तत्त्वयाथार्थदीपनम्

[[तत्त्वयाथार्थदीपनम् Source: EB]]

[

** अथ तत्त्वयाथार्थ्यदीपनम् ।
श्रीभावागणेशविरचितम् ।
श्रीकृष्ण्चन्द्राय नमः ॥**

पुरुषः स जयत्याद्यः सा च प्रकृतिरीश्वरी* ।
याभ्यां संसृज्य सृज्यन्तेऽनन्तब्रह्माण्डकोटयः ॥ 1 ॥
* प्रकृतिः सा जायत्यजा– पा0 1 पु0 ।
कपिलासुरिपञ्चशिखान् गुरून् विज्ञानाचार्यवर्थांश्च ।
प्रणमामि बुद्धिवृद्धयै सिद्धयै वा सर्वकार्याणाम् ॥ 2 ॥
समाससूत्राम्यालम्ब्य व्याख्यां पञ्चशिखस्य च ।
भावागणेशः करपते तत्त्वयाथार्थ्यदीपनम् ॥ 3 ॥
तत्र तावद्विविक्तपुरुषज्ञानं मोक्षसाधनमिति । येभ्यो विवेक्तव्यो यश्च विवेचनीयः तदुभ्यं सूत्रत्रयेणो द्दिशति * ।
* लक्षणपरीक्षादिकं तु सांख्यप्रवचनेनैव कर्त्तव्यमित्याचार्याशयः ।
अष्टो प्रकृतयः । प्रकर्षेण कुर्वन्तीति प्रकृतयः । तत्त्वान्तरारम्भकत्वं प्रकृतित्वमिति सामान्यलक्षणम् । ताश्च अव्यक्तबुद्ध्यहंकार* पञ्चतन्मात्ररूपाः । तत्राव्यक्तं नित्यं शब्दादिगुणशून्यं सत्त्वादिगुणत्रयं च । साम्यावस्थोपलक्षिता गुणाः प्रकृतिरित्येकं लक्षणं च । अकार्या गुणा इत्यपरम् । तथा प्रकृतिपर्याया अव्यक्तं प्रधानं ब्रह्म अक्षरं क्षेत्रं तमः माया ब्रह्मी विद्या अविद्या प्रकृतिः शक्तिः अजा इत्यादयः । सत्त्वादिगुणवती सत्त्वाद्यतिरिक्ता प्रकृतिरिति तु न शङ्कनीयम् । किन्तु गुण एव प्रकृतिः । सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सांख्यप्रवचनसूत्रेण सत्त्वादीनां प्रकृतिस्वरूपत्वहेतुना प्रकृतिधर्मत्वप्रतिषेधात् । प्रकृतेग्रुण इत्यादिवाक्यं तु वनस्य वृक्षा इतिवद् बोद्धव्यम् । " सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा" इति प्रकृतिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरमेव । महदादिसृष्टिर्हिगुणवैषम्याच्छूयते तच्च वैषम्यं सजातीयसंवलनेन प्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः कारणगुणानां परिणाम इति । एतेनाष्टाविंशतितत्त्वपक्षोऽप्युपपादितो मन्तव्यः । सत्त्वादित्रयं च द्रव्यत्वेऽपि पुरुषोपकरणत्वाद् गुणा इत्युच्यन्ते । द्रव्यत्वं चैषां संयोगविभागादिमत्तया उपादानकारणत्वेन सिद्धम् । एषां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् । मनसः संकल्पात्मकत्ववत् । तानि च सत्त्वादीनि प्रत्येकं संख्याव्यक्तिकानि लघुत्वादिधर्मैरन्योन्यं साधर्म्यं तेनैव वैधर्म्यं च गुणानामिति सांख्यप्रवचनसूत्रात् । अत्र हि सूत्रं लघुत्वादिना बहूनां सत्त्वानां सामर्थ्यं तेनैव रजस्तमोभ्यां वैधर्म्यम् । एवं च लघुत्वादिना वहूनां रजसां गुरुत्वादिना वहूनां तमसां साधर्म्यवैधर्म्ये उक्ते इति । तेषु त्रित्ववचनं तु सत्त्वत्वादिविभाजकोपाधित्रयेमैव वैशेषिकाणां नवद्रव्यवचनवदिति । तानि च सत्त्वादीनि यथोपयोगमणुविभुपरिमाणकानि । मध्यमपरिमाणत्वे ऽनित्यत्वापत्तिः । सर्वेषां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तिः । आकाशप्रकृतेर्विभुत्वस्यैवौचित्यात् । ननु प्रकृतेश्वापरिच्छिन्नत्वैकत्वाक्रियत्वमिति सांख्यसिद्धान्तः । स च विरपध्यत इति चेत् मैवम् गन्धस्य पृथिवीव्यापकत्ववत्प्रकृतेर्व्यापकत्वम् । तच्च प्रकृतित्वस्य दैशिकाभावप्रतियोगितानवच्छेदकत्वम् । एकत्वं च सर्गभेदेन नानात्वाभावः । अक्रियत्वं चाध्यवसायाभिमानादिप्रतिनियतक्रियाराहित्यम् । अन्यथा श्रुतिस्मृतिसिद्धप्रकृतिक्षोभस्यानुपपत्तेरिति । प्रकृत्यनुमानं चेत्थं * महदादिकार्यं पक्षः सुखदुःखमोहात्मकद्रव्यकार्यमिति साध्यं कार्यत्वे सति सुखदुःखमोहात्मकत्वादिति हेतुः वस्त्रादिकार्यशय्यासनवदिति दृष्टान्तः । श्रुतिस्मृती चात्रानुग्रहकस्तर्कः ॥
*महदहङ्कार–पा0–2 पु0
* चेदं–पाद 1 पु0 ।
ननु सुखस्यान्तरेवानुभवात् शय्यासनादौ सुखे किं प्रमाणं येन दृष्टान्तता स्यादिति चेन्न कारणगुणा हि कार्यगुणानारभन्ते इति न्यायेन विषयेषु त्रिगुणकार्येषु सुखदुःखमोहसिद्धेः घटरूपमिति* प्रत्ययवत् चन्दनसुखं स्त्रीसुखमित्यादिसुखप्रत्ययादपि विषये सुखाद्युचितं सुखदुःखोत्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिध्यति अन्तःकरणसुखादिहेतुतयापि विषये सुखादिकं सिद्ध्यति । कालादिभेदैरेकस्या एव च्यादिव्यक्तेः सुखदुःखोत्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिद्ध्यति ॥
इति मूलप्रकृतिनिरुपणम् ॥
* पटरूपमिति –पा0 2 पु0 ।
अथ बुद्धिर्निरपप्यते । त्रिगुणात्मकमाद्यं कार्यं बुद्धिरित्येकं लक्षणम् । तस्या धर्मज्ञानवैराग्यैश्वर्याख्यप्रकृष्टगुणयोगात् महत्सञ्ज्ञा तदपि तृतीयं लक्षणम् । तस्यांः पर्यायाः । मनो मतिर्महान् ब्रह्मा पूर्वं बुद्धिर्वृत्तिः ख्यातिः प्रज्ञा सन्तातिः स्मृतिरिति । अनुस्मृतौ च । महानात्मा मतिर्विष्णु*र्जिष्णुः शम्भुश्च वीर्यवान् । बुद्धिः
प्रज्ञोपलब्धिश्च तथा ब्रह्मावृत्तिः स्मृतिः ॥
* मनुर्विष्णुः-पा0 2 पु0 ।
पर्यावाचकैरेतैरेमहानात्मा निगद्यते ।
सर्वतः पामिपादश्च सर्वतोऽक्षिशिरोमुखः ॥
सर्वतः श्रुतिमाल्ँलोके सर्वं व्याप्य स तिष्ठति * ।
ज्ञानवन्तश्च ये केचिदलुब्दा जितमन्यवः ॥
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत ।
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥ इति ।
* सर्वमावृत्त्य तिष्टति-पा0 2 पु0 ।
इदमेव महत्तत्त्वमंशतो रजस्तमःसम्भेदेन परिणतं सत् व्यष्टिजीवनामुपाधिरधर्मादियुतं क्षुद्रमपि भवति ।
महदुपरागाद्विपरीतमिति सांख्यप्रवचनसूत्रात् । महदहंकारमनास्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्त्वमङ्कुरावस्थेति । अत्र प्रकृतेर्महानित्यादिसृष्टिक्रमे शास्त्रमेवप्रमाणम् । इदमेव महत्तत्त्वं कार्येश्वरस्य स्वयम्भुव उपाधिस्तेनैवोपाधिना स सर्वज्ञः सर्वेश्वरः सर्वकर्त्ता सर्वपालकः सर्वसंहर्त्ता च मात्स्ये ।
सविकारत् प्रधानात् तु महत्तत्त्वमजायत ।
महानिति यतः ख्यातिर्लोकानां जायते सदा ॥
गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विजज्ञिरे ।
एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ इति ।
स च स्वयम्भूः क्रिवाशक्तिमत् केवलमहत्तत्त्वोपाधिकः सूत्रात्मेत्युच्यते । स एवार्द्धसुषुप्तावर्द्धलयाचत् प्राज्ञ इत्युच्यते । समग्रसुषुप्तौ तु समग्रलयेन निर्विशेषचिन्मात्रस्वरूपेणावस्थानादीश्वर इत्युच्यते श्रुतिस्मृतिपुराणेषु स च महांस्त्रिधा तदुक्तं वैष्णवे ।
सात्त्विको राजसश्वैव तामसश्च त्रिधा महानिति । ब्रह्मशङ्करोपक्षयाप्यादौ विष्णुरेवाविर्भवतीत्यर्धेनोक्तम् । पूर्वोक्तधर्मादिषु धर्मेणोर्ध्वगमनमूर्ध्वगमनेन भोगस्थानान्युपलक्ष्यन्ते। तेन पातालभूस्वर्गादीनामपि संग्रहः । ज्ञानेन मोक्षः वैराग्येण प्रकृतिलयः पुरुषतत्त्वानभिज्ञस्य वैराग्यात् प्रकृतिलयो भवति । तथा चोक्तं पुराणे ।
प्रकृतिचिन्तकानधिकृत्य " पूर्ण शतसहस्त्रं तु तिष्ठन्ति विगतज्वरा" इति । अत्र प्रकृतिग्रहणेन महदहंकारभतेन्द्रियाण्यपि गृह्यन्ते । तत्र वैराग्यपूर्वकं तेषु तेष्वात्मभावेनोपास्यमानेषु लयो हि प्रकृताविति च श्रूयते । पूर्ववाक्यानन्तरमेव ।
दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्त्रं त्वाभिमानिकाः ॥
बौद्धादश सहस्त्राणि तिष्ठन्ति विगतज्वराः ॥ इति च ।
अयं च प्राकृतिको बन्ध इति । एश्वर्येणाप्रतिघातः ऐश्वर्यं चाणिमादिसिद्धयः ।
इति बुद्धिर्व्याख्याता ॥
अहङ्कारो व्याख्यायते । महत्तत्त्वादहङ्कार उत्पद्यते अहङ्काराच्छाखावत् । तस्य चाहमाकारवृत्तिमत्तादहङअकार इति संज्ञा । अहंवृत्तिमदन्तःकरणमहङ्कार इत्येकं लक्षणम् । एकादशेन्द्रियोपादानत्वं द्वितीयं लक्षणम् । तन्मात्रोपादानत्वं तृतीयं लक्षणम् । तस्य च पर्यायाः ।
अहङ्कारेऽभिमानश्च कर्त्ता मन्ता च स स्मृतः ।
आत्मा च प्रकुलो जीवो यतः सर्वाः प्रवृत्तयः ॥ इति ।
कौर्मप्रोक्ता इविशेषा इति च । स चाहङ्कारस्त्रिविधः । तदुक्तं कौर्मे ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहङ्कारो महतः सम्बभूवह ॥
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ।
एकादशं मनश्चात्र स्वगुणेनोभयात्मकम् ॥
भूततन्मात्रसर्गस्तु भूतादेरभवत् प्रजा ॥ इति ।
वैकारिकः सात्तविकस्तैजसो राजसः । स्वगुणेन सर्वेन्द्रियेषु साहाय्यरूपेणोत्कर्षेणोभयात्मकं ज्ञानकर्मेन्द्रियोभयात्मकमित्यर्थः । इन्द्रियदेवताश्च दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकामचन्द्रश्चेति एकादश ।
इत्यहंकारनिरूपणम् ॥
अथ तन्मात्रा उच्यन्ते । शब्दस्पर्शरूपरसगन्धा निर्विशेषस्तद्वन्ति सूक्ष्मभूतानि तन्मात्राः । निर्विशेषशब्दादिगुणवद् द्रव्यं तन्मात्रा इति सामान्यलक्षणम् । अहंकारोपादानत्वे सति तत्त्वान्तरारम्भकत्वं द्वितीयं लक्षणम् । तत्तन्निर्विशेषगुणवत्त्वं तत्तन्मात्रलक्षणम् । तानि च पञ्च शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति। शान्तघोरमूढाः पञ्चस्वपि विशेषाः शब्दत्वस्पर्शत्वादिव्याप्या जातिविशेषा एव । शब्दे तु उदात्तानुदात्तस्वरिताः निषादर्षभागान्धारषड्जमध्यमधैवताः पञ्चमश्चेति स्वराः । स्पर्शे शीतोष्णत्वे । रूपे शुक्लत्वादयो विशेषाः । ते च श्वेतपीतरक्तश्यामहरितकपिशाः। रसे मधुरत्वादयो विशेषास्ते च मधुरतिक्तकषायकट्वम्लक्षाराः षड्साः
गन्धे सुरभित्वासुरभित्वे । एतैर्विशेषै रहिता अविशेषास्तद्वन्ति द्रव्याणि तन्मात्राः । तेषां पर्यायाः तन्मात्राणि तमोविग्रहाः सूक्ष्मविग्रहाः सूक्ष्मभूतानि अविशेषा इति ॥
इति प़्च तन्मात्राः ॥
एवमष्टौ प्रकृतयो व्याख्याताः ॥
षोडसविकार इति द्वितीयं सूत्रम् । एकादशेन्द्रियाणि पञ्चमहाभूतानि च एते षोडश विकाराः । तत्र
श्रोत्रात्वक् चक्षुर्जिह्वाघ्राणानि स्वस्वविषयकबुद्धिजनकत्वात् पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि स्वस्वकर्मकरणात् पञ्च कर्मेन्द्रियाणि । तत्र उच्चारणं वाचः हस्तेयोरादानं पादयोर्गतिः पायोरूत्सर्गः उपस्थस्यानन्दः । सर्वसहायत्वादुभयात्मकं मनः । एतान्योकादेशेन्द्रियाणि । तत्त्वान्तरानारम्भकत्वे सति अहंकारोपादानत्वमित्येकं* लक्षणम् । अहंकारोपादानकत्वेसति शरीरसंयुक्तं क्रियाकारणमतीन्द्रियमिन्द्रियमिति द्वितीयम् । अथ पर्यायाः इन्द्रियाणि करणानि निपातनानि* वैकारिकाणि तैजसानि ।
इतीन्द्रियनिरुपणम् ॥
* अहंकारमात्रोपादानकत्वमिन्द्रियत्वमित्येकं -पा0 2 पु0 ।
* नियतानि-पा0 1 पु0 ।
अथ महाभूतानि । पृथिव्यप्तेजोवाय्वाकाशमिति । सविशेषशब्दादिमत्वं महाभूतत्वमित्येकं लक्षणम् । तत्त्वान्तरानारम्भकत्वे सत्यारम्भकत्वं द्वितीयं लक्षणम् । सविशेषशब्दगुणवत्त्वमाकाशस्य* लक्षणम् । सविशेषशब्दस्पर्शवत्त्वं वायोर्लक्षणम् । सविशेषशब्दास्पर्शरूपवत्त्वं तेजसः । सविशेषशब्दस्पर्शरूपरसवत्त्वमपाम् । सविशेषशब्दास्पर्शरूपरसगन्धवत्त्वं पृथिव्याः । एतानि विशेषलक्षानि । एतानि पञ्च महाभूतानि परस्परोकारिणि । अथामीषां पर्यायाः । भूतानि विकारा विशेषा आकृतयः तमोविग्रहाः शान्ता घोरा मूढा इति ।
इति षोडशविकारा व्याख्याताः ।
* गुणकत्वामाकास्य–पा- 1 पु0 ।
पुरुष इति तृतीयं सूत्रम् । अनादिः सूक्ष्मश्चेतनः सर्वगतः निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ता क्षेत्रवित् अमनः प्रसवधर्मा चेति स्वरूपम् । कूटस्थनित्य इत्येकं लक्षणम् । मुख्यभोक्तृत्वमित्यपरं लक्षणम् । वृत्तिसाक्षित्वमिति तृतीयं लक्षमम् । अथ प्राययाः पुरुष आत्मा पुमान् पुद्गलजन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः ज्ञः यः कः स एक इति । एवमेतानि पञ्चविंशतितत्त्वानि एतज्ज्ञानात् कृतकृत्यो भवति । तथा चोक्तं पञ्चशिखेन प्रमाणवाक्यम् ।
पञ्चविंशतितत्त्वज्ञो यत्न कुत्राश्रमे स्थितः ।
जटी मुण्डी शिखी वीपि मुच्यते नात्र संशयः ॥
स च पुरुषो नाना सुखदुःखमोहजन्ममरणबन्धमोक्षव्यवस्थातः जन्मादिव्यवस्थातः
पुरुषबहुत्वमिति सांख्यप्रवचनसूत्रात् । यद्येकः पुरुषः स्यादेकस्मिन् सुखिते सर्वे सुखिताः स्युः एवं सर्वत्र एवं पुरुषबहुत्वं सिद्धम् ।एवं तावत् साख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो यस्मात् परं नापरमस्ति कीञ्चिदिति न्यायवैशेषिकाश्च बहून् पुरूषानात्मत्वेन वदन्ति । औपनिषदाश्चाचार्या हरिहरहिरण्यगर्भव्यासादयःएभ्योऽतिरिक्तमेकमेव नित्येश्वरं सर्वेषामात्मानां वदन्ति । कस्मोदेवं पुरुष एवेदं सर्वमिति । तदेवाग्निस्तदादित्य इति । तदक्षरं तद्विभुर्वरेण्यं यस्मात् परं नापरमस्ति किञ्चित स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च वसत्येको महानात्मा येन सर्वमिदं ततम् ।
ब्राह्मणे कृमिकीटेषु श्वपाके गवि ङस्तिनि ।
पशुगोदंशमशके रूपं पश्यन्ति सूरयः ॥
एकमेव यथा सूत्रं सुवर्णे वर्त्तते पुनः ।
मुक्तामणिप्रवालेषु मृण्मये रजते तथा ॥
तद्वत् पशुमनुष्येषु तद्वद्धस्तिमृगादिषु ।
एकोऽयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ॥
इत्यादि प्रमाणेभ्यः । सांख्यास्तु आदिपुरुषविषयतया लयावशिष्टनिर्विशेषचिन्मात्रविषयतया वा एतानि श्रुतिवाक्यानि योजयन्ति ।
इति पुरुषनिरूपणम् ।
एवं पञ्चविंशतितत्त्वानि व्याख्यातानि ।
सांख्यकारिका च ।
मूलप्रकृतिरविकृति-
र्महादाद्यः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो
न प्रकृतिर्न विकृतिः पुरुषः ॥ इति ।
इदानीं प्रथमसूत्रेणैव गुणात्मकप्रकृतेरुद्दिष्टत्वेऽपि गुणानामवान्तरविभागं तद्दर्मांश्च विवेचयितुं वक्ष्यमाणसञ्चरप्रतिसञ्चरोपोद्घातसङ्गत्या* च सूत्रं प्रवर्त्तते ।
* चिन्तां प्रकृतसिद्द्यर्थामुपोद्घातं विदुर्बुधा इति ।
त्रैगुण्यमिति चतुर्थं सूत्रम् । सत्त्वरजस्तमासित्रयो गुणाः तेषां समाहारस्त्रिगुणं त्रिगुणमेव त्रैगुण्यम् । तत्र सत्त्वं नाम प्रकाशलाघवप्रसन्नताभिष्वङ्गप्रीतितितिक्षादिलक्षणमनन्तभेदम् समासतः सुखात्मकम् । रजो नाम शोकतापस्वेदस्तम्भोद्वेगोन्मादादिलक्षणमनन्तभेदं समासतो दुःखात्मकम् । तमो नाम अदानापुण्यदैन्यगौरवालस्य-
निद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहत्वकम् । एतेषां लक्षणानि ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्त्तकम् ।
तमो लयात्मकं विद्यात्रैगुण्यं नाम संज्ञितम् ॥
एते त्रयो गुणाः सर्वे उत्पत्तिस्थितिलयहेतवः ॥
इति त्रैगुण्यं व्याख्यातम् ।
इदानीं सगुणनिर्गुणश्रुतिविषयोपपत्त्यर्थं सर्गादावुत्पन्नं स्वयम्भुवं प्रलयावशिष्टनिर्विशेषचित्सामान्यं च दर्शयितुं सृष्टिप्रलययोः सूत्रद्वयं प्रवर्तते । सञ्चरः प्रतिसञ्चरः प्रलयः । तत्र सृष्टिर्यथा ।

अव्यक्ताख्या प्रकृतिः प्रवृत्तिस्वभावा स्वतन्त्रा च । सर्गादौ स्वयमेव क्षुब्धा सती भविनारायणबीजभूता पूर्वकल्पे स्वयम्भूपालकेन नामकेन व्यक्तेन नारायणपुरुषेण संयुज्यते ततश्च सजातीयैरन्यैः प्रकृत्यंशैर्न्यूनाधिकभावेन मिलिता सती चेतनाचेतनात्मकं महत्तत्त्वमारभते । ननु पुरुषस्य प्रकृतिसंयोगित्वे असंयोगो ह्ययं पुरुष श्रुतिविरोध इति चेन्न विकारहेतुसंयोगस्यैव सङ्गशब्दार्थत्वात् अन्यथा श्रुतिस्मृतिषु जलसंयोगिनोऽपि पद्मपत्त्रस्याऽसङ्गतादृष्टान्तता न स्यात् । तत्र महत्तत्वस्य स्वरूपेण मुख्योत्पत्तिः चेतनस्य तु अभिव्यक्तिरूपा कार्यता । योगभाष्ये व्यासधृतवाक्यान्नवधा कार्यता ।
उत्पत्तिस्थित्पभिव्यक्तिविकारप्रत्ययाप्तयः ।
वियोगान्यात्वधृतयः कारणं नवधा स्मृतम् ॥ इति ।
एवमादिशक्तिरपि चेतनविशेषो महत्तत्त्वकारणीभूतगुणत्रयसम्बन्धात् स्वयम्भवाप्यादावुत्पद्यते ।
उत्पत्तौ च प्रमाणं प्रयोगसारे ।
तस्माद्विनिर्गता नित्या सर्वगा विष्णुसम्भवा ॥ इति ।
वायवीयसंहितायां च ।
शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता ।
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ इति ।
पञ्चरात्रे ऽपि ।
एवमालोक्य तां शक्तिं सच्चिदानन्दरूपिणीम् ।
समस्ततत्त्वसन्धामस्फूर्त्यधिष्ठानरूपिणीम् ।
व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् ॥ इति ।
प्रादुरासीज्जगन्माता वेदमाता सरस्वती ।
गुणत्रयमयी शक्तिर्मूलप्रकृतिसञ्ज्ञिता ॥
तस्माहं समुत्पन्नस्तत्त्वैस्तैर्महदादिभिरित्यादिशिववाक्याच्च । सैव प्रकृत्यधिष्ठात्री देवता महालक्ष्मी अम्बा भवानी हैमवती दुर्गा इत्यादिपदैरभिलप्यते पुराणादिषु । सैव च लीलाविग्रहैरादिपुरुषेण मिलिता सती सृष्टिं पालयति । तदुक्तं शङ्काराचार्यैः ।
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु सुशलः स्पन्दितुमपि । इति ।
एवं सर्वतत्त्वानां तत्तद्देवतानां च सहैवोत्पत्तिर्ज्ञेया । उत्पत्तिक्रमस्तु निरूपणक्रमेणैव । एतस्मान्महतो गुणान्तरसंवलितात् त्रिविधोऽहङ्कार उत्पद्यते चेतनाचेतनात्मकः वैकारिको राजसस्तामसश्चेति । ततश्चाहङ्कारात् सङ्कल्पपूर्वकं देहेन्द्रियाणि पञ्च तन्मात्राणि चोत्पद्यन्ते । स्वयम्भुव इन्द्रियाणि देवतारूपाणि वैकारिकात् व्यष्टिन्द्रियाणि च तैजसात् तेष्विन्द्रियेष्वादौ मन उत्पद्यते ।
शब्दारागच्छोत्रमस्य जायते भावितात्मनः ।
रूपरागात् तथा चक्षुर्घाराणं गन्धजिघृक्षया ॥
इत्यादिना मोक्षधर्मादौ श्रोत्रादीनां मनोवृत्तिरागादिकार्यत्वश्रवणात् । इन्द्रियतन्मात्रयोश्च कार्यकारणभावस्याभावात् क्रमनियमो नास्ति । सत्रेन्द्रियेषु नास्त्यवान्तरकार्यकारणभावः प्रामाणाभावात् । तन्मात्रेषु त्वस्ति स यथा अहंकाराच्छब्दतन्मात्रं तस्मादहंकारोत्पन्नाच्छब्दतन्मात्रादहंकारसहितात् स्पर्शतन्मात्रं शब्दस्पर्शोभयगुणकम् । एवं क्रमेणैकैकगुणवृद्ध्यातन्मात्रत्रयमुत्पद्यते । ततश्च तन्मात्रेभ्यः पञ्च महाभूतानि जायन्ते । तत्राहङ्कारात् पञ्चतन्मात्राणां तद्द्वारा पञ्चमहाभूतानां चोत्पत्तौ पुराणे क्रम उक्तः स यथा
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज हि ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज हि।
वायुरूत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः ॥
इत्यादिक्रमेणेति । नन्वेवमाकाशादिभूतचतुष्टयस्यापि तत्त्वान्तरप्रकृत्यपत्त्या केवलविकृतित्वाष्टप्रकृतित्वसिद्धान्तक्षतिरिति चेन्न आकाशदीनां स्पर्शादितन्मात्रेष्वहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणेषूक्तत्वादिति । एवं त्रयोविंशतितत्त्वानां सृष्टिः । तेषु पञ्चमहाभूतानि वर्ज्जयित्वाहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति । वह्नेरिन्धनवदात्मनोऽभिव्यक्तिस्थानत्वात् । तच्च सर्वपुरुषाणां स्वस्वबीजभूतप्रकृतिसंयोगात् सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति । तेनैव चेहलोकपरलोकयोर्जीवना संसरणं भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो लिङ्गशरीरे पृथक् न निर्दिश्यते बुद्धावेवान्तर्भावात् । तस्य च लिङ्गशरीरस्य परमसूक्ष्माणि पञ्च महाभूतानि तेजः-
प्रधानान्यश्रयः चित्रादिवत् आश्रयं विना लोकान्तरगमनासम्भवात् । तदुक्तं सप्तत्याम् ।
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ इति ।
इदं च लिङ्गशरीरमादौ स्वयम्भुवः समष्टिचेतनस्य उपाधिभूतमेकमेव समष्टिरूपं जायते ततश्च व्यष्टिजीवानामप्युपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदं शभूतानि ततो विभज्यन्ते पितुर्लिङ्गशरीरात् पुत्रलिङ्गशरीरवत् । तदुक्तं संखायप्रवचनसूत्रेण । व्यक्तिभेदः कर्मविशेषादिति । मनुनाप्युक्तम् ।
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ इति ।
षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् । तथा चायमर्थः । स्वयम्भूः स्वलिङ्गशरीरावयवान् सूक्ष्मानल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेति ।
इति लिङ्गशरीरनिरूपणम् ।
अथ स्थूलशरीरोत्पत्तिः । दशगुणितमहत्तत्त्वमध्येऽहंकारस्तस्मिन्नपि दशगुणे व्योम तथैव व्योम्न्यपि वायुः वायावपि तेजः तेजासि दशगुणे जलं तथैव जलस्यापि दशगुणस्य मध्ये पृथिवी समुत्पद्यते सैव स्थूलशरीरस्य बीजमण्डरूपेण परिणमते । तस्यापि दशगुणितस्याण्डस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवः स्थूलशरीरं तत्सङ्कल्पादेवोत्पद्यते । तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । स्वयम्भुवं प्रकृत्य मुननाऽप्युक्तम् ।
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु बीजमवासृजत् ।
तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम् ।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
इत्यादिनेति । तत एवादिपुरुषाद्वयष्टिपुरुषाणां विभागात् अन्ते च तत्रैव लयात् स एवैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते । ततश्च स नारायणो विराट्शरीरी पृथिवीरूपस्वनाभिकमलकार्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखमवान्तरब्रह्माणां सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज । तथा च स्मर्यते ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणेः सह ।
क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इति ।
यत्तु शेषशयिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते । तद्दैनन्दिनसर्गेष्वेव हि कल्पभेदेन मन्तव्यम् दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद घटते न त्वादिसर्गेषु । दैनन्दिनप्रलय एव नारायणस्य लीलाविग्रहेण शयनादिति । अस्यां सृष्टौ महत्तत्त्वस्य बुद्धिपूर्वकः त्रिगुणात्मकः प्रथमः सर्गः। तदनन्तरं तदुपाधिकस्वयम्भुवः सकाशाद्
बुद्धिपूर्वकः सग्रः । स्वयम्भुवोङ्गदेवताः स्वयम्भूश्च स्थूलदेहनैरपेक्ष्येण ज्ञानवत्त्वात् विदेहा देवा इत्युच्यन्ते । तासुस्वयम्भूरेवेश्वरः नित्येश्वरानङ्गीकारात् । देवताश्चेश्वरकोटयः अविद्यानावृतोपाधिकत्वात् । अविद्यावृतोपाधिकाश्च जीवकोट्य एव । अविद्यावृतानावृतोपाधिकत्वे एव जीवेश्वरविभाजके । तदुक्तं स ईशो माया स जीवो यस्तयार्दित इति । तदेवं सञ्चरो निरूपितः ।
तत्र यद्यस्माज्जायते तस्येतरापूरणेनैव स्थितिः ।तद्व्यतिरेकेणैव तत्संहारोऽपि तत्रैव भवति । तथा चोक्तं महाभारते ।
यद्यस्माज्जायते तत्त्वं तत्तत्र प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ इति ।
एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाः कूटस्थपुरुषविवेकाय प्रदर्शिताः । सूक्ष्मा अप्येषां परिणामाः स्मर्यन्ते । यथा
नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च ।
कालोनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥ इति ।
अत एव सर्वं जडवस्तु परमार्थतः सर्वदैव असदुच्यते । ततश्च तस्माज्जडवर्गाद्विरज्यात्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः । परमार्थसत्यत्वं च कूटस्थनित्यत्वम् । तत्र कूटस्थनित्यत्वासंहतत्वापरार्थत्वचिन्मात्रत्वाद्यसाधारणधर्मैरुकृष्टैः प्रकृत्यादिभ्यो विवेक्तव्यः । इदानीं सदेवेत्यादिश्रुत्यर्थ उपपाद्यते । प्रतिसञ्चरान्ते यन्निर्विशेषं चित्सामान्यमवशिष्यते । तदेव सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिषु सद्ब्रह्मादिपदवाच्यम् । अद्वितीयत्वं तु अवैधर्म्याविभागाख्याभेदेनेति । इदानीमन्तकालीनभगवत्स्मरणस्य परमगतिहेतुत्वश्रवणात् तत्स्मरणस्य च साध्यात्मसाधिभूतयाधिदैवभगवदनुचिन्तनजन्यत्वादध्यात्मादिविभागः प्रदर्श्यते सूत्रत्रयेण । तत्र च प्रमाणम् ।
अन्तकाले च भामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र शंसयः ॥ इति ।
साधिभूताधिदैवं सां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ इति ।
अध्यात्मम् ॥ 7 ॥ अधिभूतम् ॥ 8 ॥ अधिदैवम् ॥ 9 ॥
सूत्रत्रयस्यापि क्रमेइणैव व्याख्या । बुद्धिरध्यात्मम् ।
बोद्धव्यमधिभूतम् । ब्रह्मा तत्राधिदैवतम् । अहङ्कारोध्यात्मम् । अधिमन्तव्यमधिभूतम् । रुद्रस्तत्राधिदैवतम् । मनोध्यात्मम् । सङ्कल्पयितव्यमधिभूतम् । चन्द्रस्तत्राधिदैवतम् । श्रोत्रमध्यात्मम् । श्रोतव्यमधिभूतम् । दिशस्तत्राधिदैवतम् । त्वगध्यात्मम् । स्पर्शयितव्यमधिभूतम् । वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मम् । द्रष्टव्यमधिभूतम् । सूर्यस्तत्राधिदैवतम् । रसनमध्यात्मम् । रसोऽधिभूतम् । वरुणस्त्वधिदैवतम् । घ्राणमध्यात्मम् । गन्धोधिभूतम् । पृथवी तत्राधिदैवतम् । वागध्यात्मम् । वचनमधिभूतम् । वह्निस्तत्राधिदैवतम् । पाणिरध्यात्मम् । आदेयमधिभूतम् । इन्द्रस्तत्राधिदैवतम् । पादावध्यात्मम् । गन्तव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । पायुरध्यात्मम् । उत्सृष्टव्यमधिभूतम् । मित्रस्तत्राधिदैवतम् । उपस्थमध्यात्मम् आनन्दयितव्यमाधिभूतम् । प्रजापतिस्तत्राधिदैवतमिति त्रयोदशविधं त्रितयमपि । तत्रात्मानां सङ्घातमधिकृत्य वर्तते तदध्यात्मं त्रयोदशकरणवर्गः । भूतानि अधिकृत्य वर्तते तदधिभूतं विषयवर्गः । देवतामधिकृत्य वर्तत इत्याधिदैवतम् करणाभिमानिदेवतावर्गः एतत्सहितेश्वरानुचिन्तितस्यान्तकालीनभगवत्स्मृत्या परमगतिः फलम् । तस्मादेतत् त्रिकमवश्यं ज्ञातव्यमिति भावः । सर्वतत्त्वानां ज्ञानफलं चोक्तं पञ्चशिखधृतवाक्येन ।
तत्त्वानि यो वेदयते यथावद्
गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्घो
गुणांस्तु भुङ्के न गुणैः स भुज्यते ॥
तत्त्वानीति तान्त्रिकी संज्ञा । तदर्थश्चात्मानात्मविवेकप्रतियोग्यनुयोगिनस्तत्पदार्थाः तेषां भावस्तत्तत्पदप्रवृत्तिनिमित्तानि पुरुषत्वप्रकृतित्वादीनि पञ्चविंशतिजातयः धर्मधर्म्यभेदात् व्यक्तयोपि तत्त्वानीत्युच्यन्ते । वेदयते वेत्तीत्यर्थः । गुणाः सत्त्वरजस्तमांसि तान्येव स्वरूपाणि तात्त्विकरूपाणि येषां तानि गुणस्वरूपाणि अधिदैवतञ्च अध्यात्माधिभूतयोरूपलक्षणम् । गुणांस्तु भुङ्क्ते गुणास्तस्य वशे भवन्तीति । न गुणैः स भुज्यते गुणवशो न भवतीत्यर्थः ॥
इति तत्त्वपादः प्रथमः ॥

इदानीं द्वितीयः प्रकीर्णरपाद आरभ्यते । तत्र पञ्चस्त्रोतोम्बुं पञ्चयोन्युग्रचक्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् पञ्चावर्त्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीम इत्यादिश्रुत्यर्थोपपत्तये पञ्चकानि निरूपयति सूत्रजातेन ॥
पञ्चाभिबुद्धयः ॥ 10 ॥ अभिबुद्धिरभिमान इच्छा कर्त्तव्यता क्रियेति पञ्चाभिबुद्धिसङ्गिताः । तत्राभिबुद्धिर्नाम अभिमुखी बुद्धिः इदमवश्यं करणीयमितिरूपा बुद्धिवृत्तिः । अभिमानश्वाहं करोमीतिवृत्तिः । इच्छा वाञ्छा सङ्कल्पो मानसी वृत्तिः । कर्त्तव्यता ज्ञानेन्द्रियाणा शब्दादिविषया वृत्तिः । क्रिया वचनादिलक्षणा कर्मेन्द्रियाणां वृत्तिरिति ॥
अभिबुद्धयो व्याख्याताः ॥
पञ्च कर्मयोनयः ॥ 11 ॥ कर्मजन्याः कर्मजनकाश्च धृतिः श्रद्धा सुखाऽविविदिषा विविदिषा चेति पञ्च ॥
वाचि कर्माणि सङ्कल्पे प्रतिष्ठां योभिरक्षति ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् ॥
अर्थार्थी यस्तु सेवेत विद्याकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ॥
अविविदिषा वेदवेदनेच्छाप्रतिबन्धकक्रिया ॥
विविदिषा यथा ।
एकत्वं च पृथकत्वं नित्यं चेदमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा * ॥
* विविदिषा क्रिया –पा0 2 पु0 ।
आत्मनि एकत्वपृथकत्वादिविषयिणी जिज्ञासा विविदिषा । एतासु चतस्त्रो बन्धाय विविदिषैका मोक्षाय ज्ञानमोक्षप्रतिबन्धनाशककर्मजन्यत्वात्तज्जनकत्वाच्च ॥
पञ्च वायवः ॥ 12 ॥
हृदि प्राणो गुदेऽपानो व्यानः सर्वशरीरगः ।
उदानः कण्ठदेशे च समानो नाभिसंस्थितः ॥
एते पञ्च क्रियाशक्तिमदन्तःकरणवृत्तिभेदा अपि वायुसमानगतिकत्वाद्वायुदेवताकत्वाच्च वायव इत्युक्तम् ।प्रकर्षेण अननाद्गमनात् प्राण इत्युच्यते । अधो गमनादपानः । भुक्तस्यान्नस्य रसादेर्विक्षेपणात् । विजृम्भक्षणाच्च व्यान इत्युच्यते । उद्गारवमनादिकं करोतीति उदानस्तेन गीयते । भुक्तस्य समाशं रसं नयतीति समानः । तन्त्रान्तरोक्ता अप्यन्ये नागकूर्मकृकलदेवदत्तधनञ्जयाख्यास्तत्रैवान्तर्भाव्याः ।
इत्येते पञ्चप्राणा व्याख्याताः ॥
पञ्च कर्मात्मानः ॥ 13 ॥ वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति कर्मात्मानः कर्मिण इत्यर्थः। तत्र वैकारिकः शुभकर्मकर्त्ता । तैजसोऽशुभकर्मकर्त्ता । भूतादिर्मूढकर्मकर्त्ता । सानुमानः शुभमूढकर्मकर्त्ता । निरनुमानोऽशुभमबढकर्मकर्त्ता ॥
इति पञ्च कर्मात्मानो व्याख्याताः ॥
इदानीं पञ्चाशद्भेदां पञ्चपर्वामधीम इति श्रुत्यर्थोपपत्तये बुद्धेः पञ्चाशत्सर्गान् बहुभिः सूत्रैरुद्दिशति।
पञ्चपर्वाऽविद्या ॥ 14 ॥ अनित्याशुचिदुःखानात्मसुनित्यशुचिसुखात्मख्यातिरविद्या पतञ्जल्युक्ता सर्वदर्शमसम्प्रतिपन्ना। सा च पञ्चधा अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशजनकत्वात् क्लेशा इति योगे परिभाषिताः । अस्मितादीनां चतुर्णामविद्याकार्यत्वादविद्यत्वम् । अस्मिता अनात्मन्यहंवृत्तिः अविद्यास्मितयोरयं भेदः अविद्यायामधिकरणमपि पृथग् भासते ऽस्मितायां त्वारोपरूपत्वेऽपि नाधिकरणं भासते । विषयेषूत्कटेच्छा रागः द्वेषः वैरबुद्धिः । अभिनिवेशो मरणत्रासः । विदुषामपि स्वरसवाही अनादिमरणदुःखानुभवजनितवासनाजन्यः श्रुतिस्मृतिपुराणेषु एते अविद्याभेदास्तमआदिशब्दैः परिभाषिताः । तमो मोहो महामोहस्तामिस्त्रोऽन्धतामिश्रश्चेति तत्तन्नाम- नरकप्रदत्वात्तत्तन्नामकाः । ते च विषयभेदात् द्विषष्टिभेदाः ते यथा । अष्टप्रकृतिषु आत्मत्वारोपात् अष्टभेदं तमः । देवा अणिमाद्यष्टविधमैश्वर्यमासाद्य वयममृता इत्यभिमानिनो भवन्ति सोऽयम्भिमानो मोहोऽष्टविधः । दृष्टानुश्रविकेषु द्वादशासु विषयेषु प्राप्तेषु मुक्तोऽहमिति मन्यते सोऽभिमानो रागातिशयनिमित्तत्वात् महामोहो दशविधाः । अणिमाद्यष्टगुणैश्वर्ये स तामिस्त्रोष्टादशविधः । देवा अणिमाद्यष्टकमैश्वर्यं शब्दादींश्च दश विषयान् भुञ्जनाः क्षयशङ्कयात्र सन्ति सत्रास एवाष्टादशविधोन्धतामिश्र इति द्विषष्टिभेदा पञ्चपर्वा अविद्या ॥
अष्चविंशतिधाऽशक्तिः ॥ 15 ॥ नवधा तुष्टिः ॥ 16 ॥
अष्चधा सिद्धिः ॥ 17 ॥ तत्राशक्तयः एकादशेन्द्रियत्रधाः सप्तदश बुद्धिवधाः । तत्रेन्द्रियवधाः । स्वस्वार्थक्रियाऽक्षमतारूपाः फलतो बुद्धेरेव ते ।
वाधिर्यं कुष्ठितान्धत्वं जडताऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वं क्लैव्योदावर्त्तमुग्धताः ॥
सप्तदश बुद्धेरेव वधाःतुष्टिसिद्धीनां विपर्यरूपाः । तत्र तुष्टिविपर्ययाः । नास्ति प्रधानामिति ज्ञानमस्तीत्यभिधीयते । महत्तत्त्वं नास्तीति ज्ञानमज्ञामसलिलाः । अहङ्कारो नास्तीति मोहा । नैव सन्ति पञ्चतन्मात्राणीति दृष्टिरदृष्टिः । विषयाणामर्ज्जने प्रवृत्तिः असुतारा । रक्षणे प्रवृत्तिरसुपारा । क्षयदोषमपश्यतः प्रवृत्तिः असुनेत्रा । ऊोगे शक्तिः असुमात्रिका । हिंसादोषमपश्यतो भोगे प्रवृत्तिः अनुत्तमाम्भसिका । इति तुष्टिविपर्याया नवधा।
सिद्धिविपर्यासाद् अष्टौ बुद्धिवधा उच्यन्ते । नानात्वमूहमानस्यैकत्वानुसन्धानं सुतारमुच्यते । शब्दमात्रश्रवणाद्विपरीतग्रहणमसुतारा । यथा नानात्मज्ञोमुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्मज्ञोऽहममुक्त इति । अध्ययनश्रवणनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदज्ञानम् । यदा आध्यत्मिकेन दुःखेनचाभिभूयते तदज्ञानप्रमादम् । एवमाधिभौतिकदुःखेनाभिभूयते तत्प्रमोदमानम् । एवमेवाधिदैविकदुःखेनाभिभवः प्रमुदितमिति । सुहृदुपदिष्टेप्यात्मनि अनिश्चयबुद्धिरनर्थकम् । स्वदानमनर्थकं ज्ञात्वा दानपात्रस्य गुरूणि दुःखे जाते प्रमोदः प्रमुदिता । एवमष्टौ सिद्धिविपर्यया व्याख्याता । एवं सप्तदश बुद्धिवधाः ॥
नवधा तुष्टिरुच्यते । तत्र कारिका ।
आध्यात्मिक्यश्चतस्त्रः प्रकृत्यपादानकालभाग्याख्याः ।
वाह्या विषयोपरमात् पञ्च नव तुष्टयोभिहिताः ॥
कुतश्चित सर्वाकारेण परिणममना प्रकृतिरेव ज्ञानं करिष्यतीति श्रुत्वा या तुष्टिः सा प्रकृत्याख्या तस्या अस्तेति संज्ञा । प्रव्रज्ययैव ज्ञानं भविष्यतीति श्रुत्वा प्रव्रज्योपादानेन या तुष्टिः सा सलिलसंज्ञा । कालेनैव ज्ञानं भविष्यतीतिश्रुत्वा प्रव्रज्यया बहुकालेन या तुष्टिः सा आद्यात्युच्यते । भाग्येनैव ज्ञानं भविष्यति मदालसा बालकानामिवेति कुतश्चिच्छुत्वा या तुष्टिः सा वृष्टिरितिसंज्ञा । एताश्चतस्त्र आध्यात्मिक्यः । अथ वाह्याः पञ्च शब्दादिविषयेष्वर्जनरक्षणक्षयभोगहिंसादिदोषदर्शनाद्या निवृत्तितुष्टयस्तास्वेका तुष्टिः अपारमुच्यते द्वितीया सुपारं तृतीया पारम् अनुत्तमाम्भसिका चतुर्थी उत्तमाम्भः पञ्चमी इति नव तुष्टयो व्याख्याताः ॥
अथाष्टौ सिद्धयः । तत्र कारिका ।
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोष़्टौ सिद्धेः पूर्वोङ्कुशस्त्रिविधः ॥
अस्यार्थः । भगवत्कृपावशादूहनेन तर्केणैव ज्ञानमुत्पद्यते सा प्रथमा सिद्धिस्तारेत्युच्यते । शब्दश्रवणमात्रादेव यद ज्ञआनं सा द्वितीया सुतारा । शिष्यभावेनाध्ययनेन यद् ज्ञानं सा तृतीया तारतरेति । यदाध्यात्मिकदुःखस्यापनोदकं ज्ञानं सा चतुर्थी प्रमोदेति । यदाधिभौतिकदुःखापनोदकं ज्ञानं सा पञ्चमी प्रमदितेति । यदाधिदैविकदुःखनाशकं ज्ञानं सा षष्ठी प्रमोदमाना । यत् सुहृत्संसर्गितया ज्ञानं सा सप्तमी रम्यकेति । यद्दानेन परितोषिताद गुरोर्ज्ञानं साष्टमी सदामुदितेति । आसु प्रथमास्तिस्त्रो दुःखविघातात्मकानां मुख्यानां तिस्दृणां सिद्धीनामङ्कुश आकर्षकः साधक इति यावत् सिद्धयस्त्वेता एव । अणिमाद्यास्तु ज्ञानप्रतिबन्धकत्वादसिद्धय एवेत्याचार्याशयः । एवमष्टौ सिद्धयो व्याख्याताः ॥
इदानीं सांख्यशास्त्रस्य षष्टितन्त्रत्वप्रतिपादनाय पञ्चाशत्सु सिद्धिसर्गेषु दशान्यान् पूरयति सूत्रेण । दश मूलिकार्थाः ॥ 18 ॥
अस्तित्वमेकत्वमथार्थवत्त्वं
परार्थमन्यत्वमकर्तृता च ।
योगो वियोगो वहवः पुमांसः
स्थितिः शरीरस्य च शेषवृत्तिः ॥
मूलयोः प्रकृतिपुरुषयोरर्था धर्मा मूलिकार्थाः । तत्रास्तित्वं द्वयोर्धर्मः । एकत्वं सर्गभेदेन नानात्वाभावरूपं प्रकृतेः । अर्थवत्त्वं पुरुषार्थत्वं पुरुषस्यैव । परार्थ्यं च प्रकृतेरेव । अन्यत्वं जडवर्गाद् भिन्नत्वं पुरुषस्यैव । अकर्तृता च पुरुषस्यैव । योगो वियोगश्च द्वयोः । बहुत्वं पुरुषस्यैव । जीवन्मुक्तस्य संस्कारमात्रेण चक्रभ्रामिवच्छरीरस्य या स्थितिः सा शेषवृत्तिः पुरुषस्य । इति दशपदार्थाः प्रत्ययसर्गाख्याः पञ्चशत् पूर्वोक्ताः एते च दश मूलिकाः । एवं षष्टिपदार्था षष्टितन्त्रे उक्ताः ॥इदानीं पञ्चतन्मात्रसर्गं सूत्रयति । अनुग्रहसर्गः ॥ 19 ॥ पञ्चतन्मात्रा अनुगृह्योपादानकारणत्वेन स्वीकृत्य यः सर्गः सोऽनुग्रहसर्गः । पञ्चानां ब्राह्मणानां सचतुर्मुशसनकादीनां स्वस्य लीलाविग्रहे सर्गो भक्तनामनुग्रहार्थं सोऽप्यनुग्रहसर्गः पञ्चतन्मात्रेभ्य एव॥
इदानीं भूतसर्गमाह । चतुर्दशविधो भूतसर्गः ॥ 20 ॥ ब्राह्मप्राजापत्यसौम्यैन्द्रगान्धर्वयक्षराक्षसपैशाचा इत्यष्टौ देवसर्गाः । पशुपक्षिमृगसरीसृपस्थावरा इति पञ्चविधास्तैर्यग्योनयः । मानुषश्चैकविधो ब्राह्मणादिश्चण्डालान्त इति । गावादिमूषकान्ताः पशवः । गरुडादिमशकान्ताः पक्षिणः । सिंहादिशृगालान्ता मृगाः । शेषादिदुन्दुभान्ताः सरीसृपाः । पर्वतादितृणान्ताः स्थावरा इति । अत्र कारिका।
अष्टविधो दैवस्तैर्यग्योनश्च पञ्चधा भव ति ।
मानुषश्चैकविधः समासतो भौतिकः सर्गः ॥ इति
एतत्संसारमण्डलम् अन्यानप्यनुक्तान् सर्गानुद्दिशति सूत्रत्रयेण । त्तिविधो बन्धः ॥ 21 ॥ त्रिविधो मोक्षः ॥ 12 ।. त्रिविधं प्रमाणम् ॥ 13 ॥ प्राकृतिको वैकृतिको दाक्षिण इति त्रयो बन्धाः । प्राकृतोष्टप्रकृतिष्वभिमानरूपः । द्वितीयस्तु प्रव्रजितानामपि शब्दादिषु मनसः सङ्गः । तृतीयस्तु गृहस्थादीनां कामोपहतचेतसां दक्षिणां ददतां दक्षिणाबन्धः उक्तं च पञ्चशिखाचार्यैः ॥
प्राकृतेन तु बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते ॥ इति मोक्षत्रैविध्यं चोक्तम् ।
आदौ तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृच्छ्रक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥
ज्ञानाद्रेकादविद्यानिवृत्तिरूप एकंः रागसंक्षयादिन्द्रियोपशमरूपो द्वितीयः कृच्छ्रक्षयाद्धर्माधर्माकरणरूपाद्धर्माधर्मांनुत्पादरूपस्तृतीयः । एतत् त्रयं ज्ञानद्वारभूतत्वाद् गौणं मोक्षत्रयम् । आत्यन्तिकत्रिविधदुःखनिवृत्तिरेव मुख्यो मोक्षः तदुक्तं गोतमेन सूत्रेण दुःखजन्मप्रवृत्तिदोषम्थ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावदपवर्ग इति ।
उक्तानां पदार्थानां सिद्धर्थं प्रमामान्याह मानाधीनत्वान्मेयसिद्धेः त्रिविधं प्रामाणमिति । प्रत्यक्षानुमानशब्दा इति । तत्रानधिगतयथार्थज्ञानं प्रमा तत्करणं प्रमाणमिति सामान्यलक्षणमेकम् । अर्थाकारनानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् । तत्र प्रत्यक्षमिन्द्रियजन्यमनधिगतयथार्थज्ञानं प्रत्यक्षप्रमा । तत्करणं प्रत्यक्षप्रमाणम् । इन्द्रियजन्यानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् । यथार्थलिङ्ग ज्ञानाज्जायमानं ज्ञानमनुमितिस्तत्करणमनुमानामित्येकम् । लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकरान्तःकरणवृत्तिरिति द्वितीयम् । आत्मवचनजन्यज्ञानं शब्दप्रमातत्करणं शब्दप्रमाणमित्येकं लक्षणम् । आप्तवचनजन्या पदार्थसंसर्गाकारान्तःकरणवृत्तिरिति द्वितीयं शब्दप्रमाणलक्षणम् ।
आप्तस्तु स्वकर्मण्यभियुक्तो रागद्वेषरहितो ज्ञानवान् शीलसम्पन्नः । इदं तु ज्ञानोपदेष्टुरेवाप्तलक्षणम् वस्तुतो यथाभूतार्थस्योपदेष्टा पुरुष इत्येव ॥
उक्तपदार्थेषु केचित्प्रत्यक्षसिद्धाः केचदनुमानसिद्धाः । उभाभ्यां यन्न सिद्धं तच्छब्दप्रमाणेन सिद्ध्यति यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गेप्सरसः एते पदार्था न प्रत्यक्षानुमानगम्याः किन्तु शब्दैकगम्याः ।
अत्र चैषा ज्ञानप्रक्रिया । अन्तःकरणस्येन्द्रियाणा चाविभक्तः सङ्कोचविकासशाल्यग्रभागो वृत्तिरभ्युपेयते भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति सांख्यप्रवचनसूत्रात् । भागो विभक्तोवयवस्तस्माद्गुणाच्च तत्त्वान्तरं पदार्थान्तरमविऊक्तोऽवयव इत्यर्थः । तथा चान्तःकरणवृत्तिरिन्द्रियवृत्तिद्वारार्थसन्निकृष्टान भवति तत इन्द्रियवृत्तया
सह्र्थाकारा परिमणते सा चार्थाकारा वृत्तिर्गुणरूपा सर्वात्मानां विभुत्वेपि स्वस्वामिन्येवात्मनि प्रतिबिम्बते नान्यत्र अवादिस्वस्वामिभावस्य प्रतिबिम्बनियामकत्वात् अन्यथातिप्रसङ्गात् प्रतिबिम्बश्चाधिष्ठानगताया बुद्धेर्विकारः परिणामः स्वत्त्वं च स्वामिप्रकाशितवृत्तिजन्यसंस्कारवत्त्वम् । स्वामित्वं च स्वनिष्ठसंस्कारजनकवृत्तिप्रकाशकत्वं सा च वृत्तिरात्मनि स्थिता सती अर्थाकारा आत्माकारा च स्वसमानाकारं परिणामान्तरं धत्ते स एवात्मनि वृत्तिप्रतिबिम्बो विषयताख्यं सम्बन्ध इति तदवच्छिन्नं चैतन्यं प्रत्यक्षप्रमा घटमहं जानामीत्याकारार्थात्मविषयिणी तदुक्तम् ॥
अदृश्यो दृश्यते राहुर्गृहीतेन ययेन्दुना ।
तथानुभवमात्रात्मा दृश्येनात्मवलोक्यते ॥
दृश्येन वृत्त्या । इयं च प्रत्यक्षा वृत्तिर्विषयदेशे जायमाना तत्रैवात्मनि प्रतिबिम्बते आत्मनो विभुत्वात् यत्र चेन्द्रियद्वारं विना मनः स्ववासनावशाद्यत्रार्थेन सम्बद्ध्यते तत्र तदाकारा वृत्तिर्मानसं प्रत्यक्षम् । उक्तं च ।
शरीरलयमुत्सृज्य यत्र चित्तविहङ्गम्ः ।
स्ववासनावशाद्याति तत्रैवात्मानुभूयते ॥
इति वासिष्ठे ।
इति प्रत्यक्षप्रक्रिया ॥
एवं व्याप्तिप्रमाजन्यसाध्यविशिष्टपक्षाकारा वृत्तिरनुमानम् तत्प्रतिबिम्बवच्छिन्नचैतन्यमनुमितिः । इत्यनुमानप्रक्रिया ॥
यथार्थपदस्मृतिजन्या पदार्थसंसर्गाकारा वृत्तिः शब्दप्रमाणमा तत्प्रतिबिम्बावच्छिन्नचैतन्यं शाब्दी प्रमाइदं प्रमाणद्वयमान्तरमेव । अपरोक्षत्वं परोक्षत्वं स्मृतित्वं संशयत्वं विपर्ययत्वं प्रमात्वमप्रमात्वं च सर्वे वृत्तिधर्मा एव तत्प्रतिबिम्बवशाच्चैतन्येप्युपचर्यन्ते तत्रापरोक्षत्वपरोक्षत्वस्मृतित्वानि जातयः संशयश्च भासमानविरोधोभयकोटिस्पृग्वृत्तिः । यत्र यन्नास्ति तत्र तन्निश्चयो विपर्ययः यथार्थवृत्तिः प्रमा अयथार्थवृत्तिरप्रमा अत्र प्रमात्रादिविभागविषये विज्ञानाचार्याणां कारिका ।
प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च ।
प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥
प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते ।
वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥
साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूत्रितम् ॥ इति ।
ज्ञानस्य च जन्यत्वं विनाशित्वमात्मधर्मत्वं च प्रतिबिम्बावच्छिन्नत्वेनोपपादनीयम् आत्मरूपस्य ज्ञानस्य नित्यत्वाच् । विशिष्टे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध इति न्यायात् । अधाराधेयभावोऽपि खे खगोदय इतिवदुपपादनीयः वृत्तीनामात्मनि प्रतिविम्बे प्रमाणम् ।
तस्मिंश्च दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।
इमस्ताः प्रतिविम्बन्ति सरसीव तटद्रुमाः ॥
इति वासिष्ठम् । इति समासतो ज्ञानप्रक्रिया ॥
अत्र शास्त्रेऽनुक्ताः स्वाऽविरोधिनः शास्त्रान्तरीया अपि पदार्थाः ग्राह्याः सारादानं षट् पदवदिति सांख्यप्रवचनसूत्रात् । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट् पद इति स्मृतेश्च । एवे च प्रकृत्यादयः पदार्थाः संहतत्वपदार्थत्वजडत्वप्रतिक्षपरिणामित्वादिदोषैर्दुष्टत्वाद्धेयास्तेभ्योप्यधिकं हेयमाह ।
त्रिविधं दुःखमिति ॥ 24 ॥ आध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राध्यात्मिकं द्विविधं शरीरं मानसं च । तत्र शरीरं वातपित्तश्लेष्मणां वैषम्येणोत्पन्नं ज्वरातिसारादि । कामक्रोधलोभादिजन्यं मानसं मानुषमृगसर्पादिजन्यमाधिभौतिकं शीतोष्णवातवृष्टिजन्यमाधिदैविकम् । अनेन त्रिविधदुःखेनाभिभूतस्य तरति शोकमात्मविदिति श्रुत्वा आत्मनि जिज्ञासा जायते । यथा तृषितस्य पानीयपिपासा ।
कृतस्य तत्वनिरूपणस्य पुरुषार्थसम्बन्धं दर्शयति । एतत्परं याथार्थ्यम् एतज्ज्ञात्वा कृतकृत्यः
स्यान्न पुनस्त्रिविधदुःखेनाभिभूयते ॥ 25 ॥ एतद्याथार्थ्यं परं शास्त्रान्तरोक्तद्याथार्थ्यादुत्कृष्टं न्यायवैशेषिकोक्तयाथार्थ्यस्याष्टप्रकृत्यकथनादपूर्णत्वम् इदं तु तत्कथनेन पूर्णं श्रुतिसम्मतत्वाच्च परं सर्वेत्कृष्टमित्यर्थः । श्रुतिश्च गोपालतापनीये एकमेवाद्वितीयं ब्रह्मासीत् तस्मादव्यक्तादव्यक्तमेवाक्षरं तस्मान्महन्महतोहङ्कारस्ततः पञ्चतन्मात्राणि तेभ्यो भूतानि इति स्पष्टमेव सांख्ययोगोक्तमहदादिक्रमेण सृष्टिः श्रूयत इति । एतज्ज्ञात्वा आत्मानात्मविवेकसाक्षात्कारद्वारा कृतकृत्यः स्यान्निष्प्रयोजनः स्यादित्यर्थः । किं पुनस्तत्प्रयोजनं तत्राह । न पुनस्त्रिविधदुःखेनाभिभूयत इति । पूर्वोक्तत्रिविधदुःखेन न युज्यते दुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीत्यर्थः । ननु दुःखं तावत् त्रिविधम् अनागतं वर्तमानमतीतं चेति । सांख्ययोगवेदान्तानां सत्कार्यवादाश्रयणात् सर्वमेव कार्यमवस्थात्रयेण नित्यम् । अनागतो घटो वर्त्तमानो घटोऽतीतो घट इत्यवस्त्रात्रयेऽपि घटस्यावस्थाधर्मिणोऽनुगतप्रत्ययात् । प्रागभावप्रध्वंसयोश्चनङ्गीकारात् । न च तत्काले कथमभावप्रत्यय इति वाच्यम् वर्त्तमानप्रतियोगिकसामयिकात्यनन्ताभावेनैव तदुपपत्तेरिति । एवं चानागतातीतदुःखयोरभावेऽपि न पुरुषार्थः भोग्यदुःखाभावस्यैव पुरुषार्थत्वात् वर्तमानदुःखं च भोग्यमपि भोगेनैव नङ्क्ष्यतीति तदभावो न पुरुषार्थः पुरुषप्रयत्ननिरपेक्षत्वात् पुरुषप्रयत्नसापेक्षस्यैव पुरुषार्थत्वात् । तथा च कथं दुःखाभावस्य पुरुषार्थत्वमिति चेदुच्यते । अनागतदुःखस्य भोग्यहेतुतया तदभावस्य च पुरुषकृतिसाध्यतया पुरुषार्थत्वं दुःखहेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवदिति । तदुक्तं पतञ्जलिना । हेयं दुःखमनागतं विवेकख्यातिरवित्प्रवा हानोपाय इति सूत्रद्वयेन ।
सामख्यानां च सर्वात्मनामवैधर्म्याभेद एव तत्त्वमसिवाक्यार्थो नाविभागादिः तदज्ञानस्यैवाभिमाननिवर्त्तकत्वात् । तद्वाक्यस्य च श्वेतकेतोरनूचानत्वाद्यभिमानानिवृत्त्यर्थमेव प्रवृत्तेः तथा च लयावाशिष्टचित्सामान्यं तत्पदार्थं तदुक्तं विज्ञानाचार्यवर्यैरस्मदगुरुभिर्भाष्याद्यश्लोकेन ।
एको द्वितीय इति वेदवचांसि पुंसि
सर्वाभिमानविनिवर्तनतोस्य मुक्त्यै ।
वैधर्म्यलक्षणभिदा विरहं वदन्ति
नाखण्डतां ख इव धर्मशताविरोधात् ॥ इति ।
तथा च प्रकृत्यादिविविक्तसर्वात्मनामवैधर्म्यभेदसाक्षात्कारात् कर्तृत्वाद्याभिमानावृत्तौ तत्कार्यरागद्वेषधर्माद्यनुत्पादात् पूर्वोत्पन्नकर्मणां(1) चाविद्यारागादिसहकार्यच्छेदेन जन्माद्यनारम्भकत्वाद्भोगेन प्रारब्धसमाप्त्यनन्तरं पुनर्जन्माभावेन भोगापवर्गसमाप्त्या चान्तःकरणस्य नाशेनैव त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीति परमकृत्यता । इदं चात्रावधेयम् । गुरूपदेशशास्त्राभ्यामुत्पन्नमपि ज्ञानमपरोक्षत्वायाभ्यसनीयमेव । तेन विनाऽपरोक्षाविद्यानिवृत्त्यसम्भवात्(2) । अपरोक्ष्यभ्रमे हि समानविशेष्यकाऽपरोक्ष्यविपरीतनिश्चयस्यैव निवर्तकत्वावधारणात् तदुक्तं विसिष्ठे ।
(1) पूर्वोक्तकर्मणां–पा0 1 पु0 ।
(2) अपरोक्षज्ञानं विना परोक्ष्याविद्यानिवृत्त्यसम्भवात् –पा0 1 पु0 ।
अपि विज्ञाततत्त्वेन नेत्यभ्यस्यमिदं सदा ।
न नाममात्रात् कतकफलमम्बुप्रसाधकम् ॥
अन्तर्ध्वान्ताविनाशया शाब्दबोधो न हि क्षमः ।
न नश्यति तमो राम कृतया दीपवार्तया ॥ इति ।
एवमभ्यासात् कोमलकण्टकन्यायेन ज्ञाने जाते योगरूढ इत्युच्यते योगी अस्मात् पूर्वस्तु युञ्जनः ततः परमहंसाश्रमेण विक्षेपकाणि कर्माणि त्यक्त्वा ज्ञाननिष्ठापर्यन्तमभ्यसेत् । सवासनाविद्योच्छेदो ज्ञाननिष्ठा । ततः सयुक्तो जीवन्मुक्तो गुणतीत इति चोच्यते । गुणाभिमानशून्यत्वमेव गुणातीतत्वं जीवन्मुक्तस्य च लक्षणम् ।
नोदेति नास्तमायति सुखदुःखे मुखप्रभा ।
यथापूर्वस्थिर्यस्य स जावन्मुक्त उच्यते ॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदस्वच्छः स जीवन्मुक्त उच्यते ॥
एतावदेव खलु लिङ्गमलिङ्गमूर्त्तेः
संशान्तसंसृतिचिरभ्रमनिर्वृतस्य ।
तज्ज्ञस्य यन्मदनकोपविषादमोह-
लोभपादामनुदिनं निपुणं तनुत्वम् ॥ इति ।
अन्यच्चात्र सांख्यविद्यायांभगवद्भक्तेरेवासाधारणकारणत्वं ज्ञेयम् अन्यथा देवकृतविघ्नैर्योगध्वंसो* भवत्वेव यथोक्तं भागवते ।
* योगभ्रंशो–पा 0 1 पु 0 ।
योऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरूह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥
श्रेयः श्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यान्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥ इति ।
इदानींतनाः केचन वैष्णवा एतादृशवाक्यैर्भगवदभक्तिं पुरस्कृत्य सामान्यतो ज्ञानमार्गं खण्डयति ते तु विद्याविवेकानभिज्ञाः स्थूलमतय एव । नारदीये च सांख्यविद्यकारे ।
मायाप्रवर्तके विष्णौ कृता भक्तिर्दृढा नृणाम् ।
सुखेन प्रकृतेरन्यं स्वं दर्शयति दीपवत् ॥
चित्ते हि स्ववशे योगः सिद्ध्येत् तत्तु जगत्पतिम् ।
कोऽनाश्रित्य निगृह्णीयादव्यक्तमतिचञ्चलम् ॥
तस्मान्मुमुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः ।
चित्तेन चिन्तयोनेन वञ्च्यते ध्रुवमन्यथा ॥ इति ।
गीतायां चतुर्दशाध्याये ।
मा च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैव ब्रह्मभूयाय कल्प्यते ॥ इति ।
ब्रह्मभूपाय पूर्णत्वेनाभिव्यक्तये गुणाभिधानं तत्तदवच्छिन्नत्वेनैवाभिव्यज्यते (?) तस्माद् भगवद्भक्तिरेव मुख्यं साधनं सांख्ययोगविद्यायामिति सिद्धम् ।
कृतं परोपकाराय तत्त्वयाथार्थ्यदीपनम् ।
तेन मे प्रीयतां कृष्णाः परमात्मा जगद्गुरूः ॥
स्वतन्त्रत्वात् स एवाकः कर्ता गोपालबालकः ।
श्रीकृष्णाख्यो महेशानो दारूयन्त्रसमस्त्वहम् ॥
पुराणार्थं बुभुत्सूनां *** च मयेरितम् ।
तेभ्यः समर्पितं चैतत् तेनापि प्रीयतां हरिः ॥
** इति श्रीभावाविश्वनाथदीक्षितसूनुभावागणेशविरचितं तत्त्वयाथार्थ्यदीपानं समप्ताम् ॥**

** ————————————————————————-**

]