न्यायात्। अतः सावकाशतया साङ्ख्यमेवेश्वरप्रतिषेधांशे दुर्बलमिति । न च ब्रह्ममीमांसायामपीश्वर एव मुख्यो विषयो, न तु नित्यैश्वर्यमिति वक्तुं शक्यते । स्मृत्यनवकाशदोषप्रसङ्गपूर्वपक्षस्यानुपपत्त्या
नित्यैश्वर्यविशिष्टत्वेनैव ब्रह्ममीमांसाविषयत्वाऽवधारणात्। ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यतया तु, ‘अथातः परब्रह्मजिज्ञासा’ इति न सूत्रितमिति । एतेन साङ्ख्यविरोधाद् ब्रह्मयोगदर्शनयोः कार्येश्वरपरत्वमपि न शङ्कनीयम्। प्रकृतिस्वातन्त्र्यापत्त्या रचनानुपत्तेश्च, ‘नानुमानम्’, इत्यादिब्रह्मसूचत्रपरम्परानुपपत्तेश्च। तथा “स पूवेषामपि गुरूः कालेनानवच्छेदात् ( यो0 सू0 26 पा01 ) इति योगसूत्रदीयब्यासभाष्याभ्यां स्फुटमीशनित्यताऽवगमाच्चेति। तस्मादु अभ्युपगमवदाप्रौढवादादिनैव सांख्यस्य व्यावहारिकेश्वरप्रतिषेधपरतया ब्रह्ममीमांसायोगाभ्यां सह न विरोधः। अभ्युपगमवादश्च शास्त्रे दुष्टः। यथा विष्णुपुराणे–
एतो भिन्नदृशां दैत्य ! विकल्पिताः कथिता माया।
कृत्वाभ्युपगमं तत्र सङ्केपः श्रूयतां मम ॥ इति ।
अस्तु वा पापिनां ज्ञानप्रतिबन्धार्थमास्तिकदर्शनेष्वप्यंशतः श्रुतिस्मृत्यविरुद्धेषु तु मुख्यविषयेषु प्रामाण्यमस्त्येव । अत एव
पद्मपुराणे ब्रह्मयोगदर्शनातिरिक्तानां दर्शनानां निन्दाप्युपपद्यते । यथा तत्र पार्वतीं प्रतीश्वरवाक्यम्-
श्रुणुदेवी ! प्रवक्ष्यामि तामसानि यथाक्रमम्।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम्।
मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततःपरम्॥
कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत्।
गोतमेन तथा व्यायं साङ्ख्यन्तु कपिलेन वै॥
द्विजन्मना जैमिनिना पूव वेदमयार्थतः।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम्॥
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम्।
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा।
बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम्॥
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च ।
मयैव कथितं देवि! कलौ ब्राह्मणरूपिणा॥
अपार्थं श्रुतिवाक्यानां दर्शयल्ँलोकगर्हितम्
कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते।
सर्वकर्मपरिभ्रंशान्नैष्कर्म्यं तत्र चोच्यते।
परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते॥
ब्रह्मणोऽस्य परं रूपं निर्गुणं दर्शितं मया।
सर्वस्य जगतोऽप्यस्य नाशनार्थं कलो युगे।
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम्।
मयैव कथिचतं देवि ! जगतां नाशकारणात्, ॥ इति
अधिकं तु ब्रह्ममीमांसाभाष्ये प्रपञ्चितमस्माभिरिति तस्मादास्तिकशास्त्रस्य न कस्याप्यप्रामाण्यं विरोधो वा, स्वस्वविषयेषु सर्वेषाम् अबाधात्, अविरोधाच्चेति॥
नन्वेवं पुरुषबहुत्वांशेऽप्यस्य शास्त्रस्याभ्युपगमवादत्वं स्यात्। न स्यात् अविरोधात् । ब्रह्ममीमांसायामपि “अंशो नानाव्यपदेशात्”(से सू0 2 । 3। 43 ) त्यादिसूत्रजातैः जीवात्मबहुत्वस्यैव निर्णयात्। साङ्ख्यसिद्धपुरुषाणामात्मत्वं तु ब्रह्ममीमांसया बाध्यत एव । ‘आत्मेति तूपगच्छन्ति ’ ( वे0 4। 1 । 3 सू0) इतितत्सूत्रेण परमात्मन एव परमार्थभूमावात्मत्वाऽवधारणात् । तथापि च साङ्ख्यस्य नाप्रामाण्यम्। व्यावहारिकात्मनो जीवस्येतरविवेकज्ञानस्य मोक्षसाधनत्वे विवक्षतार्थे बाधा भावात्। एतेन श्रुतिस्मृतिप्रसिद्धयोर्नानाऽत्मैकात्मत्वयोर्व्यावहारिकपारमार्थिकभेदेन अविरोध इति ब्रह्ममीमांसायां प्रपञ्चितमस्माभिरिति दिक्॥
नन्वेवमपि तत्त्वसमासाख्यसूत्रैः सहस्याः षडध्याय्याः पौनरुक्त्यमिति चेन्मैवम्।
संक्षेपविस्तररूपेणोभयोरप्यपौनरुक्त्यात्। अत एवाऽस्याः षडध्याय्या योगदर्शनस्येव साङअख्यप्रवचनसंज्ञायुक्ता। तत्त्वसमासाख्यं हि यत् सङ्क्षिप्तं साङ्ख्यदर्शनं तस्यैव प्रकर्षेणास्यां निर्वचनमिति। विशेषस्त्वयं यत् षडध्याय्यां तत्त्वसमासाख्योक्तार्थविस्तरमात्रम्। योगदर्शने त्वाभ्यामभ्युपगमवादप्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यूनतापरिहारोऽपीति। अस्य च साङ्ख्यसंज्ञा सान्वया–
सङ्ख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते।
तत्त्वानि च चतुर्विशत् तेन साङ्ख्या) प्रकीर्त्तिताः॥
इत्यादिभ्यो भारतादिवाक्येभ्यः । सङ्ख्या सम्यग्विवेकेनाऽत्मकथनमित्यर्थः। अतः साङअख्यशब्दस्य योगरूढतया “तत्कारणं साङ्ख्ययोगाऽधिगम्यम्” इत्यादि श्रुतिषु–
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु।
इत्यादिस्मृतिषु च सांख्यशब्देन सांख्यशास्त्रमेव ग्राह्यं , न पुनरर्थान्तरं कल्पनीयमिति ।
तदिदं मोक्षशास्त्रं चिकित्साशास्त्रवच्चतुर्व्यूहम्। यथा हि
–रोग, आरोग्यं रोगनिदानं भैषज्यम्, इति चत्वारो व्यूहाः समूहाश्चित्साशास्त्रस्य प्रतिपाद्याः, तथैव हेयं हानं हेयहेतु र्हानोपायश्चेति, चत्वारो व्यूहा मोक्षशास्त्रस्य प्रतिपाद्यां भवन्ति मुमुक्षुभिर्जिज्ञासितत्वात्। तत्र त्रिविधं दुःखं हेयम्। तदत्यन्तनिवृत्त्िर्हानम्। प्रकृतिपुरुषसंयोगद्वारा चाऽविवेको हेयहेतुः। विवेकख्यातिस्तु हानोपाय इति । व्यूहशब्देन चैषामुपकरणसंग्रहः। तत्र चादौ फलत्वेनाभ्यर्हितं हानं , तत्प्रतियोगिविधयैव च हेयं प्रतिपादयिष्यन् शास्त्रकारः शिष्याऽवधानाय शास्त्राऽऽरभ्यं प्रतिजानीते—
अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः॥ 1 ॥
अथशब्दोऽयमुच्चारणमात्रेण मङ्गुलरूपः । अत एव
‘मङ्गलाचरणं शिष्टाचारात् ’ इति स्वयमेव पञ्चमाध्याये वक्ष्यति । अर्थस्त्वत्रार्थशब्दास्याधिकार एव । प्रश्नानन्तर्यादीनां पुरुषार्थेन सहान्वयासम्भवात्। ज्ञानाद्यानन्तर्यस्य च सूत्रैरेव वक्ष्यमाणतया तत्प्रतिपादनवैर्य्यात्। अधिकारभिनार्थत्वे शास्त्रारम्भप्रतिज्ञाद्यलाभप्रसङ्गाच्च। तस्मात् पुरुषार्थस्योपाक्रमोपसंहारदर्शनादधिकारार्थत्वमेवोचितम्। ‘तदुच्छित्तिः पुरुषार्थ’ इत्युपसंहारो भविष्यतीति । अधिकारश्चाधिक्येन
प्राधान्येनारम्णम् । आरम्श्च यद्यपि साक्षाच्छास्त्रस्यैव तथापि तद्द्वारा शास्त्रार्थतद्विचारयोरपीति।
तथा च साधनाद्युपकरणसहितो यथोक्तपुरुषार्थोऽधिकृतः प्राधान्येन निरूपयितुमस्माभिः प्रारब्ध इति सूत्रवाक्यार्थः। त्रिविधमाध्यात्मिकमाधिभौतिकमाधिदैविकं च दुःखम्। तत्रात्मानं स्वसंघातम् अधिकृत्य प्रवृत्तमित्याध्यात्मिकम् – शरीरं मानसं च । शारीरं व्याध्याद्युत्थम् [ वातपित्तश्लेष्मणां वैषम्येण जनितम्. शारीरम्। कामक्रोधलोभमोहमदमत्सरादीनां प्रकोपेण भवम् मानसिकञ्च] । तथा भूतानि प्राणिनोऽधिकृत्य प्रवृत्तमित्याधिबौतिकम् व्याघ्रचोराद्युत्थम्। देवानग्निवाय्वादीन् अधिकृत्य प्रवृत्तमित्याधिदैविकम्, दोहशीताद्युत्थमिति भावः। यद्यपि सर्वमेव दुःखं मानसं तथापि मनोमात्रजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वाविशेषः। एषां त्रिविधदुःखानां याऽत्यन्तनिवृत्तिः स्थूलसूक्ष्मसाधारण्येन निःशेषतो निवृत्तिः, सोऽत्यन्तंः परमः पुरुषार्थः पुरुषाणां बुद्धेरिष्ट इत्यवान्तरवाक्यार्थः। तत्र स्थूलं दुःखं वर्तमानावस्थम्। तच्च द्वितीयक्षणादुपरि स्वयमेव नङ्क्ष्यति। अतो न तत्र
ज्ञानापेक्षाः अतीते तु प्रागेव नष्टमिति न तत्र साधनापेक्षेति परिशेषादनागतावस्थसूक्ष्मदुःखनिवृत्तिरेव पुरुषार्थतया प्रकृते पर्यवस्यति तथा च योगसूत्रम्–“हेयं दुःखमनागतम्” (दि) पा0सू0 16) इति । निवृत्तिश्च न नाशोऽपि त्वतीतावस्था ध्वंसप्रागभावयोरतीतानागतावस्थास्वरूपत्वात्
सत्कार्यवादिभिरबावनङ्गीकारात्। ननु कदाचिदप्यवर्तमानमनागतकं दुःखमप्रमाणिकम्, अतः खपुष्पनिवृत्तिवत् तन्निवृत्तेर्न पुरुषार्थत्वं युक्तमिति। मैवम्। सर्वचत्र हि
स्वस्वकार्यजननशक्तिर्यावद्द्रव्यस्थायिनीति पातञ्जले सिद्धम्। दाहादिशक्तिशून्यस्याग्न्यादेः क्वाप्यदर्शनात्। सा च शक्तिरनागतावस्थतत्तत्कार्यरूपा । इयमेव चोपादानकारणस्वरूपयोग्यतेत्यपि
गीयते। अतो यावच्चित्तसत्ता तावदेवानागतदुःखसत्तानुमीयते । तन्निवृत्तिश्च पुरुषार्थं इति । जीवन्मुक्तिदशायां च प्रारब्धकर्मफलातिरिक्तानां दुःखानामनागतावस्थानां बीजाख्यानं दाहो, विदेहकैवल्ये तु चित्तेन सह विनाश इत्यवान्तरविशेषः। बीजदाहश्चाविद्यासहकार्युच्छेदमात्रम्। ज्ञानस्याविद्यामात्रोच्छेदकत्वस्य लोके सिद्धत्वात् । अत एव चित्तेन सहैव दुःखस्य नाशः। ज्ञानस्य साक्षाद्दुःखादिनाशकत्वे प्रमाणाभावादिति।
ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः सम्भवति दुःखस्य चित्तधर्मत्वेन पुरुषे तन्निवृत्त्यसम्भवात् । दुःखनिवृत्तिशब्दस्य दुःखानुत्पादार्थकत्वेऽपि पुरुषे तस्य नित्यसिद्धत्वात् । यत्तु कण्ठचामीकरवत् सिद्धेऽप्यऽसिद्धत्वभ्रमात् पुरुषार्थता स्यादिति । तन्न । एवमपि पुमान्निर्दुःख इति श्रवणमननोत्तरं दुःखहानार्थं निदिध्यासनादौ प्रवृत्त्यमुपपत्तेः। बह्वायाससाध्ये ह्युपाये फलनिश्चयादेव प्रवृत्तिर्भवति । प्रकृते तु श्रवणमननाभ्यां सिद्धत्वज्ञानान्नाप्रामाण्यज्ञानाऽनास्कन्दितः फलस्यासिद्धत्वनिश्चयोऽस्तीति। किञ्च भवतु कदाचिद्भ्रमादिना पुरुषेच्छाविषयत्वं दुःखाभावस्य, श्रुतिस्तु मोहनाशिनी कथं सिद्धस्य फलत्वं प्रतिरादयेत् । “तरति शोकमात्मवित्” , “विद्वान् हर्षशोकौ जहाति” इत्यादिरिति।
अत्रोच्यते । " न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते” इति हेयहेत्ववधारकसूत्रेणैवायं पूर्वपक्षः समाधस्यते । तथाहि– प्रतिबिम्बरूपेण पुरुषेऽपि सुखदुःखे स्तः, अन्यथा तयोर्भोग्यत्वानुपपत्तेः। सुखादिग्रहणं हि भोगः। ग्रहणं च तदाकारता । सा च कूटम्भचित्तौ बुद्धेरर्थाकारवात् परिणामो न सम्भवतीत्यगत्या प्रतिबिम्बस्वरूपतायामेव पर्यवस्यति। अयमेव बुद्धिवृत्तिप्रतिबिम्बो " वृत्तिसारूप्यमितरत्र " (पा0 1 सू 04) इति योगसूत्रेणोक्तः। ‘सत्वेऽनुतप्यमाने तदाकारानुरोधात् पुरुषोऽप्यनुतप्यत इव दृश्यते’ इति
योगभाष्ये च तदाकारानुरोधशब्देन विशिष्यैव तापादिदुःखस्य प्रतिबिम्ब उक्तः। अत एव च पुरुषस्य बुद्धिवृत्त्युपरागे स्फटिकं दृष्टान्तं सूत्रकारो वक्ष्यति– ‘कुसुमवच्च मणेः’ इति । वेदान्तिभिरपि चेतनेऽध्यस्ततयैव दृश्यमानमुच्यते। स चाध्यासः प्रतिबिम्बं विना न घटते। ज्ञानमात्रस्याध्यासत्त्वे आत्माश्रयात् । अध्यासाज्ज्ञानं ज्ञानमेव चाध्यास इति । तदेतत् स्मर्यते ऽपि –
तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः॥ इति ।
अत्र हि दृष्टिशब्दो बुद्धिवृत्तिसामान्यपरो युक्तिसाम्यात्। प्रतिबिम्बश्च तत्तदुपाधिषु बिम्बाकारश्चित्तपरिणाम इति । तस्मात् प्रतिबिम्बरूपेण पुरुषे दुःखसम्बन्धो भोगाख्योऽस्ति । अतस्तेनैव रूपेण तन्निवृत्तेः पुरुषार्थत्वं युक्तम्। अत एव पुरुषार्थत्वमन्यशेषतया न सम्भवतीति सैव स्वतः पुरुषार्थः। दुःखनिवृत्तिस्तु कण्ठकादिनिवृत्तिवत् तावदर्थ्येन न स्वतः पुरुषार्थः। एवं सुखमपि न स्वतः पुरुषार्थः। किन्तु तद्भोग एव स्वतः पुरुषार्थत्वं यातीति । तदिदं दुःखबोगनिवृत्तेः पुरुषार्थत्वं योगभाष्ये व्यासदेवैरुक्तम्–“तस्मिन् निवृत्ते पुनरिदं तापत्रयं न भुङ्क्त " इति । अतः श्रुतावपि दुःखनिवृत्तेः पुरुषार्थत्वं विषयतासम्बन्धेनैव बोद्यम्। तदेतद्योगवार्तिके प्रपञ्चितमस्माभिरिति दिक्॥
तदेवमनेन सूत्रेण व्यूहद्वयं सङ्क्षेपेणोद्दिष्टम्। विस्तरस्त्वनयोः पश्चाद्भवितेति॥ 1॥
अतः परं वक्ष्यमाणस्य हानोपायव्यूहस्याकाङ्क्षार्थं तदितरेषां हानोपायत्वं प्रत्याचष्टे सूत्रजातेन–
नदृष्टात् तत्सिद्धिर्निवृत्तेऽप्यनुवृत्तिदर्शनात् ॥ 2 ॥
लोकिकादुपायाद्धानादेरत्यन्तदुःखनिवृत्तिसिद्धिर्नास्ति। कुतः? धनादिना दुःखे निवृत्ते पश्चात्ते पश्चाद् धनादिक्षये पुनरपि दुःखानुवृत्तिदर्शनादित्यर्थः। तथा च श्रुतिः– " अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेन इत्यादि ॥ 2॥
नन्वेवं धनाद्यर्जनस्य कुञ्जरशौचवद् दुःखानिवर्त्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह–
प्रात्यहिकक्षुत्प्रतीकारवत् तत्प्रतीकारचेष्टनात्
पुरुषार्थत्वम्॥ 3॥
दृष्टसाधनजन्यायां दुःखनिवृत्तावत्यन्तपुरुषार्थत्वमेव नास्ति। यथा कथञ्चित् पुरुषार्थत्वं त्वस्त्येव । कुतः ? प्रात्यहिकस्य[ अहनि अहनि भवस्ये त्यर्थः।] क्षुद्दुःखस्य निराकरणवदेव तेन धनादिना दुःखनिराकरणस्य चेष्टनादन्वेषणादित्यर्थः। अतो धनाद्यर्ज्जने प्रवृत्तिरूपपद्यत इति भावः। कुञ्चरशौचादिकमप्यापातदुःखनिवर्त्तकतया मन्दपुरुषार्थो भवत्येवेति ॥ 3 ॥
स च दृष्टसाधनजो मन्दपुरुषार्थो विज्ञैर्हेय इत्याह–
सर्वासम्भवात् सम्भवेऽपि सत्त्वासम्भवाद्धेयः
प्रमाणकुशलैः॥ 4 ॥
स च दृष्टसाधनजो दुःखप्रतीकारो दुःखादुःखविवेकशास्त्राऽभिज्ञैर्हेयो दुःखपज्ञे निज्ञेपणीयः।
कुतः?सर्वासम्भवात्–सर्वदुःखेषु दृष्टसाधनैः प्रतीकारासम्भवात्। यत्रापि सम्भवस्तत्रापि प्रतिग्रहपापाद्युत्थदुःखाऽऽवश्यकत्वमाह–सम्भवेऽपीति । सम्भवेऽपि दृष्टोपायनान्तरीयकादिदुःखसम्पर्कावश्यम्भावादित्यर्थः। तथाच योगसूत्रम्– ‘पारणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च सर्वमेव दुःखं विवेकिन’ इति ॥ 4 ॥
ननु दृष्टसाधनजन्ये सर्वस्मिन्नेव दुःखप्रतीकारे दुःखसम्भेदनियमो ऽप्रयोजकः, तथा च स्मर्यते–
यन्न दुःखेन सम्मिन्नं न च ग्रस्तमनन्तरम्।
अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम्॥ इति , तत्राह–
उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः॥ 5 ॥
दृष्टसाधनासाध्यस्य मोक्षस्य दृष्टसाधनसाध्यराज्यदिभ्या उत्कर्षात तेषु दुःखसत्ताऽवधार्यते । अपिशब्दात् त्रिगुणत्वादेरपि । मोक्षस्योत्कर्षे प्रमाणं 'सर्वोत्कर्षश्रुते' रिति। 'न ह वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशत’ इत्यादिना विदेहकैवल्यस्योत्कर्षश्रतेरित्यर्थः॥ 5 ॥
ननु मा भवतु दृष्टसाधनादत्यन्तदुःखनिवृत्तिः। अदृष्टसाधनात् तु वैदिककर्मणः स्यात्– ‘अपाम’ इत्यादिश्रतेरिति तत्राह–
अविशेषश्चोभयोः॥ 6 ॥
उभयोरेव दृष्टादृष्टयोरत्यन्तदुःखनिवृत्त्यसाधकत्वे यथोक्ततद्धेतुत्वे चाविशेष एव मन्तव्य इत्यर्थः। एतदेव कारिकायामुक्तम्–
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशयुक्तः, इति।
गुरोरनुश्रूयत इत्यमुश्रवो वेदः। तद्विहितयागादिरानुश्रविकः। स दृष्टोपायवदेवाशुद्ध्या हिंसादिपापेन विनाशिसातिशयफलकत्वेन च युक्त इत्यर्थः। ननु वैधहिंसायाः पापजनकत्वे बलवदनिष्टाननुबन्धीष्टसाधनत्वरूपस्य विध्यर्थस्यानुपपत्तिरिति चेन्न। वैधहिंसाजन्यानिष्टस्येष्टोत्पत्तिनान्तरीयकत्वेनेश्टोत्पत्तिनान्तरीयक–दुःखाधिकदुःखाजनरत्वरूपस्य बलवदनिषाटननुबन्धित्वस्य विध्यंशस्याक्षतेः। यत्तु वैधहिंसातिरिक्तहिंसाया एव पापजनकत्वमिति । तदसत् । सङ्कोचे प्रमाणाभावात् युधिष्ठिरादीनां स्वधर्मे.़पि युद्धादौ ज्ञातविधादिप्रत्यवायपरिहाराय प्रायश्चित्तश्रवणाच्च।
तस्माद्यास्याम्यहं तात! दृष्टेमं दुःखसन्निधिम्।
त्रयीधर्ममधर्माढ्यं किम्पाकफलसन्निभम्॥
इति मार्कण्डेयवचनाच्च। “अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः” इति श्रुतिस्तु वैधातिरिक्तहिंसानिवृत्तेरिष्टसाधनत्वमेव वक्ति, न तु वैधहिंसाया अनिष्टसाधनत्वाभावमपीत्यदिकं योगवार्त्तिके द्रष्टव्यमिति दिक्॥
" न कर्मणा न प्रजयाधनेन त्यागेनैके अमृतत्वमानशुः” इति
‘तमेव विदित्वाऽतिमृत्युमेतिनान्यः पन्था विद्यतेऽयनाय’
इत्यादिश्रुतिविरोधेन तु सोमपानादिभिरमृतत्वं गौणमेव मन्तव्यम्–
आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । इति विष्णुपुराणात्॥ 6 ॥
तदेवं दृष्टादृष्टोपाययोः साक्षात्परमपुरुषार्थासाधनत्वे साधिते तदुपायाकाङ्क्षायां विवेकज्ञानपुपायो वक्तव्यः। तत्र विवेकज्ञानमविवेकाख्यदुःखहेतूच्छेदद्वारैव हानोपाय इत्याशयेनादावपि विवेकमेवेतरप्रतिषेधेन हेय.हेतुतया परिशेषयति प्रघट्टकेन–
न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः॥ 7 ॥
दुःखात्यन्तनिवृत्तेर्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयोग एव। तस्य बन्धस्य पुरुषे न स्वाभाविकत्वं वक्ष्यमाणलक्षणमस्ति । यतो न स्वभावतो बद्धस्य मोक्षाय साधनोपदेस्य श्रौतस्य विधिरनुष्ठाननियोज्यानां
घटते । न ह्यग्नेः स्वाभाविकादौष्ण्यान्मोक्षः सम्भवति । स्वाभाविकस्य यावद्द्रव्यभावित्वादित्यर्तः। तदुक्तमीश्वरगीतायाम्-
यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः।
न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ इति ॥
यस्मिन् सति कारणविलम्बात् विलम्बो यस्योत्पत्तौ न भवति तस्य तत् स्वाभाविकमिति स्वाभाविकत्वलक्षणम्। ननु सर्वदोपलभ्यापत्तेर्दुःखस्य स्वाभाविकमिति स्वाभाविकत्वलक्षणम्। ननु सर्वदोपलभ्भापत्तेर्दुःखस्य स्वाभाविकत्वशङ्कैव नास्तीति चेन्न. त्रिगुणात्मकत्वेन चित्तस्य दुःखस्वभावत्वेऽपि सत्त्वाधिक्येनाभिभवात् सदा दुःखानुपलब्धिवदात्मनोऽपि तदमुपलब्धिसम्भवात् । दुःशस्वाभाविकत्ववादिभिबौद्धैश्चित्तस्यैवात्मताभ्युपगमाच्व। अथैवमात्मनाशादेव मोक्षोऽस्त्विति चेन्न। अहं बद्धो विमुक्तः स्यामिति बन्धसामानाधिकरण्येनैव मोक्षस्य पुरुषार्थत्वादिति ॥ 7 ॥
भवत्वननुष्ठानं , तेन किमित्यत आह–
स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्॥ 8 ॥
स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षा,म्भवेन तत्साधनोपदेशश्रुतेरनुष्ठानलक्षणमप्रामाण्यं स्यादित्यर्थः॥ 8 ॥
ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह–
नाशक्योपदेशविधिरूपदिष्टेऽप्यनुपदेशः॥ 9 ॥
नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति । यत उपदिष्टेऽपि विहितेऽप्यशक्यस्योपाये स उपदेशो न भवति । किन्तूपदेशाभास एव । ‘बाधितमर्थं वेदोऽपि न बोधयतीति’ न्यायादित्यर्थः॥ 9 ॥
अत्र शङ्कते–
“शुपक्लपटवद् बीजवच्चेत्”॥ 10 ॥
“ननु स्वाभाविकस्याप्यपायो दृश्यते । यथा शुक्लपटस्य स्वाभाविकं शौक्ल्यं रागेणापनीयते। यथा च बीजस्य स्वाभाविक्यऽप्यङ्कुरशक्तिरग्निनापनीयते । अतः शुक्लपटवद् बीजवच्च स्वाभाविकस्य बन्धस्याप्य पायः पुरुषेसम्भवतीति तद्वदेव तत्साधनोपदेशः स्यादिति चेदिति येदित्यर्थः।” ॥ 10 ॥
समाधत्ते–
शक्त्युद्ङवानुद्भवाभ्यां नाऽशक्योपदेशः॥ 11 ॥
उक्तदृष्टान्तयोरपि नाऽशक्याय स्वाभाविकायापायोपदेशो लोकानां भवति । कुतः? शक्त्युद्भवाभ्याम्। दृष्टान्तद्वये हि शौक्ल्यादेराविर्भावतिरोभावावेव भवतः , न तु शौक्ल्याङ्कुरशक्त्योरभावो भवति। रजकादिव्यापारैर्योगिसङ्कल्पादिभिश्च रक्तपटभृष्टबीजयोः पुनः शौक्ल्याङ्कुरशक्त्याविर्भावादित्यर्थः। नन्वेवं पुरुषेऽपि दुःखशक्तिरोभाव एव मोक्षोऽस्त्विति चेन्न। दुःखाऽत्यन्तनिवृत्तेरेव लोके पुरुषार्थत्वानुभवात्, श्रुतिस्मृत्या पुरुषार्थत्वसिद्धेश्च , न तु दृष्टान्तयोरिव तिरोभावमात्रस्येति। किञ्च दुःखशक्तितिरोभावमात्रस्य मोक्षत्वे कदाचिद्योगीश्वरसङ्कल्पादिना शक्त्युद्भवस्य भृष्टबीजेष्विव मुक्तेष्वपि सम्भवेनानिर्मोक्षापत्तिरिति॥ 11॥
स्वभावतो बन्धं निराकृत्य निमित्तेभ्यो़ऽपि बन्धमपाकरोति सूत्रजातेन । पुरुषे दुःखस्य नैमित्तिकत्वेऽपि 5ानाद्युपायोच्छेद्यत्वं न घटते, अनागतावस्थसूक्ष्मदुःखस्य यावद्द्रव्यभावित्वादित्याशयेन
नैमित्तिकत्वं निराक्रियते–
न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात्॥ 12 ॥
नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः। कुतः ?। व्यापिनो नित्यस्य कालस्य सर्वावच्छेदेन सर्वदा मुक्तामुक्तसकलपुरुषसम्बन्धात् सर्वावच्छेदेन सदा सकलपुरुषाणां बन्धापत्तेरित्यर्तः। अत्र च प्रकारणे कालदेशकर्मादीनां निमित्तत्वसामान्यं नापलप्यते श्रुतिस्मृतियुक्तिभिः सिद्धत्वात्, किन्तु यन्नैमित्तिकत्वं
पाकजरूपादिवन्तिमित्तजन्यत्वं तदेव बन्धे प्रतिषिध्यते– पुरुषे बन्धस्यौपाधिकत्वाभ्युपगमात्। ननु कालादिनिमित्तकत्वेऽपि सहकार्यन्तरसम्भवासम्भवाभ्यां व्यवस्था स्यादिति चेत्। एवं सति यत्संयोगे सत्यवश्यं बन्धस्तत्रैव सहकारिणि लाघवाद् बन्धो युक्तः। पुरुषे बन्धव्यवहारस्यौपाधिकत्वेनाप्युपपत्तेरिति कृतं नैमित्तिकत्वेनेति
॥ 12 ॥
न देशयोगतोऽप्यस्मात्॥ 13 ॥
देशयोगतोऽपि बन्धः। कुतः? अस्मात् पूर्वसूत्रोक्तान्मुक्तामुक्तसर्वपुरुषसम्बन्धान्मुक्तस्यापि
बन्धापत्तेरित्यर्तः॥ 13 ॥
नावस्थातो देहधर्मत्वात् तस्याः॥ 14 ॥
सङ्घातविशेषरूपताख्या देहरूपा याऽवस्था तन्निमित्ततोऽपि पुरुषस्य बन्धः। कुतः? तस्या अवस्थाया देहधर्मत्वात् । अचेतनधर्मत्वादित्यर्थः. अन्यदर्मस्य साक्षादन्यबन्धकत्वेऽतिप्रसङ्गान्मुक्तस्यापि बन्धापत्तेरित्यर्थः॥ 14 ॥
ननु पुरुषस्याप्यवस्थायां किं बाधकं, तत्राह–
असङ्गेऽयं पुरुष इति ॥ 15 ॥
इति–शब्दो हेत्वर्थे। पुरुषस्यासङअगत्वादवस्थाया देहमात्रधर्मत्वमिति पूर्वसूत्रेणान्वयः। पुरुषस्यावस्थारूपविकारस्वीकारे । वकारहेतुसंयोगाख्यः सङ्गः प्रसज्ज्येतेति भावः। असङ्गत्वे च श्रुतिः–‘स यदत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवति’ । असङ्गो ह्ययं पुरुष इति (बृह- उप-अ-4 मंत्र 15 ) सङ्गश्च संयोगमात्रं न भवति, कालदेशसम्बन्धस्य पूर्वमुक्तत्वात्। श्रुतिस्मृतिषु पद्मपत्त्रस्थजलनेव पद्मपत्रस्याङ्गतायाः पुरुषासङ्गतायां दृष्टान्तताश्रवणाच्च
॥ 15 ॥
न कर्मणान्य धर्मत्वादतिप्रसक्तेश्च॥ 16 ॥
न हि विहितनिषिद्धकर्मणापि पुरुषस्य बन्धः। कर्मणामनात्मधर्मत्वत्। अन्यधर्मेण साक्षादन्यस्य बन्धे च मुक्तस्यापि बन्धापत्तेः। ननु स्वस्वोपाधिकर्मणा बन्धाङ्गीकारे नायं दोष इत्याशयेन हेत्वन्तरमाह। अतिप्रसक्तेश्चेति ॥ प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः। सहकार्य्यन्तरविलम्बतो विलम्बकल्पनं च प्रागेव निराकृतं , न कालयोग इत्यादिसूत्र इति ॥ 16 ॥
नन्वेवंदुःखयोगरूपोऽपि बन्धः कर्मसामानाधिकरण्यानुरोधेन चित्तस्यैवास्तु, दुःखस्य चित्तधर्मतायाः सिद्धत्वात्, किमर्थं पुरुषस्यापि कल्पते इत्याशङ्कायामाह–
विचित्रभोगानुपपत्तिरन्यधर्मत्वे॥ 17 ॥
दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रबोगानुपपत्तिः। पुरुषस्य हि दुःखयोगं विनापि दुःखसाक्षात्काराख्यभोगस्वीकारे सर्वपुरुषदुःखादीनां सर्वपुरुषभोग्यता स्यान्नियामकाभावात् । ततश्चायं दुःखभोक्ताऽयां च सुखभोक्तेत्यादिरूपभोगवैचित्र्यं नोपपद्यतेत्यर्थः। अतो भोगवैचित्र्योपपत्तये भोगनियामकतया दुःखादियोगरूपो बन्धः पुरुषेऽपि स्वीकार्यः। स च पपुरुषे दुःखयोगः प्रतिबिम्बरूप एवेति प्रागेवोक्तम्। प्रतिबिम्बश्च स्वोपाधिवृत्तेरेव न सर्वपुंसा सर्वदुःखभोग इति
योगभाष्यादयं सिद्धान्तः सिद्धः। चित्ते च पुरुषस्य स्वत्वं स्वभुक्तवृत्तिवासनावत्त्वमिति । य.त्तु चित्तस्यैव बन्धमोक्षो, न पुरुषस्येति श्रुतिस्मृतिषु गीयते, तद् बिम्बरूपदुःखयोगरूपं पारमार्थिकं बन्धमादाय बोध्यम्॥17॥
साक्षात् प्रकृतिनिमित्तकत्वमपि बन्धस्यापाकरोति–
प्रकृतिनिबन्धनाच्चेन्न, तस्या अपि पारतन्त्र्यम्॥ 18 ॥
ननु पिरकृतिनिमित्ताद् बन्धो भवत्विति चेन्न । यतस्तस्या अपि बन्धकत्वे संयोगपारतन्त्र्यमुत्तरत्र वक्ष्यमाणमस्ति । संयोगविशेषं विनापि बन्धकत्वे प्रलयादावपि दुःखबन्धप्रसङअगादित्यर्थः। प्रकृतिनिबधना चेदिति पाठे तु प्रकृतिनिबन्धना चेद् बन्धनेत्यर्थः॥ 18 ॥
अतो यत्परतन्त्रा प्रकृतिर्बन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिको बन्धोऽग्निसंयोगाज्जलौष्ण्यवदिति स्वसिद्धान्तमनेनैव प्रसङ्गेनान्तराल एवाधारयति–
न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योग-
स्तद्योगादृते ॥ 19 ॥
तस्मात् तद्योगादृते प्रकृतिसंयोगं विना न पुरुषस्य तद्योगो बन्धसम्पर्कोऽस्ति, अपि तु स एव बन्धः। बन्धस्यौपाधिकत्वलाभाय नञ्द्वयेन वक्रोक्तिः। यदि हि बन्धः प्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत्, तदा तद्वदेव तद्वियोगेऽप्यनुवर्त्तेत। न च द्वितीयक्षणादेर्दुःखनाशकत्वं कल्प्यम्। कारणनाशस्य कार्यनाशकतायाः क्लुप्तत्वेन तेनैवोपपत्तावस्माभिस्तदकल्पनात्। वृत्तिर्हि दुःखादेरूपादानम्। अतो दीपशिखावत् क्षणभङ्गुराया वृत्तेराशुविनाशषित्वेनैव तद्धर्माणां दुःखेच्छादीनां विनाशः सम्भवतीति । अतः प्रकृतिवियोगे बन्धाभावादौपाधिक एव बन्धो, न तु स्वाभाविको नैमित्तिको वेति । तथा संयोगानिवृत्तिरेव साक्षाद्धानोपाय इत्यपि वक्रोक्तिफलम्। तथा च स्मृतिः--
यथा ज्वलद्गृहाश्लिष्टगृहं विच्छिद्य रक्ष्यते।
तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति ॥ इति ॥
वैशेषिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो मा भूदित्येतदर्थं नित्येत्यादि ॥ यथा स्वभावशुद्धस्य स्फटिकस्य रागयोगो न जपायोगं विना घटते , तथैव नित्यशुद्धादिस्वभावस्य पुरुषस्योपाधिसंयोगं विनादुःखसंयोगो न घटते, स्वतो दुःखाद्यसम्भवादित्यर्ध। तदुक्तं सौरे –
यथा हि केवलो रक्तः स्फटिको लक्ष्यते जनैः।
रञ्जकाद्युपधानेन तद्वत् परमपूरुषः॥ इति ॥
नित्यत्वं कालानवच्छिन्नत्वम्। शुद्धादिस्वभावत्वं च नित्यशुद्धत्वादिकम् ष तत्र नित्यशुद्धत्वं सदा पापपुण्यशून्यत्वम्। नित्यबुद्धत्वमलुप्तचिद्रूपत्वम्। नित्यमुक्तत्वं सदा पारमार्थिकदुःखाऽयुक्तत्वम्। प्रतिबिम्बरूपदुःखयोगस्त्वपारमार्थिको बन्ध इति भावः। आत्मनो नित्यशुद्धत्वादौ च श्रुतिः–‘अयमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुः’ ( नृ-उ-खण्ड-5 ) इत्यादि ः। नन्वस्य मननशास्त्रत्वादत्रर्थे युक्तिरपि वक्तव्येति चेत्, सत्यम्। ‘न तद्योगस्तद्योगादृत’ इत्यनेन नित्यशुद्धत्वादौ युक्तिरप्युक्तैव । तथाहि
आत्मनि नित्यत्वविभुत्वादिकं तावन्न्यादिदर्शनेष्वेव साधितम्। तत्र नित्यस्य विभोरात्मनो यद्योगं विना दुःखाद्यखिलविकारैर्योगो न भवति, तस्यैवान्तःकरणस्य सर्वसम्मतकारणस्य तदुपादानकारणत्वमेव युक्तम्, लाघवात्। सर्वविकारेष्वन्तःकरणस्यैवान्वयव्यतिरेकाभ्यां च । न पुनरन्तर्विकारेषु मनसो निमित्तत्वमात्मनश्चोपादानत्वं युक्तम्। कारणद्वयकल्पने गौरवात्। नन्वहं सुखी दुःखी करोमात्याद्यनुभवादात्मनो विकारोपादानत्वसिद्धिरिति चेन्न। अहं गौर इत्यादिभ्रमशतान्तःपातित्वेनाप्रामाण्यशङ्कास्कन्दिततयोक्तप्रत्यक्षाणामुक्ततर्कानुगृहीतानुमानापेक्षया दुर्बलत्वात्। आत्मनश्चिन्मात्रत्वे तु युक्तिरग्रे वक्ष्यत इति दिक्॥
तस्मात् तत्संयोगादयेतनं चेतनावदिव लिङ्गम्।
गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासीनः॥ इति ॥ 20 ॥
कर्तृत्वमत्र दुःखात्वादिसकलविकारोपलक्षणम्। तथा योगसूत्रेऽप्यस्य सूत्रस्यैवार्थ उक्तः–द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति। गीतायां च–
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। इति॥
प्रकृतिस्थः प्रकृतौ संयुक्तः। तथा च श्रुतावपि–
आत्मोन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः। इति ॥
न च कालादिवदेव प्रकृतिसंयोगोऽपि मुक्तामुक्तपुरुषसाधारणतया कथं बन्धहेतुरिति वाच्यम्। जन्माऽपरनाम्नःस्वस्वबुद्धिभावापन्नप्रकृतिसंयोगविशेषस्यैवात्र संयोगशब्दार्थत्वात् । योगभाष्ये व्यासैस्तथा व्याख्यातत्वात् । बुद्धिवृत्त्युपाधिनैव पुरुषे दुःखयोगाच्च। वैशेषिकादिवदेव भोगजनकतावच्छेदकत्वेनाऽन्तःकरणसंयोगे वैजात्यं चास्माभिरपीष्टम्। अतो न सुषुप्त्यादौ बन्धप्रसङ्गः। स्वस्वभुक्तवृत्तिवासनावद्यत्किञ्चिदवृत्तितत्संस्कारप्रवाहोऽप्यनादिरतः स्वस्वामिभावव्यवस्थितिः॥
कश्चित् तु प्रकृतिपुरुषयोः संयोगाङ्गीकारे पुरुषस्य परिणामसङ्गौ प्रसज्ज्येयाताम्, अतोऽत्राऽविवेक एव योगशब्दार्थौ, न तु संयोग इति । तन्न. ‘तद्योगोऽप्यविवेका’ दिति (प्रथ0 55 सू 0) सूत्रेणाविवेकस्य योगहेतुताया एव सूत्रकारेण वक्ष्यमाणत्वात्। ‘स्वस्वामिशक्त्योः स्वरूपवब्धिहेतु संयोगः’, ‘तस्य हेतुरविद्येति’ ( द्वि0 पा0 23-24) सूत्राभ्यां पातञ्जलेऽपि संयोगहेतुत्वस्यैवाविद्याया उक्तत्वाच्च। किञ्च विवेकाभावरूपस्याविवेकस्य संयोगत्वे प्रलयादावपि प्रकृतिपुरुषसंयोगसत्त्वेन भोगाद्यापत्तिः। मिथ्याज्ञानरूपस्याविवेकस्य च संयोगत्वे आत्माश्रयः,पुम्प्रकृतिसंयोगस्याज्ञानादिहेतुत्वादिति। तस्मादविवेकातिरिक्तो योगो वक्तव्यः। स च संयोग एव, अन्यस्याप्रामाणिकत्वात्। संयोगश्च न परिणामः, सामान्यगुणातिरिक्तधर्मोत्पत्त्यैव परिणामित्वव्यवहारात्। अन्यथा कूटस्थस्य सर्वगतत्वरूपविभुत्वानुपपत्तेः। नापि संयोगमात्रं सङ्गः, परिणामहेतुसंयोगस्यैव सङ्गशब्दार्थताया वक्तव्यत्वादिति ॥
ननु तथापि कथं नित्ययोः प्रकृतिपुरुषयोर्महदादिहेतुरनित्यः संयोगो घटत इति चेन्न। प्रकृतेः परिच्छिन्नापरिच्छिन्नतच्रिविधगुणसमुदायरूप तया परिच्छिन्नगुणावच्छेदेन पुरुषसंयोगोत्पत्तेः सम्भवात्। श्रुतिस्मृतिसिद्धत्वात् प्रकृतिसंयोगक्षोभयोरिति। एतच्च योगवार्तिके प्रपञ्चितमस्माभिः॥
अपरस्तु भोग्यभोक्तृयोग्यतैवानयोः संयोग इत्याह । तदपि न। योग्यताया नित्यत्वे ज्ञाननिवर्त्यत्वानुपप्तेः। अनित्यत्वे किमपराद्धं संयोगेन, परिणामित्वापत्तेः समानत्वात्। भोग्यभोक्तृयोग्यतायाः संयोगरूपत्वस्य सूत्रदिष्वनुक्तत्वेन अप्रामाणिकत्वाच्चेति । तस्मात्संयोगविशेष एवात्र बन्धाख्यहेयहेतुतया सूत्रकाराभिप्रेत इति स्वयं बन्धहेतुरवधारितः॥ 19 ॥
इदानीं नास्तिकाभिप्रेता अपि बन्धहेतवो निराकर्त्तव्याः । तत्र, ‘षडभिज्ञो दशबलोऽद्वयवादी विनायकः’ ( अमरकोशः)
इत्यानुशासनादिसिद्धाः क्षणिकविज्ञानात्मवादिनो बौद्धप्रभेदा एवमाहुः– नास्ति प्रकरृत्यादि बाह्यां वस्त्वन्यद् , येन तत्संयोगादौपाधिकस्तात्त्विको वा बन्धः स्यात्। किन्तु क्षणिकविज्ञानसन्तानमात्रमद्वितीयं तत्त्वम्, अन्यत् सर्वं सांवृत्तिकम। संवृत्तिश्चाविद्या मिथ्याज्ञानाख्या । तत एव बन्ध इति । तथा च तैरुक्तम्–
अभिन्नोऽपि हि बुद्धात्मा विपर्यसनिदर्शनैः।
ग्राह्यग्राहकसंवित्तिवेदवानिव लक्ष्यते ॥ इति ॥
तन्मतमादौ निराक्रियते–
नाविद्यातोऽप्यवस्तुना बन्धायोगात् ॥ 20 ॥
अपिशब्दः पीर्वोक्तकालाद्यपेक्षया, अविद्यातोऽपि न साक्षाद्बन्धयोगः। उद्वैतवादिनां तेषामविद्याया अप्यवस्तुत्वेन तया बन्धानौचित्यात्। न हि स्वाप्नरज्ज्वा बन्धनं दृष्टमित्यर्थः। बन्धोऽप्यवास्तव इति चेन्न। स्वयं सूत्रकारेण निराकरिष्यमाणत्वात् । विज्ञानाद्वैतश्रवणोत्तरं बन्धनिवृत्तये योगाभ्यासभ्युपगमविरोधाच्च। बन्धमिथ्यात्वश्रवणेनबन्धनिवृत्त्याख्यफलसिद्धत्वनिश्चयात् तदर्थं बह्वायाससाध्ययोगाङ्गानुष्ठानासम्भवादिति ॥ 20 ॥
वस्तुत्वे सिद्धान्तहानिः॥ 21 ॥
यदि चाविद्याया वस्तुत्वं स्वीक्रियते तदा स्वाभ्युुगतस्याऽविद्यानृतत्वस्य हानिरित्यर्थः॥ 21 ॥
विजातीयद्वैतापात्तिश्च ॥ 22 ॥
किञ्चविद्याया वस्तुत्वे क्षणिकविज्ञासन्तानाद्विजातीयं द्वैतं प्रसज्येत। तच्च भवतामनिष्टमित्यर्थः। सन्तानान्तःपातकिव्यक्तीनामानन्त्यात् सजातीयद्वैतमिप्यत एवेत्याशयेन विजातीयेति विशेषणम्। नन्वविद्याया अपि ज्ञानविशेषत्वादविद्ययापि कथं विजातीयद्वैतमिति चेन्न। ज्ञानरूपाविद्याया बन्धोत्तरकालीनतया वासनारूपाऽविद्याया एव तैर्बन्धहेतुत्वाभ्युपगमात्। सावना तु ज्ञानाद्विजातीयैवेति॥
एभिश्च सूत्रैर्ब्रह्ममीमांसासिद्धान्तो निराक्रियत इति भ्रमो नकर्त्तव्यः। ब्रह्ममीमांसायां केनापि सूत्रेणाविद्यामात्रतो बन्धस्याऽनुक्तत्वात्।‘अविभागो वचना (वे0 सू04-3-16) दि’त्यादि सूत्रैर्ब्रह्ममीमांसाया अबिप्रेतस्याविभागलक्षणाद्वैतस्याविद्यादिवास्तवत्वेऽप्यविरोधच्च । यत्तु वेदान्तिब्रुवाणामाधुनिकस्य मायावादस्यात्र लिङ्गं दृश्यते तत् तेषामपि विज्ञानवाद्येकदेशितया युक्तमेव–
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च ।
मयैव कथितं देवि कलौ ब्रह्मणरूपिणा॥
इत्यादिपद्मपुराणस्थशिववाक्यपरम्पराभ्यः। न तु तद्वेदान्तमतम्–
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम्।
इति तद्वाक्यशेषादिति । मायावादिनोऽत्र चन साक्षात् प्रतिवादित्वं, विजातीयेतिविशेषणवैर्थ्यात् । मायावादे सजातीयाद्वैतस्याप्यनभ्युपगमादिति। तस्मादत्र प्रकरणे विज्ञानवादिनां बन्धहेतुव्यवस्थैव साक्षान्निराक्रियते॥
अनयैव च रीत्या नवीनानामपि प्रच्छन्नबौद्धानां मायावादिनामविद्यामात्रस्य तुच्छस्य बन्धहेतुत्वं निराकृत वेदितव्यम्। अस्मन्मते त्वविद्यायाः कूटस्थनित्यतारूपपारमार्थिकसत्त्वाभावोऽपि घटादिवद्वास्तत्वेन वक्ष्यमाणसंयोगद्वारा बन्धहेतुत्वे यथोक्तबाधाऽनवकाशः। एवं योगमते ब्रह्ममीमांसामतेऽपीति ॥ 22 ॥
पुनः शङ्कते–
विरुद्धोभयरूपा चेत् ॥ 23 ॥
ननु विरुद्ध यदुभयं सदसिद्विलक्षमं वा तद्रूपैवाविद्यावक्तव्या। अतो न तया पारमार्थिकाद्वैतभङ्ग इति चेदित्यर्थः। स्वयं तु सदसत्त्वं प्रपञ्चस्य यद् वक्ष्यति, तत्र सत्त्वासत्त्वे व्यक्ताऽव्यक्तत्वरूपत्वाद्विरुद्धे एव न भवत इति सबचयितुं विरुद्धपदोपादानम्॥ 23 ॥
परिहरति–
न तादृक्पदार्थाप्रतीतेः ॥ 24 ॥
सुगमम् ॥ अपि चाविद्यायाः साक्षादेव दुःखयोगाख्यबन्धहेतुत्वे ज्ञानेनाविद्याक्षयानन्तरं प्रारब्धभोगानुपपत्तिः, बन्धपर्यायस्य दुःखभोगस्य कारणनाशादति । अस्मदादिमते तु नायं दोषः। संयोगद्वारैवाविद्याकर्मादीनां बन्धहेतुत्वात् । जन्माख्यश्च संयोगः प्रारब्धसमाप्तिं विना न नश्यतीति ॥ 24 ॥
पुनः शङ्कते–
न वयं षट्पदार्थवादिनो वैशेषिकादिवत् ॥ 25 ॥
ननु वैशषेषिकाद्यास्तिकवन्न वयं षट्षोडशादिनियतपदार्थवादिनः। अतोऽप्रतीतोऽपि सदसदात्मकः सदसद्विलक्षणो वा पदार्थोऽविद्येत्यभ्युपेयमिति भावः॥ 25 ॥
परिहरति—
अनियतत्वेऽपि नायौक्तिकस्य सङ्ग्रहोऽन्यथा
बालोन्मत्तादिसमत्वम्॥ 26 ॥
पदार्थनियमो माऽस्तु, तथापि भावाभावविरोधेन युक्तिविरुद्धस्य सदसदात्मकपदार्थस्य सङ्ग्रहो भवद्वचनमात्राच्छिष्याणां न सम्भवति। अन्यथा बालकाद्युस्याप्ययौक्तिकस्य सङ्ग्रहः स्यादित्यर्थः। श्रुत्यादिकं चास्मिन्नर्थे
स्फुटं नास्ति । युक्तिविरोधेन च सन्दिग्धश्रुतेरर्थान्तरसिद्धिरिति भावः॥
नासद्रूपा न सद्रूपा माया नैवोभयात्मिका।
सदसद्भ्यामनिर्वाच्या मिथ्याभूता सनातनी॥
इत्यादिसौरादिवाक्यानां त्वयमर्थः–
विकारजननीं मायामष्टरूपामजां ध्रुवाम्।
इत्यादिश्रुतिसिद्धा मायाख्या प्रकृतिः परमार्थसती न भवति , पूर्वपूर्वविकाररूपैः प्रतिक्षणमपायात्। नापि परमार्थसती भवति । अर्थक्रियाकारित्वेन शशश्रृङ्गविलक्षणत्वात्। नाऽपि तदुभयात्मिका विरोधाच्च। अतः सदसद्भ्यामनिर्वाच्या, सत्येवेत्यसत्येवेति च निर्धार्योपदेष्टुमशक्या। किन्तु मिथ्याभूतालयाख्यव्यावहारिकासत्त्ववती, परिणामिनित्यतारूपव्यवहारिकसत्त्ववती चेति । एतच्चाग्रे प्रपञ्चयिष्याम इति दिक्॥
एतत्प्रकारणोपन्यस्तानि च सर्वाण्येव दूषणान्याधुनिकेऽपि
मायावादे योजनीयानि ॥ 26 ॥
अपरे नास्तिका आहुः– ‘क्षणिका बाह्यविषयाः सन्ति तेषां वासनया जीवस्य बन्ध’ इति । तदपि दूषयति–
नानादिविषयोपरागनिमित्तकोऽप्यस्य ॥ 27 ॥
अस्यात्मनः प्रवाहरूपेणानादिर्या विषयवासना, तन्निमित्तकोऽपि बन्धो न सम्भवतीत्यर्थः। निमित्ततोऽप्यस्येति पाठस्तु समीचीनः ॥ 27 ॥
अत्र हेतुमाह–
न बाह्याभ्यन्तरयोरूपरज्योपरञ्जकभावोऽपि देशव्य-
वधानात् स्नाध्नस्थपाटलिपुत्रस्थयोरिव ॥ 28 ॥
तन्मते परिच्छिन्नो देहान्तःस्थ एवात्मा । तस्याऽऽभ्यन्तरस्य न बाह्यविशेषयेण सहोपरज्योपरञ्जकभावोऽपि सम्भवति । कुतः? स्नुध्नस्थपाटलिपुत्रस्थयोरिव, देशव्यवधानादित्यर्थः। संयोगे सत्येव हि वासनाख्य उपरागो दृष्टः। यथा मञ्जिष्ठावस्त्रयोः, यथा वा पुष्पस्फटिकयोरिति। अपिशब्देन स्वमतेऽपि संगाभावादिः समुच्चीयते। स्मुध्नपाटलिपुत्रौविप्रकृष्टौ देशविशेषौ ॥ 28 ॥
ननु भवतामिन्द्रियाणामिवास्माकमात्मनो विषयदेशे गमनाद्विषयसंयोगेन विषयोपरागे वक्तव्यस्तत्राह–
द्वयोरेकदेशलब्धोपरागान्न व्यवस्था॥ 29 ॥
द्वयोः बद्धमुक्तात्मनोरेकस्मिन् विषयदेशे
लब्धविषयोपरागान्न बन्धमोक्षव्यवस्था स्यात्। मुक्तस्यापि बन्धापत्तेरित्यर्थः॥ 29 ॥
अत्र शङ्कते –
अदृष्टवशाच्चेत् ॥ 30 ॥
नन्वेकदेशसम्बन्धेन विषयसंयोगसम्येऽप्यदृष्टदेवोपरागलाभ इति चेदित्यर्थः॥ 30 ॥
परिहरति–
न द्वयोरेककालायोगादुपकार्योपकारकभावः॥ 31 ॥
क्षमिकत्वाभ्युपगमाद् द्वयोः कर्तृभोक्त्रोरेककालासत्त्वेन नोपकार्योपकारकभावः। न कर्तृनिष्ठादृष्टेन भोक्तृनिष्ठो विषयोपरागः सम्भवतीत्यर्थः॥ 31 ॥
शङ्कते–
पुत्रकर्मवदिति चेत् ॥ 32 ॥
ननु यथा पितृनिष्ठेन पुत्रकर्मणा पुत्रस्योपकारो भवतचि तद्वद्रव्यधिकरणेनैवादृष्टेन विषयोपरागः स्यादित्यर्थः॥ 32 ॥
दृष्टान्तासिद्ध्या परिहरति–
नास्ति हि स्थिर एकात्मा यो गर्भा-
धानादिना संस्क्रियते ॥ 33 ॥
पुत्रेष्ट्यापि तन्मते पुत्रस्योपकारो न घटते । हि यस्मात् तत्र तन्मते गर्भाधानमारभ्य जन्मपर्यन्तं स्थायी एक आत्मा नास्ति यो जन्मोत्तरकालीनकर्माधिकारार्थं पुत्रेष्ट्या संस्क्रियेतेति दृष्टान्तस्याप्यसिद्धिरित्यर्थः। पुत्रेष्ट्या जनितेन पुत्रोपाधिनिष्ठाऽदृष्टेनैव पुत्रोपाधिद्वारा पुत्रस्योपकारादित्यस्मन्मतेऽपि न दृष्टान्तासिद्धिरिति भावः॥ 33 ॥
ननु बन्धस्यापि क्षणिकत्वादनियतकारणकोऽभावकारणको वा बन्धोऽस्त्वित्याशयेनापरो नास्तिकः प्रत्यवतिष्ठते–
स्थिरकार्यासिद्धेः क्षमिकत्वम्॥ 34 ॥
बन्धस्येति शेषः। भावस्तूक्त एव। अत्रायं प्रयोगः। विवादास्पदं बन्धादि क्षणिकं सत्त्वात् दीपशिखादिवदिति । न च घटादौ व्यभिचारस्तस्यापि पक्षसमत्वात् । एतदेवोक्तं स्थिरकार्यासिद्धेरिति ॥ 34 ॥
समाधत्ते–
न प्रत्यभिज्ञाबाधात् ॥ 35 ॥
न कस्यापि क्षणिकत्वमिति शेषः। यदेवाहमद्राक्षं तदेवाहं स्पृशामीत्यादिप्रत्यभिज्ञया स्थैर्यसिद्धेः, क्षणिकत्वस्य बाधात्, प्रतिपक्षानुमानेनेत्यर्थः। तद्यथा बन्धादि स्थिर सत्त्वात् घटादिवदिति अस्मन्मत एवानुकूलतर्कसत्त्वेन न सत्प्रतिपक्षता । प्रदीपादौ च सूक्ष्मानेकक्षणानाकलनेन क्षणिकत्वभ्रम एव परेषामिति॥ 35 ॥
श्रुतिन्यायविरोधाच्च ॥ 36 ॥
'सदेव सौम्येदमग्र आसीत्' 'तम एवेदमग्र आसी' दित्यादिश्रुतिभिः कथमसतः सज्जायेतेत्यादिश्रौतादियुक्तिभिश्च कार्यकारणात्मकाखिलप्रपञ्चे क्षणिकत्वानुमानस्य विरोधान्न क्षणिकत्वं कस्यापीत्यर्थः
॥36 ॥
दृष्टान्तासिद्धेश्च॥ 37 ॥
प्रदीपशिखादिदृष्टान्ते क्षमिकत्वासिद्धेश्च न क्षणिकत्वानुमानमित्यर्थः।. 37 ॥
किञ्च क्षणिकतावादिनां मृद्घटादिस्थलेऽपि कार्यकारणभावः प्रवृत्तिनिवृत्त्यन्यथानुपपत्तिसिद्धो नोपपद्येतेत्याह–
युगपज्जायमानयोर्न कार्यकारणभावः॥ 38 ॥
किंयुगपज्जायमानयोः कार्यकारणभावः किं वा क्रमिकयोः ? तत्र नाद्यो, विनिगमकाभावादिभ्य इति भावः॥ 38 ॥
नान्त्य इत्याह–
पूर्वापाये उत्तरायेगात् ॥ 39 ॥
पूर्वस्य कारणस्यापायकाले उत्तरस्य कार्यस्योत्पत्त्यनौचित्यादपि नक्षणिकवादे सम्भवति
कार्यकारणभावः। उपादानकारणानुगततयैव कार्यानुभवादित्यर्थः॥ 39 ॥
उपादानकारणमधिकृत्यैव दूषणान्तरमाह–
तद्भावे तदयोगादुभयव्यभिचारादपि ॥ 40 ॥
यतः पूर्वस्य भावकाले उत्तरस्यासम्बन्धोऽत उभयव्यभिचारदन्वयव्यतिरेकव्यभिचारादपि न कार्यकारणभाव इत्यर्थः। तथाहि – यदोपादेयोत्पत्तिस्तदोपादानं, यदा चोपादानाभावस्तदोपादेयोत्पत्त्यभाव इत्यन्वयतिरेकेणैवोपादानोपादेययोः कार्यकारणभावग्रहो भवति । तत्र क्षणिकत्वेन क्रमिकयोस्तयोर्विरूद्धकालतयाऽन्वयव्यभिचाराभ्यां न कार्यकारणभावसिद्धिरिति॥ 40 ॥
ननु निमित्तकारणस्येवोपादाकारणस्यापि पूर्वभावमात्रेणैव कारणतास्तु, तत्राह–
पूर्वभावमात्रे न निभमः॥ 41 ॥
पूर्वभावमात्राभ्युपगमे चेदमेवोपादानमिति नियमो न स्यान्निमित्तकारणानामपि पूर्वभावाविशेषात् । उपादाननिमित्तयोर्विभागः सर्वलोकसिद्ध इत्यर्थः॥ 41 ॥
अपरे त नास्तिका आहुः ‘विज्ञानातिरिक्तवस्त्वभावेन बन्धोऽपि विज्ञानमात्रं स्वप्नपदार्थवत् । अतोऽत्यन्तमिथ्यात्वेन न तत्र कारणमस्ती’ति। तन्मतमपाकरोति–
न वाज्ञानमात्रं बाह्यप्रतीतेः॥ 42 ॥
न विज्ञानमात्रं तत्त्वम्, बाह्यार्थानामपि विज्ञानवत् प्रतीतिसिद्धत्वादित्यर्थः॥ 42 ॥
ननु लाघवतर्केण स्वप्नादिदृष्टान्तैर्दृश्यत्वहेतुकमिथ्यात्वानुमानेन बाह्यवस्त्वनुभवो बाधनीयो,ऽत्रभवतां श्रुतिस्मृती अपि स्तः–‘चिद्धादं सर्वं, ‘तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः’ ( नृ-उ-खं-7 ) इत्यादीत्यतो दूषणान्तरमाह–
तदभावे तदभावाच्छून्यं तर्हि ॥ 43 ॥
तर्हि बाह्याभावे शून्यमेव प्रसज्जेय, न तु विज्ञानमपि । कुतः? तदभावे तदभावात् बाह्याभावे विज्ञानस्याप्यभावप्रसङ्गाद्विज्ञानप्रतीतेरपि बाह्यप्रतीतिवदवस्तुविषयत्वानुमानसम्भवात्। विज्ञानप्रमाण्यस्य क्वाप्यसिद्धत्वाच्च। तथा विज्ञाने प्रमाणानामपि बाह्यतयापलापच्चेत्यर्थः। नन्वनुभवे कस्यापि विवादाभावेन नास्ति तत्र प्रमाणापेक्षेति चेन्न। शून्यवादिनामेव तत्र विवादात्। अथासतापि प्रमाणेन वस्तु सिद्ध्यति। विषयाबाधस्यैव प्रमाण्य-प्रयोजकत्वाद्, न तु प्रमाणपारमार्थिकत्वस्येति चेन्न। एवं सत्यसत्प्रमाणस्य सर्वत्र सुलभत्वेन क्वाप्यर्थे प्रमाणान्वेषणस्यायोगात् । अथासन्मध्येऽपि व्यावहारिकसत्त्वरूपो विशेषः प्रमाणादिष्वेषटव्य इति चेत्। आयातं मार्गेण। किं पुनरिदं व्यावहारिकत्वम्। यदि परिणामित्वं तदास्माभिरपीदृशमेव प्रपञ्चेऽस्माभिः प्रतिषेधात् । यदि पुनः प्रतीयमानतामात्रं तदापि तादृशैरेव प्रमाणैर्बाह्यार्थस्यापि सिद्धिप्रसङ्गात्। लाघवतक्रानुगृहीतेन यथाकथञ्चिदनुमानेनैव बाधस्तु विज्ञानेऽपि समान इति ॥
एतेनाधुनिकानां वेदान्तिब्रुवाणामपि मतं विज्ञानवादतुल्ययोगक्षेमतया निरस्तम्। विज्ञानमात्रसत्यताप्रतिपादकश्रुतिस्मृतयस्तु कूटस्थत्वरूपं पारमार्थिकसत्तामेव बाह्यानां प्रतिषेधन्ति, न तु परिणामित्वरूपां व्यावहारिकसत्तामपि ॥
यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै।
परिणामादिसम्भूतां तद्वस्तु नृप तच्च किम्॥
वस्तु राजेति यल्लोके यत्तु राजभटादिकम्।
तथान्यच्च नृपेत्थं तु न सत् सङ्कल्पनामयम्॥
इति विष्णुपुराणादिभ्यः परिणामित्वस्यवासत्तात्वावगमादिति। सङ्कल्पनामयमीश्वरादिसङ्कल्परचितम्। एतेन– ‘विज्ञानमयमेवैतदशेषमवगच्छत’ इत्यादिना विष्णुपुराणे मायामोहरूपिणा विष्णुना असुरेभ्योऽपि तत्त्वमेवोपदिष्टम्, ते त्वनधिकारादिदोषैर्विपरीतार्थग्रहणेन विज्ञान वादिनो नास्तिका
बभूवुरत्यवगन्तव्यम्। तदेतत् सर्वं ब्रह्ममीमांसाभाष्ये मायावादनिरसनप्रसङ्गतो विस्तारितमस्माभिः॥ 43 ॥
नन्वेवं भवतु शून्यमेव तत्त्वं , तदा सुतरामेव बन्धकारणान्वेषणां न युक्तम् तुच्छत्वादिति नास्तिकशिरोमणिः प्रत्यवतिष्ठते–
शून्यं तत्त्वं भावो विनश्यति वस्तुधर्म-
त्वाद्विनाशस्य ॥ 44 ॥
शून्यमेव तत्त्वम्। यतः सर्वोऽपि भावो विनश्यति । यश्च विनाशी स मिथ्या स्वप्नवत्। अतः सर्ववस्तूनामाद्यन्तयोरभावमात्रत्वान्मध्ये क्षणिकसत्त्वं सांवृत्तिकं, न पारमार्थिकं बन्धादि। ततः किं केन बध्येतेत्याशयः। भावानां विनाशित्वे हेतुर्वस्तुधर्मत्वाद्विनाशस्येति। विनाशस्य वस्तुस्वभावत्वात्। स्वभावं तु विहाय न पदार्थस्तिष्ठतीत्यर्थः॥ 44 ॥
परिहरति–
अपवादमात्रमबुद्धानाम्॥ 45 ॥
भावत्वाद्विनाशित्वमिति मूढानामपवादमात्रं मिथ्यावाद एव, नाशकारणाभावेन निरवयवद्रव्याणां नाशासम्भवात्, कार्याणामपि विनाशासिद्धेश्च । घटो जीर्ण इति प्रत्ययवदेव घटोऽतीत इत्यादिप्रतीया घटादेरतीताख्याया अवस्थाया एव सिद्धेः। अवव्यक्ततायाश्च कार्यतीतताभ्युपगमेऽस्मन्मतप्रवेश एव। किञ्च विनाशस्य प्रपञ्चतत्त्वताभ्युपगमेऽपि विनाश एव बन्धस्य पुरुषार्थः सम्भवत्येवेति ॥
कश्चित्तु व्याचष्टे–शून्यं तत्त्वमित्यज्ञानां कुत्सितवादमात्रं , न पुनरत्र युक्तिरस्ति , प्रमाणसत्त्वासत्त्वविकल्पासहत्वात्। शून्ये प्रमाणाङ्गीकारे तेनैव शून्यताक्षतिः, अनङ्गीकारे प्रमाणाभावान्न शून्यसिद्धिः। स्वतः सिद्धौ च चिद्रूपताद्यापत्तिरित्यर्थ इति॥ न च –
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न व मुक्त इत्येषा परमार्थता॥ (माडूक्य0 का0 32 )
सर्वशून्यं निरालम्बं स्वरूपं यत्र चिन्त्यते।
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥
इति श्रुतिस्मृतिभ्यामपि शून्यं तत्त्वतया प्रतिपाद्यत इति वाच्यम्। पुरुषाणां निरोधाद्यभावस्यैव तादृशीषु श्रुतिषु तत्त्वतयोक्तत्वात्। पूर्वोत्तरवाक्याभ्यां पुरुषस्यैव प्रकरणात्। विलीनविश्वचिदाकाशस्यैवैतादृशस्मृतिषु तत्त्वतया प्रतिपादनाच्च॥
त्रैलोक्यं गगनाकारं नभस्तुल्यं वपुःस्वकम्।
वियद्गामि मनो ध्यायन् योगी ब्रह्मैव गीयते॥
इत्यादिवाक्यान्तरैरेकवाक्यत्वादाकाशशून्ययोः पर्यायत्वादिति। मनोमहत्त्वाद्यखिलान्तःकरणं वियद्गामिचिदाकाशे लीनम्॥ 45 ॥
दूषमान्तरमाह–
उभयपक्षसमानक्षेमत्वादयमपि ॥ 46 ॥
क्षणिकबाह्याविज्ञानोभयपक्षयोः समानक्षेमत्वात् तुल्यनिरसनहेतुकत्वादयमपि पक्षो विनश्यतीत्य [अनुषंगो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्’ इति जैमिनिना प्रोक्तं अत्र तू पूर्वस्य प्रकरण्स्य विच्छेदाभावात् ‘व्यवायान्नानुषज्ज्यते’ इति न्यायो न प्रवर्तते। पूर्वसूत्रोक्तस्य ‘विनश्यति ’ पदस्यात्रान्वयसंभवात्, लौकिककल्पिताध्याहारापेक्षया सूत्रोक्तपदस्यैवाध्याहारो युक्त इत्यभिप्रायेणेदमुक्तम्।]नुषङ्गः। क्षणिकपक्षनिरासहेतुर्हि यत्प्रभिज्ञानुपपत्त्यादिः शून्यवादेऽपि समानः। तथा विज्ञानपक्षनिरासहेतुर्बाह्यप्रतीत्यादिरप्यत्र समान इत्यर्थः॥46 ॥
यदपि दुखनिवृत्तिरूपतया तत्साधनतया वा शून्यतैवास्तु पुरुषार्थ इति तैर्मन्यते, तदपि दुर्घटमित्याह–
अपुरुषार्थत्वमुभयथा॥ 47 ॥
अभयथा स्वतः परतश्च शून्यतायाः पुरुषार्थत्वं न सम्भवति, स्वनिष्ठत्वेनैव सुखादीनां पुरुषार्थत्वात्। स्थिरस्य च पुरुषस्यानभ्युपगमादित्यर्थः॥ 47 ॥
तदेवं बन्धकारणविषये नास्तिकमतानि दूषितानि । इदानीं पूर्वनिरस्तावशिष्टान्यास्तिकसम्भाव्यान्यप्यन्यानि बन्धकारणानि निरस्यन्ते–
न गतिविशेषात्॥ 48 ॥
प्रकरणाद् बन्धो लभ्यते । न गतिविशेषात् शरीरप्रवेशादिरूपादपि पुरुषस्य न बन्ध इत्यर्थः॥ 48 ॥
अत्र हेतुमाह–
निष्क्रियस्य तदसम्भवात् ॥ 49 ॥
निष्क्रियस्य विभोः पुरुषस्य गत्यसम्भवादित्यर्थः॥ 49 ॥
ननु श्रुतिस्मृत्योरिहलोकपरलोकगमनागमनश्रवणात् पुरुषस्य परिच्छिन्नत्वमेवास्तु, तथाच श्रुतिरपि–‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मे’ त्यादिरित्याशङ्कामपाकरेति–
मूर्तत्वाद् घटादिवत् समानधर्मापत्तावपसिद्धान्तः॥ 50 ॥
यदि च घटादिवत् पुमान् मूर्त्तः परिच्छिन्नः स्वीक्रियते, तदा सावयवत्वविनाशित्वादिना घटादिसमानधर्मापत्तावपसिद्धान्तः स्यादित्यर्थः॥ 50 ॥
गतिश्रुतिमुपपादयति–
गतिश्रुतिरप्युपाधियोगादाकाशवत्॥ 51 ॥
या च गतिश्रूयतिरपि पुरुषेऽस्ति सा विभुत्वश्रुतिस्मृतियुक्त्यनुरोधेनाकाशस्येवोपाधियोगादेव मन्तव्येत्यर्थः। तत्र च प्रमाणम्–
घटसंवृतमाकाशं नीयमाने घटे यथा।
घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः॥
‘बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’ ( श्वेत0 अ06) इत्यादिश्रुतिः। ‘नित्यः सर्वगतः स्याणु’ ( भगवत्गीता द्वि0 अ0 24 ) रित्यादिका च स्मृतिः। मध्यमपरिमाणत्वे सावयवत्वापत्त्या विनाशित्वम्, [सांख्यमते परमाणोरपि कार्यत्वमेव– ‘नाणुनित्यता तत्कार्यत्वश्रुतेः’ इत्यादिसूत्रेण पंचमे वक्ष्यमाणत्वात्।] अमुत्वे च देहव्यापज्ञानाद्यनुपपात्तिरित्यादिश्च युक्तिरिति । अत एव–
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्।
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा॥
इत्यादिस्मृतिभिः प्रकृतेरेव विशिष्य क्रियारूपा गतिः स्मर्यत इति ॥ 51 ॥
न कर्मणाप्यतद्धर्मत्वात्॥ 52 ॥
कर्मणाऽदृष्टेनापि साक्षान्न पुरुषस्य बन्धः। कुतः? पुरुषधर्मत्वाभावादित्यर्थः। पूर्वं विहितनिषिद्धव्यापाररूपेण कर्मणा बन्धो नराकृतः। अत्र तु तज्जन्यादृष्चेनेत्यार्थिकविभागादपौनरुक्त्यम्॥ 52 ॥
नन्वन्यधर्मेणाप्यन्यस्य बन्धः स्यात्, तत्राह–
अतिप्रसक्तिरन्यधर्मत्वे ॥ 53 ॥
बन्धतत्कारणयोर्भिन्नधर्मत्वेऽतिप्रसक्तिः मुक्तस्यापि बन्धापत्तिरित्यर्थः॥ 53 ॥
किं बहुना स्वाभावादिकर्मान्तैरन्येन वा केनापि पुरुषस्य बन्धोत्पत्त्िर्न घटते, श्रुतिविरोधादिति साधारणं बाधकमाह–
निर्गुणादिश्रुतिविरोधश्चेति॥ 54 ॥
पुरुषबन्धस्यानौपाधिकत्वे ‘साक्षी चेता केलवो निर्गुणश्ये’त्यादिश्रुतिविरोधश्चेत्यर्थः। इतिशब्दो बन्धहेतुपरीक्षासमाप्तौ ॥ 54 ॥
तदेवं न स्वभावतो बद्धस्येत्यादिना प्रघट्टकेनेतरप्रतिषेधतः प्रकृतिपुरुषसंयोग एव साक्षाद्बन्धहेतुरवधारितः। तत्रेयमाशङ्का। ननु प्रकृतिसंयोगोऽपि पुरुषे स्वाभाविकत्वादिविकल्पग्रस्तः कथं न भवति । संयोगस्य स्वाभाविकत्वकालादिनिमित्तकत्वे हि मुक्तस्यापि बन्धापत्तेरित्यादिदोषा यथायोग्यं समाना एवेति । ताभिमामाशङ्कां परिहरति–
तद्योगोऽप्यविवेकान्न समानत्वम्॥ 55 ॥
पूर्वोक्ततद्योगोऽपि पुरुषस्याविवेकाद्वक्ष्यमाणादविवेकादेव हि निमित्तात् संयोगो भवति । अतो नोक्तदोषाणां समानत्वमस्तीत्यर्थः। स चाविवेको मुक्तेषु नास्तीति , न तेषां पुनः संयोगो भवतीति। नन्वविवेकोऽत्र प्रकृतिपुरुषाभेदसाक्षात्कारः, संयोगात् प्रागसत्त्वात् , किन्तु विवेकप्रागभावो विवेकाख्यज्ञानवासना वा । तदुभयमपि न पुरुषधर्मः, किन्तु बुद्धिधर्म एवेत्यन्यधर्मेणान्यत्र संयोगोऽतिप्रसङ्गदोषसाम्यमस्त्येवेति चेन्मैवम्। विषयतासम्बन्धेनाविवेकस्य पुरुषधर्मत्वात्, तथा च प्रकृतिर्बुद्धिरूपा सती यस्मै स्वामिपुरुषाय तनुं संयुज्यत इति व्यवस्थयातिप्रसङ्गाभावात् । तदुक्तं कारिकया–
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥
इति । स्वामिने पुरुषाय प्रधानेन दर्शयितुं तयोः कैवल्यार्थं चेत्यर्थः। अविवेकस्य वृत्तिरूपत्वं तु वाङ्मात्रं न तुप तत्त्वं
‘चित्तिस्थिते’ रित्यागामिसूत्रे वक्ष्यामः। अविवेकश्च संयोगद्वारैव बन्धकारणम्, प्रलये बन्धाऽदर्शनात्, अविवेकनाशेऽपि जीवन्मुक्तस्य दुःखभोगदर्शनाच्च। अतः साक्षादेवाविवेको बन्धकारणं प्राङ्नोक्तः। ननु भोग्यभोक्तृभावनियामकत्वेन क्लुप्तस्यानादिस्वस्वामिभावस्य कर्मादीनां वा संयोगहेतुत्वमस्तु , किमित्यविवेकोऽपि संयोगहेतुरिष्यत इति चेन्न।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान गुणान्।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥
इति गीतायां ( अ0 13 श्लो0 81) सङ्गाख्याभिमानस्य संयोगहेतुत्वस्मरणात्स वक्ष्यमाणादिवाक्ययुकर्तिश्चान्यथा ज्ञानतो मोक्षस्य श्रुतिस्मृतिसिद्धस्यानिपपत्तेश्च । अथैवमपि स्वोपाधिकर्मादिकमपि
संयोगकारणं भवति, तद्विहाय कथमविवेक एव केवलं तत्र कारणमुच्यत इति । उच्यते । अविवेकापेक्षया कर्मादीनामपि परम्परयैव पुरुषसम्बन्धः। तथाऽविवेक एव पुरुषेण साक्षात्छेत्तुं शक्यते। कर्मादिकं त्वविवेकाख्यहेतुच्छेदद्वारैवेत्याशयेनाविवेक एव मुख्यतः संयोगहेतुतयोक्त इति। अयं चाविवेकोऽगृहीतासंसर्गकमुभयज्ञानमविद्यास्थलाभिषिक्त एव विवक्षितः। ‘बन्धो विपर्ययभेदाः पञ्चे’ त्यागामिसूत्रद्वयात्, ‘तस्य हेतुरविद्ये’ ति योगसूत्रेऽप्यविद्याया एव पञ्चपर्वाया बुद्धिपुरुषसंयोगहेतुतावचनाच्चान्यथाख्यात्यनभ्युपगममात्र एव योगेतोऽत्र
विशेषौचित्यात्। न पुनरविवेकोऽत्राभावमात्रं विवेकप्रागभावो वा, मुक्तस्यापि बन्धापत्तेः, जीवन्मुक्तस्यापि भाविवेकव्यक्तिप्रागभावेन धर्माधर्मोत्पत्तिद्वारा पुनर्बन्धप्रसङ्गाच्च, तथाऽष़गामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेश्चाभावस्य ध्वान्तवदावरकत्वाऽसम्भवात्, तथा वृद्धिह्नासावप्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति । अस्मन्मते च वासनारूपस्यैवाविवेकस्य संयोगाख्यजन्महेतुतया तमोवदावरकत्ववृद्धिह्नासादिकमञ्जसैवोपपद्यते। ‘तस्य हेतुरविद्येति’
पातञ्जलसूत्रे च भाष्यकारैरविद्याशब्देनाविद्याबीजं व्याक्यातम्, ज्ञानस्य संयोगोत्तरकालीनत्वेन संयोगाजनकत्वादिति। अपि च ‘पुरुषः प्रकृतिस्थो हु भुङ्क्त’ इत्यादिवाक्येष्वऽभिमानाख्यसंयोगस्यैव प्रकृतिस्थताख्यसंयोगहेतुतावगस्यते। अत एव चाऽविद्या नाभावोऽपि तु विद्याविरोधि ज्ञानान्तरमिति योगभाष्ये व्यासदेवैः प्रयत्नेनावधृतम्। तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतया विवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम्। अयं चाऽविवेकस्त्रिधा संयोगाख्यजन्महेतुः, साक्षाद्धर्माधर्मोत्पत्तिद्वारा गारादिदृष्टद्वारा च भवति । ‘सति मूले तद्विपाक’ (द्वि0 13 ) इति योगसूत्रात्। ‘कर्तास्मीति निबद्ध्यते’–इति
स्मृतेः, ‘वीतरागजन्मादर्शना’दिति न्यायसूत्राच्च। तदुक्तं मोक्षधर्मेऽपि–
ज्ञानेन्द्रियाणीन्द्रियार्था नोपसर्पन्त्यतर्षुलम्।
हीनश्च करणैर्देही न देहं पुनरर्हति॥
तस्मात् तर्षात्मकाद्रागाद् बीजाज्जायन्ति जन्तवः॥ इति ।
‘रागस्त्वविवेककार्य’ इति। योगसूत्राभ्यामप्येतत् प्रत्येतव्यम्, समानतन्त्रन्यायात् । तच्च सूत्रद्वयं–‘क्लेशामूलः कर्माशयः सति मूले तद्विपाको जात्यायुर्भोगा’ इति । क्लेशाश्चाविद्यादिपञ्चकमिति । अविवेकस्य बन्धजनने द्वारजातं च पिण्डीकृत्येश्वरगीतायामुक्तम्–
अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत्।
रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः॥
कार्यो ह्यस्य भवेद्दोषः पुण्यापुण्यमिति श्रुतिः।
तद्दोषदेव सर्वेषां सर्ववेदसमुद्भवः॥ इति ।
एतदेव न्याये सूत्रितम्। ‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानमुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । तदेवं संयोगाख्यजन्मद्वारा बन्धाख्यहेयस्य मूलकारणमविवेक इति हेयहेतुः प्रतिपादित ः॥ 55 ॥
इतः परं क्रमप्राप्तं हानोपायव्यूहमतिविस्तरेणशास्त्रसमाप्ति प्रतिपादयति । ्न्तरान्तरा चोक्तव्यूहानपि विस्तरयिष्यति।
नियतकारणात्तदुच्छित्तिर्ध्वान्तवत् ॥ 56 ॥
शुक्तिरजतादिस्थले लोकसिद्धं यन्नियतकारणं विवेकसाक्षात्कारस्तस्मात् तस्याविवेकस्योच्छित्तिर्भवति, ध्वान्तवत्। यथा ध्वान्तमालोकादेव नियतकारणान्नश्यति नोपायान्तरेण, तथैवाऽविवेकोऽपि विवेकादेव नश्यति, न तु कर्मादिभ्यः साक्षादित्यर्थः। तदेतदुक्तं योगसूत्रेण--'विवेकख्यातिरविप्लवा हानोपाय'
(द्वि. पा. 26 ) इति । कर्मादीनि तु ज्ञानस्यैव साधनानि । ‘योगाङअगानुष्ठानादशुद्धिक्षये ज्ञानिदीप्तिराविवेकख्याते ’ (द्वि.पा.28) रिति योगसूत्रेण सत्त्वशुद्धिद्वारा ज्ञान एव योगाङ्गान्तर्गतसर्वकर्मणां साधनत्वावधारणादिति॥
प्राचीनास्तु वेदान्तिनो मोक्षेऽपि कर्मणो ज्ञानाङ्गुत्वमाहुः।
विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्वा विद्ययाऽमृतमश्नुते॥
( ईशा. 3.मं.11) इति श्रुतो, ‘सहकारिकत्वेन चे’ति ( अ. 3पा04सू.33) वेदान्तसूत्रे चाङ्गाङ्गिभावेन ज्ञानकर्मणोः सहकारित्वावधारणात्,
ज्ञानिनाऽज्ञानिना वापि यावद्देहस्य धारणम्।
तावद्वर्णाश्रमप्रोक्तं कर्तव्यं कर्म मुक्तये॥
इत्यादस्मृतेश्च । ‘उपमर्दं चे’ति ( अ0 3पा0 4सू-16 ) वेदान्तसूत्रेण तु कर्मत्यागो योगारूढस्य न्यायप्राप्तोऽनूद्यत एव ज्ञानस्य मुख्यतो मोक्षहेतुत्वं व्यवस्थापयितुम्। यदि हि विक्षेपकत्वात् कर्म ज्ञानाभ्यासस्य विरोधि भवेत् तदा ‘गुणलोपे न गुणिन’ इति न्यायेन प्रधानरक्षार्थमङ्गभूतं कर्मैव त्याज्यं जडभरतादिवदित्याशयादिति । तेषां मतेऽपि विवेकद्वारतां विना विवेकनाशकत्वं कर्मणो नैव सिध्यतीति न तद्विरोधः। अत्र सूत्रे ध्वान्तस्यालोकनाश्यत्ववचनात् तमोऽपि द्रव्यमेव, न त्वालोकाऽभावः, असति बाधके नीलं तम इत्यादिप्रत्ययानां भ्रमत्वानौचित्यात्। नच क्लुप्तेनैवोपपत्तावतिरिक्तकल्पनागौरवमेव बाधकमिति वाच्यम्। एवञ्चसति विज्ञानमात्रेणैव स्वप्नवत्
सर्वव्यवहारोपपत्तावतिरिक्तकल्पनागोरवेण बाह्यार्थप्रतीतेरपि बाधापत्तेः । तस्मादत्र प्रामाणिकत्वाद् गौरवं न दोषयेति। ननु विवेकज्ञानं विनाप्यविवेकाख्यज्ञानव्यक्तीनां स्वस्वतृतीयक्षणेऽवश्यं विनाशज्ज्ञानस्य तन्नाशकत्वं किमर्थमिष्यत इति चेत्। अविवेकशब्देन तद्वासनाया एव पूर्वसूत्रे व्याख्यातत्वात् ।अनागतावस्थस्याविवेकस्यास्मन्मते नाशसम्भवाच्चेति ॥ 56 ॥
ननु प्रकृतिपुरुषाविवेक एव चेत्थं संयोगद्वारा
बन्धहेतुस्तयोर्विवेक एव च मोक्षहेतुपस्तर्हि देहाद्यभिमानसत्त्वेऽपि मोक्षः स्यात्। तच्च श्रुतिस्मृतिन्यायविरुद्धमिति तत्राह–
प्रधानविवेकादन्याविवेकस्य तद्धाने हानम्॥ 57 ॥
पुरुषे प्रधानविवेकात् कारणाद्योऽनव्याविवेको बुद्ध्याद्यविवेको जायते कार्यातयानादिकारणाविवेकमूलकत्वात्, तस्य प्रधानाविवेकहाने सत्यवश्यं हानमित्यर्थः। यथा शरीरादात्मनि विविक्ते शरीरकार्येषु रूपादिष्वविवेको न सम्भवति, तथा कूटस्थत्वादिधर्मैः प्रधानात् पुरुषे विविक्ते तत्कार्येषु परिणामादिधर्मकेषुबुद्ध्यादिष्वभिमानो नोत्पत्तुमुत्सहते तुल्यन्यायात्, कारणनाशाच्चेति भावः। तेदत स्मर्यते–
चित्राधारपटत्यागे त्यक्तं तस्य हि चित्रकम्।
प्रकृतेर्विरमे चेत्थं ध्यायिनां के स्मरादयः ॥ इति ।
विरमो विरामस्त्यागः। आदिशब्देन द्रव्यरूपा अपि विकारा ग्राह्या इति । यच्च बुद्धिपुरुषविवेकादेव मोक्ष इत्यपि क्वचिदुच्यते, तत्र स्थूलसूक्ष्मबुद्धिग्रहणात् प्रकृतेरपि ग्रहणम् । अन्यथा बुद्धिविवेकेऽपि प्रकृत्यभिमानसम्भवादिति। ननु बुद्ध्याद्यभिमानातिरिक्ते प्रकृत्यऽभिमानेकिं प्रमाणमहमज्ञ इत्याद्यखिलाभिमानानां बुद्ध्यादिविषयत्वेनैवोपपत्तेरिति चेन्न।
मृत्वामृत्वा पुनः मृष्टौ स्वर्ग स्थां मा च नारकी॥
इत्याद्यभिमानानां प्रधानविषयत्वं विनानुपपत्तेः, अतीतानां बुद्ध्याद्यखिलकार्याणां पुनः सृष्टयभावात् । प्रधानस्य त्विदमेव प्रलयानन्तरं जन्म यद्बुद्ध्यादिकरूपैकपरिणामत्यागेनापरबुद्ध्यादिरूपतया परिणामनमिति। न चात्मनि जन्मादिज्ञानमभिमान एव न भवति, पुरुषस्यापि लिङ्गशरीरसंयोगवियोगरूपयोर्जन्ममरणयोः परमार्थिकत्वादिति वाच्यम्।
न जायते म्नियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।
( भगवद्गीता0 द्वि0 20) इत्यादिवाक्यैर्जन्मादिप्रतिषेधेनोत्पत्तिविनाशाभिमानरूपस्यात्मनि जन्मादिज्ञानस्य सिद्धेरप्रसक्तस्य प्रतिषेधायोगात् । किञ्च बुद्ध्यादिषु पुरुषाणामभिमानोऽनादिर्वक्तुं न शक्यते , बुद्ध्यादीनां कार्यत्वात्। अतः कार्येष्वभिमानव्यवस्थार्थं नियामकाकाङ्क्षायां कारणाभिमान एव नियामकतया सिद्ध्यति, लोके दृष्टत्वात्; कल्पनायाश्च दृष्टानुसारित्वात् । यथालोकेदृष्टःक्षेत्राभिमानात् क्षेत्र जन्यधान्यादिष्वभिमानः सुवर्णाभिमानाच्च तज्जन्यकटकादिष्वभिमानः, तयोर्निवृत्त्या च तयोर्निवृत्तिरिति प्रधानाभिमानतद्वासनयोश्चबीजाङ्कुरवदनादित्वान्न तदभिमाने नियामकान्त रापे7ेति ॥ 57 ॥
एवं प्रतिपादिते चतुर्व्यूहे पुनरियमाशङ्का। ननु पुरुषे चेद् बन्धमोक्षौ विवेका विवेकौ स्वकृतौ, तर्हि नित्यशुद्धबुद्धमुक्तस्येति स्वोक्तिविरोधः। तथा च,–
न विरोधो न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥
इत्यादिश्रतिविरोधश्चेति । तां परिहरति–
वाङ्मात्रं न तु तत्त्वं चित्तस्थेतेः॥ 58 ॥
बन्धादीनां सर्वेषां चित्त एवावस्थानात् तत् पुरुषे वाङ्मात्रं सर्वं स्फटिकलौहित्यवत् प्रतिबिम्बमात्रत्वन्न तु तत्त्वं तस्य भावः। अनारोपितं जपालौहित्यवदित्यर्थः। अतो नोक्ताविरोध इति भावः। ‘स समानः
सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलैयतीवे’ ( बृह-अ-4खं 3-7) त्यादिश्रुतयस्त्वत्र प्रमाणम्। पुरुषः समानो लोकयोरेकरूपः। इवशब्दाभ्यां नानारूपत्वस्यौपाधिकत्वमुक्तम्। यथा चेक्तम्–
बन्ध मोक्षौ दुःखं मोहापत्तिश्च मायया।
स्वप्ने यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी ॥ इति ॥
मायया मायाख्यप्रकृत्यौपाधिकीत्यर्थः। नन्नेवं तुच्छस्य बन्धस्य हानं कथं पुरुषार्थः, कथं वान्यधर्माभ्यामन्यस्य बन्धमोक्षस्वीकारे कर्मादिभिरिव नाव्यवस्थेति चेदत्रोक्तप्रायमपि पुनः प्रपञ्च्यते। यद्यपि दुःखयोगरूपो बन्धो वृत्तिरूपौ च विवेकाविवेकौ चित्तस्यैव, तथापि पुरुषे दुःखप्रतिबिम्ब एव भोग इत्यवस्तुत्वेपि तद्धानं पुरुषार्थः, दुःखं मा भुञ्जीयेति प्रार्थनात् । एवं यस्मै पुरुषाय प्रकृतिरविवेकेनात्मानं दर्शितवती तद्वासनावशात् तमेव संयोगद्वारा बध्नाति
नान्यम्। तथा यस्मै विवेकेनात्मानं दर्शितवती तमेव स्ववियोगद्वारा मोचयति, वासनोच्छेदादिति व्यवस्थापि घटत इति । कर्मादिभिर्बन्धाभ्युपगमेत्वेवं व्यवस्था न घटते । कर्मादीनां साक्षिभास्यत्वाभावेन साक्षात् पुरुषेष्वप्रतिबिम्बनादिति ॥ 58 ॥
ननु बन्धादिकं चेत् पुरुषे वाङ्मात्रं तर्हि श्रवणेन युक्त्या वा तस्य बाधो भवतु, श्रुतिस्मृत्योः साक्षात्कारपर्यन्तं विवेकज्ञानमुपदिश्यते मोक्षहेतुतयेति, तत्राह–
युक्तितोऽपि बाध्यते दिङ्मूढवदपरोक्षादृते॥ 59 ॥
युक्तिर्मननम्। अपिशब्दः श्रवणसमुच्चयार्थः। वाङ्मात्रमपि पुरुषस्य बन्धादिकं श्रवणमननमात्रेण न बाध्यते साक्षात्कारं विना। यथा दिङ्मूढस्थ जनस्य वाङ्मात्रमपि दिग्वैपरीत्यं श्रवणयुक्तिभ्यां न बाध्यते साक्षात्कारं विनेत्यर्थः। प्रकृते चेदमेव बाध्यत्वं यत् पुरुषे बन्धादिबुद्धिनिवृत्तिर्न त्वभावसाक्षात्कार, श्रवणादिना तदुत्पत्तिसम्भावनाया अप्यभावादिति ॥
अयवेत्थं व्याख्येयम् । ननु नियतकारणात् तदुच्छित्तिरित्यनेन विवेकज्ञानमविवेकोच्छेदकमुक्तम्, तज्ज्ञानं किं श्रवणादिसाधारणमुतास्ति
कश्चिद्विशेष इत्याकाङ्क्षायामाह–युक्तितोऽपीत्यादिसूत्रम्। अविवेको युक्तितः श्रवणतश्च न बाध्यते नोच्छिद्यते । विवेकापरोक्षं विना विरोधित्वादिति ॥ 59 ॥
तदेवं विवेकसाक्षात्कारान्मोक्षं प्रतिपाद्य इतः परं विवेकः प्रतिपादनीयः। तत्रादौ प्रकृतिपुरुषादीनां विवेकतः सिद्धौ प्रमाणान्युपन्यस्यन्ते–
अचाक्षुषाणामनुमानेन बोधो धूमादिभिरिव वह्नेः॥ 60 ॥
अचाक्षुषाणामप्रत्यक्षाणाम्। केचित् तावत् पदार्थाः स्थीलभूततत्कार्यदेहादयः प्रत्यक्षसिद्धा एव, प्रत्यक्षेणासिद्धानां प्रकृतिपुरुषादीनामनुमानेन प्रमाणेन बोधः पुरुषनिष्ठफलसिद्धिर्भवति । यथा धूमादिभिर्जनितेनानुमानेन वह्नेः सिद्धिरित्यर्थः। अनुमानासिद्धमप्यागमात् सिद्ध्यतीत्यपि बोध्यम्। अस्य शास्त्रस्यानुमानप्राधान्यात् तु केवलानुमानस्य मुख्यतयैवोपन्यासो न त्वागमस्यानपेक्षेति । तथा च कारिका–
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्॥
इति ( ईश्वरकृष्णोक्ताका08) ॥ अनेन च सूत्रेणेदं मननशास्त्रमित्यवगम्यते ॥ 60 ॥
उक्तप्रमाणैः साध्यस्य विवेकस्य प्रतियोग्यनुयोगिपदार्थानां सङ्ग्रहसूत्रं वक्ष्यमाणानुमानोपयोगिकार्यकारणभावमपि प्रदर्शयति–
सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतो
ऽहङ्कारोऽहङ्कारात्पञ्चतन्मात्राण्युभयमिन्द्रियं तन्मात्रे
भ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः॥61॥
सत्त्वादीनि द्रव्याणि न वैशेषिका गुणाः
संयोगविभागवत्त्वात्। लघुत्वचलत्वगुरुत्वादिधर्म
[सत्व लघुप्रकाशकमिष्टमुपष्टंभकं चलं ज रजः।
गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥
इति ईश्वरकृष्णेनाप्युक्तम्।] कत्वाच्च। तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्रयुज्यते। तेषां सत्त्वादिद्रव्याणां य साम्यावस्थाऽन्यूनानतिरिक्तावस्था न्यूनाधिकभावेनासंहतावस्थेति यावत्। अकार्यावस्थेति निष्कर्षः। अकार्याऽवस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः। यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात्।
सत्त्वं रजस्तम इति एषैव प्रकृतिः सदा।
एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्॥
इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च। सत्त्वादीनामनुगमाय सामान्येति। पुरुषव्यावर्त्तनाय गुणेति । महदादिव्यावर्तनाय चोपलक्षितान्तमिति । महदादयोऽपि कार्यसत्त्वादिरूपाः पुरुषोपकरणतया गुणाश्च भवन्तीति। तदत्र प्रकृतेःस्वरूपमेवोक्तम्। अस्या विशेषस्तु पश्चाद्वक्ष्यते । प्रकृतेः कार्यो महान् महत्तत्त्वम्। महदादीनां स्वरूपं विशेषश्च वक्ष्यते । महतश्च कार्योऽहङ्कारः । अहङ्कारस्य कार्यद्वयं, तन्मात्राण्युभयमिन्द्रियं च । तत्रोभयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम्। तन्मात्राणां कार्याणि पञ्च स्थूलभूतानि । स्थूलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम्। पुरुषस्तु कार्य्यकारणविलक्षण इति। इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूहः । एतदतिरिक्तः पदार्थो नास्तीत्यर्थः। ्थवा सत्त्वादीनां प्रत्येकव्यक्त्यानन्त्यं गणशब्दो वक्ति। अयंव पञ्चविंशतिकोगणो द्रव्यरूपएव। धर्मधर्म्यभेदात्तु गुणकर्मसामान्यादीनामत्रैवान्तर्भावः। एतदतिरिक्तपदार्थसत्त्वे हि ततोऽपि पुरुषस्य विवेक्तव्यतया तदसद्ग्रहन्यूनतापद्येत । एतेन साङ्ख्यानामनियतपदार्थाभ्युपगम इति मूढप्रलाप उपेक्षणीयः। दिक्कालौ [अत एव “दिशः श्रोत्रमिति " श्रुतेर्न विरोधः।] चाकाशमेव दिक्कालावाकाशादिभ्य इत्यागामिसूत्रात्। एत एव पदार्थाः परस्पकप्रवेशाप्रवेशाभ्यां क्वचित् तन्त्रे एकमेव,[वैशेषिकमते।] क्वचित्तु षट्, क्वचिच्च[ न्यायनये] षोडश, क्वचिच्च सङ्ख्यान्तरैरप्युपदिश्यन्ते । विशेषस्तु साधर्म्यवैधर्म्यमात्र इति मन्तव्यम्। तथा चोक्तं भागवते–
एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः॥
इति नानाप्रसंङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम्।
सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम्॥ इति ॥
एते च पदार्थाः श्रुतिष्वपि गणिताः। यथा गर्भोपनिषदि–‘अष्टौ प्रकृतयः षोडशविकारा’ इति। प्रश्नोपनिषदि च –‘पृथिवी च पृथिवीमात्राचे’त्यादिना । एवं मैत्रेयोपनिषदादिष्वपि। अष्टौ च प्रकृतयः कारिकया व्याख्याताः–
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः॥ इति ।.
एकमेवाद्वितीयं तत्त्वमिति श्रुतिस्मृतिप्रवादस्तु सर्वतत्त्वानां पुरुषे विलापनेन शक्तिशक्तिमदभेदेनेत्यविरोधः। लयस्तु सूक्ष्मीभावेनावस्थानं न तु नाश इति । तदुक्तम्–
आसीज्ज्ञानमयोऽप्यर्थ एकमेवाविकल्पितम्॥
अविकल्पितमविभक्तम्। एतच्च ब्रह्ममीमांसाभाष्येऽद्वैतप्रसङ्गतो विस्तरेणोपपादितम्। विशेषस्त्वयं यत्, सेश्वरवादेऽन्यतत्त्वानां तत्रैवाविभागाद् ईश्वरचैतन्यमेवैकं तत्त्वम्। निरीश्वरवादे तु त्रिवेणिवदन्योन्याविभक्ततयैकस्मिन्कूटस्थे तोजोमण्डववदादित्यमण्डले प्रकृत्याख्यसूक्ष्मावस्थया महदादेरविभागात्मैवैकं तत्त्वमिति । तथाच वक्ष्यति –‘नाद्वैतश्रुतिविरोधो जातिपरत्वादिति ’ ॥ 61 ॥
एतेषु पदार्थेष्वचाक्षुषाणामनुमानेन बोधं प्रतिपादयति सूत्रजातेन–
स्थूलात् पञ्चतन्मात्रस्य ॥ 62 ॥
बोध इत्यनुवर्तते। स्थूलं तावच्चक्षुषमेव । तच्च तन्मात्रकार्यतयोक्तम्। ततः स्थूलभूतात् कार्यात् तत्कारणतया तन्मात्रानुमानेन स्थूलविवेकतो बोध इत्यर्थः। आकाशसाधारण्याय स्थूलत्वमत्र बाह्येन्द्रियग्राह्यगुणकत्वं,
शान्तादिविशेषवत्त्वं वा। तन्मात्राणि च यज्जातीयेषु शान्तादिविशेषत्रयं
न तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूलानामविशेषाः,–
तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता।
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः॥
इति विष्णुपुराणादिभ्यः। अस्यामर्थः। तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मधर्म्यभेदाद् द्रव्याणामपि तन्मात्रता स्मृता। ते च पदार्थाः शान्तघोरमूढाख्यैः स्तूलगतशब्दादिविशेषैः शून्याः, एकरूपत्वात्। तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः। अतोऽविशेषिणोऽविशेषसंज्ञिता इति । शान्तं सुखा त्मकं , घोरं दुखात्मकं , मूढं मोहात्मकम्। तन्मात्राणि च देवादिमात्रभोग्यत्वेन केवलं सुखात्मकान्येव, सुखाधिक्यादिति॥
अत्रेदमनुमानम्–अपकर्षकाष्ठापन्नानि स्थूलभूतानि स्वविशेषगुणवद्द्रव्योपादाकानि स्थूलत्वाद्, घटपटादिवदिति। अत्रानवस्थापत्त्या सूक्ष्ममादायैव साध्यं पर्यवस्यति । अनुकूलतर्कश्चात्र कारणगुणक्रमेण कार्यगुणोत्पत्तेर्बाधकव्यतिरेकेणापरिहार्यत्वम्, श्रुतिस्मृतयष्चेति। प्रकृतेः सब्दास्पर्शादिमात्त्वे तु बाधकमस्ति–
शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम्।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्॥
इति विष्णुपुराणादिवाक्यजातम्। बुद्ध्यहङ्कारयोश्च शब्दस्पर्शादिमत्त्वे भूतकारणत्वश्रुतिस्मृतय एव बाधिकाः सन्ति। बाह्येन्द्रियग्राह्यजातीयविशेषगुणवत्त्वस्यैव भूतलक्षणत्वेन तयोरपि भूतत्वापत्त्या स्वस्य स्वकारणत्वानुपपत्तेरिति। नन्वेवं कारणद्रव्येषु रूपाद्यभावे तन्मात्ररूपादेः किं कारणमिति चेत् स्वकारणद्रव्याणां न्यूनाधिकभावेनान्योऽन्यं संयोगविशेष एव । हरिद्रादीनां संयोगस्य तदुभयारब्धद्रव्ये रक्तरूपादिहेतुत्वदर्शनात् । दृष्टानुसारेण स्वाश्रयहेतुसंयोगानामेव रूपादिहेतुत्वसम्भवे तार्किकाणां परमाणुषु रूपकल्पनं तु हेयम्। सजातीयकारणगुणस्यैव कार्यगुणारम्भकतेति तु तेषामपि न नियमः। ,जातीयकारणगुणस्यैव कार्यगुणारम्भकतेति तु तेषामपि न नियमः। त्र्यसरेणुमहत्त्वादाववयवबहुत्वादेरेव तैरपि हेतुत्वाभ्युपमादिति दिक्॥
इन्द्रियानुमानं चाकाशानुमानद्दर्शनवचनादिभिः प्रत्यक्षाबिर्वृत्तिभिरेवेति तदत्र नोक्तम्। तत्त्वान्तरेण तत्त्वान्तरानुमानानामेव प्रकृतत्वादिति न न्यूनता ।तन्मात्राणां चोत्पत्तौ योगभाष्योक्तप्रक्रियैव ग्राह्या। यथाहङ्काराच्छब्दतन्मात्रम्। ततश्चाऽहह्कारसहकृताच्छब्दतन्मात्राच्छब्दस्पर्शगुणकं स्पर्शतन्मात्रम्। एवं क्रमेणैकैकगुणवृद्ध्या तन्मात्राण्युत्पद्यन्त इति । या तु–
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह।
बलवानभवद्वायुस्ततः स्पर्शो गुणो मतः॥
इत्यादिना विष्णुपुराणे स्पर्शादितन्मात्रसृष्टिराकाशादिस्थूलभूतचतुष्टयादुक्ता। सा भूतरूपेण परिणामनरूपैव मन्तव्या । आकाशादीनि जलान्तानि हि स्थूलभूतानि स्वस्वोत्तरभूतरूपेण स्वानुगततन्मात्राः स्वोपष्टम्भतः परिणमयन्तीति ॥ 62 ॥
बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य॥ 63 ॥
बाह्याभ्यन्तराभ्यामिन्द्रियाभ्यां तैः पञ्चतन्मात्रैश्च कार्यैस्तत्कारणतयाऽहङ्कारस्यानुमानेन बोध इत्यर्थः। अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यं , न त्वभिमानमात्रम् द्रव्यस्यैव लोके द्रव्योपादानत्वदर्शनात्, सुषुप्त्यादावहङ्कारवृत्तिनाशेन भूतनाशप्रसङ्गाद्वासनाश्रयत्वेनैवाहङ्काराख्यद्रव्यसिद्धेश्चेति॥ अत्रेत्थमनुमानम्--तन्मात्रेन्द्रियाण्यभिमानवद्द्रव्योपादानकानि अभिमानकार्यद्रव्यत्वात्, यन्नैवं तन्नैवम् यथा पुरुषादिरिति। नन्वभिमानकार्यद्रव्यमेवासिद्धमिति चेद्, अहं गोर इत्यादिवृत्त्युपादनतया चक्षुरादिवत् तत्सिद्धेः। अनेन चानुमानेन मन आद्यातिरेकमात्रस्य तत्कारणतया प्रसाध्यत्वात् । अत्र चायमनुकूलस्तर्कः। 'बहुस्यां प्रजायेये'त्यादिश्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्वकत्वाद् बुद्धिवृत्तिपूर्वकसृष्टौ कारणतयाभिमानः सिद्धः। तत्र चैकार्थसमवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात् कल्प्यत इति । नन्वेवं कुलालाहङ्कारस्यापि घटोपादानत्वापत्त्या कुलालमुक्तौ तदन्तःकरणनाशे तन्निर्मितघटनाशः स्यात्, न चैतद्यक्तम् पुरुषान्तरेण स एवायं घट इति
प्रत्यभिज्ञायमानत्वादिति। मैवम्। मुक्तपुरुषभोगहेतुपरिणामस्यैव तदन्तःकरणमोक्षोत्तरमुच्छेदात्, न तु परिणामसामान्यस्यान्तःकरणस्वरूपस्यैवोच्छेदः । ‘कृतार्थं’ प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वा (द्वि0-पा0-22) दितियोगसूत्रे मुक्तपुरुषोपकरणस्याप्यन्यपुरुषार्थसाधकत्वसिद्धेरिति । अथवा घटादिष्वपि हिरण्यगर्भाहङ्कार एव कारणमस्तु, न कुलालद्यहङ्कारस्तथापि सामान्यव्याप्तौ न व्यभिचारः। समष्टिबुद्ध्याद्युपादानिकैव हि सृष्टिः पुराणादिषु साङ्ख्ययोगयोश्च प्रतिपाद्यते, न तु तदंशव्यष्ठिबुद्ध्याद्युपादानिका । यथा महापृथिव्या एव स्थावरजङ्गमाद्युपादानत्वं न तु पृथिव्यंशलोष्ठादेरिति॥ 63 ॥
तेनान्तः करणस्य ॥ 64 ॥
तेनाहङ्कारेण कार्येण तत्काररणतया मुख्यस्यान्तःकरणस्य महदाख्यबुद्धेरनुमानेन बोध इत्यर्थः। अत्राप्ययं प्रयोगः--अहङ्कारद्रव्यं निश्चयवृत्तिमद्द्रव्योपादानकम् निश्चयकार्यद्रव्यत्वात्, यन्नैवं तन्नैवम् यथा पुरुषादिरिति । अत्राप्ययं तर्कः । सर्वोऽपि लोकः पदार्थमादौ स्वरूपतो निश्चित्य पश्चादभिमन्यते अयमहं मयेदं कर्त्तव्यमित्यादिरूपेणेति तावत् सिद्धमेव । तत्राहङ्कारद्रव्यकारणाकाङ्क्षायां वृत्त्योः कार्यकारणभावेन तदाश्रययोरेव कार्यकारणभावो लाघवात् कल्प्यते । कारणस्य वृत्तिलाभेन कार्यवृत्तिलाभस्यौत्सर्गिकत्वादिति । श्रुतावपि 'स ईक्षाञ्चक्रे तदैक्षते'त्यादौ सर्गाद्युत्पन्नबुद्धित एव तदितराखिलसृष्टिरवगम्यते इति । यद्यप्येकमेवान्तः करणं वृत्तिभेदेन त्रिविधं लाघवात्।
गुणक्षोभे जायमाने महान् प्रादुर्बभूव ह।
मनो महांश्च विज्ञेय एकं तद्वृत्तिभेदतः॥
इति लैङ्गात्। ’ पञ्चवृत्तिर्मनोवद् व्यपदिश्यत’ इति वेदान्तसूत्रेणप्राणदृष्टान्तविधया मनसोऽपि वृत्तिमात्रभेदेन बहुत्वसिद्धेश्च । अभ्यथा निश्चयादिवृत्तिभिरिव भ्रमसंशयनिद्राक्रोधानिवृत्तिभिरपि स्वसमसङ्ख्यानन्तान्तःकरणापत्तेः। बुद्ध्यादिष्वव्यवस्थया मन आदिप्रयोगस्य पातञ्जलादिसर्वशास्त्रेष्वनुपपत्तेश्च। तथापि वंशपर्वस्विवावान्तरभेदमाश्रित्यान्तःकरणत्रये क्रमःकार्यकारणभावश्चोक्तः, योगोपयोगिश्रुतिपरिभाषानुसारादिति मन्तव्यम्, तदुक्तं वशिष्ठे–
अहमर्थोदयो योऽयं चित्तात्मा वेदनात्मकः।
एतच्चित्तद्रुमस्थास्य बीजं विद्धि महामते!॥
एतस्मात् प्रथमोद्भिन्नादङ्कुरोऽभिमवाकृतिः।
निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते॥
अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता ।
सङ्कल्परूपिणी तस्याश्चित्तचेतोमनोऽभिधा ॥ इति ॥
अहमर्थोऽन्तःकरणसामान्यम्। अत्र वाक्ये बीजाङ्कुरन्यायेन एकस्यैवान्तःकरणवृक्षस्य वृत्तिमात्ररूपेण चित्ताद्याख्यावस्थाभेदाः क्रमिकास्त्रिविधाः परिणामा उक्ता इति । साङ्ख्यशास्त्रे च चिन्तावृत्तिकस्य चित्तस्य बुद्धावेवान्तर्भावः। अहङ्कारस्य चात्र वाक्ये बुद्धावन्तर्भावः॥ 64 ॥
ततः प्रकृतेः॥ 65 ॥
ततो महत्तत्त्वात् कार्यात् कारणतया प्रकृतेरनुमानेन बोध इत्यर्थः। अन्तःकरणसामान्यस्यापि कार्यत्वं तावदेकदा पञ्चेन्द्रियज्ञानानुत्पत्त्या मध्यमपरिमाणतया देहादिवदेव सिद्धम्, श्रुतिस्मृतिप्राणाण्याच्च। तस्य च प्रकृतिकार्यत्वेऽयं प्रयोगः--सुखदुःखंमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्मकद्रव्यजन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात्, कान्तादिवदिति । कारणगुणानुसारेणैव कार्यगुणौचित्यं चात्रानुकूलस्तर्कः,श्रुतिस्मृतयोऽपीति मन्तव्यम्। ननु विषयेषु सुखादिमत्त्वे प्रमाणं नास्ति, अहंसुखीत्याद्येवानुभवात्, तत्कथं कान्तादिविषयो दृष्टान्त इति चेन्न। सुखाद्यात्मकबुद्धिकार्यतया स्रकसुखं चन्दनसुखमित्याद्यनुभवेन च विषयाणामपि सुखादिधर्मकत्वसिद्धेः, श्रुतिस्मृतिप्राणाण्यच्च । किञ्च यस्यान्वयव्यतिरेकौ सुखादिना सह दृश्येते तस्यैव सुखाद्युपादानत्वं कल्प्यते। तस्य निमित्तत्त्वं परिकल्प्यान्यस्योपादानत्वकल्पने कारणद्वयकल्पनागोरवात् । अपि चान्योऽन्यसंवादेन प्रत्यभिज्ञया च विषयेषु
सर्वपुरुषसाधारणस्थिरसुखसिद्धिः। तत्सुखग्रहणायास्मन्नये वृत्तिनियमादिकल्पनागोरवं च फललमुखत्वान्न दोषावहम्। अन्यथा प्रत्यभिज्ञयाऽवयव्यसिद्धिप्रसङ्गात् तत्कारणादिकल्पनागौरवादिति । विषयेऽपि सुखादिकं च मार्कण्डेये प्रोक्तम्–
तत् सन्तु चेतस्यथवापि देहे
सुखानि दुःखानि च किं ममात्र ॥ इति ॥
अहं सुखीत्यादिप्रत्ययस्तु , अहं धनीत्यादिप्रत्ययवत् स्वस्वामिभावाख्यसम्बन्धविषयकः। तेषां प्रत्ययानां समवायसम्बन्धविषयकत्वभ्रमनिरासार्थं तु सुखिदुःखिमूढेभ्य पुरुषो विवच्यते शास्त्रेष्विति। शब्दादिषु च सुखाद्यात्मताव्यवहार एकार्थसमवायात् । अस्तु वा शब्दादिषु साक्षादेव सुखमुक्तप्रमेणेभ्यः, विषयगतसुखादेश्च बुद्धिमात्रग्राह्यत्वं फलबलात्। यत्तु विषयासम्प्रयोगकाले शान्तिसुखं सात्त्विकं सुषुप्त्यादौ व्यज्यते, तदेव बुद्धिधर्म आत्मसुखमुच्यते इति । यद्यपि वैशेषिकाद्या अपि तार्किकाः प्रपञ्चेऽन्यथापि कार्यकारणव्यवस्थामनुमिमते, तथापि बहुलश्रुतिस्मृत्युपोद्वलनेनास्माभिरनुमितैव व्यवस्था मुमुक्षुभिरूपादेया । मूलशैथिल्यदोषेण परानुमानानां दुर्बलत्वात् । अत एव ‘तर्काप्रतिष्ठाना’ दिति (अ02पा0सू–11) वेदान्तसूत्रेणाप्रतिष्ठादोषतः केवलतर्कोऽपास्तः। तथा मनुनापि–
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना।
यस्तर्केणाऽनुसन्धत्ते स धर्मं वेद नेतरः॥
इति वेदाविरुद्धतर्कस्यैवार्थनिश्चायकत्वमुक्तम्। तस्मात् ‘श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ’ इत्यादिवाक्येभ्यः श्रणसमानार्थकमेव मननं बलवत् । अन्याकारं मननं तु परेषां दुर्बलम्। एवं पुरुषेऽपि सुख-दुःःखादिसत्त्वेन तेषामनुमानं बहुलश्रुत्यादिविरोधाद् दुर्बलमिति दिक्। प्रकृतिगतविशेषं च पश्चाद्वक्ष्यामः
॥ 65 ॥
नन्वखिलजडेभ्यः पुरुषविवेक एव मुक्तौ हेतुस्तत् किमर्थं जडानामन्योऽन्यविवेकोऽत्र दर्शित इति चेत्, प्रकृत्यादितत्त्वोपासनया सत्त्वशुद्ध्यर्थं विवेकस्याप्यपेक्षितत्वादिति। कार्यकारणमुद्रया प्रकृतिपर्यन्तस्यामुमानेन विवेकतः सिद्धिमुक्त्वा यथोक्तकार्यकारणभावशून्यस्य पुरुषस्य प्रकारान्तरेणाऽनुमानतस्तथा सिद्धिमाह–
संहतपरार्थत्वात् पुरुषस्य ॥ 66 ॥
संहननमारम्भकसंयोगः। स चावयवावयव्यभेदात् प्रकृतिकार्यसाधारणः। तथा च संहतानां प्रकृतितत्कार्याणां परार्थत्वानुमानेन पुरुषस्य बोध इत्यर्थः।तद्यथा विवादास्पदं प्रकृतिमहदादिकं परार्थम्-स्वेतरस्य भोगाऽपवर्गफलकम् संहतत्वात्, शय्यासनादिवदित्यनुमानेन प्रकृतेः परोऽसंहतएव पुरुषः सिद्ध्यति। तस्यापि संहतत्वेऽनवस्थापत्तेः। पातञ्जले च– ‘परार्थं संहत्य कारित्वा’ (कै0पा023) दिति सूत्रकारेणानुमानं कृतम्। तत्तु यथाश्रुतमेवान्त्याऽवयवसाधारणम्, इतरसाहित्येनार्थक्रियाकारित्वस्यैव संहत्यकारिताशब्दार्थत्वात्। पुरुषस्तु विषयप्रकाशरूपायां स्वार्थक्रियायां नान्यदपेक्षते, नित्यप्रकाशरूपत्वात् पुरुषस्यार्थसम्बन्धमात्रे बुद्धिवृत्त्यपेक्षणात्। सम्बन्धस्तु नासाधारण्यर्थक्रियेति। अत्र च ‘न वा अरे सरक्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवती’ त्यादिश्रुति(बृह04।5-6)स्मृतयोऽनुकूलतर्काः। अन्यच्च सुखादिमत् प्रधानादिकं यदि स्वस्य सुखादिभोगार्थं स्यात्तदा तस्य साक्षात् स्वज्ञेयत्वे कर्मकर्तृविरोधः। न हि धर्मिभानं विना सुखस्य भानं सम्भवति, अहं सुखीत्येवं सुखानुभवादिति। अपि च संहन्यमानानां बहूनां गदुणानां तत्कार्याणां चानेकविकाराणामनेकचैतन्यगुणकल्पनायां गौरवेण लाघवादेक एव चित्प्रकाशरूपः पुरुषः सर्वसंहतेभ्यः परः कल्पयितुं युज्यत इति, सूत्रेण निमित्तकारणतया पुरुषानुमानमुक्तम्, पुरुषार्थस्याऽखिलवस्तुसंहनननिमित्तत्ववचनात्। अत एव सर्गाद्युत्पन्नपुरुषं प्रकृत्य विष्णुपुराणादौ स्मर्यते–
निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि।
प्रधानकारणीभूता यतो वै सृज्यशक्त्यः॥
गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितान्मुने!।
गुणव्यञ्जन,म्भूतिः सर्गकाले द्विजोत्तम !॥
इत्यादिक्षेत्रज्ञाऽधिष्ठानं चासमाप्तपुरुषार्थस्य संयोगमात्रं गुणव्यञ्जनं महत्तत्वं कारणतया त्रिगुणात्मप्रधानव्यञ्जकत्वादिति । तदेवमचाक्षुषाणामनुमानेन सिद्धिरुक्ता॥ 66 ॥
इदानीं सर्वकारणत्वोपपत्तये प्रकृतिनित्यत्वमुपपाद्यते पुरुषकौटस्थ्यसिद्ध्यर्थम्–
मूले मूलाभावादमूलं मूलम् ॥ 67 ॥
त्रयोविंशतितत्त्वानां मूलमुपादानं प्रधानं मूलशून्यम्। अनवस्थापत्त्या तत्र मूलान्तरासम्भवादित्यर्थः॥ 67 ॥
ननु–
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम !।
इत्यादिना प्रधानस्यापि पुरुषादुत्पत्तिश्रवणात् पुरुष एव प्रकृतेर्मूलं भवतु, पुरुषस्य नित्यतया च नानवस्था, अविद्याद्वारकतया च न पुरुष कौटस्त्यहानि , तथाच स्मर्यते–
तस्मादज्ञानमूलोऽयं संसारः पुरुषभ्य हि । इति ॥
इत्याशङ्क्याह–
पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञामात्रम्॥ 68 ॥
अविद्यादिद्वारेण परम्परया पुरुषस्य जगन्मूलकारणत्वेऽप्येकस्मिन्नविद्यादौ यत्र कुत्रचिन्नित्ये द्वारे परम्परायाः पर्यवसानं भविष्यति, पुरुषस्यापरिणामित्वात्। अतो यत्र पर्यवसानं सैव नित्या प्रकृतिः । प्रकृतिरिहमूलकारणस्य संज्ञामात्रमित्यर्थः॥ 68 ॥
नन्वेवं पञ्चविंशतितत्त्वानीति नोपपद्यतेस महत्तत्त्वकारणाव्यक्तापेक्षयापि जडतत्त्वान्तरापत्तेरित्याशयेन मूलसमाधानमाह–
समानःप्रकृतेर्द्वयोः॥ 69 ॥
वस्तुतस्तुप्रकृतेर्मूलकारणविचारे द्वयोर्वादिप्रतिवादिनोरावयोः समानः पक्षः। एतदुक्तं भवति । यथा प्रकृतेरुत्पत्तिः श्रूयते, एवमविद्याया अपि ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः।
इत्यादिवाक्यैः। अत एकस्या श्रवश्यं गौण्युत्पत्तिर्वक्तव्या। तत्र च प्रकृतेरेव पुरुषसंयोगादिभिरभिव्यक्तिरूपा गोण्युत्पत्तिर्युक्ता,–
संयोगलक्षणोत्पत्तिः कथ्यते कर्मज्ञानयोः।
इति कौर्मवाक्ये प्रकृतिपुरुषयोर्गौणोत्पत्तिस्मरणात्। अविद्यायाश्च क्वापि गोणोत्पत्त्यश्रवणात् तस्या अनादिता। वाक्यानि तु मिथ्याज्ञानरूपा बुद्धिधर्म इति योगे सूत्रितमतो न तत्त्वाधिक्यम्। अथवा द्वयोः प्रकृतिपुरुषयोः समान एव न्याय इत्यर्थः।
यतः प्रधानपुरुषौ यतश्चैतच्चराचरम्।
कारणं सकलस्याऽस्य स नो विष्णुः प्रसीदतु॥
इत्यादिवाक्यैः पुरुषस्याप्युत्पत्तिश्रवणादिति भावः। तथाच पुरुषस्येव प्रकृतेरपि गौण्येवोत्पत्तिः। नित्यत्वश्रवणादित्यपि समानमिति। तस्मात् प्रकृतिरेवोपादानं जगतः। प्रकृतिधर्मश्चाऽविद्या जगन्निमित्तकारणम्। तथा पुरुषोऽपीति सिद्धम्। यत्तु,–
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणम्।
सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम्॥
इति मोक्षधर्मे प्रकृतिपुरुषयोरविद्याविद्येति वचनम्। तत्तु तदुभयविषयतयोपचरितमेव । परिणामित्वेन हि पुरुषापेक्षया प्रकृतिरसतीति तस्या अविद्याविषयत्वमुक्तम्। एवमेव तस्मिन् प्रकरणे स्वस्वकारणाऽपेक्षया भूतानां कार्यजातमविद्येत्युक्तम्. स्वस्वपेक्षया च स्वस्वकारणं विद्येति । पुरुषस्य परिणामरूपं जगदुपादानत्वं तु प्रकृत्युपाधिकमेव कर्तृत्वादिवत् श्रुतिस्मृत्योरूपासार्थमेवानूद्यते। अन्यथा ‘अस्थूलमनण्वह्नस्वमि’त्यादिश्रुतिविरोधापत्तेरिति मन्तव्यम्। मायाशब्देन च प्रकृतिरेवोच्यते। ‘मायां तु प्रकृतिं विद्यादिति ’ श्रुतौ ‘अस्मान्मायीसृजते विश्वमेतते, तस्मिंश्चान्यो मायया सन्निरुद्धः’ इति पूर्वप्रकान्तमायायाः प्रकृतिस्वरूपतावचनात्,
सत्त्वं रजस्तम इति प्राकृतं तु गुणत्रयम्।
एतन्मयी च प्रकृतिर्माया या वैष्णवी श्रुता॥
लोहितश्वेतकृष्णेति तस्यास्तादृग्बहुप्रजाः॥
इत्यादिस्मृतिभ्यश्च। न तु ज्ञाननाश्या अविद्या मायाशब्दार्थौ , नित्यत्वानुपपत्तेः। किञ्चाविद्याया द्रव्यत्वे शब्दमात्रभेदो, गुणत्वे च तदाऽधारतया प्रकृतिसिद्धिः, पुरुषस्य निर्गुणत्वादिभ्यः। अथ द्रव्यगुणकर्मविलक्षणैवाऽस्माभिरविद्या वक्तव्येति चेन्न। तादृकपदार्थाप्रतीतेरुक्तत्वादिति ।. 69 ॥
नन्नेवञ्चेत् प्रकृतिपुरुषाद्यनुमानप्रकारोऽस्ति तर्हि सर्वेषामेव कथं विवेकमननं न जायते, तत्राह–
अधिकारित्रैविध्यान्न नियमः॥ 70 ॥
श्रवणादाविव मननेऽप्यधिकारिणस्त्रिविधा मन्दमध्यमोत्तमा इत्यो न सर्वेषामेव मनननियमः। कुतर्कादिभिर्मन्दमध्यमयोर्बाधसत्प्रतिपक्षतासम्भवादित्यर्थः। मन्दैर्हि बौद्धाद्युक्तकुतर्कजातेनोक्ताऽनुभानानि वाध्यन्ते। मध्यमैश्च बुद्धाद्युक्तेरैव विरुद्धासल्लिङ्गैः सत्प्रतिपक्षितानि क्रियन्ते। अत उत्तमाधिकारिणामेवैतादृशमननं भवतीति भावः। प्रकृतेः स्वरूपं गुणसाम्यं प्रागेवोक्तम्। सूक्ष्मभूतादिकं च प्रसिद्धमेवास्तीति॥ 70 ॥
अवशिष्टयोर्महदहङ्कारयोः स्वरूपमाह सूत्राभ्याम्–
महदाख्यमाद्यं कार्यं तन्मनः॥ 71 ॥
महदाख्यमाद्यं कार्यं तन्मनो मननवृत्तिकम्। मननमत्र निश्चयः। तद्वृत्तिका बुद्धिरित्यर्थः।
यदेतद्विस्तृतं बीजं प्रधानपुरुषात्मकम्।
महत्तत्त्वमिति प्रोक्तं बुद्धितत्त्वं तदुच्यते॥
इत्यादिवाक्येभ्यो बुद्धेरेवाग्यकार्यत्वावगमात्॥ 71 ॥
चरमोऽहङ्कारः॥ 72 ॥
तस्यानन्तरो यः सोऽहङ्कारोतीत्यहङ्कारोऽभिमानवृत्तिक इत्यर्थः॥ 72 ॥
यतोऽभिमानवृत्तिकोऽहङ्कारोऽतस्तत्कार्यत्वमुत्तरेषामुपपन्नमित्याह–
तत्कार्यत्वमुत्तरेषाम्॥ 73 ॥
सुगमम्। एवं त्रिसूत्रीं व्याख्याय पोनरुक्त्याशङ्कापास्ता ॥ 73 ॥
नन्वेवं प्रकृतिः सर्गकारणमिति श्रुतिस्मृतिविरोध इत्यशङ्कायामाह–
अद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत्॥ 74 ॥
पारम्पर्येऽपि साक्षादहेतुत्वेऽप्याद्यायाः प्रकृतेर्हेतुताहङ्कारादिषु महदादिद्वारास्ति । यथा वैशेषिकमतेऽणूनां घटादिहेतुता द्व्यणुकादिद्वारैवेत्यर्थः॥ 74 ॥
ननु प्रकृतिपुरुषयोरुभयोरेव नित्यत्वात् प्रकृतेरेव कारणत्वे किं नियामकं ? तत्राह–
पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः॥ 75 ॥
द्वयोरेव पुम्प्रकृत्योरखिलकार्यपूर्वभावित्वेऽप्येकतरस्य पुरुषस्यापरिणामित्वेन कारणताहान्याऽन्यतरस्याः कारणत्वौचित्यमित्यर्थः। पुरुषस्यापरिणामित्वे चेदं बीजम् । पुरुषस्य संहत्य कारित्वे परार्थत्वापत्त्याऽनवस्था । असंहत्य कारत्वे सर्वदा महदादिकार्यप्रसङ्गः। प्रकृतिद्वारा परिणामकल्पने च लाघवात् तस्या एव परिणामोऽस्तु । पुरुषे तु स्वामित्वेन स्रष्ट्टत्वोपचारः। यथा योधेषु वर्तमानौ जयपराजयौ रादन्युपचर्येते, तत्फलसुखदुःखभोक्तृत्वेन तत्स्वामित्वादिति। किञ्च धर्मिग्राहकमानेन कारणतयैव प्रकृतेः सिद्धौ नान्यकारणाकाङ्क्षास्ति। यथा धर्मिग्राहकप्रमाणेन द्रष्ट्टतया पुरुषसिद्धौ नान्यद्रष्ट्राकाङ्क्षेति । अपि च पुरुषस्य परिणामित्वे कदाचिच्चक्षुर्मनादिवद् बन्ध्यत्वमपि स्यात्। तथा च विद्यमानमपि सुखदुःखादिकं न ज्ञायेत। ततश्चाहं सुखी न वेत्यादिसंशयापत्तिः। अतः सदा प्रकाशस्वरूपत्वानपायेन पुरुषस्यापरिणामित्वं सिद्ध्यति । तदुक्तं योगसूत्रेण–‘सदा ज्ञाताश्चित्तवृत्तययस्तत्प्रभोः पुरुषस्यापरिणामित्वा’दिति (कै0पा018 ) । तद्भैष्येण च ‘सदा ज्ञानविषयत्वं तु पुरुषस्याऽपरिणामित्वं परिदीपयती’ति। सदा प्रकाशस्वरूपत्वेऽपि यथा नैकदा विश्वप्रकाशत्वं तथा वक्ष्यामः॥ 75 ॥
प्रकृतेर्युगपत्कारणत्वोपपत्तये विभुत्वमपि प्रतिपादयति–
परिच्छिन्नं न सर्वोपादानम्॥ 76 ॥
सर्वोपादानं प्रधानं न परिच्छिन्नं व्यापकमित्यर्थः। सर्वोपादानत्वमत्र हेतुगर्भविशेषणम्, परिच्चिन्ने तदसम्भवादिति।
ननु प्रकृतेरपरिच्छिन्नत्वं नोपपद्यते, प्रकृतिर्हि सत्त्वादिगुणत्रयादतिरिक्ता न भवति ‘सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादि’त्यागामिसूत्रात्, योगसूत्रभाष्याभ्यां स्पष्टमवधृतत्वाच्च। तेषां सत्त्वादीनां लघुत्वचलत्वगुरुत्वादयो धर्मा वक्ष्यमाणा विभुत्वे सति विरुद्ध्यन्ते, सृष्ट्यादिहेतवः संयोगविभागादयश्च नोपपद्यन्त इति॥
अत्रोच्यते परिच्छिन्नत्वमत्र दैशिकाभावप्रतियोगितावच्छेदकाऽवच्छिन्नत्वम्। तदभावश्च व्यापकत्वम्। तथाच जगत्कारणत्वस्य दैशिकाभावप्रतियोगितानवच्छेदकत्वमेवेति प्रकृतेर्व्यापकत्वमिति पर्यवसितम्। यथा प्राणस्य स्थावरजङ्गमाद्यखिलशरीरव्यापकत्वं प्राणत्वसामान्येनोच्यते, प्राणव्यक्तीनां सर्वदेहसम्बन्धात्, तद्वत् प्रकृतेर्व्यापकत्वमिति। प्रकृतेरक्रियैकत्वादिकं च साधर्म्यवैधर्म्यसूत्रे प्रतिपादयिष्यामः ॥ 76 ॥
न केवलं सर्वोपादानत्वात्, अपि तु–
तदुत्पत्तिश्रुतेशश्च ॥ 77 ॥
तेषां परिच्छिन्नानामुत्पत्तिश्रवणाच्च। 'अथ यदल्पं तन्मर्त्त्य' मित्यादिश्रुतिषु मरणधर्मकत्वेन परिच्छिन्नस्योत्पत्त्यवगमात्, श्रुत्यन्तरेभ्यश्चेत्यर्थः॥ 77 ॥
इदानीं प्रकृतिकारणतोपपत्तयेऽभावादिकारणतां निरस्यति–
नावस्तुनो वस्तुसिद्धिः॥ 78 ॥
अवस्तुनोऽभावन्न वस्तुसिद्धिर्भावोत्पत्तिः। शशशृङ्गाज्जगदुत्पत्त्या मोक्षाद्यनुपपत्तेस्तददर्शनाच्चेत्यर्थः॥ 78 ॥
ननु जगदप्यवस्त्वेवास्तु स्वप्नादिवदिति, तत्राह–
अबाधाददुष्टकारणजन्यत्वाच्च नावस्तुत्वम्॥ 79 ॥
स्वप्नपदार्थस्येव प्रपञ्चस्य बाधः श्रुत्यादिप्रमाणैर्नास्ति। तथा शङ्खपीतिमादेरिव दुष्टेन्द्रियादिजन्यत्वमपि नास्ति । दोषकल्पने प्रमाणाभावादित्यतो न कार्यस्यावस्तुत्वमित्यर्थः। ननु 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य' मित्यादश्रुति (धांदो06।1।4) भिरेव प्रपञ्चस्य बाधो, बाधाच्चाविद्याख्यदोषोऽपि स्वकारणेऽस्तीति चेन्न। मृद्दृष्टान्तसिद्ध्यन्यथानुपपत्त्या स्वकारणापेक्षकास्थैर्यरूपासत्त्वपरत्वात् तादृग्वाक्यानाम्, अन्यथा सृष्ट्यादिवक्यविरोधाच्च। किञ्च श्रुत्या प्रपञ्चबाधे आत्माश्रयः। स्वस्यापि प्रपञ्चान्तर्गततया बाधेन तद्बोधितार्थे पुनः संशयापत्तिश्चेति। अत एव बाधाबाधादिवैधर्म्यादुपलम्भाच्च जाग्रत्प्ररञ्चस्य स्वप्नखपुष्पादितुल्यत्वमतिनिर्बन्धेन प्रत्याचष्टे वेदान्तसूत्रद्वयम्-- 'वैधर्म्याच्च न स्वप्नादिवदिति' (वे-सू-21आ-2अध्या2)'उपलब्धेश्चेति' च ।
‘नेति नेती’त्येवंविधवाक्यानि च विवेकपराण्येव, न तु स्वरूपतः प्रपञ्चनिषेधपराणि–‘प्रकृतैतावत्त्वं हि प्रतिषेधतीति’ वेदान्तसूत्रात्। एवमन्यान्यपि वाक्यानि ब्रह्ममीमांसाभाष्येऽस्माभिर्व्याख्यातानि॥ 79 ॥
नावस्तुनो वस्तुसिद्धिरिति यदुक्तं, तत्र हेतुमाह–
भावे तद्योगेन तत्सिद्धिरभावे तदभावात्
कुतस्तरां तत्सिद्धिः॥ 80 ॥
भावे कारणस्य सद्रूपत्वे तद्योगेन सत्तायोगेन कार्यसिद्धिर्घटेत। कारणस्याभावेऽसद्रूपत्वे तु तदभावात् कार्यस्याप्यसत्त्वात् कथं वस्तुभूतकार्यसिद्धिः। कारणस्वरबपस्यैव कार्यस्यौचित्यादित्यर्थः॥ 80 ॥
ननु तथापि कर्मैवावश्यकत्वाज्जगत्कारणमस्तु, किं प्रधानकल्पनयेति तत्राप्याह–
नकर्मण उपादानत्वायोगात्॥ 81 ॥
कर्मणोऽपि वस्तुसिद्धिर्निमित्तकारणस्य कर्मणो न मूलकारणत्वम्,गुणानां द्रव्योपादीनत्वायोगात् । कल्पना हि दृष्टाऽनुसारेणैव भवति। वैशेषिकोक्तगुणानां चोपादानत्वं न क्वापि दृष्टिप्नित्यर्थः। अत्र कर्मशब्दोऽविद्यादीनामप्युपलक्षकः, गुणत्वाऽविशेषेण तेषामप्युपादानत्वायोगात्। चक्षुषः पटलादिवदविद्यायाश्येतनगतद्रव्यत्वे तु प्रधानस्य संज्ञामात्रभेद इति ॥ 81 ॥
तदेवं परिणामित्वापरिणामित्वपरार्थत्वापरार्थत्वाभ्यां पुस्प्रकृत्योर्विवेको दर्शितः। इदानीं विवेकज्ञानस्यैवाविवेकनाशद्वारा परमपुरुषार्थहेतुत्वं, न तु तत्र वैदिककर्मणां साक्षाद्धेतुतास्तीति यत् प्रागुक्तम् ‘अविशेषश्चोभयो’रिति सूत्रेण तदेव प्रपञ्चयति पञ्चभिः सूत्रेः–
नानुश्रविकादपि तत्सिद्धिः साध्यत्वेनावृत्तियोगा-
दपुरुषार्थत्वम्॥ 82 ॥
अपिशब्देन न दृष्टात् तत्सिद्धिरिति प्रागुक्तदृष्टसमुच्चयः। गुरोरनुश्रूयत इत्यनुश्रवो वेदः। तद्विहितो यागादिरानुश्रविक' कर्म। तस्मादपि न पूर्वोक्तपुरुषार्थसिद्धिः। यतः सर्मसाध्यत्वेन पुनरावृत्तिसम्बन्धादत्यन्तपुरुषार्थत्वाभाव इत्यर्थः। कर्मसाध्यस्य चानित्यत्वे श्रुतिः-- 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लाकः क्षीयत' इति । ' न कर्मणामन्यधर्मत्वा' दिति सूतच्रेण पूर्वं कर्मणा बन्धो निराकृतः। इदानीं च मोक्षो निराक्रियत इत्यपौनरुक्त्यम्। अन्यधर्मत्वेन पूर्वोक्तहेतुना बन्ध इव मोक्षेऽपि कर्मणो हेतुत्वं निराकृतप्रायमिति पुनराशङ्कैव नोदेतीति चेन्न । बन्धहेतुत्वेनाविवेके सिद्धे तत्पुरुषीयाविवेकजत्वेन कर्मणा तदीयत्वव्यवस्थोपपत्तेरिति
॥ 82 ॥
नन्वेवं पञ्चाग्निविद्यारूपेणोपासनाख्यकर्मणा तीर्थमरणादिकर्मणा च ब्रह्मलोकं गतस्यानावृत्तिश्रुतिः कथमुपपद्यते, तत्राह–
तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः॥ 83 ॥
तत्रानुश्रविककर्मणि ब्रह्मलोकगतानां यांऽनावृत्तिश्रुतिः सा तत्रैव प्राप्तविवेकस्य मन्तव्या ।
अन्यथा हि ब्रह्मलोकादप्यावृत्तिं प्रतिपादयतां वाक्यान्तराणां विरोध इत्यर्थः। तथापि साप्यनावृत्तिर्विवेकज्ञानस्यैव फलं, न तु साक्षादेव कर्मण इति । एतच्च षष्टाध्याये प्पञ्चयिष्यति। ब्रह्ममीमांसाभाष्ये च तयोर्वाक्यान्युदाहृत्यास्माभिर्व्याख्यातानि ॥ 83 ॥
कर्मणस्तु फलं तदाह–
दुःखाद् दुःखं जलाभिषेवन्न जाड्यविमोकः॥ 84 ॥
आनुश्रविकात्तु हिंसादिदोषेण दुःखात्मकभोगेन च दुःखाद् दुःखं दुःखधारैव भवति, न तु जाड्यविमोकोऽविवेकनिवृत्तिः। दुःखविमोकस्त्वतिदर एव तिष्ठति । यथा जाड्यार्त्तस्य जलाभिषेकाद् दुःखानिवृत्तिरेव भवति, न तु जाड्यविमोक्ष इत्यर्थः। तदुक्तम्--
यथा पङ्केन पङ्काम्भः सुरया चा सुराकृतम्।
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ इति ॥
श्रूयते च ब्रह्मलोकस्थानां विष्णुपार्षदानामपि जयविजयादीनां पुनः राक्षसयोनौ दुःखधारेति । कारिकया चेदमुक्तं –
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः। इति॥ 84 ॥
ननु निष्कामादन्तर्यागजपादिरूपकर्मणो न दुःयखं, प्रत्युत मोक्षः फलं श्रूयत इति, तत्राह–
काम्येऽकाम्येऽपि साध्यत्वाविशेषात् ॥85॥
काम्येऽकाम्ये च कर्मणि दुःखाद् दुःखं भवति । कुतः? साध्यत्वाविशेषात् । कर्मसाध्यस्य सत्त्वशुद्धिद्वारकज्ञानस्यापि त्रिगुणात्मकतया दुःखात्मकत्वादित्यर्थः। ' न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु'रित्यादिश्रुतिभ्यश्च कर्मणो न साक्षान्मोक्षः फलमिति भावः। त्यागेनाभिमानत्यागेन एके केचिदेवामृतत्वमानशुः प्राप्तवन्तो, न सर्वे। अभइमानत्यागस्य तत्त्वज्ञानजन्यतया दुर्लभत्वादित्यर्थः॥ 85 ॥
ननु भवन्मतेऽपि कथं ज्ञानसाध्यस्य न दुःखत्वं साध्यत्वाविशेषादिति तत्राह–
निजमुक्तस्य बन्धध्वंसमात्रं परं न समानत्वम्॥ 86 ॥
निजमुक्तस्य स्वभावमुक्तस्याविद्याख्यकारणनाशेन यथोक्कबन्धनिवृत्तिमात्रं परमात्यन्तिकं विवेकज्ञानस्य फलम्। ध्वंसश्चाविनाशी, न तु कर्णण इव सुखादिकं भावरूपं कार्यं , येन नाशितया दुःखदं तत् स्यात् । कर्मणश्च दृष्टकारणं विना न साक्षादेवाविद्यानाशकत्वं घटत इति । अतो ज्ञानस्याऽक्षयत्वान्न समानत्वं ज्ञानकर्मणोरित्यर्थः। ज्ञानान्न पुनरावृत्तिः सम्भवति, अविवेकाऽऽख्यकारणनाशादिति सिद्धम्। तदेवं विवेकज्ञानमेव साक्षाज्ज्ञानोपाय इत्युक्तम्॥ 86 ॥
इदानीं विवेकज्ञानस्यापि साक्षादुपायाः प्रमाणानि पराक्ष्यन्ते । ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यं’ इत्यादिश्चतिभिर्हि प्रमाणत्रयेणात्मज्ञानमित्यवगम्यते। कर्मादिकं त्वन्यन्मनादिप्रमाणानां शुध्यादिकरमेवेति–
द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा
तत्साधकतमं यत्तत् त्रिविधं प्रमाणम्॥ 87 ॥
असन्निकृष्टः प्रमातर्यनारूढोऽनधिगत इति यावत्। एवम्भूतस्यार्थस्य वस्तुनः परिच्छित्तिरवधारणं प्रमा । सा च द्वयोर्बुद्धिपुरुषयोरुभयोरेव धर्मो भवतु, किं वैकतरमात्रस्योभयथैव तस्याः प्रमाया यत् साधकतमं फलायोगव्यवच्छिन्नं कारणम्, तच्च त्रिविधं वक्ष्यमाणरूपेणेत्यर्थः। स्मृतिव्यावर्तनायानधिगतेति । भ्रमव्यावर्तनाय वस्त्विति । संशयव्यावर्तनाय त्ववधारणमिति । अत्र यदि प्रमारूपं फलं पुरुषनिष्ठमात्रमुच्यते, तदा बुद्धिवृत्तिरेव प्रमाणम्। यदि च बुद्धिनिष्ठमात्रमुच्यते, तदा तुक्तेन्द्रियसन्निकर्षादिरेव प्रमाणम्। पुरुषस्तु प्रमासाक्ष्येव, न प्रमातेति। यदि च पौरुषेयबोधो बुद्धि
वृत्तिश्चोभयमपि प्रमोच्यते, तदातूक्तमुभयमेव प्रमाभेदेन प्रमाणं भवति । चक्षुरादिषु तु प्रमाणव्यवहारः परम्परयैव सर्वथेति भावः। पातञ्जलभाष्ये तु व्यासदेवैः पुरुषनिष्ठबोधः प्रमेत्युक्तः। पुरुषार्थमेव करणानां प्रवृत्त्या फलस्य पुरुषनिष्ठताया एवौचित्यात्। अतोऽत्रापि स एव मुख्यः सिद्धान्तः । न च पुरुषदोषस्वरूपस्य नित्यतया कथं फलत्वमिति वाच्यम् । केवलस्य नित्यत्वेऽप्यर्थोपरक्तस्य कार्यत्वात्। पुरुषार्थोपरागस्यैव वा फलत्वादिति॥
अत्रेयं प्रक्रिया। इन्द्रियप्रणालिकयार्थसन्निकर्षेण लिङ्गज्ञानादिना वाऽऽदौ बुद्धेरर्थाकारा वृत्तिर्जायते। तत्र चेन्द्रियसन्निकर्षजा प्रत्यक्षावृत्तिरिन्द्रियविशिष्टबुद्ध्याश्रिता नयनादिगतपित्तादिदोषैः पित्ताद्याकारवृत्त्यदयादिति विशेषः सा च वृत्तिरर्थोपरक्ता प्रतिबिम्बरूपेण पुरुषारूढा सती भासते । पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वासम्भवात्, अर्थाकारतया एव चार्थग्रहणत्वात्, अन्यस्य दुर्वचत्वादिति । तदेतदे वक्ष्यति ‘जपास्फटिकयोरिव नोपरागः किन्त्वभिमान’ इति । योगसूत्रं च ‘वृत्तिसारूप्यमितरत्रेति’। स्मृतिरपि–
तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः॥ इति ।
योगभाष्याच्च–‘बुद्धेः प्रतिसंवेदी पुरुष’ इति । प्रतिध्वनिवत् प्रतिसंवेदः संवेदनप्रतिबिम्बस्तस्याश्रय इत्यर्थः। एतेन पुरुषाणां कूटस्थविभुचिद्रूपत्वेऽपि न सर्वदा सर्वाभासनप्रसङ्गः, असङ्गतया स्वतोऽर्थाकारत्वाभावात्। अर्थाकारतां विना च संयोगमात्रेणार्थग्रहणस्यातीन्द्रियादिस्थले बुद्धावदृष्टत्वादिति। पुरुषे च स्वस्वबुद्धिवृत्तीनामेव प्रतिबिम्बार्पणसामर्थ्यमिति फलबलात् कल्प्यते। यथा रूपवतामेव जलादिषु प्रतिबिम्बनसामर्थ्यं नेतरस्येति । रूपवत्त्वं च न सामान्यतः प्रतिबिम्बप्रयोजकम् शब्दस्यापि
प्रतिध्वनिरूपप्रतिबिम्बदर्शनात्। न च शब्दजन्यं शब्दान्तरमेव प्रतिध्वनिरिति वाच्यम्। स्फटिकलौहित्यादेरपि जपासन्निकर्षजन्यतापत्त्या प्रतिबिम्बमिथ्यात्वसिद्धान्तक्षतेरिति। प्रतिबिम्बश्च बुद्धेरेव परिणामविशेषो बिम्बाकारो जलादिगत इति मन्तव्यम्॥
केचित्तु वृत्तौ प्रतिबिम्बितं सदेव चातन्यं वृत्तिं प्रकाशयति, तथा वृत्तिगतप्रतिबिम्ब एव वृत्तौ चैतन्यविषयता, न तु चेतन्ये वृत्ति प्रतिबिम्बोऽस्तीत्याहुः।तदसत् । उपदर्शितशास्त्रविरोधेन केवलतर्कस्याप्रयोजकत्वात्, विनिगमनाविरहेण वृत्तिचैतन्ययोरन्योन्यविषयताख्यसम्बन्धरूपतयान्योन्यप्रतिबिम्बसिद्धेश्च। बाह्यस्थलेऽर्थाकारतया एव विषयतारूपत्वसिद्ध्यान्तरेऽपि तत्तर्थाकारताया एव विषयतात्वौचित्याच्चेति ।
ये तु तार्किका ज्ञानस्य विषयतां नेच्छन्ति, तन्मते ज्ञानव्यक्तीनामनुगमकधर्माभावेन घटविषयकं पटविषयकं ज्ञानमित्याद्यनुगतव्यवहारानुपपत्तिः॥
केचित्त तार्किका अनयैवानुपपत्त्या विषयतामतिरिक्तपदार्थमाहुः। तदप्यसत् । अनुभूयमानार्थाकारतां विहाय विषयतान्तरकल्पने गौरवादिति ॥
ननु तथापि स्वस्वोपाधिवृत्तिरूपैव वृत्तिचैतन्ययौरन्योनियविषयतास्तु, स्वोपाधिवृत्तित्वेनैवानुगमाद् अलमाकाराख्यप्रतिबिम्बद्वयेनेति चेन्न । प्रतिबिम्बं विना स्वत्त्वस्यापि दुर्वचत्वात्। स्वत्त्वं हि स्वभुक्तवृत्तिवासनावत्त्वम्। भोगश्च ज्ञानम्। तथाच विषयतालक्षणस्य विषयसामग्रीघटित्वेनात्माश्वयः। तस्मादचैतन्यचैतन्ययोरन्योन्यविषयतारूपोऽन्योन्यस्मिन्नन्योन्यप्रतिबिम्बः सिद्धः। अधिकन्तु योगवार्तिके द्रष्टव्यमिति दिक् । अत्रायं प्रमात्रादिविभागः–
प्रमाता चेतनेः शुद्धः प्रमाणं वृत्तिरेव नः।
प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम्॥
प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते।
साक्षाद्दर्शनरूपं च साक्षित्वं वक्ष्यति स्वयम्॥
अतः स्यात् कारणाबावाद् वृत्तेः साक्ष्येव चेतनः।
विष्णवादेः सर्वसाक्षित्वं गौणं लिङ्गोद्यभावतः॥ इति ॥ 87 ॥
ननु–
यथा प्रकाशयत्येकःकृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथाकृत्स्नं प्रकाश्यति भारत ! ॥(भ0 गी0अ13 श्लो.33)
इत्यादिवाक्येषूपमानादि प्रकृतिपुरुषविवेके प्रमाणमुपन्यस्तम्, तत् कथमुच्यते त्रिविधमिति, तत्राह–
तत्सिद्धौ सर्वसिद्धेर्नाधिक्यासिद्धिः॥ 88 ॥
त्रिविधप्रमाणसिद्धौ च सर्वस्यार्थस्य सिद्धेर्न प्रमाणाधिक्यं सिद्ध्यति, गोरवादित्यर्थः। अत एव मनुनापि प्रमाणत्रयमेवोपन्यस्तम्-
प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता॥ इति ।
उपमानैतिब्यदीनां चानुमानशब्दयोः प्रवेशः। अनुपलब्ध्यादीनां च प्रत्यक्षे प्रवेश इति । उक्तवाक्ये चेदमनुमानमभिप्रेतम्। आपादतवमस्तकं कृत्स्नं स्वव्यतिरिक्तेनैकेन प्रकाश्यं स्वयमप्रकाशत्वात्। त्रैलोक्यवदिति। तेजश्चैतन्यसाधारणं च प्रकाशत्वमखण्डोपाधिः प्रकाशव्यवहांरनियामकतया सिद्ध इति ॥ 88 ॥
पुरुषनिष्ठा प्रमेति मुख्यसिद्धान्तमाश्रित्य प्रमाणानां विशेषलक्षणानि वक्तुमुपक्रमते–
यत् सम्बद्धं सत् तदाकारोल्लेखि विज्ञानं
तत् प्रत्यक्षम्॥ 89 ॥
सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति यद्विज्ञानं बुद्धिवृत्तिस्तत् प्रत्यक्षं प्रमाणमित्यर्थः। अत्र सदित्यन्तं हेतुगर्भविशेषणम्। तथा च स्वार्थसन्निकर्षजन्याकारस्याश्रयं वृत्तिः प्रत्यक्षं प्रमाणमिति निष्कर्षः। 'वृत्तिः सम्बन्धार्थं सर्पती'त्यागामिसूत्रान्न वृत्तेः सन्निकर्षजन्यत्वमित्याकाराश्रयग्रहणम्। चक्षुरादिद्वारकबृद्धिवृत्तिश्च प्रदीपस्य शिखातुल्या बाह्यार्थसन्निकर्षानन्तरमेव तदाकारोल्लेखनी भवतीति नासम्भवः॥ 89 ॥
ननु योगिनामतीतानागतव्यवस्तुप्रत्यक्षेऽव्याप्तिः, सम्बद्धवस्त्वाकाराभावादित्याशङ्क्य तस्यालक्ष्यत्वेन समाधत्ते–
योगिनामबाह्यप्रत्यक्षत्वान्न दोषः॥ 90 ॥
ऐन्द्रियकप्रत्यक्षमेवात्र लक्ष्यम्। योगिनश्चाबाह्यप्रत्यक्षकाः। अतो न दोषो, न तत्प्रत्यक्षेऽव्याप्तिरित्यरथः॥ 90 ॥
वास्तवं समाधानमाह–
लीनवस्तुलब्धातिशयसम्बन्धाद्वाऽदोषः॥ 91 ॥
अथवा तदपि लक्ष्यमेव तथापि न दोषो नव्यप्तिः. यतो लीनवस्तुषु लब्धयोगजधर्मजन्यातिशयस्य योगिचित्तस्य सम्बन्धो घटत इत्यर्थः। अत्र लीनशब्दः पराभिप्रेतासन्निकृष्टवाची । सत्कार्यवादिना ह्यतीतादिकमपि स्वरूपतोऽस्तीति तत्सम्भवेदिति वियवहितविप्रकृष्टेषु सम्बन्धहेतुविधया लब्धातिशयेति विशेषणम्। अतिशयश्च व्यापकत्वं , वृत्तिप्रचिबन्धकतमोनिवृत्त्यादिश्चेति ।
इदं चात्राऽवधेयम्। यत्सम्बद्धं सदिति पूर्वसूत्रे बुद्धेरर्थसन्निकर्षस्यैव प्रत्यक्षहेतुतालाभात् प्रत्यक्षसामान्यो बाह्यार्थसाधारणे बुद्ध्यर्थसन्निकर्ष एव कारणम्। इन्द्रियसन्निकर्षास्तु चाक्षुषादिप्रत्यक्षेषु विशिष्यैव कारणानि ।
नन्वेवमिन्द्रियसन्निकर्षयोगजधर्माद्यभावेऽपि बुद्ध्या बाह्यार्थप्रत्यक्षापत्तिः। मैवम्। तमःप्रतिबन्धेन तदानीं बुद्धिसत्त्वस्य वृत्त्यसम्भवात्। तच्च तमःकदाचिदर्थेन्द्रिययोः सन्निकर्षेण कदाचिच्च योगजधर्मेणापसार्यते। अञ्जनसंयोगेन नयनमालिन्यवत् । न चैवं तद्धेतोरेव तदस्त्विति न्यायेनेन्द्रियसन्निकर्षादेरेव बाह्यार्थप्रत्यक्षसामान्ये हेतुतास्त्विति वाच्यम्। सुषुप्त्यादौ तमसो बुद्धिवृत्तिप्रतिबन्धकत्वसिद्धेः॥
सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत्।
प्रस्वापनं तु तमसा तुरीयं त्रिषु सन्ततम्॥
इत्यादिस्मृतिभ्यःसुषुप्त्यादौ वृत्तिप्रतिबन्धकान्तरासम्भवाच्च। चाक्षुषवृत्तावपि तमसः प्रतिबन्धदर्शनाच्च।
यत्त शुष्कतार्किकाः सुषुप्तौ वृत्त्यनुत्पादार्थं ज्ञानसामान्ये त्वङ्मानोयोगं कारणं कल्पयन्ति। तदसत्। त्वगिन्द्रियोत्पत्तेः प्रागपि केवलबुद्ध्या स्वयम्भुवः सर्वप्रत्यक्षश्रवणात्। त्वङ्मनोयोगानुत्पादेऽपि तमस एव निमित्तताया वक्तव्यत्वाच्च। केवलतर्कस्याप्रतिष्ठादोषग्रस्तत्वाच्चेति दिक्॥ 91 ॥
ननु तथापीश्वरप्रत्यक्षेऽव्याप्तिः, । तस्य नित्यत्वेन सन्निकर्षाऽजन्यत्वादिति,तत्राह–
ईश्वरासिद्धेः॥ 92 ॥
ईश्वरे प्रमाणाभावान्न दोष इत्यनुवर्तते। अयं चेश्वरप्रतिषेध एकदेशिनां प्रौधिवादेनैवेति प्रागेव प्रतिपादितम्। अन्यथा
हीश्वराऽभावादित्येवोच्येत। ईश्वराभ्युपगमे तु सन्निकर्षजन्यजातीयत्वमेव प्रत्यक्षलक्षणं विवक्षितम्। साजात्यं च ज्ञानत्वसाक्षाद्व्याप्यजात्येति भावः॥ 92 ॥
श्रृतिस्मृतिभ्यां कथमीशो न सिद्ध्यतीत्याकाङ्क्षायां तर्कविरोधं लौकिकमेव बाधकमाह–
मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः॥ 93 ॥
स ईश्वरोऽभिमतः किं क्लेशादिमुक्तो वा तैर्बद्धो वा। अन्यतरस्याप्यसम्भवान्नेश्वरसिद्धिरित्यर्थः॥ 93 ॥
उभयथाप्यसत्करत्वम्॥ 94 ॥
मुक्तत्वे सति स्रष्ट्टत्वाद्यक्षमत्वं तत्प्रयोजकाभिमानरागाद्यभावात् । बद्धत्वेऽपि मूढत्वान्न सृष्ट्यादिक्षमत्वमित्यर्थः॥ 94 ॥
नन्वेवमीश्वरप्रतिपादकश्रुतीनां का गतिस्तत्राह–
मुक्तात्मनः प्रशंसा, उपासा सिद्धस्य वा ॥ 95 ॥
यथायोगं काचिच्छरुतिर्मुक्तात्मनः केवलात्मसामान्यस्य ज्ञेयताऽभिधानाय सन्निधिमात्रैश्वर्येण स्तुत्रूपा प्ररोचनार्था । काचिच्च सङ्कल्पपूर्वकस्रष्ट्टत्वादिप्रतिपादिका श्रुतिः सिद्धस्य ब्रह्मविष्णुहरादेरेवानित्येश्वरस्याभिमानादिमतोऽपि[गोणनित्यत्वादिमत्वान्नित्यत्वाद्युपासा । इत्यपि पाठान्तरम्] गौणनित्यत्वादिमत्त्वाद्युपासापरेत्यर्थः॥ 95 ॥
ननु तथापि प्रकृत्याद्यखिलाधिष्ठातृत्वं श्रूयमाणं नोपमाणं नोपपद्यते, लोकेसङ्कल्पादिना परिणामनस्यैवाधिष्ठातृत्वव्यवहारादिति। तत्राह–
तत्सन्निधानादधिष्टातृत्वं मणिवत्॥ 96 ॥
यदि सङ्कल्पेन स्रष्ट्टत्वमधिष्ठातृत्वमुच्यते, तदायं दोषः स्यात्। अस्माभिस्तु पुरुषस्य सन्निधानादेवाधिष्ठातृत्वं स्रष्ट्टत्वादिरूपमिष्यते, मणिवत्। यथाऽयस्कान्तमणेः सान्निध्यमात्रेण शल्यनिष्कर्षकत्वं, न सङ्कल्पादिना, तथैवादिपुरुषस्य संयोगमात्रेण प्रकृतेर्महत्त्वरूपेण परिणमनम् । इदमेव च स्वोपाधिस्रष्ट्टत्वमित्यर्थः। तथा चोक्तम्--
निरिच्छे संस्थिते रत्ने यथा लोहः प्रवर्तते।
सत्तामात्रेण देवेन तथा चायं जगज्जनः॥
अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्।
निरिच्छत्वादकर्ताऽसौ कर्ता सन्निधिमात्रतः॥ इति ॥
’ तदैक्षत बहु स्याम्’ इत्यादिश्रुतिस्तु, कूलं पिपतिषतीतिवद् गौणी, प्रकृतेरासन्नबहुतरगुणसंयोगात्।
अथवा बुद्धिपूर्वसृष्टिविषयमेतीदृशवाक्यजातं, न त्वादिसर्गपरम्, तस्याऽबुद्धिपूर्वकत्वस्मरणादिति भावः। यथा कौर्मे–
इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया ।
अबुद्धिपूर्वकस्तेष ब्राह्मी सृष्टिं निबोधत ॥ इति ॥
अस्य च वाक्यस्यादिपुरुषबुद्ध्या जन्यत्वेन सङ्कोचे गौरवमिति ॥ 96 ॥
न केवलं सर्गादावेव पुरुषस्य संयोगमात्रेण स्रष्ट्टत्वादिकमपित्वन्येष्वपि सङ्कल्पादिपूर्वकेषु भूतादिष्वखिलेषु विशेषकार्येष्वपि सर्वपुरुषाणामित्याह–
विशेषकार्येष्वपि जावीनाम्॥ 97 ॥
अधिष्टातृत्वं सन्निधानादित्यनुषज्ज्यते। अन्तःकरणोपलक्षितस्यैव जीवशब्दार्थत्वं षष्टाध्याये वक्ष्यति । तथा च विशेषकार्ये विसर्गाख्ये व्यष्टिसृष्टावपि जावीनामन्तःकरणप्रतिबिम्बितचेतनानां सन्निधानादेवाधिष्ठातृत्वं, न तु केनापि व्यापारेण कूटस्थचिन्मात्ररूपत्वादित्यर्थः॥ 97 ॥
ननु चेत् सदा सर्वज्ञ ईश्वरो नास्ति, तर्हि वेदान्तमहावाक्यार्थस्य विवेकस्योपदेशेऽन्धपरम्पराशङ्कयाऽप्रामाण्यं प्रसज्ज्येत, तत्राह–
सिद्धरूपबोदधृत्वाद्वाक्यार्थोपदेशः ॥ 98 ॥
हिरण्यगर्भादीनां सिद्धरूपस्य यथार्थस्य बोद्धत्वात्तद्वक्तृकाऽऽयुर्वेदादिप्रामाण्येनावधृताच्चैषां वाक्यार्थोपदेशः प्रमाणमिति शेषः॥ 98 ॥
ननु पुरुषस्य चेत् सन्निधिमात्रेण गौणमधिष्ठातृत्वं तर्हि मुख्यमधिष्टातृत्वं कस्येत्याकाङ्क्षायामाह–
अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवदधिष्ठातृत्वम्॥ 99 ॥
अन्तः करणस्यानुपचरितमधिष्ठातृत्वं सङ्कल्पादिद्वारकं प्रत्येतव्यम्। नन्वधिष्ठातृत्वं घटादिवदटेतनस्य न युक्तम्, तत्राह-लोहवत् तदुज्ज्वलित्वादिति। अन्तःकरणं हि तप्तलोहवच्चेतनोज्ज्वलितं भवति। अतस्तस्य चेतनायमानतयाऽधिष्ठातृत्वं
घटादिव्यावृत्तमुपपद्यत इत्यर्थः। नन्वेवं चैतन्येनान्तःकरणस्योज्ज्वलं चितेः सङ्गित्वमग्निवदेव स्यादिति चेन्न।
नित्योज्ज्वलचैतन्यसंयोगविशेषमात्रस्य संयोगविशेषजन्यचैतन्यप्रतिबिम्बस्यैवान्तःकरणाज्ज्वलनरूपत्वात् । न तु चैतन्यम् अन्तः करणेसंक्रामति, येन सङ्गितः स्यात्॥ अग्नेरपि हि प्रकाशादिकं न लोहे संक्रामति, किन्वग्नियोगविशेष एव लोहस्योज्ज्वलनमिति । नन्वेवमपि संयोगेन परिणामित्वमिति चेन्न। सामान्यगुणातिरिक्तधर्मोत्पत्तावेव परिणामव्यवहारादिति । अयं च संयोगविशेषोऽन्तःकरणस्यैव सत्त्वोद्रेकरूपात् परिणामाद्भवतीति फलबलात् कल्प्यते । पुरुषस्याऽपरिणामित्वेन संयोगे तन्निमित्तकविशेषासम्भवादिति । अयमेव च संयोगविशेषेण बुद्ध्यात्मनोरन्योऽन्यप्रतिबिम्बने हेतुः । ननु प्रतिबिम्बहेतुतया संयोगविशेषावश्यकत्वे प्रतिबिम्बकल्पना व्यर्था, प्रतिबिम्बकार्यस्यार्थज्ञानादेःसंयोगविशेषादेव सम्भवादिति चेत् । मैवम्। बुद्धौ चैतन्यप्रतिबिम्बश्चैतन्यदर्शनार्थं कल्प्यते, दर्पणे मुखप्रतिबिम्बवत्। अन्यथा कर्मकर्तृविरोधेन स्वस्य साक्षात् स्वदर्शनानुपपत्तेः। अयमेव च चित्प्रतिबिम्बो बुद्धौ चिच्छायापत्तिरिति चैतन्याध्यास इति चिदावेश इति चोच्यते। यश्च चैतन्ये बुद्धेः प्रतिबिम्बः स चारूढविषयैः सह बुद्धेर्भानार्थमिष्यते। अर्थाकारतयैवार्थग्रहणस्य पुरुषेऽप्यनौचित्यात्। अर्थाकारस्यैवार्थग्रहणशब्दार्थत्वाच्चेति । स चार्थाकारः पुरुषे परिणामो न सम्भवतीत्यर्थात् प्रतिबिम्बरूप एव पर्यवस्यतीति दिक् ।
स चायमन्योऽन्यप्रतिबिम्बो योगभाष्ये व्यासदेवैः सिद्धान्तितः।
“चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद् वृत्तिमनुपतति। तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायत” इत्यादिना । योगवार्तिके चैतद्विस्तरतोऽसमाभिः प्रतिपादितम्॥
कश्चित तु बुद्धिगतया चिच्छायया बुद्धेरेव सर्वार्थज्ञातृत्वमिच्छादिभिर्ज्ञानस्य सामानाधिकरण्यानुभवादन्यस्य ज्ञानेनान्यस्य प्रवृत्त्यनौचित्याच्चेत्याह। तत् आत्मज्ञानमूलकत्वादुपेक्षणीयम्। एवं हि बुद्धेरेव
ज्ञातृत्वे ‘चिदवसानो भोग’ इत्यागामिसूत्रद्वयविरोधः। पुरुषे प्रमाणाभावाश्च, पुरुषलिङ्गस्य भोगस्य बुद्धावेव स्वीकारात् । न च प्रतिबिम्बान्यथानुपपत्त्या बिम्बभूतः पुरुषः सेत्स्यतीति वाच्यम्। अन्योन्याश्रयात्। पृथग्बिम्बसिद्धौ बुद्धिस्थचैतन्यस्य प्रतिबिम्बतासिद्धिः, प्रतिबिम्बतासिद्धौ च तत्प्रतियोगितया बिम्बसिद्धिरिति। अस्मन्मते च ज्ञातृतया पुरुषसिद्ध्यनन्तरं तस्य ज्ञेयत्वान्ययानुपपत्त्या प्रतिबिम्बसिद्धौ नान्योन्याश्रयः। अथ वृत्तिसाक्षितया बिम्बरूपश्चेतनः सिद्ध्यतीति चेत्, तर्हि साक्षिण एव प्रमातृत्वमप्युचितम्। उभयोर्ज्ञातृत्वकल्पने गौरवात्। वृत्तिज्ञानघटज्ञानयोः सामानाधिकरण्यानुभवाच्च। किञ्चैवं सति बुद्धेरेव भोक्तृत्वे ‘भोक्तृभावा’ दित्यागामिसूत्रेण भोक्तृतया पुरुषसाधनं
विरुद्धयेत् । अथ बुद्धिगतविच्छायारूपेण सम्बन्धेन बिम्बस्यैव ज्ञानं , न तु चितौ बुद्धिप्रतिबिम्बः कल्प्यत इत्येतावन्मात्रतया चेत् तस्याशयोवर्ण्येत। तदप्यसत्। सूर्य्यादेः स्वप्रतिबिम्बरूपसम्बन्धेन
जलादितत्स्थवस्तुभासकत्वादर्शनात्, किरणैरेव तदुभयभासनात् । मरुमरीचिकादौ तु स्वाध्यस्तजलादिभासकत्वं दृष्टमेवेति दृष्टानुसारेणास्माभिश्चितौ बुद्धिप्रतिबिम्ब एव सर्वार्थभानहेतुतया सम्बन्धः कल्पित इति ।
यच्चोक्तमन्यस्य ज्ञानेनान्यस्य प्रवृत्त्यनुपपत्तिरिति। तदपि न । ‘अकर्तुरपि फलोपभोगोऽन्नाद्यवत्’ इत्यागामिसूत्रेण ज्ञानप्रवृत्त्योर्वैयधिकरण्यस्य दृष्टान्तेनोपपादयिप्यमाणत्वात्। बुद्धेः सङ्कल्पेन देहक्रियायाभिवात्रापि संयोगविशेषादेरेव नियामकत्वादिति॥ 99 ॥
प्रत्यक्षप्रमाणं लक्षयित्वानुमानं लक्षयति–
प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानम्॥ 100 ॥
प्रतिबन्धो व्याप्तिः। व्याप्तिदर्शनाद् व्यापकज्ञानं वृत्तिरूपमनुमानं प्रमाणमित्यर्थः। अनुमितिस्तु पौरुषेयो बोध इति ॥ 100 ॥
शब्दप्रमाणं लक्षयति–
आप्तौपदेशः शब्दः॥ 101 ॥
आप्तिरत्र योग्यता । वेदस्यापौरुषेयतायाः पञ्चमाध्यायो वक्ष्यमाणत्वात्। तथाच योग्यः शब्दस्तज्जन्यं ज्ञानं शब्दाख्यं प्रमाणमित्यर्थः। फलं च पौरुषेयः शब्दो बोध इति ॥ 101 ॥
प्रमाणप्रतिपादनस्य स्वयमेव फलमाह–
उभयसिद्धिः प्रमाणात् तदुपदेशः॥ 102 ॥
अभयोरात्मानात्मनोर्विवेकेन सिद्धिः प्रमाणादेव भवति । अतस्तस्य प्रमाणस्योपदेशः कृत इत्यर्थः॥ 102 ॥
तत्र योनानुमानविशेषेण प्रमाणेन मुख्यतोऽत्र विविच्य साधनीयौ तद्वर्णयति–
सामान्यतो दृष्टादुभयसिद्धिः॥ 103 ॥
अनुमानं तावत् त्रिविधं भवति । पूर्ववत्, शेषवत्, सामान्यतो दृष्टं चेति। तत्र प्रत्यक्षीकृतजातीयविषयकं पूर्ववत्। यथा धूमेन वह्न्यनुमानम् \[ पर्वतो वह्निमान् धूमात् \] । वाह्न जातीयो हि महानसादौ पूर्वं प्रत्यक्षीकृतः। व्यतिरेकानुमानं शेषवत् । शेषोऽपूर्वोऽर्थोऽस्य विषयत्वेनास्तीति शेषवत् । अप्रसिद्धसाध्यकमिति यावत् । यथा पृथवीत्वेनेतरभेदानुमानम् \[ पृथवी इतरेभ्यो भिद्यते गंधवत्वात् । यन्नैवं तन्नैवम्।\] । पृथिवीतरभेदो हि प्रागसिद्धः। सामान्यतो दृष्टं च तदुभयभिन्नमनुमानम्। यत्र सामान्यतः प्रत्यक्षादिजातीयमादाय व्याप्तिग्रहात् पक्षधर्मताबलेन तद्विजातीयोऽप्रत्यक्षाद्यर्थः सिद्ध्यति । यथा रूपादिज्ञाने क्रियात्वेन करणवत्त्वानुमानम्। अत्र हि पृथिवीत्वादिजातीयं कुठारादिकरणमादाय व्याप्तिं गृहीत्वा तद्विजातीयमतीन्द्रियं ज्ञानकरणमिन्द्रियं साध्यत इति । तत्र सामान्यतो दृष्टादनुमानात् द्वयोः प्रकृतिपुरुषयोः सिद्धिरित्यर्थः। तत्र सामान्यतो दृष्टादनुमानात् द्वयोः प्रकृतिपुरुषयोः सिद्धिरित्यर्थः। तत्र प्रकृतेः सामान्यता दृष्टमनुमानम्। यथा महत्तत्त्वं सुखदुःखमोहधर्मकद्रव्योपादानकम् कार्यत्वे सति सुखदुःखमोहधर्मकत्वात्,
सुवर्णादिजकुण्डलादिवदित्यादि । पुरुषे तु यद्यप्यनुमानापेक्षा नास्ति सर्वसम्मतत्वात्, तथापि प्रकृत्यादिविवेके सामान्यतो दृष्टमेवापेक्ष्यते। तद्यथा प्रधानं परार्थं संहत्य कारित्वाद्, गृहादिवदिति । अत्र हि प्रत्यक्षसिद्धं देहाद्यर्थकत्वं गृहादिषु गृहीत्वा तद्विजातीयः पुरुषः प्रधानादिपरत्वेनानुमीयते। देहादीनां च भोक्कृत्वमविवेकेन प्राग्गृहीतमित्युभयसिद्धिरिति
॥ 103 ॥
या प्रमाणस्य फलभूता प्रमाख्यसिद्धिरुक्ता तया पुरुषस्य परिणामापत्तिरित्याशङ्कायां तस्यां स्वरूपमाह–
चिदवसानो भोगः॥ 104 ॥
पुरुषरूपे चन्तये पर्यवसानं यस्यैतादृशा भोगः सिद्धिरित्यर्थः। बुद्धेर्भोगस्य व्यावर्तनाय चिदवसान इति । चितः परिणामित्वसधर्मत्वादिशङ्गानिरासायावसानपदम्। चित्तौ भोगस्य सिवरूपे पर्यवसितत्वान्न कौटस्थ्यादिहानिरित्याशयः। तथाहि प्रमाणाख्यवृत्त्या रूढं प्रकृतिपुरुषादिकं प्रमेयं वृत्त्या सह पुरुषे प्रतिबिम्बितं सद्भासते । अतोऽर्थोपरक्तवृत्तिप्रतिबिम्बावच्छिन्नं स्वरूपचैतन्यमेव भानं , पुरुषस्य भोगः,प्रमाणस्य च फलमिति। ततश्च प्रतिबिम्बरूपेणार्थसम्बन्धे द्वारतया वृत्तीनां करणत्वमिति । तदुक्तं विष्णुपुराणे--
गृहीतानिन्द्रियैरर्थात्मने यः प्रयच्छति।
अन्तःकरणरूपाय तस्यै विश्वात्मने नमः॥ इति ॥
राज्ञो हि करणवर्गः स्वामिने भोग्यजातं समपर्यतीति दृष्टमिति। भोगशब्दार्थश्चाभ्यवहरणम्। आत्मसात्करणमिति यावत्। स च देहादिचेतनान्तेषु साधारणः । विशेषस्त्वयम्। अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादानमात्रम्। अन्येषां तु परिणआमित्वात् पुष्ट्यादि रपीति। अयमेव च परिणामरूपः पारमार्थिको भोगः पुरुषे प्रतिषिद्ध्यते, बुद्धेर्भोग इवात्मनीत्यादिभिरति मन्तव्यम्। अस्मिन् सूत्रे पुरुषस्यापि फलव्याप्यता सिद्धा । चिदवसानताया एवोभयसिद्धित्ववचनादिति॥ 104 ॥
ननुकर्तुरेव लोके क्रियाफलभोगो दृष्टःयथा सञ्चरत एव सञ्चारोत्थदुःखभोग इति, तत् कथं बुद्धिकृतधर्मादिफलस्य सुखाद्यात्मिकाया अर्थोपरक्तबुद्धिवृत्तेर्भोगः पुरुषे घटेतेत्याशङ्कायामाह–
अकर्तुरपि फलोपभोगोऽन्नाद्यवत्॥ 105 ॥
बुद्धिकर्मफलस्यापि वृत्तेरुपभोगस्तदकर्तुरपि पुरुषस्य युक्तः। अन्नाद्यवत्। यथान्यकृतस्यान्नादेरूपभोगो राज्ञो भवति तद्वदित्यर्थः। अविवेकस्य स्वस्वामिभावस्य वा भोगनियामकत्वात् तु नातिप्रसङ्गः। सुखदुःखादेः कर्मफलत्वमभ्युपेत्य बुद्धिगतं कर्मफलं पुरुषो भुङ्क्त इत्युक्तम्॥ 105 ॥
इदानीं पुरुषागतभोगस्यैव कर्मफलत्वं स्वीकृत्य बुद्धिकर्मणा पुरुष एव फलमुत्पद्यत इति मुख्यसिद्धान्तमाह–
अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः॥ 106 ॥
अथवा कर्तरि फलमेव न भवति । सुखं भुञ्जीयेत्यादिकामनाभिर्भोगस्यैव फलत्वात् अतो भोक्तृनिष्ठमेव फलं भवति, शास्त्रविहितं फलमनुष्ठातरीति। शास्त्रेषु कर्तुः फलावगमस्तु तत्सिद्धेरकर्तृनिष्ठाया भोगाख्यसिद्धेः कर्तृबुद्धावविवेकादित्यर्थः। योऽहं करोमि स एवाहं भुञ्जे इति हि लौकिकानुभव इति । या च सुखं मे भूयादित्यादिकामना , सा पुत्रो मे भूयादितिवत् फलसाधनत्वेनैवोपपद्यते। भोगस्तु नान्यस्य साधनम्। अतः स एव फलमिति मुख्यः सिद्धान्तः। भोगस्य पुरुषस्वरूपत्वेऽपि वैशेषिकाणां मते श्रोत्रवत् कार्यता बोध्या । सुखाद्यवच्छिन्नचितिरेव भोगत्वात् । अस्मिश्चं भोगस्य फलत्वपेक्षे दुःखभोगाभावएवापवर्गो बोध्यः। अथवा भोग्यतारूपस्वत्त्वसम्बन्धेन सुखदुःखाभावयोरेव फलत्वमस्तु। तेन सम्बन्धेन धनादेरिव सुखादेरपि पुरुषनिष्ठत्वादिति
॥ 106 ॥
तदेवं प्रमाणानि प्रमाणफलभूतां प्रमेयसिद्धिं च प्रतिपाद्य प्रमेयसिद्धेरपि फलमाह–
नोभयं च तत्त्वाख्याने ॥ 107 ॥
प्रमाणेन प्रकृतिपुरुषयोस्तत्त्वाख्याने तत्त्वसाक्षात्करे सति उभयमपि सुखदुःखे न भवतः। 'विद्वान् हर्षशोकौ जहाति' इति श्रुतेर्न्यायाच्चेत्यर्थः॥ 107 ॥
संक्षेपतो विवेकेनानुमापितौ प्रकृतिपुरुषौ । तयोः प्रकृतिपुरुषयोरनुमानेऽवान्तरविशेषा इतः परमध्यायसमाप्तिं यावद् विचार्याः। तत्र चादौ प्रकृत्याद्यनुमानेष्वनुपलम्भबाधकमपाकरोति–
विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्या-
मिन्द्रियस्य ॥ 108 ॥
इन्द्रियानुपलभ्यतामात्रतो घटाद्यभाववत् प्रत्यक्षेण चार्वाकैः प्रकृत्याद्याभावः साधयितुं न शक्यते । यतो विद्यमानोऽप्यर्थ इम्द्रियघातेन्द्रियग्रहाभ्यां चेत्यर्थः। सामग्रीसमवधाने सति अनुपलम्भस्यैवाभावप्रत्यक्षहेतुता । प्रकृत्याद्युपलभ्यते तु वक्ष्यमाणप्रतिबन्धान्न सामग्रीसमवधानमिति भावः। अतिदूरायश्च दोषा विशिष्य कारिकया परिगणिताः--
अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽवस्थानात् ।
सौक्ष्म्याद् व्यवधानादभिभवात् सप्नाभिहाराच्च॥ इति ॥
समानाभिहारः सजातीयसंवलनम्। यथा माहिषे
गव्यमिश्रणान्माहिषत्वाग्रहणमिति ॥ 108॥
नन्वतिदूरत्वादिषु मध्ये प्रकृत्याद्युपलम्भे किं प्रतिबन्धकमिति, तत्राह–
सौक्ष्म्यात्तदनुपलब्धिः॥ 109 ॥
तयोः पूर्वोक्तयोः प्रकृतिपुरुषयोरनुपलब्धिस्तु सोक्ष्म्यादित्यर्थः। सूक्ष्मत्वं च नाणुत्वम्, विश्वव्यापनात् । नापि दुरूहत्वादिकम्, दुर्वचत्वात् । किन्तु प्रत्यक्षप्रमाप्रतिबन्धिका जातिः। योगजधर्मस्य चोत्तेजकतया प्रकृतिपुरुषादीनां प्रत्यक्षप्रमा भवति । जातिसाङ्कर्यं च न दोषावहम्। अथवा निरवयवद्रव्यत्वमेवाऽत्र सूक्ष्मत्वं, योगजधर्मश्चोत्तेजक एवेति॥ 109 ॥
नन्वभाषादेवानुपलब्धिसम्भवे किमर्थं सौक्ष्म्यं कल्प्यते, अन्यथा च शशश्रृङ्गादोरपि सौक्ष्म्यादनुपलब्धिः किं न स्यादिति, तत्राह–
कार्यदर्शनात्तदुपलब्धेः॥ 110 ॥
कार्यान्यथानुपपत्त्या प्रकृत्यादिसिद्धी सत्यां तेषां सूक्ष्मत्वं कल्प्यते । अनुमानात् पूव सूक्ष्मत्वादिसंश,येनाभावानिर्णयादनुमानमिपपद्यत इत्यर्थः॥ 110 ।.
अत्र शङ्कते–
वादिविप्रतिपत्तेस्तदसिद्धिरिति चेत् ॥ 111 ॥
ननु कार्यं चेदुत्पत्तेः प्राक् सिद्धं स्यात् , तदा तदाधारतया नित्या प्रकृतिः सेत्स्यति । कार्यसाहित्येनैव कारणानुमानस्य वक्ष्यमाणत्वात्। वादिविप्रतिपत्तेस्तु सत्कार्यस्यैवासिद्धिरिति यदीत्यर्थः॥ 111 ॥
अभ्युपेत्य परिहरति–
तथाप्येकतरदृष्ट्या एकतरसिद्धेर्नापलापः॥ 112 ॥
मास्तु सत् कार्यं , तथाप्येकतरस्य कार्यस्य दृष्ट्याऽन्यतरस्य कारणस्य सिद्धेरपलापो नास्त्येवेति कारणं सिद्धमेव । तत एव च परिणामिनः सकाशादपरिणआमितया पुरुषस्य विवेकेन मोक्षोपपत्तिरित्यर्थः। अनेनैवाभ्युपगमवादेन वैशेषिकाद्यास्तिकशास्त्रं प्रवर्त्तते । अतो न सत्कार्यवादिश्रुतिस्मृतिविरोधेऽपि
तेषामंशान्तरेष्वप्रामाण्यमिति मन्तव्यम्॥ 112 ॥
परमार्थतः परिहारमाह–
त्रिविधविरोधापत्तेश्च ॥ 113 ॥
अथ सर्वं कार्यं त्रिविधं सर्ववादिसिद्धमतीतमनागतं वर्त्तमानमिति । तत्र यदि कार्यं सदा सन्नेष्यते, तदा त्रिविधत्वानुपपत्तिः। अतीतादिकाले घटाद्यभावेन घटादेरतीतादिधर्मकत्वानुपपत्तेः। सदसतोः सम्बन्धानुपपत्तेः। किञ्च पप्रतियोगित्वस्य प्रतियोगिरूपत्वे तद्दोषतादवस्थ्यात्। अभावमात्रस्वरूपत्वे पटाद्यभावो घटाद्यभावः स्याद्यभावः स्यादभावत्वाविशेषात्। अभावेष्वपि स्वरूपो विशेषाऽङ्गीकारे चाभावत्वस्य परिभाषामात्रत्वप्रसङ्गात् । अथ प्रतियोग्येवाभावविशेषक इति चेन्न। असतः प्रतियोगिनः प्रागभावादिषु विशेषकत्वासम्भवादिति । तस्मान्नित्यस्यैव कार्यस्यातीतानागतवर्त्तमानावस्थाभेदा एव वक्तव्याः। घटोऽतीतो घटो वर्त्तमानो घटो भविष्यन्निति प्रत्ययानां तुल्यरूपतौचित्यात् । न त्वेकस्य भावविषयत्वमन्ययोश्चाभावविषयत्वमिति । ते एवातीतानागतत्वे अवस्थे ध्वंसप्रागभावव्यवहारं जनयतः । तदतिरिक्ताभावद्वये प्रमाणाभावादिति दिक्॥
अधिकं तु पातञ्जले द्रष्टव्यम्। एवमत्यन्ताभावाऽन्योन्याभावावप्यधिकरणस्वरूपावेव । न चैवं प्रतियोगिसत्ताकालेऽप्यधिकरणस्वरूपानपायादत्यन्ताभाव त्ययप्रसङ्ग इति वाच्यम्। परैरपि प्रतियोगिमति देशे तदत्यन्ताभावाङ्गीकारात् , प्रतियोगिसम्बन्धस्यातीतानागतावस्थयोरेव सामयिकात्यन्ताभावत्वसम्भवाच्च। तस्मान्नास्मत्सिद्धान्तेऽभालोऽतिरिक्तः। किञ्च घटो ध्वस्तो घटो भावी घटोऽत्र नास्तीत्यादिप्रत्ययनियामकतया किञ्चिद्वस्त्वाकाङ्क्षायां तद्भावरूपमेव कल्प्यते लाघवात् । अभावस्यादृष्टस्य कल्पने गौरवादिति मन्तव्यम्॥ 113 ॥
इतश्च सत्कार्यसिद्धिरित्याह–
नासदुत्पादो नृश्रृङ्गवात् ॥ 114 ॥
नरश्रृङ्गतुल्यस्यासत उत्पादोऽपि न सम्भवतीत्यर्थः॥ 114 ॥
अत्र हेतुमाह–
उपादाननियमात्॥ 115 ॥
मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवं कार्याणामुपादानकारणं प्रति नियमोऽस्ति स न सम्भवति । उत्पत्तेः प्राक् कारणे कार्यासत्तायां हि न कोऽपि विशेषोऽस्ति, येन कञ्चिदेवासन्तं जनयेत् नेतरमिति । विशेषाङ्गीकारे च भावत्वापत्तेर्गतमसत्तया । स एव च विशेषोऽस्माभिः कार्यस्यानागतावस्थेत्युच्यत इति ।
एतेनयद्वैशेषिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति तदप्यपास्तम्। अभावकल्पनापेक्षया भावकल्पने लाघवात्, भावानां दृष्टत्वादन्यानपेक्षत्वाच्च । किञ्चाभावेषु स्वतो विशेषे भावत्वापत्तिः। प्रतियोगिरूपविशेषश्च प्रतियोग्यसत्ताकाले नास्ति। अतोऽभावानामविशिष्टतया न कार्योत्पत्तौ नियामकत्वं युक्तमिति ॥115 ॥
उपादाननियमे प्रमाणमाह–
सर्वत्र सर्वदा सर्वासम्भवात् ॥ 116 ॥
सुगमम्। उपादानानियमे च सर्वत्र सर्वदा सर्वं सम्भवेदित्याशयः॥ 116 ॥
इतश्च नासदुत्पाद इत्याह–
शक्तस्य शक्यकारणात् ॥ 117 ॥
कार्यशक्तिमत्त्वमेवोपादानकारणत्वम्। अन्यस्य दुर्वचत्वात्, लाघवाच्च। सा शक्तिः कार्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्यकार्यकरणान्नासत उत्पाद इत्यर्थः॥ 117 ॥
इतश्च–
कारणभावाच्च॥ 118 ॥
उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते। तस्माच्च सत्कार्यसिद्ध्या नासदुत्पाद इत्यपर्थः। कार्यस्यासत्त्वे हि
सदसतोरभेदानुपपत्तिरिति। उत्पत्तेः प्राक् कार्याणां कारणाभेदे च श्रुतिः। “तद्धीदं तर्ह्यव्याकृतमासीत् । सदेव सोम्येदमग्र आसीत् । आथ्मैवेदमग्र आसीत् । आप एवेदमग्र आसुरित्याद्याः” [अन्ते “तप एवमेमग्र आस । अयमेवेमग्र आस” इत्यप्यत्र पाठान्तरं केचित्पठन्ति।] ॥ 118 ॥
शङ्कते–
न भावे भावयोगश्चेत् ॥ 119 ॥
नन्वेवं कार्यस्य नित्यत्वे सति भावरूपे कार्ये भावयोग उत्पत्तियोगो न सम्भवति । असतः सत्त्व एवोत्पत्तिव्यवहारादिति चेदित्यर्थः॥ 119 ॥
परिहरति–
नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ ॥ 110 ॥
कार्योत्पत्तेर्व्यवहाराव्यवहारौ कार्याभिव्यक्तिनिमित्तकौ । अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्तभावाच्चोत्पत्तिव्यवहाराभावः । न त्वसतः सत्तयेत्यर्थः। अभिव्यक्तिश्च न ज्ञानं, किन्तु वर्तमानावस्था। कारणव्यापारोऽपि कार्यस्य वर्तमानलक्षणपरिणामेव जनयति । सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्रं लोकेऽपि दृष्टम्। यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारेणाऽभिव्यक्तिमात्रं, तिलस्थतैलस्य च निष्पीडनेन, धानस्थतण्डुलस्य चावघातेनेति । तदुक्तं वाशिष्ठे--
सुषुप्तावस्थया चक्रपद्मरेखाः शिलोदेरे।
यथा स्थिता चितेरन्तस्तथेयं जगदावली ॥ इति ॥
प्रकृतिद्वारेणेत्यर्थः॥ 120 ॥
ननु भवतूत्पत्तेः प्राक् सतो यथाकथञ्चिदुत्पत्तिः नाशस्त्वनादिभावस्य कथं स्यादित्याकाङ्क्षायामाह–
नाशः कारणलयः॥ 121 ॥
लीङ् श्लेषेण इत्यनुषासनाल्लयः सूक्ष्मतया कारेणेष्वविभागः। स एवातीताश्यो नाश इत्युच्यत इत्यर्थः। अनागताख्यस्तु लयः प्रागभाव इत्युच्यत इति शेषः। लीनकार्यव्यक्तेस्तु पुनरभिव्यक्तिर्नास्ति, प्रत्यभिज्ञाद्यापत्त्या पातञ्जले निराकृतत्वात् । परेणामिवास्माकमप्यनागतावस्थायाः प्रागभावाख्या अभिव्यक्तिहेतुत्वाच्चेति । नन्वतीतमप्यस्तीत्यत्र किं प्रमाणम् ? न ह्यानागतसत्तायामिव श्रुत्यादयोऽतीतसत्तायामपि स्फुटमुपलभ्यन्त इति। मैवम्। योगिप्रत्यक्षत्वान्यथानुपपत्त्यानागतातीतयोरुभयोरेव सत्त्वसिद्धेः, प्रत्यक्षसामान्ये विषयस्य हेतुत्वात् । अन्यथा वर्त्तमानस्यापि प्रत्यक्षेणासिद्ध्यापत्तेः। तस्माद्धियामैत्सर्गिकप्रामाण्येनाऽसति बाधके योगिप्रत्यक्षेणातीतमप्यस्तीति सिद्ध्यति। योगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकं प्रमाणं योगवार्तिके प्रपञ्चितमिति दिक्॥ तदेवमभिव्यक्तिलयाभ्याम् कार्याणामुत्पत्तिनाशव्यवहारावुक्तौ।
नन्वभिव्यक्तिरपि पूर्वं सती वाऽसती वा? आद्ये कारणव्यापारात् विफलः। अन्त्ये चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिः, असत्यां एवाभिष्यक्तेरभिव्यक्त्यङ्गीकारादिति॥
अत्रोच्यते। कारणव्यापारात् प्राक् सर्वकार्याणां सदा सत्त्वाभ्युपगमेनोक्तविकल्पानवकाशाद् घटवत् तदभिव्यक्तेरपि वर्तमानाऽवस्थया प्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापारापेक्षणात् । अनागतावस्थया च
सत्कार्यसिद्धान्तस्याऽक्षतेः । नन्वेकदा सदसत्त्वयोर्विरोध इति चेत्। प्रकारभेदस्योक्तत्वात् । नन्वेवमपि प्रागभावानङ्गीकारेण प्रागसत्त्वमेव कार्याणां दुर्वचमिति । मैवम्। अवस्थानामेव परस्पराभावरूपत्वादिति ॥ 121 ॥
ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तेरप्यभिव्यक्तिरेष्टव्या, तथा चानवस्थेत्याशङ्क्याह–
पारम्पर्यतोऽन्वेषणा बीजाङ्कुरवत् ॥ 122 ॥
पारम्पर्यतः परम्परारूपेणैवाभिव्यक्तेरनुधावनं
कर्तव्यम्। बीजाङ्कुरवत्, प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः। बीजाङ्कुराभ्यां चात्रयमेव विशेषो, यद् बीजाङ्कुरस्थले क्रमिकपरम्परयानवस्था, अभिव्यक्तौ चैककालीनपरम्परयेति । प्रामाणिकत्वन्तु तुल्यमेवेति । सर्वकार्याणां स्वरूपतो नित्यत्वमवस्थाभिर्विनाशित्वं चेति पातञ्जलभाष्ये वदद्भिर्व्यासदेवैरपीयमनवस्था प्रामाणिकत्वेन स्वीकृतेति । अत्र च बीजाङ्कुरदृष्टान्तो लोकदृष्ट्योपन्यस्तः। वस्तुतस्तु जन्मकर्मादिविदत्यत्रैव तात्पर्यम्। तेन बीदाङ्कुरप्रवाहस्यादिसर्गाऽवधिकत्वेनानवधिकत्वेनानवस्थाविरहेऽपि न क्षतिः। आदिसर्गे हि वृक्षं विनैव बीजमुत्पद्यते हिरण्यगर्भसङ्कल्पेन तच्छरीरादिभ्य इति श्रुतिस्मृत्योः प्रसिद्धम्–
यथा हि पादपो मूलस्कन्धशाखादिसंयुतः।
आदिबीजात् प्रभवति बीजान्यन्यानि वै ततः॥
इति विष्णुपुराणादिवाक्यैरिति ॥ 122 ॥
वस्तुतस्त्वनवरथापि नास्तीत्याह–
उत्पत्तिद्वाऽदोषः॥ 123 ॥
यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभिरसदुत्पादवादिभिरिष्यते लाघवात् , तथैवास्माभिर्घटाभिव्यक्तेरप्यभिव्यक्तिः स्वरूपमेवेष्ठव्या, लाघवात्। अत उत्पत्ताविवाभिव्यक्तवपि नानवस्थादोष इत्यर्थः। अथैवमभिव्यक्तेरभिव्यक्त्यनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सत्त्वानुपपत्त्या सत्कार्यवादक्षतिरिति चेन्न. अस्मिन् पक्षे सत एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात् । अभिव्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्यवादत्वापत्तिः। नन्वेवं महदादीनामेव प्रागऽसत्त्वमिष्यतां किमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न । “त्दधीदं तर्ह्यव्याकृतमासीत्” इत्यादिश्रुतिभिरव्यक्तावस्थया सतामेव कार्याणामभिव्यक्तिसिद्धेः। तथाप्यभिव्यक्तेः प्रागभावादिस्वीकारापत्तिरिति चेन्न। तिसृणामनागताद्यवस्थामामन्योऽन्यास्याभावरूपतयोक्तत्वात्, तादृशाभावनिवृत्त्यैव च कारणव्यापारसाफल्यादिसम्भवात् । अयमेव हि
सत्कार्यवादिनामसत्कार्यवादिभ्यां विशेषो यत् तैरुच्यमानौ प्रागभावप्रध्वंसौ सत्कार्यवादिभिः कार्यस्याऽनागतातीतावस्थे भावरूपे प्रोच्येते । वर्तमानताख्या चाभिव्यक्त्यवस्था घटाद् व्यतिरिक्तेष्यते। घटादेरवस्थात्रयवत्त्वानुभवादिति। अन्यत् तु सर्वं समानम्। अतो नास्त्यस्मास्वधिकशङ्कावकाश इति दिक् ॥ 123 ॥
" कार्यदर्शनमात् तदुपलब्धेः” इति सूत्रेण कार्येण मूलकारणमनुमेयमित्युक्तम्, तत्र कियत्पर्यन्तं कार्यमित्यवधारयितुं सर्वकार्याणां साधर्म्यमाह–
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्॥ 124 ॥
कारणानुमापकत्वाल्लयगमनाद्वाऽत्र लिङ्गं कार्यजातम्। न तु महत्तत्त्वमात्रमत्र विवक्षितम्। हेतुमत्त्वादीनामखिलकार्यसाधारण्यात्॥
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥
इति कारिकायामप्यत एव व्यक्ताख्यं सर्वं कार्यमेव लिङ्गमित्युक्तम्। तथा च तल्लिङ्गं हेतुमत्त्वादिधर्मकमिति वाक्यर्थः । तत्र हेतुमत्त्वं कारणवत्त्वम्। अनित्यत्वं विनाशिता। प्रधानस्य या व्यापिता पूर्वोक्ता तद्वैपरीत्यमव्यापित्वम्। सक्रियत्वम्–अध्यवसायादिरूपनियतकारित्वम्। प्रधानस्य तु सर्वक्रियासाधारण्येन कारणत्वान्न कार्यैकदेशमात्रकारित्वम्। न च क्रिया कर्मैव वक्तुं शक्यते । प्रकृतिक्षोभात् सृष्टिश्रवणेन प्रकृतेरपि कर्मवत्तयात्र सक्रियत्वापत्तेरिति । अनेकत्वं सर्गभेदेन भिन्नत्वम्। सर्गद्वयासाधारण्यमिति यावत् । न पुनः सजातीयानेकव्यक्तिकत्वम्,
प्रकृतावतिव्याप्तेः, प्रकृतेरपि सत्त्वाद्यनेकरूपत्वात्। " सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात्" इत्यागामिसूत्रादिति । आश्रितत्वं चावयवेष्विति ॥ 124 ॥
कार्यकारणयोर्भेदे हेतुमत्त्वादि सिद्ध्यतीत्यतः कारणातिरिक्तकार्यसिद्धौ प्रमाणान्याह–
आञ्जस्यादभेदतो वा गुणसामान्यादेस्तत्सिद्धिः
प्रधानव्यपदेशाद्वा॥ 125 ॥
तत्सिद्धिर्लिङ्गाख्यकार्यस्य कारणातिरेकतः सिद्धिः क्वचिदाञ्जस्यात् प्रत्यक्षत एवानायासेन भवति यथा स्थोल्यादिना धर्मेण तन्त्वादिभ्यः पटादीनाम् । क्वचिच्च गुणसामान्योदेरभेदतो गुणसामान्याद्यात्मकत्वेन लिङ्गेनानुमानेन भवति, यथा च महापृथिवीत्वादिगुणात्मकत्वरूपेण कारणवैधर्म्येण महदादीनाम्। यथा च महापृथिवीत्वादिसामान्यात्मकतारूपेण तन्मात्रवैधर्म्येण पृथिव्यादीनाम्। क्वचित्तु आदिशब्दगृहातेन कर्माद्यात्मकतावैधर्म्येण। यथा स्थिरावयवेभ्योऽतिरिक्तस्य चञ्चलावयविनः । तथा प्रधानव्यपदेशात् प्रधानश्रुतेरपि कारणातिरिक्तकार्यसिद्धिर्भवति। प्रधीयतेऽस्मिन् हि कार्यजातमिति प्रधानमुच्यते। तच्च कार्यकारणयोर्भेदाभेदौ विना न घटते। अत्यन्ताभेदे स्वस्याधारत्वासंभवादित्यर्थः॥ 125 ॥
कार्याणां साधर्म्यरूपं लक्षणं कारणातिरिक्तकार्येण प्रमाणं च सूत्राभ्यां दर्शितम् इदानीं कार्यसधर्मकतया कारणानुमानाय कार्यकारणयोरपि
साधर्म्यं प्रदर्शयति–
त्रिगुणाचेतनत्वादि द्वयोः ॥ 126 ॥
द्वयोः कार्यकारणयोरेव त्रिगुणत्वादिसाधर्म्यमित्यर्थः। आदिशब्दग्राह्याश्च कारिकायामुक्ताः–
त्रिगुणमविवेकविषयः सामान्यमचेतनं प्रववधर्मि।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ इति ॥
त्रयः सत्त्वादिद्रव्यरूपा गुणा अत्र सन्तीति त्रिगुणम्। तत्र महदादिषु कारणरूपेण सत्त्वादीनामवस्थानं[गुणत्रयसमूहरूपेण तु प्रधाने सत्वादीनामवस्थानम्। अत्रे दमधिकं पाठान्तरं दृश्यते।] वने वृक्षवदेवावगन्तव्यम्। अथवासत्त्वादिशब्देन सुखदुःखमोहानामपि वचनात् कार्यकारणयोस्त्रिगुणत्व समञ्जसमिति अविवेकिविषयोऽज्ञैरेव दृष्यम्। भोग्यमिति यावत्। अविवेकि च विषयश्चेति तच्छेदे त्वविवेकत्वं सम्भूयकारित्वं विषयित्वं तु भोग्यत्वमेव । सामान्यं सर्वपुरुषसाधारणम्। पुरुषभेदेऽप्यभिन्नमिति यावत्। प्रसवधर्मि–परिणामि। व्यक्तं-कार्यम्। प्रधानं-कारणमित्यर्थः। कार्यकरणयोरन्योन्यवैधर्म्यमपि कारिकया दर्शितम्–
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥ इति ॥
अत्रैकत्वं सर्गभेदेऽप्यभिन्नत्वम्। अतः प्रकृतेरनेकव्यक्तिकत्वेऽपि नैकत्वक्षतिः॥
महान्तं च समावृत्य प्रधानं समवस्थितम्।
अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते॥
इति विष्णुपुराणेनासंख्येयतावचनात् तु प्रधानस्य व्यक्तिबहुत्वसिद्धिरिति॥ 126 ॥
प्रधानाख्यानां जगत्कारणगुणानामन्योऽन्यविवेकाय तेषामवान्तरमपि वैधर्म्यं सिद्धान्तयति, विविधज्ञगत्कारणत्वोपपत्तये च, न ह्येकरूपात् काणाद्विचित्रकार्याणि सम्भवन्तीति–
प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योऽन्यं वैधर्म्यम्॥ 127 ॥
गुणानां सत्त्वादिद्रव्यत्रयाणामन्योऽन्यं
सुखदुःखाद्यैर्वैधर्म्यं, कार्येषु तद्दर्शनादित्यर्थः। सुखादिकं च घटादेरपि रूपादिवदेव धर्मोऽन्तःकरणोपादानत्वाद् ‘अन्यकार्याणाम्’ इत्युक्तम्। अत्रादिशब्दग्राह्याः पञ्चशिखाचार्यैरुक्ताः। यथा सत्त्वं नाम प्रसादलाघवभिष्वङ्गप्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्मकम्। एवं रजोऽपि शोकदिनानाभेदं समासतो दुःखात्मकम्। एवं तमोऽपि निद्रादिनानाभेदं समासतो मोहात्मकमिति । अत्र प्रीत्यादीनां गुणधर्मत्ववचनादागामिसूत्रे च लघुत्वादेर्वक्ष्यमाणत्वात् सत्त्वादीनां द्रव्यत्वं सिद्दम्। सुखाद्यात्मकता तु गुणानां मनसः
सङ्कल्पात्मकतावद्धर्म्यभेदादेवोपपद्यते। न वैशेषिकोक्ताः सुखादय एव सत्त्वादिगुणा इति । सत्त्वादित्रयमपि व्यक्तिभेदादनन्तम्। अन्यथा हि विभुमात्रत्वे गुणविमर्दवैचित्र्यात् कार्यवैचित्र्यामिति सिद्धान्तो नोपपद्येत । विमर्देऽवान्तरभेदासम्भवात्॥ 127 ॥
गुणानां सत्त्वादीनामेकैकव्यक्तिमात्रत्वे वृद्धिह्नासादिकं नोपपद्यते। तथा परिच्छन्नत्वे च तत्समूहरूपस्य प्रधानस्य परिच्छिन्नत्वापत्त्या श्रुतिस्मृतिसिद्धमेकदाऽसङ्ख्यब्रह्माण्डादिकं
नोपपद्येत । अतोऽसङ्ख्यत्वे गुणानां त्रित्वसङ्ख्योपपादनाय विवेकाद्यर्थं च तेषां साधर्म्य प्रतिपादयति–
लध्वादिधर्मैः साधर्म्यं वैधर्म्यं च गुणानाम्॥ 128 ॥
अयमर्थः लध्वादीति भावप्रधानो निर्देशः। लघुत्वादिधर्मेण सर्वासां सत्त्वव्यक्तीनां साधर्म्यं वैधर्म्यं च रजस्तमोभ्याम्। तथा च पृथवाव्यक्तीनां पृतिवात्वेनेव सत्त्वव्यक्तीनामेकजातीयतयैकता सजातीयोवष्टम्भादिना वृद्धिह्नासादिकं च युक्तमित्याशयः। एवं चञ्चलत्वादिधर्मेण सत्त्वादिरजाव्यक्तीनां साधर्म्यं सत्त्वतमोभ्यां च वैधर्म्यम्। शेषं पूर्ववत् । एवं गुरुत्वादिधर्मेण सर्वासां तमोव्यक्तीनां साधर्म्यं सत्त्वरजोभ्यां वैधर्म्यम्। शेषं पूर्ववदिति। वैधर्म्यस्य प्रागेवोक्ततयात्र पुनर्वैधर्म्यकथनं सम्पातायातम्। अत्र वैधर्म्यं चेति पाठः प्रामादिक एवेति । अथ्र सूत्रे सत्त्वादीनां कारणद्रव्याणां प्रत्येकमनेकव्यक्तिकत्वं सिद्धम्, अन्यथा लघुत्वादीनां साधर्म्यत्वानुपपत्तेः, समानानां धर्मस्यैव साधर्म्यत्वात्। न च कार्यसत्त्वादीनामनेकतया लघुत्वादिकं साधर्म्यं स्यादिति वाच्यम्। त्रिगुणात्मकत्वेन घटादीनामपि कार्यसत्वादिरूपतया लघुत्वादीनां सत्त्वादिसाधर्म्यत्वानुपपत्तेः।तस्मात् कारणगुणानामेवात्र साधर्म्यादिकमुच्यत इति । सत्त्वादीनां लघुत्वादिकं चोक्तं कारिकया--
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥ इति ॥
अर्थतः- पुरुषार्थनिमित्तात् । नन्वेवं मूलकारणस्य परिच्छिन्नापरिच्छिन्नासङ्ख्यव्यक्तिकत्वे वैशेषिकमतादत्र को विशेष इति चेत्। कारणद्रव्यस्य शब्दस्पर्शादिराहित्यमेव ॥
शब्दस्पर्शविहीनं तु रूपादिभिरसंयुतम्।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्॥
इति विष्णुपुराणादिभ्यः॥ एतच्च पातञ्जलेऽस्माभिःप्रपढ्चितम्॥ 128 ॥
ननु महदादीनां स्वरूपतः सिद्धावपि तेषां प्रत्यक्षेणोत्पत्त्यदर्शनात् कार्यत्वे नास्ति प्रमाणं येन तेषां हेतुमत्त्वं साधर्म्यं स्यात्, तत्राह–
उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् ॥ 129 ॥
महदादि पञ्चभूतान्तं विवादास्पदं तावन्न पुरुषो, भोग्यत्वात् । नापि पिरकृतिः; मोक्षान्यथानुपपत्त्या विनाशित्वात्। अतः प्रकृतिपुरुषभिन्नं तद्भिन्नत्वाच्च कार्यं घटादिवदित्यर्थः॥ 129 ॥
ननु विकारशक्तिदाहादिनैव मोक्षाद्युपपत्तेर्विनाशित्वमपि तेषामसिद्धमित्याशङ्कायां कार्यत्वे हेत्वन्तराण्याह–
परिमाणात् ॥ 130 ॥
परिच्छिन्नत्वाद् दैशिकाभावप्रतियोगितावच्छेदकजातिमत्त्वादित्यर्थः। तेन गुणव्यक्तीनां
परिच्छिन्नत्वेऽपि तत्र व्यभिचारः॥ 130 ॥
किञ्च–
समन्वयात्॥ 121 ॥
उपवासादिना क्षीणं हि बुद्ध्यादितत्त्वमन्नादिभिः समन्वयेन समनुगतेन पुनरुचीयते । अतः
समन्वयात् कार्यत्वमुन्नीयत इत्यर्थः। नित्यस्य हि निरवयवतयाऽवयवानुप्रवेशरूपः समन्वयो न घटत इति । समन्वये च श्रुतिः प्रमाणम् मनः प्रकृत्य-‘एवं ते सौम्य षोडशानां कलावामेकाकलाऽतिशिष्टाभूत् । सान्नेनोपसमाहिता प्राज्वाली’दिति ( छां0 दो0 6-7-6 )। योगसूत्रं च–‘जात्यन्तरपरिणामः प्रकृत्यापूरात्’ ( कै0पा0 2 सू0 ) इति ॥ 131 ॥
किञ्च–
शक्तितश्चेति ॥ 132 ॥
करणतश्चेत्यर्थः। पुरुषस्य यत् तत् कार्यं चक्षुरादिवदिति भावः । पुरुषे साक्षाद्विषयार्पकत्वं प्रकृतेर्नास्तीति प्रकृतिरंन करणमिति । अतो महत्त्वस्य करणतया कार्यत्वे सिद्धे सुतरामन्येषामपि कार्यत्वम्। इतिशब्दश्च हेतुवर्गसमाप्तिसूचनार्थ ः॥ 132 ॥
यदि च महदादिमध्ये किंटिदकार्यं स्वीक्रियते तदापि तदेव प्रकृतिः पुरुषो वेति सिद्धं नः समीहितम्। प्रकृतिपुरुषौ प्रसाध्य परिणामित्वापरिणामित्वाभ्यां विवेक्तव्यावित्यत्रैवास्माकं तात्पर्यादित्याह–
तद्धाने प्रकृतिः पुरुषो वा ॥ 133 ॥
तद्धाने कार्यत्वहाने यदि परिणामी तदा प्रकृतिः। यदि वा अपरिणामी भोक्ता तदा पुरुष इत्यर्थः॥ 133 ॥
ननु नित्यमप्युभयभिन्नं स्यात्, तत्राह–
तयोरन्यत्वे तुच्छत्वम्॥ 134 ॥
अकार्यस्य प्रकृतिपुरुषभिन्नत्वे तुच्छत्वं शशश्रृङ्गादिवत् प्रमाणाभावात् । अकार्यं हि कारणतया वा भोक्तृतया वा सिद्ध्यति, नान्यथेत्यर्थः॥ 134 ॥
तदेवं महदादिषु कार्यत्वं प्रसाध्य साम्प्रतं तैः प्रकृत्यनुमानेऽनुक्तं विशेषमाह–
कुर्यात् कारणानुमानं तत्साहित्यात्॥ 135 ॥
कार्यान्महत्तत्त्वादेर्लिङ्गात् सामान्यतो दृष्टं कारणानुमानं यदुक्तं तत् ताटस्थ्यनिवृत्तये तत्साहित्यात् कार्यसाहित्येनैव कर्त्तव्यम्। "सदेव सौम्येदमग्र आसीत्, तम एवेदमग्न आसीत्" (छां0 अ0 6 खण्ड-1-मं0 1) इत्यादि श्रुत्यनुसारात् । तद्यथा-महदादिकं स्वोपहितत्रिगुणात्मकवस्तूपादानकम् कार्यत्वात् शिलामध्यस्थप्रतिमावत्, तैला दिवच्चेत्यर्थः। अत्रानुकूलतर्कः प्रागेव दर्शितः॥ 135 ॥
तस्याः प्रकृतेः कार्याद्वैधर्म्यं विवेकार्थमाह–
अव्यक्तं त्रिगुणाल्लिङ्गात् ॥ 136 ॥
अभिव्यक्तांत् त्रिगुणान्महत्तत्त्वादपि मूलकारणमव्यक्तं सूक्ष्मम् । महत्त्वस्य हि सुखादिर्गुणः साक्षात् क्रियते, प्रकृतेश्च गुणोऽपि न साक्षात्क्रियत इति प्रधानम् परमाव्यक्तम्। महत्तत्त्वं तु तदपेक्षया व्यक्तमित्यर्थः
॥ 136 ॥
ननुप परमसूक्ष्मं चेत् तर्हि तस्यापलाप एवोचित इत्याकाङ्कायां पूर्वोक्तं स्मारयति–
तत्कार्यतस्तत्सिद्धेर्नापलापः॥ 137 ॥
सुगमम्॥ 137 ॥
प्रकृत्यनुमानगत विशेषा विस्तरतो विचारिताः। इतः परमध्यायसमाप्तिपर्यन्तं पुरुषानुमानगता विचार्याः। तत्र कञ्चनादौ विशेषमाह–
सामान्येन विवादाभावाद्धर्मवन्न साधनम् ॥ 138 ॥
यत्र वस्तुनि सामान्यतो विवादो नास्ति न तस्य स्वरूपतः साधनमपेक्ष्यते, धर्मस्येवेत्यर्थः। अयं भावः। यथा प्रकृतेः सामान्येनापि साधनमपेक्षितं, धर्मिण्यपि विवादात् । नैवं पुरुषस्य साधनमपेक्षितम् चेतनापलापे जगदान्ध्यप्रसङ्गतो भोक्तर्यहम्पदार्थे सामान्यतो बौद्धानामप्यविवादात् । धर्म इव। धर्मो हि सामान्यतो बौद्धैरपि स्वीक्रियते तप्तशिलारोहणादिषु धर्मत्वाभ्युपगमात् । अतः पुरुषे विवेकनित्यत्वादिसाधनमात्रमनुमानं कार्यमिति ॥ 138 ॥
" संहतपरार्थत्वात पुरुषस्य" इत्युक्तसूत्रेणापि विवेकानुमानमेवाऽभिप्रेतम्, न तु पपुरुषस्य ससर्वथैवाप्रत्यक्षत्वमभिप्रेतमिति । तत्र चादौ विवेकप्रतिज्ञानसूत्रम्–
शरीरादिव्यतिरिक्तः पुमान् ॥ 139 ॥
शरीरादिप्रकृत्यन्तं यच्चतुर्विशतितत्त्वात्मकं वस्तु ततोऽतिरिक्तः पुमान् भोक्तेत्यर्थः। भोक्तृत्वं च द्रष्टृत्ममिति ॥ 139 ॥
अत्र हेतनाह सूत्रैः–
संहतपरार्थत्वात् ॥ 240 ॥
यतः सर्वं संहतं प्रकृत्यादिकं परार्थं भवति शय्यादिवत् अतोऽसंहतदेहादिभ्यः परः पुरुषः सिद्ध्यतीत्यर्थः। अयं च हेतुः संहतपरार्थत्वात् पुरुषस्येत्यत्र व्याख्यातः। उक्तस्यापि हेतोः पुनरुपन्यासो हेतुवर्गसङ्कलनार्थः॥ 140 ॥
किञ्च–
त्रिगुणादिविपर्ययात् ॥ 141 ॥
सुखदुःशमोहात्मकत्वादिवैपरीत्यादित्यर्थः। शरीरादीनां हि यः सुखद्यात्मकत्वं धर्मः स सुखादिभोक्तरि न सम्भवति, स्वयं सुखादिग्रहणे कर्मकर्तृविरोधात्, धर्मिपुरुस्कारेणैव सुखाद्यनुभवादिति॥ ननु बुद्धिवृत्तिप्रतिबिम्बतं स्वसुखादिकं पुरुषेण गृह्यतां स्ववदिति चेन्न। एवं सति बुद्धेरेव सुखादिकल्पनौचित्यात् । पुरुषगतसुखादेर्बुद्धौ प्रतिबिम्बकल्पने गोरवात्। अहं सुखी दुःखी मूढः इत्यादिप्रत्ययास्तु न पुरुषे सुखादिसाधकाः। तत्स्वामित्तवेनाप्युपपत्तेश्च। बुद्धेः सुखादिमत्त्वेनाप्युपपत्तेः। लौकिक्यां ह्यहंबुद्धाववश्यं बुद्धिरपि विषयो मिथ्याज्ञानवासनादिरूपदोषानुवृत्तेस्तत्प्रतिबिम्बकल्पनायां च गोरवादिति । आदिशब्देन चात्र त्रिगुणमविवेकि विषय इति कारिकोक्ताऽविवेकित्वादयो ग्राह्याः। तथा रूपदयः शरीरादिधर्मां ग्राह्याः॥ 142 ॥
किञ्च–
अधिष्ठानाच्चेति ॥ 142 ॥
भोक्तुरधिष्ठातृत्वाच्चाधिष्ठेयेभ्यः प्रकृत्यन्तेभ्योऽतिरिक्ततेत्यर्थः। अधिष्ठानं हि भोक्तुः संयोगः। स च प्रकृत्यादीनां भोगहेतुपरिणामेषु कारणम्। भोक्तुरधिष्ठानाद् भोगायतननिर्माणमिति वक्ष्यमाणसूत्रात् । संयोगश्च भेदे सत्येव भवतीति भावः। इति शब्दो हेतुसमाप्तौ ॥ 142 ॥
उक्तानुमानेऽनुकूलतर्कं प्रदर्शयति सूत्राभ्याम्–
भोक्तृभावात् ॥ 143 ॥
यदि हि शरीरादिस्वरूप एव भोक्ता स्यात् तदा भोक्तृत्वमेव व्याहन्येत, कर्मकर्तृविरोधात् । स्वस्य साक्षात् स्वभोक्तृत्वानुपपत्तेरित्यर्थः। अनुपपत्तिश्च पूर्वमेव व्याख्याता। अत्र सूत्रे पुरुषस्य भोगः स्वीकृत इति स्मर्तव्यम्। अपरिणामिनश्च पुरपुषस्य भोगः चिदवसानो भोग इत्यत्र व्याख्यातः ॥ 143 ॥
किञ्च–
कैवल्यार्थं प्रवृत्तेश्च ॥ 144 ॥
शरीरादिकमेव चेद्भोक्तृ स्यात् भोक्तुः कैवल्यार्थं दुःखात्यन्तोच्छेदार्थं कस्यापि प्रवृत्तिर्नोपपद्येत। शरीरादीनां विनाशित्वात् प्रकृतेश्च धर्मिग्राहकमानेन दुःखस्वाभाव्यसिद्ध्या कैवल्याऽसम्भवात्। न हि स्वभावस्यात्यन्तोच्छेदो घटत इत्यर्थः। अत्र कैवल्यार्थं प्रकृतेरिति सूत्रपाठः प्रामादिकत्वादुपेक्षणीयः॥
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च॥
इति कारिकातः कैवल्यार्थं प्रवृत्तेश्चेति पाठात्, अर्थासङ्गतेश्चेति॥ 144 ॥
चतुर्विंशतितत्त्वातिरिक्ततया पुरुषः साधितः इदानीं पुरुषगतो विशेषो विवेकस्फुटीकरणायानुमीयते–
जडप्रकाषायोगात् प्रकाशः ॥ 145 ॥
वैशेषिका आहुः-प्रागप्रकाशरूपस्य जडस्यात्मनो मनःसंयोगाड्ज्ञानाख्यः प्रकाशो जायत-इति । तन्न लोके जडस्याप्रकाशस्य लोष्टादेः प्रकाशोत्पत्त्यदर्शनेन तदयोगात् । अत सूर्यादिवत् प्रकाशस्वरूप एव पुरुष इत्यर्थः। तथा च स्मृतिः--
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते।
तद्वदैक्यं न सम्बद्धं प्रपञ्चपरमात्मनोः॥ इति ॥
यथा दीपः प्रकाशात्मा ह्नस्वो वा यदि वा महान्।
ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु ॥ इति च ॥
प्रकाशत्वं च तेजःसत्त्वचैतन्येष्वनुगतमखण्डोपाधिरनुगतव्यवहारादिति॥ 145 ॥
ननु प्रकाश,स्वरूपत्वेऽपि तेजोवद्धर्मधर्मिभावोऽस्ति, न वा ?तत्राह–
निर्गुणत्वान्न चिद्धर्मा ॥ 146 ॥
सुगमम्॥ पुरुषस्य प्रकाशरूपत्वे सिद्धे तत्सम्बन्धमात्रेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्पनागौरवीमित्यपि बोद्धव्यम्। तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्पर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः सिद्ध्यति। आत्मनस्तु ज्ञानाख्यप्रकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाघवाद्धर्मधर्मिभावशून्यं प्रकाशरूपमेवाऽऽत्मद्रव्यं कल्प्यते । तस्य च न गुणत्वम् संयोगादिमत्त्वात्, अनाश्रितत्वाच्चेति । अथाच स्मर्य्यते–
ज्ञानं नैवात्मनो धर्मो गुणो वा कथञ्चन।
ज्ञानस्वरूप एवात्मा नित्यः पूर्णः सदा शिवः॥ इति ॥
ननु निर्गुणत्वे एव का युक्तिरिति चेत्। उच्यते। पुरुषस्येच्छाद्यास्ताविन्नित्या न सम्भवन्ति, जन्यताप्रत्यक्षात्। जन्यगुणाङ्गीकारे परिणामित्वापत्तिः। तथा चोभयोरेव प्रकृतिपुरुषयोः परिणामहेतुत्वकल्पने गोरवम्। आन्ध्यपरिणामेन कदाचिदज्ञत्वस्यापत्त्या ज्ञानेच्छादिगोचरसंशयापत्तिश्च । तथा जडप्रकाशायोगस्योक्तत्वादपि न नित्यस्यानित्यज्ञान सम्भव इति । इच्छादिकमन्वयव्यतिरेकाभ्यां मनस्येव लाघवात् सिद्ध्यति।मनःसंयोगस्यात्मनश्चोभयोस्तद्धेतुत्वं गोरवात्। गुणशब्दश्च विशेषगुणवाचीत्युक्तमेव । अत आत्मा निर्गुणः। अपि च ये तार्किका आत्मनः कर्तृत्वमिच्छन्ति तेषां मोक्षानुपपत्तिः, अहं कर्तेति बुद्धेरेव गीतादिष्वदृष्टोत्पत्तिहेतुतयोक्तत्वात् । तस्याश्च तन्मते मित्थाज्ञानत्वाभावेन तत्त्वज्ञाननिवर्त्यत्वासम्भवात् अतः श्रुत्युक्तमोक्षानुपपत्त्यात्मनोऽकतृत्वमस्माभिरिष्यते। अकर्तृत्वाच्चादृष्टसुखाद्यभावः। ततश्च मनसः कृत्यादिहेतुत्वे कल्पनीये लाघवादन्तर्दुश्य गुणत्वावच्छेदेनैतत् कल्प्यते। अत आत्मा निर्गुण इति । यथोक्तस्य च परमसूक्ष्मस्यात्मनः स्वरूपं वाशिष्ठे करामलकवत् प्रोक्तं विविच्य प्रतिपादितम्। यथा–
असम्भवति सर्वत्र दिग्भूम्याकाशरूपिणि।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत्॥
त्रिजगत् त्वमहं चेति दृश्ये सत्तामुपागते ।
द्रष्टुः स्यात् केवलाभावस्तादृशो विमलात्मनः॥ इति ॥ 146 ॥
नन्वहं जानामिति धर्मधर्मिभावानुभवात् पुरुषस्य चिद्धर्मकत्वं सिद्ध्यति; गोरवस्य प्रामाणिकत्वेनाऽदोषत्वादिति । तत्राह–
श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात्॥ 147 ॥
भवदेवं यदि केवलतर्केणास्माभिर्निर्गुणत्वाच्चिद्धर्मत्वादिकं प्रसाध्यते, किन्तु श्रुत्यापि। अतः श्रुत्या सिद्धस्य निर्गुणत्वादेर्नापलापः सम्भवति, तत्प्रत्यक्षस्य गुणादिप्रत्यक्षस्य श्रुत्यैव बाधात् । अहं गौर इत्यादिप्रत्यक्षवदित्यर्थः। अन्यथा हि गोरेऽहमिति प्रत्यक्षबलेन देहातिरिक्तात्मसाधिका अपि युक्तयो बाधिताः स्युरिति जितं नास्तिकैः । निर्गुणत्वे च श्रुतयः-- "साक्षी चेता केवलो निर्गुणश्च" इत्याद्या-। चिन्मात्रत्वे तु श्रुतयः-- "अकर्ता चैतन्यं चिन्मात्रं सच्चिदेकरसो ह्ययमात्मा" इत्याद्या इति । सर्वज्ञत्वादिश्रुतयस्तु राहोः शिर इतिवल्लौकिकविकल्पानुवादमात्राः. विधिनिषेधश्रतिमध्ये निषेधझश्रतरेव बलवत्त्वात्--"अथात आ देशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्ति"
इति श्रुतेः। किञ्चाज्ञानामहं जानामीति प्रत्यये प्रमात्वस्यैवौत्सर्गिकत्वात्। अतो भ्रमशतान्तःपातित्वेनाप्रामाण्यशङ्कास्कन्दितत्वाच्चैतत्प्रत्यक्षबाधने लाघवतर्काद्यनुगृहीतमनुमानमपि समर्थमिति ॥
नन्वात्मनो नित्यज्ञानस्वरूपत्वे कीदृशं लाघवमिति चेत् । उच्यते। नैयायिकादिभिरन्तःकरणं व्यवसायानुव्यवसायौ तदाश्रयश्चेति चत्वारः पदार्थाः कल्प्यन्ते। अस्माभिस्त्वन्तःकरणं व्यवसायस्थानीया च तद्वृत्तिरनन्तानुव्यसायस्थानीयश्च नित्यैकज्ञानरूप आत्मेति त्रयः पदार्थाः कल्प्यन्त इति ॥ 147 ॥
ननु यदि यदि प्रकाशरूप एवात्मा तदा सुषुप्त्याद्यवस्थाबेदो नोपपद्यते, सदा प्रकाशानपायादिति । तत्राह–
सुषुप्त्याद्यसाक्षित्वम्॥ 148 ॥
सुषुप्त्याद्यस्यावस्थात्रयस्य बुद्धिनिष्ठस्य साक्षित्वमेव पुंसीत्यर्थः।
तदुक्तम्–
जाग्रत स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः।
तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः ॥ इति ॥
तासां बुद्दिवृत्तीनां साक्षित्वेन तद्विलक्षणो जाग्रदाद्यवस्थारहितो निर्णीत इत्यर्थः। तत्र जाग्रन्नामावस्थेन्द्रियद्वारा बुद्धेर्विषयाकारः परिणामः। स्वप्नावस्था च संस्कारमात्रजन्यस्तादृषः परिणामः। सुषुप्त्यवस्था च द्विविधार्दधसमग्रलयभेदेन । तत्रार्द्धलये विषयाकारा वृत्तिर्न भवति–किन्तु स्वगरसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति । अन्यथोत्थितस्य सुखमहस्वाप्समित्यादिरूपसुषुप्तिकालूनसुखादिस्मरणानुपपत्तेः। तदुक्तं व्याससूत्रेण– ‘मुग्धेऽर्दधसम्पत्तिः परिशेषात्" इति । समग्रलये तु बुद्धेर्वृत्तिसामान्याभावो मरणादाविव भवति । अन्यथा समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपतेत्यागामिसूत्रानुपपत्तेरिति । सा च समग्रसुषुप्तिवृत्त्यभावरूपेति पुरुषस्तसाक्षी न भवति, पुरुषस्य वृत्तिमात्रसाक्षित्वात्। अन्यथा संस्कारादेरपि बुद्धिधर्मस्य साक्षिभास्यतापत्तेः। सुषुप्त्यादिसाक्षित्वं तु तादृशबुद्धिवृत्तीनां स्वप्रतिबिम्बितानां प्रकाशनमिति वक्ष्यामः । अतो ज्ञानार्थम पुरुषस्य न परिणामापेक्षेति ।
स्यादेतत् । सुषुप्ते यदि सुखदुःखादिगोचरा बुद्धिवृत्तिरिष्यते, तर्हि जाग्रदादावप्यखिलवृत्तीनां वृत्तिग्राह्यत्वस्वीकार एव युक्त इति व्यर्था तत्साक्षिपुरुषकल्पना । स्वगोचरवृत्तित्वेनैव स्वव्यवहारहेतुतायाः सामान्यतः सुवचत्वादिति।
मैषम्। नियमेन स्वगोचरवृत्तिकल्पतेऽनवस्थापत्तिर्गौरवं च स्यात्। किञ्चाहं सुखीत्यादिवृत्तिषु सुखादीनां विशेषणतयानिर्विकल्पकं तज्ज्ञानमादावपेक्ष्यते । तत्र चानन्तनिर्विकल्पवृत्त्यपेक्षया लाघवेन नित्यमेकमेवात्मस्वरूपं ज्ञानं कल्पते।अहं सुखीत्यादिविशिष्टज्ञानार्थं बुद्धिवृत्तेरेव तादृशाकारत्वं पुरुषे वृत्तिसारूप्यमात्रस्वीकारेण वृत्त्याकारातिरिक्ताकारानभ्युपगमात् स्वतन्त्राकारेण परिणामीपत्तेरिति ॥ 148 ॥
अथैवं पुरुषस्य सुषुप्त्यादिसाक्षिमात्रत्वेन पुरुषैक्यस्याप्युपपत्तौ स किमेकोऽनेको वेति संशयः। तत्रायां पूर्वपक्षः। लाघवतर्कसहकारेण बवलतीभ्योऽभेदश्रुतिभ्य एक एवात्मा सिद्ध्यति । जाग्रदाद्यवस्थारूपाणां वैधर्म्याणां बुद्धिधर्मत्वात् । यद्यप्येकस्यात्मनः सर्वबुद्धिसाक्षित्वं , तथाऽपि यस्या बुद्धेर्या वृत्तिः सैव बुद्धिस्तद्वृत्तिविशिष्टतया साक्षिणं गृह्णाति, घटं जानामीत्यादिरूपैः। अत एकस्या बुद्धेरयं घट इति वृत्तै सत्यामन्यबुद्धिवृत्तिद्वारा नानुभवो, घटमहं जानामीति॥
तत्र सिद्धान्तमाह–
जन्मादिव्यवस्थातः पुरुषबहुत्वम्॥ 149 ॥
"पुण्यवान् स्वर्गे जायते, पापी नरके, अज्ञो बध्यते ज्ञानी मुच्यते" इत्यादेः श्रुतिस्मृतिव्यवस्थाया विभागस्यान्यथानुपपत्त्या पुरुषा बहव इत्यर्थः। जन्ममरणे चात्र नोत्पत्तिविनाशौ, पुरुषनिष्ठत्वाभावात् । किन्त्वपूर्वदेहेन्द्रियादिसङ्घातविशेषेण संयोगश्च वियोगश्च भोगतदभावनियामकाविति। जन्मादिव्यवस्थायां च श्रुतिः--
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः।
अजो ह्येको जुषमाणोऽनुशेते । जहात्येनां भुक्तभोगामजोऽन्यः॥
ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति, इत्यादिरिति ॥ 149 ॥
ननु पुरुषैक्येऽप्युपाधिरूपावच्छेदकभेदेन जन्मादिव्यवस्था भवेत्, तत्राह–
उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव
घटादिभिः॥ 150 ॥
उपाधिभेदेऽप्येकस्यैव पुरुषस्य नानोपाधियोगोऽस्त्येव । यथैकस्यैवाकाशस्य घटकुड्यादिनानायोगः। अतोऽवच्छेदकभेदेनैकस्यात्मन एव विविधजन्ममरणाद्यापत्तिः कायव्यूहादाविवेति न सम्भवति व्यवस्था, एकः पुरुषे जायते नापर इत्यादिरित्यर्थः। न ह्यवच्छेदकभेदेन कपिसंयोगतदभाववत्येकस्मिन्नेव वृक्षे व्यवस्था घटते । एको वृक्षः कपिसंयोगी, अन्यश्च नेति । किंमचैकोपाधितो मुक्तस्याप्यात्मप्रदेशस्योपाध्यन्तरैः पुनर्बन्धापत्त्या बन्धमोक्षाऽव्यवस्था तदवस्थैव । यथैकघटमुक्तस्याकाशप्रदेशस्यान्यघटयोगाद् घटाकाशव्यवस्था तद्विदिति। न च बन्धमोक्ष व्यवस्थाश्रुतिरपि लौकिकभ्रमानुवादमात्रमिति वाच्यम्। मोक्षस्याऽलौकिकत्वात्। मिथ्यापुरुषार्थप्रतिपादनेन श्रुतेः प्रतारक्तवाद्यापत्तेश्च॥ 150 ॥
ननु चैतन्यैक्येऽपि तत्तदुपाधिविशिष्टस्यातिरिक्ततामभ्युपगम्य व्यवस्थोपपादनीया, तत्राह–
उपाधिर्भिद्यते न तु तद्वान्॥ 151 ॥
उपाधिरेव नाना, न तु तद्वानुपाधिविशिष्टोऽपि नानाभ्युपेयो विशिष्टस्यातिरिक्तत्वे नानात्मताया एव शास्त्रान्तरेऽप्यभ्युपगमापत्तेरित्यर्थः। बन्धभागिनो विशिष्टत्वे विशेषणवियोगेन विशिष्टनाशान्न मोक्षोपपत्तिरित्यादीन्यपि दूषणानि । ननु विशिष्टस्या जीवत्वमन्वयव्यतिरेकादिति षष्टाध्याये स्वयमेवाहङ्कारविशिष्टस्यैव जीवत्वं वक्ष्यतीति चेन्न। प्राणधारकत्वरूपजीवत्वस्यैव विशिष्टाधेयत्ववचनात् । न तु बन्धमोक्षव्यवस्थाया विशिष्टाश्रितत्वं , मोक्षकाले विशिष्टासत्त्वादिति॥
यदपि केचिन्नवीना वेदान्तिब्रुवा आहुः। एकस्यैवात्मनः कार्यकारणोपाधिषुप्रतिबिम्बानि जीवेश्वराः, प्रतिबिम्बानां चान्योऽन्यं भेदाज्जन्माद्यखिलव्यवस्थोपपत्तिरिति।
तदप्यसत् । भेदाभेदविकल्पासहत्वात्। बिम्बप्रतिबिम्बयोर्भेदे प्रतिबिम्बस्याऽचेतनतया भोक्तृत्वबन्धमोक्षाद्यनुपपत्तिः। जीवब्रह्माभेदरूपतत्सिद्धान्तक्षतिश्च । जीवेश्वरभिन्नस्यात्मनोऽप्रामाणिकत्वं च । अभेदे तु साङ्कर्यापरिहारः। भेदाभेदाभ्युपगमे तु तत्सिद्दान्तहानिः, भेदाभेदविरोधश्च । अस्मन्मते त्वभेदोऽविभागलक्षणो भेदश्चान्योन्याभाव इत्यविरोध इति । अवच्छेदप्रतिबिम्बादिदृष्टान्तवाक्यानि त्वग्रे व्याख्यास्यामः॥
स्यादेतत् बिन्बप्रतिबिम्बादिभेदं परिकल्प्य श्रुत्या बन्धमोक्षव्यवस्था कल्पितेत्येवास्माभिरूच्यते, न तु परमार्थतो बिम्बप्रतिबिम्बभावस्तयोर्भेदो बन्धमोक्षादिकं चेष्यत इति ।
मैवम्। एवं सति बन्धमोक्षादिश्रुतिगणस्य भेदश्रुतिगणस्य चोभयोर्बाधापेक्षया
केवलाभेदश्रुतिगणस्यैवाविभागपरतैव सङ्कोचो लाघवाद्युक्तः। श्रुति स्मृत्यन्तरैरविभागस्य सिद्धत्वाच्चेति॥ 151 ॥
आत्मेक्यवादिषूक्तं दूषणमुपसंहरति–
एवमेकत्वेन परिवर्त्तमानस्य न विरुद्ध-
धर्माध्यासः॥ 152 ॥
एवं रीत्यैकत्वेन सर्वतो वर्तमानस्याऽत्मनो जन्ममरणादिरूपविरुद्धधर्मप्रसङ्गो न युक्त इत्यर्थः। यद्वैकत्व इति छेदः। एकत्वेऽभ्युपगम्यमाने परितः सर्वतो वर्तमानस्य सर्वोपाधिष्वनुगतस्य विरुद्धधर्माध्यासो नेति, न किन्तु सर्वथा विरुद्धधर्मसङ्करोऽपरिहाय इत्यर्थः। ननु पुरुषो निर्धर्मकः, तत्र कथं जन्ममरणबन्धमोक्षादिविरूद्धधर्मसाङ्कर्यमापद्यते, भवद्भिरपि सर्वेषां धर्माणामुपाधिनिष्ठत्वाऽभ्युपगमादिति चेन्न। उक्तधर्माणां संयोगवियोगाभोगरूपतया पुरुषे स्वीकारात् । परिणामरूपधर्माणामेव पुरुषे प्रतिषैधस्योक्तत्वादिति। यथा स्फटिके।ु लाहित्यनीलिमादिधर्माणामारोपितानामपि व्यवस्थास्ति तथा पुरुषेष्वपि बुद्धिधर्माणां सुखदुःखादीनां शरीरादिधर्माणां च ब्रह्यण्यक्षत्र्त्रियत्वादीनामारोपितानामपि व्यवस्थाऽस्ति शास्त्रेषु। यथा विष्णुपुराणे--
यथैकस्मिन् घटाकाशे रजोधूमादिभिर्वृते।
नच सर्वे प्रयुज्यन्त एवं जीवाः सुखादिभिः ॥ इति ॥ 152 ॥
साऽपि व्यवस्थैकात्म्ये सति जन्मादिव्यवस्थावदेव नोपपद्यत इत्याह–
अन्यधर्मत्वेऽपि नारोपात् तात्सिद्धिरेकत्वात् ॥ 153 ॥
अन्यधर्मत्वेऽपि धर्माणां सुखादीनामारोपात् पुरुषे व्यवस्था न सिद्ध्यति । आरोपाधिष्ठानपुरुषस्यैकत्वादित्यर्थः। आकाशस्यैकत्वेऽपि घटावच्छिन्नाकाशानां घटभेदेन भिन्नतयोपाधिकधर्मव्यवस्था घटते । आत्मत्वजीवत्वादिकन्तु नोपाध्यवच्छिन्नस्य, उपाधिवियोगे
घटाकाशनाशवत् तन्नाशेन जीवो न म्रियत इत्यादिश्रुतिविरोधप्रसङ्गात् । किन्तु कैवलचैतन्यस्येति प्रागेवोक्तम्। इमां बन्धमोक्षादिव्यवस्थाऽनुपपत्तिं सूक्ष्मामबुद्ध्वैवाधुनिका वेदान्तिब्रुवा उपाधिभेदेन बन्धमोक्षव्यवस्थामैवात्म्येऽप्याहुः।तेऽप्येतेन निरस्ताः। येऽपि तदेकदेशिन इमामेवानुपपत्तिं पश्यन्त उपाधिगतचित्प्रतिबिम्बानामेव बन्धादीन्याहुः ते त्वतीव भ्रान्ताः, उक्ताद्भेदादिविकल्पासहत्वादिदोषात्, अन्तःकरणस्य तदुज्ज्वलितत्वादित्यत्रोक्तदोषाच्च। किञ्च वेदान्तसूत्रे क्वाऽपि सर्वात्मनामत्यन्तैक्यं नोक्तमस्ति। प्रत्युत “भेदव्यपदेशाच्चान्यः 1-1-19 अधिकस्तु भेदनिर्देशात् 2-1-22, अंशो नानाव्यपदेशा “2-3-43 दिसूत्रैर्भेद उक्तः। अत आधुनिकानामवद्धेदप्रतिबिम्बदिवादा अपसिद्धान्ता एव। स्वसशास्त्राऽनुक्तसन्दिग्धार्थेषु यमानतन्त्रसिद्धान्तस्यैत्र सिद्धान्तत्वाच्चेत्यादिकं ब्रह्ममीमांसाभाष्येप्रतिपादितमस्माभिः
॥ 153 ॥
नन्वेवं पुरुषनानात्वे सति-
एक एव हि भूतात्मा भूते भूते व्यवस्थितः।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्॥
नित्यः सर्वगतो ह्यात्प्ना कूटस्थो दोषवर्जितः।
एकः स भिद्यते शक्त्या मायया न स्वभावतः॥
इत्याद्याः श्रुतिस्मृतय आत्मैकत्वप्रतिपादिका नोपपद्यन्त इति , तत्राह–
नाद्वैतश्रपतिविरोधो जातिपरत्वात्॥ 154 ॥
आत्मैक्यश्रुतीनां विरोधस्तु नास्ति, तासां जातिपरत्वात्। जातिः सामान्यमेकरूपत्वं , तत्रैवाद्वैतश्रुतीनां तात्पर्यात्, न त्वखण्डत्वे । प्रयोजनाभावादित्यर्थः। जातिशब्दास्य
चैकरूपतार्थकत्वमुत्तरसूत्राल्लभ्यते। यथाश्रुतजातिशब्दस्यादरे–“आत्मा वा इदमेव एवाग्र आसीत्, सदेव सौम्येदमग्र आसीत्, एकमेवाद्वितीयम्, इत्याद्यद्वैतश्रुत्यपपादकतयैव सूत्रं व्याख्येयम्। जातिपरत्वात्–विजातीयद्वैतनिषेधपरत्वादित्यर्थः। तत्राद्यव्याख्यायाम् अयं
भावः्मैक्यश्रुतिष्वेकादिशब्दाश्चिदेकरूपतामात्रपराः भेदादिशब्दाश्च वैधर्म्यलक्षणभेदपराः॥
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते॥
इत्यादिवाक्येष्वेकरूपार्थत्वावश्यकत्वात्। अन्यथावस्थात्रयऽप्यात्मन एकतामात्रज्ञानेन स्थानत्रयव्यतीतशब्दोक्ताया
अवस्थात्रयाभिमाननिवृत्तेरम्भवात् । तथैकरूपताप्रतिपादनेनैव निखिलोपाधिविवेकेन सर्वात्मनां ब्रह्मणापि शब्देन साक्षात्प्रतिपादयितुं शक्यते , शब्दानां सामान्यमात्रगोचारत्वात्। आब्रह्मस्तम्बर्पन्तेष्वात्मन एकरूपत्वे तु प्रतिपादिते तदुपपत्त्यर्थं शिष्यः स्वयमेव तावद्विवेचयति यावन्निर्विशेषे शब्दगोचरेस्वरूपे पर्यवस्यतीति । ततश्च निःशेषाऽबिमाननिवृत्त्या कृतकृत्यो भवति। यदि पुनरद्वैतवाक्यान्यखण्डतामात्रपराणि स्यस्तर्हि तेभ्यो नाभिमाननिवृत्तिः सम्भवति . आकाशे विविधशब्दवदखण्डेऽप्यात्मनि सुखदुःखतदभावादीनामवच्छेदकभेदैरुपपत्तेः। एकस्यैव वाक्यस्याखण्डत्वावैधर्म्योभयपरत्वे च वाक्यभेदोऽखण्डतापरकल्पनायां फलाभावश्च, अवैधर्म्यज्ञानादेव सर्वाभिज्ञानदेव सर्वाभिमाननिवृत्तेः।अतोऽद्वैतवाक्यानि नाखण्डतापराणि, न्यायानुग्रहेण बलवतीभिर्भेदग्राहकश्रतिस्मृतिभिर्विरोधाच्च। किन्त्ववैधर्म्यलक्षणाभेदपराण्येव । साम्यबोधकश्रतिभिरेकवाक्यत्वात्।
" सामान्यात्तु " ( अ0 3 पा0 2 सू0 32 ) इति ब्रह्मसूत्रपाच्चेति । तत्र साम्ये श्रुतयः– “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । ए मुनेर्विजानत आत्मा भवति गोतम !, निरञ्जनः परमं साम्यमुपैती” त्याद्याः।
समृतयश्च–
ज्यातिरात्मनि नान्यत्र सर्वभूतेषु तत् समम्।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा॥
यावनात्मनि बोधात्मा तावानात्मा परात्मनि॥
य एवं वेद वेद जनस्थोऽपि मुह्यति॥ इत्याद्याः॥
उक्तश्रुतौ मोक्षदशायामपि भेदघटितसाम्यवचनात् स्वरूपभेदाऽप्यात्मनास्तीति सिद्धम्। अवैधर्म्याभेदपरत्वं चास्मन्मते “विष्णुरहं शिवोऽहं मित्यादिवाक्यानां मन्तव्यम्, न तु “तत्त्वमस्यहं ब्रह्मास्मी” त्यादिवाक्यानामपि । तत्र साङ्ख्यमते प्रलयकालीनस्य पूर्णात्मन एव तदादिपदार्थतया नित्यशुद्धमु्कतस्त्वमसीत्यादियथाश्रुतस्य तादृशवाक्यार्थत्वात्। यदि तु सर्गाद्युत्पन्नपुरुषो नारायणाऽऽक्य एव तत्पदार्थस्तदातत्त्वमसीत्यादिवाक्यानामप्यवैधर्म्यार्थकतैवास्तु । ननु प्रयोजनाभावान्न भेदपरत्वं श्रुतीनां सम्भवतीति चेन्न। मोक्षोपपादनश्यैव प्रयोजनत्वात्। सृष्टिसंहारयोः प्रवाहरूपेणानुच्छेदात् तस्यैक्ये मोक्षानुपपत्तेः. अथवमात्मभेदस्य लोकसिद्धितया न तत्परत्वं श्रुतीनां घटत इति । मैवम्। लाघवतर्केणाकाशवदात्मन्येकत्वस्यानुमानतः प्रसक्तस्य श्रुत्यादिभिर्निषेधात्। स्वपरचैतन्ययोर्भेदस्य चाप्रत्यक्षत्वात्, देहादिष्वेवानुभवात्। “य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवती” त्यादिभेदनिन्दा तु वैधर्म्यविभागान्यतरलक्षणबेदपरेति । नन्वेवं मुक्तानां प्रतिबिम्बावच्छेदश्रुतीनां का गातरिति चेदुच्यते। अनेकतेजोमयादित्यमण्डलवत् अनेकात्ममयमपि चिदादित्यमण्डलमेकरसमविभक्तमेकपिण्डीकृत्य तस्य किरणवत् स्वांशभूतैरसङ्ख्यपुरुषैरसङ्ख्योपाधिष्वसंख्यविभाग एव प्रतिबिम्बादिदृष्टान्तैः प्रतिपाद्यते विभागलक्षणान्यत्वस्य वाचारम्भणामात्रत्वं बोधयितुं , न पुनरखण्डत्वम्।
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो वभूव।
इत्यादिसांशदृष्चान्तश्रुतीनां न्यायानुग्रहेण बलवत्वादिति। यता च स्मर्यते–
यस्य सर्वात्मकत्वेऽपि खण्ड्यते नैकपिण्डता॥ इति ॥
ब्रह्ममीमांसायां तु नित्याभिव्यक्ते परमेश्वरचैतन्येऽन्येषां लयरूपाविभागेनाप्यद्वैतमुक्तम्, अविभागो वचनादिति (अ0 4आ0 2सू0 16) सूत्रेणेति । अधिकं तु ब्रह्ममीमांसाभाष्ये प्रोक्तमस्माभिरिति दिक्॥
सूत्रस्य द्वितीयव्याख्यायां त्वयं भावः। प्रलयकाले पुरुषविजातीयं सर्वमेवासत् , अर्थाकियाकारित्वाभावात् । पुरुषाणां कूटस्थत्वेनार्थक्रियैवाप्रसिद्धेति । अतः सर्गकाल इव प्रलयेऽपि सत्त्वम्। अतस्तदात्मनां विजातीयद्वैतराहित्यम्। तथा सर्गकालेऽपि कूटस्थत्वरूपपारमार्थिकसत्त्वेनान्यन्नेति विजातीयद्वैतराहित्यात् सर्गाकालीनाद्वैतश्रुतयोऽप्युपपन्ना इति ॥ 154 ॥
नन्वात्मन एकत्ववदेकरूपत्वमपि नानारूपताप्रत्यक्षेण विरुद्धम्, तत् कथमुक्तं जातिपरत्वादिति, तत्राह–
विदितबन्धकारणस्य दृष्ट्याऽतद्रूपम्॥
विदितं स्पष्टं बन्धकारणमविवेको यत्र दृष्ट्यैव पुरुषेष्वद्रपं रूपभेद इत्यर्थः। अतो भ्रान्तदृष्ट्या न रूपभेदसिद्धिरिति॥ 155 ॥
ननु तथाप्यनुपलम्भादेकरूपत्वाभावः सेत्स्यति–तत्राह–
नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः॥ 156 ॥
अनुपलम्भ एवासिद्धः। अज्ञैरदर्शनेऽपि ज्ञानभिरेकरूपत्वस्य दर्शनादित्यर्थः॥ 156 ॥
अद्वैतश्रुत्यनुपपत्तिं समाधायाखण्डाद्वैते बाधकान्तरमाह–
वामदेवादिर्मुक्तो नाद्वैतम्॥ 157 ॥
वामदेवादिर्मुक्तोऽस्ति तथापीदानीं बन्धः स्वस्मिन्ननुभवसिद्धः। अतो नाखण्डाद्वैतमित्यर्थः।
स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप ।
इत्यादिवाक्यशतविरोधश्चेति शेषः। न चैवं बन्धमोक्षावुपाधेरेवेत्यवगन्तव्यम्, श्रुतिस्मृतिसिद्धान्तविरोधात् । दुःखं मा भुञ्जीयेति कामनादर्शनेन पुरुषमोक्षाख्यपरमपुरुषार्थत्वाच्च।
उपाधैर्दुःखहानस्य च तादर्थ्यैव पुरुषार्थत्वात् पुत्रादिवदिति॥
यदप्याधुनिकैर्मायावादिभिरुच्यते–अद्वैतश्रुतिविरोधाद् बन्धमोक्षसृष्टिसंहारादिश्रुतयो बाध्यन्त इति ।
तदप्यसत्। मोक्षाख्यफलस्यापि श्रवणकाल एवाभावनिश्चये श्रवणोत्तरं मननादि विधेरननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात्। प्रपञ्चान्तर्गतस्य वेदान्तस्याप्यद्वैतश्रुत्या बाधे वेदान्तावगतेऽप्यद्वैते पुनः संशयापत्तेश्च। स्वाप्नवाक्यस्य जाग्रति बाधे तद्वाक्यार्थे पुनः संशयावत्। किञ्च " मिथ्याबुद्धिर्नास्तिकते” त्यनुशासनाद्धर्मादिषु स्वापवन्मिथ्यादृष्टयो बौद्धप्रभोदा एव सांवृत्तिकशब्देन प्रपञ्चस्याविद्यकतश्च तैरभ्युपगमादिति दिक्॥ 157 ॥
ननु वामदेवादेरपि परममोक्षो न जात इत्यभ्युपेयम्, तत्राह–
अनादावद्ययावदभावाद्भविष्यदप्येवम्॥ 158 ॥
अनादौ कालेऽद्ययावच्चेन्मोक्षो न जातः कस्यापि, तर्हि भविष्यत्कालोऽप्येवं मोक्षशून्य एव स्यात् । सम्यक्साधनानुष्ठानस्याविशेषादित्यर्थः॥ 158 ॥
तत्र प्रयोगमाह–
इदानीमिव सर्वत्र नात्यन्तोच्छेदः॥ 159 ॥
सर्वत्र काले बन्धस्यात्यन्तोच्छेदः कस्यापि पुंसो नास्ति वर्त्तमानकालवदित्यनुमानं सम्भवेदित्यर्थः॥ 159 ॥
पुरुषाणां यदेकरूपत्वमेकत्वप्रतिपादकश्रुत्यर्थावधारितं , तत् किं मोक्षकाले, किं सर्वदैवेत्याकाङ्क्षायामाह–
व्यावृत्तोभयरूपः॥ 160 ॥
स च पुरुषो व्यावृत्तोभयरूपो, व्यावृत्तो रुपभेदो यस्मात् तथेत्यर्थः। श्रुतिस्मृतिन्यायेभ्यः सदकरूपासिद्धेरिति शेषः। तदुक्तम्–
बहरूप इवाभाति मायया बहुरूपया ।
रममाणो गुणेष्वस्या ममाहमिति बद्ध्यते॥ इति ॥
जगदाख्यमहास्वप्ने स्वप्नात् स्वप्नांन्तरं व्रजत्।
रूपं त्यजति नो शान्तं ब्रह्मं शान्तत्वबृंहितम्॥ इति च ॥ 160 ॥
ननु साक्षित्वस्यानित्यत्वात् पुरुषार्थानां कथं सदैकरूपत्वं, तत्राह–
साक्षात्सम्बन्धात् साक्षित्वम्॥ 161॥
पुरुषस्य यत् साक्षित्वमुक्तं तत् साक्षात्सम्बन्धमात्रात्, न तु परिणामत इत्यर्थः। साक्षात्सम्बन्धेन बुद्धिमात्रसाक्षितावगम्यते, “साक्षाद्द्रष्टरि संज्ञायाम्” इति साक्षिशब्दव्युत्पादनात् । साक्षाद्द्रष्टृत्वं चाव्यवधानेन द्रष्टृत्वम्। पुरुषे च साक्षात्सम्बन्धः स्वबुद्धिवृत्तेरेव भवति अतो बुद्धेरेव साक्षा पुरुषोऽन्येषां तु
द्रष्टृमात्रमिति शास्त्रीयो विभागः ज्ञाननियामकश्चार्थाकारतास्थानीयः प्रतिबिम्बरूप एव सम्बन्धो, न तु संयोगमात्रमतिप्रसङ्गादित्यसकृदावेदितम्। विष्ण्वादेः सर्वसाक्षित्वं त्विन्द्रियादिव्यवधानाभावमात्रेण गौणम्। अक्षसम्बन्धात् साक्षित्वमिति पाठे त्वक्षमत्र बुद्धिः करणत्वसामान्यात् । तस्या यथोक्तात् प्रतिबिम्बरीपात् सम्बन्धादित्यर्थः॥ 161 ॥
उभयरूपत्वाभावसिद्ध्यर्थ पुरुषस्यापरौ विशेषावाह सूत्राभ्याम्–
नित्यमुक्तत्वम् ॥ 162 ॥
सदैव पुरुषस्य दुःखाख्यबन्धशून्यत्वम्। दुःखादेर्बुद्धिपरिणामत्वादित्यर्थः। पुरुषार्थस्तु दुःखाभोगनिवृत्तिर्वेत्युक्तमेव ॥ 162 ॥
औदासीन्यं चेति ॥ 163 ॥
औदासीन्यमकर्तृत्वम्। तेन चान्येऽपि निष्कामत्वादय उपलक्षणीयाः।“कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्ह्नीर्भिरित्येतत् सर्वं एवेति” श्रुतेः। इतिशब्दः पुरुषधर्मप्रातपादमसमाप्तौ ॥ 163 ॥
नन्वेवं प्रकृतिपुरुषयोरन्योन्यं वैधर्म्येण विवेके सिद्धे पुरुषस्य कर्तृत्वं बुद्धेरपि च ज्ञातृत्वं श्रुतिस्मृत्योच्यमानं कथमुपपद्येयातां, तत्राह-
उपरागात् कर्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात्॥ 164 ॥
अत्र यथायोग्यमन्वयः। पुरुषस्य यत् कर्तृत्वं तद् बुद्धयुपरागात् । बुद्धेश्च या चित्ता सा पुरुषसान्निदध्यात् । एतदुभयं न वास्तवमित्यर्थः। यथाऽग्न्ययसोःपरस्परं संयोगविशेषात् परस्परधर्मव्यवदार औपधिको, यथा वा जलसूर्ययोः संयोगात् परस्परधर्मारोपस्तथैव बुद्धिपुरुषयोरिति भावः। एतच्च कारिकयाऽप्युक्तम्--
तस्मात् तत्संयोगादयेतनं चेतनावदिव लिङ्गम्।
गुणकर्तृत्वे च तथा कर्तेव भावत्युदासीनः॥ इति ॥
चित्सान्निध्यादिति द्विःपाठोऽध्यायसमाप्तिसूचनार्थः॥ 164 ॥
हेयहाने तयोर्हेतू इति व्यूहा यथाक्रमम्॥
चत्वारः शास्त्रमुख्यार्था अध्यायेऽस्मिन् प्रपञ्चिताः॥ 1 ॥
सङ्क्षिप्तसाङ्ख्यसूत्राणामर्थस्यात्र प्रपञ्चनात्॥
शास्त्रं योगेवदेवेदं साङ्ख्यप्रवचनाभिधम्॥ 2 ॥
इति श्रीविज्ञानाचार्यनिर्मिते कापिलसाङ्ख्यप्रवचनस्य
भाष्ये विषयाध्यायः प्रथमः॥ 1 ॥
****************
** अथ द्वितीयोध्यायः॥ 2 ॥**
शास्त्रस्य विषयो निरूपितः । साम्प्रतं
पुरुषस्यापरिणामित्वोपपादनाय प्रकृतितः सृष्टिप्रक्रियामतिविस्तरेण द्वितीयाध्याये वक्ष्यति । तत्रैव प्रधानकार्याणां स्वरूपं विस्तरतो वक्तव्यम्, तेभ्योऽपि पुरुषस्यातिस्फुटविवेकाय । अत एव–
विकारं प्रकृतिं चैव पुरुषं च सनातनम्।
यो यथावद्विजानाति स वितृष्णो विमुच्यते॥
इति मोक्षधर्मादिषु त्रयाणामेव ज्ञेयत्ववचनम्। तत्रादयचेतनायाः प्रकृतेर्निष्प्रयोजनस्रष्ट्टत्वे मुक्तस्यापि बन्धप्रसङ्ग इत्याशयेन जगत्सर्जने प्रयोजनमाह–
विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य ॥ 1 ॥
कर्तृत्वमिति पूर्वाध्यायशेषसूत्रादनुषज्ज्यते स्वभावतो दुःखबन्धाद्विमुक्तस्य पुरुषस्य प्रतिबिम्बरूपदुःखमोक्षार्थं प्रतिबिम्बसम्बन्धेन दुःखमोक्षार्थं वा प्रधानस्य जगत्कर्तृत्वम्। अथवा स्वाऽर्थम्। स्वस्य पारमार्थिकदुःखमोक्षार्थमित्यर्थः। यद्यपि मोक्षवद्भोगोऽपि सृष्टेःप्रयोजनं, तथापि मुख्यत्वान्मोक्ष एवोक्तः॥ 1 ॥
ननु मोक्षार्थं चेत् सृष्टिस्तर्हि सकृत् सृष्ट्यैव मोक्षसम्भवे पुनः पुनः सृष्टिर्न स्यादिति, तत्राह–
विरक्तस्य तत्सिद्धेः॥ 2 ॥
नैकदा सृष्टेर्मोक्षःस किन्तु बहुशो जन्ममरणव्याध्यादिविविधदुःखेन भृशं तप्तश्च प्रकृतिपुरुषयोर्विवेकख्यात्योत्पन्न परवैराग्यस्यैव मोक्षात्रत्तिसिद्धेरित्यर्थः॥ 2 ॥
सकृत्सृष्ट्या वैराग्यासिद्धौ हेतुमाह–
न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया
बलवत्त्वात् ॥ 3 ॥
श्रवणमपि बहुजन्मकृतपुण्येन भवति। तत्रापि श्रवणमात्रान्न वैराग्यसिद्धिः, किन्तु साक्षात्कारश्च झटिति न भवति– अनादिमिथ्यावासनाया बलवत्त्वात्, किन्तु योगनिष्ठया । योगे च प्रतिबन्धबाहुल्यमित्यतो बहुजन्मभिरेव वैराग्यं मोक्षश्च कदाचित् कस्यचिदेव सिद्ध्यतीत्यर्थः॥ 3 ॥ सृष्टिप्रवाहे हेत्वन्तरमाह–
बहुभृत्यवद्वा प्रत्येकम्॥ 4 ॥
यथा गृहस्थानां प्रत्येकं बहवो भर्तव्या भवन्ति स्त्रीपुत्रादिभेदेन । एवं सत्त्वादिगुणानामपि प्रत्येकमसङ्ख्यपुरुषा विमोचनीया भवन्ति। अतः कियत्पुरुषमोक्षेऽपि पुरुषान्तरमोचनार्थं सृष्टिप्रवाहो घटते, पुरुषाणामानन्त्यादित्यर्थः। तथा च योगसूत्रम्--"कृतार्थं नष्टमप्यनष्ठं तदन्यसाधारणत्वाक" (सा0 पा022 सू0) इति॥ 4 ॥
ननु प्रकृतेरेव स्रष्टृत्वं कथमुच्यते “एतस्मादात्मन आकाशः सम्भत” इति श्रुत्या पुरुषस्यापि स्रष्टृत्वसिद्धेरिति , तत्राह—
प्रकृतिवास्तवे च पुरुषस्यध्याससिद्धिः॥ 5 ॥
प्रकृतौ स्रष्टृत्वस्य वस्तुत्वे च सिद्धे पुरुषस्य स्रष्टृत्वाध्यास एव श्रतिषु सिद्ध्यति, उपासनायामेव श्रुतेस्तात्पर्यात् । " अजोमेका"मित्यादिश्रुत्यन्तरेण प्रकृतेः स्रष्टृत्वसिद्धेः पुंसां कूटस्थचिन्प्रात्रताबोधकश्रुत्यन्तरविरोधाच्चेत्यर्थः। अयं चाध्यास उपचाररूपो लोके सिद्ध एवास्ति। यथा स्वशक्तिषु योधेषु वर्तमानौ जयपराजयौ राजन्युपचर्येते तथा स्वशक्तौ प्रकृतौ वर्तमानं स्रष्टृत्वादिकं शक्तिमत्सु पुरुषेषूपचर्यते , शक्तिशक्तिमदभेदात् । तदुक्तं कौर्मे--
शक्तिशक्तिमतोर्भेदं पश्यन्ति परमार्थतः
अबेदं चानुपश्यन्ति योगिमस्तत्त्वचिन्तकाः ॥ इति ॥
भेदमन्योभावभेदं चाविभागरूपं प्रकृत्यादितत्त्वोपासकाः पश्यन्तीत्यर्थः। तयोश्चोदाहरणम्–” अथात आदेशो नेति नेती " त्यादिश्रुतिः, “आत्मैवेदं सर्वमि"त्यादिश्रुतिश्चेति भावः॥ 5 ॥
नन्वेवं प्रकृतावपि स्रष्टृत्वं वास्तसमिति कुतोऽवधुत्तम्, सृष्टेः स्वप्नादितुल्यताया अपि श्रवणादिति, तत्राह–
कार्यतस्तत्सिद्धेः॥ 6 ॥
कार्याणामर्थक्रियाकारितया वास्तवत्वेन कार्यत एव धर्मिग्राहकप्रमाणेन प्रकृतेर्वास्तवस्रष्टृत्वसिद्धेरित्यर्थः। स्वप्नादितुल्यताश्रुतयस्त्वनित्यतारूपासत्त्वांशमात्रे पुरुषाध्यस्तत्वांशे वा बोध्याः, अन्यथा सृष्टिप्रतिपादकश्रुतिविरोधात् । स्वप्नपदार्थानामपि मनःपरिणामत्वेनात्यन्तासत्ताविरहाच्चेति ॥ 6 ॥
ननु प्रकृते स्वार्थत्वपक्षे मुक्तपुरुषं प्रत्यपि सा प्रवर्तते, तत्राह–
चेतनोद्देशान्नियमः कण्टकमोक्षवत् ॥ 7 ॥
चेती संज्ञान इति व्युत्पत्त्या चेतनोऽत्राभिज्ञः। यथैकमेव कण्टकं प्रति तु भवत्येव । तथा प्रकृतिरपि चेतनादभिज्ञात् कृतार्थादेव मुच्यते। तं प्रत्येव दुःखात्मिका न भवति । अन्याननभिज्ञान प्रति तु दुःखात्मिका भवत्येवेति नियमो व्यवस्थेत्यर्थः। एतेन स्वभावतो बद्धाया अपि प्रकृतेः स्वमोक्षो घटत इत्यतो न मुक्तपुरुषं प्रति प्रवर्तते॥ 7 ॥
ननु पुरुषे स्रष्टृत्वमध्यस्तमात्रमिति यदुक्तं, तन्न युक्तम्। प्रकृतिसंयोगेन पुरुषस्यापि महदादिपरिणामौचित्यात्। दृष्टो हि पृथिव्यादियोगेन काष्ठादेः पृथिव्यादिसदृशः परिणाम इति । तत्राह–
अन्ययोगेऽपि तत्सिद्धिर्नाञ्जस्येनायोदाहवत् ॥ 8 ॥
प्रकृतियोगेऽपि पुरुषस्य न स्रष्टृत्वसिद्धिराञ्जस्येन साक्षात्। तत्र दृष्टान्तोऽयोदाहवत् । यथाऽयसो न दग्धृत्वं साक्षादस्ति, किन्तु स्वसंयुक्ताग्निद्वारकमध्यस्तमेवेत्यर्थः। उक्तदृष्टान्ते तूभयोः परिणामः प्रत्यक्षसिद्धत्वादिष्यते । सन्दिग्धस्थले त्वैकस्यैव परिणआमेनोपपत्तावुभयोः परिणामकल्पने गौरवम्। अन्यथा जपासंयोगात् स्फटिकस्य रागपरिणामापत्तेरिति॥ 8 ॥
सृष्टेः फलं मोक्ष इति प्रागुक्तम्। इदानीं सृष्टेर्मुख्यं निमित्तकारणमाह–
रागविरागयोर्योगः सृष्टिः॥ 9 ॥
रागे सृष्टिर्वैराग्ये च योगः स्वरूपेऽवस्थानम्। मुक्तिरिति यावत्। अथवा चित्तवृत्तिनिरोध इत्यर्थः। तथा चान्वयव्यतिरेकाभ्यां रागः सृष्टिकारणमित्यासयः तथा च स्रुतिरपि ब्रह्मादिरूपां विविधकर्मगतिमुक्तत्वाह--"इति तु कामयमानो योऽकामो न तस्य प्राणा उत्क्रामन्ति"इति । रागवैराग्ये अपि प्रकृतिधर्मावेव ॥ 9 ॥
इतः परं सृष्टिप्रक्रियां वक्तुमारभते–
महदादिक्रमेण पञ्चभूतानाम्॥ 10 ॥
सृष्टिरिति पूर्वसूत्रादनुवर्त्तते । यद्यप्येतस्मादात्मन आकाशः सम्भूत इत्यादिश्रुतावादावेव पञ्चभूतानां सृष्टिः श्रूयते, तथापि महदादिक्रमेणैव पञ्चभूतानां सृष्टिरिष्टेत्यर्थः। तेजादिसृष्टिश्रुतौ गगनवायुसृष्टेरापूरणवदुक्तश्रतावप्यादौ महदादिसृष्टिः पूरणीयेति भावः। अत्र च प्रमाणं घटसृष्टिवदन्तःकरणातिरिक्ताखिलसृष्टेरन्तःकरणवृत्तिपूर्वकत्वानुमानम्।
किञ्च–
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी॥
इति श्रुत्यन्तरस्थपाठकमानुरोधेन “स प्राणसृजत् प्राणच्छ्रद्धां खं वायु” मित्यादि ( प्रश्नोप0 6-3-4) श्रुत्यान्तरेण च पञ्चभूतसृष्टेः प्राङ्महदादिसृष्टिरवधार्यत इति । प्राणश्चान्तःकरणस्य
वृत्तिभेद इति वक्ष्यति । अतोऽस्यां श्रुतौ प्राण एव महत्तत्त्वमिति । तथा वेदान्तसूत्रमपि महदादिक्रमेणैव सृष्टिं वक्ति। ‘अन्तरा विज्ञानमनसो क्रमेण तल्लिङ्गात् ’ इति । सदाकाशयोर्मध्ये बुद्धिमनसी उत्पाद्ये इति क्रमेणेत्यर्थः। मनसि चाऽहङ्कारस्य प्रवेश इति
॥ 10 ॥
प्रकृतेरेव स्रष्टृत्वं स्वमोक्षार्थं , तस्या नित्यत्वात्, महदादीनां तु स्वस्वविकारस्रष्टृत्वं न स्वमोक्षार्थमनित्यत्वादिति, विशेषमाह–
आत्मार्थत्वात् सृष्टेर्नैषामात्मार्थ आरम्भः॥ 11 ॥
एषां महदादीनां स्रष्ट्टत्वस्यात्मार्थत्वात् पुरुषमोक्षार्थत्वान्न स्वार्थ आरम्भः। स्रष्ट्टत्वम् विनाशित्वेन मोक्षायोगादित्यर्थः। परमोक्षार्थकत्वे चावश्यके पुरुषमोक्षार्थकत्वमेव युक्तं, न प्रकृतिमोक्षार्थकत्वम्। तस्याः पुरुषगुणत्वादिति ॥ 11 ॥
खण्डदिक्कालयोः सृष्टिमाह–
दिक्तालावाकाशादिभ्यः॥ 12 ॥
नित्यै यौ दिक्कालौ तावकाशप्रकृतिभूतौ प्रकृतेर्गुणविशेषावेव। अतो दिक्तालयोर्विभुत्वोपपत्तिः। "आकावत् सर्वगतश्च नित्य" इत्यादिश्रुत्युक्तं विभुत्वं चाकाशस्योपपन्नम्। यौ तु खण्डदिक्कालौ तौ तु तत्तदुपाधिसंयोगादाकाशादुत्पद्यते इत्यर्थः। आदिशब्देनोपाधिग्रहणादिति। यद्यपि तत्तदुपाधिविशिष्टाकाशमेव खण्डदिक्कालौ. तथापि विशिष्टस्यातिरिक्तताभ्युपगमवादेन वैशेषिकनये श्रोत्रस्य कार्यतावत् तत्कार्यत्वमत्रोक्तम्॥ 12 ॥
इदानीं महदादिक्रमेणेत्युक्तान् स्वरूपतो धर्मतश्च क्रमेण दर्शयति–
अध्यवसायो बुद्धिः॥ 13 ॥
महत्तत्त्वस्य पर्यायो बुद्धिरिति । अध्यवसायश्च निश्चयाख्यस्तस्याऽसाधारणी वृत्तिरित्यर्थः। अभेदनिर्देशस्तु धर्मधर्म्यभेदात् । अस्ताश्च बुद्धेर्महत्त्वं स्वेतरसकलकार्यव्यापकत्वान्महैश्वराच्च
मन्तव्यम्॥
सविकारात् प्रधानात् महत्तत्त्वमजायत।
महानिति यतः ख्यातिर्लोकानां जायते सदा,॥
इति स्मृतेः॥ “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेद”(बृह0 अ-2-ब्रा-4म-10 ) इत्यादिश्रतिस्मृतिषु च हिरण्यगर्भे चेतनेऽपि महानिति शब्दो बुद्ध्यभिमानित्वेनैव । यथा पृथिव्यभिमानिचेतने पृथिवीशब्दस्तद्वत्। एवमेव रुद्रादिष्वहङ्कारादिशब्दोऽपि बोध्यः। प्रकृत्यभिमानिदेवतामारभ्य सर्वेषामेव भूताभिमानिपर्यन्तानां स्वस्वबुद्धिरूपाश्च प्रतिनियतोपाधयो महत्तत्त्वस्यैवांशा इति ॥ 13 ॥
महत्तत्त्वस्यापरानपि धर्मानाह–
तत्कार्यं दर्मादि॥ 14 ॥
धर्मज्ञानवैराग्यैश्वर्याण्यपि बुद्ध्युपादानकानि नाहङ्कारद्युपादानकानि । बुद्धेरेव निरतिशयसत्त्वकार्यत्वादित्यर्थः॥ 14 ॥
नन्वेवं कथं नरपश्वादिगतानां बुद्ध्यंशानामधर्मप्राबल्यमुपपद्यतां तत्राह–
महदुपरागाद्विपरीतम्॥ 15 ॥
तदेव महन्महत्तत्त्वं
रजस्तमोभ्यामुपरागाद्विपरीतमधर्माऽज्ञानावैराग्यानैश्वर्यधर्मकमपि भवतीत्यर्थः। एतेन सर्व एव पुरुषा ईश्वरा इति श्रुतिस्मृतिप्रवादोऽप्युपपादितः सर्वोपाधीनां स्वाभाविकैश्वर्यस्य रजस्तमोभ्यमेवावरणादिति। नन्वेवं धर्माद्यवस्थानाऽर्थं बुद्धेरपि नित्यत्वात् कथं कार्यतेति चेन्न। प्रकृत्यंशरूपे बीजावस्थमहत्तत्त्वे सत्त्वविशेषे कर्मवासनादीनामवस्थानात् तस्यैव ज्ञानकारणावस्थायामङ्कुरवदुपपत्त्यङ्गीकारात्। तथा चाऽऽकाशवदेव नित्यानित्योभयरूपा बुद्धिः। यथाकारणं स्वाकारः प्रकृतिप्रभावादिति॥ 15 ॥
महत्तत्त्वं लक्षयित्वा तत्कार्यमहङ्कारं लक्षयति–
अभिमानोऽहङ्कारः॥ 16 ॥
अहङ्करोतीत्यहङ्कारः कुम्भकारवत्\[कर्मण्यम् इति सूत्रेण चाणप्रत्ययः। अण्णन्तत्वाद्विद्धिः।\]। अन्तःकरणद्रव्यम्। स च धर्मधर्म्यभेदादभिमान इत्युक्तोऽसाधारणवृत्तितासूचनाय । बुद्ध्यानिश्चित एवार्थेऽहङ्कारममकारौ जायेते। अतो वृत्त्योः कार्यकारणभावानुसारेण वृत्तिमतोरपि कार्यकारणभाव उन्नीयते इति प्रोगेवोक्तम्। अन्तःकरणमापद्यत इति च प्रागेवोक्तम्। अत एव वायुमात्स्ययोः--
मनो महान् मतिर्ब्रह्मा पूर्बुद्धिःख्यातिरीश्वरः॥
इति मनोबुद्ध्योरेकपर्यायत्वमुक्तमिति॥ 16 ॥
क्रमागतमहङ्कारस्य कार्यमाह–
एकादशपञ्चतन्मात्रं यत्कार्यम्॥ 17 ॥
एकादशेन्द्रियाणि शब्दादिपञ्चतन्मात्रं चाहङ्कारस्य कायमित्यर्थः। मयाऽनेन इन्द्रियेण इदं रूपादिकं भोक्तव्यभिदमेव सुखसाधनमित्याद्यभिमानदेवादिसर्गेष्विन्द्रियतद्विषयोत्पत्त्याऽहङ्कार इन्द्रियादिहेतुः। लोके भोगाभिमानिनैव रागद्वारा भोगोपकरणकरणदर्शनात् । 'रूपरागादभूच्चक्षु'रित्यादिना मोक्षधर्मे हिरण्यर्भस्य रागादेव समष्ठिचक्षुराद्योत्पत्तिस्मरणाच्चेति भावः । अतश्च भूतेन्द्रिययोर्मध्ये रागधर्मकं मन एवादावहङ्कारादुत्पद्यत इति विशेषस्तन्मात्रादीनां रागकार्यत्वादिति ॥ 17 ॥
तत्रापि विशेषमाह–
सात्त्विकमेकादशकं प्रवर्तते वैकृतादहङ्कारात् ॥ 18 ॥
एकदशानां पूरणमेकादशकं मनः षोडशात्मगणमध्ये सात्तविकम्। अतस्तद्वैकृतात् सात्त्विकाहङ्काराज्जायत इत्यर्थः। अतश्च राजसाहङ्काराद्देशेन्द्रियाणि, तामसाहङ्काराच्च तन्मात्राणीत्यधिगन्तव्यम्।
वैकारिकस्तैजसश्च तामसश्चेच्यहं त्रिधा।
अहंतत्त्वादिकुर्वाणान्मनो वैकारिकादभूत॥
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः।
तैजसादिन्द्रियाण्येव ज्ञानकर्ममयानि च ॥
तामसां भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः॥
इत्यादिस्मृतिभ्य एव निर्णयात् । अत एव पुराणाद्यनुसारेण कारिकायामप्येतदुक्तम्–
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्॥ इति ॥
तैजसो-राजसः। उभयं ज्ञानकर्मेन्द्रिये । ननु ‘देवतालयश्रुति’रित्यागामिसूत्रे करणानां देवान् वक्ष्यति । तत् कथं कारिकयापि देवानां सात्त्विकाहङ्कारकार्यत्वं नोक्तमिति । उच्यते । समष्टिचक्षुरादिशरीरिणः सूर्यादिचेतना एव चक्षुरादिदेवताः श्रूयन्ते। अतश्च व्यष्टिसमष्ट्योरेकताऽऽशयेनात्र शास्त्रे देवाः करणेभ्यो न पृथङ्निर्दिश्यन्ते । अतः समष्टीन्द्रियाणि मनोऽपेक्षयाल्पसत्त्त्रत्वेन राजसाहङ्कारकार्यत्वेनैव निर्दिष्टानि । स्मृतिषु च व्यष्टीन्द्रियापेक्षयाधिकसत्त्वत्वेन सात्त्विकाहङ्कारकार्यतयोक्तनीत्यविरोध इत्यवगन्तव्यम् । तदेवमहङ्कारस्य त्रैविध्यान्महतोऽपि तत्कारणस्य त्रैविध्यं मन्तव्यम्॥
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान्॥
इति स्मरणात् । त्रैविध्यं चानयोर्व्यक्तिभेदाद्वेत्यन्यदेतत्॥ 18 ॥
एकादशेन्द्रियाणि दर्शयति–
कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम्॥ 19 ॥
कर्मेन्द्रियाणि--वाक्पाणिपादपायूपस्थानि पञ्च, ज्ञानेन्द्रियाणि चचक्षुःश्रोत्रत्वग्रसनाघ्रामाख्यानि पञ्च । एतैर्दशभिः सहाऽऽन्तरं मन एका दशकमेकादशेन्द्रियमित्यर्थः। इन्द्रस्य सङ्घातेश्वरस्य करणमिन्द्रियम्। तथा चाऽहङ्कारकार्यत्वे सति करणत्वमिन्द्रियत्वमिति ॥ 19 ॥
इन्द्रियाणां भातिकत्वमतं निराकरोति–
अहङ्कारिकत्वश्रुतेर्न भोतिकानि॥ 20 ॥
इन्द्रियाणीति शेषः। आहङ्कारिकत्वे प्रमाणभूता श्रुतिः रकाललुप्ताऽप्याचार्यवाक्यान्मन्वाद्यखिलस्मृतिभ्यश्चानुमीयते\[आचारात्तु स्मृतिं ज्ञात्वा , स्मृतेश्च श्रुतिकल्पनम्। कल्पनमनुमानं इति पूर्वमीमांसायां प्रथमाध्यये द्वितीयपादे स्पष्टम्।\] । प्रत्यक्षा श्रुतिः "अहं बहु स्या" मित्यादिः। ननु 'अन्नमयं हि सौम्य मनः' इत्यादिर्भौतिकत्वेऽपि श्रुतिरस्तीति चेन्न। प्रकाशकत्वसाम्येनान्तःकरणोपादनत्वस्यैवोचिततया ऽऽहङ्कारिकत्वश्रुतेरेव मुख्यत्वात्। भूतानामपि हिरण्यगर्भ,ङ्कल्पजन्यतयाऽन्नस्य मनोजन्यत्वाच्च। व्यष्टिमनादीनां भूतसंसृष्टतयैव चिष्टतां भूतेभ्योऽभिव्यक्तिमात्रेण तु भौतिकश्रुतिर्गौणीति ॥ 20 ॥
ननु तथाप्याहङ्कारिकत्वनिर्णयो न घटते, ‘अस्य पुरुषस्याऽग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्’ इत्यादिश्रुतौ देवतास्विन्द्रियाणां लयकथनेन देवतोपादानकत्वस्याप्यवगमात् कारण एव हि कार्यस्य लय इत्याशङ्कयाह–
देवतालयश्रुतिर्नारम्भकस्य ॥ 21 ॥
देवतासु या लयश्रुतिः सा नारम्भकस्य, नारम्भकविषयिणीत्यर्थः। यथानारम्भकेऽपि भूतले जलबिन्दोर्लयदर्शनात्। अनारम्भकेष्वपि भूतेष्वात्मनो लयश्रवणाच्च। 'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यती' (बृह0 उप0 अ0 2ब्रा04मंत्र 12 ) त्यादिश्रुताविति भावः ॥ 21 ॥
इन्द्रियान्तर्गतं मनो नित्यमिति केचित्, तत् परिहरति–
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च ॥ 22 ॥
तेषां सर्वेषामेवेन्द्रियाणामुत्पत्तिरस्ति । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' . ( मुण्डक0 उ0 द्वि0 प्र0 मं03 ) । इत्यादिश्रुतेः वृद्धाद्यवस्थासु चक्षुरादीनामिव मनसोऽप्यपचयादिना विनाशनिर्णयोच्चेत्यर्थः। तथा चोक्तम्-, ' दशकेन निवर्तन्ते मनः सर्वेन्द्रियाणि च "इति॥ मनसो नित्यत्ववचनानि च प्रकृत्याख्यबीजपराणीति ॥ 22 ॥
गोलकजातमेवेन्द्रियमिति नास्तिकमतमपाकरोति–
अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने ॥ 23 ॥
इन्द्रियं सर्वमतीन्द्रियं, न तु प्रत्यक्षम्. भ्रान्तानामेव त्वधिष्ठाने गोलके तादात्म्येनेन्द्रियमित्यर्थः। अधिष्ठानमित्येव पाठः॥ 23 ॥
एकमेवेन्द्रियं शक्तिभेदाद्विलक्षणकार्यकारीति मतमपाकरोति–
शक्तिभेदेऽपि भेदसिद्धौ नैकत्वम्॥ 24 ॥
एकस्यैवेन्द्रियस्य शक्तिभेदस्वीकारेऽपीन्द्रियभेदः सिद्ध्यति । शक्तीनामपीन्द्रियत्वात्। अतो नैकत्वमिन्द्रियत्वात्। अतो नैकत्वमिन्द्रियस्येत्यर्थः॥ 24 ॥
नन्वेकस्मादहङ्कारान्नानाविधेन्द्रियोत्पत्तिकल्पनायां न्यायविरोधस्तत्राह–
न कल्पनाविरोधःप्रमाणदृष्टस्य॥ 25 ॥
सुगमम्॥ 25 ॥
एकस्यैव मुख्येन्द्रियस्य मनसोऽन्ये दश शक्तिभेदा इत्याह–
उभयात्मकं मनः॥ 26 ॥
ज्ञानकर्मेन्द्रियात्मकं मन इत्यर्तः॥ 26 ॥
उभयात्मकमित्यस्यार्थं स्वयं विवृणोति–
गुणपरिणामभेदान्नानात्वमवस्थावत्॥ 27 ॥
यथैक एव नरः सङ्गवशान्नानात्वं भजते, कामिनीसङ्गात् कामुको विरक्तसङ्गाद्विरक्तोऽन्यसङ्गाच्चान्यः, एवं मनोऽपि चक्षुरादिसङ्गाच्चक्षुराद्येकीभावेन दर्शनादिवृत्तिविशिष्टतया नाना भवति । तत्र हेतुः-- गुणोत्यादि । गुणानां सत्त्वादीनां परिणामभेदेषु सामर्थ्यादित्यर्थः। एतच्च 'अन्यत्रमना अभूवं, नाश्रौष' ( बृह 10503 ) मित्यादिश्रुतिसिद्धाच्चक्षुरादीनां मनःसंयोगं विना व्यापाराक्षमत्वादनुमीयते ॥ 27 ॥
ज्ञानकर्मेन्द्रिययोर्विषयमाह–
रूपादिरसमलान्त उभयोः॥ 28 ॥
अन्नरसानां मलःपुरीषादिः तथा रूपरसगन्धस्पर्शशब्दा वक्तव्यादातव्यगन्तव्यानन्दयितव्योत्स्रष्टव्याश्चोभयोर्ज्ञानकर्मेन्द्रिययोर्दश विषया इत्यर्थः। आनन्दयितव्यं चोपस्थस्योपस्थान्तरं विषय इति ॥ 28 ॥
यस्येन्द्रियस्य येनोपकारेणैतानीन्द्रियाणीत्युच्यते, तदुभयमाह–
द्रष्ट्टच्वादिरात्मनः करणत्ममिन्द्रियाणाम्॥ 29 ॥
द्रष्ट्टत्वादिपञ्चकं वक्तृत्वादिपञ्चकं ,ङ्कल्पयितृत्वं चात्मनःपुरुषस्य दर्शनादिवृत्तौ करणत्वं त्विन्द्रियाणामित्यर्थः। ननु द्रष्ट्टत्वश्चोतृत्वादिकं कदाचिदनुभवे पर्यवसानात् पुरुषस्याऽविकारिणोऽपि घटताम्, वक्तृत्वादिकं
क्रियामात्रम्, तत् कथं कू़टस्थस्य घटतामिति चेन्न। अयस्कान्तवत् सान्निध्यमात्रेण दर्शनादिवृत्तिकर्तृत्वस्यैवात्र द्रष्ट्टत्वादिशब्दार्थत्वात् । यथा हि महाराजः स्वयमव्याप्रियमाणोऽपि सैन्येन करणेन योद्धा भवत्यज्ञामात्रेण प्रेरकत्वात्, तथा कूटस्थोऽपि पुरुषश्चक्षुराद्यखिलकरणैर्द्रष्टा वक्ता सङ्कल्पिता चेत्येवमादिर्भवति । संयोगाख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वादयस्कान्तमणिवदिति । कर्तृत्वं चात्र कारकुठारादिवत् । यत्तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिद्ध्यते तदनुकूलकृतिमत्त्वं तत्तत्क्रिावत्त्वं वा। तथा चोक्तम्–
अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्॥
निरिच्छत्वादकर्ताऽसौ कर्ता सन्निधिमात्रतः॥ इति ॥
अत एव कारकचक्रप्रयोक्तृताशक्तेरात्मस्वररूपतया द्रष्ट्टत्ववक्तृत्वादिकमात्मनो नित्यमिति श्रूयते। ‘न द्रष्ट्टर्दृष्टेर्विपरिलोपो विद्यते, न वक्तुर्वक्तेर्विपरिलोपो विद्यत’ इत्यादिनेति । ननु प्रमाणविभागे प्रत्यक्षादिवृत्तीनामेव करणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न। अत्र दर्शनादिरूपासु चक्षुरादिद्वारकबुद्धिवृत्तिष्वेवेन्द्रियाणां करणत्ववचनात्। तत्र पुरुषनिष्टे बोधाख्यफले वृत्तीनां करणत्वस्योक्तत्वादिति
॥ 29 ॥
इदानीमन्तधकरणत्रयस्यासाधारणवृत्तीराह–
त्रयाणां स्वालक्षण्यम्॥ 30 ॥
त्रयाणां महदहङ्कारमनसां स्वालक्षण्यं स्वं स्वं लक्षणमसाधारणी वृत्तिर्येषामिति मध्यमपदलोपी विग्रहः। तस्य भावस्तत्त्वमित्यर्थः। लोके च महतो लक्षणमध्यवसायादिप्रकृष्टगुणवत्तच्वम्। अहङ्कृतस्य चात्मन्यविद्यमानगुणारोपः। मनसश्चेदमस्त्वित्यङ्गीकरणमिति। तथा च बुद्धेर्वृत्तिरध्यवसायोऽभिमानोऽहङ्कारस्य सङ्कल्यविकल्पौ मनस इत्यायातम्। सङ्कल्पश्चिकीर्षा। 'सङ्कल्पःकर्ममानस'मित्यनुशासनात्। विकल्पश्च संशयोः योगोक्तभ्रमविशेषो वा, न तु विशिष्टज्ञानम्, तस्य बुद्धिवृत्तित्यादिति ॥ 30 ॥
त्रयाणां साधारणीं वृत्तिमप्याह–
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ 31 ॥
प्राणादिरूपाः पञ्च वायुवत् सञ्चारात् वायवो ये प्रसिद्धास्ते सामान्या साधारणी करणत्रयस्य वृत्तिः परिणामभेदा इत्यर्तः। तदेतत् कारिकयोक्तम्--
स्वासक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या।
सामान्यकरणवृत्तिः प्रहाणाद्या वायवः पञ्च॥ इति ( ईश्व0 का-29 )॥
अत्र कश्चित्, प्राणाद्या वायुविशेषा एव । ते चान्तःकरणवृत्या जीवनयोनिप्रयत्नपया व्याप्रियन्त इति कृत्वा प्राणाद्याः करणवृत्तिरित्यभेदनिर्देष इत्याह। तन्न । ‘न वायुक्रिये पृथगुपदेशा’दिति (अ0 2 पा-4-सू-9) वेदान्तसूत्रेण प्राणस्य वायुत्ववायुपरिणामत्वयोः स्फुटं प्रतिषेधादत्रापि तदेकवाक्यतौचित्यात् ।मनोधर्मस्य कामादेः प्राणक्षोभकया सामानाधिकरण्येनैवौचित्याच्च॥
वायुप्राणयोः पृथगुपदेशश्रुतयस्तु–
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी॥
इत्याद्या इति॥ अत एव लिङ्गशरीरमध्ये प्राणनामगणनेऽपि न न्यूनता। बुद्धेरेव क्रियाशक्त्या सूत्रात्मप्राणादिनामकत्वादिति । अन्तःकरणपरिणामेऽपि वायुतुल्यसञ्चारविशेषाद् वायुदेवताऽधिष्ठितत्वाच्च वायुव्यवहारोपपत्तिरिति॥ 31 ॥
वैशेषिकाणामिवास्माकं नायं नियमो यदिन्द्रियवृत्तिः क्रमणैव भवति, नैकदेत्याह–
क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः॥ 32 ॥
सुगमम्. जातिसाङ्करस्यास्माकमदोषत्वात् सामग्रीसमवधाने सति अनेकैरपीन्द्रियैरेकदैकवृत्त्युत्पादने बाधकं नास्तीति भावः। इन्द्रियवृत्तीनां विभागश्च कारिकया व्याख्यातः--
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्॥
आलोचनं च पूर्वाचार्यैर्व्याख्यातम्-
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम्।
परं पुनस्तथा वस्तुधर्मैर्जात्यादिभिस्तथा॥ इति ॥
परमुत्तरकालीनं च पुनर्वस्तुधर्मैर्द्रव्यरूपधर्मैस्तथा जात्यादिभिर्ज्ञानं सविकल्पकं तथाऽलोचनाख्यं भवतीत्यर्थः। तथा च निर्विकल्पकसविकल्पकरूपं द्विविधमप्यैन्द्रियकं ज्ञानमालोचनसंज्ञमिति लब्धम्। कश्चित्तु निर्विकल्पकं ज्ञानमेवालोचनमिन्द्रियजन्यं च भवति सविकल्पकं तु मनोमात्रजम्यमिति श्लोकार्थमाह। तन्न । योगभाष्ये व्यासदेवैर्विशिष्टज्ञानस्याप्यैन्द्रियक्तवस्य व्यवस्थापितत्वात्, इन्द्रियैर्विशिष्टज्ञाने बाधकाभावाच्च। स एव सूत्रार्थमप्येवं व्याचष्टे–“बाह्येन्द्रियमारभ्यबुद्धिपर्यन्तस्य वृत्तिरुत्सर्गतः क्रमेण भवति । कदाचित् तु व्याघ्रादिदर्शनकाले भयविशेषाद्विद्युल्लतेव सर्वकरणेष्वेकदैव वृत्तिर्भवतीत्यर्थ इति “। तदप्यसत् । सूत्र इन्द्रियवृत्तीनामेव क्रमिकाक्रमिकत्ववचनात्, न बुद्ध्यहङ्कारवृत्त्योः प्रसङ्गोऽप्यस्ति। किञ्चैकदाऽनेकेन्द्रियवृत्तावेव वादिविप्रतिपत्त्या तन्निर्णयपरत्वमेव सूत्रस्योचितं मनोऽणुत्वप्रतिषेधाय, न तु काकदन्तान्वेषणपरत्वमिति॥ 32 ॥
पिण्डीकृत्य बुद्धीवृत्तीः संसारनिदानताप्रतिपादनार्थमादौ दर्शयति–
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ 33 ॥
क्लिष्टा अक्लिष्टा वा भवन्तु वृत्तयः, पञ्चतय्यःपञ्चप्रकारा एव, नाधिका इत्यर्थः। क्लिष्टा दुःखदाः सांसारिकवृत्तयः । वृत्तीनां पञ्चप्रकारत्वं पातञ्जलसूत्रेणोक्तम्\[ समाधिपादे 'प्रामाणविपर्ययविल्पनिद्रास्मृतयः पंचवृत्तयः इति सूत्रादारभ्य 'प्रत्यक्षानुमानागमाः प्रमाणानि 1। 7 । विपर्ययो मिथ्याज्ञानमतद्रूपपतिष्ठम्। 8 ।9 ।10 । 11 इत्यादियोगसूत्रेषु। \] " प्रमाणविपर्ययविकल्पनिद्रास्मृतयः" इति । तत्र प्रमाणवृत्तिरत्राप्युक्ता। विपर्ययस्त्वस्माकं विवेकाग्रह एव, अन्यथाख्यातेर्निरास्यत्वात्। विकल्पस्तु विशेषदर्शनकालेऽपि --राहोः शिरःपुरुषस्य चैतन्यमित्यादिज्ञानम्। निद्रा च सुषुप्तिकालीना बुद्धिवृत्तिः. स्मृतिश्च संस्कारजन्यं
ज्ञानमिति। एतत् सर्वं पातञ्जले सूत्रितम्॥ 33 ॥
या एता बुद्धिवृत्तय उक्ता एतदौपाधिक्येव पुरुषस्यान्यरूपता न स्वतः, एतन्निवृत्तौ च पुरुषः स्वरूपेऽवस्थितो भवतीत्यनयापि दिशा पुरुषस्य स्वरूपं परिचाययति–
तन्निवृत्तावुपशान्तोपरागः स्वस्थः ॥ 34 ॥
तासां वृत्तीनां विरामदशायां शान्ततत्प्रतिबिम्बकः स्वस्थो भवति कैवल्य इवान्यदापीत्यर्थः। तथा च योगसूत्रत्रयम् "योगश्चित्तवृत्तिनिरोधः"(पा0 सू02)। " तदाद्रष्टुः स्वरूपेऽवस्थानम्" (पा0 सू0 3) । "वृत्तिसारूप्यमितरत्र " ( पा0 सू0 4 ) इति । इदमेव च पुरुषस्य स्वस्थत्वं यदुपाधिवृत्तेः प्रतिबिम्बस्य निवृत्तिरिति। एतादृशो चावस्था पुरुषस्य वासिष्ठे दृष्टान्तेन प्रदर्शिता। यथा--
अनाप्ताखिलशैलादिप्रतिबिम्बे हि यादृशी।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे।
स्यात् तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे ॥ इति ॥ 34 ॥
एतदेव दृष्टान्तेन विवृणोति---
कुसुमवच्च मणिः॥ 35 ॥
चकारो हेतौ । कुसुमेनेव मणिरित्यर्थः। यथा
जपाकुसुमेन स्फटिकमणी रक्तोऽ[अवस्थ इति
पाठे स्वनिष्ठस्वाभाविक धमवान् न भवतीत्यर्थः।] च्छोऽस्वस्थो भवति, तन्निवृत्तौ च रागशून्यः स्वस्थो भवति तद्वदिति। तदेतदुक्तं कौर्मे–
यथा संलक्ष्यते रक्तःकेवलःस्फटिको जनैः।
रञ्जाद्युपधानेन तद्वत् परमपूरुणः॥ इति ॥ 35 ॥
ननु कस्य प्रयत्नेन करणजातं प्रवर्त्तताम्, पुरुषस्य कूटस्थत्वादीश्वरस्य च प्रतिषिद्धत्वादिति, तत्राह–
पुरुषार्थं करणोद्भवोऽप्यदृष्टोल्लासात्॥ 36 ॥
प्रधानप्रवृत्तिवत् पुरुषार्थं करणोद्भवः। करणानां प्रवृत्तिरपि पुरुषस्यादृष्टाभिव्यक्तेरेव भवतीत्यर्थः। अदृष्टं चोपाधेरेव ॥ 36 ॥
परार्थं स्वतः प्रवृत्तौ दृष्टान्तमाह–
धनेवद्वत्साय ॥ 37 ॥
यथा वत्सार्थं धेनुः स्वयमेव क्षीरं स्रवति, नान्यं यत्नमपेक्षते, तथैव स्वामिनः पुरुषस्य कृते स्वयमेव करणानि प्रवर्त्तन्त इत्यर्थः। दृश्यते च सुषुप्तात् स्वयमेव बुद्धेरुत्थानमिति । एतदेव कारिकयाप्युक्तम्-
स्वांस्वां प्रतिपद्यते परस्पराकूतहेतुकां वृत्तिम्।
पुरुशार्थं एव हेतर्न केनचित् कार्यते करणम् ॥ इति ॥ 37 ॥
बाह्याभ्यन्तरैर्मिलित्वा कियन्ति करणानीत्याकाङ्क्षायामाह–
करणं त्रयोदशविधमवान्तरभेदात् ॥ 38 ॥
अन्तःकरणत्रयं दश बाह्यकरणानि मिलित्वा त्रयोदश । तेष्वपि व्यमित्याशयेनोक्तम्--
‘अवान्तरभेदादिति, एकस्यैव बुद्ध्याख्यकरणस्य करणआनामनेकत्वदित्यर्थः॥ 38 ॥
ननु बुद्धिरेव पुरुषेऽर्थसमर्पकत्वान्मुख्यं करणम्, अन्येषां च करणत्वं गौणम् । तत्र को गुण इत्याकाङ्क्षायामाह–
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् ॥ 39 ॥
इन्द्रियेषु पुरुषार्थसाधकतमत्वरूपः करणस्य बुद्धेर्गुणः परम्परयाऽस्त्यतस्त्रयोदशविधं करणमुपपद्यत इति पूर्वसूत्रेणान्वयः। कुठरवदिति। यथा फलायोगव्यवच्छिन्नतया प्रहारस्यैव छिदायां मुख्यकरणत्वेऽपि प्रकृष्टसाधनत्वगुणयोगात् कुठरस्यापि करणत्वं तथेत्यर्थः। अन्तःकरणस्यैकत्वमभिप्रेत्याहङ्कारस्य गौणकरणत्वमत्र नोक्तम्॥ 39 ॥
गौणमुख्यभावे व्यवस्थां विशिष्याह–
द्वयोःप्रधानं मनो लोकवद् भृत्यवर्गेषु॥ 40 ॥
द्वयोर्बाह्यान्तरयोर्मध्ये मनो बुद्धिरेव प्रधानं मुख्यम्। साक्षात्करणमिति यावत्, पुरुषेऽर्थसमर्पकत्वात्। यथा भृत्यवर्गेषु मध्ये कश्चिदेव लोको राज्ञः प्रधानो भवति, अन्ये च तदुपसर्जनीभूता ग्रामाध्यक्षादयस्तद्वदित्यर्थः। अत्र मनःशब्दो न तृतीयान्तःकरणवाची। वक्ष्यमाणस्याखिलसंस्काराध्रत्वस्य बुद्ध्यतिरिक्तेष्वसम्भवात्। सम्भवे वा बुद्धिकल्पनवैयर्थ्यादिति॥ 40 ॥
बुद्धेःप्रधानत्वे हेतूनाह त्रिभिः सूत्रैः–
अव्यभिचारात्॥ 41 ॥
सर्वकरणव्यापकत्वात् फलाव्यभिचाराद्वेत्यर्थः॥ 41 ॥
तथा शेषसंस्काराधारत्वात् ॥ 42 ॥
बुद्धेरेवाखिलसंस्काराधारता, न तु चक्षुरादेरहङ्कारमनसोर्वा पूर्वदृष्टश्रुताद्यर्थानामन्धवधिरादिभिः स्मरणानुपपत्तेः। तत्त्वज्ञानेनाऽहङ्कारमनसोर्लयेऽपि स्मरणदर्शनाच्च। अतोऽशेषसंस्काराधारतयापि बुद्धेरेव सर्वेभ्यः प्रधानत्वमित्यर्थः॥ 42 ॥
स्मृत्यानुमानाच्च॥ 43 ॥
स्मृत्या चिन्तनरूपया वृत्त्या प्राधान्याऽनुमानाच्चेत्यर्थः। चिन्तावृत्तिर्हि ध्यानाख्या
सर्ववृत्तिभ्यः श्रेष्टऽन्यवृत्तिकरणेभ्य इत्यर्थः॥ 43 ॥
ननु चिन्तावृत्तिः पुरुषस्यैवास्तु, तत्राह–
सम्भवेन्न स्वतः॥ 44 ॥
स्वतः पुरुषस्य स्मृतिर्न सम्भवेत्। कूटस्थत्वादित्यर्थः। इत्थं वाव्याख्येयम्। नन्वेवं बुद्धिरेव करणमस्तु कृतमवान्तरणैरित्याशङ्कायामाह--- सम्भवेन्न स्वत इति। चक्षुरादिद्वारतां विनाऽखिलव्यापारेषु बुद्धेः स्वतः करणत्वं न सम्भवेदन्धादेरपि रूपादिदर्शनापत्तेरित्यर्थः॥ 44 ॥
नन्वेवं बुद्धेरेव प्राधान्ये कथं मनस उभयात्मकत्वं प्रागुक्तं , तत्राह–
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात्॥ 45 ॥
क्रियाविशेषं प्रति करणानमापेक्षिको गुणप्रधानभावः । चक्षुरादिव्यापारेषु मनः प्रधानं, मनोव्यापारे चाहङ्कारोऽहङ्कारव्यापारे च बुद्धि प्रधानम्॥ 45 ॥
नन्वस्य पुरुषस्येयं बुद्धिरेव करणं, न बुद्ध्यन्तरमित्येवं व्यवस्था किन्निमित्तिकेत्याकाङ्क्षायामाह–
तत्कर्मार्ज्जितत्वात् तदर्थमभिचेष्टा लोकवत् ॥ 46 ॥
तत्पुरूषीयकर्मजत्वात् करणस्य तत्पुरुषार्थमभिचेष्टा सर्वव्यापारो भवति लोकवत् । यथा लोके येन पुरुषेण क्रियादिकर्मणाऽर्ज्जितो यः कुठारादिस्तत्पुषार्थमेव तस्य छिदादिव्यापार इत्यर्थः। अतः करणव्यवस्थेति भावः। यद्यपि कूटस्थतया पुरुषे कर्म नास्ति, तथापि भोगसाधनतया पुरुषस्वामिकत्वेन राज्ञो जयादिवदेव पुरुषस्य कर्मोच्यते। ननु कर्मण एव तत्पुरुषीयत्वे किं नियामकमिति। चेत् तथाविधं कर्मान्तरमेव । अनादित्वात्तु नानवस्था दोषायेति । यत्तु कश्चिदविवेकीवदति,– बुद्धिप्रतिबिम्बितपुरुषस्य कर्मेति। तन्न। योगभाष्येऽस्मदुक्तप्रकारस्यैवोक्तत्वेनान्यप्रकारस्याप्रामाणिकत्वात्, प्रतिबिम्बस्यावस्तुत्वेन कर्माद्यसम्भवाच्च । अन्यथा प्रतिबिम्बस्य कर्मतद्भोदाद्यङ्गीकारे बिम्बत्वाभिमतपुरुषकल्पनावैय्यर्थ्यस्य पूर्वं प्रतिपादितत्वादिति ॥ 46 ॥
बुद्धेः प्राधान्यं प्रकटीकर्तुमुपसंहरति–
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् ॥ 47 ॥
यद्यपि पुरुषार्थत्वेन समान एव सर्वेषां करणानां व्यापारस्तथापि बुद्धेरेव प्राधान्यं लोकवत् । लोके हि राजार्थकत्वाविशेषेऽपि ग्रामाध्यक्षादिषु मध्ये मन्त्रिण एव प्राधान्यं , तद्वदित्यर्थः। अत एव बुद्धिरेव महानिति सर्वशास्त्रेषु गीयत इति । वीप्साध्यायसमाप्तौ ॥ 47 ॥
लिङ्गहेदस्य घटकं यत् सप्तदशसङ्खयकम्।
प्रधानकार्यं तत् सूक्ष्ममत्राध्यायेऽनुवर्णितम्॥ 1 ॥
इति श्रीविज्ञावनाचार्यनिर्मिते कापिलसांख्यप्रवचनस्य
भाष्ये प्रधानकार्याध्यायो द्वितीयः ॥ 2 ॥
************************
** अथ तृतीयोऽध्यायः ॥ 3॥**
इतः परं प्रधानस्य स्थूलकार्यं महाभूतानि शरीरद्वयं च वक्तव्यम्। ततश्च विविधयोनिगत्यादयो ज्ञानसाधनानुष्ठानहेतुत्वपरवैराग्यार्थम्। ततश्च परवैराग्याय ज्ञानसाधनान्यखिलानि वक्तव्यानीति तृतीयारम्भः॥
अविशेषाद्विशेषारम्भः॥ 1 ॥
नास्ति विशेषः शान्तघोरमूढत्वादिरूपो यत्रेत्यविशेषो भूतसूक्ष्मं पञ्चतन्मात्राख्यम्। तस्माच्छान्तादिरूपविशेषवत्त्वेन विशेषाणां स्थूलानां महाभूतानारम्भ इत्यर्थः। सुखाद्यात्मकता हि शान्तादिरूपा स्थूलभूतेष्वेव तारतम्यादिभिरभिव्यज्यते, न सूक्ष्मेषु । तेषां शान्तैकरूपतयैव योगिष्वभिव्यक्तेरिति ॥ 1॥
तदेवं पूर्वाध्यायमारभ्य योविंशतितत्त्वानामुत्पत्तिमुक्त्वा तस्माच्छरीरद्वयोत्पत्तिमाह–
तस्माच्छरीरस्य ॥ 2 ॥
तस्मात् त्रयोविंशतितत्त्वात् स्थूलसूक्ष्मशरीरद्वयस्यारम्भ इत्यर्थः॥ 2 ॥
सम्प्रति त्रयोविंशतितत्त्वे संसारान्यथानुपपत्तिं प्रमाणयति–
तद्वीजात् संसृतिः॥ 3 ॥
तस्य शरीरस्य बीजात् त्रयोविंशतितत्त्वरूपात् सूक्ष्माद्धेतोः पुरुषस्य संसृतिर्गतागते भवतः । कूटस्थस्य विभुतया स्वतो गत्याद्यसम्भवादित्यर्थः। त्रयोविंशतितत्त्वेऽवस्थितो हि पुरुषस्येनैवोपाधिना पूर्वकृतकर्मभोगार्थं देहाद्देहं संसरति,
मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम्।
वाचा वाचा कृतं कर्म कायेनैव तु कायिकम्॥
इत्यादिस्मृतिभिः पूर्वसर्गीयकणैरेवोत्सर्गतः सर्गान्तरेषूपभोगसिद्धेः। अत एव ब्रह्मसूत्रमुपसंहरति ‘सम्परिष्वक ’ इति ॥ 3॥
संसृतेरवधिमप्याह–
आविवेकाच्च प्रवर्त्तनमविशेषाणाम्॥ 4 ॥
ईश्वरानीश्वरत्वादिविशेषरहितानां सर्वेषामेव पुंसां विवेकपर्यन्तमेव प्रवर्त्तनं संसृतिरावश्यकी । विवेकोत्तरं च न सेत्यर्थः॥ 4 ॥
तत्र हेतुमाह–
उपभोगादितरस्य ॥ 5 ॥
इतरस्या विवेकिन एव स्वीयकर्मफसभोगावश्यम्भावादित्यर्थः॥ 5 ॥
देहसत्त्वेऽपि संसृतिकाले भोगो नास्तीत्याह—
सम्प्रति परिमुक्तो द्वाभ्याम् ॥ 6 ॥
सम्प्रति संसृतिकाले पुरुषो द्वाभ्यां शीतोष्णसुखादिद्वन्द्वैः परिमुक्तो भवतीत्यर्थः। तदेतते कारिकयोक्तम्--
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्॥ इति ॥
भावाःधर्माधर्मवासनादयः॥ 6 ॥
अतःपरं शरीरद्वजं विशिष्य वक्तुमुपक्रमते–
मातापितृजं स्थूलं प्रायश इतरत्र तथा॥ 7 ॥
स्थूलं मातापितृजं प्रायशो बाहुल्येनायोनिजस्यापि स्थूलशरीरस्य स्मरणादितरच्च सूक्ष्मशरीरं न तथा, न मातापितृजम्। सर्गाद्युत्पन्नत्वादित्यर्थः। तदुक्तं कारिकया--
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्॥ इति ॥
नियतं नित्यं द्विपरार्धस्थापि गौणनित्यं प्रतिशरीरं लिङ्गोत्पत्तिकल्पने गोरवात् । प्रलये तु तन्नाशः श्रुतिस्मृतिप्रामाण्यादिष्यते । गतिकाले भोगाभाववचनमुत्सर्गाभिप्रायेण । कदाचित्तु वायवीयशरीरप्रवेशतो गमनकालेऽपि भोगो भवति । अतो यममार्गे दुःखभोगवाक्यान्युपपद्यन्ते॥ 7 ॥
स्थूलसूक्ष्मशरीरयोर्मध्ये किमुपाधिकः पुरुषस्य द्वन्द्वयोगः? तदव धारयति–
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य ॥ 8 ॥
पूर्वं लर्गादावत्पत्तिर्यस्य लिङ्गशरीरस्य तस्यैव तत्कार्यत्वं सुखदुःखकार्यकत्वम् । कुतः? एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगाद्, न त्विरस्य स्थूलशरीरस्य । मृतशरीरे सुखदुःखाद्यभावस्य सर्वसम्मतत्वादित्यर्थः
॥ 8 ॥
उक्तस्यसूक्ष्मशरीरस्य स्वरूपमाह—
सप्तदशैकं लिङ्गम्॥ 9 ॥
सूक्ष्मशरीरमप्याधाराधेयभावेन द्विविधं भवति । तत्र सप्तदश मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः। एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश। अहङ्कारस्य बुद्धावेवान्तर्भावः। चतुर्थसूत्रवक्ष्यमाणप्रमाणादेतान्येव सप्तदश लिङ्गं मन्तव्यं, न तु सप्तदशमेकं चेत्यष्टादशतया व्याख्येयम्। उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यातयात्र लिङ्गैकत्वं एकशब्दस्य तात्पर्यावधारणाच्च॥
कर्मात्मा पुरुषो योऽसौ बन्धामोक्षैः प्रयुज्यते।
स सप्तदशकेनाऽपि राशिना युज्यते च सः॥
इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च । सप्तदशावयवा अत्र सन्तीति सप्तदशको राशिरित्यर्थः। राशिशब्देन स्थूलदेहवल्लिङ्गदेहस्यावयवित्वं निराकृतम्। अवयवरूपेण द्रव्यान्तरकल्पनायां गोरवात् । स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यत इति । अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः। प्राणश्चान्तःकरणस्यैव वृत्तिभेदः ; अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भाव इत्यस्यसप्तदशावयवकस्य शरीरत्वं स्वयं वक्ष्यति–” लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य” इति सूत्रेण । अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम्। तदाश्रयतया त्वन्.त्र शरीरत्वमिति पश्चाद् व्यक्तीभविष्यति । “चेष्टेन्द्रियर्थाश्रयः शरीर” मिति तु न्यायेऽपि लक्षमं कृतमिति॥ 9 ॥
ननु लिङ्गं चेदेैकं, तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्युस्तत्राह–
व्यक्तिभेदः कर्मविशेषात्॥ 10 ॥
यद्यपि सर्गादौ हिरण्यगर्भोपाधिरूपमेकमेव लिङ्गं, तथापि तस्य पश्चाद् व्यक्तिभोदो व्यक्तिरूपेणांशतो नानात्वमपि भवति । यथेदानीमेकस्य पितृलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदेहरूपेण । तत्र कारणमाह--कर्माविशेषादिति। जीवान्तराणां भोगाहेतुकर्मादेरित्यर्थः। अत्र विशेषवचनात् समष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम्। अयं च व्यक्तिभेदो मन्वादिष्वप्युक्तः। यथा मनौ समष्टिपुरुषस्य षडिन्द्रियोत्पत्त्यनन्तरम्,
तेषां त्ववयवान् सूक्ष्मान् षण्माप्यमितौजसाम्।
सन्निवेशयत्ममात्रासु सर्वभूतीनि निर्ममे ॥ इति ॥
षण्माणामिति समस्तलिङ्गशरीरोपलक्षणम्. आत्ममात्रासु चिंदशेषु संयोज्येत्यर्थः। तथा च तत्रैव वाक्यान्तरम्–़
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह।
क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इति ॥ 10 ॥
नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्वे स्थूले कथं शरीरव्यवहारस्तत्राह–
तदधिष्ठानाश्रये देहे तद्वादात् तद्वाद ः ॥ 11 ॥
यस्य लिङ्गस्य यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिकदेहे तद्वादो देहवादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहवादादित्यर्थः। लिङ्गसम्बन्धादधिष्टानस्य देहत्वमधिष्टानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्यवसितोऽर्थः। अधिष्ठानं न सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते। तथाच शरीरत्रयं सिद्धम्। यत्तु--
आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः।
सर्वासां भूतजातीनां ब्रह्मणस्त्वेक एव किम्॥
इत्यादिशास्त्रेषु शरीरद्वयमेव श्रूयते तल्लिङ्गशरीराधिष्ठानशरीरयोरन्योन्यनियतत्वेन सूक्ष्मत्वेन चैकताभिप्रायादिति॥ 11 ॥
ननु षाट्कौशिकातिरिक्ते लिङ्गशरीराधिष्ठानभूते शरीतान्तरे किं प्रमाणमित्याकाङ्क्षायामाह–
न स्वातन्त्र्यात् तदृते छायावच्चित्रवच्च॥ 12 ॥
तल्लिङ्गशरीरं तदृतेऽधिष्ठानं विना स्वातन्त्र्यान्न तिष्ठति । यथा छाया निराधारा न तिष्ठति , यथा वा चित्रमित्यर्धः। तथा च स्थूलदेहं त्यक्त्वा लोकान्तरगमनाय लिङ्गहेदस्याधारभूतं शरीरान्तरं सिद्ध्यतीति भावः। तस्य च स्वरूपं कारिकायामुक्तम्--
सूक्ष्मां मातापितृजाः सहप्रभूतैस्त्रिधा विशेषाः स्युः।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ इति ॥ ( 39 ईश्वरकृष्ण)
अत्र तन्मात्रकार्यं मातापितृजशरीरापेक्षया सूक्ष्मं यद् भूतपञ्चकं यावल्लिङ्गस्यापि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीरमिति लब्धं
कारिकान्तरेण–
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया।
तद्वद्विना विशेषैर्न सूक्ष्माख्यैः। स्थूलावान्तरभेदैरिति । अस्यां कारिकायां सूक्ष्माख्यानां स्थूलभूतानां लिङ्गशरीराद्भेदावगमेन, पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्’ ( 40 ) इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपर्यन्तस्य लिङ्गत्वं नाऽर्थः, किन्तु महदादिरूपं यल्लिङ्गंलिङ्गघटकपदार्थाः कियन्त इति कथमवधार्यमिति चेत् वासनाभूतसूक्ष्मं च कर्मविद्ये तथैव च ।
दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः॥
इति वाशिष्टादिवाक्येभ्यः अत्र लिङ्गशरीरप्रतिपादनेनैव पुर्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपि वासनाकर्मविद्यानां पृथगुपन्यासः भूतसूक्ष्मं चात्र तन्मात्रा दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन
पुरद्वयमित्याशयः। यत्तु मायावादिनो लिङ्गशरीरस्य तन्मात्रस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति, पुर्यष्टकं चान्यथा कल्पयन्ति, तदप्रामाणिकमिति॥ 12 ॥
ननु मूर्तद्रव्यतया वाय्वादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तुव्यर्थमन्यत्र सङ्गकल्पनमिति । तत्राह–
मूत्रत्वेऽपि सङ्घातयोगात् तरणिवत्॥ 13 ॥
मूत्रत्वेऽपि स्वातन्त्र्यादसङ्गतयाऽवस्थानं प्रकाशरूपत्वेन सूर्यस्येव सङ्घातसङ्गानुमानादित्यर्थः। सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्रव्यसह्गेनैवैवस्थितानि दृश्यन्ते। लिङ्गं च सत्त्वप्रकाशमययो भूतसङ्गतमिति॥ 13 ॥
लिङ्गस्य परिमाणमवधारयति–
अणुपरिमाणं तत् कृतिश्रुतेः॥ 14 ॥
तल्लिङ्गमणुपरिमाणं परिच्छिन्नं, न त्वत्यन्तमेवाणु । सावयवस्योक्तत्वात्। कुतः? कृतिश्रुतेः क्रियाश्रुतेः। “विज्ञानं य यज्ञं तनुते कर्माणि तमुतेऽपि च” इत्यादिश्रुतेर्विज्ञानख्यबुद्धिप्रधानतया विज्ञानस्य लिङ्गस्याखिलकर्मश्रवणादित्यर्थः। विभुत्वे सति क्रिया न सम्भवति। श्रुतेरिति पाठस्तु समाचीनः। लिङ्गशरीरस्य च गतिश्रुतिः " तमुत्क्रामन्तं प्राणोऽनुक्रामति प्राणमनुक्रामन्तं सर्वे प्राणा अनुक्रामन्ति सविज्ञानो भवति सविज्ञानमेवानुपक्रामिति” इति । सविज्ञानो बुद्धिसहित एव जायते । सवुज्ञानं यथा स्यात् तथा संसरति चेत्यर्थः
॥ 14 ॥
परिच्छिन्नत्वे युक्त्यन्तरमाह–
तदन्नमयत्वश्रुतेश्चत ॥ 15 ॥
तस्य लिङ्गस्यैकदेशतोऽन्नमयत्वश्रुचेर्न विभुत्वं सम्भवतीति । विभुत्वे सति नित्यतापत्तेरित्यर्थः। सा च श्रुतिर्हि “अन्नमयं हि सौम्य मन आयद्यपि प्राणस्तेजोमयी वाग्” इत्यादि ः ( छांदो 0 अ 0 6 खण्ड–5–मं04) । यद्यपि मनादीनि न भौतिकानि तथाप्यन्नसंसृष्टसजातीयांशपूपरणादन्नमयत्वादिव्यवहेरो बोध्यः ॥ 15 ॥
अचेतनानां लिङ्गानां किमर्थं संसृतिर्देहहान्तरसञ्चार इत्याशङ्कायामाह–
पुरुषार्थं संसृतिर्लिङ्गानां सूपकारवद्राज्ञः॥ 16 ॥
यथा राज्ञः सूपकाराणां पाकशालासु सञ्चारो राजार्थं , तथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः॥ 16 ॥
लिङ्गशरीरमशेषविशेषतो विचारितम्, इदानीं स्थूवशरीरमपि तथा विचारयति–
पाञ्चभौतिको हेदः॥ 17 ॥
पञ्चानां भूतानां मिलितानां परिणामो देह इत्यर्थः॥ 17 ॥
मतान्तरमाह–
चातुर्भौतिकमित्येके ॥ 18 ॥
आकाशस्यानारम्भकत्वलमभिप्रेत्येदम्॥ 28 ॥
ऐकभौतिकमित्यपरे ॥ 19 ॥
पार्थिवमेव शरीरमन्यानि च भूतान्युपष्चम्भकमात्राणीति भावः। अथवैकभौतिकमेकैकभौतिकमित्यर्थः। मनुष्यादिशरीरे पार्थिवांशाधिक्येन पार्थिवता सूर्यादिलोकेषु च तोजाद्याधिक्येन तैजसादिता शरीराणां सुवर्णादीनामिवेतीममेव पक्षं पञ्चमाध्ययेऽपि सिद्धान्तयिष्यतयि॥ 19 ॥
देहस्य भौतिकत्वेन यत् सिद्ध्यति तदाह–
न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः॥ 20 ॥
भूतेषु पृथक् कृतेषु चैतन्यादर्शषनाद्भौतिकस्य देहस्य स्वाभाविकं चैतन्यं, किन्त्वौपाधिकमित्यर्थः॥ 20 ॥
बाधकान्तरमाह–
प्रपञ्चमरणाद्यभावश्च ॥ 21 ॥
प्रपञ्चस्य सर्वस्यैव मरणसुषुप्त्याद्यभावश्च देहस्य स्वाभाविकचैतन्ये सति स्यादित्यर्तः। मरणसुषुप्त्यादिकं हि देहस्याऽचेतनता । सा च स्वाभाविकचैतन्ये सति नोपपद्यते। स्वभावस्य यावद्द्रव्यभावित्वादिति
॥ 21 ॥
प्रत्येकादृष्टेरिति यदुक्तं, तत्राशङ्क्य परिहरति–
मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः॥ 22 ॥
ननु यथा मादकतया शक्तिः प्रत्येकद्रव्यावृत्तिरपि मिलितद्रव्ये वर्त्तते, एवं चैतन्यमाप स्यादिति चेत्? न प्रत्येकपरिदृष्टे सति सांहत्ये तदुद्भवः सम्भवेत् । प्रकृते तु प्रत्येकपरिदृष्टत्वं नास्ति । अतो दृष्टान्ते प्रत्येकं शास्त्रादिभिः सूक्ष्मतया मादकत्वे सिद्धे संहतभावकाले मादकत्वाविर्भावमात्रं सिद्द्यति । दार्ष्टान्तिके तु प्रत्येकभूतेषु सूक्ष्मतया न केनापि प्रमाणेन चैतन्यं सिद्धमित्यर्थः। ननु समुच्चिते चैतन्यदर्शनेन प्रत्येकभूते सूक्ष्मचैतन्यशक्तिरमनुमेयेति चे । अनेकभूतेष्वनेकचैतन्यशक्तिकल्पनायां गोरवेण लाघवादेकस्यैव नित्यचित्स्वरूपस्य कल्पनौचित्यात्। ननु यथावयवेऽवर्त्तमानमपि परिमाणजलाहरणादिकार्य घटादौ दृश्यते, एवमेव शरीरं चैतन्यं स्यादिति। मैवम्। भूतगतविशेषगुणानां सजातीयकारणगुणजन्यतया कारणे चैतन्यं विना देहे चैतन्यासम्भवादिति ॥ 2॥
पुरुषार्थं संसृतिर्लिङ्गानामित्युक्तम्। तत्र लिङ्गानां स्थूलदेहसञ्चाराख्यजन्मनो योयः पुरुषार्थो येन येन व्यापारेण सिद्ध्यति, तदाह सूत्राभ्याम्–
ज्ञानन्मुक्तिः॥ 23 ॥
लिङ्गसंसृतितो जन्मद्वारा विवेकसाक्षात्कारस्तस्मान्मुक्तिरूपः पुरुषार्थो भवतीत्यर्थः। ज्ञानादिकं
च प्रत्ययसर्गतया कारिकायां परिभाषितम्–
एष प्रत्ययसर्गो विपर्ययाशक्तितपष्टिसिद्ध्याखायः॥ इति ॥ ( ईश्व 0 4 1 )
विपर्ययादयो व्याख्यास्यन्ते । अत्र च स एव बुद्धिसर्गः प्रयोजनयो गेन सूत्रेरुच्यत इति विशेषः ॥ 23 ॥
बन्धो विपर्ययात् ॥ 24 ॥
विपर्ययात् सुखदुःखात्मको बन्धरूपः पुरुषार्थो लिङ्गसंसृतितो भवतीत्यर्थः॥ 24 ॥
ज्ञानविपर्ययाभ्यां मुक्तिबन्धावुक्तौ । तत्रादौ ज्ञानान्मुक्तिं विचारयति–
नियतकारणत्वान्न समुच्चयविकल्पौ ॥ 25 ॥
यद्यपि, "विद्यां चाविद्यां च यस्तद्वेदोभयं सह" इत्यादि श्रूयते। तथाप्यविवेकनिवृत्तौ लोकसिद्धतया ज्ञानस्य नियतकारणत्वाद् अविद्याख्यकर्मणा सह ज्ञानस्य मोक्षजनने समुच्चयो विकल्पो वा नास्तीत्यर्थः। " तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनाय, न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः" इत्यादिश्रुतिभ्योऽपि कर्मणो न साक्षान्मोक्षहेतुत्वम्. समुच्चयानुष्ठानं श्रुतिष्वङ्गाङ्गिभावादिभिरभ्युपपद्यत इति ॥ 25 ॥
समुच्चयविकल्पयोरभावे दृष्टान्तमाह–
स्वप्नजागाराभ्यामिव मायिकामायिकाभ्यां नोभयो-
र्मुक्तिः पुरुषस्य ॥ 26 ॥
यथा मायिकामायिकाभ्यां स्वप्नजागरपदार्थाम्यामन्योन्यसहकारिभावेनैकः पुरुषार्थो न सम्भवति। एवमुभयोर्मायिकाऽमायिकयोरनुष्ठितयोः कर्मज्ञानयोः पुरुषस्य मुक्तिरपि न युक्तेत्यर्थः। मायिकत्वं चासत्यत्वम्। अस्थिरत्वमिति यावत् । तच्च स्वाप्नेऽर्थेऽस्ति। जाग्रत्पदार्थस्तु स्वाप्नापेक्षया सत्य एव । कूटस्थपुरुषापेक्षयैवास्थिरत्वेनासत्यत्वादतः स्वप्नविलक्षणस्नानादिकार्यकरः एवं कर्माप्यस्थिरत्वात् प्रकृतिकार्यत्वाच्च मायिकम्। आत्मा तु स्थिरत्वादकार्यत्वाच्चामायिकः। अतक्षणमेव कार्यं युक्तम्॥ 26 ॥
नन्वेवमप्यात्मोपासनाख्यज्ञानेन सह तत्त्वज्ञानस्य समुच्चयनिकल्पौ स्यातामुपास्यस्यामायिकत्वादिति, तत्राह–
इतरस्यापि नात्यन्तिकम्॥
इतरस्याप्युपास्यस्य नात्यन्तिकममायिकत्वम्। उपास्यात्मन्यध्यस्तपदार्थानामपि प्रवेशादित्यर्थः
॥ 27 ॥
उपासनस्य मायिकत्वं यस्मिन्नंशे तदाह–
सङ्कल्पितेऽप्येवम्॥ 28 ॥
मनःसङ्कल्पिते--ध्येयांशे, एवमपि
–मायकत्वमपीत्यर्थः. ‘सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुत्युक्ते ह्युपास्ये प्रपञ्चांशस्य मायिकत्वमेवेति ॥ 28 ॥
तर्ह्युपासनस्य किं फलमित्याकाङ्क्षायामाह–
भावनोपचयाच्छुद्धस्य सर्वं प्रकृतिवत् ॥ 29 ॥
भावनाख्योपासनानिष्पत्त्या शुद्धस्य निष्पापस्य पुरुषस्य प्रकृतेरिव सर्वमैश्वर्यं भवतीत्यर्थः। प्रकृतिर्यथा सृष्टिस्थितिसंहारं करेति, एवमुपासकस्य बुद्धिसत्त्वमपि प्रकृतिप्रेरणेन सृष्ट्यादिकर्तृ भवतीति ॥ 29 ॥
ज्ञानमेव मोक्षसाधनमिति स्थापितम्। इदानीं ज्ञानसाधनान्याह–
रागोपहतिर्ध्यानम्॥ 30 ॥
ज्ञानप्रतिबन्धको यो विषयोपरागश्चित्तस्य तदुपघातहेतुर्ध्यानमित्यर्थः। उपचारेण कार्यकारणयोरभेदनिर्देशः, रागक्षयस्य ध्यानत्वासम्भवात् । अत्र ध्यानशब्देन धारणाध्यानसमाधयो योगोक्तास्त्रय एव ग्राह्याः पातञ्जले योगाङ्गानामष्ठानामेव विवेकसाक्षात्कारहेतुत्वश्रवणादिति । एतेषां चावान्तरविशेषास्तत्रैव द्रष्टव्याः। इतराणि च पञ्चाङ्गानि स्वयं वक्ष्यति ॥ 30 ॥
ध्याननिष्पत्त्यैव ज्ञानोत्पत्तिर्नारम्भमात्रेणेत्याशयेन ध्याननिष्पत्तेर्लक्षणमाह–
वृत्तिनिरोधात् तत्सिद्धिः॥ 31 ॥
ध्येयातिरिक्तवृत्तिनिरोधरूपेण सम्प्रज्ञातयोगेन तत्सिद्धर्ध्यानस्य निष्पत्तिर्ज्ञानाख्य फलोपधानरूपा भवतीत्यर्थः। अतस्तावत्पर्यन्तमेव ध्यानं कर्त्तव्यमित्याशयः। इतरवृत्तिनिरोधे सत्येव विषयान्तरसञ्चाराख्यप्रतिबन्धापगमाद्ध्येयसाक्षात्कारो भवतीति कृत्वा योगोऽपि ज्ञाने कारणं, योगाङ्गध्यानादिवदित्यपि मन्तव्यम्।"अध्यात्मयोगाधिगमेन देवं मत्वाधीरो हर्षशोकौ जहाति " इत्यादिश्रुतिस्मृत्योस्तदवगमादिति ॥ 31 ॥
ध्यानस्यापि साधनान्याह–
धारणासनस्वकर्मणा तत्सिद्धिः॥ 32 ॥
वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः। 32 ॥
धारणादित्रयं क्रमात् सूत्रत्रयेण लक्षयति–
निरोधश्छर्दिविधारणाभ्याम्॥ 33 ॥
प्राणस्येति प्रसिद्ध्या लभ्यते। " प्रच्छर्दनविधारणाभ्यां वा प्राणस्य" इति योगसूत्रे भाष्यकारेण प्राणायामस्य व्याख्यातत्वात् । छर्दिश्च वमनम्। विधारणं त्याग इति यावत् । तेन पूरणरेचनयोर्लाभः। विधारणं च कुम्भकम्। तथाच प्राणस्य पूरकरेचककुम्भकैर्यो निरोधो वशीकरणं, साधारणेत्यर्थः। आसनकर्मणोः स्वशब्देन पश्चाल्लक्षणीयतया सूत्रे परिशे,त एव धारणाया लक्ष्यत्वलाभाद्धारणापदं नोपात्तम्। चित्तस्य धारणा तु समाधिवद् ध्यानशब्देनैव गृहीतेत्युक्तम्॥ 33 ॥
क्रमप्राप्तमासनं लक्षयति–
स्थिरसुखमासनम्॥ 34 ॥
यत् स्थिरं सत् सुखसाधनं भवति स्वस्तिकादि, तदासनमित्यर्थः। 34 ॥
स्वकर्म लक्षयति–
स्वकर्म स्वाश्रमविहितकर्मानुष्ठानम्॥ 35 ॥
सुगमम्। तत्र सर्मशब्देन यमनियमयोर्ग्रहणम्। जितेन्द्रियत्वरूपः प्रत्याहारोऽपि सर्वाश्रमसाधारणतया कर्ममध्ये प्रवेशनीयः। तथा च पातञ्जलसूत्रे ज्ञानसाधतया प्रोक्तान्यष्टौ योगाङ्गान्यत्रापि लब्धानि।
यथा तत्सूत्रम्। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानीति । तेषां च स्वरूपं तत्रैव द्रष्टव्यम्
॥ 35 ॥
मुख्याधिकारिणो नास्ति बहिरङ्गस्य यमादिपञ्चकस्यापेक्षा, केवलाद्धारणाध्यानादित्रयरूपात् संयमादेव ज्ञानं योगश्च भवतीति पातञ्जलसिद्धन्तः जडभरतादिषु च तथा दृश्यतेऽपि । अतस्तदनुस्रेणाचार्योऽप्याह-
वैराग्यादभ्यासाच्च॥ 36 ॥
केवलाभ्यासाद् ध्यानरूपादेव वैराग्यसहिताज्ज्ञानं तत्साधनयोगश्च भवत्युत्तमाधिकारिणामित्यर्थःथ तदुक्तं गारुडेऽपि–
आसनस्थानविधयो न योगस्य प्रसाधकाः।
विलम्बजननाः सर्वे विस्तराः परिकीर्तिताः॥
शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् ॥ इति ॥
अथवा वैराग्यध्यनाभ्यासावत्र ध्यानस्यैव हेतुतयोक्तौ, चकारश्च धारणासमुच्चयायेति । तदेवं ज्ञानान्मोक्षो व्याख्यातः॥ 36 ॥
अतः परं बन्धो विपर्ययादित्युक्तो बन्धकारणं विपर्ययो व्याख्यास्यते । तत्रादौ विपर्ययस्य स्वरूपमाह–
विपर्ययभेदाः पञ्च ॥ 37 ॥
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च योगोक्ता बन्धहेतुविपर्ययस्यावान्तरभेदा इत्यर्थः। तेन शुक्त्यादिज्ञानरूपाणां विपर्ययाणामसङ्ग्रहेऽपि न क्षतिः। तत्राविद्या, अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरिति योगे प्रोक्ता । एवमस्मिताऽपि आत्मानात्मनोरेकताप्रत्ययः, शरीराद्यतिरिक्त आत्मा नास्तीत्येवंरूपः। अविद्या तु नैवंरूपा। आत्मनः शरीराशरीरोभयरूपत्वेऽपि शरीरेऽहम्बुद्ध्यपपत्तेः। रागद्वेषौ प्रसिद्धावेव। अभिनिवेशश्च मरणादित्रास इति ।
रागादीनां विपर्ययकार्यतया विपर्ययत्वम्॥ 37 ॥
विपर्ययस्य स्वरूपमुक्त्वा तत्कारणस्याशक्तेरपि स्वरूपमाह–
अशक्तिरष्टाविंशतिधा तु ॥38 ॥
सुगमम्। एतदपि कारिकया व्याक्यातम्-
एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा।
सप्तदश वधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम्॥ इति ॥
बाधिर्यं कुष्टितान्धत्वं जडताऽजिघ्नता तथा।
मूकता कौण्यपङ्गुत्वे क्लैब्योदावर्तमुग्धताः॥
इत्येकादशेन्द्रियाणामेकादशाऽशक्तयः स्वतश्चबुद्धेःसप्तदशा। शक्तयः। यथा वक्ष्यमाणानां नवतुष्ठीनां विघाता नव, तथा वक्ष्यमाणानामष्टविंशतिर्बुद्धेरशक्त्य इत्यर्थः। तु–शब्द एषां विशेषप्रसिद्धिख्यापनार्थः
॥ 38॥
ययोर्विघाते बुद्धेरशक्ती ते तुष्टिसिद्धी सूत्रद्वयेनाह–
तुष्टर्नवधा ॥ 39 ॥
स्वयमेव नवधात्वं वक्ष्यति॥ 39 ॥
सिद्धिरष्टधा॥ 40 ॥
एतदपि स्वयं वक्ष्यति ॥ 40 ॥
उक्तानां विपर्ययाशक्तितुष्टिसिद्धीनां विशेषजिज्ञासायां क्रमेण सूत्रचतुष्टयं प्रवर्तते–
अवान्तर भेदाः पूर्ववत्॥ 41 ॥
विपर्ययस्यावान्तरभेदा ये सामान्यतः पञ्चोक्तास्ते पूर्ववत् पूर्वचार्यैर्यथोक्तास्तथैवा विशिष्य अवधार्याः। विस्तरभयान्नेहोच्यन्त इत्यर्थः। ते चाविद्यादयो मयापि सामान्यत एव व्याख्याताः पञ्चेति । विशेषतस्तु द्वाषष्टिभेदाः। तदुक्तं कारिकायाम्--
भेदस्तसोऽष्टविधो मोहस्य दशविधो महामोहः।
तामिस्त्रोऽष्टादशधा तथा भवत्यन्धतमिस्रः॥ इति ॥
अस्यायमर्थः। अष्टस्वव्यक्तमहदहङ्कारपञ्चतन्मात्रेषु प्रकृतिष्वनात्मस्वात्मबुद्धिरविद्यातमोऽष्टधा भवति। कार्यकारणाभेदेन केवलविकृतिष्वात्मबुद्धेरप्यत्रान्तर्भावः। एवमविद्याया विषयभेदेनाष्टविधत्वात् तत्समानविषयकस्यास्मिताख्यस्य मोहल्याष्टविधत्वम्। दिव्याऽदिव्यभेदेन सब्दादीनां विषयाणां दशत्वात् तद्विषयको रागाख्यो महामोहो दशवधः। अविद्यास्मितयोरष्टौ ये विषया ये रागस्य दश विषयास्तद्विघातकेष्वष्टादशस्वष्टादशधा तामिस्रख्यो द्वेषः। एवं तेषामष्टादशानां विनाशादिदर्शनागष्टादशधान्धमिस्राख्योऽभिनिवेशो भयमिति। एतेषां च तमादिसंज्ञा तद्धेतुत्वादिति॥ 41 ॥
एवमितरस्याः॥ 42 ॥
एवं सूत्रं कारिकया व्याख्यातम्--
अध्यात्मिक्याश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः।
बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिहिताः॥ इति ॥
अस्यायमर्थः । आत्मानं तुष्टिमतः सङ्घातमधिकृत्य वर्तन्त इत्याध्यात्मिक्यस्तुष्टयश्चतस्रः। तत्र प्रकृताख्या तुष्टिर्यथा । साक्षात्कारपर्यन्तः परिणामः सर्वोऽपि प्रकृतेरेव । तं च प्रकृतिरेव करोतिरेव करोत्यहं तु कूटस्थः पूर्ण
इत्यात्मभावनात् परितोषः इयं तुष्टिरम्भ इत्युच्यते। ततश्च प्रव्रज्योपादानेन या तुष्टिः सोपादानाऽऽख्या सलिलमित्युच्यते । ततश्च प्रव्रज्योयां बहुकालं समाध्यऽनुष्टानेन या तुष्टिः सा कालाख्या तुष्टिरोघ इत्युच्यते। ततश्च प्रज्ञानपरमकाष्ठारूपे धर्ममेघसमाधौ सति या तुष्टिः सा भाग्याख्यावृष्टिरित्युच्यत इति चतस्र आध्यात्मिक्यः। बाह्याः पञ्च तुष्टयो बाह्यविषयेषु पञ्चसु शब्दादिष्वर्जनरक्षणक्षयभोगहिंसादिदोषनिमित्तोपरमाज्जायन्ते। ताश्च तुष्टयो यथाक्रमं पारं सुपारं पारपारमनुत्तमाम्भ उत्तमाम्भ इति परिभाषिता इति । कश्चित्त्विमां कारिकामन्यथा व्याख्यातवान् । तद्यथा । विवेकसाक्षात्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्यानाभ्यासेनेत्येवं दृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या । प्रवज्योपादानेनैव मोक्षो भविष्यति, किं ध्यानादिनेति या तुष्टिः सोपादानाख्या। कृतसंन्यासस्यापि कालेनैव मोक्षो भविष्यत्यलमुद्वेगेनेति या तुष्टिः सा कालाख्या भाग्यादेव मोक्षो भविष्यति. न मोक्षशास्त्रोक्तसाधनैः एवं कुतर्के या तुष्टिः सा भाग्याख्येत्यादिरर्थ इति । तन्न । तद्व्याख्याततुष्टीनामभावस्य ज्ञानाद्यनुकूलत्वेनाशक्तिपरिभाशानौचित्यादिति॥ 43 ॥
ऊहादिभिः सिद्धिः ॥ 44 ॥
ऊहादिभिदैः सिद्धिरष्टधा भवतीत्यर्थः। इदमपि सूत्रं कारिकया व्याख्यातम्–
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः॥ इति ॥
अस्यायमर्थः । अत्राध्यात्मिकादिदुःखत्रयप्रतियोगिकत्वात् त्रयो दुःखविघाता मुख्यसिद्धयः। इतरास्तु तत्साधनत्वाद् गौण्यः सिद्धयः । तत्रोहो यथा । उपदेशादिकं विनैव प्राग्भवीयाभ्यासवशात् तत्त्वस्य स्वयमूहनमिति ष शब्दस्तु यथा। अन्यदीयपाठमाकर्ण्य स्वयं वा शास्त्रमाकलय्य यज्ज्ञानं जायते तदिति। अध्ययनं च यथा। शिष्याचार्यभावेन शास्त्राध्ययनाज्ज्ञानमिति । सुहृत्प्राप्तिर्यता । स्वयमुपदेशार्थं गृहागतात् परमकारुणिकाज्ज्ञानलाभ इति । दानं च यथा । धनादिदानेन परितोषिताज्ज्ञानलाभ इति । एषु च पूर्वस्त्रिविध ऊहशब्दाध्ययनरूपो सुख्यसिद्धेरङ्कश आकर्षकः । सुहृत्प्राप्तिदानयोरूहादित्रयापेक्षया मन्दसाधनत्वप्रतिपादनायेमदुक्तम्। कश्चित्त्वेतासामष्टसिद्धीनामङ्कुशो निवारकः पूर्वस्त्रिविधो विपर्ययाशक्तितुष्टिरूपो भवति बन्धकत्वादिति व्याचष्टे, तन्न. तुष्ट्यभावस्याशक्तितया बाधिर्यादिवत् सिद्धिविरोधितालाभेन तुष्ट्यतुष्ट्योरुभयोः सिद्धिविरोधित्वासम्भवात् ॥ 44 ॥
ननूहादिभिरेव कथं सिद्धिरुच्यते। मन्त्रतपःसमाध्यादिभिरप्यणिमाद्यष्टसिद्धेः सर्वशास्त्रसिद्धत्वादिति , तत्राह–
नेतरादितहानेन विना ॥ 45 ॥
इतरादूहनादिपञ्चकभिन्नात् तपादेस्तात्तिकी सिद्धिः। कुतः? इतरहानेन विना । यतः सा सिद्धिरितरस्य विपर्ययस्य हानं विनैव भवत्यतः संसारापरिपन्थित्वात् सा सिद्ध्याभ्यास एव न तु तात्त्विकी सिद्धिरित्यर्थः। तथाचोक्तं योगसूत्रेण “ते समाधावुपसर्गा व्युत्थाने सिद्धयः” ( वि 0 पा0 सू 37 ) इति । तदेवं ज्ञानान्मुक्तिरित्यारभ्य विस्तरतो बुद्धिगुणरूपः प्रत्ययसर्गः सकार्यबन्धो मोक्षरूपपुरुषार्थेन सहोक्तः। एतौ च बुद्धितद्गुणरूपौ सर्गौ प्रवाहरूपेणाम्योन्यहेतु बीजाङ्कुरवत् । तथा च कारिका–
न विना भावैर्लिङ्गं न विना लिङ्गेन भावविर्वृत्तिः।
लिङ्गाख्यो भावाख्यस्तस्माद्द्विविधः प्रवर्तते सर्गः ॥ इति ॥
भावो वासनारूपा बुद्धिर्ज्ञानादिगुणा लिङ्गं महत्तत्त्वं बुद्धिरिति । समष्टिसर्गः प्रत्ययसर्गश्च समाप्तः॥ 45 ॥
सम्प्रत व्यक्तिभेदः कर्मविशेषादिति संक्षेपादुक्ता व्यष्टिसृष्टिर्विस्तरतः प्रतिपाद्यते–
दैवादिप्रभेदा ॥ 46 ॥
दैवादिः प्रभेदोऽवान्तरभेदो यस्याः सा तथा सृष्टिरिति शेषः। तदेतत् कारिकया व्याख्यातम्--
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः॥ इति ॥
ब्राह्मप्राजापत्यैन्द्रपैत्रगान्धर्वयाक्षराक्षसपैशाचा इत्यष्टविधो दैवः सर्गः। पशुमृगपक्षिसरीसृपस्थावरा इति तैर्यग्योनः पञ्चविधः । मानुष्यसर्गश्चैकप्रकार इति । भौतिको भूतानां व्यष्टिप्राणिनां विराजः सकाशात् सर्ग इत्यर्थः॥ 46 ॥
अवान्तरसृष्टेरप्युक्तायाः पुरुषार्थत्वमाह–
आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिराविवेकात् ॥ 47 ॥
चतुर्मुखमारभ्य स्थावरान्ता व्यष्टिसृष्टिरपि विराट्सृष्टिवदेव पुरुषार्था भवति । तत्तत्पुरुषाणां विवेकख्यातिपर्यन्तमित्यर्तः। 47 ॥
व्यष्टिसृष्टावपि विभागमाह सूत्रत्रयेण –
उर्ध्वं सत्त्वविशाला ॥ 48 ॥
ऊर्ध्वं भूर्लोकादुपरि सृष्टिः सत्त्वाधिका भवतीत्यर्थः॥ 48 ॥
तमोविशाला मूलतः ॥ 49 ॥
मूलतो भूर्लोकादधा इत्यर्थः॥ 49 ॥
मध्ये रजोविशाला ॥ 50 ॥
मध्ये भूर्लोके इत्यर्तः॥ 50 ॥
नन्वेकस्या एव प्रकृतेः केन निमित्तेन सत्त्वादिविशालतया विचित्राः सृष्टय इत्याकाङ्क्षायामाह–
कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् ॥ 51 ॥
विचित्रकर्मनिमित्तादेव यथोक्ता प्रधानस्य चेष्टा कार्यवैचित्र्यरूपा भवति वैचित्र्ये दृष्टान्तो रग्भदासवदिति । यथा गर्भावस्थामारभ्य यो दासस्तस्य भृत्यवासनापाटवेन नानाप्रकारा चेष्टा परिचर्य्या स्वाम्यर्थे भवति, तद्वदित्यर्थः॥ 51 ॥
ननु चेदीर्ध्वं सत्त्वविशाला सृष्टिरस्ति तर्हि तत एव कृतार्थत्वात् पुरुषस्य किं मोक्षेणेति , तत्राह–
आवृत्तिस्तत्राप्युत्तरोत्तरयोनियोगाद्धेयः॥ 52 ॥
तत्राप्यूर्ध्वगतावपि सत्यामावृत्तिरस्त्यत उत्तरोत्तरयोनियोगादधोऽधोयोनिडन्मनः सोऽपि लोको हेय इत्यर्थः॥ 52 ॥
समानं जरामरणादिजं दुःखम्॥ 53 ॥
किञ्च ऊर्ध्वाधोगतानां ब्रह्मादिस्थावरान्तानां सर्वेषामेव जरामरणादिजं दुःखं साधारणमतोऽपि हेय इत्यर्तः। 53 ॥
किं बहुना कारणे लयादपि न कृतकृत्यतेत्याह–
न कारणलयात् कृतकृत्यता मग्नवदुत्थानात्॥ 54 ॥
विवेकज्ञानाभावे यदा महदादिषु वैराग्यं प्रकृत्युपासनया भवति, तदा प्रकृतौ लयो भवति, 'वैराग्यात् प्रकृतिलय' इति वचनात् । तस्मात् कारणलयादपि न कृतकृत्यतास्ति, मग्नवदुत्थानात् । यथा जले मग्नः पुरुषः पुनरुच्चिष्ठति, एवमेव प्रकृतिलीनाः पुरुषा ईश्वरभावेन पुनराविर्भवन्ति । संस्कारादेरक्षयेण पुनरागामिव्यक्तेर्विवेकख्यातिं विना दोषदाहानुपपत्तेरित्यर्थः॥ 54 ॥
ननु कारणं केनाऽपि न कार्यतेऽतः स्वतन्त्रा कथं स्वापासकस्य दुःखनिदानमुत्थानं पुनः करोति, तत्राह–
अकार्यत्वेऽपि तद्योगः पारवश्यात्॥ 55 ॥
प्रकृतेरकार्यत्वेऽप्यप्रेर्यत्वेऽप्यन्येच्छानधीनत्वेऽपि, तद्योगः– पुनरुत्थानौचित्यं तल्लीनस्य । कुतः? पारवश्यात्–पुरुषार्थतन्त्रत्वात् । विवेकख्यातिरूपपुरुषार्थवशेन प्रकृत्या पुनरुत्थाप्यते स्वलीन इत्यर्थः। पुरुषार्थादयश्च प्रकृतेन प्रेरकाः किन्तु प्रवृत्तिस्वभावायाः प्रवृत्तौ निमित्तानीति न स्वातन्त्र्यक्षतिः। तथा च योगसूत्रम्"निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्” इति । वरणभेदः–प्रतिबन्धनिवृत्तिः॥ 55 ॥
प्रकृतिलयात् पुरुषस्योत्थाने प्रमाणमप्याह–
स हि सर्ववित् सर्वकर्ता ॥ 56 ॥
स हि पूर्वसर्गे कारणलीनः सर्गान्तरे सर्ववित् सर्वकर्त्तेश्वर आदिपुरुषो भवति । प्रकृतिलये तस्यैव प्रकृतिपदप्राप्त्यौचित्यात् । तदेव "सक्तः सह कर्मणा" इति, "लिङ्गं मनो यत्र निषिक्तमस्य" इत्यादि श्रुतेरित्यर्थः॥ 56 ॥
नन्वेवमीश्वरप्रतिषेधानुपपत्तिस्तत्राह–
ईदृशेष्वरसिद्धिः सिद्धा॥ 57 ॥
प्रकृतिलीनस्य जन्येश्वरस्य सिद्धिः, "य सर्वज्ञः सर्वलिद्यस्य ज्ञानमयं तपः" इत्यादि ( मुंड0 प्रभुं0 प्र0 खं0 मं0 9 ) श्रुतिभ्यः सर्वसम्मतैव। नित्येष्वरस्यैव विवादास्पदत्वादित्यर्थः। सूत्रद्वयमिदं व्याख्याय पारवश्यमपि प्रतिपादयति 'सहीति ' सूत्रेण । स हि परः पुरुषसामान्यं सर्वज्ञानशक्तिमत् सर्वकर्तृताशक्तिमच्च। अयस्कान्तवत् सन्निधिमात्रेण प्रेरकत्वादित्यर्थः।तदा चासमाप्तार्थ पुरुषसान्निध्यात् तदर्थमन्येच्छाऽनधीनाया अपि प्रकृतेः प्रवृत्तिरावश्यकीति ॥
नन्वेवमीश्वरप्रतिषेधविरोधस्तत्राह– ईदृशेश्वरसिद्धिः सिद्धा॥ सान्निध्यमात्रेणेश्वरस्य सिद्धिस्तु श्रुतिस्मृतिषु सर्वसम्मतेत्यर्थः॥
अङ्गुष्टमात्रः पुरुषो मध्य आत्मनि तिष्टति ।
ईशानो भूतभव्यस्य न ततो विभुरश्नुते॥
सृजते च गुणान् सर्वान् क्षेत्रज्ञस्त्वनुपश्यति।
गुणात् विक्रियते सर्वानुदासीनवदीश्वरः॥
इत्यादिश्रुतिस्मृतयश्चैतादृशेश्वरे प्रमाणमिति॥ 57 ॥
द्वितीयाध्यायादिमारभ्यैतावत्पर्यन्तं सूत्रव्यूहैः प्रधानसृष्टिः समापिता । इतः परं मोक्षोपपत्त्यर्थं प्रधानलृष्टेर्ज्ञानिपुरुषां प्रत्यत्यन्तनिवृत्तिरत्यन्तलयाख्या वक्तव्या। तदुपपत्त्यर्थमादौ प्रधानसृष्टेः प्रयोजनं द्वितीयाध्यायस्यादिसूत्रे दिङ्मात्रेणोक्तं विस्तरतः प्रतिपादयति–
प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वादुष्ट्र-
कुङ्कुमवहनवत् ॥ 58 ॥
प्रधानस्य स्वत एव सृष्टिर्यद्यपि तथापि परार्थमन्यस्य भोगाऽपवर्गार्थम्। यथोष्ट्रस्य कुङ्कुमवहनं स्वाम्यर्थम्। कुतः? अभोक्तृत्वादचेतनत्वेन भोगापवर्गासम्भवादित्यर्थः। ननु विमुक्तमोक्षार्थं स्वार्थं वेत्यनेन स्वार्थापि सृष्टिरक्तेन चेत् । सत्यम्। तथापि पुरुषार्थतां विना स्वार्थताऽपि न सिद्ध्यति । स्वार्थो हि प्रधानस्य कृतभोगापवर्गात् पुरुषादात्मविमोक्षणमिति। ननु भृत्यतुल्या चेत् प्रकृतिस्तर्हि कथं स्वामिनो दुःखार्थमपि प्रवर्तत इति चेन्न । सुखार्थप्रवृत्त्यैव नान्तरीयकदुःखसम्भवाद् दुष्टभृत्यतुल्यत्वाद्वेति ॥ 58 ॥
ननु प्रदानस्याचेतनस्य स्वतः स्रष्टत्वमेव नोपपद्यते रथाद्ः परप्रयत्नेनैव प्रवृत्तिदर्शनादिति , तत्राह–
अचेतनत्वेऽपि क्षीरवच्तेष्टितं प्रधानस्य ॥ 59 ॥
यता क्षीरं पुरुषप्रयत्ननैरपेक्ष्येण स्वयमेव दधिरूपेणपरिणमते। एवमचेतनत्वेऽपि परप्रयत्नं विनापि महदादिरूपपरिणामः प्रधानस्य भवतीत्यर्थः।" धेनुवद्वत्साये'त्यनेन सूत्रेणास्य न पौनरुक्त्यम्। तत्र करण प्रवृत्तेरेव विचारितत्वात् धेनीनां चेतनत्वाच्चेति ॥ 59 ॥
दृष्टान्तान्तरप्रदर्शनपूर्वकमुक्तार्थहेतुमाह–
कर्मवद् दृष्टेर्वा कालादेः॥ 60 ॥
कालादेः कर्मवद्वा स्वतः प्रधानस्य चेष्टितं सिद्ध्यति, दृष्टत्वात्। अथैको गच्छति\[अत्रायमभिसंधिः--यथैकस्य सूर्यस्य गतिविशेषमनुरुद्ध्या वसंतग्रीष्मादिषङ्ऋतवः श्रुतिषु प्रतिपादिताः, न किंतु आदित्य एव सर्वं कारणम्। एतदेव शतपथब्राह्मणे स्पष्टं प्रतिपादितम्, सा चेयम् श्रुतिः--"आदित्यो वा सर्व ऋतवः यदोदेति तदा वसंतः, यदा संगवोऽथ ग्रीष्मः-- यदा मध्यंदिनोऽथ वर्षा, यदापराह्णोऽथ हेमन्तशिशिरौ' इति ॥\] ऋतुरितरश्च प्रवर्तत इत्यादिरूपं कालादिकर्म स्वत एव भवत्येवं प्रधानस्यापि स्यात्। कल्पनाया दृष्टानुसारित्वादित्यर्थः
॥ 60 ॥
ननु तथापि ममेदं भोगादिसाधनमिति प्रतिसन्धानाभावान्मूढायाः प्रकृतेः कदाचित् प्रवृत्तिरपि न स्याद् विपरीता च प्रवृत्तिः स्यात् । तत्राह–
स्वभावाच्चेष्टितमनभिसन्धानाद् भृत्यवत्॥ 61 ॥
यथा प्रकृष्टभृत्यस्य स्वभावात् संस्कारादेव प्रतिनियताऽऽवश्यकी च स्वामिसेवा प्रवर्तते, न तु स्वभोगाभिप्रायेण, तथैव प्रकृतेश्चेष्टितं संस्कारादेवेत्यर्थः॥ 61 ॥
कर्माकृष्टेर्वादितः ॥ 62 ॥
वाशब्दाऽत्र समुच्चये । यतः कर्मानाद्यतः कर्मभिराकर्षणादपि प्रधानस्यावश्यकी व्यवस्थिता च प्रवृत्तिरित्यर्थः॥ 62 ॥
तदेवं प्रधानस्य परार्थतः स्रष्ट्टत्वे सिद्धे परप्रयोजनसमाप्तौ स्वत एव प्रधाननिवृत्त्या मोक्षः सिद्ध्यतीत्याह प्रघट्टकेन –
विविक्तबोधात् सृष्टिनिवृत्तिःप्रधानस्य
सृदवत् पाके ॥ 63 ॥
विविक्तपुरुषज्ञानात् परवैराग्येण पुरुषार्थसमाप्तौ प्रधानस्य सृष्टिर्निवर्तते। यथा पाके निष्पन्ने पावकस्य व्यापारो निवर्तत इत्यर्थः। इवमेवात्यन्तिकप्रलय इत्युच्यते। तथा च श्रुतिः–तस्याभिध्यानाद्योजनात् तत्त्वभावाद् भूयश्चान्तेविश्वमायानिवृत्ति’रिति ॥ 63 ॥
नन्वेवमेकपुरुषस्योपाधौ विवेकज्ञानोत्पत्त्यै प्रकृतेः सृष्टिनिवृत्तौ सर्वमुक्तिप्रसङ्ग इति, तत्राह–
इतर इतरवत् तद्दोषात्॥ 64 ॥
इतरस्तु विविक्तबोधरहित इतरवद् बद्धवदेव प्रकृत्या तिष्ठति। कुतः? तद्दोषात् । तस्य प्रधानस्यैव तत्पुरुषार्थसमापानाख्यदोषादित्यर्थः। तदुक्तं योगसूत्रे--" कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्" इति
( साधनपा0 सू0 22 ) तथा च पूर्वसूत्रे या प्रधाननिवृत्तिरुक्ता सा विविक्तबाद्धृपुरुषं प्रत्येवेति भावः। विश्वमायाश्रुतिरपि ज्ञानिनं प्रत्येव मन्तव्या। ‘अजा’ मिति श्रुत्यैकवाक्यत्वादिति ॥ 64 ॥
सृष्टिनिवृत्तेः फलमाह–
द्वयोरेकतरस्य वौदासीन्यमपवर्गः ॥ 65 ॥
द्वयोः प्रधानपुरुषयोरेवौदासीन्यमेकाकिता । परस्परवियोग इति यावत् । सोऽपवर्गः। अथवा पुरुषस्यैव कैवल्यम्। अहं मुक्तः स्यामित्येव पुरुषार्थतादर्शनादत्यर्थः॥ 65 ॥
नन्वेकपुरुषमुक्तावेव विवेकाकारवृत्त्या विरक्ता प्रकृतिः कथमन्यपुरुषार्थं पुनः सृष्टौ प्रवर्ततैम् । न च प्रकृतेरंशभेदान्नैव दोष इति वाच्यम्। मुक्तपुरुषोकरणैरपि पृथिव्यादिभिरन्यस्य भोग्यसृष्चिदर्शनादिति। तत्राह–
अन्यसृष्ट्युपरागेऽपि न विरज्यते, प्रबुद्ध-
रज्जुतत्त्वस्येवोरगः॥ 66 ॥
एकस्मिन् पुरुषे विविक्तबोधाद्विरक्तमपि प्रधानं नान्यस्मिन् पुरुषे सृष्ट्युपरागाय विरक्तं भवति, किन्तु तं प्रति सृजत्येव । यथा प्रबुद्धरज्जुतत्त्वस्यैवोरगो भयादिकं न जनयति मूढं प्रति तु जनयत्येवेत्यर्थः। उरागतुल्यत्वं च प्रधानस्य रज्जुतुल्ये पुरुषे समारोपणादिति। एवंविधं रज्जुसर्पादिदृष्टान्तानामाशयमबुद्ध्वैवाऽबुधाः केचिद्वेदान्तिब्रुवाः प्रकृतेरत्यन्ततुच्छत्वं मनोमात्रत्वं वा तुलयन्ति। एतेन प्रकृतिसत्यतावादिसाङ्ख्योक्तदृष्टान्तेन श्रुतिस्मृत्यर्था बोधनीयाः, न केवलं दृष्टान्तवत्त्वेनायमर्थः सिद्ध्यति ॥ 66 ॥
कर्मनिमित्तयोगाच्च ॥ 67 ॥
सृष्टौ निमित्तं यत् कर्म तस्य सम्बन्धादप्यन्यपुरुषार्थं सृजतीत्यर्थः॥ 67 ॥
ननु सर्वेषां पुरुषाणामप्रार्थकतया नैरपेक्ष्याविशेषेऽपि कञ्चित् प्रत्येव प्रधानं प्रवर्तते, कञ्चित् प्रति निवर्तत इत्यत्र किं नियामकम्। न च कर्म नियामकम् । कस्य पुरुषस्य किं कर्मेत्यत्र नियामकाभावादिति। तत्राहा–
नैरपेक्ष्ये प्रकृत्युपकारेऽविवेको निमित्तम्॥ 68 ॥
पुरुषाणांनैरपेक्ष्येऽर्ययं मे स्वाम्ययमेवाहमित्यविवेकैदेव प्रकृतिः सृष्ट्यादिभिः पुरुषानुपकरोतीत्यर्थः। तथा च यस्मै पुरुषायात्मानमविविच्य दर्शयितुं
वासना वर्तते तं प्रधानं प्रवर्तत इत्येव नियामकमति भावः॥ 68 ॥
प्रवृत्तिस्वभावत्वात् कथं विवेकेऽपि निवृत्तिरुपप्द्यतां, तत्राह–
नर्तकीवत् प्रवृत्तस्यापि निवृत्तिश्चारितार्थ्यात् ॥ 69 ॥
पुरुषार्थमेव प्रधानस्य प्रवृत्तिस्वभावो, न तु सामान्येन । अतः प्रवृत्तम्यापि प्रधानस्य पुरुषार्थसमाप्तिरुपरिचारितार्थत्वे सति निवृत्तिर्युक्ता। यथा परिषद्भयो नृत्यदर्शनार्थं प्रवृत्त्ताया नर्तक्यास्तत्सिद्धौनिवृत्तिरित्यर्थः॥ 69 ॥
निवृत्तौ हेत्वन्तरमाह—
दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् ॥ 70 ॥
पुरुषेण परिणामित्वदुःखात्मकत्वादिदोषदर्शनादपि लज्जितायाः प्रकृतेः पुनर्न प्रत्युपसर्पणं कुलवधूवत् । यथा स्वामिना मे दोषो दृष्ट इत्यवधारणेन लज्जिता कुलवधीर्न स्वामिनमुपसर्पति तद्वदित्यर्थः। तदुक्तं नारदीये--
सविकारापि मौढ्येन चिरं भुक्त्वा गुणात्मना।
प्रकृतिर्ज्ञातदोषेयं लज्जयेव निवर्तते ॥ इति ॥
एतदेवोक्तं कारिकयापि–
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ इति ॥ 70 (इश्व 0 61 )
ननु पुरुषार्थं चेत् प्रधानप्रवृत्तिस्तर्हि बन्धमोक्षाभ्यां पुरुषस्य परिणामापत्तिरिति तत्राह–
नैकान्ततो बन्धमोक्षो पुरुषस्याविवेकादृते ॥ 71 ॥
दुःखयोगवियोगरूपौ बन्धमोक्षौ पुरुषस्य नैकान्ततस्तत्त्वतः, किन्तु चतुर्थसूत्रवक्ष्यमाणप्रकारेणाविवेकादेवेत्यर्थः॥ 71 ॥
परमार्थतस्तु यथोक्तौ बन्धमोक्षौ प्रकृतेरेवेत्याह–
प्रकृतेराञ्जस्यात् ससङ्गत्वाकत् पशुवत् ॥ 72 ॥
प्रकृतेरेव तत्त्वतो दुःखेन बन्धमोक्षो ससङ्गत्वाद् दुःखसाधनैर्धर्मादिभिर्लिप्तत्वात् । यथा पशुः रज्ज्वा लिप्ततया बन्धमोक्षभागी तद्वदित्यर्थः। एतदुक्तं कारिकया--
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति पुरुषः।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः॥ इति ॥ ( इश्व062)
' द्वयोरेकतरस्य वौदासीन्यमपवर्ग' इति सूत्रे च यः पुरुषस्यापवर्ग उक्तः स प्रतिबिम्बरूपस्य मिथ्यादुःकस्य वियोग एवेति ॥ 62 ॥
तत्र कैः साधनैर्बन्धः कैर्वा मोक्ष इत्याकाङ्क्षायामाह--
रूपैः सप्तभिरात्मानं बध्नाति प्रधानं कोश-
कारवद्विमोचयत्येकरूपेण ॥ 73 ॥
धर्मवैराग्यैश्वर्यधर्माज्ञानावैराग्यानैश्वर्यैः सप्तभी रूपधर्मैर्दुःखहेतुभिः प्रकृतिरात्मानं दुःखेन बध्नाति, कोशकारवत् । कोशकारकृतिर्यथा स्वनिर्मितेनावासेनात्मानं बध्नाति तद्वत् । सैव च प्रकृतिरेकरूपेण ज्ञाननैवात्मानं दुःखान्मोचयतीत्यर्थः॥ 73 ॥
ननुबन्धमुक्ती अविवेकादिति यदुक्तं, तदयुक्तम्। अविवेकस्याहेयानुपादेयत्वात्। लोके दुःखस्य तदभावसुखादेरेव च स्वतो हेयोपादेयत्वात् । अन्यथा दृष्टहानिरित्याशङ्क्य चतुर्थसूत्रोक्तं स्वयं विवृणोति–
निमित्तत्वमविवेकस्य न दृष्टहानि ः ॥ 74 ॥
अविवेकस्य पुरुषेषु बन्धमोक्षनिमित्तत्वमेव पुरोक्तं, न त्वविवेक एव ताविति नातो दृष्टहानिरित्यर्थः। एतच्च प्रथमाध्यायसूत्रेषु स्पष्टम्।
अविवेकनिमित्तात् प्रकृतिपुरुषयोः संयोगः। तस्माच्च संयोगादुत्पद्यमानस्य प्राकृतदुःखस्य पुरुषे यः प्रतिबिम्बः स ए दुःखभोगो दुःखसम्बन्धस्तन्निवृत्तिरेव च मोक्षाख्यः पुरुषार्थ इति ॥ 74 ॥
तदेवमादिसर्गमारभ्यात्यन्तिकलयपर्यन्तोऽखिलपरिणामः प्रधानतद्विकाराणामेव। पुरुषस्तु कबटस्थपूर्णचिन्मात्र एवेत्यध्यायद्वयेन विस्तरतो विवेचितम्। तस्य विवेकस्य निष्पत्त्युपायेषु सारभूतमभ्यासमाह–
तत्त्वाभ्यासान्नेति नेतीति त्यागाद्विवेकसिद्धिः॥ 75 ॥
प्रकृतिपर्यन्तेषु जडेषु नेति नेतीत्यभिमानत्यागरूपात् तत्वाऽभ्यासाद्विवेकनिष्पत्तिर्भवति। इतरत सर्वमभ्यासस्याङ्गमात्रमित्यर्तः। तथाच श्रुतिः--"अथात आदेशो नेति नेति । न ह्येतस्मादिति नेत्यन्यत् परमस्ति स एष आत्मा नेति नेति" इत्यादिरिति ॥
अव्यक्ताद्यविशेषान्ते विकारेऽस्मिंश्च वर्णिते ।
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ।. इति ॥
यथा–
अस्मिस्थूणं स्नायुयुतं मांसशोणितलेपनम्।
चर्मावनद्धं दुर्गान्धिपूर्णं रोगायतनमातुरमा।
रजस्वलमसन्निष्ठं भूतावासमिमं त्यजेत्।
नदीकीलं यथा वृक्षो वृक्षं वा शकुनिर्यथा।
तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद्विमुच्यते॥ इति ॥
एतदेव कारिकयाऽप्युक्तम्–
एवं तत्त्वाभ्यासान्नास्मि मे नाहमित्यपरिशेषम्।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥ इति ॥ (ईश्व0 का0 64)
नास्मात्यात्मनः कर्तृत्वनिषेधः । न मे इति सङ्गनिषेधः । नाहमिति तदात्म्यनिषेध। केवलमित्यस्य विवरणम्, अविपर्ययाद्विशुद्धमिति । अतोऽन्तरा विपर्ययेण विप्लुतमित्यर्थः। इदमेव केवलत्वं सिद्धिशब्देन सूत्रे प्रोक्तम्। “विवेकश्यातिरविप्लवा हानोपायः” ( स0 पा0 सू0 26 ) इति योगसूत्रेणैतादृशज्ञानस्यैव मोक्षहेतुत्वसिद्धिरिति॥ 75 ॥
विवेकसिद्धौ विशेषमाह–
अधिकारिप्रभेदान्न नियमः॥ 76 ॥
मन्दाद्यधिकारिभेदसत्त्वाद् अभ्यासे क्रियमाणेऽप्यस्मिन्नेव जन्मनि विवेकनिष्पत्तिर्भवतीति नियमो नास्तीत्यर्थः। अत उत्तमाधिकारमभ्यासपाटवेनात्मनः सप्मादयेदिति भावः॥ 76 ॥
विवेकनिष्पत्त्यैव निस्तारो, नान्यथेत्याह–
बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः ॥ 77 ॥
सकृत्सम्प्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यविवेकावस्थो मध्यमविवेकेऽपि सति पुरुषे बाधितानामपि दुःखादीनां प्रारब्धवशात् प्रतिबिम्बरूपेण पुरुषेऽनुवृत्त्या बोगो भवतीत्यर्थः। विवेकनिष्पत्तिश्चापुनरुत्थानाद् असम्प्रज्ञानादेव भवतीत्यतस्तस्यां सत्यां न भोगोऽस्तीति प्रतिपादयितुं मद्यविवेकत इत्युक्तम्। मन्दविवेकस्तु साक्षात्कारात् पूर्वं श्रवणमननध्यानमात्ररूप इति विभागः॥ 77 ॥
जीवन्मुक्तश्च ॥ 78 ॥
जीवन्मुक्तोऽपि मध्यविवेकावस्थ एव भवतीत्यर्थः॥ 78 ॥
जीवन्मुक्ते प्रमाणमाह–
उपदेश्योपदेष्ट्टत्वात् तत्सिद्धिः ॥ 79 ॥
शास्त्रेषु विवेकविषये गुरुशिष्यभावश्रवणज्जीवन्मुक्तसिद्धिरित्यर्थः।
जीवन्मुक्तस्यैवोपदेष्ट्टत्वसम्भवादिति ॥ 79 ॥
श्रुतिश्च॥ 80 ॥
श्रुतिश्च जीवन्मुक्तेऽस्ति--
दीक्षयैव नरो मुच्येत् तिष्ठेन्मुक्तोऽपि विग्रहे।
कुलालचक्रमध्यस्थो विच्छिन्नोऽपि भ्रमेद् घटः॥
'ब्रह्मैव सन् ब्रह्माप्येती'त्यादिरिति ॥ नारदीयस्मृतिरपि--
पूर्वभ्यासबलात् कार्ये न लोको न च वैदिकः।
अपुण्यपापः सर्वात्मा जीवन्मुक्तः स उच्यते॥ इति ॥ 80 ॥
ननु श्रवणमात्रेणाप्युपदेष्टत्वं स्यात्, तत्राह–
इतरथान्धपरम्परा ॥ 81 ॥
इतरथा मन्दविवेकस्याप्युपदेष्टत्वेऽन्धपरम्परापत्तिरित्यर्थः। सामग्व्येणात्मतत्त्वमज्ञात्वा चेदुपदिशेत् कस्मिंश्चिदंशे स्वभ्रमेण शिष्यमपि भ्रान्तीकुर्यात्। सोऽप्यन्यं सोऽप्यन्यंमित्येवमन्धपरम्परेति॥ 81 ॥
ननु ज्ञानेन कर्मक्षये सति कथं जीवनं स्यात्, तत्राह–
चक्रभ्रमणवद् धृतशरीरः ॥ 82 ॥
कुलालकर्मनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव कियत्कालं चक्रं भ्रमति, एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं शरीरं धृत्वाजीवन्मुक्तस्तिष्ठतीत्यर्थः॥ 82 ॥
ननु ज्ञानहेतुसम्प्रज्ञातयोगेन भोगादिवासनाक्षये कथं शरीरधारणम्। न च योगस्य संस्काराभिभावकत्वे किं मौनमिति वाच्यम्। ‘व्युत्थाननिरोधसंस्कारयोरभिभावप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोध परिणाम’ इति ( वि0पा09) योगसूत्रतस्तत्सिद्धेः। चिरकालीनस्य विषयान्तरावेशस्य विषयान्तरसंस्काराभिभावकतया लोकेऽप्यनुभवाच्चेति तत्राह–
संस्कारलेशतस्तत्साद्धिः ॥ 83 ॥
शरीरधारणहेतवो ये विषयसंस्कारास्तेषामल्पावशेषात् तस्य शरीरधारणस्य सिद्धिरित्यर्थः। अत्र चाविद्यासंस्कारलेशस्य सत्ता नापेक्ष्यते। अविद्याया जन्मादिरूपकर्मविपाकाऽऽरम्भमात्रे हेतुत्वात् । योगभाष्ये व्यासैस्तथा व्याख्यातत्वात् । वीतरागजन्मादर्शनादिति न्यायाच्च। न तु
प्रारब्धफलककर्मभोगेऽपीति । यत्र च नियमेनाविद्यापेक्ष्यते स प्रयासविशेषरूपो भोगो मूढेष्वेवास्ति । जीवन्मुक्तानां तु भोगाभास एवेति प्रागुक्तम्। यत्तु कश्चिदविद्यासंस्कारलेशोऽपि जीवन्मुक्तस्य तिष्ठतीत्याह। तन्न । धर्माधर्मोत्पत्तिप्रसङ्गत् अन्धपरम्पराप्रसङ्गात्। अविद्यासंस्कारलेशसत्ताकल्पने प्रयोजनाभावाच्च । एतच्च ब्रह्ममीमांसाभाष्ये प्रपञ्चितमिति ॥ 83 ॥
शास्त्रवाक्यार्थमुपसंहरति–
विवेकान्निःशेषदुःखनिवृत्तौ कृतकृत्यता
नेतरान्नेतरात् ॥ 84 ॥
उक्ताया विवेकसिद्धितः परवैराग्यद्वारा सर्ववृत्तिनिरोधेन यदा निःशेषतो बाधिताबाधितसाधारण्येनाखिलदुःखं निवर्त्ते तदैव पुरुषः कृतकृत्यो भति । नेतराज्जीवन्मुक्त्यादेरपीत्यर्थः। नेतरादिति वीप्साऽध्यायसमाप्तौ ॥ 84 ॥
अत्यन्तलयपर्यन्तः कार्योऽव्यक्तस्य नात्मनः॥
प्रोक्त एवं विवेकोऽत्र परवैराग्यसाधनम्॥ 1 ॥
इति श्रीविज्ञानभिक्षुनिर्मिते कापिलसाङ्ख्यप्रवचनस्य
भाष्येवैराग्याध्यायस्तृतीयः॥ 3॥
*****************
अथ चतुर्थोऽध्यायः॥ 4 ॥
शास्त्रसिद्धाख्यायिकाजातमुखेनेदानीं विवेकज्ञानसाधनानि प्रदर्शनीयानीत्येतदर्थं चतुर्थाध्याय आरभ्यते।
राजपुत्रवत् तत्त्वोपदेशात् ॥ 1 ॥
पूर्वपादशेषसूत्रस्थविवेकोऽनुवर्त्तते । राजपुत्रस्येव तत्त्वोपदेशाद्विवेको जायत इत्यर्थःष अत्रेयमाख्यायिका--कश्चिद्राजपुत्रो गण्डर्क्षजन्मनापुरान्निःसारितः शबरेण केनचित् पोषितोऽहं शबर इत्यभिमन्यमान आस्ते। त जीवन्तं ज्ञात्वा कश्चिदमात्यः प्रबोधयति-- न त्वं शबरो राजपुत्रोऽसीति । स यथा झटित्येव चाण्डालाभिमानं त्यक्त्वा तात्त्विकं राजभावमेवालम्बते राजाहमस्मीति । एवमेवादिपुरुषात् परिपूर्णचिन्मात्रेमाभिव्यक्तादुत्पन्नस्त्वं तस्यांश इति कारुणिकोपदेशात् प्रकृत्यभिमानं त्यक्त्वा ब्रह्मपुत्रत्वादहमपि ब्रह्मैव, न तु तद्विलक्षणः संसारीत्येवं स्वस्वरूपमेवालम्बत इत्यर्थः।
तथा गारुडे–
यथाकहेममणिना सर्वं हेममयं जगत् ।
तथैव जातमीशेन जातेनाप्यखिलं भवेत्॥
ग्रहाविष्टो द्विजः कश्चिच्छूद्रोऽहमिति मन्यते।
ग्रहनाशात् पुनः स्वीयं ब्रह्मण्यं मन्यते यथा॥
मायाविष्टस्तथा जीवो देहोऽहमिति मन्यते।
मायानाशात् पुनः स्वीयं रूपं ब्रह्मास्मि मन्यते॥ इति ॥ 1 ॥
स्त्रीशूद्रादयोऽपि ब्राह्मणेन ब्राह्मणस्योपदेशं श्रुत्वा कृतार्थाः स्युरित्ये तदर्थमाख्यायिकान्तरं दर्शयति–
पिशाचवदन्यार्थोपदेशेऽपि ॥ 2 ॥
अर्जुनार्थं श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समापस्थस्य पिशाचस्य विवेकज्ञानं जातमेवमन्येषामपि भवेदित्यर्थः॥ 2 ॥
यदि च सकृदुपदेशाज्ज्ञानं न जायते तदोपदेशावृत्तिरपि कर्त्तव्येतीतिहासान्तरेणाह–
आवृत्तिरसकृदुपदेशात् ॥ 3॥
उपदेशावृत्तिरपि कर्तव्या। छान्दोग्यादौ श्वेतकेत्वादिकं प्रत्यारुणिप्रभृतीनासकृदुपदेशेहासादित्यर्थः॥ 3 ॥
वैराग्यार्थं निदर्शनपूर्वकमात्मसङ्घातस्य भङ्गुरत्वादिकं प्रतिपादयति–
पितापुत्रवदुभयोर्दृष्टत्वात्॥ 4 ॥
स्वस्य पितापुत्रयोरिवात्मनोऽपि मरणोत्पत्त्योर्दृष्टत्वादनुमितत्वाद्वैराग्येण विवेको भवतीत्यर्थः। तदुक्तम्--
आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ॥ इति ॥ 4 ॥
इतः परमुत्पन्नज्ञानस्य विरक्तस्य च ज्ञाननिष्पत्त्यङ्गान्याख्यायिकोक्तदृष्टान्तैर्दर्शयति–
श्येनवत् सुखदुःखी त्यागवियोगाभ्याम्॥ 5 ॥
परिग्रहे न कर्तव्यो यतो द्रव्याणां त्यागेन लेकः सुखी वियोगेन च दुःखी भवति श्येनवदित्यर्थः। श्येनो हि सामिषः केनाप्यपहत्याऽऽमिषाद्वियोज्य दुःखी क्रियते । स्वयं त्यजति तदा दुःखाद्विमुच्यते। तदुक्तम्-
सामिषं कुररं जघ्नुर्बलिनोऽन्ये निरामिषाः।
तदामिषं परित्यज्य स सुखं समविदन्त ॥ इति ॥
तथा मनुनाऽप्युक्तम्–
नदीकुलं यथा वृक्षो वृक्षं वा शकुनिर्यथा।
तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद्विमुच्यते॥
( इति म0 स्म-0 अ0 6 श्लो0 78 ) ॥ 5 ॥
अहिनिर्ल्वायिनीवत् \[ अत्र चोभाभ्यां सूत्राभ्यां ब्रह्मोपासकस्य देहत्यागसमये आरब्धदेहस्य कर्मणः भोगेनैव नाशात् तत्र देहत्यक्तुर्दैविध्यम् दर्शयति। आद्येन च यः कर्माधीनं देहपतनमपेक्षते सः 'नदीकूलं यथा' इत्यादि दृष्टान्तेन दर्शितः। द्वितीयेन च ज्ञानकर्मसमुच्चयात् भीष्मादय इव स्वाधीनमृत्युरपि स्वेच्छयैव देहं त्यजति तदेव 'वृक्षं वा शकुनिर्यथा' इत्यादि दृष्टान्तेन प्रतिपादितम् । तदेव च भगवद्गीतायां प्रतिपादितम्--
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरा पराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥\] ॥ 6 ॥
यथाहिर्जीर्णां त्वचं परित्यज्यनायासेन हेयबुध्या, तथैव मुमुक्षुः प्रकृतिं बहुकालोपभुक्तां जीर्णां हेयबुध्या त्यजेदित्यर्थः। तदुक्तम्--'जीर्णात्वचमिवोरग' इति ॥ 6 ॥
त्यक्तं च प्रकृत्यादिकं पुनर्न स्वीकुर्यादित्यत्राह–
ढिन्नहस्तवद्वा॥ 7 ॥
यथा छिन्नं हस्तं पुनः कोऽपि नादत्ते तथैवैतत् त्यक्तं पुनर्नाभिमन्येतेत्यर्थः। वाशब्दोऽप्यर्थे॥ 7 ॥
असाधनानुचिन्तनं बन्धाय भरतवत् ॥ 8 ॥
विवेकस्य यदन्तरङ्गसाधनं न भवति , चेद्धर्मोऽपि स्यात् तथापि तदनुचिन्तनं तदनुष्ठाने चित्तस्य तात्पर्य्यं न कर्तव्यं, यतस्तद् बन्धाय भवति विवेकविस्मारकतया भारतवत्। यथा भरतस्य राजर्षेर्धर्म्यमपि दीनानाथहरिणशावकस्य पोषणमित्यर्थः। तथा च जडभरतं प्रकृत्य विष्णुपुराणे--
चपलं चपले तस्मिन् दूरगं दूरगामिनि ।
आसीच्चेतः समासक्तं तस्मिन् हरिणपोतके ॥ इति ॥ 8 ॥
बहुभिर्योगे विरोधो रागादिभिः कुमारीशङ्खवत् ॥ 9 ॥
बहुभिः सङ्गो न कार्यः। बहुभिः सङ्गे हि रागाद्यभिव्यक्त्या कलहो भवति योगभ्रंशकः । यथा कुमारीहस्तशङ्खानामन्योन्यसङ्गेन झणत्कारो भवतीत्यर्थः॥ 9 ॥
द्वाभ्यामपि तथैव ॥ 10 ॥
द्वाभ्यां योगेऽपि तथैव विरोधो भवत्यत एकाकिनैव स्थातव्यमित्यर्थः। तदुक्तम्--
वासो बहूनां कलहो भवेद्वार्ता द्वयोरपि ।
एक एव चरेत् तस्मात् कुमार्या इव कङ्कणम्॥ इति ॥ 10 ॥
आशा वै वश्यविरसे चित्ते सन्तोषवर्जिते ।
म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति ॥
इति वचनान्निराशता योगिनानुष्ठेयेत्याह–
निराशः सुखी पिङ्गावत् ॥ 11 ॥
आशां त्यकत्वा पुरुषः सन्तोषाख्यसुखवान् भूयात् पिङ्गावत्। यथा पिङ्गला नाम वेश्या कान्तार्थिनी कान्तमलब्ध्वा निर्विण्णा सती विहायाशां सुखिनी बभूव, तद्वदित्यर्थः। तदुक्तम्--
आशा हि परमं दुःखं नैराश्यं परमं सुखम्।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला॥ इति ॥
नन्वाशानिवृत्त्या दुःखनिवृत्तिः स्यात्। सुखं तु कुतः? साधनाभावादिति । उच्यते । चित्तस्य सत्त्वप्राधान्येन स्वाभाविकं यत्
सुखमाशया पिहितं तिष्ठति तदेवाशाविगमे लब्धवृत्तिकं भवति। तेजःप्रतिबद्धजलशैत्यवदिति न तत्र साधनापेक्षा। एतदेव चार्थे सुखमित्युच्यत इति ॥ 11 ॥
योगप्रतिबन्धकत्वादारम्भोऽपि भोगार्थं न कर्तव्योऽन्यथैव तदुपपत्तेरित्याह–
अनारम्भेऽपि परगृहे सुखी सर्पवत् ॥ 12 ॥
सुखी भवेदिति शेषः। शेषं सुगमम् । तदुक्तम्--
गृहरम्भो हि दुःखाय न सुखाय कथञ्चन।
सर्पःपरकृतं वेश्म प्रविश्य सुखमेधते ॥ 12 ॥
शास्त्रेभ्यो गुरुभ्यश्च सार एव ग्राह्योऽन्यथाभ्युपगमवादादिभिरंशतोऽसारभागेऽन्योन्यविरोधेनार्थबाहुल्येन चैकाग्रताया असम्भवादित्याह–
बहुशास्त्रगुरुपासनेऽपि सारादानं षट्पदवत्॥ 13 ॥
कर्त्तव्यमिति शेषः। अन्यत् सुगमम्। तदुक्तम्--
अमुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः।
सर्वतः सारमादद्यात् पुष्येभ्य इव षट्पदः॥ इति ॥
मार्कण्डेयपुराणे च–
सारभूतमुपासीत ज्ञानं यत् स्वार्थसाधकम्।
ज्ञानानां बहुता यैषा योगाविध्नकरी हि सा ।
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत्। असौ कल्पसहस्त्रेषु नैव ज्ञानमवाप्नुयात्
॥ इति ॥ 13 ॥
साधनान्तरं यथा तथा भवतु, एकाग्रतयैव समाधिपालनद्वारा विवेकसाक्षात्कारो निष्पादनीय इत्याह–
इषुकारवन्नैकचित्तस्य समाधिहानिः॥ 14 ॥
यथा शरनिर्माणयैकचित्तस्येषुकारस्य पार्श्वे राज्ञो गमनेनाऽपि न वृत्त्यन्तरनिरोधो हीयते एवमेकाग्रचित्तस्य स्रवथाऽपि समाधिहानिर्वृत्त्यन्तरनिरोधक्षितर्भवति । ततश्च विषयान्तरसञ्चाराभावे ध्येयसाक्षात्कारोऽप्यवश्यं भवतीत्येकाग्रतां कुर्यादित्यर्थः। तदुक्तम्--
तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद्बहिरन्तरं वा।
यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे॥ इति ॥ 14 ॥
सत्यां शक्तौ ज्ञानबलाच्छास्त्रकृतनियमो वृथा लङ्घ्यते । तदा ज्ञाना निष्पत्त्यानर्थक्यं योगिनो भवतीत्याह–
कृतनिमलङ्घनादानर्थक्यं लोकवत् ॥ 15 ॥
यः शास्त्रेषु कृतो योगिनां नियमस्तस्योल्लंघने ज्ञाननिष्पत्त्याख्योऽर्थो न भवति । लोकवत्। यथा लोके भैषज्यादौ विहितपथ्यादीनां लङ्घने तत्तत्सिद्धिर्न भवति, तद्विदित्यर्थः। अशक्त्या ज्ञानरक्षार्थं वा लङ्घने तु न ज्ञानप्रतिबन्धः.
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः।
ब्रह्मभूतश्चरल्ँलोके ब्रह्मचारीति कथ्यते॥
इति मोक्षधर्मादिभ्यः वसिष्टादिस्मृतिभ्यश्च। अत एव विष्णुपुराणादौ वृथा कर्मत्यागिन एव पाषण्डतया निन्दिताः–‘पुंसाँ जटाधारणं मौण्ड्यवतां वृथैवे’त्यादिनेति॥ 15 ॥
नियमविस्मरणेऽप्यानर्थक्यमाह–
तद्विस्मरणेऽपि भेकीवत्॥ 16 ॥
सुगमम्। भेक्याश्चेयमाख्यायिका--" कश्चिद् राजा मृगयां गतो विपिने सुन्दरीं कन्यां ददर्श। सा च राज्ञा भार्याभावाय प्रार्थिता नियमं चक्रे । यदा मह्यं त्वया जलं प्रदर्श्यते तदा मया गन्तव्यमिति । एकदा तु क्रीडया परिश्रान्ता राजानं पप्रच्छ, कुत्र जलमिति। राजापि समयं विस्मृत्य जलमदर्शयत् । ततः सा भेकराजदुहिता कामरूपिणी भेकी भूत्वा जलं विवेश। ततश्च राजा जालादिभिरन्विष्यापि न तामविन्ददि" ति ॥ 16 ॥
श्रवणवद् गुरुवाक्यमीमांसाया अप्यावश्यकत्वे इतिहासमाह–
नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते
विरोचनवत् ॥ 17 ॥
परामर्शो गुरुवाक्यतात्पर्यनिर्णायको विचारः। तं विना उपदेशवाक्यश्रवणेऽपि तत्त्वज्ञाननियमो नास्ति। प्रज्ञापतेरुपदेशश्रवणेऽपीन्द्रविरोचनयोर्मध्ये विरोचनस्य परामर्शाभावेन भ्रान्तत्वश्रुतेरित्यर्थः। अतो गुरुपदिष्टस्य मननमपि कार्यमिति । दृश्यते चेदानीमप्येकस्यैव तत्त्वमस्युपदेशस्य नानारूपैरर्थैः सम्भावना। अखण्डत्वमवैधर्म्यलक्षणाभेदोऽविभागश्चेति ॥ 17 ॥
अत एव च परामर्शो दृश्यते इत्याह–
दृष्टस्तयोरिन्द्रिस्य ॥ 18 ॥
तच्छब्देनोक्तोच्यमानयोः परामर्शः। तयोरिन्द्रविरोचनयोर्मध्ये परामर्शः इन्द्रस्य दृष्टश्चेत्यर्थः
॥ 18 ॥
तम्यगज्ञानार्थिना च गुरुसेवा बहुकालं कर्त्तव्येत्याह–
प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिर्बहुकालात्
तद्वत् ॥ 19 ॥
तद्वदिन्द्रिस्येवान्यस्यापि गुरौ प्रणतिवेदाध्ययनसेवादीन कृत्वैव सिद्धिस्तत्त्वार्थस्फूर्त्तिर्भवति, नान्यथेत्यर्थः। तथा च श्रुतिः–
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥ इति ॥ 19 ॥
न कालनियमो वामदेववत् ॥ 20 ॥
ऐहिकसाधनादेव भवतीत्यादिर्ज्ञानोदये कालनियमो नास्ति। वामदेववत् । वामदेवस्य जन्मान्तरीयसाधनेभ्यो गर्भेऽपि यथा ज्ञानोदयस्तथान्यस्यापीत्यर्थः। तथाच श्रुतिः--'तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं
मनुरभवं सबर्यश्चेति तदिदमप्येतर्हि य एवं वेदाऽहं ब्रह्मास्मीति स इदं सर्वं भवती’त्यादिरिति (बृ ह0 अ0 1 ब्रा0 4 मन्त्र10 ) । अहं मनुरभवमित्यादिकमवैधर्म्यलक्षणभेदपरं , सर्वव्यापकताख्यब्रह्मतापरं वा। ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिस्मरणात्। स इदं सर्वं भवतीति त्वौपाधिकपरिच्छेदस्यात्यन्तोच्छेदपरमिति ॥ 20 ॥
ननुसगुणोपासनाया अपि ज्ञोनहेतुत्वश्रवणात् तत एव ज्ञानं भविष्यति, किमर्थं दुष्करसूक्ष्मयोगचर्येति ? तत्राह–
अध्यस्तरूपोपासनात् पारम्पर्येण
यज्ञोपासकानामिव ॥ 21 ॥
सिद्धिरित्यनुषज्ज्यते। अध्यस्तरूपैः पुरुषाणां ब्रह्मविष्णुहरादीनामुपासनात् पारम्पर्येण ब्रह्मादिलोकप्राप्तिक्रमेण सत्त्वशुद्धिद्वारा वा ज्ञाननिष्पत्तिर्न साक्षात् । यथा याज्ञिकानामित्यर्थः॥ 21 ॥
ब्रह्मादिलोकपरम्परयापि ज्ञाननिष्पत्तौ नास्ति नियम इत्याह–
इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः॥ 22 ॥
निर्गुणात्मन इतरस्याध्यस्तरूपस्य ब्रह्मलोकपर्यन्तस्य लाभेऽप्यावृत्तिरस्ति। कुतः ? देवयानपथेन ब्रह्मलोकं गतस्यापि द्युपर्जन्यधराऽमरयोषिद्रपाग्निपञ्चके पञ्चाहुतितो जन्मश्रवणात्। छान्दोग्यपञ्चमप्रपाठके 'असौ वावलोको गौतमाग्नि' रित्यादिनेत्यर्थः। ( छांदो0 अ0 5खण्ड 4 मं0 1 ) यच्च ब्रह्मलोकादनावृत्तिवाक्यं, तत् तत्रैव प्रायेणोत्पन्नज्ञानपुरुषविषयकमिति ॥ 22 ॥
ज्ञाननिष्पत्तिर्विरक्तस्यैवेत्यत्र निदर्शनमाह–
विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् ॥ 23 ॥
विरक्तस्यैव हेयानां प्रकृत्यादीनां हानमुपादेयस्य चात्मन उपादानं भवति । यथा
दुग्धजलयोरेकीभावापन्नयोर्मध्येऽसारजलत्यागेन सारभूतक्षीरोपादानं हंसस्यैव, न तु काकादेरित्यर्थः॥ 23 ॥
सिद्धपुरुषसङ्गादप्येतदुभयं भवतीत्याह–
लब्धातिशययोगाद्वा तद्वत्॥ 24 ॥
लब्धोऽतिशयो ज्ञानकाष्ठा येन तत्सङ्गादप्युक्तं भवति हंसवदेत्रेत्यर्थः। यतालर्कस्य दत्तात्रेयसङ्गममात्रादेव स्वयं विवेकः प्रादुरभूदिति ॥ 24 ॥
रागिसङ्गो न कार्य इत्याह–
न कामचारित्वं रागोपहते शुकवत्॥ 25 ॥
रागोपहते पुरुषे कामतः सङ्गो न कर्तव्यः। शुकवत् । यथा शुकपक्षी प्रकृष्टरूप इति कृत्वा कामचारं न करोति, रूपलोलुपैर्बन्धनभयात्, तद्वदित्यर्थः॥ 25 ॥
रागिसङ्गे तु दोषमाह–
गुणयोगात् बद्धः शुकवत् ॥ 26 ॥
तेषां सङ्गे तु गुणयोगात् तदीयरागादियोगाद् बद्धः स्यात्। शुकवदेव । यथा शुकपक्षी व्याधस्य गुणै रज्जभिर्वद्धो भवति, तद्वदित्यर्थः। अथवा गुणितया गुणलोलुपैर्बजद्धो भवति, शुकवदित्यर्थः। अत्रैवोक्तं सौभरिणै--
स मे समाधिर्जलवासमित्रमत्स्यस्य सह्गात् सहसैव नष्टः।
परिग्रहः सङगकृतो ममायं परिग्रहोत्थाश्च महाविधित्साः॥ इति ॥ 26 ॥
वैराग्यस्याप्युपायम् अवधारयति द्वाभ्याम्–
न भोगाद्रागशान्तिर्मुनिवत् ॥ 27 ॥
यथा मुनेः सौभरेर्भोगान्न रागशान्तिरभूत् । एवमन्येषामपि न भवतीत्यर्थः। तदुक्तं सौभरिणैव--
आमृत्युतो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य।
मनोरथाक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि॥ इति ॥ 27 ॥
अपि तु–
दोषदर्शनादुभयोः ॥ 28 ॥
उभयोः प्रकृतितत्कार्ययोः परिणामित्वदुःखात्मकत्वादिदोषदर्शनादेव रागशान्तिर्भवति । मुनिवदेवेत्यर्थः। सौभरेर्हि सङ्गदोषदर्शनादेव सङ्गेवैराग्यं श्रूयते--
दुःखं यदेवैकशरीरजन्म तथार्द्धसंख्य तदिदं प्रसूतम्।
परिग्रहेण क्षितिपात्मजानां सुतैरनकैर्बहुलीकृतं तत्॥ इति ॥ 28 ॥
रागादिदोषोपहतस्योपदेशग्रहणेऽप्यनधिकारमाह–
न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत्॥ 29 ॥
उपदेशरूपं यज्ज्ञानवृक्षस्य बीजं तस्याङ्कुरोऽपि रागादिमलिनचित्ते नोत्पद्यते। अजवत् । यथाऽजनाम्नि नृपे भार्याशोकमलिनचित्ते वसिष्ठेनोक्तस्याऽप्युपदेशबीजस्य नाङ्कुर उत्पन्न इत्यर्थः॥ 29 ॥
किं बहुना–
नाभासमात्रमपि मलिनदर्पणवत् ॥ 30 ॥
आपातज्ञानमपि मलिनचेतस्युपदेशान्न जायते । विषयान्तरसञ्चारादिभिः प्रतिबन्धात् । यथा मलैः प्रतिबन्धन्मलिनदर्पणेऽर्थो न प्रतिबिम्बति तद्वदित्यर्थः॥ 30 ॥
यदि वा कथञ्चिज्ज्ञानं जायेत्,तथाप्युपदेशानुरूपं न भवेदित्याह–
न तज्जस्यापि तद्रूपता पङ्कजवत् ॥ 31 ॥
तस्मादुपदेशाज्जातस्यापि ज्ञानस्योपदेशानुरूपता न भवति । सामग्र्येणानवबोधात् । पङ्कजवत् । यथा बीजस्योत्तमत्वेऽपि पङ्कदोषाद् बीजानुरूपता पङ्कजस्य न भवति, तद्वदित्यर्थः। पङ्कस्थानीयं शिष्यचित्तम्॥ 31 ॥
ननु ब्रह्मलोकादिष्वैश्वर्येणैव पुरुषार्थतासिद्ध्या किमर्थमेतावता प्रयासेन मोक्षाय ज्ञाननिष्पादनं , तत्राह–
न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्धिवदुपास्य-
सिद्धिवत् ॥ 32 ॥
ऐश्वर्ययोगेऽपि कृतकृत्यता कृतार्थता नास्ति, क्षयतिशयदुःखैरनुगमात्, उपास्यसिद्धिवत् । यथोपास्यानां ब्रह्मादीनां सिद्धियोगेऽपि न कृतकृत्यता । तेषामपि योगनिद्रादौ योगाभ्यासश्रवणात्। तथैव तदुपासनया प्राप्ततदैश्वर्यस्यापीत्यर्थः॥ 32 ॥
अधाययत्रितयोक्तस्य विवेकस्यान्तरङ्गकम्॥
आख्यायिकाभिः सम्प्रोक्तमत्राध्याये समासतः॥ 1॥
इति श्रीविज्ञानभिक्षुनिर्मिते कापिलसाङ्ख्यप्रवचनस्य
भाष्ये आख्यायिकाध्यायश्चतुर्थः॥ 4 ॥
******************
अथ पञ्चमोऽध्यायः॥ 5 ॥
स्वशास्त्रसिद्धान्तः पर्याप्तः । इतः परं स्वशास्त्रे परेषां पूर्वपक्षानपाकर्तु पञ्चमाध्याय आरभ्यते । तत्रादावादिसूत्रेऽथशब्देन यन्मङ्गलं कृतं तद् व्यर्थमित्याक्षेपं समाधत्ते–
मङ्गलाचरणं शिष्टाचारात् फलदर्शना-
च्छुतितश्चेति॥ 1 ॥
मङ्गलाचरणं यत् कृतं तस्यैतैः प्रमाणैः कर्तव्यतासिद्धिरित्यर्थः। इति शब्दो हेत्वन्तराकाङ्क्षानिसारासार्थः॥ 1 ॥
ईश्वरासिद्धेरिति यदुक्तं तन्नोपपद्यते, कर्मफलदातृतया तत्सिद्धेरिति ये पू5र्वपक्षिणस्तान्निराकरोति–
नेश्वराधिष्ठते फलनिष्पात्तिः कर्मण तत्सिद्धेः॥ 2 ॥
ईश्वराधिष्ठिते कारणे कर्मफलरूपपरिणामस्य निष्पत्तिर्न युक्ता। आवश्यकेन कर्मणैव फलनिष्पत्तिसम्भवादित्यर्तः॥ 2॥
ईश्वरस्य फलदातृत्वमपि न घटत इत्याह सूत्रैः–
स्वोपकारादधिष्ठानं लोकवत् ॥ 3 ॥
ईश्वराधिष्ठातृत्वे स्वोपकारार्थमेव लोकवदधिष्ठानं स्यादित्यर्थः॥3 ॥
भवत्वीश्वरस्याप्युपकारः का क्षतिरित्याशङ्क्याह–
लौकिकेश्वरदितरथा ॥ 4॥
ईश्वरस्याप्युपकारस्वीकारे लौकिकेश्वरवदेव सोऽपि संसारी स्यात्। अपूर्णकामतया दुःखादिप्रसङ्गादित्यर्थः॥ 4 ॥
तथैव भवत्वित्याशङ्ख्याह–
पारिभाषिको वा ॥ 5 ॥
संसारसत्त्वेऽपि चेदीश्वरस्तर्हि सर्गाद्युत्पन्नपुरुषे परिभाषामात्रमस्माकमिव भवतामपि स्यात् । संसारित्वाप्रतिहतेच्छात्वयोर्विरोधान्नित्यैश्वर्यानुपपत्तेरित्यर्थः॥ 5 ॥
ईश्वरस्याधिष्ठातृत्वे बाधकान्तरमाह–
न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात्॥ 6 ॥
किञ्च रागं विना नाधिष्ठातृत्वं सिद्ध्यति । प्रवृत्तौ रागस्य प्रतिनियतकारणत्वादित्यर्थः।\[ ननु तृतीयसूत्रे यदुक्तं स्वोपकारार्थमेव लोकवदधिष्ठानमिति तदेव चास्मिन्सूत्रे 'न रागादृते तत्सिद्धि'रिति उक्तं तथा च पौनरुक्त्यमत उपकाररागयोर्भेदं दर्शयति।\]
उपकार इष्टार्थसिद्धिः, रागस्तूत्कटेच्छेति न पौनरुक्त्यम् ॥ 6 ॥
नन्वेवमस्तु रागोऽपीश्वरे, तत्राह–
तद्योगे ऽपि नित्यमुक्तः॥ 7 ॥
रागयोगेऽपि स्वीक्रियमाणे स नित्यमुक्तो न स्यात् । ततश्च ते सिद्धान्तहानिरित्यर्थः॥ 7 ॥
किञ्च प्रकृतिं प्रत्यैश्वर्य्यं प्रकृतिपरिणामभूतेच्छादिना न सम्भवति, अन्योऽन्याश्रयात्। नित्येच्चादिकं
च प्रकृतौ न युक्तम्, श्रुतिस्मृतिसिद्धसाम्यावस्थानुपपत्तेः। अतः प्रकारद्वयमवशिष्यते । तद्यथा–ऐश्वर्यं किं प्रधानशक्तितक्वेनास्मदभिमतानामिच्छादीनां साक्षादेव चेतनसम्बन्धात्? किं वाऽयस्कान्तमणिवत् सन्निधिसत्तामात्रेण प्रेरकत्वादिति । तत्राद्यं पक्षं दूषयति–
प्रधानशक्तेयोगाच्चेत् सङ्गापत्तिः॥ 8 ॥
प्रधानशक्तेरिच्छादेः पुरुषे योगात् पुरुषस्यापि धर्मसङ्गापत्तिः। तथाच ' स यत् तत्र पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष' इत्यादिश्रुतिविरोध इत्यर्थः ॥ 8 ॥
अन्त्ये त्वाह–
सत्तामात्राच्चेत् सर्वैश्वर्यम्॥ 9 ॥
अयस्कान्तवत् सन्निधिसत्तामात्रेण चेच्चेतनैश्वर्यं, तर्हि सर्वेषामेव तत्तत्सर्गेषु भोक्तृणां पुंसामविशेषेणैश्वर्यमस्मदभिप्रेतमेव सिद्धम्। अखिलभोक्तसंयोगादेव प्रधानेन महदादिसर्जनादिति । ततश्चैक एवेश्वर इति भवत्सिद्धान्तहानिरित्यर्थः॥ 9 ॥
स्यादेतत् । ईश्वरसाधकप्रमाणविरोधेन तेऽसत्तर्का एव, अन्यथैव विधासत्तर्कसहस्रैः प्रधानमपि बाधितुं शक्यत इति । तत्राह–
प्रमाणाभावान्न तत्सिद्धिः॥ 10 ॥
तत्सिद्धिर्नित्येश्वरे तावत् प्रत्यक्षं नास्तीत्यनुमानशब्दावेव प्रमाणे वक्तव्ये। ते च न सम्भवत् इत्यर्थः॥ 10 ॥
असम्भवमेव प्रतिपादयति सूत्राभ्याम्–
सम्बन्धाभावान्नानुमानम् ॥ 11 ॥
सम्बन्धो व्याप्तिः अभावोऽसिद्दिः। तथा च महदादिकं सकर्तृकं कार्यत्वादित्याद्यनुमानेष्वप्रयोजकत्वेन व्याप्यत्वासिद्ध्या नेश्वरेऽनुमानमित्यर्तः॥ 11 ॥
नाऽपि शब्द इत्याह–
श्रुतिरपि प्रधानकार्यत्वस्य ॥ 12 ॥
प्रपञ्चे प्रधानकार्यत्वस्यैव श्रुतिरस्ति, न चेतनकारणत्वे । यथा--
" अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः।
तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियते” त्यादिरित्यर्थः। या च ‘तदैक्षत बहु स्या’ मित्यादिश्चेतनकारणताश्रुतिः सा सर्गादावुत्पन्नस्य महत्तत्त्वोपाधिकस्य महापुरुषस्य जन्यज्ञानपरा । किं वा बहुभवनानुरोधात् प्रधान एव कूलं पिपतिषतीतिवद् गौणी । अन्यथा ‘साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुत्युक्तापरिणामित्वस्य पुरुषेऽनुपपत्तेरिति । अयं चेश्वरप्रतिषेध ऐश्वर्ये वैराग्यार्थमीश्वरज्ञानं विनाऽपि मोक्षप्रतिपादनार्थं च प्रौढवादमात्रमिति प्रागेव व्याक्यातम्। अन्यता जीवव्यावृत्तस्येश्वरनित्यत्वादेर्गौणत्वकल्पनागौरवम्। औपाधिकानां नित्यज्ञानेच्चादीनां महदादिपरिणामानां चाङ्गीकारेण कौचस्थ्याद्युपपत्तेरित्यादिकं ब्रह्ममीमांसायां द्रष्टव्यमिति ॥ 12 ॥
नाविद्यातो बन्ध इति यत् सिद्दान्तितं प्रथमपादे, तत्र परमतं विस्तरतः प्रघट्टकेन दूषयति–
नाविद्याशक्तियोगो निःसङ्गस्य ॥ 13 ॥
परे प्राहुः-- प्रधानं नास्ति, किन्तु ज्ञाननाश्यानाद्यविद्याऽऽक्या शक्तिश्चेतने तिष्ठति। तत एव
चेतनस्य बन्धस्तन्नाशे च मोक्ष–इति । तत्रेदमुच्यते। निःसङ्गुतया चेतनस्याविद्याशक्तियोगः साक्षान्न सम्भवतीति। अविद्या ह्यन्यस्मिँस्तदाकारता । सा च विकारविशेषोऽधिकारहेतुसंयोगरूपं सङ्गं विना न सम्भवतीत्यर्थः॥ 13 ॥
नन्वविद्यावशादेवाविद्यायोगो वक्तव्यः, तथा चापारमार्थिकत्वान्न तया सङ्ग इति, तत्राह–
तद्योगे तत्सिद्धावन्योन्याश्रयत्वम्॥ 14 ॥
अविद्यायोगादिविद्यासिद्धौ चान्योन्याश्रयत्वमात्माश्रयत्वम्। अनवस्था वेति शेषः॥ 14 ॥
ननु बीजाङ्कुरवदनवस्था न दोषायेत्याशङ्क्याह–
न बीजाङ्कुरवत् सादिसंसारश्रुतेः॥ 15 ॥
बीजाङ्कुरवदनवस्था न सम्भवति, पुरुषाणां संसारस्याऽविद्याद्यखिलानर्थरूपस्य सादित्वश्रुतेः। प्रलयसुषुप्त्यादावभावश्रवणादित्यर्थः। 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्योवानुविनश्यती'त्यादिश्रुतिभिर्हि प्रलयादौ बुद्धिवृत्त्याभावेन तदौपाधिकाविद्याद्यखिलसंसारशून्यं चिन्मात्रत्वं पुरुषाणां सिद्धमिति । तस्मादविद्याप्याविद्यकीति वाङ्मात्रम्॥ 15 ॥
नन्वस्माकमविद्या पारिभाषिकी, न तु योगोक्ताऽनात्मन्यात्मबुद्ध्यादिरूपा, तथाच भवतां प्रधानवदेवास्माकमपि तस्या अखण्डानादि तया पुरुषनिष्ठत्वेऽपि नासङ्गताहानिरित्याशङ्कायां परिकल्पितमविद्याशब्दार्थं विकल्प्य दूषयति–
विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः ॥ 16 ॥
यदि विद्यान्यत्वमेवाविद्याशब्दार्थस्तर्हि तस्य ज्ञाननाश्यतथा ब्रह्मण आत्मनोऽपि बाधो नाशः प्रसज्ज्यते, विद्याभिन्नत्वादित्यर्थः॥ 16 ॥
अबाधे नैष्फल्यम्॥ 17 ॥
यदि त्वविद्यारूपमपरि विद्यया न बाध्येत तर्हि विद्यावैफल्यम्। अविद्यानिवर्त्तकत्वाभावादित्यर्थः॥ 17 ॥
पक्षान्तरं दूषयति–
विद्याबाध्यत्वे जगतोऽप्येवम्॥ 18 ॥
यदि पुनर्विद्यया चेतने बाध्यत्वमेवाविद्यात्वमुच्यते तथा सति जगतः प्रकृतिमहदाद्यखिलप्रपञ्चस्याप्येवमविद्यात्वं स्यात् । 'अतात आदेशोनेति नेत्यस्थूलमनण्वि'त्यादिश्रुतिभिर्मिथ्याज्ञानस्येव प्रकृत्यादेरप्यात्मनि बोधितत्वादित्यर्थः। तथा चाखिलप्रञ्चस्यैवाविद्यात्वे सत्येकस्य ज्ञानेनाविद्यानाशादन्यैरपि प्रपञ्चो न दृश्येतेति भावः। विद्यानाश्यत्वं
चाविद्यात्वं वक्तुं न शक्यते । विद्यानाश्यत्वेन विद्यानाश्यग्रहासम्भवादात्माविद्यात्वं वक्तुं न शक्यते । विद्यानाश्यत्वेन विद्यानाश्यग्रहासम्भवादात्माश्रयादिति॥ 18 ॥
तद्रूपत्वे सादित्वम्॥ 19 ॥
भवतु वा यथाकथञ्चिद्विद्याबाध्यत्वमेवाविद्यावम्। तथापि तादृशवस्तुनः सादित्वमेव पुरुषेषु, न त्वनादित्वं सम्भवति। 'विज्ञानघन एवे' त्याद्युक्तश्रुतिभिः प्रलयादौ पुरुषस्य चिन्मात्रत्वसिद्देरित्यर्थः। अस्मन्मते च प्रलये पुरुषस्याऽसंसारित्वेऽपि स्वतन्त्रनित्यप्रधानसंयोगात् पुनर्बन्ध उपपादितः । तथा प्रधानसंयोगेऽपि प्राग्भवीयाविवेक एव सावनादृष्टादिद्वारा निमित्तमित्यप्युक्तम्। तस्माद्योगदर्शनोक्तादन्या नास्त्यविद्या। सा च बुद्धिधर्म एव, न पुरुषधर्म इति सिद्धम्॥ 19 ॥
अत्रैवाध्याये कर्मनिमित्ता प्रधानप्रवृत्तिरिति यदुक्तं, तत्र परपूर्वपक्षं समाधत्ते प्रघट्टकेन–
न धर्मापलापः प्रकृतिकार्यवैचित्र्यात्॥ 20 ॥
अप्रत्यक्षतया धर्मापलापो न सम्भवति । प्रकृतिकार्येषु वैचित्र्याऽन्यथानुपपत्त्या तदनुमानादित्यर्थः॥ 20 ॥
प्रमाणान्तरमप्याह–
श्रुतिलिङ्गादिभिस्तत्सिद्धिः॥ 21 ॥
'पुण्यो वै पुण्येन भवति पापः पापेने'त्यादिश्रुतेः (बह0 अ04 ब्रा04मं 05)'स्वर्गकामोऽश्वमेधेन यजेते' ति विध्यादिरूपाल्लिङ्गाद्योगिप्रत्यक्षादिभिश्च तत्सिद्धिरित्यर्थः॥ 21 ॥
प्रत्यक्षाभावाद्धर्मासिद्धिरिति परस्य हेतुाभासीकरोति–
ननियमः प्रमाणान्तरावकाशात्॥ 22 ॥
प्रत्यक्षाभावाद्वस्त्वभाव इति नियमो नास्ति। प्रमाणान्तरेणापि वस्तूनां वि,यीकरणादित्यर्थः
॥ 22 ॥
धर्मवदधर्ममपि साधयति–
उभयत्राप्येवम् ॥ 23 ॥
धर्मवदधर्मेऽप्येवं प्रमाणानीत्यर्थः॥ 23 ॥
ननु विध्यन्यथानुपपत्तिरूपयाऽर्थापत्त्या धर्मसिद्धिः, सा च नास्त्या धर्म इति कथं श्रौतलिङ्गातिदेशोऽधर्म इति चेन्नेत्याह–
अर्थात् सिद्धिश्चेत् समानमुभयोः ॥ 24 ॥
यतः समानुमुभयोर्धर्माधर्मयोलिङ्गमस्ति 'परदारान्न गच्छे' दिति निषेधविध्यादेरेवाधर्मर्लिङ्गत्वादित्यर्थः॥ 24 ॥
ननु धर्मादिकं चेत् स्वीकृतं तर्हि पुरुषाणां धर्मादिमतक्त्वेन परिणामाद्यापत्तिरित्याशङ्कां परिहरति–
अन्तः करणधर्मत्वं धर्मादीनाम् ॥ 25 ॥
आदिशब्देन वैशेषिकशास्त्रोक्ताः सर्वे आत्मविशेषगुणा गृह्यन्ते । न चैवं प्रलयेऽन्तःकरणाभावाद्धर्मादिकं क्व तिष्ठत्विति वाच्यम्। आकाशवदन्तःकरणस्यात्यन्तविनाशाभावात् । अन्तःकरणं हि कार्यकारणोभयरूपमिति प्रागेव व्याक्यातम्। अतः कारणावस्थे प्रकृत्यंशविशेषेन्तः– करणे धर्माधर्मसंस्कारादिकं तिष्टतीति॥ 25 ॥
स्यादेतत्। प्रकृतिकार्यवैचित्र्याच्छ्रुत्यादेश्च धर्मादिसिद्धिरिति यदुक्तं, तदयुक्तम्। त्रिगुणात्मकप्रकृतेस्तत्कार्याणां च भवतां श्रुत्यैव बाधात्। ’ साक्षी चेता केवलो निर्गुणश्च’ ‘अथात आदेशो नेति नेति’–‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यद्’ इत्यादिना । ‘न निरोधो न चोत्पत्तिः’ वाचारम्भणं विकारो नामधेयं मृतत्तिकेत्येव सत्य’मित्यादिना तेचि । तदेतत् परिहरति–
गुणादीनां च नात्यन्तबाधः॥ 26 ॥
गुणानां सत्त्वादीनां, तद्धर्माणां च सुखादीनां, तत्कार्याणामपि महदादीनां स्वरूपतो नास्ति बाधः । किन्तु संसर्गत एव चेतने बाधोऽयस्यौष्ण्यबाधवत्। तथा कालत एवावस्थादिभिर्बाधो गुणाद्यखिलपरिणामिन इत्यर्थः॥ 26
॥
कृतः पुनः स्वरूपत एव बाधो न भवति, स्वप्नमनोरथादिपदार्थवदित्याकाङ्क्षायामाह–
पञ्चावयवयोगात् सुखसंवित्तिः॥ 27 ॥
अत्र विशिष्य पक्षीकरणाय विवादविषयैकदेशस्य सुखमात्रस्य ग्रहणं सर्वविषयोपलक्षकम्। सुखादिसंवित्तिरिति पाठस्तु समी चीनः। पञ्चावयवाश्य न्यायस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि। तेषां योगान्मेलनात् सुखाद्यखिलपदार्थसिद्धिरित्यर्थः। प्रयोगश्चायम्–सुखं सत् अर्थक्रियारित्वात्। यद्दर्थक्रियाकारि तत् सत्, यथा चेतनः। पुलकादिरूपार्थक्रियाकारि च सुखं , तस्मात् सदिति। चेतनानां चाविकारित्वेऽपि विषयप्रकाश एवाऽर्थक्रियेति। नास्तिकं प्रति च व्यतिरेक्यमुमानं कर्तव्यम्। तत्र च शशश्रृङ्गादिर्दृष्टान्त इति ॥ 27 ॥
प्रत्यक्षातिरिक्तं प्रमाणमेव न भवति, व्याप्यत्वाद्यसिद्धेरिति चार्वाकः पुनः शङ्कते–
न सकृद्ग्रहणात् सम्बन्धसिद्धिः॥ 28 ॥
सकृत् सहचारग्रहणात् सम्बन्धो व्याप्तिर्न लिद्ध्यति। भूयस्त्व चाननुगतम्। अतो व्याप्तिग्रहासम्भवान्नानुमानेनार्थसिद्धिरित्यर्थः॥ 28 ॥
समाधत्ते–
नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः॥ 29 ॥
धर्मसाहित्यं धर्मतायां साहित्यम्। सहचार इति यावत् । तथाचोभयोः साध्यसाधनयोरेकतस्य साधनमात्रस्य वा नियतः अव्यभिचरितोयः सहचारः स व्याप्तिरित्यर्थः। उभयोरिति समव्याप्तिपक्षे प्रोक्तं, नियमश्चानुकूलतर्केण ग्राह्य इति न व्याप्तिग्रहाऽसम्भव इति भावः॥ 29 ॥
व्याप्तिर्वक्ष्यमाणशक्त्यादिरूपं पदार्थान्तरं न भवतीत्याह--
न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तेः॥ 30 ॥
नियतधर्मसाहित्यातिरिक्ता व्याप्तिर्न भवति । व्याप्तित्वाश्रयस्य वस्तुनोऽपि कल्पनाप्रसङ्गात्। अस्माभिस्तु सिद्धवस्तुन एव व्याप्तित्वमात्रं क्लृप्तमित्यर्थः॥ 30 ॥
परमतमाह–
निजशक्त्युद्भवमित्याचार्याः॥ 31 ॥
अपरे त्वाचार्या व्याप्यस्य स्वशक्तिजन्यं शक्तिविशेषरूपं तत्त्वान्तरमेव व्याप्तिरित्याहुः। निजशक्तिमात्रं तु यावद्द्रव्यस्थायितया न व्याप्तिः। देशान्तरगतस्य धूमस्यापि वह्न्यव्याप्यत्वात् । देशान्तरगमनेन च सा शक्तिर्नाश्यत इति नोक्तलक्षणेऽतिव्याप्तिः। स्वमते तूत्पत्तिकालावच्छिन्नत्वेन धूमो विशेषणीय इथि भावः॥ 31 ॥
आधेयशक्तियोग इति पञ्चशिखः॥ 32 ॥
बुद्ध्यादिषु प्रकृत्यादिव्याप्यताव्यवहारादाधारताशक्तिर्व्यापकताऽऽधेयताशक्तिमत्त्वं च व्याप्यमिति पञ्चशिख इत्यर्थः॥ 32 ॥
नन्वाधेयशक्तिः किमर्थं कल्प्यते, व्याप्यस्य व्सतुनः स्वरूपशक्तिरेव व्याप्तिरस्तु । तत्राह–
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः॥ 33 ॥
स्वरूपशक्तिस्तु नियमो व्याप्तिर्न भवति, पौनरुक्त्यप्रसङ्गात्। घटःकलश इतिवत् बुद्धिर्व्याप्येत्यत्राप्यर्थाभेदेनेत्यर्थः। स्वरूपमिति वक्तव्ये शक्तिपदोपादानं व्याप्तेर्व्याप्यधर्मतोपपादनाय ॥ 33 ॥
पौनरुक्त्यं स्वयमेव विवृणोति—
विशेषणानर्थक्यप्रसक्तेः॥ 34 ॥
पूर्लसूत्र एव व्याख्यातप्रायमिदम्॥ 34 ॥
दूषणान्तरमाह–
पल्लवादिष्वनुपपत्तेश्च॥ 35 ॥
पल्लवादिषु वृक्षादिव्याप्यतास्ति । स्वरूपशक्तिमात्रं तु तस्य लक्षणं न सम्भवति, छिन्नपल्लवेऽपि स्वरूपशक्तेरनपायेन तदानीमपि व्याप्यतापत्तेरित्यर्थः। आधेयधक्तिस्तु छेदकाले विनष्ठेति न तदानीं व्याप्तिरिति भावः॥ 35 ॥
ननु किं पञ्चशिखेन निजशक्त्युद्भवो व्याप्तिरेव नोच्यते, तर्हि धूमस्य वह्नयोधेयत्वाभावाद्वह्न्यव्याप्यतापत्तिरिति । तत्राह–
आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात्॥ 36 ॥
आधेयशक्तेर्व्याप्तित्वसिद्धौ निजशक्त्युद्भवोऽपि व्याप्तित्वेन सिद्ध एव, समानन्यायात् । युक्तिसाम्यादित्यर्थः। अननुगमस्तु नानार्थशब्दावन्न दोषाय । एवं स्वमतेऽपि नानाविधसहचारा एव व्याप्तयो बोध्याः। न चैवमप्यनुमितिहेतुत्वे व्याप्तीनामननुगमः स्यादिति वाच्यम्। तृणारणिमण्यादिवत् कार्यगतवैजात्याद्युपपत्तेरिति। पञ्चावयवयोगाद् गुणादिसिद्धिरिति यदुक्तं तदुपपादनाय व्याप्तिनिर्वचनेनानुमानप्रामाण्ये बाधकमपास्तम्॥ 36 ॥
इदानीं पञ्चावयवरूपशब्दस्य ज्ञानजनकत्वोपपत्तये शब्दशक्त्यादिनिर्वचनेन तदनुपपत्तिरूपं शब्दप्रामाण्ये परेणां बाधकमपास्यते–
वाच्यवाचकभावः सम्बन्धः शब्दार्थयोः॥ 37 ॥
अर्थे वाच्यताख्या शक्तिः शब्दे वाचकताख्या शक्तिरस्ति सैव तयोः सम्बन्धोऽनुयोगितावत् । तज्ज्ञानाच्छब्देनार्थोपस्थितिरित्यर्थः॥ 37 ॥
शक्तिग्राहकाण्याह–
त्रिभिः सम्बन्धसिद्धिः॥ 38 ॥
आप्तोपदेशो --वृद्धव्यवहारः- प्रसिद्धपदसामानाधिकरण्यम्--इत्येतैस्त्रिभिरुक्तसम्बन्धो गृहत इत्यर्थः॥ 38 ॥
न कार्ये नियम उभयथा दर्शनात् ॥ 39 ॥
स च शक्तिग्रहः कार्य एव भवतीति नियमो नास्ति लोके कार्यवदकार्येऽपि वृद्धव्यवहारादिदर्शनादित्यर्थः। यथा हि गामानयेत्यादिकार्यपरवाक्याद् वृद्धस्य नवानयनादिव्यहारो दृश्यत इति , सिद्धार्थशब्दप्रामाण्यसिद्धौ च विवेके वेदान्तप्रामाण्यं सिद्धमित्याशयः ॥ 39 ॥
ननु भवतु लोके सिद्धे शक्तिग्रहोऽर्थप्रत्ययादिदर्शनाद् वेदे तु कथं भविष्यत्यकार्यबोधनवैयर्थ्यादिति। तत्राह–
लोके व्युत्पन्नस्य वेदार्थप्रतीतिः॥ 40 ॥
लोके शब्दशक्तिव्युत्पन्नस्य पुरुषस्यतदनुसारेणैव वेदार्थप्रतीतिः। न हि लोके शक्तिर्भिन्ना वेदे च भिन्ना, य एव लौकिकास्त एव वैदिका इति न्यायात्। अतो लोके सिद्धार्थपरत्वसिद्धौ वेदेऽपि तत् सिद्ध्यतीत्यर्थः
॥ 40 ॥
अत्र शङ्कते–
न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याऽप्यतीन्द्रियत्वात् ॥ 41 ॥
ननु त्रिभिराप्तोपदेशादिभिर्वेदशब्देन शक्तिग्रहः सम्भवति। वेदस्यापौरुषेयत्वेन तदर्थेष्वाप्तोपदेशासम्भवात्। तथा वेदार्थस्याऽतीन्द्रियतया तत्र वृद्धव्यवहारस्य प्रसिद्धपदसमानाधिकरण्यस्य च ग्रहीतुमशक्यत्वादित्यर्थः॥ 41 ॥
तत्रातीन्द्रियार्थत्वमादौ निराकरोति–
न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात्॥ 42 ॥
यदुक्तं तन्न। यतो देवताद्देश्यकद्रव्यत्यागादिरूपस्य यज्ञदानादेः स्वरूपत एव धर्मत्वं वेदविहितत्वं, वैशिष्ट्यत् प्रकृष्टफलकत्वात्। यज्ञादिकं चेच्छादिरूपत्वान्नातीन्द्रियम्। न तु यज्ञादिविषयकापूर्वस्यधर्मत्वं, येन वेदविहितस्यातीन्द्रियता स्यादित्यर्थः। ननु तथापि देवताद्यतीन्द्रियार्थंघटितत्वमस्तीति चेन्न। अतीन्द्रियेष्वपि पदार्थतावच्छेदकेन सामान्यरूपेण प्रतीतेर्वक्ष्यमाणत्वादिति॥ 42 ॥
यच्चोक्तमपौरुषेयत्वेनाप्तोपदेशाभाव इति, तदपि निराकरोति–
निजशक्तिर्व्युत्पत्त्या व्यवच्छिद्यते॥ 43 ॥
अपौरुषेयत्वेऽपि वेदानां स्वाभाविकी याऽर्थेषु शक्तिरस्ति सैवाप्तैर्वृद्धपरम्पराभिर्व्युत्पत्त्याऽस्य शब्दस्यायमर्थ इत्येवंरूपा व्यवच्छिद्यते शिष्येभ्योर्थान्तराद् व्यावर्त्योपदिश्यते, न त्वाधुनिकशब्दवत् स्वयं सङ्केत्यते, येन पौरुषेयत्वापेक्षा स्यादित्यर्तः॥ 43 ॥
ननुतथाप्यतीन्द्रियदेवताफलादिषु कथं शक्तिग्रहो वैदिकपदानां स्यात्, तत्राह–
योग्यायोग्येषु प्रतीतिजनकत्वात् तत्सिद्धिः॥ 44 ॥
प्रत्यक्षाप्रत्यक्षेषु पदार्थेषु सामान्यधर्मपुरस्कारेण तत्सिद्धिः शक्ति ग्रहो भवति। साधारण्येन पदानां प्रतीतिजनकत्वस्यानुभवसिद्धत्वात्। विशेषस्त्वतीन्द्रियोऽपूर्व एव वाक्यार्थः। न च तस्य ग्रहणं प्रागपेक्ष्यते इत्यर्थः॥ 44 ॥
शब्दप्रामाण्यप्रसङ्गेनैव शब्दगतं विशेषमवधारयति–
न नित्यत्व वेदानां कार्यत्वश्रुतेः॥ 45 ॥
'स तपोऽतप्यत तस्मात् तपस्तेपानात् त्रयो वेदा अजायन्ते'त्यादिश्रुतेर्वेदानां न नित्यत्वमित्यर्थः। वेदनित्यतावाक्यानि च सजातीयानुपूर्वीप्रवाहानुच्छेदपराणि॥ 45॥
तर्हि किं पौरुषेया वेदाः? नेत्याह–
न पौरुषेयत्वं तत्कर्त्तुः पुरुषस्याभावात्॥ 46 ॥
ईश्वरप्रतिषेधादिति शेषः सुगमम्॥ 46 ॥
अपर कर्त्तां भवत्वित्याकाङ्क्षायामाह–
न मुक्तामुक्तयोरयोग्यत्वात्॥ 47 ॥
जीवन्मुक्तधुरीणो विष्णुर्विशुद्धसत्त्वतया निरतिशयसर्वज्ञोऽपि वीतरागत्वात् सहस्रशाखवेदनिर्माणायोग्यः। अमुक्तस्त्वसर्वज्ञत्वादेवायोग्य इत्यर्थः॥ 47 ॥
नन्वेवमपौरुषेयत्वान्नित्यत्वमेवागतं, तत्राह–
नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत्॥ 48 ॥
स्पष्टम्॥ 48 ॥
नन्वङ्कुरादिष्वपि कार्यत्वेन घटादिवत् पौरुषेयत्वमनुमेयं , तत्राह–
तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः॥ 49 ॥
यत् पौरुषेयं तच्चरीरजन्यमिति व्याप्तिर्लोके दृष्टा। तस्या बाधादिरेवं सति स्यादित्यर्थः॥ 49 ॥
नन्वादिपुरुषोच्चरितत्वाद्वेदा अपि पौरुषेया एवेत्याह–
यस्मिन्नदृष्टेऽपि कृतबुद्धिरूपजायते तत् पौरुषेयम्॥ 50 ॥
दृष्ट इवादृष्टेऽपि यस्मिन् वस्तुनि कृतबुद्धिर्बुद्धिपूर्वकत्वबुद्धिर्जायते तदेव पौरुषेयमिति व्यवह्नियत इत्यर्थः। एतदुक्तं भवति. न पुरुषोच्चरिततामात्रेण पौरुषेयत्वम्, श्वासप्रश्वासयोः सुषुप्तिकालीनयोः पौरुषेय त्वव्यवहाराभावात्, विन्तु बुद्धिपूर्वकत्वेन । वेदास्तु निःश्वासवदेवादृष्टवशादबुद्धिपूर्वका एव स्वयम्भुवः सकाशात् स्वयं भवन्ति। अतो न ते पौरुषेयाः। तथा च श्रुतिः " तस्यैतस्य महतो भूतस्य निश्चसितमेतद्यदृग्वेद" इत्यादिरिति॥ 50 ॥
नन्वेवं यथार्थवाक्यार्थज्ञानापूर्वकत्वाच्छुकवाक्यस्येव वैदानामपि प्रामाण्यं न स्यात्, तत्राह–
निजशक्त्याभिव्यक्तेः स्वतः प्रामाण्यम्॥ 51 ॥
वेदानां निजा स्वाभाविकी या यथार्थज्ञानजननशक्तिस्तस्या मन्त्रायुर्वेदादावभिव्यक्तेरुपलम्भादखिलदेवानामेव स्वत एव प्रामाण्यं
सिद्ध्यति, न वक्तृयथार्थज्ञानमूलकत्वादिनेत्यर्थः। तथा च न्यायसूत्रम् “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमिति " ( अ0 2 आ0 1 सू0 68 )। गुणादीनाञ्च नात्यन्तबाध इति प्रतिज्ञायं न्यायेन सुखादिसिद्धेरित्येको हेतुरूपन्यस्तः, प्रपञ्चितश्च॥ 51 ॥
सम्प्रतं तस्यामेव हेत्वन्तरमाह–
नासतः ख्यानं नृशृङ्गवत्॥ 52 ॥
आस्तां तावत् प़ञ्चावयवेन सुखादिसिद्धः। ज्ञानमात्रादपि तत्सिद्धिः। अत्यन्तासत्त्वे सुखादीनां ज्ञानमेव नोपपद्यते। नरश्रृङ्गादीनामभानादित्यर्थः। तथाच ब्रह्मसूत्रम् ‘नाभाव उपलब्धेरिति " ( अ0 2 आ0 2 सू0 28 )। शुक्तिरजतस्वप्नमनोरथादौ च मनः परिणामरूप एवार्थः प्रतीयते, ‘नात्यन्तासन्निति’ वक्ष्यति॥ 52 ॥
नन्वेवं गुणादिरत्यन्तं सन्नेव भवतु । तथा च नात्यन्तबाध इत्यन्त पदवैयर्थ्यमित् । तत्राह–
न सतो बाधदर्शनात्॥ 53 ॥
अत्यन्तसतोऽपि गुणादेर्भानं युक्तम्, विनाशादिकाले बाधदर्शनात्। चैतन्यं भासमानस्य जगतश्चैतन्य एव बाधदर्शनाच्च। 'अथात आतेत्यादि' श्रुतिभिर्न्यायैश्चेत्यर्थः॥ 53 ॥
नन्वेवमपि सदसद्भ्यां भिन्नमेव जगद्भवतु। तथाप्यत्यन्तबाधप्रतिषेधोपपत्तिरिति, तत्राह–
नानिर्वचनीयस्य तदभावात् ॥ 54 ॥
सत्त्वेनासत्त्वेन चानिर्वचनीयं तादृशस्यापि भानं न घटते, तदभावात्। सदसद्भिन्नवस्त्वप्रसिद्धेरित्यर्थः। दृष्टानुसारेणैव कल्पनाया औचित्यादिति भावः॥ 54 ॥
नन्वेवं किमन्यथाख्यातिरेवेष्टा, नेत्याह–
नान्यथाख्यातिः स्ववचोव्याघातात्॥ 55 ॥
अन्यद्वस्त्वन्यरूपेण भासत इत्यपि न युक्तम्, स्ववचोव्यघातात्। अन्यत्रान्यरूपस्य नृश्रृङ्गतुल्यत्वमन्यथा शब्देनोच्यतेऽव्यथा च तस्य भानमुच्यत इति स्ववच एव व्याहतम्. असतो
भानासम्भवस्यान्यथाख्यातिवादिभिरपि वचनादित्यर्थः. पुरोवर्त्तिन्यसत्त्वेऽन्यत्र तत्सत्ताया भानाप्रयोजकत्वमिति भावः। न च
सर्वत्रासतो भाने समग्री न सम्भवति, सन्निकर्षाद्यभावादित्यतः क्वचित् सत्तामात्रमपेक्ष्यत इति वाच्यम्। अनादिवासनाधाराया एव भ्रमहेतुत्ससम्भवादिति॥ 55 ॥
नात्यन्तबाध इति पूर्वोक्तं विवृण्वानः स्वसिद्धान्तमुपसंहारति–
सदसत्ख्यातिर्बाधाबाधात् ॥ 56 ॥
सदसत्ख्यातिरेव सर्वेषां गुणादीनाम्। कुतः? बाधाबाधात्। तत्र स्वरूपेणाबाधः सर्ववस्तूनां नित्यत्वात् । संसार्गतस्तु बाधः सर्ववस्तूनां चैतन्येऽस्ति। यता पटादिषु लौहित्यादेस्तद्वत्। तथावस्थाभिरपि बाधोऽखिलपरिणामिनां कालादिष्वित्यर्थः। बाधश्च प्रतिपन्नधर्मिणि निषेधबुद्धिविषयत्वम्। असत्त्वं त्वभावः। सोऽप्यधिकरणस्वरूप इति । न च सदसत्त्वयोर्विरोध इति वाच्यम्। प्रकारभेदेनाविरोधात्। यथाहि लौहित्यं बिम्बरूपेण सत्, स्फटिकगतप्रतिबिम्बरूपेण चासदिति दृष्टम्। यता वा रजतं वणिग्वीथीस्थरूपेण सत्, शुक्त्यध्यस्तरूपेण चासदिति। तदुक्तम्--
अर्थे ह्यविद्यामानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ इति ॥
एवमेवावस्थाभेदेनापि सदसत्त्वमविरुद्धम् । यथाहि वृक्षादिः प्ररूढाद्यवस्थाभिः सन्नप्यङ्कुराद्यवस्थाभिरसन् भवति, तथैव प्रकृत्यादिकं सदसदात्मकमिति । तदुक्तम्–
अव्यक्तं कारमं यत् तन्नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ इति ॥
एतच्चास्माभिर्ब्रह्ममीमांसाभाष्ये योगवार्तिके च प्रपञ्चितमिति दिक्॥ 56 ॥
अयं वितारः पर्याप्त इदानीं शब्दविचारः प्रसङ्गागत आगन्तुकतयान्ते प्रस्तूयते–
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दाः॥ 57 ॥
प्रत्येकवर्णेभ्योऽतिरिक्तं कलश इत्यादिरूपमखण्डमेकपदं स्फोट इति योगैरभ्युपगम्यते । कम्बुग्रीवाद्यवयवेभ्योऽतिरिक्तो घटाद्यवयवीव। स च शब्दविशेषः पदाख्योऽर्थस्फुटीकरणात् स्फोट इत्युच्यते। स शब्दोऽप्रामाणिकः। कुतः? प्रतीत्यप्रतीतिभ्याम्। स शब्दः किं प्रतीयते, न वा? आद्ये येन वर्णसमुदायेनानुपूर्वीविशेषविशिष्टेन सोऽभिव्यज्यते, तस्यैवार्थप्रत्यायकत्वमस्तु, किमन्तर्गडुना तेन । अन्त्ये त्वज्ञातस्फोटस्य नास्त्यर्थप्रत्यायनसक्तिरिति व्यर्था स्फोटकल्पनेत्यर्थः। 57 ॥
पूर्वं वेदानां नित्यत्वं प्रतिषिद्धमिदानीं वर्णनित्यत्वमपि प्रतिषेधति–
न शब्दानित्यत्वं कार्यताप्रतीतेः॥ 58 ॥
स एवायं गकार इत्यादिप्रत्यभिज्ञाबलाद्वर्णनित्यत्वं न युक्तम्। उत्पन्नो गकार इत्यादिप्रत्ययेनानित्यत्वसिद्धेरित्यर्थः। प्रत्यभिज्ञा च तज्जातीयताविषयिणी । अन्यथा घटादेरपि प्रत्यभिज्ञया नित्यतापत्तेरिति ॥ 58 ॥
शङ्कते–
पूर्वसिद्धसत्त्वस्याभिव्यक्तिर्दीपेनेव घटस्य ॥ 59 ॥
ननु पूर्वसिद्धसत्ताकस्यैव शब्दस्य ध्वन्यादिभिर्याभिव्यक्तिस्तन्मात्र मुत्पत्तिः प्रतीतेर्विषयः । अभिव्यक्तौ दृष्टान्तो, दीपेनेव घटस्येति ॥ 59 ॥
परिहरति–
सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनम्॥ 60 ॥
अभिव्यक्तिर्यद्यनागतावस्थात्यागेन
वर्तमानावस्थालाभ इत्युच्यते तदा सत्कार्यसिद्धान्तः। तादृशनित्यत्वं च सर्वकार्याणामेवेति सिद्धसाधनमित्यर्थः। यदि च वर्त्तमानतया सत एव ज्ञानमात्ररूपिणी अभिव्यक्तिरुच्यते तदा घटादीनामपि नित्यतापत्तिः । कारणव्यापारेण ज्ञानस्यैवोत्पत्तिप्रतीतिविषयत्वौचित्यादिति भावः
॥ 60 ॥
आत्माद्वैते पूर्वानुक्तमपि बाधकमुपन्यसनूयमित्येतदर्थमात्माऽद्वैतनिरासः पुनरारभ्यते–
नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः॥ 61 ॥
यद्यप्यात्मनामन्योन्यं भेदवाक्यवदभेदवाक्यान्यपि सन्ति, तथापि नाद्वैतं नात्यन्तमभेदः। अज्ञादिवाक्यस्थैः प्रकृतित्यागाऽत्यागादिलिङ्गैर्भेदस्यैव सिद्धेरित्यर्थः। न ह्यत्यन्ताभेदे तानि लिङ्गान्युपपद्यन्ते । अभेदवाक्यानि तु साम्यादिश्रुत्यैकवाक्यतया वैधर्म्यादिलक्षणाभेदपरतयोपद्यन्ते । अभिमानादिनिवृत्त्यन्यथोऽनुपपत्त्यापि तत्परत्वावधारणाच्चेति॥ 61 ॥
आत्मनामभेदे लिङ्गं बाधकमुक्तम्। “आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वमिति” श्रुत्यात्मनोऽनात्मभिरद्वैते तु प्रत्यक्षमपि बाधकमस्तीत्याह–
नानात्मनापि प्रत्यक्षाबाधात्॥ 62 ॥
अनात्मनापि भोग्यप्रपञ्चेनात्मनो नाद्वैतम्। प्रत्यक्षेणापि बाधात्। आत्मनः सर्वभोग्याभेदे घटपटयोरप्यभेदः स्यात् । घटादेः पटाद्यभिन्नात्माभेदात्। स च भेदग्राहकप्रत्यक्षबाधित इत्यर्थः॥ 62 ॥
नोभाभ्यां तेनैव ॥ 63 ॥
अभ्यासां समुच्चिताभ्यामप्यात्मानात्मभ्यां नात्यन्ताभेदस्तेनैव हेतुद्वयेनेत्यर्तः॥ 63 ॥
नन्वेवमात्मैवेदमित्यादिश्रतीनां का गतिरिति। तत्राह–
अन्यपरत्वमविवेकानां तत्र ॥ 64 ॥
अविवेकानामविवेकिपुरुषान् प्रति तत्राद्वैतेऽन्यपरत्वमुपासनाऽर्थकानुवाद इत्यर्थः। लोके हि शरीरशरीरिणोर्भोग्यभोक्त्रोश्चाऽविवेकेनाभेदो व्यवह्नियतेऽहं गौरे ममोत्मा भद्रसेन इत्यादिः। अतस्तमेव व्यवहारमनूद्य तानेव पति तथोपासानं श्रुतिर्विदधाति सत्त्वशुद्ध्याद्यर्थमिति । अत एव परमार्थदशायामुपास्यानामात्मत्वं प्रतिषेधति श्रुतिः–
यन्मनसा न मनुते येनाहुर्मनो मतम्।
तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते ॥ इत्यादिनेति ॥ 64 ॥
एकात्मवादिनां जगदुपादानकारणमपि सम्भवतीत्याह–
नात्माविद्या नोभयं जगदुपादानकारणं
निःसङ्गत्वात् ॥ 65 ॥
केवल आत्मा आत्माश्रिता वाऽविद्या समुच्चितं वा कपालद्वयवदुभयं न जगदुपादानं सम्भवति, आथ्मनोऽसङ्गत्वात्। सङ्गाख्यो हि यः संयोगविशेषस्तेनैव द्रव्याणां विकारो भवति। अतोऽसङ्गत्वात्, असङ्गत्वेनाविद्यायोगस्य प्रागेव निरस्तत्वात्। प्रत्येकोपादनत्ववदेवोभयोपादानत्वमप्यसङ्गत्वादेवाऽसम्भवीत्यर्थः। यदि चाविद्या द्रव्यरूपा पुरुषाश्रिता गगने वायुवदिष्यते, तदात्माद्वैतहानिः। तथा प्रकृतिरेव सति सिद्धसाधनं च तादृशं चाविभागेनाद्वैतमस्माकमपीष्टमेव। 'सदेव सौम्येदमग्र आसीदेकवाद्वितीयं ब्रह्मे'त्यादिश्रुत्यापि चाविभागरूपमेवाद्वैतं प्रतिपाद्यते। 'न तु तद्द्वियीयमस्ति ततोऽन्यद्विभक्तं यत् पश्ये'दिति श्रुत्यन्तरात्। तथा चोक्तम्--
आसीज्ज्ञानमयोऽप्यर्थ एकमेवाविकल्पितम्।
तयोरेकतरो ह्यर्थः प्रकृतिश्चोभयात्मिका॥
ज्ञानं त्वन्यतमो भावः पुरुषः साऽभिधीयते॥ इति ॥
अविकल्पितविभक्तम्। तस्माद्वेदान्तानामखण्डात्माद्वैतं नार्थः तथाप्याधुनिका वेदान्तिनोत्रत्यपूर्वपक्षजातमेव ब्रह्ममीमांसासिद्धान्ततया कल्पयन्ति॥ तत्तु ब्रह्मसूत्रानुक्तत्वेन प्रत्युत तद्विरोधेन न अस्माभिस्तत्रैव निराकृतमिति । अत्र च ब्रह्ममीमांसासिद्धान्तो न दुष्यते। अपितु वेदान्तेष्वापाततः सम्भावितोऽर्थ एव निराक्रियत इति स्मर्तव्यम्। एवमुत्तरसूत्रेष्वपि ॥ 65 ॥
प्रकाशस्वरूपं आत्मेति स्वयं सिद्धान्तितम्। तत्र ‘,त्यं विज्ञानमानन्दं ब्रह्मे’ति श्रुतेरानन्दोऽप्यात्मनः स्वरूपमिति पूर्वपक्षं निराकरोति–
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् ॥ 66 ॥
एकधर्मिण आनन्दचैतन्योभयरूपत्वं न भवति । दुःखज्ञानकाले सुखाननुभवेन सुखज्ञानयोर्भेदादित्यर्थः। न च ज्ञानविशेषः सुखमिति वक्तुं शक्यते । आथ्मस्वरूपज्ञानस्याऽखण्डत्वात्। अथ एव चैतन्यानुभवकाले सपुखस्यावरणमपि वक्तुं न शक्यते। अखण्डत्वेनान्दावरणे दुःखं जानामीत्यनुपपत्तेः। न ह्यात्मनोंऽशभेदोऽस्ति, येनानन्दांशावरणेऽपि चैतन्यांशो भायादिति। न च श्रुतिबलेनैतेऽसत्तर्का इति वाच्यम्। "नानन्दं न निरानन्दमित्यादिश्रुत्या, 'अदुःखमसुखं ब्रह्म भूतभव्यभवात्मक' मित्यादिस्मृत्या चानन्दाभावस्यापि प्रतिपादितत्वेन तर्कस्यैवात्रादर्तव्यादिति॥ 66 ॥
नन्वेवमानन्दरूपताश्रुपपतेः का गतिस्तत्राह–
दुःखनिवृत्तेर्गौणः ॥ 67 ॥
दुःखनिवृत्त्यात्मनि श्रौत आनन्दशब्दो गौण इत्यर्थः। तदुक्तम्-- 'सुखं दुःखसुखात्यय' इति । न निरानन्दमिति श्रुतिस्त्वौपाधिकानन्दपरा। सत्यसङ्कल्पत्वादिश्रुतिवदिति । यत्तु निरुपाधिप्रियत्वेनात्मनः सुखरूपत्वानुमानं कश्चिदाह। तन्न। दुखाभावरूपतयापि प्रेमोपपत्तेः। सुखत्वादिवदात्मत्वस्यापि प्रेमप्रयोजकत्वाच्च । अन्यथा परसुखेऽपि प्रेमापत्तेरिति॥ 67 ॥
गौणयोगे बीजमाह–
विमुक्तिप्रशंसा मन्दानाम्॥ 68 ॥
मन्दानज्ञान् प्रति दुःखनिवृत्तिरूपामात्मस्वरूपमुक्ति सुखत्वेन श्रुतिः स्तौति प्ररोचनार्थमित्यर्थः
॥ 68 ॥
अन्तःकरणोपपत्तेः पूर्वोक्तया आञ्जस्येनोपपत्तये मनोवैभवपूर्वपक्षमपाकरोति–
न व्यापकत्वं मनसः करणत्वदिन्द्रियत्वाद्वा
वास्यादिवच्चक्षुरादिवत्॥ 69 ॥
मनसोऽन्तःकरणसामान्यस्य न विभुत्वम्। करणत्वात्। वाम्यादिवत्। वाशब्दो व्यवस्थितविकल्पे। इन्द्रियत्वादप्यन्तः करणविशेषस्य तृतीयस्य न विभुत्वमित्यर्थः। देहव्यापि ज्ञानादिकं तु मध्यमपरिमाणेनैवोपपद्यत इति ॥ 69 ॥
अत्राप्रयोजकत्वशंकायामनुकूलतर्कमाह–
सक्रियत्वाद् गतिश्रुतेः॥ 70 ॥
आत्मनो लोकान्तरगमनश्रवणेन तदुपाधिभूतस्यान्तःकरणस्य सक्रियत्वसिद्धेर्न विभुत्वं सम्भवतीत्यर्थः॥ 70 ॥
कार्यत्वोपपत्तये मनसो निरवयवत्वमपि निराकरोति–
न निर्भागत्वं तद्योगाद् घटवत्॥ 71 ॥
तच्छब्दः पूर्वसूत्रस्थेन्द्रियं परामृशति। मनसो न निरवयवत्वम्। अनेकेन्द्रियेष्वेकदा योगात्। किन्तु घटवन्मध्यमपरिमाणं सावयवमित्यर्थः। कारणावस्थं चान्तःकरणमण्वेवेति बोध्यम्॥ 71 ॥
मनःकालादीनां नित्यत्वं प्रतिषेधति–
प्रकृतिपुरुषयोरन्यत सर्वमनित्यम्॥ 72 ॥
सुगमम्। कारणावस्थं चान्तःकरणाकाशीदिकं प्रकृतिरेवोच्यते। न तु मनादिकं व्यवसायाद्यसाधारणधर्माभावात्॥ 72 ॥
ननु–
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्।
अस्याऽवयवभूतैस्तु व्याप्तं सर्वमिदं जगद्॥
(श्वे 0 अ 0 4 ) इत्यादिश्रुतिभिः पुम्प्रकृत्योरपि सावयवत्वादनित्यत्वमिति । तत्राह–
न भागलाभो भोगिनां निर्भागत्वश्रुतेः॥ 73 ॥
भेगिनः पुरुषस्य प्रधानस्य चावयवो न युज्यते। निरवयवत्वश्रुतेः
निष्क्रियं शान्तं निरवद्यं निरञ्जनम्॥
इत्यादिना इत्यर्थः। उक्तश्रुतिश्चाऽकाशजलयोरिव पितीपुत्रचेतनयोरिव च विभागमात्रेणांशांशिभावं बोधयतीति ॥ 73 ॥
दुःखनिवृत्तिर्मोक्ष इत्युक्तम्। तदवधारणाय तत्र मोक्षे परेषां मतानि निराकरेति–
नानन्दाभिव्यक्तिर्मुक्तिर्निर्धर्मत्वात्॥ 74 ॥
आत्मन्यानन्दरूपोऽभिव्यक्तिरूपश्च धर्मो नास्ति । स्वरूपं च नित्यमेवेति न साधनसाध्यम्। अतो नानन्दाभिव्यक्तिर्मोक्ष इत्यर्थः॥ 74 ॥
न विशेषगुणोच्छित्तिस्तद्वत्॥ 75 ॥
अशेषविशेषगुणोच्छेदोऽपि न मुक्तिः। तद्वत्। निर्धर्मत्वादेवेत्यर्थः। ननु तर्हि दुःखनिवृत्तिरेव कथं मोक्ष उक्तः, दुःखाभावस्यापि धर्मत्वादिति चेन्न। अस्माभिर्भोग्यतासम्बन्धेनैव दुःखाभावस्य पुरुषार्थतावचनादिति
॥ 75 ॥
न विशेषगतिर्निष्क्रियस्य ॥ 76 ॥
ब्रह्मलोकगतिरपि न मोक्षः। आत्मनो निष्क्रियत्वेन गत्यभावात्। लिङ्गशरीराभ्युपगमे च न मोक्षो घटत इत्यर्थः॥ 76 ॥
नाकरोपरागोच्छित्तिः क्षणिकत्वादिदोषात् ॥ 77 ॥
क्षणिकज्ञानमेवात्मा। तस्य विषयाकारता बन्धः । तद्वासनाख्योपरागस्य नाशो मोक्ष--इति यन्नास्तिकमतं, तदपि न । क्षणिकत्वादिदोषेण मोक्षस्यापुरुषार्थत्वादित्यर्थः॥ 77 ॥
नास्तिकस्यैव मुक्तयन्तरं दूषयति–
नस्रवोच्छित्तिरपुरुषार्थत्वादिदोषात्॥ 78 ॥
ज्ञानरूपस्यात्मनः सामग्र्येणैवोच्छित्तिरपि न मोक्षः। आत्मनाशस्य लोके पुरुषार्थत्वादर्शनादिभ्य इत्यर्थः॥ 78 ॥
एवं शून्यमपि ॥ 79 ॥
ज्ञाने ज्ञेयात्मकाखिलप्रपञ्चनाशोऽप्येवमात्मनाशेनापुरुषार्थत्वान्न मोक्ष इत्यर्थः॥ 79 ॥
संयोगाश्च वियोगान्ता इति न देशादिलाभोऽपि ॥ 80॥
प्रकृष्टदेशधनाङ्गनादिस्वाम्यमपि न मोक्षः। यतः
संयोगाश्च वियोगान्ता मनणान्तं च जीवनम्।
इति श्रूयत इत्यर्थः। तथाच विनाशित्वात् स्वाम्यं न मुक्तिरिति॥ 80 ॥
न भागियोगो भागस्य ॥ 81 ॥
भागस्यांशस्य जीवस्य भागिन्यंशिनि परमात्मनि लयो न मोक्षः। संयोगा हि वियोगान्ता इत्युक्तहेतोः ईश्वरानभ्युपगमाच्च। तथा स्वलयस्यापुरुषार्थत्वाच्चेत्यर्थः॥ 81 ॥
नाणिमादियोगोऽप्यवश्यं भावित्वात्
तदुच्छित्तेरितरयोगवत्॥ 82 ॥
अणिमाद्यैश्वर्यसम्बन्धोऽपि न मुक्तिः। ऐश्वर्यान्तरसम्बन्धवदेव तस्याप्युच्छेदनियमादित्यर्थः
॥ 82 ॥
नेन्द्रादिपदयोगोऽपि तद्वत्॥ 83 ॥
इन्द्राद्यैश्वर्यलाभोऽपि न मुक्तिरितरैश्वर्यवत् क्षयिष्णुत्वादित्यर्थः॥ 83 ॥
इन्द्रियाणामाहङ्कारिकत्वं यदुक्तं, तत्र परविप्रतिपत्तिं निराकरोति–
न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः॥ 84 ॥
सुगमा योजना । पूर्वं चैतद् व्याख्यातम्॥ 84 ॥
शक्त्यादिकमपि तत्त्वमस्तीत्याशयेन परेषां पदार्थप्रतिनियमं तन्मात्रज्ञानान्मुक्तिं च निराकरोति–
न षट्पादार्थनियमस्तद्बोधान्मुक्तिः॥ 85 ॥
द्रव्यगुणकर्मसामान्यविशेषसमवाया एव पदार्था इति यद् वैशेषिकाणां नियमो, यश्च तज्ज्ञानान्मोक्ष इत्यभ्युपगमः। सोऽप्रामाणिकः। शक्त्याद्यतिरेकात्। पृथिव्यादिनवद्रव्येभ्यः प्रकृतेरतिरेकाच्चेत्यर्थः। गन्धादिमत्त्वेनैव हि पृथिव्यादिव्यवहारः। गन्धादिश्च साम्यावस्थायां नास्ति। अतः पृथिवीत्वादिजातिरपि घटत्वादिवत् कार्यमात्रवृत्तिरिति। तदुक्तम्--
नाहो न रात्रिर्न नभो भूमिर्नासीत् तमो ज्योतिरभून्न चान्यत्।
शब्दादिबुद्ध्याद्युपलम्भमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ इति ॥ 85 ॥
षोडशादिष्वप्येवम्॥ 86 ॥
न्यायपाशुपतादिमतेषु षोडशादिष्वपि न नियमो, न वा तन्मात्रज्ञानान्मुक्तिः । उक्तरूपेण पदार्थाधिक्यादित्यर्थः। अस्मन्मते तु नित्यं पदार्थद्वयमेव । नित्यानित्यसाधारणास्तु पदार्थाः पञ्चविंशतिरेवेति नियमः। पञ्चविंशतिद्रव्येष्वेव गुणकर्मसामान्यशक्त्यादीनामन्तर्भाव इति ॥ 86 ॥
पञ्चभूतानां पूर्वोक्तकार्यत्वोपपत्त्यर्थं वैशेषिकाद्यभ्युपगतं पार्थिवाद्यणिनित्यत्वमपाकरोति–
नाणुनित्यता तत्कार्यत्वश्रुतेः॥ 87 ॥
पृथिव्याद्यणूनां नित्यता नास्ति। तेषामणूनामपि कार्यत्वश्रुतेरित्यर्थः। यद्यप्यस्माभिः सा श्रुतिर्न दृश्यते काललुप्तत्वादिना, तथाप्याचार्यवाक्यान्मनुस्मरणाच्चानुमेया। यथा मनुः--
अण्व्या मात्रा विनाशिन्यो दशार्धानां च याः स्मृताः।
ताभिः सर्द्धमिदं सव सम्भवत्यनुपूर्वशः इति ॥ ( प्रथमाध्या 0 श्लो 0 27 )
दशार्द्धानां पृथिव्यादिपञ्चभूतानाम्। न चात्र वाक्येऽणुशब्देन द्व्यणुकाद्येव ग्राह्यमिति वाच्यम्। सङ्कोचे प्रमाणाभावादिति। अत्राणुशब्दोभूतपरमाणुपर एव वैशेषिकाद्यभिमतं च तस्य नित्यत्वमनेन सूत्रेण निराक्रियते। न त्वणुपरिमाणद्रव्यसामान्यस्य नित्यत्वम्। रजोगुणस्य चाञ्चल्यानुरोधेनाणुत्वसिद्धेः। मध्यमपरिमाणत्वे नित्यत्वस्य विभुत्वे च क्रियाया अनुपपत्तेरिति ॥ 87 ॥
ननु निरवयवस्य परमाणोः कथं कायत्वं घटते ? तत्राह–
न निर्भागत्वं कार्यत्वात्॥ 88 ॥
श्रुतिसिद्धकार्यत्वान्यथानुपपत्त्या पृथिव्याद्यणूनां न निरवयवत्वमित्यर्थः। अत एव तन्मात्राख्यसूक्ष्मद्रव्याण्येव पार्थिवाद्यनामवयवा इति पातञ्जलभाष्ये व्यासदेवैः प्रतिपादितम्। पृथिव्यादीनामपकर्षकाष्टाऽभिप्रायेणैव । अतः प्रकृतिपर्यन्तमणुत्वेऽपि क्षतिरिति । यद्यपि तन्मात्रेष्वपि गन्धाद्यस्ति, तथापि तस्याप्रत्यक्षतया न पृथिवीत्वादिनियामकत्वम्। व्यङ्ग्यगन्धादेरेव पृथिवीत्वादिसिद्धेः। अतो न तन्मात्राणि पृथिव्यादयः। तेषु च सूक्ष्मभूतव्यवहारो भूतसाक्षात्कारणत्वादिनैवेत्यपि बोध्यम्॥ 88 ॥
प्रकृतिपुरुषसाक्षात्कारो न सम्भवति रूपस्य द्रव्यसाक्षात्कारहेतुत्वादिति नास्तिकाक्षेपं निराकरोति–
न रूपनिबन्धनात् प्रत्यक्षनियमः ॥ 89 ॥
रूपादे्व निमित्तात् प्रत्यक्षतेति नियमो नास्ति। धर्मादिनाऽपि साक्षात्कारसम्भवादित्यर्थः। व्यञ्जकानियमस्योञ्जनादौ दृष्टत्वेनादोषत्वात्। अतो बहिर्द्रव्यलोकिकप्रत्यक्षं प्रत्येवोद्भूतरूपं व्यञ्जकमिति भावः॥ 89 ॥
नन्वेवं किमणुपरिमाणं वस्त्वस्ति, न वेत्याकाङ्क्षायां परिमाणानिर्णयं करोति—
न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् ॥ 90 ॥
अणु महद्दीर्घं ह्रस्वमिति परिमाणचातुर्विध्यं नास्ति। द्वैविध्यं तु वर्त्तत एव । द्वाभ्यां तद्योगात्। द्वाभ्यामेवाणुमहत्परिमाणाभ्यां चातुर्विध्यसम्भवादित्यर्थः। महत्परिमाणस्यावान्तरभेदावेव हि ह्रस्वदीर्घौ। अन्यथा चक्रादिरूपेः परिमाणानन्त्यप्रसङ्गादिति तत्रास्मन्नयेऽणुपरिमाणमाकाशस्य कारणं गुणविशेषं वर्जयित्वा भूतेन्दियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यम्। अन्यत्र यथायोग्यं मध्यमादिपरममहत्त्वान्तपरिमाणानि । तानि च महत्त्वस्यैवावान्तरभेदा इति ॥ 90 ॥
पुरुषैकत्वं सामान्येनेति कण्ठत एवोक्तं, प्रकृतेरेकत्वं सामान्येनेत्यर्थादुक्तम्। तदर्थं सामान्येषु नास्तिकविप्रतिपत्तिं निराकरोति–
अनित्यत्वे स्थिरतायोगात् प्रत्यभिज्ञानं
सामान्यस्य ॥ 91 ॥
व्यक्तीनामनित्यत्वेऽपि स एवायं इति स्थिरतायोगेन यत् प्रत्यभिज्ञानं तत् सामान्यस्य । सामान्यविषयकमेव तत् प्रत्यभिज्ञानमित्यर्थः॥ 91 ॥
तस्मान्न सामान्यापलापो युक्त इत्याह–
न तदपलापस्तस्मात्॥ 92 ॥
सुगमम्॥ 92 ॥
नन्वतद्व्यावृत्तिरूपेणाभावेनैव प्रत्यभिज्ञोपपादनीया, सैव च सामान्यशब्दार्थोऽस्तु तत्राह–
नान्यनिवृत्तिरूपत्वं भावप्रतीतेः॥ 93 ॥
स एवायमिति भावप्रत्ययानिवृत्तिरूपत्वं न सामान्यस्येत्यर्थः। अन्यथा हि नायमघट इत्येव प्रतीयते। किञ्चान्यव्यावृत्तिशब्दस्याघटव्यावृत्तिरित्यर्थो वाच्यः। तत्राघटत्वं घटसामान्यभिन्नत्वमिति सामान्याभ्युपगम एवापतित इति ॥ 93 ॥
ननु सादृश्यनिबन्धना प्रत्यभिज्ञा भविष्यति। तत्राह–
न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धेः॥ 94 ॥
भूयोऽवयवादिसामान्यादतिरिक्तं न सादृश्यमस्ति प्रत्यक्षत एव सामन्यरूपतयोपलम्भादित्यर्थः
॥ 94 ॥
ननु स्वाभाविकी शक्तिरेव सादृश्यमस्तु, न तु तत् सामान्यमित्याशङ्कामपाकरोति–
निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः॥ 95 ॥
वस्तुनःस्वाभाविकशक्तिविशेषोत्पादोऽपि न सादृश्यं शक्त्युपलब्धितः सादृश्योपलब्धोर्विलक्षणत्वात्। शक्तिज्ञानं हि नान्यधर्मिज्ञानसापेक्षम्। सादृश्यज्ञानं पुनः प्रतियोगिज्ञानमपेक्षते, अभावज्ञानवदिति ज्ञानयोर्वैलक्षण्यमित्यर्तः। किञ्च धर्मिणः शक्तिसामान्यं न सादृश्यम्। बाल्यावस्थायामपि युवसादृश्यापत्तेः। किन्तु युवादिकालीनः शक्तिविशेषो युवादिसादृश्यमिति वक्तव्यम्। तथाच प्रतिव्यक्त्यनन्तशक्तिकल्पनापेक्षया सर्वव्यक्तिसाधारणैकसामान्यकल्पनैव युक्तेति ॥ 95 ॥
ननु तथापि घटादिसंज्ञकत्वमेव घटादिव्यक्तीनां सादृश्यमस्तुतत्राह–
न संज्ञासंज्ञिसम्बन्धोऽपि ॥ 96 ॥
यथोक्तः संज्ञासंज्ञिनोः सम्बन्धोऽपि न सादृश्यम्। वैशिष्ट्यात् तदुपलब्धेरेवेत्यर्थः। संज्ञासंज्ञिभावमजानतोऽपि सादृश्यज्ञानादिति। 96 ॥
अपि च–
न सम्बन्धनित्यतोभयानित्यत्वात् ॥ 97 ॥
संज्ञासंज्ञिनोरनित्यत्वात्तत्सम्बन्धस्यापि न नित्यता । अतः कथं तेनातीतवस्तुसादृश्यं वर्तमानवस्तुनि स्यादित्यर्थः॥ 97 ॥
ननु सम्बन्ध्यनित्यत्वेऽपि सम्बन्धो नित्यः स्यात् किमत्र बाधकं ? तत्राह–
नातः सम्बन्धो धर्मिग्राहकप्रमाणबाधात्॥ 98 ॥
कादाचित्कविभागो सत्येव सम्बन्धः सिद्ध्यति। अन्यथा वक्ष्यमाणस्वरूपेणैवोपपत्तौ सम्बन्धकल्पनानवकाशात् । स त कादाचित्कोविभागो न सम्बन्धनित्यत्वे सम्भवति। अतः सम्बन्धग्राहकप्रमाणेनैव बाधान्न नित्यः सम्बन्ध इत्यर्थः॥ 98 ॥
नन्वेवं नित्ययोर्गुणगुणिनोर्नित्यः समवायो नोपपद्येत। तत्राह–
न समवायोऽस्ति प्रमाणाभावात् ॥ 99 ॥
सुगमम्॥ 99 ॥
ननु नैशिष्ट्यप्रत्यक्षं विशिष्टबुद्ध्यन्यथानुपपत्तिश्च प्रमाणम्। तत्राह–
अभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षनुमानं वा ॥ 100 ॥
अभयत्रापि वैशिष्ट्यप्रत्यक्षे तदनुमाने च स्वरूपेणैवान्यथासिद्धेर्न तदुभयं समवाये प्रमाणमित्यर्थः। अयं भावः यथा समवायवैशिष्ट्य बुद्धिः समवायस्वरूपेणैवेष्यते, अनवस्थाभयादिति। तत्र प्रत्यक्षानुमाने अन्यथासिद्धे। एवं गुणगुणिप्रभृतीनां विशिष्टबुद्धिरपि गुणादिस्वरूपेणैवेष्यताम्। अतस्तत्रापि प्रत्यक्षानुमाने अन्यथासिद्धे इति । नन्वेवं संयोगोऽपि न सिद्ध्यति। भूतलादौ घटादिप्रत्ययस्यापि स्वरूपेणैवान्यथासिद्धेरिति चेन्न। वियोगकालेऽपि भूतलघटयोः स्वरूपतादावस्थ्येन विशिष्टबुद्धिप्रसङ्गात्। समवायस्थले च समवेतस्य कदापि स्वाश्रयवियोगो नास्तीति, नायं दोषः। कश्चित्तु तादात्म्यसम्बन्धेनात्र समवायस्यान्यथासिद्धिमाह। तन्न । शब्दमात्रभेदात्। तादात्म्यं ह्यत्र नात्यन्तं वक्तव्यम्। गुणवियोगेऽपि गुणिसत्त्वात्। वैशिष्ट्यप्रत्ययाच्च। किन्तु भेदाभेदबुद्धिनियामकः सम्बन्धविशेष एवागत्या वक्तव्यः। तथाच तस्य समवाय इति वा तादात्म्यमिति वा नाममात्रं भिन्नम्। सम्बन्धिद्वयातिरिक्तः सम्बन्धस्तु सिद्ध एवेति । यदि च तादात्म्यं स्वरूपमेवोच्यते तदास्माभिरपि तदेवोक्तमिति शब्दमात्रे भेद इति ॥ 100 ॥
प्रकृतेः क्षोभात् प्रकृतिपुरुषसंयोगस्तस्मात् कस्यापि क्रिया, सर्वं वस्तु क्षणिकं यत्रोत्पद्यते तत्रैव विनश्यतीत्यतो न देशान्तरसंयोगोन्नेया क्रिया सिद्ध्यतीति॥ तत्राह–
नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तद्वतो
रेवापरोक्षप्रतीतेः॥ 102 ॥
न देशान्तरसंयोगदादिना क्रियाया अनुमेयत्वमेव । यतो नेदिष्टस्य निकटस्थस्य द्रष्टुः क्रियाक्रियवतोः प्रत्यक्षेणापि प्रतीतिरस्ति वृक्षश्चलतीत्यादिरित्यर्थः॥ 101 ॥
द्वितीयाध्याये शरीरस्य पञ्चभौतिकत्वादिरूपैर्मतभेदा एवोक्ता, न तु विशेषोऽवधृतः। अत्रापरपक्षं प्रतिषेधति–
न पाञ्चभौतिकं बहुनामुपादानायोगात् ॥ 102॥
बहूनां भिन्नजातीयानां चोपादानत्वं घटपदादिस्थले न दृष्टमिति सजातीममेवोपादनम। इतरच्च भूतचतुष्टयमुपष्टम्भकमित्याशयेन पाञ्चभौतिकव्यवहारः। एकोपादानक्तवंऽपि पृथिव्योवोपादानं सर्वशरीरस्येति वक्ष्यति
॥ 102 ॥
स्थूलमेव शरीरमिति केचित्। तन्निराकरोति–
न स्थूलमिति नियम आतिवाहिकस्यापि
विद्यमानत्वात्॥ 103 ॥
इन्द्रियाश्रयत्वं शररीरत्वम्॥
यन्मूर्त्यवयवाः सूक्ष्मास्तस्योमान्याश्रयन्ति षट्।
तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः॥
इति ( प्रथ 0 अ 0 श्लो 0 17 ) मनुवाक्यात्। एतादृशं च शरीरं स्थूलं प्रत्यक्षमेवेति न नियमः। कुतः? आतिवाहिकस्याप्रत्यक्षतया सूक्ष्मस्य भोतिकस्य शरीरान्तरस्याऽपि सत्त्वादित्यर्थः। लोकाल्लोकान्तरं लिङ्गहेदमतिवाहयतीत्यातिवाहिकम्। भूताश्रयतां विना चित्रादिवदि गमनाबावस्य प्रागेवोक्तत्वात्। इदं च सूत्रं स्पष्टीकरणमात्रार्थम्। लिङ्गस्य च शरीरत्वं भोगाश्रयतया पुरुषप्रतिबिम्बाश्रयतया वेति बोदध्यम्। आतिवाहिकशरीरे च प्रमाणम्–
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सन्निविष्टः।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्षबलाद्यपः॥ इति श्रुतिस्मृती । न हि लिङ्गशरीरस्य सकलशरीरव्यापिनः स्वतोऽङ्गुष्ठमात्रत्वं सम्भवति । अत आधारस्याङ्गुष्ठमात्रमर्थात् सिध्यति । यथा दीपस्य सर्वगृहव्यापित्वेऽपि कलिकाकारत्वं तैलवर्त्यादिसूक्ष्मांशस्य दशोपरि सम्पिण्डितस्य पार्थिवभागस्यकलिकाकारतया , तथैव लिंगदेहस्य देहव्यापित्वेऽप्यङ्गुष्ठपरिमाणत्वं सूक्ष्मभूतस्याङ्गुष्ठपरिमाणत्वेनानुमेयमिति॥ 103 ॥
गोलकेभ्योऽतिरिक्तानीन्द्रियाणि प्रागुक्तानि । तदुपपादनायेन्द्रियाणामप्राप्तप्रकाशकत्वं निराकरोति–
नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्राप्तेःसर्वप्राप्तेर्वा ॥ 104 ॥
स्वासम्बद्धार्थानीन्द्रियाणि न प्रकाशयन्ति। अप्राप्तेः । प्रदीपादीनामप्राप्तकाशकत्वादर्शनात्। अप्राप्तप्रकाशकत्वे व्यवहितादिसर्ववस्तुप्रकाशकत्वप्रसङ्गच्चेत्यर्थः। अतो दूरस्थसूर्यादिसम्बन्धार्थं गोलकातिरिक्तमिन्द्रियमिति भावः। करणानां चार्थप्रकाशकत्वं पुरुषेऽर्थसमर्पणद्वारैव, स्वतो जडत्वात् दर्पणस्य मुखप्रकाशकत्ववत्। अथ वार्थप्रतिबिम्बोद् ग्रहणमेवार्थप्रकाशकत्वमिति॥ 104 ॥
नन्वेवं चक्षुषस्तैजसत्वमेव युक्तम्, तेजस एव किरणरूपेणाशु दूरापसर्पणदर्शनादिति शङ्कां निराकरोति–
न तेजोऽपसर्पणात्तैजसं चक्षुर्वृत्तितस्तत्सिद्धेः॥ 105 ॥
तेजसोऽपसर्पणं दृषश्टमिति कृत्वा तैजसं चक्षुर्न वाच्यम्। कुतः? अतैजसत्वेऽपि प्राणवदेव वृत्तिभेदेनापसर्पणापपत्तेरित्यर्थः। यथा हि प्राणः शरीरमन्त्यज्यैव नासाग्राद्वहिःकियद्दूरं प्राणनाऽऽख्यवृत्त्यापसरति। एवमेवातैजसद्रव्यमपि चक्षुर्देहमसन्त्यज्याऽपि वृत्त्याख्यपरिणामविशेषेण झटित्येव दूरस्थं किं प्रमाणं तत्राह--
प्राप्तार्थप्रकाशलिङ्गाद् वृत्तिसिद्धिः॥ 106 ॥
सुगमम्॥ 106 ॥
देहमपरित्यज्यापि गमनोपपत्तये वृत्तेः स्वरूपं दर्शयति–
भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं
सर्पतीति ॥ 107 ॥
सम्बन्धार्थं सर्पतीति हेतोश्चक्षुरादेर्भागो विस्फुलिङ्गवद्विभक्तांशोरूपादिवद् गुणश्च न वृत्तिः, किन्तु तदेकदेशभूता भागगुणाभ्यां भिन्ना वृत्तिः,।विभागे हि सति तद्द्वाराचक्षुशः सूर्यादिसम्बन्धो न घटते। गुणत्वे च सर्पणाख्यक्रियानुपपत्तेरित्यर्थः। एतेन बुद्धिवृत्तिरपि प्रदीपशिखावद् द्रव्यरूप एव परिणामः स्वच्छतयार्थाकारतोद्ग्राही निर्मलवस्रवदिति सिद्धम्॥ 107 ॥
नन्वेवं वृत्तीनां द्रव्यत्वे कथमिच्चादिरूपबुद्धिगुणेन वृत्तिव्यवहारस्तत्राह–
न द्रव्यनियमस्तद्योगात् ॥ 108 ॥
वृत्तिर्द्रव्यमेवेति नियमो नास्ति. कुतः? तद्योगात्-- तत्र वृत्तौ योगार्थसत्त्वात् । 'वृत्तिर्वर्तनजीवने' इति हि यौगिकोऽयं शब्दः। जीवनं च स्वस्थितिहेतुर्व्यापारः। 'जीव बलप्राणधारणयो' रित्यनुशासनात्। वैश्यवृत्तिः शद्रवृत्तिरित्यादिव्यवहाराच्च । तत्र यथा द्रव्यरूपयावृत्त्या बुद्धिर्जीवति तथेच्छाभिरपीति तेऽपि वृत्तयः सर्वनिरोधेनैव चित्तमरणादित्यर्थः॥ 108 ॥
इन्द्रियाणां भोतिकत्वस्यापि श्रवणात् कदाचिल्लोकविशेषभेदेन श्रुतिव्यवस्था शङ्क्येत, तत्राह–
न देशभेदेऽप्यन्योपादानताऽस्मदादिवन्नियमः॥ 109 ॥
न ब्रह्मलोकादिदेशभेदतोऽपीन्द्रियाणामहङ्कारातिरिक्तोपादानकत्वं, किन्त्वस्मदादीनां भूलोकस्थानामिव सर्वेषामेवाहङ्कारिकत्वनियमः। देशभेदेनेक्सयैव लिङ्गशरीरस्य सञ्चारमात्रश्रवणादित्यर्थः॥ 109 ॥
नन्वेवं भौतिरत्वश्रुतिः कथमुपपद्यतां, तत्राह–
निमित्तव्यपदेशात्तद्रव्यपदेशः॥ 110 ॥
निमित्तेऽपि प्राधान्यविवक्षयोपादानत्वव्यपदेशो भवांत। यथेन्धनादग्निरिति। अतो भूतोपादानत्वव्यपदेश इत्यर्तः। तेजादिभूतोपष्टम्भेनैव हि तदनुगताहङ्काराच्चक्षुरादीन्द्रियाणि सम्भवन्ति। यथा पार्थिवोपष्टम्भेन तदनुगतात् तेजसोऽग्निर्भवति। "अन्नमयं हि सौम्यं मनः" इत्यादिश्रुतिस्तदुक्तयुक्तिश्चात्र प्रमाणम्
॥ 110 ॥
स्थूलशरीरगतं विशेषं प्रसङ्गादवधारयति–
ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्कल्पिकसांसिद्धिकं
चेति न नियमः॥ 111 ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि
भवन्ति। अण्डजं जीवजमुद्भिज्जमिति श्रुतावण्डजादिरूपं शरीरत्रैविध्यप्रायकाभिप्रायेणोक्तं, न तु नियमः, यत ऊष्मजादि षड्विधमेव शरीरं भवतीत्यर्तः। तत्रोष्मकाः दन्दशूकादयः । अण्डजाः पक्षिसर्पादयः। चरायुदा मनुष्यादयः। उद्भिज्जा वृक्षादयः। सङ्कल्पजाः सनकादयः। सांसिद्धिका मन्त्रतप आदिसिद्धिजाः । यथा रक्तबीजशरीरोत्पन्नशरीरादयः॥ 111 …
शरीरस्यैकमात्रभूतोपादानकत्वं पूर्वोक्तमननैव प्रसङ्गेन विशिष्याह–
सर्वेषु पृथिव्युपादानमसाधारण्यात् तद्व्यपदेशः
पूर्ववत्॥ 112 ॥
सर्वेषु शरीरेषु पृथिव्येवोपादानम्, असाधारण्यात्— आधिक्यादिभिरुत्कर्षात्। अत्रापि पञ्चचतुरादिभौतिकत्वव्यपदेशः पूर्ववत्। इन्द्रियाणां भौतिकत्ववदुपष्ठम्भकत्वमात्रेणेत्यर्थः॥ 112 ॥
ननु प्राणस्य शरीरे प्राधान्यात् प्राणं एव देहारम्भकोऽस्तु, तत्राह–
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तित-
स्तत्सिद्धेः॥ 113 ॥
प्राणे न देहारम्भकः। इन्द्रियं विना प्राणानवस्थानेनान्वयव्यतिरेकाभ्यामिन्द्रियाणां शक्तिविशेषादेव प्राणसिद्धेः प्राणोत्पत्तेरित्यर्तः। भयं भावः। करणवृत्तिरूपप्राणः करणवियोगे न तिष्ठति । अतो मृतदेहे करणाभावेन प्राणाभावान्न प्राणो देहारम्भक इति ॥ 113 ॥
नन्वेवं प्राणस्य देहाकारणत्वे प्राणं विनापि देह उत्पद्येतस तत्राह–
भोक्तुरधिष्ठानाद्भोगायतननिर्माणमन्यथा
पूतिभावप्रसङ्गात्॥ 114 ॥
भोक्तुः प्राणिनोऽधिष्ठानाह व्यापारादेव भोगायतनस्य शरीरस्य निर्माणं भवति। अन्यथा प्राणव्यापाराभावे शुक्रशोणितयोः पूतिभावप्रसङ्गाद् मृतदेहवदित्यर्थः। तथा च रससञ्चारादिव्यापारविशेषैः प्राणो देहस्य निमित्तकारणं धारकत्वादिति भावः॥ 114 ॥
ननु प्राणस्यैवाधिष्ठानत्वं सम्भवति व्यापारवत्त्वात्, न प्राणिनः कूटस्थत्वाद्, निर्व्यापारस्याधिष्ठाने प्रयोजनाभावाच्चेति, तत्राह–
भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्तात्॥ 115 ॥
देहनिर्माणे व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्यैकान्तात् साक्षान्नास्चि, किन्तु प्राणरूपभृत्यद्वारा। यता राज्ञः पुरनिर्माण इत्यर्थः। तथा च प्राणस्यादिष्ठातृत्वं साक्षात् पुरुषस्वाधिष्ठातृत्वं प्राणसंयोगमात्रेणेति सिद्धम्। कुलालादीनां घटादिनिर्माणेष्वप्येवम्। विशेषस्त्वयम्। तत्र चेतनस्य बुध्यादेश्चाप्युपयोगोऽस्ति बुद्धिपूर्वकसृष्टित्वादिति । यद्यपि प्राणाधिष्ठानादेव देहनिर्माणं, तथापि प्राणद्वारा प्राणिसंयोगोऽप्यपेक्ष्यते। पुरुषार्थमेव प्राणेन देहनिर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम्॥ 115 ॥
विमुक्तमोक्षार्तं प्रधानस्येत्युक्तं प्राक्। तत्र कथमात्मा नित्यमुक्तो बन्धदर्शनादिति परेषामाक्षेपे नित्यमुक्तिमुपपादयितुमाह–
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता ॥ 116 ॥
समाधिरसम्प्रज्ञातावस्था । सुषुप्तिश्चात्र समग्रसुषुप्तिः। मोक्षश्च विदेहकैवल्यम्। आस्ववस्थासु पुरुषाणां ब्रह्मरूपता बुद्धिवृत्तिविलयतस्तदौपाधिकपरिच्छेदविगमेन स्वस्वरूपपूर्णतयावस्थानम्। यथा घटध्वंसे घटाकाशस्य पूर्णतेत्यर्थः। तदेतदुक्तम्--'तन्निवृत्तावुपशान्तोपरागः स्वस्थ' इति । तथा च ब्रह्मत्वमेव पुरुषाणां स्वभावो नैमित्तिकत्वाभावात्, स्फटिकस्य शौक्ल्यमिव । बुद्धिवृत्तिसम्बन्धकाले तु परिच्छिन्नचिद्रूपत्वेनाभिव्यक्त्या परिच्छेदाभिमानः तथा वृत्तिप्रतिबिम्बवशाद् दुःखादिमालिन्यमिव च भवतीति
तत् सर्वमौपाधिकमेव। उपाध्याख्यनिमित्तान्वयव्यतिरेकानुविधानात् स्फटिकलौहित्यवदिति भावः। तथा च योगसूत्रम् ‘वृत्तिसारूप्यमितरत्रेति’ । अस्मच्चास्त्रे च ब्रह्मशब्दऔपाधिकपरिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाची, न तु ब्रह्ममीमांसायामिवैश्वर्योपलक्षितपुरुषमात्रवाचीति विवेक्तव्यम्। अत्रैते श्लोकाः शिष्यव्युत्पत्त्यर्थमुच्यन्ते–
चिदाकाशेऽनिभिव्यक्ते नानाकारैरितस्ततः।
धीरटन्ती सह व्याक्त्या चिदटन्तीं प्रदर्शयेत्॥
वस्तुतस्तु सदा पूर्णमेकरूपं च चिन्नभः।
वृत्तिशून्यप्रदेशेषु दृश्यभावान्न पश्यति॥
चक्षुषा रूपवत् पुंसो दृश्या वृत्तिर्हि नेतरत।
समाध्यादौ च सा नास्तीत्यतः पूर्णः पुमांस्तदा॥ 116 ॥
तर्हि कः सुषुप्तिसमाधिभ्यां मोक्षस्य विशेषस्तत्राह–
द्वयोः सबीजमन्यत्र तद्धतिः॥ 117 ॥
द्वयोः समाधिसुषुप्त्योः सबीजं बन्धबीजसहितं ब्रह्मत्वमन्यत्र मोक्षे बीजस्याभाव इति विशेष इत्यर्थः। ननु चेत समाध्याजौ बन्धबीजमस्तितर्हि तेनैव परिच्छेदात् कथं बरह्मत्वमिति चेन्न। बन्धबीजस्य कर्मादेस्तत्तदानीमुपाधावेवावस्थानात् । न तु चेतनेषु पुरुषे च तेषामप्रतिबिम्बनादिति। जाग्रदाद्यवस्थायां तु बुद्धिवृत्तिप्रतिबिम्बवशादौपाधिको बन्ध इत्यासकृदावेदितम्॥
ननु पातञ्जले तद्भाष्ये चासम्प्रज्ञातयोगो निर्बीज उक्तः, अत्र कथं सबीज उच्यत इति चेन्न। असम्प्रज्ञाते क्रमेण बीजक्षयो भवतीत्याशयेनैव तत्र निर्बीजत्ववचनात्। अन्यथा सर्वासामेवासम्प्रज्ञातव्यक्तीनां निर्बीजत्वे व्युत्थानानुपपत्तेरिति॥ 117 ॥
ननु समाधिसुषुप्ती दृष्टे स्तः मोक्षे तु किं प्रमाणम्? इति नास्तिकाक्षेपं परिहरति–
द्वयोरिव त्रयस्यापि दृष्टत्वान्न तु द्वौ ॥ 118 ॥
समाधिसुषुप्तिदृष्टान्तेन मोक्षस्यापि दृष्टत्वादनुमितत्वान्न तु द्वौ सुषुप्त्यादौ यो ब्रह्मभावस्तत्त्यागश्चित्तागताद्रागादिदोषवशादेव भवति। स चेद्दोषो ज्ञानेन नाशितस्तर्हि सुषुप्त्यादिसदृशस्येवावस्था स्थिरा भवति, सैव मोक्ष इति ॥ 118 ॥
ननु वासनाख्यबीजसत्त्वेऽपि वैराग्यादिना वासनाकौण्ठ्यादर्थाकारा वृत्तिः समाधौ मा भवतु। सुषुप्तौ ब्रह्मरूपता युक्तेति. तत्राह—
वासनया न स्वार्थख्यापनं दोषयोगेऽपि न निमित्तस्य
प्रधानबाधकत्वम्॥ 119 ॥
यथा वैराग्ये तथा निद्रादोषयोगेऽपि सति वासनया न स्वार्थख्यापनं स्वविषयस्मारणं भवति । यतोन निमित्तस्य गुणीभूतस्य संस्कारस्य बलवत्तरनिद्रादोषबाधकत्वं सम्भवतीत्यर्थः। बलवत्तर एव हि दोषो वासनां दुर्बलां स्वकार्यकुण्ठां करोतीति भावः॥ 119 ॥
संस्कारलेशतो जीवन्मुक्तस्य शरीरधारणमिति तृतीयाध्याये प्रोक्तम्। तत्रायमोक्षेपः–‘जीवन्मुक्तस्य शश्वदेकस्मिन्नप्यर्थेऽस्मदादीनामिव भोगो दृश्यते सोऽनुपपन्नः। प्रथममुत्पाद्यैव पूर्वसंस्कारनाशात् संस्कारान्तरस्य च ज्ञानप्रतिबन्धेन कर्मवदनुदयादिति’ । तत्राह–
एकः संस्कारः क्रियानिर्वर्तको न तु प्रतिक्रियं संस्कार-
भेदा बहुकल्पनाप्रसक्तेः॥ 120 ॥
येन संस्कारेण देवादिशरीरभोग आरब्धः स एक एव संकारस्तच्छरीरसाध्यस्य प्रारब्धभोगस्य समापकः। स च कर्मवदेव भोगसमाप्तिनाश्यो, न तु प्रतिक्रियं प्रतिभोगव्यक्तिसंस्कारनानात्वम्। बहुव्यक्तिकल्पनागौरवप्रसङ्गादित्यर्तः। कुलालचक्रभ्रमणस्थलेऽप्येवं वेगाख्यः संस्कार एक एव भ्रमणसमाप्तिपर्यन्तस्थायी बोध्यः॥ 120 ॥
उद्भिज्जं शरीरमस्तीत्युक्तम्। तत्र बाह्यबुद्ध्यभावाच्छरीरत्वं नास्तीति नास्तिकाक्षेपमपाकरोति–
न बाह्यबुद्धिनियमः॥ 121 ॥
वृक्षगुल्मलतौषधिवनस्पतितृणवीरुधादीनामपि
भोक्तृभोगायतनत्वं पूर्ववत्॥ 122 ॥
न बाह्यज्ञानं यत्रास्ति तदेव शरीरमिति नियमः, किन्तु वृक्षादीनामन्तःसंज्ञानामपि भोक्तृभोगायतनत्वं शरीरत्वं मन्तव्यम्। यतः पूर्ववत् पूर्वोक्तो यो भोक्त्रधिष्ठानं विना मनुष्यादिशरीरस्य पूतिभावस्तद्वदेव वृक्षादिशरीरेष्वपि शुष्कतादिकमित्यर्थः। तथा च श्रुतिः ‘अस्य यदेकांशाखां जीवो जहोत्यथ सा शुष्यती’ त्यादिरिति (छांदो 0 अ0 6 खण्ड0 11 मं0 2)।‘न बाह्यबुद्धिनियम’ इत्यंशस्य पृथक्सूत्रत्वेऽपि सूत्रद्वयमेकीकृत्य इत्यमेव व्याक्येयम्। सूत्रभेदस्तु दैर्ध्यभयादिति बोध्यम्॥ 121– 122 ॥
स्मृतेश्च॥ 123 ॥
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्,॥
(मनुस्मृ0 अ0 12 श्लो0 9 )
इत्यादिस्मृतेरपि वृक्षादिषु भोक्तृभोगायनत्वमित्यर्थः॥ 123 ॥
ननु वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पत्तिप्रसङ्गस्तत्राह–
न देहमात्रतः कर्माधिकारित्वं वैशिष्ट्यश्रुतेः॥ 124 ॥
न देहमात्रेण धर्माधर्मोत्पत्तियोग्यत्वं जीवस्य. कुतः? वैशिष्ट्यश्रुतेः। ब्रह्मणादिदेहविशिष्टत्वेनैवाधिकारश्रवणादित्यर्थः॥ 124 ॥
देहभेदेनैव धर्माधिकारं दर्शयन् देहत्रैविध्यमाह–
त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदे-
होभयदेहाः॥ 125 ॥
त्रयाणामुत्तमाधममध्यमानां सर्वप्राणिनां त्रिप्रकारो देहविभागः कर्मदेहभोगदेहोभयदेहा इतीत्यर्तः। तत्र कर्मदेहः परमर्षीणां, भोगदेह इन्द्रादीनामुभयदेहश्च राजर्षीणामिति । अथ्र प्रधान्येन त्रिधा विभागः। अन्यथा सर्वस्यैव भोगदेहत्वापत्तेः॥ 125 ॥
चतुर्थमपि शरीरमाह–
न किञ्चिदप्यनुशयिनः॥ 126 ॥
विद्यादनुशयं द्वेष्यं पश्चात्तापानुतापयोः।
इति वाक्यादनुशयो वैराग्यम्। विरक्तानां शरीरमेतत्त्रयविलक्षणमित्यर्थः। यथा दत्तात्रेयजडभरतादीनामिति॥ 126 ॥
उक्तस्येश्वराभावस्य स्थापनाय पराभ्युपगतं ज्ञानेच्छाकृत्यादिनित्यत्वं प्रतिषेधति–
न बुद्ध्यादिनित्यत्वमाश्रयाविशेषेऽपि वन्हिवत् ॥ 127 ॥
बुद्धिरत्राध्यवसायाख्या वृत्तिः। तथा च ज्ञानेच्छाकृत्यादीनामाश्रयविशेषे परैरीश्वरोपाधितयाभ्युपगतेऽपि नित्यत्वं नास्ति। अस्मदादिबुद्धिदृष्टान्तेन सर्वेषामेव बुद्धीच्छादीनामनित्यत्वानुमानात्। यथा लौकिकवह्निदृष्टान्तेनावरणतेजसोऽप्यनित्यत्वानुमानमित्यर्थः॥ 127 ॥
आस्तां तावज्ज्ञानेच्छादेर्नित्यत्वं, तदाश्रय ईश्वरोपाधिरेवासिद्धा ईश्वरस्यासिद्धेरित्यत आह–
आश्रयासिद्धेश्च॥ 128 ॥
सुगमम्॥ 128 ॥
नन्वेवं ब्रह्माण्डादिसर्जनसमर्थं सर्वज्ञत्वादिकं कथं जन्यं सम्भाव्येताऽपि लोके तपाधिभिरेवमैश्वर्यादर्शनादिति, तत्राह–
योगसिद्धयोप्यौषधादिसिद्धिवन्नापलपनीयाः॥ 129 ॥
औषधादिसिद्धिदृष्टान्तेन योगजा अप्यणिमाऽऽदिसिद्धयः सृष्ट्याद्युपयोगिन्यः सिध्यन्तीत्यर्थः
॥ 129 ॥
पुरुषसिद्धिप्रतिकूलतया भूतचैतन्यवादिनं प्रत्याचष्टे–
न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च
सांहत्येऽपि च ॥ 130 ॥
संहतभावावस्थायामपि पञ्चभूतेषु चैतन्यं नास्ति। विभागकाले प्रत्येकं चैतन्यादृष्टेरित्यर्थः। तृतीयाध्याये चेदं स्वसिद्धान्तविधयोक्तम्।अत्र च परमतनिराकरणायेति न पौनरुक्त्यं दोषायेति । वीप्साध्याय समाप्तौ
॥ 130 ॥
स्वसिद्धान्तविरुद्धार्थभाषिणो ये कुवादिनः॥
पञ्चमे तान् निराकृत्य स्वसिद्धान्तो दृढीकृतः॥ 1॥
इति श्रीविज्ञानभिक्षुनिर्मिते कापिलसाङ्क्यप्वचनस्य
भाष्येपरपक्षनिर्जयाध्यायः पञ्चमः ॥ 5 ॥
*****************
अथ षष्ठोऽध्यायः॥ 6 ॥
अध्यायचतुष्केण समस्तशास्त्रार्थं प्रतिज्ञाय पञ्चमाध्याये परपक्षनिराकरणेन प्रसाध्येदानीं तमेव सारभूतशास्त्रार्थं षष्ठाध्यायेन सङ्कलयन्नुपसंहरति। उक्तार्थानां हि पुनस्तन्त्राख्ये विस्तरे कृते शिष्याणामसन्दिग्धाविपर्यस्तो दृढतरो बोध उत्पद्यत इत्यतः स्थूणानिखननन्यायादनुक्तयुक्त्याद्युपन्यासाच्च नात्र पौनरुक्त्यं दोषाय ।
अस्त्यात्मा नास्तित्वसाधनाभावात् ॥ 1 ॥
जानामीत्येवं प्रतीयमानतया पुरुषः सामान्यतः सिद्ध एवास्ति बाधकप्रमाणाभावात्। अतस्तद्विवेकमात्रं कर्त्तव्यमित्यर्थः॥ 1 ॥
तत्र विवेके प्रमाणद्वयमाह सूत्राभ्याम्–
देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् ॥ 2 ॥
असावात्मा द्रष्टा देहादिप्रकृत्यन्तेभ्योऽत्यन्तं भिन्नो वैचित्र्यात्। परिणामित्वापरिणामित्वादिवैधर्म्यादित्यर्थः। प्रकृत्यादयस्तावत् प्रत्यक्षानुमानागमैः परिणामितयैव सिद्धाः पुरुषस्याऽपरिणामित्वं तु सदाज्ञातविषयत्वादनुमीयते । तथाहि-- यथा चक्षुषो रूपमेव विषयो, न तु सन्निकर्षसाम्येप्यन्यद्वस्त्विति फलबलात् कलृप्तम्। बुद्धिवृत्त्यारूढतयैव त्वन्यद्भोग्यं भवति पुरुषस्य., न स्वतः । सर्वदा सर्वभानापत्तेः। ताश्च बुद्धिवृत्त्यो नाज्ञातास्तिष्ठन्ति ज्ञानेच्छासुखादीनामज्ञातसत्तास्वीकारे तेष्वपि घटादाविव संशयादिप्रसङ्गादहमहं जानामि न वा, सुखी न वेत्यादिरूपेण । अतस्तेषां सदा ज्ञातत्वात् तद्द्रष्टा चेतनोऽपरिणामीत्यायातम्। चेतनस्य पारणामित्वे कदाचिदान्ध्यपरिणामेन सत्या अपि बुद्धिवृत्तेरदर्शनेन संशयाद्यापत्तेरिति। एवं पारार्थ्यापारार्थ्यादिकमपि पूर्वोक्तं वैधर्म्यजातं बोध्यम्॥ 2॥
षष्ठीव्यपदेशादपि ॥ 3 ॥
ममेदं शरीरं, ममेयं बुद्धिरित्यादेर्विदुषां षष्ठीव्यपदेशादपि देहादिभ्य आत्मा भिन्नः । अत्यन्ताभेदे षष्ठ्यनुपपत्तेरित्यर्थः। तदुक्तं विष्णुपुराणे--
त्वं किमेतच्छिरः किन्तु शिरस्तव तथोदरम्।
किमु पादादिकं त्वं वै तवैतद्धि महीपते!॥
समस्तावयवेभ्यस्त्वं पूथग्भूय व्यवस्थितः।
कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पार्थिव !॥ इति ॥
न च स्थूलोऽहमित्यादिरपि विद्वद्रव्यपदेशोऽस्तीति वाच्यम्। श्रुत्याबाधिततया, ममात्मा भद्रसेन इतिवद् गौणत्वेनैव तदुपपत्तेरिति ॥ 3 ॥
ननु ‘पुरुषस्य चैतन्यं’ ‘राहोःशिरः, शिलापुत्रस्य शरीर’ मित्यादि-व्यपदेशवदयमपि भवतु तत्राह–
न शिलापुत्रवद्धर्मिग्राहकमानबाधात् ॥ 4 ॥
शिलापुत्रस्य शरीरमित्यादिवदयं षष्ठीव्यपदेशो न भवति । शिलापुत्रादिस्थले धर्मिग्राहकप्रमाणेन बाधाद्विकल्पमात्रम्। सम शरीरमिति व्यपदेशे तु प्रमाणबाधो नास्ति। देहात्मताया एव बाधादित्यर्थः। यस्तु शास्त्रेषु ममकारप्रतिषेधः स स्वाभ्यस्याऽनित्यतया
वाचारस्भणमात्रत्वेनासत्यतापर एवेति भावः। पुरुषस्य चैतन्यमित्यत्राप्यस्ति धर्मिग्राहकमानबाधः। अनवस्थाभयेन लाघवाज्ञ देहादिव्यतिरिक्ततयात्मसिद्धौ चेतन्यस्वरूपतावगाहनादिति ॥ 4 ॥
देहादिव्यतिरिक्ततया पुरुषमवधार्य तन्मुक्तिमवधारयति—
अत्यन्तदुःखनिवृत्त्या कृतकृत्यता॥ 5 ॥
सुगमम्॥ 5 ॥
ननु दुःखनिवृत्त्या सुखस्यापि निवर्त्तनात् तुल्यायव्ययत्वेन न स पुरुषार्थ इति, तत्राह–
यथा दुःखात् क्लेशः पुरुषस्य न तथा
सुखादभिलाषः ॥ 6 ॥
विषयविधया हेतुतायां पञ्चभ्यौ । क्लेशश्चात्र द्वेषः। यथा दुःखे द्वेषो बलवत्तरो, नैवं सुखेऽभिलाषो बलवत्तरोऽपि तु तदपेक्षया दुर्बल इत्यर्थः। तथाच सुखाभिलाषं बाधित्वापि दुःखद्वेषो दुःखनिवत्तावेवेच्छां जनयतीति न तुल्यायव्ययत्वमिति । तदुक्तम्--
अभ्यर्थनाभङ्गभयेन साधिर्माध्यस्थ्यमिष्टेऽप्यबलम्बतेऽर्थे॥ इति ॥
या तु नरकादिदुःखदर्शनेऽपि क्षुद्रसुखप्रवृत्तिः सा रागादिदोषवशादेवेति ॥ 6 ॥
सुखापेक्षया दुःखस्य बहुलत्वादपि दुःखनिवृत्तिरेव पुरुषार्थ इत्याह–
कुत्रापि कोऽपि सुखीति ॥ 7 ॥
अनन्ततृणवृक्षपशुपक्षिमनुष्यादिमध्ये स्वल्पो मनुष्यदेवादिरेव सुखीभवतीत्यर्थः। इति हेतौ॥ 7 ॥
तदपि कादाचित्कं क्वाचित्कसुखं मधुविषसम्पृक्तान्नवज् विचारकाणां हेयमेवेत्याह--
तदपि दुःखशबलमिति दुःखपक्षे निःक्षिपन्ते
विवेचकाः॥ 8 ॥
तदपि पूर्वसूत्रोक्तं सुखमपि दुःखमिश्रितमित्यतो दुःखमिश्रितमित्यतो दुःखकोटौ सुखदुःखववेचका निःक्षिपन्त इत्यर्थः। तदुक्तं योगसूत्रेण परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च सर्वमेव दुःखं विवेकिन ( सा0 पा0 सू0 15 ) इति ॥
विष्णुपुराणेऽपि–
यद्यत् प्रीतिकरं पुमसां वस्तु मैत्रेय ! जायते।
तदेव दुःखवृक्षस्य बीजत्मवुपगच्छति ॥ इति ॥ 8 ॥
केवला दुःखनिवृत्तिर्न पुरुषार्थः, किन्तु सुखोपरक्तेति मतमपाकरोति–
सुखलाभाभावादपुरुषार्थत्वमिति चेन्न द्वैविध्यात्॥ 9 ॥
सुखलाभाभआवान्मोक्षाख्यदुःखाभावस्यापुरुषार्थत्वमिति चेन्न । पुरुषार्थस्य द्वैविध्यात्–द्विप्रकारत्वात्। सुखत्वदुःखाभावत्वाभ्यामित्यर्थः। सुखी स्यां, दुःखी न स्यामिति हि पृथगेव लोकानां प्रार्थना दृश्यत इति ॥ 9 ॥
शङ्कते—
निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः॥ 10 ॥
नन्वात्मनो निर्गुणत्वं सुखदुःखमोहाद्यखिलगुणशून्यत्वं नित्यमेव सिद्धम्– असङ्गत्वश्रुतेः, विकारहेतुसंयोगाभावश्रवणात्। तं विना च गुणाख्यविकारासम्भवात्। अतो न दुःखनिवृत्तिरपि पुरुषार्थो घटत इत्यर्धःष ननु संयोगं विना स्वयमेव विकारो भवत्विति चेन्न।
दाहाय नानलो वन्हेर्नापः क्लोदाय चाम्भसः।
तद् द्रव्यमेव तद्द्रव्यविकाराय न वै यतः॥
किञ्च स्वयं विकारित्वे मोक्षो नैवोपपद्यते।
स्वयं मोहविकारेण पुनर्बन्धप्रसङ्गतः॥ इति ॥
तथा चोक्तं कौर्मे–
यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः।
न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ इति ॥ 10 ॥
समाधत्ते–
परधर्मत्वेऽपि तत्सिद्धिरविवेकात्॥ 11 ॥
सुखदुःखादिगुणानां चित्तधर्मत्वेऽपि प्रकृतिपुरुषसंयोगद्वारेत्यर्थः। एतच्च प्रथमाध्याये प्रतिपादितम्। 'निमित्तत्वमविवेकस्य न दृष्टहानि'रिति तृतीयाध्यायसूत्रे चेति। तथा च स्फटिके लौहित्यमिव पुरुषे प्रतिबिम्बरूपेण दुःखसत्त्वात् तन्निवृत्तिरेव पुरुषार्थः। प्रतिबिम्बद्वारकदुःखसम्बन्धस्यैव भोगतया प्रतिबिम्बरूपेणैव दुःखस्य हेयत्वादिति॥ 11 ॥
अविवेकमूलः पुरुषे गुणबन्धोऽविवेकस्तु इत्याकाङ्क्षायामाह–
अनादिरविवेकोऽन्यथा दोषद्वयप्रसक्तेः॥ 12 ॥
अगृहीतासंसर्गकमुभयविषयकज्ञानमविवेकः। स च प्रवाहरूपेणानादिश्चित्तधर्मः प्रलये वासनारूपेण तिष्ठति । अन्यथा तस्य सादित्वे दोषद्वयप्रसङ्गात् । सादित्वे हि स्वत एवोत्पादे मुक्तस्यापि बन्धापत्तिः। कर्मादिजन्यत्वे च कर्मादिकं प्रत्यपि कारणत्वेनाऽविवेकान्तरान्वेषणेऽन वस्थेत्यर्थः। अयं चाविवेको वृत्तिरूपः प्रतिबिम्बात्मना पुरुषधर्म इव भवतीत्यतः पुरुषस्य बन्धप्रयोजक इति प्रागेवोक्तं वक्ष्यते॥ 12 ॥
ननु चेदनादिस्तर्हि नित्यः स्यादिति, तत्राह–
न नित्यः स्यादात्मवदन्यथानुच्छित्तिः॥ 13 ॥
आत्मवन्नित्योऽखण्डानादिर्न भवति, किन्तु प्रवाहरूपेणाऽनादिः। अन्यथानादिभावस्योच्छेदानुपपत्तेरित्यर्थः॥ 13 ॥
बन्धकारणमुक्त्वा मोक्षकारणमाह–
प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत्॥ 14 ॥
अस्य बन्धकारणस्याविवेकस्य शुक्तिरजतादिस्थले प्रतिनियतं यन्नाशकारणं विवेकस्तन्नाश्यत्वं तमोवत्। अन्धकारो हि प्रितिनियतेनालोकेनैव नाश्यते, नान्यसाधनेनेत्यर्थः। तदुक्तं विष्णुपुराणो--
अन्धन्तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम्।
यथा सूर्यस्तथा ज्ञानं यद्विपर्षे ! विवेकजम्॥ इति ॥ 14 ॥
विवेकेनैवाविवेको नाश्यत इति प्रतिनियमस्य ग्राहकमप्याह–
अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् ॥ 15 ॥
ध्वान्तालोकयोरिव प्रकृतेऽपि प्रतिनियमः शुक्तिरजतादिष्वन्वयव्यतिरेकाभ्यामेव ग्राह्य इत्यर्थः। अथवैवं व्याख्येयम्। ननु विवेकस्यापि किं प्रतिनियतं कारणं? तत्राह-- अत्रापि विवेकेऽपि कारणनियमोऽन्वयव्यतिरेकाभ्यामेव सिद्धेः। श्रवणमनननिदिधियासनरूपमेव कारणं, नतु कर्मादीति । कर्मादिकं तु बहिरङ्गमेवेत्यर्थः॥ 15 ॥
बन्धस्य स्वाभाविकत्वादिकं न सम्भवतीति प्रथमपादोक्तं स्मारयति–
प्रकारान्तरासम्भवादविवेक एव बन्धः॥ 16 ॥
बन्धोऽत्र दुःखयोगाख्यबन्धकारणम्। शेषं सुगमम्॥ 16 ॥
ननु मुक्तेरपि कार्यतया विनाशापत्त्या पुनर्बन्धः स्यादिति तत्राह–
न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्तिश्रुतेः॥ 17 ॥
भावकार्यस्यैव विनाशितया मोक्षस्य नाशो नास्ति।'न स पुनरावर्त्तत' इति श्रुतेरित्यर्थः। अपिशब्दः पूर्वसूत्रोक्तार्थसमुच्चये॥ 17 ॥
अपुरुषार्थत्वमन्यथा ॥ 18 ॥
अन्यथा मुक्तस्यापि पुनर्बन्धे प्रलयवदेव मोक्षस्यापुरुषार्थत्वं, परमपुरुषार्थत्वाभावो वा स्यादित्यर्थः॥ 18 ॥
अपुरुषार्थत्वे हेतुमाह–
अविशेषापत्तिरुभयोः॥ 19 ॥
भाविबन्धत्वसाम्येनोभयोर्मुक्तबद्धयोर्विशेषो न स्यात्। ततश्चापुरुषार्थत्वमित्यर्थः॥ 19 ॥
नन्वेवं बद्धमुक्तयोर्विशेषाऽभ्युपगमे नित्यमुक्तत्वं कथमुच्यते? तत्राह–
मुक्तिरन्तरायध्वस्तेर्न परः॥ 20 ॥
वक्ष्यमाणान्तरायस्य ध्वंसादतिरिक्तः पदार्थो न मुक्तिरित्यर्थः। यथा हि स्वभावशुक्लस्य स्फटिकस्य जपोपाधिनिमित्तं रक्तत्वं शौक्ल्यावरकरूपं विध्नमात्रं, न तु जपोपधानेन शौक्ल्य' नश्यति, जपापाये चोत्पद्यते। तथैव स्वभावर्दुःखस्य आत्मनो बुद्धयुपाधिकं
दुःखप्रतिबिम्बं तदावरकरूपं विघ्नमात्रं, न तु बुध्युपधानेन दुःखं जायते, तदपाये च नश्यतीति । अतो नित्यमुक्त आथ्मा, बन्धमोक्षौ तु व्यावहारिकावित्यविरोध इति ॥ 20 ॥
नन्वेवं बन्धमोक्षयोर्मिथ्यात्वे मोक्षस्य पुरुषार्थताप्रतिपादकश्रुत्यादिविरोध इत्याह–
तत्राप्यविरोधः ॥ 21 ॥
तत्राप्यन्तरायध्वंसस्य मोक्षत्वेऽपि पुरुषार्थत्वाविरोध इत्यर्थः। दुःखयोगवियोगावेव हि पुरुषे कल्पितौ, न तु दुःखभोगोऽपि भोगश्च प्रतिबिम्बरूपेण दुःखसम्बन्ध इत्यतः प्रतिबिम्बरूपेण दुःखनिवृत्तिर्यथार्थैव पुरुषार्थः. स एवान्तरायध्वंसः। तादृशश्च मोक्षो यथार्थ एवेति भावः॥ 21 ॥
नन्वन्तरायध्वंसमात्रं चेन्मुक्तिस्तर्हि श्रवणमात्रेणैव तत्सिद्धिः स्यात् अज्ञानप्रतिबद्धकण्ठचामीकरसिद्धिवदिति। तत्राह–
अधिकारित्रैविध्यान्न नियमः॥ 22 ॥
उत्तममध्यमाधमास्त्रिविधा ज्ञानाधिकारिणः। तेन श्रवणमात्रानन्तरमेव मानससाक्षात्कारः सर्वेषामिति न नियम इत्यर्थः। अतो मन्दाधिकारदोषाद्विरोचनादीनां श्रवणमात्राच्चित्तविलायनक्षमं मानसज्ञानं नोत्पन्नम्। न तु श्रवणमात्रं ज्ञानजननासामर्थ्यादिति॥ 22 ॥
न केवलं श्रवणमात्रं ज्ञाने दृष्टकारणमन्यदपीत्याह–
दार्ढ्यार्थमुत्तरेषाम्॥ 23 ॥
श्रवणादुत्तरेषां मनननिदिध्यासनादीनामन्तरायध्वंसस्यात्यन्तिकत्वरूपदार्ढ्यार्थं नियम इत्यनुषज्ज्यते ॥ 23 ॥
उत्तराण्येव साधनान्याह–
स्थिरसुखमासनमिति न नियमः॥ 24 ॥
आसने पद्मासनादिनियमो नास्ति। यतः स्थिरं सुखं च यत् तदेवासनमित्यर्थः॥ 24 ॥
मुख्यं साधनमाह–
ध्यानं निर्विषयं मनः॥ 25 ॥
वृत्तिशून्यं यदन्तःकरणं भवति तदेव ध्यानं योगश्चित्तवृत्तिनिरोधरूपइत्यर्थः। एतत्साधनत्वेन ध्यानस्य वक्ष्यमाणत्वादिति ॥ 25 ॥
ननु योगायोगयोः पुरुषस्यैकरूप्यात् किं योगेनेत्याशङ्क्य समाधत्ते–
उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः॥ 26 ॥
उपरागनिरोधाद्वत्तिप्रतिबिम्बपगमाद्योगावस्थायामयोगावस्थातो विशेषः पुरुषस्येति सिद्धान्तदलार्थः। शेषं व्याख्यातप्रायम्॥ 26 ॥
ननु निःसङ्गे कथमुपरागस्तत्राह–
निःसङ्गेऽप्युपरागोऽविवेकात्॥ 27 ॥
निःसङ्गे यद्यपि पारमार्थिक उपरागो नास्ति, तथाप्युपराग इव भवतीति कृत्वा प्रतिबिम्ब एवोपराग इति व्यवह्रियते उपरागविवेकिभिरित्यर्थः॥ 27 ॥
एतदेव विवृणोति–
जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः॥ 28 ॥
यता जपास्फटिकयोर्नोपरागः, किन्तु जपाप्रतिबिम्बवशादुपरागाभिमानमात्रं, रक्तः स्फटिक इति। तथैव बुद्धिपुरुषयोर्नोपरागः। किन्तु बुद्धिप्रतिबिम्बवशादुपरागाभिमानोऽविवेकवशादित्यर्थः। अत उपरागतुल्यतया वृत्तिप्रतिबिम्ब एव पुरुषोपराग इति सूत्रद्वयपर्यवसितोऽर्थः। स एव च दुःखात्मकवृत्तेरुपरागो दुःखनिवृत्त्याख्यमोक्षस्यान्तरायस्तस्य च ध्वंसश्चित्तलयात्। सोऽपि च चित्तवृत्तिनिरोधाख्येनासम्प्रज्ञातयोगेनेत्यतो योगादेवान्तरायध्वंसो भवतीति योगशास्त्रस्यापि सिद्धान्तः॥ 28 ॥
ध्यानं निर्विषयं मन इति योग उक्तस्तस्य साधनान्यैचक्षाण एव यथोक्तोपरागस्य निरोधोपायमाह–
ध्यानधारणाभ्यासवैराग्यादिभिस्तन्निरोधः॥ 29 ॥
समाधिद्वारा ध्यानं योगस्य कारणं ध्यानस्य च कारणं धारणा। तस्याश्च कारणमभ्यासश्चित्तस्थैर्यसाधनानुष्ठानम्, अभ्यासस्यापि कारणं विषयवैराग्यं, तस्यापि दोषदर्शनयमनियमादिकमिति पातञ्जलोक्तप्रक्रियया तन्निरोध उपरागनिरोधो भवति चित्तवृत्तिनिरोधाख्ययोगद्वारेत्यर्थः॥ 29 ॥
चित्तनिष्टध्यानादिना पुरुषस्योपरागनिरोधे पूर्नाचार्यसिद्धं द्वारं दर्शयति–
लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः॥ 30 ॥
ध्यानादिना चित्तस्य निद्रावृत्तेः प्रमाणादिवृत्तेश्च निवृत्त्या पुरुषस्यापि वृत्त्युपरागनिरोधो भवति । बिम्बनिरोधे प्रतिबिम्बस्यापि निरोधादिति पूर्वाचार्या आहुरित्यर्थः। यथा पतञ्जलिः, 'योगश्चित्तवृत्तिनिरोधः, तदाद्रष्टुःस्वरूपेऽवस्थानम्, वृत्तिसारूप्यमितरत्रे'ति (सा0 पा0 सू- 1-23 ) सूत्रत्रयेणैतदेवाह। तथा--
नित्यः सर्वत्रगो ह्यात्प्ना बुद्धिसन्निधिमत्तया।
यथा यथा भवेद् बुद्धिरात्मा तद्विदिहेष्यते॥
इत्यादिस्मृतयोऽप्येतदाहुरित। तदेवमसंप्रज्ञाचयोगादेव मोक्षान्तरायध्वंस इति प्रघट्टकार्थः॥30॥
ध्यानादौ गुहादिस्थाननियमो नास्तीत्याह–
न स्थाननियमश्चित्तप्रसादात् ॥ 31 ॥
चित्तप्रसादादेव ध्यानादिकम्। अतस्तत्र न गुहादिस्थाननियम इत्यर्थः। शास्त्रं त्वौत्सर्गिकाभिप्रायेणैवारण्यगिरिगुहादिस्थानं योगस्योद्दिष्टमिति। अत एव ब्रह्मसूत्रमपि 'यत्रैकाग्रता तत्राविशेषा'दिति
॥ 31 ॥
समाप्तौ मोक्षविचारः। इदानीं पुरुषापरिणामित्वाय जगत्कारणं विचारयति–
प्रकृतेराद्योपादानतान्येषां कार्यत्वश्रुतेः॥ 32 ॥
महदादीनां कार्यत्वश्रवणात् तेषां मूलकारणतया प्रकृतिः सिध्यतीत्यर्थः॥ 32 ॥
पुरुष एवोपादानं भवतु, तत्राह–
नित्यत्वेऽपि नात्मनो योगत्वाभावात्॥ 33 ॥
गुणवत्त्वं सङ्गित्वं चोपादानयोग्यता तयोरभावात् पुरुषस्य नित्यत्वेऽपि नोपादानत्वमित्यर्थः
॥ 33 ॥
ननु ‘बह्लीः प्रजाः पुरुषात् सम्पसूता’ इत्यादिश्रुतेः पुरुषस्य कारणत्वावगमाद्विवर्त्तादिवादा आश्रयणीया इत्याशङ्क्याह–
श्रितिविरोधान्न कुतर्कापसदस्यात्मलाभः॥ 34 ॥
पुरुषकारणतायां ये ये पक्षाः सम्भावितास्ते सर्वे श्रुतिविरुद्धा इत्यतस्तदभ्युपगन्तृणां कुतर्किकाद्यधमानामात्मस्वरूपज्ञानं न भवतीत्यर्थः। एतेनात्मनि सुखदुःखादिगुणोपादानत्ववादिनोऽपि कुतार्किका एव। तेषामप्यात्मयथार्थज्ञानं नास्तीत्यवगन्तव्यम्। आत्मकारणताश्रुतयश्च शक्तिशक्तिमदभेदोनोपसानार्था एव । अजामेकामित्यादिश्रुतिभिः प्रधानकारणतःसिद्धेः. यदि चाकशस्थाऽभ्राद्यधिष्ठानकारणत्वमुच्यते तदा तन्न निराकुर्मः। परिणामस्यैव प्रतिषेधादिति॥ 34 ॥
स्थावरजङ्गमादिषु पृथिव्यादीनामेव कारणत्वदर्शनात् प्रकृतेः सर्वोपादानत्वम्? तत्राह–
पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत्॥ 35 ॥
स्थावरादिषु परम्परया कारणत्वेऽपि तेषु प्रधानस्याऽनुमानादुपादानत्नमक्षतम्। यथाङ्कुरादिद्वारक्त्वेऽपि स्थावरादिषु पार्तिवाद्यणूनामनुगमादुपादानत्वमित्त्यर्थः॥ 35 ॥
वनन्योयेन प्रकृतेर्व्यापकत्वे प्रमाणमाह–
सर्वत्र कार्यदर्शानाद्विभुत्वम्॥ 36 ॥
अव्यवस्थया सर्वत्र वाकारदर्शनात् प्रधानस्य विभुत्वम् यताऽणोर्धटादिव्यापित्वमित्यर्थः. एतच्च प्रागेव व्याक्यातम्॥ 36 ॥
ननु परिच्छिन्नत्वेऽपि यत्र कार्यमुत्पद्यते तत्र गच्छतीति वक्तव्यं, तत्राह–
गतियोगेऽप्याद्यकारणतानिरणुवत्॥ 37 ॥
गतिस्वीकारेऽपि परिच्छिन्नतया मीलकारणत्वाभावः पार्थिवाद्यणुदृष्टान्तेनेत्यर्थः। अथवेत्थं व्याख्येयम्। ननु त्रिगुणात्मकप्रधानस्यान्योऽन्यसंयोगार्थं श्रुतिस्मृतिषु क्रिया क्षोभाख्या श्रूयते कियावत्त्वाच्च तन्त्वादिदृष्टान्तेन मूलकारणत्वाभाव इत्याशङ्क्य परिहरति। गतियोगेऽप्याद्यकारणताहानिरणुवत्। गतिः किया तत्सत्त्वेऽपि मूलकारणताया
अहानिर्यथा शेषिकमते पार्थिवाद्यणूनामित्यर्थः॥ 37 ॥
ननुपृथिव्यादीनां नवानामेव द्रव्याणां दर्शनात् कथं पृथिवात्वीदिशून्यं प्रधानाख्यं द्रव्यं घटेत । न च प्रधानं द्रव्यमेव माऽस्त्विति वाच्यम्। संयोगविभागपरिणामादिभिर्द्रव्यत्वसिद्धेरिति, तत्राह–
प्रसिद्धाधिक्यं प्रधानस्य न नियमः॥ 38 ॥
प्रसिद्धनवद्रव्याधिक्यमेव प्रधानस्यातो नवैव द्रव्याणीति न नियम इत्यर्थः। अष्टानामेव कार्यत्वशष्रवणं चात्र तर्क इति भावः॥ 38 ॥
किं सत्त्वादयो गुणा एव प्रकृतिरथवा गुणत्रयरूपद्रव्याधारभूता प्रकृतिरिति संशयेऽवधारयति–
सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात्॥ 39 ॥
सत्त्वादिगुणानां प्रकृतिधर्मत्वं नास्ति, प्रकृतिस्वरूपत्वादित्यर्थः। यद्यपि श्रुतिस्मृतिषूभयमेव श्रूयते, तथापि तर्कतः स्वरूपत्वमेवावधार्यते, न तु धर्मत्वम्। तथाहि । सत्त्वादित्रयं किं प्रकृतेः कार्यरूपो धर्मोऽथवा आकाशस्य वायुवत् संयोगमात्रेण नित्य एव धर्मः स्यात्। आद्ये एकस्या एव प्रकृतेर्द्रव्यान्तरसङ्गं विना विचित्रगुणत्रयोत्पत्त्यसम्भवः, दृष्टविरुद्धकल्पनाऽनोचित्यं च । अन्त्ये नित्येभ्य एव सत्त्वादिभ्योऽन्यान्यसङ्गेन विचित्रसकलकार्योपपत्तौ तदतिरिक्तप्रकृतिकल्पनावैयर्थ्यमिति। सत्त्वादीनां प्रकृतिकार्यत्वादिवचनानि यांशतः प्रकाशादिकार्योपहिततयाभिव्यक्त्यादिकमेव बोधयन्ति। यथा पृतिवीतो द्वीपोत्पत्तिरिति ॥ 39 ॥
प्रधानप्रवृत्तेः प्रयोदनमवधारयति, निष्प्रयोजनप्रवृत्त्यभ्युपगमे मोक्षानुपपत्तेरिति–
अनुपभोगेऽपि पुमर्थं मृष्टिः प्रधानस्योष्ट्र-
कुङ्कुमवहनवत्॥ 40 ॥
तृतीयाध्यायस्थे, प्रधानसृष्टिः परार्थेत्यादिसूत्रे व्याख्यातमिदम्॥ 40 ॥
विचित्रसृष्टौ निमित्तकारणमाह–
कर्मवैचित्र्यात् सृष्टिवैचित्र्यम्॥ 41 ॥
कर्म धर्माधर्मौ। सुगममन्यत् ॥ 41 ॥
ननु भवतु प्रधानात् सृष्टिः? प्रलयस्तु कस्मात्. न ह्येकस्मात् कारणाद्विरुद्धकार्यद्वयं घटते। तत्राह–
साम्यवैषम्याभ्यां कार्यद्वयम्॥ 42 ॥
सत्त्वादिगुणत्रयं प्रधानम्। तेषां च वैषम्यं न्यूनातिरिक्तभावेन संहननम्। तदभावः साम्यम्। ताभ्यां हेतुभ्यामेकस्मादेव सृष्टिप्रलयरूपं विरुद्धकार्यद्वयं भवतीत्यर्थः। स्थितिस्तु सृष्टिमध्ये प्रविष्टेत्याशयेन तत्कारणत्वं प्रधानस्य न पृथग्विचारितम्॥ 42 ॥
ननु प्रधानस्य सृष्टिस्वाभाव्यज्ज्ञानोत्तरमपि संसारः स्यात्, तत्राह–
विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् ॥ 43 ॥
विमुक्ततया पुरुषसाक्षात्काराद्धेतोः प्रधानस्य तत्पुरुषार्थ पुनः सृष्टिर्न भवति । कृतार्थत्वात् । लोकवत्। यथा लोका अमात्यादयो राज्ञोऽर्थं सम्पाद्य कृतार्थाः सन्तो न पुनःराजार्थं प्रवर्त्तते. तथैव प्रधानमित्यर्थः। विमुक्तमोक्षार्थं हि प्रधानप्रवृत्तिरित्युक्तम्, स च ज्ञानान्निष्पन्न इति भावः॥ 43 ॥
ननु प्रधानस्य सृष्ट्यु परमो नास्ति, अज्ञानां संसारदर्शनात् । तथाच प्रधानसृष्ट्या मुक्तस्यापि पुनर्बन्धः स्यात्, तत्राह–
नान्योपसर्पणेऽपि मुक्तोपभोगौ निमित्ताभावात्॥ 44 ॥
कार्यकारणसङ्घातादिसृष्ट्याऽन्यान् प्रति प्रधानस्योपसर्पणेऽपि न मुक्तस्योपभोगो भवति, निमित्ताभावात् । उपभोगे निमित्तानां स्वोपाधिसंयोगविशेषतत्कारणाविवेकादीनामभावादित्यर्थः। इदमेव हि मुक्तं प्रतिप्रधानसृष्ट्युपरमो यत् तद्भागहेतोः स्वोपाधिपरिणामविशेषस्य जन्माख्यस्यानुत्पादनमिति॥ 44 ॥
नन्वियं व्यवस्था तदा घटेत यदि पुरुषबहुत्वं स्यात्, तदेव त्वात्माद्वैतश्रुतिबाधितमित्याशङ्क्याह–
पुरुषबहुत्वं व्यवस्थातः॥ 45 ॥
'ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमोवापियन्ती'त्यादिश्रुत्युक्तबन्धमोक्षव्यवस्थात एव पुरुषबहुत्वं सिद्ध्यतीत्यर्थः॥ 45 ॥
ननूपाधिश्चेत् स्वीक्रियते तर्ह्युपाधिसिद्ध्यैव पुनरद्वैतभङ्ग इत्यर्थः। व्सतुतस्तूपाधिभेदेऽपि व्यवस्था न सम्भवतीति प्रथमाध्याय एव प्रपञ्चितम्॥ 46 ॥
ननूपाधयोऽप्याविद्यका इति,– न तैरद्वैतभङ्ग इत्याशङ्कायामाह–
द्वाभ्यामपि प्रमाणविरोधः॥ 47 ॥
पुरुषोऽविद्येति द्वाभ्यामप्यङ्गाकृताभ्यामद्वैतप्रमाणस्य श्रुतेर्विरोधस्तदवस्थ एवेत्यर्थः॥ 47 ॥
अपरमपि दूषणद्वयमाह–
द्वाभ्यामप्यविरोधान्न पूर्वमुत्तरं च साधकाभावात्॥ 48 ॥
द्वाभ्यामप्यङ्गीकृताभ्यां हेतुभ्यां पूर्वं पूर्वपक्षो भवतां न घटते । अस्माभिरपि प्रकृतिः पुरुषश्चेति द्वयोरेवाङ्गाकारात् । विकारस्यानित्यतया वाचारम्भणमात्रताया अस्माभिरपीष्टत्वात्। ननु पुरुषनानात्वस्वीकारात् प्रकृतेर्नित्यत्वस्वीकाराच्चास्त्येवास्मद्विगेध इत्याशङ्य दूषणान्तरमाह--उत्तरं चेत्यादिना । अद्वैतवादिनामुत्तरं सिद्धान्तश्च न घटते, आत्मसाधकप्रमाणस्याभावात् । तदङ्गीकारे च तेनैवाद्वैतहानिरिति जितं तैरात्म्यवादिभिरित्यर्थः॥ 48 ॥
ननु स्वप्रकाशत आत्मा संत्स्यति, तत्राह–
प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः॥ 49 ॥
चैतन्यरूपप्रकाशतश्चैतन्यसिद्धौ कर्मकर्तृविरोध इत्यर्तः। प्रकाश्य प्रकाशसम्बन्धे हि प्रकाशनमालोकादिषु दृष्टम्। स्वस्य साक्षात् स्वस्मिन् सम्बन्धश्च विरुद्ध इति । अस्मन्मते तु बुद्धिवृत्त्याख्यप्रमाणाङ्गीकारात् तद्द्वारा प्रतिबिम्बरूपस्य स्वस्य बिम्बरूपे स्वस्मिन सम्बन्धो घटते । यथा सूर्ये जलद्वारा प्रतिबिम्बरूपस्वसम्बन्ध इति भावः। आत्मनः स्वप्रकाशत्वश्रुतिस्त्वनन्योपाधिकप्रकाशादिपरा बोध्या॥ 49 ॥
ननु नास्ति कर्मकर्तृविरोधः। स्वनिष्टप्रकाशधर्मद्वारा स्वस्य स्वसम्बन्धसम्भवात्, यथा वैशेषिकाणां स्वनिष्ठज्ञानद्वारा स्वस्य स्वयं विषय इति, तत्राह–
ज़डव्यावृत्तो जडं प्रकाशयति चिद्रूपः ॥ 50 ॥
चेतने प्रकाशरूपधर्मः सबर्यादिष्विव नास्ति, किन्तु चित्स्वरूप एव पदार्थो जड प्रकाशयति । यतोजडव्यावृत्तिमात्रेण चिदित्युच्यते, न तु जडविलक्षणधर्मवत्तयेत्यर्थः। अत एव निर्धर्मतया "स एष नेति नेती"त्येव श्रुत्यापदिश्यते, न तु विधिमुखतयेति । तथा च स्मृतिरपि--
इदं तदिति निर्देष्टुं गुरुणआपि न शक्यते॥ इति ॥
जडव्यावृत्ताविति पाठेऽपि हेतौ सप्तम्यामयमेवार्थः। अस्मिंमश्च सूत्रे जडमेव प्रकाशयति चिद्रूपो न
त्वात्मानमिति नार्थः। तथा सति हि तस्याज्ञेयत्वेन साधकाभावरूपं बाधकं परेषूपन्यासानर्हम्, स्वस्यापि तुल्यन्यायत्वादिति॥ 50 ॥
नन्वेवं प्रमाणाद्यनुरोधेन द्वैतसिद्धावद्वैतश्रुतेः का गतिस्तत्राह–
न श्रुतिविरोधो रागिणां वैराग्याय तत्सिद्धेः॥ 51 ॥
अद्वैतश्रुतिविरोधस्तु नास्ति। रागिणां पुरुषातिरिक्ते वैराग्यायैव श्रुतिभिरद्वैतसाधनात्। पुरुषज्ञान इव द्वैताभावज्ञाने स्वतन्त्रफलान्तराश्रवणात्। तच्च वैराग्यं सदद्वैतेनैवोपपद्यते। सत्त्वं च कूटस्थत्वमित्यर्थः। अत एव श्रुतिरपि सदद्वैतमेव छान्दोग्ये प्रतिपादितवतीति भावः॥ 51 ॥
न केवलमुक्त्यैवाद्वैतवादिनो हेयाः, अपि तु जगदसत्यताग्राहकप्रमाणाभावेनाऽपीत्याह–
निद्रादिदोषदुष्टान्तःकरणाऽऽदिजन्यवाद् बाधकाभावात्॥ 52 ॥
निद्रादिदोषदुष्टान्तःकरणाऽऽदिजन्यत्वेन स्वाप्नविषयशङ्खपीतिमादीनामसत्यत्वं लोके दृष्टम्। तच्च महदादिप्रपञ्चे नास्ति। तत्कारणस्य प्रकृतेर्हिरण्यगर्भाबुद्धेश्चादुष्टत्वात् ‘यथापूर्वमकल्पय’दिति श्रवणात्। ननु ‘नेह नानास्तिकिञ्चने’त्यादिश्रुत्या बाधितत्वेनाऽविद्यादिनामा कश्चनानादिर्दोषः कल्पनीयस्तत्राह बाधकाभावादिति । अयं भावः. “नेह नानास्ति किञ्चने” त्यादिश्रुतयो याः परैः प्रपञ्चबाधकतयाभिप्रेयन्ते ताः प्रकारणानुसारेण विभागादिप्रतिषेधिका एव, न तु प्रपञ्चात्यन्ततुच्छतापराः, स्वस्यापि बाधापत्त्या स्वार्थासाधकत्वप्रसङ्गात्। न हि स्वप्नकालीनशब्दस्य बाधे तज्ज्ञापितोऽप्यर्थः पुनर्न सन्दिह्यत इति । तस्मादात्माविघातकतया श्रुतयो न प्रपञ्चस्यात्यन्तबाधपरा इति । तत्र ‘नेह नानास्ति किञ्चने’त्यादिश्रुतेर्ब्रह्मविभक्तं किमपि नास्तीत्यर्थः, सर्व समाप्नोषि ततोऽसि सर्व’ इत्यादिस्मृत्यैकवाक्यत्वात्. ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य’मित्यादिश्रुतेस्तु नित्यतारूपपारमार्थिकसत्ताविरहोऽर्थः, अन्यता मृत्तिकादृष्टान्तासिद्धेः। न हि लोके मृत्तिकाविकाराणामत्यन्ततुच्छत्वं सिद्धं, येन दृष्टान्तता स्यादिति॥
न निरोधो न चोत्पत्तिर्न बद्धो न च स्यादिति॥
न मुमुक्षुर्न वै मुक्त इत्येष परमार्थता॥
इत्यादिश्रुतेस्त्वात्माऽतिरिक्तस्य कूटस्थनित्यतारूपातिपरमार्थसत्ताविरहोऽर्थः। किञ्चाऽऽत्मनो निरोधाद्यभावोऽर्थः, अन्यथैतादृषज्ञानस्य मोक्षफलकत्वप्रतिपादनविरोधात्। न हि मोक्षो मिथ्येति प्रतिपाद्य मोक्षस्य फलत्वमप्रमत्तः प्रतिपादयतीति। याश्चात्मैक्यश्रुतयस्तास्तु प्रथमोध्याय एव व्याख्याताः। ब्रह्ममीमांसाभाष्ये चैता अन्यास्च श्रुतयोऽस्माभिर्व्याख्याता इति दिक्॥ 52 ॥
न केवलं वर्तमानदशायामेव प्रपञ्चः सन्नपि तु सदैवेत्याह–
प्रकारान्तरासम्भवात् सदुत्पात्तिः॥ 53 ॥
पूर्वोक्तयुक्तिवृत्तिभिरसदुत्पादासम्भवात् सूक्ष्मरूपेण सदेवोत्पद्यतेऽभिव्यक्तं भवतीत्यर्थः॥ 53 ॥
कर्तृत्वभोक्तृत्वयोर्वैयधिकरण्येऽपि व्यवस्थामुपपादयति सूत्राभ्याम्–
अहङ्कारः कर्ता न पुरुषः॥ 54 ॥
ह्यभिमानवृत्तिकमन्तःकरणमहङ्कारः। स एव कृतिमान् । अभिमानोत्तरमेव प्रायशः प्रवृत्तिदर्शनात् । न तु पुरुषः, अपरिणामित्वादित्यर्थः। पूर्वं च धर्मादिकं बुद्धेरिति यदुक्तं
तदेक्यैवान्तःकरणस्य वृत्तिमात्रभेदाशयेन॥ 54 ॥
चिदवसाना भुक्तिस्तत्कर्मार्जितत्वात्॥ 55 ॥
अहङ्कारस्य कर्तृत्वेऽपि भोगश्चित्येव पर्यवसन्नो भवति। अहङ्कारस्य संहतत्वेन परार्थत्वात्। नन्वेवमन्यनिष्ठकर्मणाऽन्यस्य भोगे पुरुषविशेषनियमो न स्यात्, तत्राह--तत्कर्मार्जितत्वादिति। अहङ्कारेणासञ्जितं तस्याश्चितो
यत् कर्म तज्जन्यत्वाद्भोगस्येत्यर्थः। तथा च योऽहङ्कारो यं पुरुषमादायाचेतनेऽहं ममेति वृत्तिं करोति तस्याहङ्कारस्य कर्म तस्यात्मन उच्यते । तेनैव च कर्मणा तत्राऽऽत्मनि भोगोऽर्ज्यत इति नातिप्रसङ्ग इत्याशयः॥ 55 ॥
ब्रह्मलोकान्तगतिभिर्नास्ति निष्कृतिरिति पूर्वोक्ते कारणं दर्शयति–
चन्द्रादिलोकेऽप्यावृत्तिर्निमित्तसद्भावात्॥ 56 ॥
निमित्तमविवेककर्मादिकम्। सुगममन्यत् ॥ 56 ॥
ननु तत्तल्लोकवासिजनोपदेशादनावृत्तिःस्यात्, तत्राह–
लोकस्य नोपदेशात् सिद्धिः पूर्ववत्॥ 57 ॥
यथा पूर्वस्य मनुष्यलोकस्योपदेशमात्रान्न सिद्धिर्ज्ञाननिष्पत्तिरेवं तत्तल्लोकस्थलोकस्योपदेशमात्रात्तद्गतानां ज्ञाननिष्पत्तिर्न भवतीत्यर्थः॥ 57 ॥
नन्वेकं ‘ब्रह्मलोकादनावृत्ति’रिति श्रुतेः का गतिस्तत्राह–
पारम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः॥ 58 ॥
ब्रह्मलोकादिगतानां श्रवणमननादिपरम्परया प्रायशो ज्ञानसिद्धौ सत्यां विमुक्तिश्रवणं न तु साक्षाद्गतिमात्रेणेत्यर्थः। प्रायिकत्वादन्यलोकाद्विशेष इति ॥ 58 ॥
परिपूर्णत्वेऽप्यात्मनो गतिश्रुतिमुपपादयति–
गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाद्भोगदेशका-
ललाभो व्योमवत् ॥ 59 ॥
व्यापकत्वेऽप्यात्मनो गतिश्रवणानुरोधेन भोगदेशस्य कालवशाल्लाभः सिद्ध्यति । व्योमवदुपाधियोगेनेत्यर्थः। यथा ह्याकाशस्य पूर्णत्वेऽपि देशविशेषगतिर्घटाद्युपाधियोगाद् व्यवह्नियते । तथा च श्रुतिः–
घटसंवृतमाकाशं नीयमाने घटे यथा ।
घटो नीयते नाकाशं तद्वज्जीवो नभोपमः॥ इति ॥ 59 ॥
भोक्तुरधिष्ठानाद्भोगायतननिर्माणमिति यदुक्तं तत् प्रपञ्चयति सूत्राभ्याम्–
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः॥ 60 ॥
भोक्त्रनधिष्ठितस्य शुक्रादेः पूतिभावप्रसङ्गान्न पूर्वोक्तभोगतनसिद्धिरित्यर्थः.। 60 ॥
नन्वधिष्ठानं विनवादृष्टद्वारा भोक्तृभ्यो भोगायतननिर्माणं भवतु, तत्राह–
अदृष्टद्वारा चेदसम्बद्धस्यतदसम्भवाज्जलादिवदङ्कुरे॥ 61 ॥
शुक्रादौ साक्षादसम्बद्धस्यादृष्टस्य शरीरादिनिर्माणे भोक्तृद्वारत्वासम्भवाद् बीजासम्बद्धानां जलादीनात्पत्तौ कर्षकादिद्वारत्ववदित्यर्थः। अथः स्वाश्रयसंयोगसम्बन्धः शुक्रादिषु वक्तव्यः। तथा च सिद्धमदृष्टवदात्मसंयोगरूपेणाऽधिष्ठानस्य भोगोपकरणनिर्माणहेतुत्वमिति भावः॥ 61 ॥
वैशेषिकादिनयेनादृष्टस्य सम्बन्धघटकतयात्मनोऽधिष्टातृत्वं स्थापितम्, स्वसिद्धान्ते त्वदृष्टादीनामात्मधर्मभावात् तदद्वारा भोक्तुर्हेतुत्वमेव न सम्भवतीत्याह–
निर्गुणत्वात् तदसम्भवादहङ्कारधर्मा ह्येते ॥ 62 ॥
भोक्तुर्निर्गुणत्वेनादृष्टासम्भवाच्च नादृष्टद्वारकत्वम्। हि यस्मादेतेऽदृष्टादयोऽहङघ्कारस्यान्तःकरणसामान्यस्यैव धर्मा इत्यर्थः। तथा चास्मन्मते द्वारनैरपेक्ष्येण संयोगमात्रेण साक्षादेव भोक्तुरधिष्ठानं
सिद्ध्यतीति भावः॥ 62 ॥
ननु चेत् पुरुषो व्यापकस्तर्हि,–
बालाग्रशतभागस्य शतधा कल्पितस्य च।
भोगो जीवः स विज्ञेयः स चानन्त्याय कल्पते॥
इति श्रुतिप्रचिपादितं जीवपरिच्छिन्नत्वमनुपपन्नम्, तथोश्वरप्रतिषेधात् पुरुषाणां चैकरूप्याज्जीवात्मपरमात्मविभागोऽपि शास्त्रीयोऽनुपपन्न इति, तामिमामाशङ्कां परिहर्तुमाह–
विशिष्टस्य जीवत्वमन्वयव्यतिरेकात्॥ 63 ॥
'जाव बलप्राणनयो'रिति व्युत्पत्त्या जीवत्वं प्राणित्वम्। तच्चाहङ्कारविशिष्टपुरुषस्य धर्मो, न तु केवलपुरुषस्य । कुतः? अन्वयव्यतिरेकात्। अहङ्कारवतामेव सामर्थ्यातिशयप्राणधारणयोर्दर्शनात्। तच्छून्यानां च चित्तवृत्तिनिरोधस्यैव दर्शनात्। प्रवृत्तिहेतुरागोत्पादकस्य अहङ्कारस्याभावादित्यर्थः। तथा चाऽन्तःकरणोपाधिकं जीवस्य परिच्छिन्नत्वं परमात्माख्यात् केवलपुरुषाद्भिन्नत्वं चेति भावः। अनेन सत्रेण विशिष्टस्य भोक्तृत्वं वा त्वमहम्प्रत्ययगोचत्वं वा नोक्तम्, साक्षात्काररूपस्य भोगस्याऽङ्कारधर्मत्वाभावात्। त्वमहन्धर्मिपुरस्कारेण विवेकानुपपत्तेश्च। किन्तु,--
यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः।
भवेत् तदा मुनिश्रेष्ठाः! पाशच्छेदो भविष्यति॥
आत्मानं द्विविधं ग्राहुः परापरविभेदतः.
परस्तुनिर्गुणः प्रोक्त अहङ्कारयुत्तोऽपरः॥
इत्यादिवाक्यशतोक्त जावीत्मविभाग एव प्रदर्शितः। थत्र जीवतायामहङ्कार उपलक्षणमोवेति॥ 63 ॥
इदानीं महदहङ्कारयोःकार्यभेदं प्रतिपादयिषुरादावहङ्कारकार्यमाह–
अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना
प्रमाणभावात् ॥ 64 ॥
अहङ्काररूपो यः कर्ता तदधीनैव कार्यसिद्धिः सृष्टिसंहारनिष्पत्तिर्भवति, तादृशबलस्याहङ्कारकार्यत्वात्। अनहङ्कृतेषु तत्सामर्थ्यादर्शनात्। न तु वैशेषिकाद्युक्तानहङ्कृतपरमेश्वराधीना । अनहङ्कृतस्रष्टत्वे नित्येश्वरे च प्रमाणाऽभावादित्यर्थः। 'अहं बहुस्यां प्रजायेयेति' ह्यहङ्कारपूर्विकव सृष्टिः श्रूयते तत्राहशब्दस्यानुकरणमात्रत्वे प्रमाणाभाव इति । अनेन सूत्रेणाहङ्कारोपाधिकं ब्रह्मरुद्रयोः सृष्टिसंहारकर्तृत्वं श्रुतिस्मृतिसिद्धमपि प्रतिपादितम्॥ 64 ॥
ननुभवत्वहङ्कारोऽन्येषां कर्ता, अहङ्कारस्य तु कः कर्ता? तत्राह–
अदृष्टोद्भतिवत् समानत्वलम् ॥ 65 ॥
यता सर्गादिषु प्रकृतिक्षोभककर्माभिव्यक्तिः कालविशेषमात्राद्भवति तदुद्बोधककर्माम्तरस्य कल्पनेऽनवस्थाप्रसङ्गात्। तथैवाऽहङ्कुरः कालमात्रनिमित्तादेव जायते, न तु तस्यापि कर्त्रन्तरमस्तीति समानत्वभावयोरित्यर्थः॥ 65 ॥
महतोऽन्यत् ॥ 66 ॥
अहङ्कारकार्यात् सृष्ट्यादेर्यदन्यत् पालनादिकं तन्महत्तत्त्वाद्भवति। विशुद्धसत्त्वतयाऽभिमानरागाद्यभावेन परानुग्रहमात्रप्रयोजनकत्वादित्यर्थः। अनेन च सूत्रेण महत्तत्त्वोपाधिकं विष्णोः पालकत्वमुपादितम्। महत्तत्त्वोपाधिकत्वात् तु विष्णुर्महान् परमेश्वरो ब्रह्मेति च गीयते। तदुक्तम्--
यदाहुर्वासुदेवाख्यं चित्तं तन्महृदात्मकम्॥ इति॥
अत्र शास्त्रे कारणब्रह्म तु पुरुषसामान्यं निर्गुणमेवेष्यते, ईश्वरानभ्युपगमात्। तत्र च कारणशब्दः स्वशक्तिप्रकृत्युपाधिको वा निमित्तकारणतापरो वा पुरुषार्थस्य प्रकृतिप्रवर्तकत्वादिति मन्तव्यम्॥ 66 ॥
अविवेकनिमित्तकः प्रकृतिपुरुषयोर्भोग्यभोक्तृभाव इति प्रागुक्तम्, तत्राविवेक एव किन्निमित्तक इत्याकाङ्क्षायामविवेकधारकल्पनेऽनवस्थापत्तिरित्याशङ्कायाः प्रामाणिकत्वेन परिहारः सर्ववादिसाधारण इत्याह–
कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादि-
र्बीजाङ्कुरवत्॥ 67 ॥
येषां साङ्ख्यैकदेशिनां प्रकृतेः पुरुषस्य च स्वस्वामिभावो भोग्यभोक्तृभावः कर्मनिमित्तकस्तन्मतेऽपि स प्रवाहरूपेणानादिरेव, बीजाङ्कुरवत् प्रामाणिकत्वादित्यर्थः। आकस्मिकत्वं मुक्तस्यापि पुनर्भोगापत्तेरिति॥ 67 ॥
अविवेकनिमित्तकत्वमतेऽप्येतदनादित्वं समानमित्याह–
अविवेकानिमित्तो वा पञ्चशिखः॥ 68 ॥
अविवेकनिमित्तो वा स्वस्वामिभाव इति पञ्चशिख आह। तन्मतेप्यनादिरित्यर्थः. एतदेव स्वमतं प्रागुक्तत्वात्. अविवेकश्च प्रलयेऽपि कर्मवदेवास्ति वासनारूपेणेति । विवेकप्रागभावोऽविवेक इति मते तु बीजाङ्कुरवदनादित्वं न घटते। अखण्डप्रागभावस्यैवाखिलभोगहेतुत्वादिति॥ 68 ॥
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः॥ 69 ॥
सनन्दनाचार्यस्तु लिङ्गशरीरनिमित्तकः प्रकृतिपुरुषयोर्भोग्यभोक्तृभाव इत्याह-- लिङ्गशरीरद्वारैव भोगादिति । तन्मतेऽप्यनादिः स इत्यर्थः। यद्यपि प्रलये लिङ्गशरीरं नास्ति तथापि तत्कारणमविवेककर्मादिकं पूर्वसर्गीयलिङ्गशरीरजन्यमस्ति। तद्द्वारा बीजाऽङ्कुरतुल्यत्वं स्वस्वामिभावलिङ्गशरीरयोरित्याशयः॥ 69 ॥
शास्त्रवाक्यार्थमुपसंहरति–
यद्वा तद्वा तदुच्छित्तिः पुरुषार्थस्तदुच्छित्तिः
पुरुषार्थः॥ 70 ॥
कर्मनिमित्तो वाऽविवेकादिनिमित्तो वा भवतु प्रकृतिपुरुषयोर्भोग्यभोक्तृभावः। सर्वथाप्यनादितया दुरुच्छेद्यस्य तस्योच्छेदः परमपुरुषार्थ इत्यर्थः। तेतदादौ प्रतिज्ञानं "त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ" इति । नन्वत्र सुखदुःखसाधारणभोगनिवृत्ति- पुरुषार्थ उच्यते, तत्र दुःखमात्रनिवृत्तिरिति कथं तत्रोक्तस्यात्नोपसंहार इति चेन्न। शब्दभेदेऽप्यर्थाभेदात् सुखं हि तावद् दुःखपक्षे निक्षिप्तमिति सुखभोगोऽपि दुःखभोग एव। दुःखभोगोऽपि प्रतिबिम्बरूपेण पुरुषे दुःखनिवृत्तिर्विवक्षितेत्येक एवार्थ उपक्रमोपसंहारसूत्रयोरिति । बहुलांशस्य द्विरावृत्तिः शास्त्रसमाप्त्यर्था॥ 70 ॥
शसात्रमुख्यार्थविस्तारस्तन्त्राख्येऽनुक्तपूरणैः॥
षष्ठाध्याये कृतः पश्चाद्वाक्यार्थश्चोपसंहृतः॥ 1 ॥
तदिदं साङ्ख्यशास्त्रं कपिलमूर्तिर्भगवान् विष्णुरखिललोकहिताय प्रकाशितवान्। यत् तत्र वेदान्तिब्रुवः कश्चिदाह, साङ्क्यप्रणेता कपिलो न विष्णुः, किन्त्वग्न्यवतारः कपिलान्तरम्–
अग्निः स कपिलो नाम साङ्ख्यशास्त्रप्रवर्त्तकः।
इति स्मृतेरिति। तल्लोकव्यामोहनमात्रम्।
एतन्मे जन्मलोकेऽस्मिन् मुमुक्षूणां दुराशयात्।
प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शनम्॥
इत्यादिस्मृतिषु विष्ण्ववतारस्य देवहूतिपुत्रस्यैव साङ्ख्योपदेष्ट्टत्वावगमात् कपिलद्वयकल्पनागोरवाच्च। तत्र चाग्निशब्दोऽग्न्याख्यशक्त्यावेशादेव प्रयुक्तः। यथा,–
कालोऽस्मि लोकक्षयकृत् प्रवृद्धः।
इति श्रीकृष्णवाक्ये कालशक्त्यावेशादेव कालशब्दः। अन्यथा विश्वरूपप्रदर्शककृष्णस्यापि
विष्ण्ववतारकृष्णाद् भेदापत्तेरिति दिक्॥
साङ्ख्यकुल्याः समापूर्य वेदान्तमथिताऽमृतैः॥
कपिलर्षिर्ज्ञानयज्ञ ऋषीनापाययत् पुरा॥ 1॥
तद्वचः श्रद्धया तस्मिन् गुरौ च स्थिरभावतः॥
तत्प्रसादलवेनेदं तच्छास्त्रं विवृतं मया॥ 2 ॥
इति श्रीसांख्याचार्यविज्ञानभिक्षुविरचिते कापिलसाङ्ख्यप्रवचनस्य
भाष्ये तन्त्राध्यायः षष्ठः॥ 6 ॥
॥ इति साङख्यप्रवचनभाष्यं सम्पूर्णम् ॥
** —————————————————–
**
]