विषय-प्रस्तुतिः

शैली-क्लेशः

दीर्घ-समास-घटनाम् इच्छन्ति सङ्क्षेपाय, पारिभाषिक-शब्दांश् च प्रयुञ्जते।
तत्र तत्र भयं विना समास-विभागेन, venn-चित्र-रचनेन, propositional/ first order logic प्रयोगेण, प्रश्नैश् चावगन्तव्यम्।
क्वचित् तु तद्-आग्रहा एवासमञ्जसा इति निर्णेतुम् उचितम्।

लाघवं गौरवं च

सर्वत्र शास्त्रे लाघवम् इष्यते।
तत्त्व-गतं लाघवम् एष्टव्यम् एव - विशिष्य कार्य-कारणभावादौ।
Occam’s razor इति पाश्चात्यैर् अपि प्रशस्तम्।

किञ्च, प्रस्तुतौ लक्षण-वचने, अवच्छेद-वचने वाऽपि लाघवं स्याद्
इत्य् आग्रहो दोषाय।
तथा सति, अवच्छेदादि-शब्द-जालं त्यक्त्वा propositional logic भाषां गृहीतव्यम्।
समान-तत्त्वानां नानाविध-वर्णनं - गौरवेणापि वर्णनम् -
स्पष्टता-प्रदम् भवतीति गुण एव।

लक्षणादि-गत-गौरवं तद्-अवगमनाय +अवगमनीय-तत्त्व-गणनया मीयेत।

क्रमः

‘उद्देशो लक्षणं परीक्षा च’ इति क्रम उच्यते।
नाम्ना पदार्थ-संकीर्तनम् उद्देशः ।

लक्षणम्

अव्याप्ति-अतिव्याप्ति-असंभव-दोषत्रय-शून्यत्वे सति असाधारण-धर्मवत्त्वं लक्षणस्य लक्षणम्।
यथा गोषु सास्नादिमत्त्वम्।

उपलक्षणम् अव्याप्तिदोषयुक्तम्।

दोषाः

अतिव्याप्तिः - अलक्ष्यस्य ग्रहणम्।
अव्याप्तिः - कक्ष्यस्याग्रहणम्।
असम्भव इति दोषः - कस्यापि लक्ष्यस्याग्रहणम्।
यथा - गवि नास्ति एकशफत्वम्।

अन्योन्याश्रयः इत्य् अपरो दोषः। एतद् अन्तरा, शारीरं बुद्धिगतं चा गौरवम् अपि दोषम् ऊचुः।

परिभाषा, पर्यायाः

तद्वत्त्वं तद् एवेति न्यायः। कम्बुग्रीवादिमत्त्वं कम्बुग्रीवाद्य् एव।

सम्बन्ध-पत्त्रे व्याख्यातम् पृथक् -
अनुयोगि-प्रतियोगि-सम्बन्धः, अवच्छेदकावच्छिन्न-सम्बन्धः।

तद्व्याप्यत्वे सति तद्व्यापकत्वमेव समनियतत्वं, समव्याप्तिर् इति वा।

सिद्धिः स्थितिः प्रतिपत्तिश् च । एवं प्रसिद्धिर् अपि।

अवच्छेदकता-नियमाः

लघुधर्मैकावच्छेदकताग्रहः

गुरुधर्माभावः प्रसिद्धः। गुरुधर्मावच्छिन्न-प्रतियोगिताकाभावः अप्रसिद्धः।
घटाभावः, घटत्वावच्छिन्न-प्रतियोगिताकाभावः, सदा प्रसिद्धः। कम्बुग्रीवादिमत्त्वावच्छिन्न-प्रतियोगिताकाभावोऽपि स्वरूपतः घटाभाव एव। परं तु स च अप्रसिद्धः। कुतः? घटत्वापेक्षया कम्बुग्रीवादिमत्त्वस्य गुरुधर्मत्वात्।
अतः गुरुधर्मत्वं प्रतियोगितावच्छेदकं न भवति।
न भवति चेत्, तदवच्छिन्न-प्रतियोगिताकाभावोऽपि अप्रसिद्धो भवति। इत्यभिप्रायः तत्रोक्तः।

इति कथयन्ति।
लघुधर्मसमनियतस्य गुरुधर्मस्य प्रतियोगितावच्छेदकत्वं नास्तीति तेषां मतम्।
तत्र कारणम् एवं वदन्ति—

‘यदि धर्मयोर् द्वयोः समनियतयोः अभावप्रतियोगितावच्छेदकत्वम् अङ्गीक्रियते, तर्हि अभावबहुत्त्वं स्यात्’

इति। तत्र दृष्टान्तः—

घटाभावः वर्तते।
तत्र घटाभावीयप्रतियोगितावच्छेदकं भवति घटत्वम्।
घटत्वसमनियतश्च धर्मः कम्बुग्रीवादिमत्त्वम्। एकस्यैवाभावस्य… एकस्मिन्नेवाभावे प्रतियोगितावच्छेदकम् यदि घटत्वं कम्बुग्रीवादिमत्त्वमपि भवति,
तर्हि घटत्वावच्छिन्नप्रतियोगिताकः अभावः एकः,
कम्बुग्रीवादिमत्त्वावच्छिन्नश्च अपरः इति अभावद्वैविध्यं स्यात्।
तस्मात् किं वक्तव्यम्?
तत्र एकस्यैव धर्मस्य — समनियतयोः धर्मयोर्मध्ये एकस्यैव धर्मस्य अभावप्रतियोगितावच्छेदकत्वम् इति वक्तव्यम्।
तर्हि कथं वा नियमः?
कम्बुग्रीवादिमत्त्वस्य प्रतियोगितावच्छेदकत्वं वा घटत्वस्य प्रतियोगितावच्छेदकत्वं वा इति?
यस्य कस्यापि वक्तुं शक्यते यद्यपि,
तथापि तयोर्मध्ये घटत्वस्य लघुत्वात्—कम्बुग्रीवादिमत्त्वं शरीरकृतगौरवम् अस्ति तत्र कम्बुग्रीवादिमत्त्वे,
घटत्वे तु उपस्थितिकृतलाघवं शरीरकृतलाघवं च वर्तते इति
तयोर्मध्ये, यदा च

समनियतयोः धर्मयोर्मध्ये एकस्यैव प्रतियोगितावच्छेदकत्वं वक्तव्यम्
अभावस्य एकत्वपरिरक्षणार्थम्

इति उच्यते,
तदा तयोर् मध्ये “कस्य?” इति प्रश्ने—
तयोर्मध्ये यस्य लाघवं वर्तते,
तस्यैव प्रतियोगितावच्छेदकत्वम्

इति वदन्ति। अनेकधर्मावच्छेदकत्वे ऽभाववैविध्यम् भवतीत्याद्य् अन्याय्यम् एव।

यदि लाघवापेक्षयैवेष आग्रहः -
पूर्वम् एवाङ्गीकृतं धर्म-गौरवम् अतिरिच्य
न किञ्चन दोषान्तरम् अङ्गीकर्तुं लभ्यते।
गुरुधर्मेण +अभावप्रतियोग्य्-अवच्छेद-निषेधेऽपि बीजं गौरवम् एवेति - न तावद् दोष-पार्थक्यं विभाति खलु।