तत्त्वकौमुदी

वाचस्पतिमिश्रकृता।

तत्त्वकौमुदी

साङ्ख्यतत्त्वकौमुदी
मङ्गलाचरणम्
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां नमामः ।
अजा ये तां जुषमाणां भजन्ते जहत्येनां भुक्तभोगां नुमस्तान् ॥ १ ॥
कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये ।
पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥ २ ॥
इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति प्रेक्षावताम् । अप्रतिपित्सितमर्थं तु प्रतिपादयन् ‘नायं लौकिको नापि परीक्षकः’ इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत ।
स चैषां प्रतिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पते— इति प्रारिप्सितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाधनहेतुत्वात् तद्विषयजिज्ञासा-मवतारयति—
एवं हि शास्त्रविषयो न जिज्ञास्येत, यदि दुःखं नाम जगति न स्यात्, सद्वा न जिहासितम्, जिहासितं वाऽशक्यसमुच्छेदम् । अशक्यसमुच्छेदता च द्वेधा—दुःखस्य नित्यत्वाद् वा, तदुच्छेदोपायापरिज्ञानाद्वा । शक्यसमुच्छेद-त्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायभूतत्वाद्वा, सुकरस्योपायान्तरस्य सद्भावाद्वा । तत्र न तावद् दुःखं नास्ति, नाप्यजिहासितम् इत्यत उक्तम्— ‘‘दुःखत्रयाभिघाताद्’’ इति । दुःखानां त्रयम्— दुःखत्रयम् । तत् खलु आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकञ्चेति ।
तत्राध्यात्मिकं द्विविधम्—शारीरं मानसं च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्, मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शन-निबन्धनम् । सर्वञ्चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा—आधिभौतिकम्, आधिदैविकञ्च । तत्राधिभौतिकं मानुष-पशुमृगपक्षिसरीसृपस्थावरनिमित्तम्; आधिदैविकं तु यक्षराक्षसविनायक ग्रहा-द्यावेशनिबन्धनम् । तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम् । तद् अनेन दुःखत्रयेणान्तःकरणवर्तिना चेतनाशक्तेः प्रतिकूलतयाऽभिसम्बन्धोऽभिघात इति । एतावता प्रतिकूलवेदनीयत्वं जिहासा-हेतुरुक्तः । यद्यपि न सन्निरुध्यते दुःखम्, तथापि तदभिभवः शक्यः कर्तुमित्युपरिष्टादुपपादयिष्यते ।
तस्मादुपपन्नम्— ‘‘तदपघातके हेतौ’’ इति । तस्य दुःखत्रयस्य अपघातकस्तदपघातकः । उपसर्जनस्यापि बुद्ध्या समाकृष्टस्य तदा परामर्शः अपघातकश्च हेतुः शास्त्रप्रतिपाद्यो नान्य इत्याशयः ।

(पूर्वपक्षः)
अत्र शङ्कते— ‘‘दृष्टे साऽपार्था चेत्’’ इति । अयमर्थः— अस्तु तर्हि दुःखत्रयम्, जिहासितञ्च तद् भवतु, भवतु च तच्छक्यहानम्, सहतां च शास्त्रगम्यः उपायस्तदुच्छेत्तुम्; तथाप्यत्र प्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वात्, तत्त्वज्ञानस्य तु अनेकजन्माभ्यासपरम्परायाससाध्यतयाऽतिदुष्करत्वात् ।
तथा च लौकिकानामाभाणकः—
र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥
इति । सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः । मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजन- विलेपनवस्त्रालङ्कारादिविषयसम्प्राप्तिरुपायः सुकरः ।
एवमाधिभौतिकस्यापि दुःखस्य नीतिशास्त्राभ्यासकुशलतानिरत्ययस्था- नाध्यासनादिः प्रतीकारहेतुरीषत्करः ।
तथाधिदैविकस्यापि दुःखस्य मणिमन्त्रौषधाद्युपयोगः सुकरः प्रतीकारोपाय इति ।

(सिद्धान्तः)
निराकरोति— नेति । कुतः? ‘‘एकान्तात्यन्ततोऽभावात् ।’’ ‘एकान्तो’ दुःखनिवृत्तेरवश्यम्भावः, ‘अत्यन्तो’ निवृत्तस्य दुःखस्य पुनरनुत्पादः, तयोरेकान्तात्यन्तयोरभावः ‘एकान्तात्यन्ततोऽभावः ।’
षष्ठीस्थाने सार्वविभक्तिकस्तसि ।
एतदुक्तं भवति— यथाविधि रसायनादिकामिनीनीतिशास्त्राभ्यासमन्त्रा-द्युपयोगेऽपि तस्य तस्याध्यात्मिकादेर्दुःखस्य निवृत्तेरदर्शनाद् अनैकान्तिकत्वम्, निवृत्तस्यापि पुनरुत्पत्तिदर्शनाद् अनात्यन्तिकत्वम्, इति सुकरोऽपि ऐकान्तिकात्यन्तिकदुःखनिवृत्तेर्न दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः ।
यद्यपि दुःखममङ्गलम्, तथापि तत्परिहारार्थत्वेन तदपघातो मङ्गलमेवेति युक्तं शास्त्रादौ तत्कीर्तनमिति ॥ १ ॥

साङ्ख्यकारिका

दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १ ॥

अन्वयः— दुःखत्रयाभिघातात् तदपघातके हेतौ जिज्ञासा (भवति), दृष्टे (उपाये सति) सा (जिज्ञासा) अपार्था (भविष्यति इति) चेत् ? न, (कस्मात्?) एकान्तात्यन्ततः अभावात् ।

तत्त्वकौमुदी

स्यादेतत्— मा भूद् दृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः (सहस्र) संवत्सरपर्यन्तः कर्मकलापस्तापत्रयमेकान्तमत्यन्तञ्चापनेष्यति । श्रूयते— स्वर्गकामो यजेत’ इति ।
स्वर्गश्च—
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम् ॥ इति (तन्त्रवार्तिक)
दुःखविरोधी सुखविशेषश्च स्वर्गः । स च स्वसत्तया समूलघातमपहन्ति दुःखम् ।
न चैष क्षयी । तथा हि श्रूयते— ‘अपाम सोमममृता अभूम’ इति (ऋक् संहिता, ८-४८-३) तत्क्षये कुतोऽस्यामृतत्वसम्भवः ?
तस्माद्वैदिकस्योपायस्य तापत्रयप्रतीकारहेतोर्मुहूर्तयामाहोरात्रमास संवत्सरादिनिर्वर्तनीयतयाऽनेकजन्मपरम्परायाससम्पादनीयाद् विवेकज्ञानाद् ईषत्करत्वात् पुनरपि व्यर्था जिज्ञासा— इत्याशङ्क्याह—

साङ्ख्यकारिका

दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥

तत्त्वकौमुदी

‘‘दृष्ट’ इति । गुरुपाठादनुश्रूयते इत्यनुश्रवो वेदः । एतदुक्तं भवति— ‘श्रूयत एव परं न तु केनापि क्रियते’ इति । तत्र भव आनुश्रविकः । तत्र प्राप्तो ज्ञात इति यावत् ।
आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्यो वर्तते, ऐकान्तिकात्यन्तिक दुःखप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात् ।
यद्यपि च ‘‘आनुश्रविकः’’ इति सामान्येनाभिहितम्, तथापि कर्म-कलापाभिप्रायं द्रष्टव्यम्, विवेकज्ञानस्याप्यानुश्रविकत्वात् । तथा च श्रूयते— ‘‘आत्मा वाऽरे ज्ञातव्यः’’ (बृहदारण्यक उप.२.४.५) प्रकृतितो विवेक्तव्यः, ‘‘न स पुनरावर्तते न स पुनरावर्तते’’ (छान्दोग्य उप.८-१५-१) ।
अस्यां प्रतिज्ञायां हेतुमाह— ‘‘स ह्यविशुद्धिक्षयातिशययुक्तः’’ इति । अविशुद्धिः सोमादियागस्य पशुबीजादिवधसाधनता ।
यथाह स्म भगवान् पञ्चशिखाचार्यः— ‘‘स्वल्पसङ्करः सपरिहारः सप्रत्यवमर्शः’’ इति । ‘स्वल्पसङ्करो’ ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सङ्करः । ‘सपरिहारः’ कियतापि प्रायश्चित्तेन परिहर्तुं शक्यः ।
अथ च प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये स पच्यते । तथापि यावदसावनर्थं सूते तावत् प्रत्यवमर्शेण सहिष्णतया सह वर्तत इति सप्रत्यवमर्शः । मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम् ।
न च— ‘मा हिंस्यात् सर्वा भूतानि’ इति सामान्यशास्त्रं विशेषशास्त्रेण ‘अग्नीषोमीयं पशुमालभेत’ इत्यनेन बाध्यते इति युक्तम् । विरोधे हि बलीयसा दुर्बलं बाध्यते । न चेहास्ति कश्चिद्विरोधः भिन्नविषयत्वात् । तथा हि— ‘मा हिंस्यात्’ इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते, न त्वक्रत्वर्थत्वमपि; ‘अग्नीषोमीयं पशुमालभेत’ इत्यनेन वाक्येन च पशुहिंसायाः क्रत्वर्थत्वमुच्यते, नानर्थहेतुत्वाभावः, तथा सति वाक्यभेदप्रसङ्गात् ।
न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिद्विरोधोऽस्ति । हिंसा हि पुरुषस्य दोषमावक्ष्यति, क्रतोश्चोपकरिष्यति इति ।
क्षयातिशयौ च फलगतावप्युपाय उपचरितौ । क्षयित्वं च स्वर्गादेः सत्त्वे सति कार्यत्वादनुमितम् । ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम्, वाजपेया-दयस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम् । परसम्पदुत्कर्षो हि हीनसम्पदं पुरुषं दुःखाकरोति । ‘अपाम सोमममृता अभूम’ इति चामृतत्त्वाभिधानं चिरस्थे-मानमुपलक्षयति । यदाहुः— ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (विष्णुपुराण.२-८-९०) इति ।
अत एव च श्रुतिः— ‘न कर्मणा न प्रजया धनेन त्यागेनैके-नामृतत्वमानशुः । परेण नाकं निहितं गुहायाम् विभ्राजते यद्यतयो विशन्ति’ (तैत्तिरीयारण्यक १०-१०) इति । तथा— ‘कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमीहमानाः । तथा परे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः’ इति च ।
तदेतत् सर्वमभिप्रेत्याह— ‘‘तद्विपरीतः श्रेयान् व्यक्ताव्यक्तविज्ञानात्’’ इति । तस्मात् आनुश्रविकात् दुःखापघातकोपायात् सोमपानादेरविशुद्धात् अनित्यसातिशयफलात् विपरीतः, विशुद्धः हिंसादिसङ्कराभावात्, नित्यनिरतिशयफलः असकृत् पुनरावृत्तिश्रुतेः ।
न च कार्यत्वेनानित्यता फलस्य युक्ता, भावरूपस्य कार्यस्य तथात्वात्, दुःखप्रध्वंसस्य तु कार्यस्यापि तद्वैपरीत्यात् ।
न च दुःखान्तरोत्पादः, कारणाप्रवृत्तौ कार्यानुत्पादात् विवेकज्ञानोप-जननपर्यन्तत्वाच्च कारणप्रवृत्तेः । एतच्चोपरिष्टादुपपादयिष्यते (द्रष्टव्या ६६ तमा कारिका) ।
अक्षरार्थस्तु— तस्मात् आनुश्रविकात् दुःखापघातकात् हेतोर्विपरीतः सत्त्वपुरुषान्यता प्रत्ययः तत्साक्षात्कारो दुःखापघातको हेतुः, अत एव श्रेयान् ।
आनुश्रविको हि वेदविहितत्वात् मात्रया दुःखापघातकत्वाच्च प्रशस्यः । सत्त्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यः । तदनयोः प्रशस्ययोर्मध्ये सत्त्व-पुरुषान्यताप्रत्ययः श्रेयान् ।
कुतः पुनरस्योत्पत्तिरित्यत आह— ‘‘व्यक्ताव्यक्तज्ञविज्ञानात्’’ इति । व्यक्तञ्च अव्यक्तञ्च ज्ञश्च व्यक्ताव्यक्तज्ञाः, तेषां विज्ञानं विवेकेन ज्ञानम्, व्यक्ताव्यक्तज्ञविज्ञानम् । व्यक्तज्ञानपूर्वकमव्यक्तस्य तत्कारणस्य ज्ञानम्, तयोश्च पारार्थ्येनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाऽभिधानम् ।
एतदुक्तं भवति— श्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्वा, शास्त्रयुक्त्या च व्यवस्थाप्य दीर्घकालनैरन्तर्यसत्कारसेवितात् भावनामयात् विज्ञानात् । तथा च वक्ष्यति—
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ (का.६४)
तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय शास्त्रमारभमाणः श्रोतृबुद्धिसमवधानाय तदर्थं संक्षेपतः प्रतिजानीते—

साङ्ख्यकारिका

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥

तत्त्वकौमुदी

सङ्क्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः, कश्चिदर्थः प्रकृतिरेव, कश्चिदर्थो विकृतिरेव, कश्चित्प्रकृतिविकृतिः, कश्चिदनुभयरूपः ।
तत्र का प्रकृतिरित्युक्तम्— ‘मूलप्रकृतिरविकृतिः’ इति । प्रकरोतीति प्रकृतिः प्रधानम्, सत्त्वरजस्तमसां साम्यावस्था, सा अविकृतिः, प्रकृति-रेवेत्यर्थः ।
कस्मादित्यत उक्तम्— ‘मूलेति’ । मूला चासौ प्रकृतिश्चेति मूलप्रकृतिः । विश्वस्य कार्यसङ्घातस्य सा मूलम् । न तस्या मूलान्तरमस्ति, अनवस्था-प्रसङ्गात् । न चानवस्थायां प्रमाणमस्तीति भावः ।
कतमाः पुनः प्रकृतिविकृतयः, कियत्यश्चेत्यत उक्तम् — ‘महदाद्याः प्रकृतिविकृतयः सप्त’ इति । प्रकृतयश्च विकृतयश्च ता इति ‘प्रकृतिविकृतयः सप्त ।’
तथा हि— महत्तत्त्वम् अहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृतिः, विकृतिश्च महतः । एवं पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयः विकृतयश्चाहङ्कारस्य ।
अथ का विकृतिरेव, कियती च ? — इत्यत उक्तम् — ‘‘षोडशकस्तु विकारः’’ इति । षोडशसङ्ख्यापरिमितो गणः षोडशकः । ‘तु’ शब्दोऽवधारणे भिन्नक्रमः । पञ्च महाभूतानि एकादशेन्द्रियाणीति षोडशको गणो विकार एव, न प्रकृतिरिति ।
यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदानां पयोबीजादीनां दध्यङ्कुरादयः, तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्य-स्तत्त्वान्तरम् ।
तत्त्वान्तरोपादानत्वं च प्रकृतित्वमिहाऽभिप्रेतम्, इति न दोषः । सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च समा, इति न तत्त्वान्तरम् ।
अनुभयरूपमाह— ‘‘न प्रकृतिर्न विकृतिः पुरुषः’’ इति । एतत् सर्वमुपरिष्टादुपपादयिष्यते ॥ ३ ॥

तत्त्वकौमुदी

तमिममर्थं प्रामाणिकं कर्तुमभिमताः प्रमाणभेदाः लक्षणीयाः । न च सामान्यलक्षणमन्तरेण शक्यं विशेषलक्षणं कर्तुम्, इति प्रमाणसामान्यं तावल्लक्षयति—

साङ्ख्यकारिका

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥

तत्त्वकौमुदी

‘प्रमाणमिष्टम्’ इति । अत्र च ‘प्रमाणम्’ इति समाख्या लक्ष्यपदम् । तन्निर्वचनं च लक्षणम् । प्रमीयतेऽनेनेति निर्वचनात् प्रमां प्रति करणत्व-मवगम्यते । तच्चाऽसन्दिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । बोधश्च पौरुषेयः फलं प्रमा, तत्साधनं प्रमाणमिति । एतेन संशयविपर्ययस्मृतिसाधनेषु प्रमाणेषु न प्रसङ्गः ।
सङ्ख्याविप्रतिपत्तिं निराकरोति— ‘‘त्रिविधम्’’ इति । तिस्रो विधा यस्य प्रमाणसामान्यस्य, तत् त्रिविधम्, न न्यूनम्, नाप्यधिकमित्यर्थः । विशेष-लक्षणानन्तरञ्चैतदुपपादयिष्यामः ।
कतमाः पुनस्ताः विधाः? इत्यत आह— ‘‘दृष्टमनुमानमाप्तवचनं च’’ इति । एतच्च लौकिकप्रमाणाभिप्रायं लोकव्युत्पादनार्थत्वाच्छास्त्रस्य, तस्यैवा-त्राधिकारात् । आर्षं तु विज्ञानं योगिनामूर्ध्वस्रोतसां च, न लोकव्युत्पाद-नायालम्, इति सदपि नाभिहितम्, अनधिकारात् ।
स्यादेतत्— मा भून्न्यूनम्, अधिकं तु कस्मान्न भवति? सङ्गिरन्ते हि वादिन उपमानादीन्यपि प्रमाणानि, इत्यत आह—? ‘‘सर्वप्रमाणसिद्धत्वात्’’ इति । एष्वेव दृष्टानुमानाप्तवचनेषु सर्वेषां प्रमाणानां सिद्धत्वात् — अन्तर्भावादित्यर्थः । एतच्चोपपादयिष्यत इत्युक्तम् ।
अथ प्रमेयव्युत्पादनाय प्रवृत्तं शास्त्रं कस्मात् प्रमाणं सामान्यतो विशेषतश्च लक्षयति? इत्यत आह— ‘‘प्रमेयसिद्धिः प्रमाणाद्धि’’ इति । सिद्धिः प्रतीतिः ।
सेयमार्याऽर्थक्रमानुरोधेन पाठक्रममनादृत्यैव व्याख्याता ॥ ४ ॥

तत्त्वकौमुदी

सम्प्रति प्रमाणविशेषलक्षणावसरे प्रत्यक्षस्य सर्वप्रमाणेषु ज्येष्ठत्वात्, तदधीनत्वाच्चानुमानादीनाम् सर्ववादिनामविप्रतिपत्तेश्च तदेव तावल्लक्षयति—

साङ्ख्यकारिका

प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥

तत्त्वकौमुदी

‘‘प्रतिविषयाध्यवसायो दृष्टम्’’ इति । अत्र ‘‘दृष्टम्’’ इति लक्ष्यनिर्देशः, परिशिष्टं तु लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः ।
अवयवार्थस्तु— विविण्वन्ति, विषयिणमनुबध्नन्ति, स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । विषयाः– पृथिव्यादयः सुखादयश्च । अस्मदादीनामविषयास्तन्मात्रलक्षणा योगिनामूर्द्ध्वस्रोतसां च विषयाः । विषयं विषयं प्रति वर्त्तते इति प्रतिविषयम् इन्द्रियम् । वृत्तिश्च सन्निकर्षः । अर्थसन्निकृष्टमिन्द्रियमित्यर्थः । तस्मिन्नध्यवसायः— तदाश्रित इत्यर्थः ।
अध्यवसायश्च बुद्धिव्यापारो ज्ञानम् । उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः, सोऽध्यवसाय इति, वृत्तिरिति, ज्ञानमिति चाख्यायते । इदं तत्प्रमाणम् । अनेन यश्चेतनाशक्तेरनुग्रहः, तत्–फलं, प्रमा, बोधः ।
बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनो घटादिवत् । एवं हि बुद्धितत्त्वस्य सुखादयोऽपि परिणामभेदा अचेतनाः, पुरुषस्तु सुखाद्यननुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते । चितिच्छायापत्त्या चाऽचेतनापि बुद्धिस्तदध्यवसायोऽपि चेतन इव भवतीति ।
तथा च वक्ष्यति—
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः ॥
(## साङ्ख्यकारिका, २०) ।
अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति । संशयस्याऽनवस्थितग्रहणेनाऽ- निश्चितरूपत्वात् । निश्चयोऽध्यवसाय इति चानर्थान्तरम् । विषयग्रहणेन चासद्विषयं विपर्ययमपाकरोति । प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचना- दनुमानस्मृत्यादयः पराकृता भवन्ति । तदेवं समानासमानजातीयव्यवच्छेद-कत्वात् ‘प्रतिविषयाध्यवसायः’ इति दृष्टस्य सम्पूर्णं लक्षणम् । तन्त्रान्तरेषु तैर्थिकानां लक्षणान्तराणि न दूषितानि विस्तरभयादिति ।
नानुमानं प्रमाणमिति वदता लौकायतिकेनाऽप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येत? न च पुरुषान्तर्गता अज्ञानसन्देहविपर्ययाः शक्या अर्वाग्दृशा प्रत्यक्षेण प्रतिपत्तुम्, नापि प्रमाणान्तरेण, अनभ्युपगमात् । अनवधृताज्ञानसंशयविपर्ययस्तु यं कञ्चन पुरुषं प्रति प्रवर्तमानोऽनवधेय-वचनतया प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत । तदनेनाज्ञानादयः परपुरुषवर्तिनोऽभि-प्रायभेदाद्वचनभेदाद्वा लिङ्गादनुमातव्याः, इत्यकामेनाप्यनुमानं प्रमाणमभ्युपेयम् ।
तत्र प्रत्यक्षकार्यत्वादनुमानं प्रत्यक्षानन्तरं लक्षणीयम् । तत्रापि सामान्य-लक्षणपूर्वकत्वाद्विशेषलक्षणस्यानुमानसामान्यं तावल्लक्षयति— ‘‘तल्लिङ्ग-लिङ्गिपूर्वकम्’’ इति । लिङ्गं व्याप्यम् । लिङ्गि व्यापकम् । शङ्कित-समारोपितोपाधिनिराकरणेन च वस्तुस्वभावप्रतिबद्धं व्याप्यम्, येन प्रतिबद्धं, तद् व्यापकम् ।
लिङ्गलिङ्गिग्रहणेन विषयवाचिना विषयिणं प्रत्ययमुपलक्षयति । ‘धूमादि-र्व्याप्यो वह्न्यादिर्व्यापकः’ इति यः प्रत्ययस्तत्पूर्वकम् । लिङ्गिग्रहणं चावर्त्त-नीयम् । तेन च लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितं भवति । तत् ‘व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानम्’ इति अनुमानसामान्यं लक्षितम् ।
अनुमानविशेषान् तन्त्रान्तरलक्षितानभिमतान् स्मारयति— ‘‘त्रिविध-मनुमानमाख्यातमिति ।’’ तत् सामान्यतो लक्षितमनुमानं विशेषतस्त्रिविधम्– ‘पूर्ववत्, शेषवत्, सामान्यतोदृष्टञ्चेति । तत्र प्रथमं तावत् द्विविधं वीतमवीतं च । अन्वयमुखेन प्रवर्तमानं विधायकं वीतम् । व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् ।
तत्रावीतं शेषवत् । शिष्यते परिशिष्यते इति शेषः, स एव विषयतया यस्यास्त्यनुमानज्ञानस्य तच्छेषवत् । यदाहुः— ‘‘प्रसक्तप्रतिषेधे अन्यत्रा-प्रसङ्गात् शिष्यमाणे सम्प्रत्ययः परिशेषः’’ इति (न्यायभाष्यम् १.१.५) । अस्य चावीतस्य व्यतिरेकिण उदाहरणमग्रेऽभिधास्यते ।
वीतं द्वेधा— पूर्ववत् सामान्यतोदृष्टं च । तत्रैकं दृष्टस्वलक्षणसामान्यविषयं यत्, तत्पूर्ववत्; पूर्वं प्रसिद्धं दृष्टस्वलक्षणसामान्यमिति यावत् । तदस्य विषयत्वेनाऽस्त्यनुमानज्ञानस्येति पूर्ववत् । यथा धूमाद्वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते । तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् । अपरं च वीतं सामान्यतोदृष्टं अदृष्टस्वलक्षणसामान्यविषयम् । यथेन्द्रियविषयकमनुमानम् । अत्र हि रूपादिविज्ञानानां क्रियात्वेन करणवत्त्व-मनुमीयते । यद्यपि करणत्वसामान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धम्, तथापि यज्जातीयस्य रूपादिज्ञाने करणवत्त्वमनुमीयते, तज्जातीयस्य करणस्य न दृष्टं स्वलक्षणं प्रत्यक्षेण । इन्द्रियजातीयं हि तत्करणम्; न चेन्द्रियत्व-सामान्यस्य स्वलक्षणमिन्द्रियविशेषः प्रत्यक्षगोचरोऽर्वाग्दृशाम्, यथा वह्नित्व-सामान्यस्य स्वलक्षणं वह्निः । सोऽयं पूर्ववतः सामान्यतोदृष्टात् सत्यपि वीतत्वेन तुल्यत्वे विशेषः ।
अत्र च दृष्टं दर्शनम्, सामान्यत इति सामान्यस्य सार्वविभक्तिकस्तसिः । अदृष्टस्वलक्षणस्य, सामान्यविशेषस्य दर्शनं— सामान्यतोऽदृष्टमनुमान-मित्यर्थः । सर्वं चैतदस्माभिर्न्यायवार्त्तिकतात्पर्यटीकायां व्युत्पादितमिति नेहोक्तं विस्तरभयात् ।
प्रयोजकवृद्धशब्दश्रवणसमनन्तरं प्रयोज्यवृद्धप्रवृत्तिहेतुज्ञानानुमानपूर्वकत्वा- च्छब्दार्थसम्बन्धग्रहणस्य, स्वार्थसम्बन्धज्ञानसहकारिणश्च शब्दस्यार्थप्रत्याय- कत्वादनुमानपूर्वकत्वमित्यनुमानानन्तरं शब्दं लक्षयति— ‘‘आप्तश्रुतिराप्त-वचनं तु’’ इति । अत्र आप्तवचनमिति लक्ष्यनिर्देशः, परिशिष्टं लक्षणम् । आप्ता प्राप्ता युक्तेति यावत् । आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः । श्रुतिः— वाक्यजनितं वाक्यार्थज्ञानम् ।
तच्च स्वतः प्रमाणम्; अपौरुषेयवेदवाक्यजनितत्वेन सकलदोषाशङ्काविनि- र्मुक्तत्वेन युक्तं भवति । एवं वेदमूलस्मृतीतिहासपुराणवाक्यजनितमपि ज्ञानं युक्तं भवति ।
आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीतश्रुतिस्मरणसम्भवः, सुप्तप्रबुद्धस्येव पूर्वेद्युरवगतानामर्थानामपरेद्युः । तथा च आवट्यजैगीषव्यसंवादे भगवान् जैगीषव्यो दशमहाकल्पवर्तिजन्मस्मरणमात्मनः उवाच— ‘‘दशसु महाकल्पेषु विपरिवर्तमानेन मया’’ इत्यादिना ग्रन्थसन्दर्भेण ।
आप्तग्रहणेन अयुक्ताः शाक्यभिक्षु निर्ग्रन्थकसंसारमोचकादीनाम् आगमाभासाः परिहृताः भवन्ति । अयुक्तत्वं चैतेषां विगानात्, विच्छिन्न-मूलत्वात्, प्रमाणविरुद्धार्थाभिधानात् कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद् बोद्धव्यम् ।
‘तु’— शब्देनानुमानाद् व्यवच्छिनत्ति । वाक्यार्थो हि प्रमेयः, न तु तद्धर्मो वाक्यम्; येन तत्र लिङ्गं भवेत् । न च वाक्यं वाक्यार्थं बोधयत् सम्बन्धग्रहणमपेक्षते, अभिनवकविरचितस्य वाक्यस्यादृष्टपूर्वस्याननुभूत- चरवाक्यार्थबोधकत्वादिति ।
एवं प्रमाणसामान्यलक्षणेषु तद्विशेषलक्षणेषु च सत्सु, यानि प्रमाणान्तरा-ण्युपमानादीनि प्रतिवादिभिरभ्युपेयन्ते तान्युक्तलक्षणेष्वेव प्रमाणेष्वन्तर्भवन्ति । तथाहि—
उपमानं तावत्— यथा गौस्तथा गवय इति वाक्यम् । यज्जनिता धीरागम एव । योऽप्ययं गवयशब्दो गोसदृशस्य वाचक इति प्रत्ययः, सोऽप्यनुमानमेव । यो हि शब्दो यत्र वृद्धैः प्रयुज्यते, सोऽसति वृत्त्यन्तरे तस्य वाचकः, यथा गोशब्दो गोत्वस्य, प्रयुज्यते चैवं गवयशब्दो गोसदृशे, इति तस्यैव वाचकः— इति तज्ज्ञानमनुमानमेव ।
यत्तु गवयस्य चक्षुःसन्निकृष्टस्य गोसादृश्यज्ञानं तत् प्रत्यक्षमेव । अत एव स्मर्यमाणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् । न ह्यन्यद् गवि सादृश्यमन्यच्च गवये । भूयोऽवयवसामान्ययोगो हि जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते । सामान्ययोगश्चैकः, स चेद् गवये प्रत्यक्षः गव्यपि तथेति नोपमानस्य प्रमेयान्तरमस्ति यत्र प्रमाणान्तरमुपमानं भवेत्— इति न प्रमाणान्तरमुपमानम् ।
एवमर्थापत्तिरपि न प्रमाणान्तरम् । तथा हि— जीवतश्चैत्रस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनमर्थापत्तिरभिमता वृद्धानाम् । साप्यनुमानमेव । यदा खल्वव्यापकः सन्नेकत्र नास्ति तदाऽन्यत्रास्ति । यदाऽव्यापक एकत्रास्ति तदाऽन्यत्र नास्तीति सुकरः स्वशरीरे एव व्याप्ति-ग्रहः । तथा च सतो गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानमेव ।
न च चैत्रस्य क्वचित्सत्त्वेन गृहाभावः शक्योऽपह्नोतुम्, येनासिद्धो गृहाभावो बहिर्भावे न हेतुः स्यात् । न च गृहाभावेन वा सत्त्वमपह्नूयते, येन सत्त्वमेवानुपपद्यमानमात्मानं न बहिरवस्थापयेत् । तथा हि— चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं विरुध्यते, गृहसत्त्वं वा? न तावद्यत्र क्वचन सत्त्वस्यास्ति विरोधो गृहासत्त्वेन, भिन्नविषयत्वात् । देशसामान्येन गृहविशेषाक्षेपोऽपि पाक्षिक इति समानविषयतया विरोध इति चेत्; न, प्रमाणविनिश्चितस्य गृहेऽसत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपायोगात् ।
नापि प्रमाणनिश्चितो गृहाभावः पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् सत्त्वमपि प्रतिक्षेप्तुं सांशयिकत्वं च व्यपनेतुमर्हतीति युक्तम् । गृहावच्छिन्नेन चैत्राभावेन गृहसत्त्वं निरुद्धत्वात् प्रतिक्षिप्यते, न तु सत्त्वमात्रम्, तस्य तत्रौदासीन्यात् । तस्माद् गृहाभावेन लिङ्गेन सिद्धेन सतो बहिर्भावोऽनुमीयत इति युक्तम् ।
एतेन विरुद्धयोः प्रमाणयोर्विषयव्यवस्थयाऽविरोधापादनमर्थापत्तेर्विषयः इति निरस्तम् । अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात् ।
उदाहरणान्तराणि चार्थापत्तेरेवमेवानुमानेऽन्तर्भावनीयानि । तस्मा-न्नानुमानात् प्रमाणान्तरमर्थापत्तिरिति सिद्धम् ।
एवमभावोऽपि प्रत्यक्षमेव । न हि भूतलस्य परिणामविशेषात् कैवल्य-लक्षणादन्यो घटाभावो नाम । प्रतिक्षणं परिणामिनो हि सर्व एव भावाः, ऋते चितिशक्तेः । स च परिणामभेद ऐन्द्रियक इति नास्ति प्रत्यक्षानवरुद्धो विषयो यत्राभावाह्वयं प्रमाणान्तरमभ्युपेयमिति ।
सम्भवस्तु, यथा— खार्यां द्रोणाढकप्रस्थाद्यवगमः स चानुमानमेव । खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं खार्यां द्रोणादिसत्त्वमवगमयच्छति ।
यच्चानिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमात्रम्— ‘इति होचुर्वृद्धाः’— इत्यैतिह्यम्; यथा— ‘इह वटे यक्षः प्रतिवसति’ इति, न तत् प्रमाणान्तरम् । अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात् । आप्तवक्तृकत्वनिश्चये त्वागम एव । इत्युपपन्नम्— ‘‘त्रिविधम्प्रमाणम्’’ इति ।

तत्त्वकौमुदी

एवं तावद् व्यक्ताव्यक्तज्ञलक्षणप्रमेयसिद्ध्यर्थं प्रमाणानि लक्षितानि । तत्र व्यक्तं पृथिव्यादि स्वरूपतः पांसुलपादो हालिकोऽपि प्रत्यक्षतः प्रतिपद्यते, पूर्ववता चानुमानेन धूमादिदर्शनात् वह्न्यादीनि चेति तद्व्युत्पादनाय मन्दप्रयोजनं शास्त्रम् इति दुरधिगमम् अनेन व्युत्पाद्यम् । तत्र यत्प्रमाणं यत्र शक्तं तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृष्य दर्शयति—

साङ्ख्यकारिका

सामान्यतस्तु दृष्टात् अतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ ६ ॥

तत्त्वकौमुदी

‘‘सामान्यतः’’ इति । ‘तु’शब्दः प्रत्यक्षपूर्ववद्य्भां विशिनष्टि । सामान्यतो दृष्टादनुमानादतीन्द्रियाणां प्रधानपुरुषादीनां प्रतीतिः, चितिच्छायापत्तिर्बुद्धेः अध्यवसायादित्यर्थः । उपलक्षणं चैतत्, शेषवत् इत्यपि द्रष्टव्यम् ।
तत्किं सर्वेष्वतीन्द्रियेषु सामान्यतो दृष्टमेव प्रवर्तते? तथा च यत्र तन्नास्ति महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च तत्र तेषामभावः प्राप्त इत्यत आह— ‘‘तस्मादपि’’ इति । तस्मादित्येतावतैव सिद्धे ‘च’ कारेण ‘शेषवत्’ इत्यपि समुच्चितम् ॥ ६ ॥
स्यादेतत्, यथा गगनकुसुम-कूर्मरोम-शशविषाणादिषु प्रत्यक्षमप्रवर्तमानं तदभावमवगमयति, एवं प्रधानादिष्वपि । तत्कथं तेषां सामान्यतो दृष्टादिभ्यः सिद्धिरित्यत आह—

साङ्ख्यकारिका

अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानात् अभिभवात् समानाभिहाराच्च ॥ ७ ॥

तत्त्वकौमुदी

‘‘अतिदूरात्’’ इति । अनुपलब्धिरिति वक्ष्यमाणं (का.८) सिंहावलोकनन्यायेनानुषञ्जनीयम् । यथा उत्पतन् वियति पतत्री अतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते । सामीप्यादित्यत्राप्यतिरनुवर्तनीयः । यथा लोचनस्थमञ्जनमतिसामीप्यान्न दृश्यते । इन्द्रियघातोऽन्धत्वबधिरत्वादिः । मनोऽनवस्थानात् — यथा कामाद्युपहतमनाः स्फीतालोकमध्यवर्तिन-मिन्द्रियसन्निकृष्टमर्थं न पश्यति । सौक्ष्म्यात्— यथेन्द्रियसन्निकृष्टं परमाण्वादि प्रणिहितमना अपि न पश्यति । व्यवधानात्— यथा कुड्यादिव्यवहितं राजदारादि न पश्यति । अभिभवात् यथाऽहनि सौरीभिर्भाभिरभिभूतं ग्रहनक्षत्रमण्डलं न पश्यति । समानाभिहारात्— यथा तोयद-विमुक्तानुदविन्दून् जलाशये न पश्यति ।
‘च’कारोऽनुक्तसमुच्चयार्थः । तेनानुद्भवोऽपि सङ्गृहीतः । तद्यथा क्षीराद्यवस्थायां दध्याद्यनुद्भवान्न दृश्यते ।
एतदुक्तं भवति । न प्रत्यक्षनिवृत्तिमात्राद्वस्त्वभावो भवति, अतिप्रसङ्गात् । तथा हि— गृहाद्विनिर्गतो गृहजनमपश्यंस्तदभावं विनिश्चिनुयात्, न त्वेवम् । अपि तु योग्यप्रत्यक्षनिवृत्तेरयमभावं विनिश्चिनोति । न च प्रधानपुरुषा-दीनामस्ति प्रत्यक्षयोग्यता, इति न तन्निवृत्तिमात्रात्तदभावनिश्चयो युक्तः प्रामाणिकानामिति ॥ ७ ॥
कतमत्पुनरेतेषु कारणं प्रधानादीनामनुपलब्धौ? इत्यत आह—

साङ्ख्यकारिका

सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात्, कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥

तत्त्वकौमुदी

‘‘सौक्ष्म्यात्’’ इति । अथाभावादेव सप्तमरसवदेतेषामनुपलब्धिः कस्मान्न भवतीत्यत आह— ‘‘नाभावात्’’ इति । कुतः? ‘‘कार्यतस्तदुपलब्धेः ।’’ ‘तत्’ इति प्रधानं परामृशति । पुरुषोपलब्धौ तु प्रमाणं वक्ष्यति, ‘सङ्घात-परार्थत्वात्’ (का.१७) इति ।
दृढतरप्रमाणावधारिते हि प्रत्यक्षमप्रर्वमानमयोग्यत्वान्न प्रवर्तते— इति कल्प्यते । सप्तमस्तु रसो न प्रमाणेनावधारित इति न तत्र प्रत्यक्षस्यायोग्यता शक्याऽध्यवसितुमित्यभिप्रायः ।
किं पुनस्तत्कार्यं यतः प्रदानानुमानम्? — इत्यत आह— ‘‘महदादि तच्च कार्यम्’’ इति । एतच्च यथा गमकं तथोपरिष्टादुपपादयिष्यते । तस्य च कार्यस्य विवेकज्ञानोपयोगिनी सारूप्यवैरूप्ये आह— ‘‘प्रकृतिसरूपं विरूपं च’’ इति । एते तूपरिष्टाद्विभजनीये इति ॥ ८ ॥

तत्त्वकौमुदी

कार्यात् कारणमात्रम् गम्यते । सन्ति चात्र वादिनां विप्रतिपत्तयः । तथा हि केचिदाहुः— ‘असतः सत् जायते’ इति । एकस्य सतो विवर्तः कार्यजातं, न वस्तु सत्’ इत्यपरे । अन्ये तु ‘सतः असत् जायते’ इति । ‘सतः सत् जायते’ इति वृद्धाः ।
तत्र पूर्वस्मिन् कल्पत्रये प्रधानं न सिध्यति । सुख–दुःखमोहभेदवत्स्वरूप- परिणामशब्दाद्यात्मकं हि जगत्कारणस्य प्रधानत्वं सत्त्वरजस्तमः स्वभावत्व-मवगमयति ।
यदि पुनरसतः सज्जायते, असत् निरुपाख्यं कारणं सुखादिरूप-शब्दाद्यात्मकं कथं स्यात्? सदसतोस्तादात्म्यानुपपत्तेः ।
अथैकस्य सतो विवर्तः शब्दादिप्रपञ्चः, तथापि सतः सज्जायेत इति न स्यात् । न चास्याद्वयस्य प्रपञ्चात्मकत्वम्, अपि तु अप्रपञ्चस्य प्रपञ्चात्मकतया प्रतीतिर्भ्रम एव ।
येषामपि कणभक्षाक्षचरणादीनां सत एव कारणादसतो जन्म, तेषामपि सदसतोरेकत्वानुपपत्तेर्न कार्यात्मकं कारणमिति न तन्मते प्रधानसिद्धिः । अतः प्रधानसिध्द्यर्थं प्रथमं तावत्सत्कार्यं प्रतिजानीते—

साङ्ख्यकारिका

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९ ॥

तत्त्वकौमुदी

‘‘असदकरणात्’’ इति । ‘‘सत् कार्यम्’’—कारणव्यापारात् प्रागपीति शेषः । तथा च न सिद्धसाधनं नैयायिकतनयैरुद्भावनीयम् ।
यद्यपि बीजमृत्पिण्डादिप्रध्वंसानन्तरमङ्कुरघटाद्युत्पत्तिरुपलभ्यते, तथापि न प्रध्वंसस्य कारणत्वम्, अपि तु भावस्यैव बीजाद्यवयवस्य । अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात् सर्वदा सर्वकार्योत्पादप्रसङ्गः, इत्यादि न्यायवार्त्तिकतात्पर्यटीकायामस्माभिः प्रतिपादितम् ।
प्रपञ्चप्रत्ययश्चासति बाधके न शक्यो मिथ्येति वदितुम् ।
कणभक्षाक्षचरणमतमवशिष्यते । तत्रेदं प्रतिज्ञातम्— ‘‘सत् कार्यम्’’ इति । अत्र हेतुमाह— ‘‘असदकरणात्’’ इति असत् चेत् कारणव्यापारात् पूर्वं कार्यम्, नास्य सत्त्वं केनापि कर्तुं शक्यते । न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यम् । ‘सदसत्त्वे घटस्य धर्मौ’ इति चेत्, तथाप्यसति धर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव । तथा च नासत्त्वम्, असम्बद्धेनातदात्मना चासत्त्वेन कथमसन् घटः? तस्मात् कारणव्यापारादूर्ध्वमिव ततः प्रागपि सदेव कार्यमिति । कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते । सतश्चाभि-व्यक्तिरुपपन्ना, यथा पीडनेन तिलेषु तैलस्य, अवघातेन धान्येषु तण्डुलानाम्, दोहनेन सौरभेयीषु पयसः । असतः करणे तु न निदर्शनं किञ्चिदस्ति । न खल्वभिव्यज्यमानं चोत्पद्यमानं वा क्वचिदसद् दृष्टम् ।
इतश्च कारणव्यापारात् प्राक् सदेव कार्यम्— ‘‘उपादानग्रहणात् ॥’’ उपादानानि कारणानि, तेषां ग्रहणं कार्येण सम्बन्धः । उपादानैः कार्यस्य सम्बन्धादिति यावत् । एतदुक्तं भवति–कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, सम्बन्धश्च कार्यस्यासतो न सम्भवति, तस्मात्सदिति ।
स्यादेतत्— असम्बद्धमेव कार्यं कारणैः कस्मान्न जन्यते? तथा चासदेवोत्पत्स्यत इत्यत आह— ‘‘सर्वसम्भवाभावात्’’ इति । असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्यजातं सर्वस्माद् भवेत् । न चैतदस्ति । तस्मान्नासम्बद्धमसम्बद्धेन जन्यते अपि तु सम्बद्धं सम्बद्धेन जन्यत इति । यथाहुः साङ्ख्यवृद्धाः—
‘‘असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥’’
स्यादेतत्— असम्बद्धमपि सत् तदेव करोति यत्र यत्कारणं शक्तम् । शक्तिश्च कार्यदर्शनादवगम्यते । तेन नाव्यवस्थेत्यत आह— ‘‘शक्तस्य शक्यकरणात्’’ इति । सा शक्तिः शक्तकारणाश्रया सर्वत्र वा स्यात्, शक्ये एव वा? सर्वत्र चेत्, तदवस्थैवाव्यवस्था शक्ये चेत्, कथमसति शक्ये तत्र इति वक्तव्यम् । शक्तिभेद एव एतादृशो यतः किञ्चिदेव कार्यं जनयेत् न सर्वमिति चेत्, हन्त भोः; शक्तिविशेषः कार्यसम्बद्धो वाऽसम्बद्धो वा? सम्बद्धत्वे नासता सम्बन्ध इति सत् कार्यम् । असम्बद्धत्वे सैवाव्यवस्था, इति सुष्ठूक्तं ‘‘शक्तस्य शक्यकरणात्’’ इति ।
इतश्च सत् कार्यमित्याह— ‘‘कारणभावाच्च ।’’ कार्यस्य कारणात्म-कत्वात् । न हि कारणाद्भिन्नं कार्यम्, कारणं च सदिति कथं तदभिन्नं कार्यमसद्भवेत्?
कार्यस्य कारणाभेदसाधनानि च प्रमाणानि—
न पटस्तन्तुभ्यो भिद्यते, तन्तुधर्मत्वात्; इह यत् यतो भिद्यते तत् तस्य धर्मो न भवति यथा गौरश्वस्य । धर्मश्च पटस्तन्तूनां, तस्मान्नार्थान्तरम् । उपादानोपादेयभावाच्च नार्थान्तरत्वं तन्तुपटयोः, ययोरर्थान्तरत्वं न तयो-रुपादानोपादेयभावः, यथा घटपटयोः । उपादानोपादेयभावश्च तन्तुपटयोः, तस्मान्नार्थान्तरत्वमिति ।
इतश्च नार्थान्तरत्वं तन्तुपटयोः संयोगाप्राप्त्यभावात् । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती तस्मान्नार्थान्तरत्वमिति ।
इतश्च पटस्तन्तुभ्यो न भिद्यते, गुरुत्वान्तरकार्याग्रहणात् । इह यद्यस्माद्भिन्नं तस्मात् तस्य गुरुत्वान्तरं कार्यं गृह्यते, यथैकपलिकस्य स्वस्तिकस्य यो गुरुत्वकार्योऽवनतिविशेषस्तस्माद् द्विपलिकस्य स्वस्तिकस्य गुरुत्वकार्योऽ-वनतिभेदोऽधिकः । न च तथा तन्तुगुरुत्वकार्यात् पटगुरुत्वकार्यान्तरं दृश्यते । तस्मादभिन्नस्तन्तुभ्यः पट इति ।
तान्येतान्यभेदसाधनान्यवीतानि ।
एवमभेदे सिद्धे तन्तव एव तेन तेन संस्थानभेदेन परिणताः पटः, न तन्तुभ्योऽर्थान्तरं पटः । स्वात्मनि क्रियानिरोधसम्बन्धबुद्धिव्यपदेशार्थ- क्रियाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति, एकस्मिन्नपि तत्तद्विशेषा-विर्भावतिरोभावाभ्यामेतेषामविरोधात् ।
यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति, निःसरन्ति चाविर्भवन्ति, न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा । एवमेकस्याः मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते, निविशमानास्तिरोभवन्तो विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः । यथाह भगवान् कृष्णद्वैपायनः—
‘नासतो विद्यते भावो नाभावो विद्यते सतः’— (गीता २.१६) इति ।
यथा कूर्मः स्वावयवेभ्यः सङ्कोचविकासिभ्यो न भिन्नः, एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः ।
एवञ्च ‘इह तन्तुषु पटः’ इति व्यपदेशो यथा ‘इह वने तिलकाः’ इत्युपपन्नः । न चार्थक्रियाभेदोऽपि भेदमापादयति, एकस्यापि नानार्थ-क्रियादर्शनात् । यथैक एव वह्निर्दाहकः पाचकः प्रकाशकश्चेति । नाप्यर्थ-क्रियाव्यवस्था वस्तुभेदे हेतुः, तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्था-दर्शनात् । यथा प्रत्येकं विष्टयो वर्त्मदर्शनक्रियालक्षणामर्थक्रियां कुर्वन्ति, न तु शिबिकावहनम्, मिलितास्तु शिबिकामुद्वहन्ति, एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मिलिता आविर्भूतपटभावाः प्रावरिष्यन्ति ।
स्यादेतत्— आविर्भावः पटस्य कारणव्यापारात् प्राक् सन् असन् वा? असंश्चेत्, प्राप्तं तर्ह्यसदुत्पादनम् । अथ सन्, कृतं तर्हि कारणव्यापारेण । न हि सति कार्ये कारणव्यापारप्रयोजनं पश्यामः । आविर्भावे चाविर्भावान्तर-कल्पनेऽनवस्थाप्रसङ्गः । तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः ।
मैवम् । अथासदुत्पद्यत इति मते केयमसदुत्पत्तिः? सती असती वा? सती चेत्, कृतं तर्हि कारणैः । असती चेत्, तस्या अप्युत्पत्त्यन्तरमित्यनवस्था ।
अथ उत्पत्तिः पटान्नार्थान्तरम्, अपितु पट एवासौ तथापि यावदुक्तं भवति ‘पटः’ इति, तावदुक्तं भवति ‘उत्पद्यते’ इति ।
ततश्च ‘पटः’ इत्युक्ते, ‘उत्पद्यते’ इति न वाच्यम्, पौनरुक्तयात् । ‘विनश्यति’ इत्यपि न वाच्यम्, उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् ।
तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा स्वसत्तासमवायो वा, उभयथापि नोत्पद्यते । अथ च तदर्थानि कारणानि व्यापार्यन्ते । एवं सत एव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् । न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात् क्रियासम्बन्धित्वाच्च कारणानाम्, अन्यथा कारणत्वा-भावात् ।
तस्मात् सत्कार्यमिति पुष्कलम् ॥ ९ ॥

तत्त्वकौमुदी

तदेवं प्रधानसाधनानुगुणं सत्कार्यमुपपाद्य यादृशं तत् प्रधानं साधनीयम्, तादृशमादर्शयितुं विवेकज्ञानोपयोगिनी व्यक्ताव्यक्तसारूप्यवैरूप्ये तावदाह—

साङ्ख्यकारिका

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥
‘‘हेतुमत्’’ इति । व्यक्तं हेतुमत्, हेतुः कारणम्, तद्वत् । यस्य च यो हेतुस्तमुपरिष्टाद्वक्ष्यति । ‘‘अनित्यम्’’, विनाशि, तिरोभावीति यावत् । ‘‘अव्यापि,’’ सर्वं परिणामिनं न व्याप्नोति । कारणेन हि कार्यमाविष्टम्, न कार्येण कारणम् । न च बुद्ध्या प्रधानं वेविषतीत्यव्यापकाः ।
‘‘सक्रियम्’’ परिस्पन्दवत् । तथाहि– बुद्ध्यादय उपात्तमुपात्तं देहं त्यजन्ति, देहान्तरं चोपाददते, इति तेषां परिस्पन्दः । शरीर–पृथिव्यादीनां च परिस्पन्दः प्रसिद्ध एव ।
‘‘अनेकम्’’ प्रतिपुरुषं बुद्ध्यादीनां भेदात् । पृथिव्याद्यपि शरीरघटादि भेदेनानेकमेव ।
‘‘आश्रितम्’’ स्वकारणमाश्रितम् । बुद्ध्यादिकार्याणामभेदेऽपि कथञ्चि-द्भेदविवक्षयाऽऽश्रयाश्रयिभावः, यथा ‘इह वने तिलकाः’ इत्युक्तम् ।
‘‘लिङ्गम्’’ प्रधानस्य । यथा चैते बुद्ध्यादयः प्रधानस्य लिङ्गम् तथो-परिष्टाद्वक्ष्यति । प्रधानं तु न प्रधानस्य लिङ्गं पुरुषस्य लिङ्गं भवदपीति भावः ।
‘‘सावयवम्’’ अवयवनमवयवः, अवयवानामवयविनां मिथः संश्लेषो मिश्रणं संयोग इति यावत् । अप्राप्तिपूर्विका प्राप्तिः संयोगः । तेन सह वर्तत इति सावयवम् । यथाहि— पृथिव्यादयः परस्परं संयुज्यन्ते एवमन्येऽपि; न तु प्रधानस्य बुद्ध्यादिभिः संयोगः, तादात्म्यात् । नापि सत्त्वरजस्तमसां परस्परं संयोगः, अप्राप्तेरभावात् ।
परतन्त्रं बुद्ध्यादि । बुद्ध्या स्वकार्येऽहङ्कारे जनयितव्ये प्रकृत्यापूरोऽपेक्ष्यते, अन्यथा क्षीणा सती नाऽलमहङ्कारं जनयितुमिति स्थितिः । एवमहङ्कारादिभिरपि स्वकार्यजनने—इति सर्वं स्वकार्येषु प्रकृत्याऽऽपूरमपेक्षते । तेन परां प्रकृति-मपेक्षमाणं कारणमपि स्वकार्यजनने परतन्त्रं व्यक्तम् ।
‘‘विपरीतमव्यक्तम्’’— व्यक्तात् । ओतुमन्नित्यं, व्यापि निष्क्रियम्– यद्यप्यव्यक्तस्यास्ति परिणामलक्षणा क्रिया तथापि परिस्पन्दो नास्ति । एकम्, अनाश्रितम्, अलिङ्गम् अनवयवम्, स्वतन्त्रम् अव्यक्तम् ॥ १० ॥

तत्त्वकौमुदी

तदनेन प्रबन्धेन व्याक्ताव्यक्तयोर्वैधर्म्यमुक्तम् । सम्प्रति तयोः साधर्म्यं पुरुषाच्च वैधर्म्यमाह—

साङ्ख्यकारिका

त्रिगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥

तत्त्वकौमुदी

‘‘त्रिगुणमिति ।’’ त्रयो गुणाः सुखदुःखमोहाः अस्येति त्रिगुणम् । तदनेन सुखादीनामात्मगुणत्वं पराभिमतमपाकृतम् ।
‘‘त्रिगुणमिति ।’’ त्रयो गुणाः सुखदुःखमोहाः अस्येति त्रिगुणम् । तदनेन सुखादीनामात्मगुणत्वं पराभिमतमपाकृतम् ।
‘‘अविवेकि’’ । यथा प्रधानं न स्वतो विविच्यते, तदात्मकत्वात् । अथवा सम्भूयकारित्वमत्राविवेकः । न हि किञ्चिदेकं पर्याप्तं स्वकार्ये, अपि तु सम्भूय । तत्र नैकस्मात् यस्य कस्यचित् केनचित् सम्भव इति ।
ये त्वाहुः— ‘विज्ञानमेव हर्षविषादमोहशब्दाद्यात्मकम् न पुनरितोऽ-न्यस्तद्धर्मा’ इति— तान् प्रत्याह— ‘‘विषयः’’ इति । ‘विषयो’ ग्राह्यः, विज्ञानाद् बहिरिति यावत् । अत एव ‘‘सामान्यम्’’ साधारणम्, घटादिवदनेकैः पुरुषैर्गृहीतमित्यर्थः । विज्ञानाकारत्वे तु असाधारण्याद्विज्ञानानां वृत्तिरूपाणां तेऽप्यसाधारणाः स्युः, विज्ञानं यथा परेण न गृह्यते, परबुद्धेरप्रत्यक्षत्वादित्यभिप्रायः । तथा च नर्तकीभ्रूलताभङ्गे एकस्मिन् बहूनां प्रतिसन्धानं युक्तम् । अन्यथा तन्न स्यादिति भावः ।
‘‘अचेतनम्’’— सर्व एव प्रधान–बुद्ध्यादयोऽचेतनाः, न तु वैनाशिकवत् चैतन्यं बुद्धेरित्यर्थः ।
‘‘प्रसवधर्मि’’— प्रसवरूपो धर्मो यः सोऽस्यास्तीति प्रसवधर्मि । प्रसव-धर्मेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगमाख्यातुम् । सरूप-विरूपपरिणामाभ्यां न कदाचिदपि वियुज्यत इत्यर्थः ।
व्यक्तवृत्तमव्यक्तेऽतिदिशति— ‘‘तथा प्रधानम्’’ इति । यथा व्यक्तं तथाऽव्यक्तमित्यर्थः ।
ताभ्यां वैधर्म्यं पुरुषस्याह— ‘‘तद्विपरीतः पुमान्’’ इति ।
स्यादेतत्— ओतुमत्त्वनित्यत्वादिप्रधानसाधर्म्यमस्ति पुरुषस्य, एवमनेकत्वं व्यक्तसाधर्म्यम्, तत्कथमुच्यते ‘‘तद्विपरीतः पुमान्’’ इति? अत आह— ‘‘तथा च’’ इति । चकारोऽप्यर्थः, यद्यप्यहेतुमत्त्वादिकं साधर्म्यम्, तथापि अत्रैगुण्यादिवैपरीत्यमस्त्येवेत्यर्थः ॥ ११ ॥

तत्त्वकौमुदी

त्रिगुणमित्युक्तम्, तत्र के ते त्रयो गुणाः, किं च तदुपलक्षणमित्यत आह—

साङ्ख्यकारिका

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥

तत्त्वकौमुदी

‘‘गुणाः’’ इति परार्थाः, ‘‘सत्त्वं लघु प्रकाशकम्’’ (कारिका १३)— इत्यत्र च गुणाः सत्त्वादयः क्रमेण निर्देक्ष्यन्ते । तदनागतावेक्षणेन तन्त्रयुक्त्या प्रीत्यादीनां यथासङ्ख्यं वेदितव्यम् ।
एतदुक्तं भवति— प्रीतिः सुखम्, प्रीत्यात्मकः सत्त्वगुणः । अप्रीतिः दुःखम्, अप्रीत्यात्मको रजोगुणः । विषादो मोहः, विषादात्मकस्तमोगुण इत्यर्थः ।
ये तु मन्यन्ते न प्रीतिर्दुःखाभावादतिरिच्यते, एवं दुःखमपि न प्रीत्यभावादन्यदिति, तान् प्रति ‘आत्म’ ग्रहणम् । नेतरेतराभावाः सुखादयः, अपि तु भावाः, आत्मशब्दस्य भाववचनत्वात् । प्रीतिरात्मा भावो येषां ते प्रीत्यात्मानः । एवमन्यत्रापि व्याख्येयम् । भावरूपता चैषामनुभवसिद्धा । परस्पराभावात्मकत्वे तु परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः ।
स्वरूपमेषामुक्त्वा प्रयोजनमाह— ‘‘प्रकाशप्रवृत्तिनियमार्थाः’’ इति । अत्रापि यथासङ्ख्यमेव । रजः प्रवर्तकत्वात् सर्वत्र लघु सत्त्वं प्रवर्तयेत्, यदि तमसा गुरुणा न नियम्येत, तमोनियतं तु क्वचिदेव प्रवर्तयतीति भवति तमो नियमार्थम् ।
प्रयोजनमुक्त्वा क्रियामाह— ‘‘अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च’’ इति । वृत्तिः क्रिया, सा च प्रत्येकमभिसम्बध्यते ।
‘‘अन्योन्याभिभववृत्तयः’’— एषामन्यतमे नार्थवशादुद्भूतेनान्यदभि-भूयते । तथा हि सत्त्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते; एवं रजः सत्त्वतमसी अभिभूय घोराम्; एवं तमः सत्त्वरजसी अभिभूय मूढामिति ।
‘‘अन्योन्याश्रयवृत्तयः ।’’ यद्यपि आधाराधेयभावेन नायमर्थो घटते, तथापि यदपेक्षया यस्य क्रिया स तस्याश्रयः तथाहि— सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति, रजः प्रकाशनियमा-वाश्रित्य प्रवृत्त्येतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति ॥
‘‘अन्योन्यजननवृत्तयः’’— अन्यतमोऽन्यतमं जनयति । जननं च गुणानां सदृशरूपः परिणामः । अत एव न हेतुमत्त्वम्, तत्त्वान्तरस्य हेतोरसम्भवात्; नाप्यनित्यत्वम्, तत्त्वान्तरे लयाभावात् ।
‘‘अन्योन्यमिथुनवृत्तयः’’— अन्योन्यसहचराः, अविनाभाववृत्तयः इति यावत् । ‘चः’ समुच्चये । भवति चात्रागमः—
‘‘अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः ।
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥
तमसश्चापि मिथुनं ते सत्त्वरजसी उभे ।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥
नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते ।’’ (—देवीभागवत ३/८)

तत्त्वकौमुदी

‘‘प्रकाशप्रवृत्तिनियमार्थाः’’ इत्युक्तम् , तत्र के ते इत्थम्भूताः कुतश्चेत्यत आह—

साङ्ख्यकारिका

सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥

तत्त्वकौमुदी

‘‘सत्त्वम्’’ इति । सत्त्वमेव लघुप्रकाशकमिष्टं साङ्ख्याचार्यैः । तत्र कार्योद्गमने हेतुर्धर्मो लाघवं गौरवप्रतिद्वन्द्वि, यतोऽग्नेरूर्ध्वज्वलनं भवति । तदेव लाघवं कस्यचित्तिर्यग्गमने हेतुर्भवति यथा वायोः । एवं करणानां वृत्तिपटुत्व-हेतुर्लाघवम्, गुरुत्वे हि मन्दानि स्युरिति सत्त्वस्य प्रकाशात्मकत्वमुक्तम् ।
सत्त्वतमसी स्वयमक्रियतया स्वकार्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते, अवसादात् प्रच्याव्य स्वकार्ये उत्साहं—प्रयत्नं कार्येते । तदिदमुक्तम्— ‘‘उपष्टम्भकं रजः’’ इति । कस्मादित्यत उक्तम्— ‘‘चलम्’’ इति । तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् ।
रजस्तु चलतया परितस्त्रैगुण्यं चालयेत्, गुरुणा वृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्यते— इति ततस्ततो व्यावृत्त्या तमो नियामकमुक्तम्— ‘‘गुरु वरणकमेव तमः’’ इति ।
एवकारः प्रत्येकं भिन्नक्रमः सम्बध्यते—सत्त्वमेव, रज एव, तम एवेति ।
ननु एते परस्परविरोधशीला गुणाः सुन्दोपसुन्दवत् परस्परं ध्वंसन्त इत्येव युक्तम्, प्रागेव त्वेतेषामेकक्रियाकर्तृताया इत्यत आह— ‘‘प्रदीपवच्चार्थतो वृत्तिः’’ इति । दृष्टमेतत्— यथा वर्त्तितैले अनल–विरोधिनी; अथ च मिलिते सहानलेन रूपप्रकाशलक्षणं कार्यं कुरुतः, यथा च वातपित्तश्लेष्माणः परस्प-रविरोधिनः शरीरधारणलक्षणकार्यकारिणः, एवं सत्त्वरजस्तमांसि मिथो-विरुद्धान्यप्यनुवर्त्स्यन्ति च स्वकार्यं करिष्यन्ति च ।
‘‘अर्थतः’’ इति पुरुषार्थत इति यावत्, यथा च वक्ष्यति— ‘‘पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्’’ इति । (कारिका ३१)
अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःख-मोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषां च परस्परमभिभाव्याभिभावक-भावान्नानात्वम् । तद्यथा— एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति, तत् कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीर्दुःखाकरोति, तत् कस्य हेतोः? ताः प्रति तस्याः दुःखरूप-समुद्भवात् । एवं पुरुषान्तरं तामविन्दमानं सैव मोहयति, तत् कस्य हेतोः? तं प्रति तस्याः मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याख्याताः ।
तत्र यत् सुखहेतुः तत् सुखात्मकं सत्त्वम्, यद् दुःखहेतुस्तद्दुःखात्मकं रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः ।
सुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः, सह दर्शनात् । तस्मात् सुखदुःखमोहैरिव विरोधिभिरविरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाश-लाघवैर्न निमित्तभेदा उन्नीयन्ते; एवं दुःखोपष्टम्भकत्वप्रवर्तकत्वैः, एवं मोहगुरुत्वावरणैः–इति सिद्धं त्रैगुण्यमिति ॥ १३ ॥

तत्त्वकौमुदी

स्यादेतत्— अनुभूयमानेषु पृथिव्यादिष्वनुभवसिद्धा भवन्त्वविवेकि-त्वादयः । ये पुनः सत्त्वादयो नानुभवपथमधिरोहन्ति, तेषां कुतस्त्य-मविवेकित्वं विषयत्वमचेतनत्वं प्रसवधर्मित्वं च ? इत्यत आह—

साङ्ख्यकारिका

अविवेक्यादेः सिद्धिः त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥

तत्त्वकौमुदी

‘‘अविवेक्यादेः’’ इति । अविवेकित्वमविवेकि, यथा ‘द्व्येकयो-र्द्विवचनैकवचने’ (अष्टाध्यायी सूत्रपाठ १-४-२२) इत्यत्र द्वित्त्वैकत्त्वयोरिति, अन्यथा द्व्येकेष्विति स्यात् ।
कुतः पुनरविवेकित्वादेः सिद्धिरित्यत आह— ‘‘त्रैगुण्यात्’’ इति । यद्यत् सुखदुःखमोहात्मकं तत्तदविवेकित्वादियोगि, यथेदमनुभूयमानं व्यक्तम्— इति स्फुटत्वादन्वयो नोक्तः ।
व्यतिरेकमाह— ‘‘तद्विपर्ययाभावात्’’ इति । अविवेक्यादिविपर्यये पुरुषे त्रैगुण्याभावात् । अथवा व्यक्ताव्यक्ते पक्षीकृत्यान्वयाभावेनावीत एव हेतुस्त्रैगुण्यादिति वक्तव्यः ।
स्यादेदत्— अव्यक्तसिद्धौ सत्यां तस्याविवेकित्वादयो धर्माः सिध्यन्ति । अव्यक्तमेव त्वद्यापि न सिध्यति, तत्कथमविवेकित्वादिसिद्धिरित्यत आह— ‘‘कारणगुणात्मकत्वात्’’ इति ।
अयमभिसन्धिः— कार्यं हि कारणगुणात्मकं दृष्टम्, यथा तन्त्वादि-गुणात्मकं पटादि । तथा महदादिलक्षणेनापि कार्येण सुखदुःखमोहरूपेण स्वकारणगतसुखदुःखमोहात्मना भवितव्यम् । तथा च तत्कारणं सुखदुःखमोहात्मकं प्रधानमव्यक्तं सिद्धं भवति ॥ १४ ॥

तत्त्वकौमुदी

स्यादेतत्— ‘व्यक्तात् व्यक्तमुत्पद्यते’ इति कणभक्षाक्षचरणतनयाः । परमाणवो हि व्यक्ताः तैर्द्व्यणुकादिक्रमेण पृथिव्यादिलक्षणं कार्यं व्यक्त-मारभ्यते । पृथिव्यादिषु च कारणगुणक्रमेण रूपाद्युत्पत्तिः । तस्माद् व्यक्तात् व्यक्तस्य तद्गुणस्य चोत्पत्तेः कृतमदृष्टचरेणाव्यक्तेनेत्यत आह—

साङ्ख्यकारिका

भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥
कारणमस्त्यव्यक्तम् प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥

तत्त्वकौमुदी

‘‘भेदानाम्’’ इति । भेदानां विशेषाणां महदादीनां भूम्यन्तानां कार्याणां कारणं मूलकारणमस्त्यव्यक्तम् । कुतः? ‘‘कारणकार्यविभागादविभागा-द्वैश्वरूप्यस्य’’ । कारणे सत् कार्यमिति स्थितम् । तथा च यथा कूर्मशरीरे सन्त्येवाङ्गानि निःसरन्ति विभज्यन्ते— ‘इदं कूर्मशरीरं, एतान्येतस्याङ्गानि’ इति, एवं निविशमानानि तस्मिन्नव्यक्तीभवन्ति एवं कारणान्मृतपिण्डाद्धे-मपिण्डाद्वा कार्याणि घटमुकुटादीति सन्त्येवाविर्भवन्ति विभज्यन्ते ।
सन्त्येव पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते, सन्त्येव च तन्मात्राण्यहङ्कारात् कारणात्, सन्नेवाहङ्कारः कारणान्महतः सन्नेव च महान् परमाव्यक्तात् इति । सोऽयं कारणात् परमाव्यक्तात् साक्षात् पारम्पर्येणान्वितस्य विश्वस्य कार्यस्य विभागः ।
प्रतिसर्गे तु मृत्पिण्डं सुवर्णपिण्डं वा घटमुकुटादयो विशन्तोऽव्यक्तीभवन्ति । तत्कारणरूपमेवानभिव्यक्तं कार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्या-दयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति; एवं तन्मात्रा-ण्यहङ्कारं विशन्ति अहङ्कारमव्यक्तयन्ति; एवमहङ्कारो महान्तमाविशन् महान्तमव्यक्तयति । महान्प्रकृतिं कारणं विशन् प्रकृतिमव्यक्तयति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य, स्वार्थिकः ष्यञ् । तस्मात् कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं कारणमस्तीति ।

तत्त्वकौमुदी

इतश्चाव्यक्तमस्तीत्यत आह— ‘‘शक्तितः प्रवृत्तेश्च’’ इति । कारण-शक्तितः कार्यं प्रवर्तत इति सिद्धम्, अशक्तात् कारणात् कार्यस्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । नहि सत्कार्यपक्षे कार्यस्या-व्यक्तताया अन्यस्यां शक्तौ प्रमाणमस्ति । अयमेव हि सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेतेष्वेव तैलमस्त्यनागतावस्थं न सिकतास्विति ।
स्यादेतत्— शक्तितः प्रवृत्तिः कारणकार्यविभागाविभागौ च महत एव परमाव्यक्तत्वं साधयिष्यतः, कृतं ततः परेणाव्यक्तेनेत्यत आह— ‘‘परिमाणात्’’ इति । परिमितत्वात्, अव्यापित्वादिति यावत् । विवादाध्यासिता महदादिभेदा अव्यक्तकारणवन्तः परिमितत्वात्, घटादिवत् । घटादयो हि परिमिताः मृदाद्यव्यक्तकारणका दृष्टाः । उक्तमेतद्यथा कार्यस्या-व्यक्तावस्था कारणमेवेति यन्महतः कारणं तत् परमाव्यक्तम्, ततः परतरा-व्यक्तकल्पनायां प्रमाणाभावात् ।
इतश्च विवादाध्यासिता भेदाः अव्यक्तकारणवन्तः, ‘‘समन्वयात् ।’’ भिन्नानां समानरूपता समन्वयः । सुखदुःखमोहसमन्विता हि बुद्ध्या-दयोऽध्यवसायादिलक्षणाः प्रतीयन्ते । यानि च यद्रूपसमनुगतानि, तानि तत्स्वभावाव्यक्त कारणकानि, यथा मृद्धेमपिण्डसमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति कारणमस्त्यव्यक्तं भेदानामिति सिद्धम् ।
अव्यक्तं साधयित्वा अस्य प्रवृत्तिप्रकारमाह— ‘‘प्रवर्तते त्रिगुणतः’’ इति । प्रतिसर्गावस्थायां सत्त्वं रजस्तमश्च सदृशपरिणामानि भवन्ति । परिणामस्वभावा हि गुणा नाऽपरिणमय्य क्षणमप्यवतिष्ठन्ते । तस्मात् सत्त्वं सत्त्वरूपतया, रजो रजोरूपतया, तमस्तमोरूपतया प्रतिसर्गावस्थायामपि प्रवर्तते । तदिदमुक्तम्— ‘‘त्रिगुणतः’’ इति ।
प्रवृत्त्यन्तरमाह— ‘‘समुदयाच्च’’ इति । समेत्य उदयः ‘समुदयः’— समवायः । समुदयश्च गुणानां न गुणप्रधानभावमन्तरेण सम्भवति, न च गुण प्रधानभावो वैषम्यं विना, न च वैषम्यमुपमर्द्योपमर्दकभावादृते, इति महदादिभावेन प्रवृत्तिर्द्वितीया ।
स्यादेतत्— कथमेकरूपाणां गुणानामनेकरूपा प्रवृत्तिरित्यत आह— ‘‘परिणामतः सलिलवत्’’ इति । यथा हि वारिदविमुक्तमुदकमेकरसमपि तत्तद्भूविकारानासाद्य नारिकेल–ताल–तालीबिल्व–चिरबिल्व–तिन्दुकामलक–प्राचीनामलक–कपित्थ–फलरसतया परिणमन्मधुराम्ललवण–तिक्तकषायकटु-तया विकल्पते, एवमेकैकगुणसमुद्भवात् प्रधानगुणमाश्रित्य अप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति । तदिदमुक्तम्—‘‘प्रतिप्रतिगुणाश्रयविशेषात् ।’’ एकैकगुणाश्रयेण यो विशेषस्तस्मादित्यर्थः ॥ १५-१६ ॥

तत्त्वकौमुदी

ये तु तौष्टिका अव्यक्तं वा महान्तं वाऽहङ्कारं वा इन्द्रियाणि वा भूतानि वाऽत्मानमभिमन्यमानास्तान्येवोपासते, तान् प्रत्याह—

साङ्ख्यकारिका

सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥

तत्त्वकौमुदी

‘‘सङ्घातपरार्थत्वात्’’ इति । पुरुषोऽस्ति अव्यक्तादेर्व्यतिरिक्तः । कुतः ‘‘सङ्घातपरार्थत्वात् ।’’ अव्यक्तमहदहङ्कारादयः परार्थाः सङ्घातत्वात्, शयनासनाभ्यङ्गादिवत्; सुखदुःखमोहात्मकतयाऽव्यक्तादयः सर्वे सङ्घाताः ।
स्यादेतत्—शयनासनादयः सङ्घाताः संहतशरीराद्यर्था दृष्टाः, न त्वात्मानं व्यक्ताव्यक्तव्यतिरिक्तं प्रति परार्थाः । तस्मात् सङ्घातान्तरमेव परं गमयेयुः, न त्वसंहतात्मानम् इत्यत आह– ‘‘त्रिगुणादिविपर्ययात्’’ इति । अयमभिप्रायः– सङ्घातान्तरार्थत्वे हि तस्यापि सङ्घातत्वात् तेनापि सङ्घातान्तरार्थेन भवितव्यम्; एवं तेन तेनेत्यनवस्था स्यात् । न च व्यवस्थायां सत्यामनवस्था युक्ता । कल्पनागौरवप्रसङ्गात् । न च ‘प्रमाणबलेन कल्पनागौरवमपि मृष्यते’ इति युक्तम्, संहतत्वस्य पारार्थ्यमात्रेणान्वयात् । दृष्टान्तदृष्टसर्वधर्मानुरोधेन त्वनुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः इत्युपपादितं न्यायवार्त्तिकतात्पर्य-टीकायाम् (४.१.२१) अस्माभिः ।
तस्मादनवस्थाभियाऽस्यासङ्घातत्वमिच्छताऽत्रिगुणत्वविवेकित्वम् अविषयत्वम् असामान्यत्वं चेतनत्वम् अप्रसवधर्मित्वञ्चाभ्युपेयम् । त्रिगुण-त्वादयो हि धर्माः संहतत्वेन व्याप्ताः । तत्संहतत्वमस्मिन् परे व्यावर्तमानं त्रैगुण्यादि व्यावर्तयति, ब्राह्मणत्वमिव व्यावर्तमानं कठत्वादिकम् । तस्मादाचार्येण ‘त्रिगुणादिविपर्ययात्’ इति वदताऽसंहतः परो विवक्षितः, स चाऽऽत्मेति सिद्धम् ।
इतश्च पुरुषोऽस्ति— ‘‘अधिष्ठानात्’’ त्रिगुणात्मकानामधिष्ठीय-मानत्वात् । यद्यत् सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीयमानं दृष्टम्— रथादिर्यन्त्रादिभिः । सुखदुःखमोहात्मकं चेदं बुद्ध्यादि, तस्मादेतदपि परेणाधिष्ठातव्यम् । स च परस्त्रैगुण्यादन्य आत्मेति ।
इतश्चास्ति पुरुषः— ‘‘भोक्तृभावात्’’ । भोक्तृभावेन भोग्ये सुखदुःखे उपलक्षयति । भोग्ये हि सुखदुःखे अनुकूल-प्रतिकूलवेदनीये प्रत्यात्ममनुभूयेते । तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येन भवितव्यम् । न चाऽनुकूलनीयाः प्रतिकूलनीया वा बुद्ध्यादयः तेषां सुखदुःखमोहाद्यात्मक- त्वेन स्वात्मनि वृत्तिविरोधात् । तस्मात् योऽसुखाद्यात्मा सोऽनुकूलनीयः प्रतिकूलनीयो वा, स चात्मेति ।
अन्ये त्वाहुः— भोग्या दृश्या बुद्ध्यादयः । न च द्रष्टारमन्तरेण दृश्यता युक्ता तेषाम् । तस्मादस्ति द्रष्टा दृश्यबुध्द्यादि—अतिरिक्तः, स चात्मेति । भोक्तृभावात् द्रष्टृभावात्, दृश्येन द्रष्टुरनुमानादित्यर्थः । दृश्यत्वं च बुध्द्यादीनां सुखाद्यात्मकतया पृथिव्यादिवदनुमितम् ।
इतश्चास्ति पुरुष इत्याह— ‘‘कैवल्यार्थं प्रवृत्तेश्च’’ इति । शास्त्राणां महर्षीणां च दिव्यलोचनानाम् । कैवल्यमात्यन्तिकदुःखत्रयप्रशमलक्षणं न बुद्ध्यादीनां सम्भवति । ते हि दुःखाद्यात्मकाः कथं स्वभावाद्वियोजयितुं शक्यन्ते । तदतिरिक्तस्य त्वतदात्मनस्ततो वियोगः शक्यसम्पादः, तस्मात् कैवल्यार्थं प्रवृत्तेरागमानां महर्षीणां चास्ति बुध्द्यादिव्यतिरिक्त आत्मेति सिद्धम् ।

तत्त्वकौमुदी

तदेवं पुरुषास्तित्वं प्रतिपाद्य, स किं सर्वशरीरेषु एकः किमनेकः प्रति क्षेत्रमिति संशये, तस्य प्रतिक्षेत्रमनेकत्वं प्रतिपादयति—

साङ्ख्यकारिका

जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥

तत्त्वकौमुदी

‘‘जनने’’त्यादि । ‘‘पुरुषबहुत्वं सिद्धम् ।’’ कस्मात् । ‘‘जनन-मरणकरणानां प्रतिनियमात् ।’’ निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियमनोऽ-हङ्कारबुद्धिवेदनाभिः पुरुषस्याभिसम्बन्धो जन्म, न तु पुरुषस्य परिणामः, तस्यापरिणामित्वात् । तेषामेव च देहादीनामुपात्तानां परित्यागो मरणम्, न त्वात्मनो विनाशः तस्य कूटस्थनित्यत्वात् ।
करणानि बुध्द्यादीनि त्रयोदश । तेषां जनन–मरण–करणानां प्रतिनियमो व्यवस्था । सा खल्वियं सर्वशरीरेष्वेकस्मिन् पुरुषे नोपपद्यते । तदा खल्वेकस्मिन् पुरुषे जायमाने सर्वे जायेरन्, म्रियमाणे च म्रियेरन्, अन्धादौ चैकस्मिन् सर्व एव अन्धादयः, विचित्ते चैकस्मिन् सर्वे एव विचित्ताः स्युरित्यव्यवस्था स्यात् ।
प्रतिक्षेत्रं तु पुरुषभेदे भवति व्यवस्था । न च ‘एकस्यापि पुरुषस्य देहोपाधानभेदाद्य्ववस्था’ इति युक्तम्, पाणिस्तनाद्युपाधिभेदेनापि जन्म-मरणादिव्यवस्थाप्रसङ्गात् । न हि पाणौ वृक्णे, जाते वा स्तनादौ महत्यवयवे युवतिर्मृता जाता वा भवति ।
इतश्च प्रतिक्षेत्रं पुरुषभेद इत्याह— ‘‘अयुगपत्प्रवृत्तेश्च’’ इति । प्रवृत्तिः प्रयत्नलक्षणा यद्यप्यन्तःकरणवर्तिनी, तथापि पुरुषे उपचर्यते । तथा च तस्मिन्नेकत्र शरीरे प्रयतमाने, स एव सर्वशरीरेषु एक इति सर्वत्र प्रयतेत, ततश्च सर्वाण्येव शरीराणि युगपच्चालयेत् । नानात्वे तु नायं दोष इति ।
इतश्च पुरुषभेद इत्याह— ‘‘त्रैगुण्यविपर्ययाच्चैव’’ इति । एवकारो भिन्नक्रमः ‘सिद्धम्’ इत्यस्यानन्तरं द्रष्टव्यः, सिद्धमेव नासिद्धम् । त्रयो गुणास्त्रैगुण्यम्, तस्य विपर्ययोऽन्यथात्वम् । केचित्खलु सत्त्वनिकायाः सत्त्वबहुलाः, यथोर्ध्वस्रोतसः, केचिद्रजोबहुलाः, यथा मनुष्याः, केचित्तमो-बहुलाः, यथा तिर्यग्योनयः । सोऽयमीदृशस्त्रैगुण्यविपर्ययोऽ- न्यथाभावस्तेषु सत्त्वनिकायेषु न भवेद् यद्येकः पुरुषः स्यात्, पुरुषभेदे त्वयमदोष इति ॥

तत्त्वकौमुदी

एवं पुरुषबहुत्वं प्रसाध्य विवेकज्ञानोपयोगितया तस्य धर्मानाह—

साङ्ख्यकारिका

तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥

तत्त्वकौमुदी

‘‘तस्माच्च’’ इति । ‘च’ शब्दः पुरुषस्य बहुत्वेन सह धर्मान्तराणि समुच्चिनोति । ‘विपर्यासादस्मात्’ इत्युक्ते त्रैगुण्यविपर्ययादित्यनन्तरोक्तं सम्बध्येत; अतस्तन्निरासाय ‘तस्मात्’ इत्युक्तम् । अनन्तरोक्तं हि सन्निधानादिदमो विषयः, विप्रकृष्टं च तदः, इति विप्रकृष्टं त्रिगुण-मविवेकीत्यादि सम्बध्यते ।
तस्मात् त्रिगुणादेर्यो विपर्यासः स पुरुषस्यात्रिगुणत्वं विवेकित्वम् अविषयत्वम् असाधारणत्वं चेतनत्वम् अप्रसवधर्मित्वञ्च ।
तत्र चेतनत्वेनाविषयत्वेन च साक्षित्वद्रष्टृत्वे दर्शिते । चेतनो हि द्रष्टा भवति, नाचेतनः; साक्षी च दर्शितविषयो भवति, यस्मै प्रदर्श्यते विषयः स साक्षी । यथा हि लोकेऽर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः, एवं प्रकृतिरपि स्वचरितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी । न चाचेतनो विषयो वा शक्यो विषयं दर्शयितुम्, इति चैतन्यादविषयत्वाच्च भवति साक्षी । अत एव द्रष्टाऽपि भवति ।
अत्रैगुण्याच्चास्य कैवल्यम् । आत्यन्तिको दुःखत्रयाभावः कैवल्यम् । तच्च तस्य स्वाभाविकादेवात्रैगुण्यात् सुखदुःखमोहरहितत्वात्सिद्धम् ।
अत एवात्रैगुण्यान्माध्यस्थ्यम् । सुखी हि सुखेन तृप्यन् दुःखी हि दुःखं द्विषन् न मध्यस्थो भवति । तदुभयरहितस्तु मध्यस्थ इत्युदासीन इति चाख्यायते । विवेकित्वाद् अप्रसवधर्मित्वाच्चाकर्तेति सिद्धम् ।

तत्त्वकौमुदी

स्यादेतत्— प्रमाणेन कर्तव्यमर्थमवगम्य ‘चेतनोऽहं चिकीर्षन् करोमि’ इति कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धम्; तदेतस्मिन्मते नावकल्पते, चेतनस्याकर्तृत्वात्, कर्तुश्चाचैतन्यात्, इत्यत आह—

साङ्ख्यकारिका

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २० ॥

तत्त्वकौमुदी

‘‘तस्मात्’’ इति । यतश्चैतन्यकर्तृत्वे भिन्नाधिकरणे युक्तितः सिद्धे, तस्मात् भ्रान्तिरियमित्यर्थः । ‘लिङ्गम्’— महदादिसूक्ष्मपर्यन्तं वक्ष्यति । भ्रान्तिबीजं ‘तत्संयोगः’ तत्सन्निधानम् । अतिरोहितार्थमन्यत् ॥ २० ॥

तत्त्वकौमुदी

‘तत्संयोगात्’ इत्युक्तम्; न च भिन्नयोः संयोगोऽपेक्षां विना, न चेय-मुपकार्योपकारकभावं विनेत्यपेक्षाहेतुमुपकारमाह—

साङ्ख्यकारिका

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥

तत्त्वकौमुदी

‘‘पुरुषस्य’’ इति । प्रधानस्येति कर्मणि षष्ठी । प्रधानस्य सर्वकारणस्य यद्दर्शनं पुरुषेण तदर्थम् । तदनेन भोग्यता प्रधानस्य दर्शिता । ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण न सम्भवतीति युक्तास्य भोक्त्रपेक्षा ।
पुरुषस्यापेक्षां दर्शयति— ‘‘पुरुषस्य कैवल्यार्थम्’’ इति । तथाहि— भोग्येन प्रधानेन सम्भिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते । तच्च सत्त्वपुरुषान्यताख्यातिनिबन्धनम् । न च सत्त्वपुरुषा-न्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते ।
अनादित्वाच्च संयोगपरम्पराया भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यत इति युक्तम् ।
ननु भवत्वनयोः संयोगः, महदादिसर्गस्तु कुत इत्यत आह— ‘‘तत्कृतः सर्गः’’ इति । संयोगो हि न महदादिसर्गमन्तरेण भोगाय कैवल्याय च पर्याप्त इति संयोग एव भोगापवर्गार्थं सर्गं करोतीत्यर्थः ॥

तत्त्वकौमुदी

सर्गक्रममाह— ‘‘प्रकृतेः’’ इति ।

साङ्ख्यकारिका

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ २२ ॥

तत्त्वकौमुदी

प्रकृतिरव्यक्तम् । महदहङ्कारौ वक्ष्यमाणलक्षौ । एकादशेन्द्रियाणि वक्ष्य-माणानि, तन्मात्राणि च पञ्च; सोऽयं षोडशसङ्ख्यापरिमितो गणः षोडशकः । तस्मादपि षोडशकादपकृष्टेभ्यः पञ्चभ्यस्तन्मात्रेभ्यः पञ्चभूतान्याकाशादीनि ।
तत्र शब्दतन्मात्रादाकाशं शब्दगुणम्; शब्दतन्मात्रसहितात् स्पर्श-तन्मात्राद्वायुः शब्दस्पर्शगुणः, शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रात्तेजः, शब्दस्पर्शरूपगुणम्; शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः, शब्दस्पर्श-रूपरसगुणाः, शब्दस्पर्शरूपरसतन्मात्रसहिताद्गन्धतन्मात्रात् शब्दस्पर्शरूप-रसगन्धगुणा पृथिवी जायते इत्यर्थः ।

तत्त्वकौमुदी

अव्यक्तं सामान्यतो लक्षितम्— ‘‘तद्विपरीतमव्यक्तम्’’ (का.१०) इत्यनेन, विशेषतश्च— ‘‘सत्त्वं लघु प्रकाशकम्’’ (का.१३) इत्यनेन । व्यक्तमपि सामान्यतो लक्षितम्— ‘‘हेतुमत्’’ (का.१०) इत्यादिना । सम्प्रति विवेकज्ञानोपयोगितया व्यक्तविशेषं बुद्धिं लक्षयति—

साङ्ख्यकारिका

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद् रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥

तत्त्वकौमुदी

‘‘अध्यवसाय’’ इति । ‘अध्यवसायो बुद्धिः’ क्रिया–क्रियावतोर-भेदविवक्षया । सर्वो व्यवहर्ताऽऽलोच्य मत्वा ‘अहमत्राधिकृतः’ इत्यभिमत्य ‘कर्तव्यमेतन्मया’ इति अध्यवस्यति, ततश्च प्रवर्तते इति लोकसिद्धम् । तत्र योऽयं कर्त्तव्यमिति विनिश्चयाश्चितिसन्निधानादापन्न चैतन्याया बुद्धेः सोऽध्यवसायः— बुद्धेरसाधारणो व्यापारः, तदभेदा बुद्धिः । स च बुद्धेर्लक्षणं समानासमानजातीयव्यवच्छेदकत्वात् ।
तदेवं बुद्धिं लक्षयित्वा विवेकज्ञानोपयोगिनस्तस्या धर्मान् सात्त्विकतामसानाह— ‘‘धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपम्, तामसमस्माद्विपर्यस्तम्’’ इति । धर्मः अभ्युदयनिःश्रेयसहेतुः । तत्र याग-दानाद्यनुष्ठानजनितो धर्मोऽभ्युदयहेतुः, अष्टाङ्गयोगानुष्ठानजनितश्च निःश्रेयस-हेतुः । सत्त्वपुरुषान्यताख्यातिर्ज्ञानम् ।
विरागो वैराग्यं रागाभावः । तस्य—यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा— इति चतस्रः संज्ञाः ।
रागादयः कषायाश्चित्तवर्तिनः तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्त्यन्ते; तन्माऽत्र प्रवर्तिषत विषयेष्विन्द्रियाणीति तत्परिपाचनायारम्भः प्रयत्नो यतमानसंज्ञा । परिपाचने चानुष्ठीयमाने केचित्कषायाः पक्वाः, पक्ष्यन्ते च केचित् । तत्रैवं पूर्वापरीभावे सति पक्ष्यमाणेभ्यः कषायेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेकसंज्ञा । इन्द्रियप्रवृत्त्यसमर्थतया पक्वानामौत्सुक्य-मात्रेण मनसि व्यवस्थापनमेकेन्द्रियसंज्ञा । औत्सुक्यमात्रस्यापि निवृत्ति-रुपस्थितेष्वपि दृष्टानुश्रविकविषयेषु या संज्ञात्रयात् पराचीना सा वशीकार-संज्ञा । यामत्र भगवान् पतञ्जलिर्वर्णयाञ्चकार— ‘‘दृष्टानुश्रविकविषय-वितृष्णस्य वशीकारसंज्ञा वैराग्यम्’’ इति (योग सू.१-१५) । सोऽयं बुद्धिधर्मो विराग इति ।
ऐश्वर्यमपि बुद्धिधर्मः, यतोऽणिमादिप्रादुर्भावः । अत्राणिमा– अणुभावः, यतः शिलामपि प्रविशति । लघिमा–लघुभावः, यतः सूर्यमरीचीनालम्ब्य सूर्यलोकं याति । गरिमा–गुरुभावः, यतो गुरुर्भवति । महिमा–महतो भावः, यतो महान् भवति । प्राप्तिः–यतोऽङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । प्राकाम्यम्–इच्छानभिघातः यतो भूमावुन्मज्जति निमज्जति च यथोदके । वशित्वम्–यतो भूतभौतिकं वशीभवत्यवश्यम् । ईशित्वम्–भूतभौतिकानां प्रभवस्थिति-लयानामीष्टे । यच्च कामावसायित्वं सा सत्यसङ्कल्पता, येन यथास्य सङ्कल्पो भवति भूतेषु, तथैव भूतानि भवन्ति । अन्येषां मनुष्याणां निश्चयाः निश्चेतव्यमनुविधीयन्ते, योगिनस्तु निश्चेतव्याः पदार्थाः निश्चयम्–इति चत्वारः सात्त्विका बुद्धिधर्माः ।
तामसास्तु तद्विपरीता बुद्धिधर्माः । अधर्माज्ञानावैराग्यानैश्वर्याभि- धानाश्चत्वार इत्यर्थः ॥ २३ ॥

तत्त्वकौमुदी

अहङ्कारस्य लक्षणमाह— ‘‘अभिमान’’ इति ।

साङ्ख्यकारिका

अभिमानोऽहङ्कारः तस्माद् द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्तन्मात्रा–पञ्चकश्चैव ॥ २४ ॥

तत्त्वकौमुदी

अभिमानोऽहङ्कारः । ‘यत् खल्वालोचितं मतं च तत्र अहमधिकृतः, शक्तः खल्वहमत्र, ‘मदर्था एवामी विषयाः,’ ‘मत्तो नान्योऽत्राधिकृतः कश्चिदस्ति,’ ‘अतोऽहमस्मि’ इति योऽभिमानः सोऽसाधारणव्यापार-त्वादहङ्कारः । तमुपजीव्य हि बुद्धिरध्यवस्यति— ‘कर्तव्यमेतन्मया’ इति ।
तस्य कार्यभेदमाह— ‘‘तस्माद् द्विविधः प्रवर्तते सर्गः’’ इति । प्रकार-द्वयमाह— ‘‘एकादशकश्च गणः’’ इन्द्रियाह्वयः, ‘‘तन्मात्रापञ्चकश्चैव ।’’ द्विविध एव सर्गोऽहङ्कारात्, न त्वन्य इति ‘एव’ कारेणावधारयति ॥

तत्त्वकौमुदी

स्यादेतत्— अहङ्कारादेकरूपात्कथं जडप्रकाशकौ गणौ विलक्षणौ भवत इत्यत आह— ‘‘सात्त्विक’’ इति ।

साङ्ख्यकारिका

सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसः तैजसादुभयम् ॥ २५ ॥

तत्त्वकौमुदी

प्रकाशलाघवाभ्यामेकादशक इन्द्रियगणः सात्त्विको वैकृतात् सात्त्विका-दहङ्कारात् प्रवर्तते । भूतादेस्त्वहङ्कारात्तामसात्तन्मात्रो गणः प्रवर्तते । कस्मात्?—यतः ‘स तामसः’; एतदुक्तं भवति—यद्यप्येकोऽहङ्कार- स्तथाऽपि गुणभेदोद्भवाभिभवाभ्यां भिन्नं कार्यं करोतीति ।
ननु यदि सत्त्वतमोभ्यामेव सर्वं कार्यं जन्यते, तदा कृतमकिञ्चित्करेण रजसेत्यत आह— ‘‘तैजसादुभयम्’’ इति । तैजसाद्राजसादुभयं गणद्वयं भवति । यद्यपि रजसो न कार्यान्तरमस्ति तथापि सत्त्वतमसी स्वयमक्रिये समर्थे अपि न स्वस्वकार्यं कुरुतः, रजस्तु चलतया ते यदा चालयति तदा स्वकार्यं कुरुत इति; तदुभयस्मिन्नपि कार्ये सत्त्वतमसोः क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यर्थं रज इति ॥ २५ ॥

तत्त्वकौमुदी

सात्त्विकमेकादशकमाख्यातुं बाह्येन्द्रियदशकं तावदाह— ‘‘बुद्धीन्द्रियाणि’’ इति ।

साङ्ख्यकारिका

बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ॥ २६ ॥

तत्त्वकौमुदी

सात्त्विकाहङ्कारोपादानकत्वमिन्द्रियत्वम् । तच्च द्विविधम्—बुद्धीन्द्रियं कर्मेन्द्रियं च । उभयमप्येतत् इन्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते । तानि च स्वसंज्ञाभिश्चक्षुरादिभिरुक्तानि । तत्र रूपग्रहणलिङ्गं चक्षुः, शब्दग्रहणलिङ्गं श्रोत्रम्, गन्धग्रहणलिङ्गं घ्राणम्, रसग्रहणलिङ्गं रसनम्, स्पर्शग्रहणलिङ्गं त्वक्–इति ज्ञानेन्द्रियाणां संज्ञा । एवं वागादीनां कार्यं वक्ष्यति (का.२८) ॥

तत्त्वकौमुदी

एकादशमिन्द्रियमाह—‘‘उभयात्मकम्’’ इति ।

साङ्ख्यकारिका

उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥

तत्त्वकौमुदी

एकादशस्व् इन्द्रियेषु
मध्ये मन उभयात्मकम्,
बुद्धीन्द्रियं+++(=ज्ञानेन्द्रियं)+++ कर्मेन्द्रियं च;
चक्षुर्-आदीनां वाग्-आदीनां च
मनोऽधिष्ठितानाम् एव
स्व-स्व-विषयेषु प्रवृत्तेः ।+++(5)+++

तद् असाधारणेन रूपेण लक्षयति—‘‘सङ्कल्पकम् अत्र मनः’’ इति ।
सङ्कल्पेन रूपेण मनो लक्ष्यते ।
आलोचितम् इन्द्रियेण वस्तु
‘इदम्’ इति सम्मुग्धम्
‘इदम् एवम्, नैवम्’ इति सम्यक्-कल्पयति—
विशेषण-विशेष्य-भावेन विवेचयतीति यावत् । यदाहुः—

‘सम्मुग्धं वस्तु-मात्रं तु
प्राग् गृह्णन्त्य् अविकल्पितम् ।
तत् सामान्य-विशेषाभ्यां
कल्पयन्ति मनीषिणः ॥’’

इति

तथाहि—

‘अस्ति ह्य् आलोचन-ज्ञानं
प्रथमं निर्विकल्पकम् ।
बाल-मूकादि-विज्ञान-
सदृशं मुग्ध-वस्तु-जम् ॥
ततः परं पुनर् वस्तु
धर्मैर् जात्य्-आदिभिर् यया ।
बुद्ध्याऽवसीयते साऽपि
प्रत्यक्षत्वेन सम्मता ॥’

—(श्लोकवार्तिक प्रत्यक्षसूत्रम् ११२-१२०)

सोऽयं सङ्कल्प-लक्षणो व्यापारो
मनसः समानासमान-जातीयाभ्यां व्यवच्छिन्दन्
मनो लक्षयति ।

स्याद् एतत्—
असाधारण-व्यापार-योगिनौ यथा
महद्-अहङ्कारौ नेन्द्रियम्;
एवम् मनोऽप्य् अ-साधारण-व्यापार-योगि
नेन्द्रियं भवितुम् अर्हतीत्यत आह— ‘‘इन्द्रियं च’’ इति ।

कुतः? ‘‘साधर्म्यात्’’ इन्द्रियान्तरैः ।
सात्त्विकाहङ्कारोपादानत्वं च साधर्म्यम्,
न त्व् इन्द्र-लिङ्गत्वम्;
महद्-अहङ्कारयोर् अप्य् आत्म-लिङ्गत्वेनेन्द्रियत्व-प्रसङ्गात् ।
तस्माद् व्युत्पत्ति-मात्रम् इन्द्र-लिङ्गत्वम्;
न तु प्रवृत्तिनिमित्तम् ।

अथ कथं सात्त्विकाहङ्काराद् एकस्माद् एकादशेन्द्रियाणीत्य् अत आह—

‘‘गुण-परिणाम-विशेषान् नानात्वं बाह्यभेदाश्च’’

इति । शब्दाद्य्-उपभोग-सम्प्रवर्तकादृष्ट-सहकारि-भेदात् कार्य-भेदः ।
अदृष्टभेदोऽपि गुण-परिणाम एव । ‘‘बाह्य-भेदाश्च’ इति दृष्टान्तार्थम्; यथा बाह्य-भेदास् तथैतद् अपीत्य् अर्थः ॥ २७ ॥

तत्त्वकौमुदी

तद् एवम् एकादशेन्द्रियाणि स्वरूपत उक्त्वा
दशानाम् अप्य् असाधारणीर् वृत्तीर् आह—

साङ्ख्यकारिका

रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥

तत्त्वकौमुदी

बुद्धीन्द्रियाणां सम्मुग्ध-वस्तु-दर्शनम् आलोचनम् उक्तम् ।

‘‘वचनादान-विहरणोत्सर्गानन्दाश् च पञ्चानाम्’’

कर्मेन्द्रियाणाम् ।

कण्ठ-ताल्व्-आदि-स्थानम् इन्द्रियं वाक्,
तस्या वृत्ति-व्यापारः वचनम्,
ज्ञानेन्द्रियाणां वृत्तयः स्पष्टाः ।

तत्त्वकौमुदी

अन्तःकरणत्रयस्य वृत्तिमाह— ‘‘स्वालक्षण्यम्’’ इति ।

साङ्ख्यकारिका

स्वालक्षण्यं वृत्तिस् त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥

तत्त्वकौमुदी

स्वालक्षण्यं वृत्तिस् त्रयस्य ।
स्वम् असाधारणं लक्षणं येषां तानि स्वलक्षणानि
महद्-अहङ्कार-मनांसि,
तेषां भावः स्वालक्षण्यम्;
तच् च स्वानि स्वानि लक्षणान्य् एव । तद् यथा—
महतोऽध्यवसायः, अहङ्कारस्याभिमानः, सङ्कल्पो मनसो वृत्तिर् व्यापारः ।

वृत्ति-द्वैविध्यं साधारणासाधारणत्वाभ्याम् आह—
‘‘सैषा भवत्य् असामान्या’’ —असाधारणी ।
‘‘सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च ।’’
सामान्या चासौ करणवृत्तिश्चेति । त्रयाणाम् अपि करणानां पञ्च वायवो जीवनं वृत्तिः, तद्भावे भावात् तदभावे चाभावात् । तत्र ‘प्राणो’ नासाग्रहृन्नाभि-पादाङ्गुष्ठवृत्तिः, ‘अपानः’ कृकाटिकापृष्ठपादपायूपस्थपार्श्ववृत्तिः, ‘समानो’ हृन्नाभिसर्वसन्धिवृत्तिः, ‘उदानो’ हृत्कण्ठतालुमूर्धभूमध्यवृत्तिः, ‘व्यान-स्त्वग्वृत्तिरिति पञ्च वायवः ॥ २९ ॥

तत्त्वकौमुदी

चतुर्विध-करणस्यासाधारणीषु वृत्तिषु
क्रमाक्रमौ स-प्रकाराव् आह–
‘‘युगपत्’’ इति ।

साङ्ख्यकारिका

युगपच् चतुष्टयस्य
तु वृत्तिः क्रमशश् च तस्य निर्दिष्टा
दृष्टे तथाप्य् अदृष्टे
त्रयस्य तत्-पूर्विका वृत्तिः ॥ ३० ॥

तत्त्वकौमुदी

दृष्टे यथा—

यदा सन्तमसान्धकारे
विद्युत्-सम्पात-मात्राद्
व्याघ्रम् अभिमुखम् अतिसन्निहितं पश्यति,
तदा खल्व् अस्यालोचन-सङ्कल्पाभिमानाध्यवसाया
युगपद् एव प्रादुर्-भवन्ति,
यतस् तत उत्प्लुत्य
तत्-स्थानाद् एक-पदे ऽपसरति ।+++(5)+++

‘‘क्रमशश्च’’–
यदा मन्दालोके प्रथमन् तावद् वस्तु-मात्रं सम्मुग्धम् आलोचयति,
अथ प्रणिहित-मनाः
कर्णान्ताकृष्ट–स-शर–शिञ्जित-मण्डली-कृत-कोदण्डः
प्रचण्डतरः पाटच्-चरो ऽयम् इति निश्चिनोति
अथ च ‘माम् प्रत्य् एति’ इत्य् अभिमन्यते,
अथाऽध्यवस्यति— ‘अपसरामीतः स्थानात्’ इति ।+++(5)+++

परोक्षे त्व्

अन्तः-करण-त्रयस्य बाह्येन्द्रिय-वर्जं वृत्तिर् इत्य् आह—
‘‘अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः’’ इति ।

अन्तःकरणत्रयस्य
युगपत् क्रमेण च वृत्तिर् दृष्ट-पूर्विकेति ।

अनुमानागमस्मृतयो हि
परोक्षेऽर्थे दर्शनपूर्वाः प्रवर्तन्ते,
नाऽन्यथा ।
यथा दृष्टे तथाऽदृष्टेऽपीति योजना ।

तत्त्वकौमुदी

स्यादेतत्—चतुर्णां त्रयाणां वा वृत्तयो न तावत्तन्मात्राधीनाः तेषां सदातनत्वेन वृत्तीनां सदोत्पादप्रसङ्गात्; आकस्मिकत्वे तु वृत्तिसङ्करप्रसङ्गो नियमहेतोरभावादित्यत आह— ‘‘स्वाम्’’ इति ।

साङ्ख्यकारिका

स्वां स्वां प्रतिपद्यन्ते
परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्
न केनचित्कार्यते करणम् ॥ ३१ ॥

तत्त्वकौमुदी

करणानीति शेषः । यथा हि बहवः पुरुषाः शाक्तीकयाष्टीकधानुष्क-कार्पाणिकाः कृतसङ्केताः परावस्कन्दनाय प्रवृत्ताः, तत्रान्यतमस्याऽऽकूत-मवगम्यान्यतमः प्रवर्तते, प्रवर्तमानस्तु शाक्तीकः शक्तिमेवादत्ते न तु यष्ट्यादिकम्, एवं याष्टीकोऽपि यष्टिमेव न शक्त्यादिकम् । तथान्यतमस्य करणस्याऽऽकूतात् स्वकार्यकरणाभिमुख्यादन्यतमं करणं प्रवर्तते । तत्प्रवृत्तेश्च हेतुमत्त्वान्न वृत्तिसङ्करप्रसङ्ग इत्युक्तम्— ‘‘स्वां स्वां प्रतिपद्यन्ते’’ इति ।
स्यादेतत्— याष्टीकादयश्चेतनत्वात् परस्पराकूतमवगम्य प्रवर्तन्त इति युक्तम् । करणानि त्वचेतनानि, तस्मान्नैवं प्रवर्त्तितुमुत्सहन्ते । तेनैषामधिष्ठात्रा करणानां स्वरूपसामर्थ्योपयोगाभिज्ञेन भवितव्यमित्यत आह— ‘‘पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्’’ इति । भोगापवर्गलक्षणः पुरुषार्थ एवानागतावस्थः प्रवर्तयति करणानि, कृतमत्र तत्स्वरूपाभिज्ञेन कर्त्रा । एतच्च ‘‘वत्सविवृद्धिनिमित्तम्’’ (का.५७) इत्यत्रोपपादयिष्यते ॥ ३१ ॥

तत्त्वकौमुदी

‘‘न केनचित् कार्यते करणम्’’ इत्युक्तम् । तत्र करणं विभजते— ‘‘करणं त्रयोदशविधम्’’ इति ।

साङ्ख्यकारिका

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥

तत्त्वकौमुदी

इन्द्रियाण्येकादश बुद्धिरहंकारश्चेति त्रयोदशप्रकारं करणम् । कारकविशेषः करणम् । न च व्यापारावेशं विना कारकत्वमिति व्यापारावेशमाह— ‘‘तदा-हरणधारणप्रकाशकरम्’’ इति; यथायथम् । तत्र कर्मेन्द्रियाणि वागादीन्या-हरन्ति, यथास्वमुपाददते, स्वव्यापारेण व्याप्नुवन्तीति यावत् । बुद्ध्यहङ्कार-मनांसि तु स्ववृत्त्या प्राणादिलक्षणया धारयन्ति । बुद्धीन्द्रियाणि प्रकाशयन्ति ।
आहरणधारणादिक्रियाणां सकर्मकतया किं कर्म कतिविधं चेत्यत आह– ‘‘कार्यं च तस्य’’ इति । कार्यं तस्य त्रयोदशविधस्य करणस्य दशधा, आहार्यं धार्यं प्रकाश्यं च । आहार्यं व्याप्यम् । कर्मेन्द्रियाणां वचनादानविहरणो-त्सर्गानन्दाः यथायथं व्याप्याः, ते च यथायथं दिव्यादिव्यतया दश इत्याहार्यं दशधा ।
एवं धार्यमप्यन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरम्, तच्च पार्थिवादिपाञ्चभौतिकम् । शब्दादीनां पञ्चानां समूहः पृथिवी, ते च पञ्च दिव्यादिव्यतया दशेति धार्यमपि दशधा । एवं बुद्धीन्द्रियाणां शब्दस्पर्श-रूपरसगन्धा यथायथं व्याप्याः, ते च यथायथं दिव्यादिव्यतया दशेति प्रकाश्यमपि दशधेति ।

तत्त्वकौमुदी

त्रयोदशविधकरणेऽवान्तरविभागं करोति ‘‘अन्तःकरणम्’’ इति ।

साङ्ख्यकारिका

अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥

तत्त्वकौमुदी

अन्तःकरणं त्रिविधम्— बुद्धिर् अहंकारो मन इति ।
शरीराभ्यन्तर-वर्तित्वादन्तःकरणम् । ‘‘दशधा बाह्यम्’’—करणम् । ‘‘त्रयस्य’’—अन्तःकरणस्य ‘‘विषयाख्यम्’’—विषयमाख्याति
विषय-सङ्कल्पाभिमानाध्यवसायेषु कर्तव्येषु
द्वारी-भवति ।
तत्र बुद्धीन्द्रियाण्य् आलोचनेन+++(=सन्निकर्षेण)+++
कर्मेन्द्रियाणि तु यथास्वं व्यापारेण ।
बाह्यान्तरयोः करणयोर्विशेषान्तरमाह— ‘‘साम्प्रतकालम्’’ इति । साम्प्रतकालं वर्तमानकालं बाह्यमिन्द्रियम् । वर्तमानसमीपमनागतमतीतमपि वर्तमानम्, अतो वागपि वर्तमानकालविषया भवति ।
‘‘त्रिकालमाभ्यन्तरं करणम्’’ इति । तद्यथा— नदीपूरभेदादभूत् वृष्टिः अस्ति धूमादग्निरिह नगनिकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणा-द्भविष्यति वृष्टिरिति, तदनुरूपाश्च सङ्कल्पाभिमानाध्यवसाया भवन्ति ।
कालश्च वैशेषिकाभिमत एको न अनागतादिव्यवहारभेदं प्रवर्तयितुमर्हति । तस्मादयं यैरुपाधिभेदैरनागतादिभेदं प्रतिपद्यते, सन्तु त एवोपाधयः, येऽनागतादिव्यवहारहेतवः, कृतमत्रान्तर्गडुना कालेनेति साङ्ख्याचार्याः । तस्मान्न कालरूपतत्त्वान्तराभ्युपगम इति ।

तत्त्वकौमुदी

साम्प्रतकालानां बाह्येन्द्रियाणां विषयं विवेचयति—‘बुद्धीन्द्रियाणि’ इति ।

साङ्ख्यकारिका

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥

तत्त्वकौमुदी

बुद्धीन्द्रियाणि तेषां दशानामिन्द्रियाणां मध्ये ‘‘पञ्च विशेषाविशेष-विषयाणि ।’’ विशेषाः स्थूलाः शब्दादयः शान्तघोरमूढरूपाः पृथिव्यादि-रूपाः, अविशेषास्तन्मात्राणि सूक्ष्माः शब्दादयः, मात्रग्रहणेन स्थूलभूत-मपाकरोति । विशेषाश्च अविशेषाश्च विशेषाविशेषाः, त एव विषया येषां बुद्धीन्द्रियाणां तानि तथोक्तानि ।
तत्रोर्ध्वस्रोतसां योगिनां च श्रोत्रं शब्दतन्मात्रविषयं स्थूलशब्दविषयं च; अस्मदादीनां तु स्थूलशब्दविषयमेव एवन्तेषां त्वक् स्थूलसूक्ष्मस्पर्शविषया अस्मदादीनां तु स्थूलस्पर्शविषयैव । एवं चक्षुरादयोऽपि तेषामस्मदादीनां च रूपादिषु सूक्ष्मस्थूलेषु द्रष्टव्याः ।
एवं कर्मेन्द्रियेषु मध्ये ‘‘वाग्भवति शब्दविषया’’ स्थूलशब्दविषया, तद्धेतुत्वात् । न तु शब्दतन्मात्रस्य हेतुस्तस्याहङ्कारिकत्वेन वागिन्द्रियेण सहैककारणकत्वात् । शेषाणि तु चत्वारि पायूपस्थपाणिपादाख्यानि पञ्चविषयाणि पाण्याद्याहार्याणां घटादीनां पञ्चशब्दाद्यात्मकत्वादिति ॥ ३४ ॥

तत्त्वकौमुदी

साम्प्रतं त्रयोदशसु करणेषु केषाञ्चिद् गुणभावं केषाञ्चित्प्रधानभावं सहेतुकमाह— ‘‘सान्तःकरणा’’ इति ।

साङ्ख्यकारिका

सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥

तत्त्वकौमुदी

‘‘द्वारि’’ प्रधानम् । ‘‘शेषाणि’’ करणानि, बाह्येन्द्रियाणि द्वाराणि । तैरुपनीतं सर्वं विषयं समनोऽहङ्कारा बुद्धिः यस्मादवगाहतेऽध्यवस्यति, तस्माद् बाह्येन्द्रियाणि द्वाराणि, द्वारवती च सान्तःकरणा बुद्धिरिति ।
न केवलं बाह्येन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिः, अपि तु ये अप्यहङ्कारमनसी द्वारिणी, ते अप्यपेक्ष्य बुद्धिः प्रधानमित्याह— ‘‘एते’’ इति ।

साङ्ख्यकारिका

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥

तत्त्वकौमुदी

यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्यः करमादाय विषयाध्यक्षाय प्रयच्छन्ति, विषयाध्यक्षश्च सर्वाध्यक्षाय, स च भूपतये, तथा बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति, मनश्च सङ्कल्प्याहङ्काराय, अहङ्कारश्चाभिमत्य बुद्धौ सर्वाध्यक्ष-भूतायाम्; तदिदमुक्तम्— ‘‘पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति’’ इति ।
बाह्येन्द्रियमनोऽहङ्काराश्च ‘गुणविशेषाः’ गुणानां सत्त्वरजस्तमसां विकाराः, ते तु परस्परविरोधशीला अपि पुरुषार्थेन भोगापवर्गरूपेणैकवाक्यतां नीताः, यथा वर्तितैलवह्नयः सन्तमसापनयेन रूपप्रकाशाय मिलिताः प्रदीपः, एवमेते गुणविशेषाः इति योजना ॥ ३६ ॥

तत्त्वकौमुदी

कस्मात्पुनर्बुद्धौ प्रयच्छन्ति, न तु बुद्धिरहङ्काराय द्वारिणे मनसे वेत्यत आह— ‘‘सर्वम्’’ इति ।

साङ्ख्यकारिका

सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥

तत्त्वकौमुदी

पुरुषार्थस्य प्रयोजकत्वात् तस्य यत्साक्षात्साधनं तत् प्रधानम् । बुद्धिश्चाऽस्य साक्षात्साधनं तस्मात्सैव प्रधानम् । यथा सर्वाध्यक्षः साक्षा-द्राजार्थसाधकतया प्रधानम्, इतरे तु ग्रामाध्यक्षादयस्तं प्रति गुणभूताः । बुद्धिर्हि पुरुषसन्निधानात् तच्छायापत्त्या तद्रूपेव सर्वं विषयोपभोगं पुरुषस्य साधयति । सुखदुःखानुभवो हि भोगः, स च बुद्धौ, बुद्धिश्च पुरुषरूपेवेति सा च पुरुष-मुपभोजयति । यथा चार्थालोचनसङ्कल्पाभिमानाश्च तत्तद्रूपपरिणामेन बुद्धा-वुपसङ्क्रान्ताः, तथेन्द्रियव्यापारा अपि बुद्धेरेव स्वव्यापारेणाध्यवसायेन सहैक-व्यापारीभवन्ति, यथा स्वसैन्येन सह ग्रामाध्यक्षादिसैन्यं सर्वाध्यक्षस्य भवति । ‘‘सर्वं’’ शब्दादिकं ‘‘प्रति’’ यः उपभोगः ‘‘पुरुषस्य’’ तं साधयति ।
ननु पुरुषस्य सर्वविषयोपभोगसम्पादिका यदि बुद्धिः, तर्हि अनिर्मोक्ष इत्यत आह— ‘‘सैव च’’ इति । ‘‘पुनः’’ पश्चात् ‘‘प्रधानपुरुषयोरन्तरं’’ विशेषं ‘‘विशिनष्टि’’ करोति, यथौदनपाकं पचतीति, करणं च प्रतिपादनम् । ननु प्रधानपुरुषयोरन्तरस्य कृतकत्वादनित्यत्वं तत्कृतस्य मोक्षस्य स्यादित्यत आह— ‘‘विशिनष्टि’’ । ‘प्रधानं सविकारमन्यदहमन्यः’ इति विद्यमान-मेवाऽन्तरमविवेकेनाऽविद्यमानमिव बुद्धिर्बोधयति, न तु करोति, येनानित्यत्व-मित्यर्थः । अनेनापवर्गः पुरुषार्थो दर्शितः, ‘‘सूक्ष्मम्’’ दुर्लक्ष्यं तदन्तर-मित्यर्थः ॥ ३७ ॥

तत्त्वकौमुदी

तदेवं करणानि विभज्य विशेषाविशेषान् विभजते— ‘‘तन्मात्राणि’’ इति ।

साङ्ख्यकारिका

तन्मात्राण्यविशेषाः तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥

तत्त्वकौमुदी

शब्दादितन्मात्राणि सूक्ष्माणि । न चैषां शान्तत्वादिरस्ति उपभोगयोग्यो विशेष इति मात्रशब्दार्थः ।
अविशेषानुक्त्वा विशेषान्वक्तुमुत्पत्तिमेषामाह— ‘‘तेभ्यो भूतानि’’ इति । तेभ्यस्तन्मात्रेभ्यो यथासङ्ख्यमेकद्वित्रिचतुःपञ्चभ्यो भूतान्याकाशानिलानल सलिलावनिरूपाणि पञ्च पञ्चभ्यः तन्मात्रेभ्यः ।
अस्त्वेतेषां भूतानामुत्पत्तिः, विशेषत्वे किमायातमित्यत आह— ‘‘एते स्मृता विशेषाः’’ इति । कुतः? ‘‘शान्ताः घोराश्च मूढाश्च’’ । चकार एको हेतौ, द्वितीयः समुच्चये । यस्मादाकाशादिषु स्थूलेषु सत्त्वप्रधानतया केचित् शान्ताः सुखाः प्रकाशा लघवः, केचिद् रजःप्रधानतया घोराः दुःखा अनवस्थिताः, केचित् तमःप्रधानतया मूढा विषण्णा गुरवः । तेऽमी परस्परव्यावृत्त्यानुभूयमाना ‘विशेषाः’ इति च ‘स्थूलाः’ इति चोच्यन्ते । तन्मात्राणि तु अस्मदादिभिः परस्परव्यावृत्तानि नानुभूयन्ते, इति अविशेषा इति सूक्ष्मा इति चोच्यन्ते ।
विशेषाणामवान्तरविशेषमाह— ‘‘सूक्ष्मा’’ इति ।

साङ्ख्यकारिका

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥

तत्त्वकौमुदी

‘‘त्रिधा विशेषाः स्युः’’ इति । तान् विशेषप्रकारानाह— ‘‘सूक्ष्मा’’ इति । सूक्ष्माः सूक्ष्मदेहाः परिकल्पिताः, मातापितृजाः षाट्कौशिकाः । तत्र मातृतो लोमलोहितमांसानि, पितृतस्तु स्नाय्वस्थिमज्जान इति षट्कोशाः । प्रकृष्टानि महान्ति भूतानि प्रभूतानि, तैः सह । सूक्ष्मशरीरमेको विशेषः, मातापितृजो द्वितीयः, महाभूतानि तृतीयः । महाभूतवर्गे च घटादीनां निवेश इति ।
सूक्ष्ममातापितृजयोर्देहयोर्विशेषमाह— ‘‘सूक्ष्मास्तेषाम्’’ विशेषाणां मध्ये ये ते ‘‘नियताः’’ नित्याः, ‘‘मातापितृजाः निवर्तन्ते’’ इति । रसान्ता वा भस्मान्ता वा विडन्ता वेति ॥ ३९ ॥

तत्त्वकौमुदी

सूक्ष्मशरीरं विभजते— ‘‘पूर्वोत्पन्नम्’’ इति ।

साङ्ख्यकारिका

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥

तत्त्वकौमुदी

‘‘पूर्वोत्पन्नम्’’ प्रधानेनाऽऽदिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् । असक्तम् अव्याहतम् शिलामप्यनुविशति । ‘‘नियतम्’’ आ चाऽऽदिसर्गादा च महाप्रलयादवतिष्ठते— ‘‘महदादिसूक्ष्मपर्यन्तं’’ महदहङ्कारैकादशेन्द्रिय- पञ्चतन्मात्रपर्यन्तम् । एषां समुदायः सूक्ष्मं शरीरम्; शान्तघोरमूढै-रिन्द्रियैरन्वितत्वाद्विशेषः ।
नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृष्यमानेन षाट्कौशिकेन शरीरेणेत्यत आह— ‘‘संसरति’’ इति । उपात्तमुपात्तं षाट्कौशिकं शरीरं जहाति, हायं हायं चोपादत्ते । कस्मात्? ‘‘निरुपभोगं’’ यतः षाट्कौशिकं शरीरं भोगायतनं विना सूक्ष्मं शरीरं निरुपभोगं तस्मात् संसरति ।
ननु धर्माधर्मनिमित्तः संसारः, न च सूक्ष्मशरीरस्यास्ति तद्योगः, तत्कथं संसरतीत्यत आह— ‘‘भावैरधिवासितम्’’ इति । धर्माधर्मज्ञाना-ज्ञानवैराग्यैश्वर्यानैश्वर्याणि भावाः, तदन्विता बुद्धिः, तदन्वितञ्च सूक्ष्मं शरीरमिति तदपि भावैरधिवासितम्, यथा सुरभिचम्पककुसुमसम्पर्काद्वस्त्रं तदामोदवासितं भवति । तस्माद्भावैरधिवासितत्वात्संसरति । कस्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह— ‘‘लिङ्गम्’’ इति । लयं गच्छतीति लिङ्गम्, हेतुमत्त्वेन चाऽस्य लिङ्गत्वमिति भावः ॥ ४० ॥

तत्त्वकौमुदी

स्यादेतत्—बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति? कृतं सूक्ष्म-शरीरेणाप्रामाणिकेनेत्यत आह— ‘‘चित्रम्’’ इति ।

साङ्ख्यकारिका

चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथाच्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥
लिङ्गनात् ज्ञापनात् बुद्ध्यादयो लिङ्गम्, तत् अनाश्रयं न तिष्ठति । जन्ममरणान्तराले बुद्ध्यादयः, प्रत्युत्पन्नतन्मात्रवत्त्वे सति बुद्ध्यादित्वाद् दृश्यमानशरीरवृत्तिबुद्ध्यादिवत् । ‘‘विना विशेषैः’’ इति । सूक्ष्मैः शरीरैरित्यर्थः । आगमश्चात्र भवति—
‘‘ततः सत्यवतः कायात् पाशबद्धं वशङ्गतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यमः ॥’’
(—महाभारत, वनपर्व, अ.२९७-१७)
इत्यङ्गुष्ठमात्रत्वेन सूक्ष्मशरीरमुपलक्षयति । आत्मनो निष्कर्षासम्भवात् सूक्ष्ममेव शरीरं पुरुषः, तदपि ‘पुरि स्थूलशरीरे शेते’ इति ॥
एवं सूक्ष्मशरीरास्तित्वमुपपाद्य तथा संसरति, येन हेतुना च तदुभयमाह— ‘‘पुरुषार्थहेतुकम्’’ इति ।

साङ्ख्यकारिका

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥

तत्त्वकौमुदी

पुरुषार्थेन हेतुना प्रयुक्तम् । ‘‘निमित्तम्’’ धर्माधर्मादि, ‘‘नैमित्तिकम्’’ तेषु तेषु निकायेषु यथायथं षाट्कोशिकशरीरग्रहः, स हि धर्मादिनिमित्तप्रभवः । निमित्तञ्च, नैमित्तिकञ्च, तत्र यः प्रसङ्गः प्रसक्तिस्तेन नटवद् व्यवतिष्ठते लिङ्गं सूक्ष्मशरीरम् ।
यथा हि नटस्तां तां भूमिकां विधाय परशुरामो वाऽजातशत्रुर्वा वत्सराजो वा भवति, एवं तत्तत्स्थूलशरीरपरिग्रहणाद्देवो वा मनुष्यो वा पशुर्वा वनस्पतिर्वा भवति सूक्ष्मशरीरमित्यर्थः ।
कुतस्त्यः पुनरस्येदृशो महिमेत्यत आह— ‘‘प्रकृतेर्विभुत्वयोगात्’’ इति । तथा च पुराणम्—‘‘वैश्वरूप्यात् प्रधानस्य परिणामोऽयमद्भुतः’’ इति ॥४२॥

तत्त्वकौमुदी

‘‘निमित्तनैमित्तिकप्रसङ्गेन’’ इत्युक्तम्; तत्र निमित्तनैमित्तिके विभजते— ‘‘सांसिद्धिकाश्च’’ इति ।

साङ्ख्यकारिका

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्या ॥ ४३ ॥

तत्त्वकौमुदी

‘‘वैकृताः’’ नैमित्तिकाः, पुरुषस्य जातस्योत्तरकालदेवताराधना- दिनोत्पन्नाः । ‘‘प्राकृतिकाः’’ स्वाभाविका भावाः सांसिद्धिकाः तथा हि— सर्गादावादिविद्वान् अत्र भगवान् कपिलो महामुनिर्मर्मज्ञानवैराग्यैश्वर्यसम्पन्नः प्रादुर्बभूवेति स्मरन्ति । वैकृताश्च भावा असांसिद्धिकाः, ये उपायानुष्ठाने-नोत्पन्नाः यथा प्राचेतसप्रभृतीनां महर्षीणाम् । एवमधर्माज्ञाना-वैराग्यानैश्वर्याण्यपि ।
एते कुत्र दृष्टाः ?—इत्यत आह— ‘‘करणाश्रयिणः’’ इति । करणं बुद्धितत्त्वं, कार्यं शरीरं तदाश्रयिणः, तस्यावस्थाः, कललबुद्बुदमांसपेशी- करण्डाद्यङ्गप्रत्यङ्गव्यूहाः गर्भस्थस्य, ततो निर्गतस्य बालस्य बाल्य-कौमारयौवनवार्धकानीति ॥

तत्त्वकौमुदी

अवगतानि निमित्तकानि । कतमस्य तु निमित्तस्य कतमन्नैमित्तिकमित्यत आह—

साङ्ख्यकारिका

धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥

तत्त्वकौमुदी

‘‘धर्मेण गमनमूर्ध्वम्,’’ द्युप्रभुतिषु लोकेषु । ‘‘गमनमधस्ताद्भवत्य-धर्मेण,’’ सुतलादिषु लोकेषु । ‘‘ज्ञानेन चापवर्गः ।’’ तावदेव प्रकृति-र्भोगमारभते न यावद्विवेकख्यातिं करोति । अथ विवेकख्यातौ सत्यां कृतकृत्यतया विवेकख्यातिमन्तं पुरुषं प्रति निवर्तते । यथाहुः— ‘‘विवेकज्ञानपर्यन्तं ज्ञेयं प्रकृतिचेष्टितम्’’ इति ।
‘‘विपर्ययात्’’ अतत्त्वज्ञानात् ‘‘इष्यते’’ बन्धः । स च त्रिविधः—प्राकृतिको वैकृतिको दाक्षिणकश्चेति । तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, यः पुराणे प्रकृतिलयान् प्रत्युच्यते— ‘‘पूर्णं शतसहस्रं हि तिष्ठन्त्यव्यक्तचिन्तकाः’’ इति । वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषधियोपासते, तान् प्रतीदमुच्यते— ‘‘दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं, सहस्रं त्वाभिमानिकाः ॥ बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ।’’ ‘‘ते खल्वमी विदेहा येषां वैकृतिको बन्धः’’ इति । इष्टापूर्तेन दाक्षिणकः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यते इति ॥ ४४ ॥

साङ्ख्यकारिका

वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥

तत्त्वकौमुदी

‘‘वैराग्यात् प्रकृतिलयः’’—इति । पुरुषतत्त्वानभिज्ञस्य वैराग्यमात्रात् प्रकृतिलयः, प्रकृतिग्रहणेन प्रकृतिमहदहङ्कारभूतेन्द्रियाणि गृह्यन्ते, तेष्वात्म-बुद्ध्योपास्यामानेषु लयः । कालान्तरेण च पुनराविर्भवति । ‘‘संसारो भवति राजसाद्रागात्’’ इति । ‘राजसात्’ इत्यनेन रजसो दुःखहेतुत्वात् संसारस्य दुःखहेतुता सूचिता । ‘‘ऐश्वर्यादविघातः’’ इति—इच्छायाः । ईश्वरो हि यदेवेच्छति तदेव करोति । ‘‘विपर्ययात्’’ अनैश्वर्यात्, ‘‘तद्विपर्यासः’’ सर्वत्रेच्छाविघात इत्यर्थः ॥ ४५ ॥

तत्त्वकौमुदी

बुद्धिधर्मान् धर्मादीन् अष्टौ भावान् समासव्यासाभ्यां मुमुक्षूणां हेयोपादेयान् दर्शयितुं प्रथमस्तावत् समासमाह— ‘‘एषः’’ इति ।

साङ्ख्यकारिका

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥ ४६ ॥

तत्त्वकौमुदी

प्रतीयतेऽनेनेति प्रत्ययो बुद्धिः तस्य सर्गः । तत्र ‘‘विपर्ययः’’ अज्ञानमविद्या; सापि बुद्धिधर्मः । ‘‘अशक्तिः’’ अपि करणवैकल्यहेतुका बुद्धिधर्म एव । ‘‘तुष्टिसिद्धी’’ अपि वक्ष्यमाणलक्षणे बुद्धिधर्मावेव । तत्र विपर्ययाशक्तितुष्टिषु यथायोगं सप्तानां धर्मादीनां ज्ञानवर्जमन्तर्भावः, सिद्धौ च ज्ञानस्येति ।
व्यासमाह— ‘‘तस्य च भेदास्तु पञ्चाशत्’’ इति । कस्मात्?— ‘‘गुणवैषम्यविमर्दात्’’ इति । गुणानां वैषम्यमेकैकस्याधिकबलता द्वयोर्द्वयोर्वा, एकैकस्य न्यूनबलता द्वयोर्द्वयोर्वा; ते च न्यूनाधिक्ये मन्दमध्याधिकमात्रतया यथाकार्यमुन्नीयेते । तदिदं गुणानां वैषम्यम्, तेनोपमर्दः, एकैकस्य न्यूनबलस्य द्वयोर्द्वयोर्वाऽभिभवः । तस्मात्तस्य भेदाः पञ्चाशदिति ॥ ४६ ॥

तत्त्वकौमुदी

तानेव पञ्चाशद्भेदान् गणयति— ‘‘पञ्च’’ इति ।

साङ्ख्यकारिका

पञ्चविपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधासिद्धिः ॥ ४७ ॥

तत्त्वकौमुदी

अविद्याऽस्मितारागद्वेषाभिनिवेशा यथासङ्ख्यं तमो–मोह–महामोह– तामिस्रान्धतामिस्रसञ्ज्ञकाः पञ्च विपर्ययविशेषाः, विपर्ययप्रभवाणामप्य-स्मितादीनां विपर्ययस्वभावत्वात् । यद्वा, यदविद्यया विपर्ययेणावधार्यते वस्तु, अस्मितादयस्तत्स्वभावाः सन्तस्तदभिनिविशन्ते । अत एव ‘पञ्च पर्वाऽ-विद्ये’त्याह भगवान् वार्षगण्यः ।

तत्त्वकौमुदी

सम्प्रति पञ्चानां विपर्ययभेदानामवान्तरभेदमाह— ‘‘भेदः’’ इति ।

साङ्ख्यकारिका

भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोहः ।
तामिस्रोऽष्टादशधा तथा भवन्त्यन्धतामिस्रः ॥ ४८ ॥

तत्त्वकौमुदी

भेदस्तमसोऽविद्याया अष्टविधः । अष्टस्वव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्व- नात्मस्वात्मबुद्धिरविद्या तमः, अष्टविधविषयत्वात्तस्याष्टविधत्वम् । ‘‘मोहस्य च’’ इति, अत्राप्यष्टविधो भेदश्चकारेणानुषज्यते । देवा ह्यष्टविधमैश्वर्य-मासाद्याऽमृतत्वाभिमानिनोऽणिमादिकमात्मीयं शाश्वतिकमभिमन्यन्ते, सेयम-स्मिता मोहोऽष्टविधैश्वर्यविषयत्वादष्टविधः । ‘‘दशविधो महामोहः’’ इति । शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधेषु विषयेषु राग आसक्तिर्महामोहः, स च दशविधविषयत्वात् दशविधः । ‘‘तामिस्रः’’ द्वेषः ‘‘अष्टादशधा,’’ शब्दादयो दश विषया रञ्जनीयाः स्वरूपतः, ऐश्वर्यन्त्वणिमादिकं न स्वरूपतो रञ्जनीयम्, किन्तु रञ्जनीयशब्दाद्युपायाः, ते च शब्दादय उपस्थिताः परस्परेणोपहन्यमानास्तदुपायाश्चाऽणिमादयः स्वरूपेणैव कोपनीया भवन्तीति शब्दादिभिर्दशभिः सहाऽणिमाद्यष्टकमष्टादशधेति, तद्विषयो द्वेषस्तामिस्रोऽ-ष्टादशविषयत्वादष्टादशधेति । ‘‘तथा भवन्त्यन्धतामिस्रः’’— अभि-निवेशोऽन्धतामिस्रः । तथेत्यनेनाष्टादशधेत्यनुषज्यते । देवाः खल्वणिमादिक-मष्टविधमैश्वर्य- मासाद्य दश शब्दादीन् भुञ्जानाः ‘‘शब्दादयो भोग्या-स्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मोपघानिषत्’’ इति बिभ्यति । तदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयत्वादष्टादशधेति । सोऽयं पञ्चविध-विकल्पो विपर्ययोऽवान्तरभेदाद् द्वाषष्टिरिति ॥ ४८ ॥

तत्त्वकौमुदी

तदेवं पञ्चविपर्ययभेदानुक्त्वाऽष्टाविंशतिभेदामशक्तिमाह— ‘‘एकादश’’ इति ।

साङ्ख्यकारिका

एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥ ४९ ॥

तत्त्वकौमुदी

इन्द्रियवधस्य ग्रहो बुद्धिवधहेतुत्वेन, न त्वशक्तिभेदपूरणत्वेन । एकादशेन्द्रियवधाः—
‘बाधिर्यं कुष्ठिताऽन्धत्वं जडताऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वे क्लैव्योदावर्त्तमन्दताः ॥’
यथासङ्ख्यं श्रोत्रादीनामिन्द्रियाणां वधाः । एतावत्येव तु तद्धेतुका बुद्धेरशक्तिः स्वव्यापारे भवति । तथा चैकादशहेतुकत्वादेकादशधा बुद्धेर-शक्तिरुच्यते । हेतुहेतुमतोरभेदविवक्षया च सामानाधिकरण्यम् ।
तदेवमिन्द्रियवधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूपतोऽशक्तीराह— ‘‘सह बुद्धिवधैः’’ इति । कति बुद्धेः स्वरूपतो वधा इत्यत आह— ‘‘सप्तदश वधा बुद्धेः ॥’’ कुतः? ‘‘विपर्ययात्तुष्टिसिद्धीनाम् ।’’ तुष्टयो नवधेति तद्विपर्यया-स्तन्निरूपणान्नवधा भवन्ति, एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणादष्टौ भवन्तीति ॥

तत्त्वकौमुदी

तुष्टिर्नवधेत्युक्तम्, ताः परिगणयति— ‘‘आध्यात्मिक्यः’’ इति ।

साङ्ख्यकारिका

आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्चनव तुष्टयोऽभिमताः ॥ ५० ॥

तत्त्वकौमुदी

आध्यात्मिक्यः— ‘प्रकृतिव्यतिरिक्त आत्माऽस्ति’ इति प्रतिपद्य ततोऽस्य श्रवणमननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयतते, तस्याऽऽध्यात्मिक्यश्चतस्रस्तुष्टयो भवन्ति, प्रकृतिव्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः । कास्ता इत्यत आह— ‘‘प्रकृत्युपादान-कालभाग्याख्याः, प्रकृत्यादिराख्या यासां तास्तथोक्ताः ।
तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशे— ‘‘विवेकसाक्षात्कारो हि प्रकृतिपरिणामभेदस्तञ्च प्रकृतिरेव करोतीति कृतं तद्ध्यानाभ्यासेन तस्मादेव-मेवाऽऽस्व वत्स’ इति । सेयमुपदेष्टव्यस्य शिष्यस्य या तुष्टिः प्रकृतौ, सा तुष्टिः प्रकृत्याख्या ‘अम्भः’ उच्यते ।
‘या तु प्राकृत्यपि विवेकख्यातिर्न सा प्रकृतिमात्राद्भवति, माभूत्सर्वस्य सर्वदा, तन्मात्रस्य सर्वान् प्रत्यविशेषात्, प्रव्रज्यायास्तु सा भवति, तस्मात् प्रव्रज्यामुपाददीथाः, कृतं ते ध्यानाभ्यासेनाऽऽयुष्मन्’—इति उपदेशे या तुष्टिः सोपादानाख्या ‘सलिलम्’ उच्यते ।
‘प्रव्रज्याऽपि न सद्यो निर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धान्ते विधास्यति, अलमुत्तप्ततया तव’ इति उपदेशे या तुष्टिः सा कालाख्या ‘ओघः’ उच्यते ।
या तु ‘न प्रकृतेर्न कालान्नाप्युपादानाद्विवेकख्यातिः, अपि तु भाग्यादेव । अत एव मदालसापत्यान्यतिबालानि मातुरुपदेशादेव विवेकख्यातिमन्ति मुक्तानि बभूवुः, तस्माद्भाग्यमेव हेतुर्नान्यत्’’— इति उपदेशे तुष्टिः, सा भाग्याख्या ‘वृष्टिः’ उच्यते ।
बाह्यां दर्शयति— ‘‘बाह्याः’’ तुष्टयः ‘‘विषयोपरमात् पञ्च ।’’ या खल्वनात्मनः प्रकृतिमहदहङ्कारादीनात्मेत्यभिमन्यमानस्य वैराग्ये सति तुष्टयस्ता बाह्याः । आत्मज्ञानाभावे सत्यनात्मानमधिकृत्य प्रवृत्तेरिति । ताश्च वैराग्ये सति तुष्टय इति वैराग्यहेतुपञ्चत्वाद्वैराग्याण्यपि पञ्च, तत्पञ्चत्वात् तुष्टयः पञ्चेति । उपरम्यतेऽनेनेत्युपरमो वैराग्यम्, विषयादुपरमो विषयोपरमः । विषयाः भोग्याः शब्दादयः पञ्च, उपरमा अपि पञ्च । तथा हि— अर्जन–रक्षण–क्षय–भोगहिंसादोषदर्शनहेतुजन्मानः पञ्चोपरमा भवन्ति ।
तथा हि— सेवादयो धनार्जनोपायाः, ते च सेवकादीन् दुःखीकुर्वन्ति—
‘दृप्यद्दुरीश्वरद्वाःस्थदण्डिचण्डार्धचन्द्रजाम् ।
वेदनां भावयन् प्राज्ञः कः सेवास्वनुषज्जते ॥
एवमन्येऽत्यर्जनोपाया दुःखा इति विषयोपरमे या तुष्टिः सैषा ‘पारम्’ उच्यते । तथाऽर्जितं धनं राजैकागारिकाग्निजलौघादिभ्यो विनयतीति तद्रक्षणे महद् दुःखमिति भावयतो विषयोपरमे या तुष्टिः सा द्वितीया ‘सुपारम्’ उच्यते ।
तथा ‘महताऽऽयासेनार्जितं धनं भुज्यमानं क्षीयते’ इति तत्प्रक्षयं भावयतो विषयोपरमे या तुष्टिः सा तृतीया ‘परापराम्’ उच्यते ।
एवं शब्दादिभोगाभ्यासात् प्रवर्तन्ते कामाः, ते च विषयाप्राप्तौ कामिनं दुःखीकुर्वन्ति, इति भोगदोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थी ‘अनुत्तमाम्भः’ उच्यते ।
एवं ‘नानुपहत्य भूतानि विषयोपभोगः सम्भवति’ इति हिंसादोष-दर्शनाद्विषयोपरमे या तुष्टिः सा पञ्चमी ‘उत्तमाम्भः’ उच्यते ।
एवमाध्यात्मिकीभिश्चतसृभिः, बाह्याभिश्च पञ्चभिः ‘‘नव तुष्टयोऽभि-मताः’’ ॥ ५० ॥

तत्त्वकौमुदी

गौणमुख्यभेदैः सिद्धीराह— ‘‘ऊहः’’ इति ।

साङ्ख्यकारिका

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥

तत्त्वकौमुदी

विहन्यमानस्य दुःखस्य त्रित्वात्तद्विघातास्त्रय इतीमा मुख्यास्तिस्रः सिद्धयः, तदुपायतया त्वितरा गौण्यः पञ्च सिद्धयः, ता अपि हेतुहेतुमत्तया व्यवस्थिताः । तत्राऽऽद्याऽध्यनलक्षणा सिद्धिर्हेतुरेव । मुख्यास्तु सिद्धयो हेतुमत्य एव मध्यमास्तु हेतुहेतुमत्यः । विधिवद् गुरुमुखादध्यात्मविद्या-नामक्षरस्वरूपग्रहणमध्ययनम्— प्रथमा सिद्धिस्तारमुच्यते ।
तत्कार्यम्— ‘‘शब्दः ।’’ शब्द इति पदं शब्दजनितमर्थज्ञानमुपलक्षयति कार्ये कारणोपचारात् । सा द्वितीया सिद्धिः ‘सुतार’मुच्यते । पाठार्थाभ्यां तदिदं द्विधा श्रवणम् । ‘‘ऊहः’’ तर्कः । आगमाविरोधिन्याये-नाऽऽगमार्थपरीक्षणम् । परीक्षणञ्च संशयपूर्वपक्षनिराकरणेनोत्तरपक्ष-व्यवस्थापनम् । तदिदं मननमाचक्षते आगमिनः । सा तृतीया सिद्धिः ‘तारतारम्’ उच्यते ।
स्वोत्प्रेक्षितं मननममननमेवासुहृत्सम्मतमिति द्वितीयं मननमाह— ‘‘सुहृत्प्राप्तिः ।’’ न्यायेन स्वयं परीक्षितमप्यर्थं न श्रद्धत्ते, न यावद् गुरुशिष्यसब्रह्मचारिभिः सह संवाद्यते । अतः सुहृदां गुरुशिष्यसब्रह्मचारिणां संवादकानां प्राप्तिः ‘सुहृत्प्राप्तिः ।’ सा सिद्धिश्चतुर्थी ‘रम्यकम्’ उच्यते ।
‘‘दानं’’ च शुद्धिर्विवेकज्ञानस्य, ‘‘दैप्त्र्शोधने’’ (धातुपाठ १.६५६) इत्यस्माद्धातोर्दानपदव्युत्पत्तेः । यथाह भगवान् पतञ्जलिः— ‘‘विवेक-ख्यातिरविप्लवा हानोपायः’’ (यो.सू.२.२६) इति । ‘‘अविप्लवः’’ शुद्धिः, सा च सवासनसंशयविपर्यासानां परिहारेण विवेकसाक्षात्कारस्य स्वच्छ-प्रवाहेऽवस्थापनम् । सा च न विनाऽऽदरनैरन्तर्यदीर्घकालसेविताभ्यास-परिपाकाद्भवतीति ‘दानेन’ विवेकख्यात्या कार्येण सोऽपि सङ्गृहीतः । सेयं पञ्चमी सिद्धिः ‘सदामुदितम्’ उच्यते ।
तिस्रक्ष्च मुख्याः सिद्धयः प्रमोदमुदितमोदमाना इत्यष्टौ सिद्धयः ।
अन्ये व्याचक्षते— विनोपदेशाद्विना प्राग्भवीयाभ्यासवशात्तत्त्वस्य स्वयमूहनं यत्, सा सिद्धिरूहः । यस्य साङ्ख्यशास्त्रपाठमन्यदीयमाकर्ण्य तत्त्वज्ञानमुत्पद्यते सा सिद्धिः ‘शब्दः,’ शब्दपाठादनन्तरं भावात् । यस्य शिष्याचार्यसम्बन्धेन साङ्ख्यशास्त्रं ग्रन्थतोऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते साऽध्ययनहेतुका सिद्धिरध्ययनम् । सुहृत्प्राप्तिरिति— यस्याधिगततत्त्वं सुहृदं प्राप्य ज्ञानमुत्पद्यते सा ज्ञानलक्षणा सिद्धिस्तस्य सुहृत्प्राप्तिः, दानञ्च सिद्धिहेतुः, धनादिदानेनाऽऽराधितो ज्ञानी ज्ञानं प्रयच्छति । अस्य च युक्ता-युक्तत्वे सूरिभिरेवावगन्तव्ये इति कृतं परदोषोद्भावनेन नः सिद्धान्त-मात्रव्याख्यानप्रवृत्तानामिति ।
सिद्धितुष्टिविपर्ययेणाशक्तिर्बुद्धिवधस्सप्तदशधा द्रष्टव्यः । अत्र प्रत्ययसर्गे सिद्धिरुपादेयेति प्रसिद्धमेव । तन्निवारणहेतवस्तु विपर्ययाशक्तितुष्टयो हेया इत्याह— ‘‘सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः’’ इति । ‘‘पूर्वः’’ इति विपर्यया-शक्तितुष्टीः परामृशति । ताः सिद्धिकरिणीनामङ्कुशो निवारकत्वात्, अतः सिद्धिपरिपन्थित्वात् विपर्ययाशक्तितुष्टयो हेया इत्यर्थः ॥ ५१ ॥

तत्त्वकौमुदी

स्यादेतत्; पुरुषार्थप्रयुक्ता सृष्टिः, स च पुरुषार्थः प्रत्ययसर्गाद्वा तन्मात्र सर्गाद्वा सिध्यतीति कृतमुभयसर्गेणेत्यत आह— ‘‘न विना’’—इति ।

साङ्ख्यकारिका

न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः ॥ ५२ ॥

तत्त्वकौमुदी

‘‘लिङ्गम्’’ इति तन्मात्रसर्गमुपलक्षयति, ‘‘भावैः’’ इति च प्रत्ययसर्गम् । एतदुक्तं भवति— तन्मात्रसर्गस्य पुरुषार्थसाधनत्वं स्वरूपञ्च न प्रत्यय-सर्गाद्विना भवति; एवं प्रत्ययसर्गस्य स्वरूपं पुरुषार्थसाधनत्वञ्च न तन्मात्रसर्गादृते, इत्युभयथा सर्गप्रवृत्तिः ।
भोगः पुरुषार्थो न भोग्यान् शब्दादीन् भोगायतनं शरीरद्वयञ्चान्तरेण सम्भवतीत्युपपन्नस्तन्मात्रसर्गः ।
एवं स एव भोगो भोगसाधनानीन्द्रियाण्यन्तःकरणानि चाऽन्तरेण न सम्भवति । न च तानि धर्मादीन् भावान् विना, इत्युपपन्न उभयविधः सर्गः ।
अनादित्वाच्च बीजाङ्कुरवन्नान्योन्याश्रयदोषमावहति । कल्पादावपि प्राचीन-कल्पोत्पन्नभावलिङ्गसंस्कारवशाद्भावलिङ्गयोरुत्पत्तिर्नानुपपन्नेति सर्वमवदातम्
॥ ५२ ॥

तत्त्वकौमुदी

विभक्तः प्रत्ययसर्गः, भूतादिसर्गं विभजते— ‘‘अष्टविकल्प’’ इति ।

साङ्ख्यकारिका

अष्टविकल्पो देवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुषकश्चैकविधः समासतो भौतिकः सर्गः ॥ ५३ ॥

तत्त्वकौमुदी

ब्राह्मः प्राजापत्यः, ऐन्द्रः, पैत्र्यः, गान्धर्वः, याक्षः, राक्षसः पैशाचः इत्यष्टविधो दैवः सर्गः । ‘‘तैर्यग्योनश्च पञ्चधा भवति’’ पशुमृगपक्षिसरी-सृपस्थावराः । ‘‘मानुषकश्चैकविधः’’ इति ब्राह्मणत्वाद्यवान्तरजातिभेदा-विवक्षया, संस्थानस्य चतुर्ष्वपि वर्णेष्वविशेषात् इति । ‘‘समासतः’’ सङ्क्षेपतः ‘‘भौतिकः सर्गः ।’’ घटादयस्त्वशरीरत्वेऽपि स्थावरा एवेति ॥ ५३ ॥

तत्त्वकौमुदी

भौतिकस्याऽस्य सर्गस्य चैतन्योत्कर्षनिकर्षतारतम्याभ्यामूर्ध्वाधोमध्यभावेन त्रैविध्यमाह— ‘‘ऊर्ध्वं सत्त्वविशालः’’ इति ।

साङ्ख्यकारिका

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥

तत्त्वकौमुदी

द्युप्रभृतिसत्यान्तो लोकः सत्त्वबहुलः । ‘‘तमोविशालश्च मूलतः सर्गः’’ पश्वादिस्थावरान्तः, सोऽयं मोहमयत्वात्तमोबहुलः । भूर्लोकस्तु सप्तद्वीपसमुद्र-सन्निवेशो, मध्ये रजोविशालो धर्माधर्मानुष्ठानपरत्वाद् दुःखबहुलत्वाच्च । तामिमां लोकसंस्थितिं सङ्क्षिपति— ‘‘ब्रह्मादिस्तम्बपर्यन्तः,’’ स्तम्बग्रहणेन वृक्षादयः सङ्गृहीताः ॥ ५४ ॥

तत्त्वकौमुदी

तदेवं सर्गं दर्शयित्वा तस्यापवर्गसाधनवैराग्योपयोगिनीं दुःखहेतुतामाह— ‘‘तत्र’’ इति ।

साङ्ख्यकारिका

तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद् दुःखं स्वभावेन ॥ ५५ ॥
‘‘तत्र’’ शरीरादौ । यद्यपि विविधविचित्रानन्दभोगभागिनः प्राणभृद्भेदाः, तथापि सर्वेषां जरामरणकृतं दुःखमविशिष्टम् । सर्वस्य खलु कृमेरपि मरणत्रासो— ‘मा न भूवम्,’ ‘भूयासम्’ इत्येवमात्मकोऽस्ति । दुःखं च भयहेतुरिति दुःखं मरणम् ।
स्यादेतत्— दुःखादयः प्राकृता बुद्धिगुणाः, तत्कथमेते चेतनसम्बन्धिनो भवन्तीत्यत आह— ‘‘पुरुषः’’ इति । ‘पुरि लिङ्गे शेते’ इति पुरुषः, लिङ्गं च तत्सम्बन्धीति चेतनोऽपि तत्सम्बन्धो भवतीत्यर्थः ।
कुतः पुनर्लिङ्गसम्बन्धि दुःखं पुरुषस्य चेतनस्येत्यत आह— ‘‘लिङ्गस्या-विनिवृत्तेः’’—पुरुषाद्भेदाग्रहाल्लिङ्गधर्मानात्मन्यध्यवस्यति पुरुषः । अथवा दुःखप्राप्ताववधिराङा कथ्यते, लिङ्गं यावन्न निवर्तते तावदिति ॥ ५५ ॥

तत्त्वकौमुदी

उक्तस्य सर्गस्य कारणविप्रतिपत्तीर्निराकरोति— ‘‘इत्येष’’ इति ।

साङ्ख्यकारिका

इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव पदार्थ आरम्भः ॥ ५६ ॥

तत्त्वकौमुदी

आरभ्यते इति ‘‘आरम्भः’’ सर्गः महदादिविशेषभूतपर्यन्तः प्रकृत्यैव कृतो नेश्वरेण, न ब्रह्योपादानः, नाप्यकारणः । अकारणत्वे ह्यत्यन्तभावोऽत्यन्त-भावो वा स्यात् । न ब्रह्मोपादानः, चितिशक्तेरपरिणामात् । नेश्वराधिष्ठित-प्रकृतिकृतः, निर्व्यापारस्याधिष्ठातृत्वासम्भवात् । न हि निर्व्यापारस्तक्षा वास्याद्यधितिष्ठति ।
ननु प्रकृतिकृतश्चेत्, तस्या नित्यायाः प्रवृत्तिशीलाया अनुपरमात् सदैव सर्गः स्यादिति न कश्चिन्मुच्येतेत्यत आह— ‘‘प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः’’ इति । यथौदनकाम ओदनाय पाके प्रवृत्तः ओदनसिद्धौ निवर्तते, एवं प्रत्येकं पुरुषान् मोचयितुं प्रवृत्ता प्रकृतिर्यं पुरुषं मोचयति तं प्रति पुनर्न प्रवर्तते । तदिदमाह— ‘‘स्वार्थ इव,’’ स्वार्थे यथा तथा परार्थे आरम्भ इत्यर्थः ॥ ५६ ॥

तत्त्वकौमुदी

स्यादेतत्; स्वार्थं परार्थं वा चेतनः प्रवर्तते । न च प्रकृतिरचेतनैवं भवितुमर्हति, तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः । न च क्षेत्रज्ञाश्चेतना अपि प्रकृतिमधिष्ठातुमर्हन्ति, तेषां प्रकृतिस्वरूपाभिज्ञत्वात् । तस्मादस्ति सर्वार्थदर्शी प्रकृतेरधिष्ठाता, स चेश्वरः— इत्यत आह—‘‘वत्सविवृद्धिनिमित्तम्’’ इति ।

साङ्ख्यकारिका

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥

तत्त्वकौमुदी

दृष्टमचेतनमपि प्रयोजने प्रवर्त्तमानम्, यथा वत्सविवृद्ध्यर्थं क्षीरमचेतनं प्रवर्तते । एवं प्रकृतिरचेतनापि पुरुषविमोक्षणाय प्रवर्तिष्यते ।
न च क्षीरप्रवृत्तेरपीश्वराधिष्ठाननिबन्धनत्वेन साध्यत्वान्न साध्येन व्यभिचार इति, साम्प्रतम् । प्रेक्षावतः प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्यत्वात् ते जगत्सर्गाद् व्यावर्तमाने प्रेक्षावत्प्रवृत्तिपूर्वकत्वमपि व्यावर्तयतः । न ह्यवाप्तसकलेप्सितस्य भगवतो जगत् सृजतः किमप्यभिलषितं भवति । नापि कारुण्यादस्य सर्गे प्रवृत्तिः, प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम्? सर्गोत्तरकालं दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयत्वं दूषणं कारुण्येन सृष्टिः सृष्ट्या च कारुण्यम् इति ।
अपि च करुणया प्रेरित ईश्वरः सुखिन एव जन्तून्सृजेन्न विचित्रान् । कर्मवैचित्र्याद् वैचित्र्यमिति चेत्, कृतमस्य प्रेक्षावतः कर्माधिष्ठानेन, तदनधिष्ठानमात्रादेवाचेतनस्यापि कर्मणः प्रवृत्त्यनुपपत्तेस्तत्कार्यशरीरेन्द्रिय विषयानुत्पत्तौ दुःखानुत्पत्तेरपि सुकरत्वात् ।
प्रकृतेस्त्वचेतनायाः प्रवृत्तेर्नस्वार्थानुग्रहो न वा कारुण्यं प्रयोजकमिति नोक्तदोषप्रसङ्गावतारः, पारार्थ्यमात्रन्तु प्रयोजनमुपपद्यते । तस्मात् सुष्ठूक्तम्— ‘वत्सविवृद्धिनिमित्तम्’’ इति ॥ ५७ ॥

तत्त्वकौमुदी

‘‘स्वार्थ इव’’ इति दृष्टान्तितम् । तद्विभजते— ‘‘औत्सुक्य’’ इति ।

साङ्ख्यकारिका

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥

तत्त्वकौमुदी

औत्सुक्यमिच्छा, सा खल्विष्यमाणप्राप्तौ निवर्तते । इष्यमाणश्च स्वार्थः, इष्टलक्षणत्वात्फलस्य । दार्ष्टान्तिके योजयति— ‘‘पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम्’’ इति ।

तत्त्वकौमुदी

ननु भवतु पुरुषार्थः प्रकृतेः प्रवर्तकः, निवृत्तिस्तु कुतस्त्त्या प्रकृतेः?— इत्यत आह— ‘‘रङ्गस्य’’ इति ।

साङ्ख्यकारिका

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९ ॥

तत्त्वकौमुदी

‘‘रङ्गस्य’’ इति स्थानेन स्थानिनः पारिषदानुपलक्षयति । आत्मानं शब्दाद्यात्मना पुरुषाद्भेदेन च प्रकाश्येत्यर्थः ।

तत्त्वकौमुदी

स्यादेतत्— ‘प्रवर्ततां प्रकृतिः पुरुषार्थम् । पुरुषादुपकृतात्प्रकृतिर्लप्स्यते कञ्चिदुपकारम्, आज्ञासम्पादनाराधितादिवाज्ञापयितुर्भुजिष्या, तथा च न परार्थोऽस्या आरम्भः’ इत्यत आह— ‘‘नाना’’ इति ।

साङ्ख्यकारिका

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ६० ॥

तत्त्वकौमुदी

यथा गुणवानप्युपकार्यपि भृत्यो निर्गुणे तऽवानुपकारिणि स्वामिनि निष्फलाराधनः, एवमियं प्रकृतिस्तपस्विनी गुणवत्युपकारिण्यनुपकारिणि पुरुषे व्यर्थपरिश्रमेति पुरुषार्थमेव यतते न स्वार्थमिति सिद्धम् ॥
स्यादेतत्; ‘नर्तकी नृत्यं परिषद्य्भो दर्शयित्वा निवृत्तापि पुनस्तद्द्रष्टृकौतूहलात् प्रवर्तते यथा, तथा प्रकृतिरपि पुरुषायाऽऽत्मानं दर्शयित्वा निवृत्तापि पुनः प्रवर्त्स्यति’ इत्यत आह— ‘‘प्रकृतेः…’’ इति ।

साङ्ख्यकारिका

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥

तत्त्वकौमुदी

सुकुमारतरताऽतिपेशलता, परपुरुषदर्शनासहिष्णुतेति यावत् । असूर्यम्पश्या हि कुलवधूरतिमन्दाक्षमन्थरा प्रमादाद्विगलिताशिरोञ्चला चेदालोक्यते परपुरुषेण, तदाऽसौ तथा प्रयतते, अप्रमत्तां यथैनां परपुरुषान्तराणि न पुनः पश्यन्ति । एवं प्रकृतिरपि कुलवधूतोऽप्यधिका दृष्टा विवेकेन न पुनर्द्रक्ष्यत इत्यर्थः ॥ ६१ ॥

तत्त्वकौमुदी

स्यादेतत्— ‘पुरुषश्चेदगुणोऽपरिणामी, कथमस्य मोक्षः? मुचेर्बन्धन-विश्लेषार्थत्वात्, सवासनक्लेशकर्माशयानां च बन्धनसमाख्यानां पुरुषेऽ-परिणामिन्यसम्भवात् । अत एवास्य न संसारः प्रेत्यभावापरनामाऽस्ति, निष्क्रियत्वात् । तस्मात् ‘पुरुषविमोक्षार्थम्’ इति रिक्तं वचः’ —इतीमां शङ्कामुपसंहारव्याजेनाभ्युपगच्छन्नपाकरोति— ‘‘तस्मात्…’’ इति ।

साङ्ख्यकारिका

तस्मान्न बध्यतेऽद्धा न मुच्यते नाऽपि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥

तत्त्वकौमुदी

अद्धा न कश्चित् पुरुषो बध्यते, न कश्चित् संसरति, न कश्चिन्मुच्यते । प्रकृतिरेव तु नानाश्रया सती बध्यते संसरति मुच्यते चेति । बन्धमोक्षसंसाराः पुरुषेषूपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्येते, तदाश्रयेण भृत्यानां तद्भागित्वात्, तत्फलस्य च शोकलाभादेः स्वामिनि सम्बन्धात् । भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषसम्बन्ध उपपादित इति सर्वं पुष्कलम् ॥ ६२ ॥

तत्त्वकौमुदी

नन्ववगतं ‘प्रकृतिगता बन्धसंसारापवर्गाः पुरुषेषु उपचर्यन्ते’ इति । किंसाधनाः पुनरेते प्रकृतेरित्यत आह— ‘‘रूपैः…’’ इति ।

साङ्ख्यकारिका

रूपैः सप्तभिरेव तु वध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥

तत्त्वकौमुदी

तत्त्वज्ञानवर्जं बध्नाति धर्मादिभिः सप्तभी ‘‘रूपैः’’ भावैरिति । ‘‘पुरुषार्थं प्रति’’ भोगापवर्गौ प्रति आत्मनाऽऽत्मानम् ‘‘एकरूपेण’’ तत्त्वज्ञानेन विवेकख्यात्या विमोचयति, पुनर्भोगापवर्गो न करोतीत्यर्थः ॥ ६३ ॥
अवगतमीदृशं तत्त्वम्, ततः किमित्यत आह— ‘‘एवम्’’ इति ।

साङ्ख्यकारिका

एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥

तत्त्वकौमुदी

‘‘तत्त्वेन’’ विषयेण तत्त्वज्ञानमुपलक्षयति । उक्तप्रकारतत्त्वविषयज्ञाना- भ्यासादादरनैरन्तर्यदीर्घकालसेवितात् सत्त्वपुरुषान्यतासाक्षात्कारि ज्ञान-मुत्पद्यते । यद्विषयश्चाभ्यासस्तद्विषयकमेव साक्षात्कारमुपजनयति, तत्त्व-विषयश्चाऽभ्यास इति तत्त्वसाक्षात्कारं जनयति अत उक्तम्— ‘‘विशुद्धम्’’ इति ।
कुतो विशुद्धमित्यत आह— ‘‘अविपर्ययात्’’ इति । संशयविपर्ययौ हि ज्ञानस्याविशुद्धी, तद्रहितं विशुद्धम्; तदिदमुक्तम्— ‘‘अविपर्ययात्’’ इति । नियतमनियततया गृह्णन् संशयोऽपि विपर्ययः, तेन ‘अविपर्ययात्, इति संशयविपर्ययाभावो दर्शितः । तत्त्वविषयत्वाच्च संशयविपर्ययाभावः ।
स्यादेतत्— उत्पद्यतामीदृशाभ्यासात् तत्त्वज्ञानम्, तथाप्यनादिना मिथ्या-ज्ञानसंस्कारेण मिथ्याज्ञानं जनयितव्यम्, तथा च तन्निबन्धनस्य संसार-स्यानुच्छेदप्रसङ्ग इत्यत उक्तम्— ‘‘केवलम्’’ इति विपर्ययेणासम्भिन्नम् ।
यद्यप्यनादिर्विपर्ययवासना, तथापि तत्त्वज्ञानवासनया तत्त्वविषय-साक्षात्कारमादधत्याऽऽदिमत्याऽपि शक्या समुच्छेत्तुम् । तत्त्वपक्षपातो हि धियां स्वभावः, यदाहुर्बाह्या अपि— ‘‘निरुपद्रवभूतार्थस्वभावस्यविपर्ययैः । न बाधोऽयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपातः ॥’’ इति ।
ज्ञानस्वरूपमुक्तम्— ‘‘नास्मि, न मे, नाऽहम्’’ इति । ‘नास्मि’ इत्यात्मनि क्रियमात्रं निषेधति, यथाऽऽहुः— ‘‘कृभ्वस्तयः क्रियासामान्य-वचनाः’ (महाभाष्य ३.३.१८) इति । तथा चाध्यवसायाभिमान-सङ्कल्पालोचनानि चान्तराणि बाह्याश्च सर्वे व्यापारा आत्मनि प्रतिषिद्धानि बोद्धव्यानि । यतश्चात्मनि व्यापारावेशो नास्त्यतो ‘‘नाहम् ।’’ अहमिति कर्तृपदं, अहं जानाम्यहं जुहोम्यहं ददे इति सर्वत्र कर्तुः परामर्शात् । निष्क्रियत्वे च सर्वत्र कर्तृत्वाभावः । ततः सुष्ठूक्तम्— ‘‘नाहम्’’ इति ।
अत एव ‘‘न मे’’ । कर्त्ता हि स्वामितां लभते, तदभावात्तु कुतः स्वाभाविकी स्वामितेत्यर्थः । अथवा वा नाऽस्मि इति, पुरुषोऽस्मि न प्रसवधर्मा । अप्रसवधर्मित्वाच्चाकर्तृत्वमाह— ‘‘नाहम्’’ इति । अकर्तृत्वाच्च न स्वामितेत्याह— ‘‘न मे’’ इति ।
ननु एतावत्सु ज्ञातेष्वपि कश्चित् कदाचिदज्ञातो विषयोऽस्ति तदज्ञानं च जन्तून् बन्धयिष्यति’– इत्यत आह— ‘‘अपरिशेषम्’’ इति । नास्ति किञ्चिदस्मिन् परिशिष्टं ज्ञातव्यं यदज्ञानं जन्तून् बन्धयिष्यतीत्यर्थः ॥ ६४ ॥

तत्त्वकौमुदी

किं पुनरीदृशेन तत्त्वसाक्षात्कारेण सिद्ध्यतीत्यत आह—‘‘तेन…’’ इति ।

साङ्ख्यकारिका

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वच्छः ॥ ६५ ॥

तत्त्वकौमुदी

भोगविवेकसाक्षात्कारौ हि प्रकृतेः प्रसोतव्यौ । तौ च प्रसूताविति नास्याः प्रसोतव्यमवशिष्यत इति निवृत्तप्रसवा प्रकृतिः । विवेकज्ञानरूपो योऽर्थः तस्य वशः सामर्थ्यम्, तस्मात् । अतत्त्वज्ञानपूर्वकाणि खलु धर्माधर्माज्ञानवैराग्या-वैराग्यैश्वर्यानैश्वर्याणि । वैराग्यमपि केवलतौष्टिकानामतत्त्वज्ञानपूर्वकमेव । तत्र तत्त्वज्ञानं विरोधित्वेनाऽतत्त्वज्ञानमुच्छिनत्ति । कारणनिवृत्त्या च ‘‘सप्तरूपविनिवृत्ता प्रकृतिः ।’’ ‘‘अवस्थितः’’ इति निष्क्रियः, ‘‘स्वच्छः’’ इति रजस्तमीवृत्तिकलुषया बुद्ध्याऽसम्भिन्नः । सात्त्विक्या तु बुद्ध्या तदाऽप्यस्य मनाक् सम्भेदोऽस्त्येव, अन्यथैवम्भूतप्रकृतिदर्शनानु-पपत्तेरिति ॥ ६५ ॥

तत्त्वकौमुदी

स्यादेतत्— ‘निवृत्तप्रसवामिति न मृष्यामहे, ‘संयोगकृतो हि सर्गः’ इत्युक्तम् (द्र.२१ का.) । योग्यता च संयोगः । भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यम्, भोग्यत्वयोग्यता च प्रकृतेर्जडत्वं विषयत्वञ्च । न चैतयोरस्ति निवृत्तिः । न च करणीयाभावान्निवृत्तिः तज्जातीयस्यान्यस्य करणीयत्वात्, पुनः पुनः शब्दाद्युपभोगवत्,— इत्यत आह— ‘‘दृष्टा मया…’’ इति ।

साङ्ख्यकारिका

दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमन्त्यन्था ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥

तत्त्वकौमुदी

करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिर्यया विवेकख्यातिर्न कृता, कृतविवेकख्यातिस्तु शब्दाद्युपभोगं न जनयति । अविवेकख्यातिनिबन्धनो हि तदुपभोगः निबन्धनाभावे न भवितुमर्हति, अङ्कुर इव बीजाभावे । प्राकृतान् हि सुखदुःखमोहात्मनः शब्दादींस्तदविवेकात् ‘ममैते’ इत्यभिमन्यमान आत्मा भुञ्जीत एवं विवेकख्यातिमपि प्राकृतीमविवेकादेवाऽऽत्मा ‘मदर्थेयम्’ इति मन्यते । उत्पन्नविवेकख्यातिस्तु तदसंसर्गाच्छब्दादीन्नोपभोक्तुमर्हति, नापि विवेकख्यातिं प्राकृतीं ततो विविक्त आत्मा स्वार्थमभिमन्तुमर्हति । पुरुषार्थौ च भोगविवेकौ प्रकृत्यारम्भप्रयोजकावित्यपुरुषार्थौ सन्तौ न प्रकृतिं प्रयोजयतः । तदिदमुक्तम्— ‘‘प्रयोजनं नास्ति सर्गस्य’’ इति । अत्र प्रयुज्यते सर्गे प्रकृतिरनेनेति ‘प्रयोजनं’ तदपुरुषार्थे नास्तीत्यर्थः ॥ ६६ ॥

तत्त्वकौमुदी

स्यादेतत्— उत्पन्नतत्त्वसाक्षात्कारान्मुक्तश्चेत्तदनन्तरमेव मुक्तस्य तस्य देहपातः स्यादिति कथमदेहः प्रकृतिं पश्येत् । अथ तत्त्वज्ञानेऽपि न मुच्यते, कर्मणामक्षीणत्वात्, तेषां कुतः प्रक्षयः? भोगादिति चेत्, हन्त भोः, तत्त्वज्ञानं न मोक्षसाधनम् इति ‘व्यक्ताव्यक्तविज्ञानजन्मना तत्त्वज्ञाने-नापवर्गः’— इति रिक्तं वचः । ‘भोगेन चापरिसङ्ख्येयः कर्माशय-प्रचयोऽनियतविपाककालः क्षेतव्यः, ततश्चापवर्गप्राप्तिः’ इत्यपि मनोरथ-मात्रम्— इत्यत आह— ‘‘सम्यक्’’ इति ।

साङ्ख्यकारिका

सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणत्वप्राप्तौ ।
तिष्ठति संस्कारवशात् चक्रभ्रमिवद्धृतशरीरः ॥ ६७ ॥
तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्माशयप्रचयो दग्धबीजभावतया न जात्यायुर्भोगलक्षणाय फलाय कल्पते । क्लेश-सलिलावसक्तायां हि बुद्धिभूमौ कर्मबीजान्यङ्कुरं प्रसुवते । तत्त्वज्ञान-निदाधनिपीतसकलक्लेशसलिलायामूषरायां कुतः कर्मबीजानामङ्कुरप्रसवः? तदिदमुक्तम्— ‘‘धर्मादीनामकारणत्वप्राप्तौ’’ इति । अकारणत्वप्राप्तावित्यर्थः।
उत्पन्नतत्त्वज्ञानोऽपि च संस्कारवशात् तिष्ठति; यथोपरतेऽपि कुलाल-व्यापारे चक्रं वेगाख्यसंस्कारवशाद् भ्रमत् तिष्ठति । कालपरिपाकवशात्तूपरते संस्कारे निष्क्रियं भवति । शरीरस्थितौ च प्रारब्धकर्मपरिपाकौ धर्माधर्मौ संस्कारौ तौ च भोगेन क्षेतव्यौ । तथा चाऽनुश्रूयते— ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’’ (छान्दोग्य ६.१४.२) इति । प्रक्षीयमाणा-विद्यासंस्कारावशेषश्च संस्कारः;’’ तद्वशात् तत्सामर्थ्यात् धृतशरीरस्तिष्ठति ।

तत्त्वकौमुदी

स्यादेतत्— यदि संस्कारशेषादपि धृतशरीरस्तथाऽपि कदाऽस्य मोक्षो भविष्यति? —इत्यत आह— ‘‘प्राप्ते…’’ इति ।

साङ्ख्यकारिका

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥

तत्त्वकौमुदी

अनारब्धविपाकानां तावत् कर्माशयानां तत्त्वज्ञानाग्निना बीजभावो दग्धः । प्रारब्धविपाकानां तूपभोगेन क्षये सति । ‘‘प्राप्ते शरीरभेदे’’ इति—शरीर-विनाशे, ‘‘चरितार्थत्वात्’’ इति—शरीरविनाशे, ‘‘चरितार्थत्वात्’’ इति—कृतप्रयोजनत्वात् प्रधानस्य तं पुरुषं प्रति विनिवृत्तौ—‘‘ऐकान्तिकम्’’ —अवश्यम्भावि, ‘‘आत्यन्तिकम्’’— अविनाशि, इत्युभयं ‘‘कैवल्यम्’’— दुःखत्रयविगमं प्राप्नोति पुरुषः ॥

तत्त्वकौमुदी

प्रमाणेनोपपादितेऽप्यत्यन्तश्रद्धोत्पादनाय परमर्षिपूर्वकत्वमाह— ‘‘पुरुषार्थ ज्ञानमिदम्….’’ इति ।

साङ्ख्यकारिका

पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥

तत्त्वकौमुदी

‘‘गुह्यं’’—गुहानिवासि, स्थूलधियां दुर्बोधमिति यावत् । ‘‘परमर्षिणा’’ —कपिलेन । तामेव श्रद्धामागमिकत्वेन द्रढयति— ‘‘स्थित्युत्पत्ति-प्रलयाश्चिन्त्यन्ते यत्र भूतानाम्’’— इति । ‘‘यत्र’’ ज्ञाने यदर्थम्, यथा— ‘चर्मणि द्वीपिनं हन्ति’ इति । ‘‘भूतानाम्’’— प्राणिनां ‘‘स्थित्युत्पत्ति-प्रलयाः’’ आगमैः ‘‘चिन्त्यन्ते’’ ॥

तत्त्वकौमुदी

स्यादेतत्—यत् परमर्षिणा साक्षात्कथितं तच्छ्रदधीमहि, यत्पुनरीश्वर-कृष्णेन कथितं तत्र कुतः श्रद्धा? —इत्यत आह— ‘‘एतत्…’’ इति ।

साङ्ख्यकारिका

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥ ७० ॥
तत्त्वकौमुसी
‘‘एतत् पवित्रम्’’—पावनं दुःखत्रयहेतोः पाप्मनः पुनातीति । ‘‘अग्य्रम्’’—सर्वेभ्यः पवित्रेभ्यो मुख्यम् । मुनिः कपिल आसुरयेऽनुकम्पया प्रददौ, आसुरिरपि पञ्चशिखाय, तेन बहुधा कृतं तन्त्रम् ॥ ७० ॥

साङ्ख्यकारिका

शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः ।
संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥

तत्त्वकौमुदी

एतच्च शास्त्रं सकलशास्त्रार्थसूचकत्वात्, न तु प्रकरणमित्याह— ‘‘सप्तत्याम्…’’ इति ।

साङ्ख्यकारिका

सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२ ॥

तत्त्वकौमुदी

तथा च राजवार्तिकम्—
‘‘प्रधानास्तित्वमेकत्वमर्थवत्वमथान्यता ।
पारार्थ्यं च तथाऽनैक्यं वियोगो योग एव च ॥
शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ।
विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः ॥
करणानामसामर्थ्यमष्टाविंशतिधा स्मृतम् ।
इति षष्टिः पदार्थानामष्टाभिः सह सिद्धिभिः ॥’’
इति ।

सेयं षष्टिपदार्थी कथितेति सकलशास्त्रकथनान्नेदं प्रकरणमपि तु शास्त्रमेवेदमिति सिद्धम् ।
एकत्वमर्थवत्वं पारार्थ्यञ्च प्रधानमधिकृत्योक्तम् । अन्यत्वमकर्तृत्वं बहुत्वञ्चेति पुरुषमधिकृत्य ।

अस्तित्वं योगो वियोगश्चेत्युभयमधिकृत्य । वृत्तिः स्थितिरिति स्थूलसूक्ष्ममधिकृत्य ॥

मनांसि कुमुदानीव
बोधयन्ती सतां मुदे ।
श्रीवाचस्पतिमिश्राणां
कृतिः स्यात् तत्त्वकौमुदी ॥