कथा / वाग्व्यवहारः (Types of Discourse)
कथा त्रिविधा भवति —
- वादः- तत्त्वबुभुत्सूनां कथोपकथनम्। अयं केवलं निर्णयार्थः सत्यशोधनार्थं च क्रियते।
- जल्पः- विजिगीषूणां कथोपकथनम्। अत्र निर्णयातिरिक्ता प्रवृत्तिः भवति, केवलं छल-जाति-उत्तरादिभिः स्वसिद्धान्तस्य रक्षणं प्रतिपादनं च उद्देश्यं भवति।
- वितण्डा- वैतण्डिकस्य कथोपकथनम्। अत्र केवलं परपक्षस्य खण्डनं क्रियते, स्वपक्षस्थापना न क्रियते (परवचनखण्डनमात्रः निर्णयवर्जितः वाग्व्यवहारः)।
चर्चायोग्य-पुरस्कारः
संयतैः सत्पात्रैस् सहैव वादः। स च पूर्वपक्षकथनपूर्वक एव स्यात् सुव्यवस्थितः।
अयोग्यैस् सह वादो हेयः, वितण्डाऽपि बलिष्ठकारणेनैव कार्या।
किञ्च तृतीयेषु श्रावकेषु प्रभावनीयेषु सत्सु प्रतिवक्तव्यम् कदाचित्।
स्वीयार्थप्रतिघाते धर्मप्रतिघाते च तच्छक्तिं प्रवृत्तिं च परिगणय्यैव तत्र निश्चेतव्यम्।
वादपात्राणि (Participants of a Debate)
वादे मुख्यरूपेण त्रयः पुरुषाः भागं गृह्णन्ति —
- वादी- स्वपक्षस्य स्थापकः प्रवेदिता च।
- प्रतिवादी- वादिनः पक्षस्य खण्डनकर्ता उत्तरदाता च।
- मध्यस्थः- वादस्य नियन्ता, सभ्यानां प्रतिनिधीभूत्वा निर्णयकर्ता च।
पात्राभिज्ञानम्
- The right intention: Agreement on essential truth.
- I like to debate to reach an agreement on the essential truth being discussed, rather than to nitpick on the unimportant peripherals, just show my smarts or escape the need to admit defeat.
- Flaws of intention listed in the Sulabhā-janaka-saMvAda in (Śāntiparva / Book 12, Chapter 308) SG15.
कुवादि-लक्षणम्
- पूर्वपक्षकथने यः प्रमादवान्। Consistently ignores or misrepresents opponent’s position. (eg: erecting and taking down strawmen)
- यश्च+अव्यग्रतया यथार्थवचने प्रामाणिके ऽसमर्थः, स अयोग्यः।
- makes unsound arguments
- starts from false premises
- यो हि वादे ऽपिक्षिते संयमे स्युव्यवस्थिततायां च न समर्थः, स अयोग्यः।
- resorts to to venting/ rhetoric
Reflection on perceptor
It’s of course not 100% fool-proof, but as a common heuristic people judge the perceptor by the quality of the disciple (“शिष्यपापं गुरोर् अपि”).
Eg. One would be doing chinnajIyar disservice if one’s defence of his statements were sub-standard. (Same holds true for chinnajIyar vis a vis rAmAnuja, and rAmAnuja vis a vis ALvArs).
वादे संशयादि-पूर्वाङ्गानि (Preliminaries of Debate)
- संशयः- अनवधारणज्ञानम्। वादप्रवृत्तेः प्रथमं सोपानम्।
- प्रयोजनम्- “किं निमित्तं संशयः?” अर्थात् यमर्थमधिकृत्य पुरुषः प्रवर्तेत तत् प्रयोजनम्।
- दृष्टान्तः- यत्र वादि-प्रतिवादिनोः बुद्धिसादृश्यं वर्तते सः दृष्टान्तः (यथा— महानसः)।
प्रमाणानि
ततः, सर्व-पाक्षिकः प्रमाणेष्व् अङ्गीकारोऽपि स्यात्।
एतद् विना वादो न प्रवर्तेत।
सिद्धान्ताः अभ्युपगमाश्च (Tenets and Hypotheses)
- सिद्धान्तः- प्रामाणिकपरीक्षया सिद्धः निर्णयः सिद्धान्तः।
- प्रतितन्त्रसिद्धान्तः- यः निर्णयः स्वशास्त्रे स्वीकृतः, परन्तु अन्यशास्त्रेषु न अङ्गीकृतः (यथा— मीमांसकानां शब्दस्य नित्यत्ववादः नैयायिकैः नाङ्गीक्रियते)।
- सार्वत्रिकसिद्धान्तः (सर्वतन्त्रसिद्धान्तः)- यः सर्वैः तन्त्रैः (शास्त्रैः) अविप्रतिपन्नः स्वीकृतः (यथा— ‘घटः चक्षुर्ग्राह्यः’ इति)।
- अभ्युपगमः- सिद्धान्ते समयः (केषाञ्चित् नियमानाम् अथवा प्रतिज्ञानां समयविशेषे अस्थायी अङ्गीकारः)।
- उदाहरणम्- बौद्धैः वादे ‘द्व्यवयववादः’ स्वीकृतः, तार्किकैः (नैयायिकैः) च ‘पञ्चावयववादः’ स्वीकृतः।
पूर्वपक्षाभिज्ञानम्
- Adapt the principle of charity. (Wiki)
- Nassim’s summary: “You can attack what a person *said* or what the person *meant*. The former is more sensational. The mark of a charlatan is to defend his position or attack a critic by focusing on *some* of his/her specific statement (“look at what he said”) rather than attacking his position (“look at what he means”), the latter of which requires a broader knowledge of the proposed idea.”
तात्पर्य-निर्णयो ऽन्यत्र व्याख्यातः - TW।
विमर्शः
- ऊहः (तर्कः / अध्याहारः)- अविज्ञाततत्त्वे अर्थे कारणोपपत्तितस् तत्त्वज्ञानार्थम् ऊहः तर्कः।
- निर्णयः- विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः (अन्तिमः सिद्धः विचारः)।
वादे दोषाः (Flaws and Fallacies)
- हेत्वाभासः- दुष्टहेतवः हेत्वाभासाः (यथा— सव्यभिचार-विरुद्ध-सत्प्रतिपक्षादयः)। एते वादे मुख्यदोषाः भवन्ति।
- छलम्- परवचनस्य अर्थान्तरकल्पनेन खण्डनम् (वचनशैलिखण्डनम्)।
- जातिः- साधर्म्य-वैधर्म्याभ्यां प्रत्यवस्थानं जातिः (असतां दोषाणां कल्पना)।
- निग्रहस्थानम्- पराजयहेतुः निग्रहस्थानम्। प्रतिभान्यतायाम् असमर्थतायां च सत्यां पराजयप्राप्तेः सूचकानि तन्त्राणि लक्षणानि च एतानि भवन्ति।
- निग्रहस्थानस्य स्वरूपम्- मध्यस्थेन हेतुसमेतम् पराजयवचनम् (यथा— “गृहीतोऽसि!")।
- अभावे पदवचनम् (स्वव्याघातः)- “अष्टमः पदार्थो नास्ति” इति वचनेनैव स्ववचनस्य व्याघातः भवति। यतो हि ‘अष्टमः पदार्थः’ इति शब्दप्रयोगं कृत्वा तस्य अस्तित्वं निषिध्यते, तर्हि सः शब्दः बुद्धौ स्वीकृतः एवेति विरोधः।
- Avoid fallacies in argument. (Wiki list)
सत्तर्काङ्गानि
“पर्वतो वह्निमान्, धूमात्” इति प्रयोगे;
“धूमो ऽस्तु, वह्निर् मास्तु” इत्य्-अप्रयोजक-शङ्कायां कृतायां,
“यदि वह्निर् न स्यात्,
तर्हि धूमो ऽपि न स्यात्”
इत्य् अनुकूलस् तर्कः
अप्रयोजक-शङ्का-वारणाय कर्तव्यः ।
अस्य तर्कस्य +अङ्गानि पञ्च –
१. आपाद्यापादकयोर् व्याप्तिः ।
२. आपाद्यस्य +++(परापेक्षया)+++ विपर्यये पर्यवसानम् ।
३. आपाद्यस्य परानिष्टत्वम् ।
४. अस्य तर्कस्य पर-पक्षासाधकत्वम् ।
५. अस्य तर्कस्य प्रति-तर्केणापराहतिश् चेति ॥
अत्रैव “धूमवान्, वह्नेः” इति प्रयोगे,
“वह्निर् अस्तु, धूमो मा ऽस्तु” इत्य्-अप्रयोजक-शङ्कायाम्,
“यदि धूमो न स्यात्, तर्हि वह्निरपि न स्यात्” इति तर्को वक्तव्यः ।
नैतत् संभवति, अयो-गोलके धूमाभावे ऽपि वह्नेर् दर्शनात् ।
अतो ऽत्रापाद्यापादकयोर् व्याप्तिर् एव नास्तीत्य् अयम् दुस्तर्कः ।
वाद-सौष्ठवे प्रयासः
- पूर्वपक्ष-कथन-पूर्वकमेव स्वपक्षस्य कथनम्
- परवादे दोषाणां ज्ञापनम्
इत्थं वादे वर्तमानाभ्याम् उभाभ्याम् अपि कार्यम्।
Correct delivery निर्दुष्ट-कथनम्
- स्वपक्षस्य बिन्दवः सुसङ्ख्याताः क्रमबद्धाः सप्रयोजनाः स्युः। Focus on essential things, rather than peripherals.
- Avoid flaws of expression.
- Sulabhā-janaka-saMvAda in (Śāntiparva / Book 12, Chapter 308) SG15.
- नातिह्रस्वः, नातिदीर्घः।
- यथासम्भवम् असौम्यतया न वाच्यम्।
- Sulabhā-janaka-saMvAda in (Śāntiparva / Book 12, Chapter 308) SG15.
Emotion control
पराजयभीतिः, पराजयाभासभीतिर् वा न स्यात् - किञ्च बहुधा क्षोभयति मनः सा। The truth will win in the end, and it should ideally be clear to all participants at the end of the debate.
Allowing saving of face
The ground rules established should be such that focus is sharply on the topics being discussed, and the ground rules - this makes discussion a relatively inoffensive impersonal mechanical process.
Even when you win a debate clearly, allow for face saving by conceding that the argument was good and that it is natural to be misled.
वादायोग्यैश् चर्चा-क्रमः
पक्षे ऽयोग्येभ्यस् तत्पक्षश्रवणमात्रं युक्तम्, किञ्च तत्र दोषदर्शनं वा सश्रमं स्वपक्षकथनं वा व्यर्थम्। अन्यथा मनस्येव नेपथे वाव्यग्रेण खण्डयित्वोपेक्षणीयास् ते।
पक्षे श्रावकान् उद्दिश्य सारः प्रस्तोतव्यः, उपहासो वाऽपि कार्यः।
Tricks for dealing with mala-fide debates or propaganda arguments from pretentious dunces: KV.